वाचनम्
भागसूचना
- हनुमान् जी का श्रीरामके प्रभावका वर्णन करते हुए रावणको समझाना
विश्वास-प्रस्तुतिः
तं समीक्ष्य महासत्त्वं सत्त्ववान् हरिसत्तमः ।
वाक्यमर्थवदव्यग्रस्तमुवाच दशाननम् ॥ १ ॥
मूलम्
तं समीक्ष्य महासत्त्वं सत्त्ववान् हरिसत्तमः ।
वाक्यमर्थवदव्यग्रस्तमुवाच दशाननम् ॥ १ ॥
अनुवाद (हिन्दी)
महाबली दशमुख रावणकी ओर देखते हुए शक्तिशाली वानरशिरोमणि हनुमान् ने शान्तभावसे यह अर्थयुक्त बात कही— ॥ १ ॥
विश्वास-प्रस्तुतिः
अहं सुग्रीवसन्देशादिह प्राप्तस्तवान्तिके ।
राक्षसेश हरीशस्त्वां भ्राता कुशलमब्रवीत् ॥ २ ॥
मूलम्
अहं सुग्रीवसन्देशादिह प्राप्तस्तवान्तिके ।
राक्षसेश हरीशस्त्वां भ्राता कुशलमब्रवीत् ॥ २ ॥
अनुवाद (हिन्दी)
‘राक्षसराज! मैं सुग्रीवका संदेश लेकर यहाँ तुम्हारे पास आया हूँ । वानरराज सुग्रीव तुम्हारे भाई हैं । इसी नाते उन्होंने तुम्हारा कुशल-समाचार पूछा है ॥ २ ॥
विश्वास-प्रस्तुतिः
भ्रातुः श्रृणु समादेशं सुग्रीवस्य महात्मनः ।
धर्मार्थसहितं वाक्यमिह चामुत्र च क्षमम् ॥ ३ ॥
मूलम्
भ्रातुः श्रृणु समादेशं सुग्रीवस्य महात्मनः ।
धर्मार्थसहितं वाक्यमिह चामुत्र च क्षमम् ॥ ३ ॥
अनुवाद (हिन्दी)
‘अब तुम अपने भाई महात्मा सुग्रीवका संदेश—धर्म और अर्थयुक्त वचन, जो इहलोक और परलोकमें भी लाभदायक है, सुनो ॥ ३ ॥
विश्वास-प्रस्तुतिः
राजा दशरथो नाम रथकुञ्जरवाजिमान् ।
पितेव बन्धुर्लोकस्य सुरेश्वरसमद्युतिः ॥ ४ ॥
मूलम्
राजा दशरथो नाम रथकुञ्जरवाजिमान् ।
पितेव बन्धुर्लोकस्य सुरेश्वरसमद्युतिः ॥ ४ ॥
अनुवाद (हिन्दी)
‘अभी हालमें ही दशरथनामसे प्रसिद्ध एक राजा हो गये हैं, जो पिताकी भाँति प्रजाके हितैषी, इन्द्रके समान तेजस्वी तथा रथ, हाथी, घोड़े आदिसे सम्पन्न थे ॥ ४ ॥
विश्वास-प्रस्तुतिः
ज्येष्ठस्तस्य महाबाहुः पुत्रः प्रियतरः प्रभुः ।
पितुर्निदेशान्निष्क्रान्तः प्रविष्टो दण्डकावनम् ॥ ५ ॥
लक्ष्मणेन सह भ्राता सीतया सह भार्यया ।
रामो नाम महातेजा धर्म्यं पन्थानमाश्रितः ॥ ६ ॥

‘उनके परम प्रिय ज्येष्ठ पुत्र महातेजस्वी, प्रभावशाली महाबाहु श्रीरामचन्द्रजी पिताकी आज्ञासे धर्ममार्गका आश्रय लेकर अपनी पत्नी सीता और भाई लक्ष्मणके साथ दण्डकारण्यमें आये थे ॥ ५-६ ॥
विश्वास-प्रस्तुतिः
तस्य भार्या जनस्थाने भ्रष्टा सीतेति विश्रुता ।
वैदेहस्य सुता राज्ञो जनकस्य महात्मनः ॥ ७ ॥
मूलम्
तस्य भार्या जनस्थाने भ्रष्टा सीतेति विश्रुता ।
वैदेहस्य सुता राज्ञो जनकस्य महात्मनः ॥ ७ ॥
अनुवाद (हिन्दी)
‘सीता विदेहदेशके राजा महात्मा जनककी पुत्री हैं । जनस्थानमें आनेपर श्रीरामपत्नी सीता कहीं खो गयी हैं ॥
विश्वास-प्रस्तुतिः
मार्गमाणस्तु तां देवीं राजपुत्रः सहानुजः ।
ऋष्यमूकमनुप्राप्तः सुग्रीवेण च सङ्गतः ॥ ८ ॥
मूलम्
मार्गमाणस्तु तां देवीं राजपुत्रः सहानुजः ।
ऋष्यमूकमनुप्राप्तः सुग्रीवेण च सङ्गतः ॥ ८ ॥
अनुवाद (हिन्दी)
‘राजकुमार श्रीराम अपने भाईके साथ उन्हीं सीतादेवीकी खोज करते हुए ऋष्यमूक पर्वतपर आये और सुग्रीवसे मिले ॥ ८ ॥
विश्वास-प्रस्तुतिः
तस्य तेन प्रतिज्ञातं सीतायाः परिमार्गणम् ।
सुग्रीवस्यापि रामेण हरिराज्यं निवेदितुम् ॥ ९ ॥
मूलम्
तस्य तेन प्रतिज्ञातं सीतायाः परिमार्गणम् ।
सुग्रीवस्यापि रामेण हरिराज्यं निवेदितुम् ॥ ९ ॥
अनुवाद (हिन्दी)
‘सुग्रीवने उनसे सीताको ढूँढ़ निकालनेकी प्रतिज्ञा की और श्रीरामने सुग्रीवको वानरोंका राज्य दिलानेका वचन दिया ॥ ९ ॥
विश्वास-प्रस्तुतिः
ततस्तेन मृधे हत्वा राजपुत्रेण वालिनम् ।
सुग्रीवः स्थापितो राज्ये हर्यृक्षाणां गणेश्वरः ॥ १० ॥
मूलम्
ततस्तेन मृधे हत्वा राजपुत्रेण वालिनम् ।
सुग्रीवः स्थापितो राज्ये हर्यृक्षाणां गणेश्वरः ॥ १० ॥
अनुवाद (हिन्दी)
‘तत्पश्चात् राजकुमार श्रीरामचन्द्रजीने युद्धमें वालीको मारकर सुग्रीवको किष्किन्धाके राज्यपर स्थापित कर दिया । इस समय सुग्रीव वानरों और भालुओंके समुदायके स्वामी हैं ॥ १० ॥
विश्वास-प्रस्तुतिः
त्वया विज्ञातपूर्वश्च वाली वानरपुङ्गवः ।
स तेन निहतः सङ्ख्ये शरेणैकेन वानरः ॥ ११ ॥
मूलम्
त्वया विज्ञातपूर्वश्च वाली वानरपुङ्गवः ।
स तेन निहतः सङ्ख्ये शरेणैकेन वानरः ॥ ११ ॥
अनुवाद (हिन्दी)
‘वानरराज वालीको तो तुम पहलेसे ही जानते हो । उस वानरवीरको युद्धभूमिमें श्रीरामने एक ही बाणसे मार गिराया था ॥ ११ ॥
विश्वास-प्रस्तुतिः
स सीतामार्गणे व्यग्रः सुग्रीवः सत्यसङ्गरः ।
हरीन् सम्प्रेषयामास दिशः सर्वा हरीश्वरः ॥ १२ ॥
मूलम्
स सीतामार्गणे व्यग्रः सुग्रीवः सत्यसङ्गरः ।
हरीन् सम्प्रेषयामास दिशः सर्वा हरीश्वरः ॥ १२ ॥
अनुवाद (हिन्दी)
‘अब सत्यप्रतिज्ञ सुग्रीव सीताको खोज निकालनेके लिये व्यग्र हो उठे हैं । उन वानरराजने समस्त दिशाओंमें वानरोंको भेजा है ॥ १२ ॥
विश्वास-प्रस्तुतिः
तां हरीणां सहस्राणि शतानि नियुतानि च ।
दिक्षु सर्वासु मार्गन्ते ह्यधश्चोपरि चाम्बरे ॥ १३ ॥
मूलम्
तां हरीणां सहस्राणि शतानि नियुतानि च ।
दिक्षु सर्वासु मार्गन्ते ह्यधश्चोपरि चाम्बरे ॥ १३ ॥
अनुवाद (हिन्दी)
‘इस समय सैकड़ों, हजारों और लाखों वानर सम्पूर्ण दिशाओं तथा आकाश और पातालमें भी सीताजीकी खोज कर रहे हैं ॥ १३ ॥
विश्वास-प्रस्तुतिः
वैनतेयसमाः केचित् केचित् तत्रानिलोपमाः ।
असङ्गगतयः शीघ्रा हरिवीरा महाबलाः ॥ १४ ॥
मूलम्
वैनतेयसमाः केचित् केचित् तत्रानिलोपमाः ।
असङ्गगतयः शीघ्रा हरिवीरा महाबलाः ॥ १४ ॥
अनुवाद (हिन्दी)
‘उन वानरवीरोंमेंसे कोई गरुड़के समान वेगवान् हैं तो कोई वायुके समान । उनकी गति कहीं नहीं रुकती । वे कपिवीर शीघ्रगामी और महान् बली हैं ॥ १४ ॥
विश्वास-प्रस्तुतिः
अहं तु हनुमान्नाम मारुतस्यौरसः सुतः ।
सीतायास्तु कृते तूर्णं शतयोजनमायतम् ॥ १५ ॥
समुद्रं लङ्घयित्वैव त्वां दिदृक्षुरिहागतः ।
भ्रमता च मया दृष्टा गृहे ते जनकात्मजा ॥ १६ ॥
मूलम्
अहं तु हनुमान्नाम मारुतस्यौरसः सुतः ।
सीतायास्तु कृते तूर्णं शतयोजनमायतम् ॥ १५ ॥
समुद्रं लङ्घयित्वैव त्वां दिदृक्षुरिहागतः ।
भ्रमता च मया दृष्टा गृहे ते जनकात्मजा ॥ १६ ॥
अनुवाद (हिन्दी)
‘मेरा नाम हनुमान् है । मैं वायुदेवताका औरस पुत्र हूँ । सीताका पता लगाने और तुमसे मिलनेके लिये सौ योजनविस्तृत समुद्रको लाँघकर तीव्र गतिसे यहाँ आया हूँ । घूमते-घूमते तुम्हारे अन्तःपुरमें मैंने जनकनन्दिनी सीताको देखा है ॥ १५-१६ ॥
विश्वास-प्रस्तुतिः
तद् भवान् दृष्टधर्मार्थस्तपःकृतपरिग्रहः ।
परदारान् महाप्राज्ञ नोपरोद्धुं त्वमर्हसि ॥ १७ ॥
मूलम्
तद् भवान् दृष्टधर्मार्थस्तपःकृतपरिग्रहः ।
परदारान् महाप्राज्ञ नोपरोद्धुं त्वमर्हसि ॥ १७ ॥
अनुवाद (हिन्दी)
‘महामते! तुम धर्म और अर्थके तत्त्वको जानते हो । तुमने बड़े भारी तपका संग्रह किया है । अतः दूसरेकी स्त्रीको अपने घरमें रोक रखना तुम्हारे लिये कदापि उचित नहीं है ॥ १७ ॥
विश्वास-प्रस्तुतिः
नहि धर्मविरुद्धेषु बह्वपायेषु कर्मसु ।
मूलघातिषु सज्जन्ते बुद्धिमन्तो भवद्विधाः ॥ १८ ॥
मूलम्
नहि धर्मविरुद्धेषु बह्वपायेषु कर्मसु ।
मूलघातिषु सज्जन्ते बुद्धिमन्तो भवद्विधाः ॥ १८ ॥
अनुवाद (हिन्दी)
‘धर्मविरुद्ध कार्योंमें बहुत-से अनर्थ भरे रहते हैं । वे कर्ताका जड़मूलसे नाश कर डालते हैं । अतः तुम-जैसे बुद्धिमान् पुरुष ऐसे कार्योंमें नहीं प्रवृत्त होते ॥ १८ ॥
विश्वास-प्रस्तुतिः
कश्च लक्ष्मणमुक्तानां रामकोपानुवर्तिनाम् ।
शराणामग्रतः स्थातुं शक्तो देवासुरेष्वपि ॥ १९ ॥
मूलम्
कश्च लक्ष्मणमुक्तानां रामकोपानुवर्तिनाम् ।
शराणामग्रतः स्थातुं शक्तो देवासुरेष्वपि ॥ १९ ॥
अनुवाद (हिन्दी)
‘देवताओं और असुरोंमें भी कौन ऐसा वीर है, जो श्रीरामचन्द्रजीके क्रोध करनेके पश्चात् लक्ष्मणके छोड़े हुए बाणोंके सामने ठहर सके ॥ १९ ॥
विश्वास-प्रस्तुतिः
न चापि त्रिषु लोकेषु राजन् विद्येत कश्चन ।
राघवस्य व्यलीकं यः कृत्वा सुखमवाप्नुयात् ॥ २० ॥
मूलम्
न चापि त्रिषु लोकेषु राजन् विद्येत कश्चन ।
राघवस्य व्यलीकं यः कृत्वा सुखमवाप्नुयात् ॥ २० ॥
अनुवाद (हिन्दी)
‘राजन्! तीनों लोकोंमें एक भी ऐसा प्राणी नहीं है, जो भगवान् श्रीरामका अपराध करके सुखी रह सके ॥ २० ॥
विश्वास-प्रस्तुतिः
तत् त्रिकालहितं वाक्यं धर्म्यमर्थानुयायि च ।
मन्यस्व नरदेवाय जानकी प्रतिदीयताम् ॥ २१ ॥
मूलम्
तत् त्रिकालहितं वाक्यं धर्म्यमर्थानुयायि च ।
मन्यस्व नरदेवाय जानकी प्रतिदीयताम् ॥ २१ ॥
अनुवाद (हिन्दी)
‘इसलिये मेरी धर्म और अर्थके अनुकूल बात, जो तीनों कालोंमें हितकर है, मान लो और जानकीजीको श्रीरामचन्द्रजीके पास लौटा दो ॥ २१ ॥
विश्वास-प्रस्तुतिः
दृष्टा हीयं मया देवी लब्धं यदिह दुर्लभम् ।
उत्तरं कर्म यच्छेषं निमित्तं तत्र राघवः ॥ २२ ॥
मूलम्
दृष्टा हीयं मया देवी लब्धं यदिह दुर्लभम् ।
उत्तरं कर्म यच्छेषं निमित्तं तत्र राघवः ॥ २२ ॥
अनुवाद (हिन्दी)
‘मैंने इन देवी सीताका दर्शन कर लिया । जो दुर्लभ वस्तु थी, उसे यहाँ पा लिया । इसके बाद जो कार्य शेष है, उसके साधनमें श्रीरघुनाथजी ही निमित्त हैं ॥ २२ ॥
विश्वास-प्रस्तुतिः
लक्षितेयं मया सीता तथा शोकपरायणा ।
गृहे यां नाभिजानासि पञ्चास्यामिव पन्नगीम् ॥ २३ ॥
मूलम्
लक्षितेयं मया सीता तथा शोकपरायणा ।
गृहे यां नाभिजानासि पञ्चास्यामिव पन्नगीम् ॥ २३ ॥
अनुवाद (हिन्दी)
‘मैंने यहाँ सीताकी अवस्थाको लक्ष्य किया है । वे निरन्तर शोकमें डूबी रहती हैं । सीता तुम्हारे घरमें पाँच फनवाली नागिनके समान निवास करती हैं, जिन्हें तुम नहीं जानते हो ॥ २३ ॥
विश्वास-प्रस्तुतिः
नेयं जरयितुं शक्या सासुरैरमरैरपि ।
विषसंस्पृष्टमत्यर्थं भुक्तमन्नमिवौजसा ॥ २४ ॥
मूलम्
नेयं जरयितुं शक्या सासुरैरमरैरपि ।
विषसंस्पृष्टमत्यर्थं भुक्तमन्नमिवौजसा ॥ २४ ॥
अनुवाद (हिन्दी)
‘जैसे अत्यन्त विषमिश्रित अन्नको खाकर कोई उसे बलपूर्वक नहीं पचा सकता, उसी प्रकार सीताजीको अपनी शक्तिसे पचा लेना देवताओं और असुरोंके लिये भी असम्भव है ॥ २४ ॥
विश्वास-प्रस्तुतिः
तपःसन्तापलब्धस्ते सोऽयं धर्मपरिग्रहः ।
न स नाशयितुं न्याय्य आत्मप्राणपरिग्रहः ॥ २५ ॥
मूलम्
तपःसन्तापलब्धस्ते सोऽयं धर्मपरिग्रहः ।
न स नाशयितुं न्याय्य आत्मप्राणपरिग्रहः ॥ २५ ॥
अनुवाद (हिन्दी)
‘तुमने तपस्याका कष्ट उठाकर धर्मके फलस्वरूप जो यह ऐश्वर्यका संग्रह किया है तथा शरीर और प्राणोंको चिरकालतक धारण करनेकी शक्ति प्राप्त की है, उसका विनाश करना उचित नहीं ॥ २५ ॥
विश्वास-प्रस्तुतिः
अवध्यतां तपोभिर्यां भवान् समनुपश्यति ।
आत्मनः सासुरैर्देवैर्हेतुस्तत्राप्ययं महान् ॥ २६ ॥
मूलम्
अवध्यतां तपोभिर्यां भवान् समनुपश्यति ।
आत्मनः सासुरैर्देवैर्हेतुस्तत्राप्ययं महान् ॥ २६ ॥
अनुवाद (हिन्दी)
‘तुम तपस्याके प्रभावसे देवताओं और असुरोंद्वारा जो अपनी अवध्यता देख रहे हो, उसमें भी तपस्याजनित यह धर्म ही महान् कारण है (अथवा उस अवध्यताके होते हुए भी तुम्हारे वधका दूसरा महान् कारण उपस्थित है) ॥ २६ ॥
विश्वास-प्रस्तुतिः
सुग्रीवो न च देवोऽयं न यक्षो न च राक्षसः ।
मानुषो राघवो राजन् सुग्रीवश्च हरीश्वरः ।
तस्मात् प्राणपरित्राणं कथं राजन् करिष्यसि ॥ २७ ॥
मूलम्
सुग्रीवो न च देवोऽयं न यक्षो न च राक्षसः ।
मानुषो राघवो राजन् सुग्रीवश्च हरीश्वरः ।
तस्मात् प्राणपरित्राणं कथं राजन् करिष्यसि ॥ २७ ॥
अनुवाद (हिन्दी)
‘राक्षसराज! सुग्रीव और श्रीरामचन्द्रजी न तो देवता हैं, न यक्ष हैं और न राक्षस ही हैं । श्रीरघुनाथजी मनुष्य हैं और सुग्रीव वानरोंके राजा । अतः उनके हाथसे तुम अपने प्राणोंकी रक्षा कैसे करोगे? ॥ २७ ॥
विश्वास-प्रस्तुतिः
न तु धर्मोपसंहारमधर्मफलसंहितम् ।
तदेव फलमन्वेति धर्मश्चाधर्मनाशनः ॥ २८ ॥
मूलम्
न तु धर्मोपसंहारमधर्मफलसंहितम् ।
तदेव फलमन्वेति धर्मश्चाधर्मनाशनः ॥ २८ ॥
अनुवाद (हिन्दी)
‘जो पुरुष प्रबल अधर्मके फलसे बँधा हुआ है, उसे धर्मका फल नहीं मिलता । वह उस अधर्मफलको ही पाता है । हाँ, यदि उस अधर्मके बाद किसी प्रबल धर्मका अनुष्ठान किया गया हो तो वह पहलेके अधर्मका नाशक होता है* ॥ २८ ॥
पादटिप्पनी
- जैसा कि श्रुतिका वचन है—‘धर्मेण पापमपनुदति ।’ अर्थात् धर्मसे मनुष्य अपने पापको दूर करता है । स्मृतियोंमें बताये गये प्रायश्चित्त कृच्छ्रव्रत आदि भी इसी बातके समर्थक हैं ।
विश्वास-प्रस्तुतिः
प्राप्तं धर्मफलं तावद् भवता नात्र संशयः ।
फलमस्याप्यधर्मस्य क्षिप्रमेव प्रपत्स्यसे ॥ २९ ॥
मूलम्
प्राप्तं धर्मफलं तावद् भवता नात्र संशयः ।
फलमस्याप्यधर्मस्य क्षिप्रमेव प्रपत्स्यसे ॥ २९ ॥
अनुवाद (हिन्दी)
‘तुमने पहले जो धर्म किया था, उसका पूरा-पूरा फल तो यहाँ पा लिया, अब इस सीताहरणरूपी अधर्मका फल भी तुम्हें शीघ्र ही मिलेगा ॥ २९ ॥
विश्वास-प्रस्तुतिः
जनस्थानवधं बुद्ध्वा वालिनश्च वधं तथा ।
रामसुग्रीवसख्यं च बुद्ध्यस्व हितमात्मनः ॥ ३० ॥
मूलम्
जनस्थानवधं बुद्ध्वा वालिनश्च वधं तथा ।
रामसुग्रीवसख्यं च बुद्ध्यस्व हितमात्मनः ॥ ३० ॥
अनुवाद (हिन्दी)
‘जनस्थानके राक्षसोंका संहार, वालीका वध और श्रीराम तथा सुग्रीवकी मैत्री—इन तीनों कार्योंको अच्छी तरह समझ लो । उसके बाद अपने हितका विचार करो ॥ ३० ॥
विश्वास-प्रस्तुतिः
कामं खल्वहमप्येकः सवाजिरथकुञ्जराम् ।
लङ्कां नाशयितुं शक्तस्तस्यैष तु न निश्चयः ॥ ३१ ॥
मूलम्
कामं खल्वहमप्येकः सवाजिरथकुञ्जराम् ।
लङ्कां नाशयितुं शक्तस्तस्यैष तु न निश्चयः ॥ ३१ ॥
अनुवाद (हिन्दी)
‘यद्यपि मैं अकेला ही हाथी, घोड़े और रथोंसहित समूची लङ्काका नाश कर सकता हूँ, तथापि श्रीरघुनाथजीका ऐसा विचार नहीं है—उन्होंने मुझे इस कार्यके लिये आज्ञा नहीं दी है ॥ ३१ ॥
विश्वास-प्रस्तुतिः
रामेण हि प्रतिज्ञातं हर्यृक्षगणसन्निधौ ।
उत्सादनममित्राणां सीता यैस्तु प्रधर्षिता ॥ ३२ ॥
मूलम्
रामेण हि प्रतिज्ञातं हर्यृक्षगणसन्निधौ ।
उत्सादनममित्राणां सीता यैस्तु प्रधर्षिता ॥ ३२ ॥
अनुवाद (हिन्दी)
‘जिन लोगोंने सीताका तिरस्कार किया है, उन शत्रुओंका स्वयं ही संहार करनेके लिये श्रीरामचन्द्रजीने वानरों और भालुओंके सामने प्रतिज्ञा की है ॥ ३२ ॥
विश्वास-प्रस्तुतिः
अपकुर्वन् हि रामस्य साक्षादपि पुरन्दरः ।
न सुखं प्राप्नुयादन्यः किं पुनस्त्वद्विधो जनः ॥ ३३ ॥
मूलम्
अपकुर्वन् हि रामस्य साक्षादपि पुरन्दरः ।
न सुखं प्राप्नुयादन्यः किं पुनस्त्वद्विधो जनः ॥ ३३ ॥
अनुवाद (हिन्दी)
‘भगवान् श्रीरामका अपराध करके साक्षात् इन्द्र भी सुख नहीं पा सकते, फिर तुम्हारे-जैसे साधारण लोगोंकी तो बात ही क्या है? ॥ ३३ ॥
विश्वास-प्रस्तुतिः
यां सीतेत्यभिजानासि येयं तिष्ठति ते गृहे ।
कालरात्रीति तां विद्धि सर्वलङ्काविनाशिनीम् ॥ ३४ ॥
मूलम्
यां सीतेत्यभिजानासि येयं तिष्ठति ते गृहे ।
कालरात्रीति तां विद्धि सर्वलङ्काविनाशिनीम् ॥ ३४ ॥
अनुवाद (हिन्दी)
‘जिनको तुम सीताके नामसे जानते हो और जो इस समय तुम्हारे अन्तःपुरमें मौजूद हैं, उन्हें सम्पूर्ण लङ्काका विनाश करनेवाली कालरात्रि समझो ॥ ३४ ॥
विश्वास-प्रस्तुतिः
तदलं कालपाशेन सीताविग्रहरूपिणा ।
स्वयं स्कन्धावसक्तेन क्षेममात्मनि चिन्त्यताम् ॥ ३५ ॥
मूलम्
तदलं कालपाशेन सीताविग्रहरूपिणा ।
स्वयं स्कन्धावसक्तेन क्षेममात्मनि चिन्त्यताम् ॥ ३५ ॥
अनुवाद (हिन्दी)
‘सीताका शरीर धारण करके तुम्हारे पास कालकी फाँसी आ पहुँची है, उसमें स्वयं गला फँसाना ठीक नहीं है; अतः अपने कल्याणकी चिन्ता करो ॥ ३५ ॥
विश्वास-प्रस्तुतिः
सीतायास्तेजसा दग्धां रामकोपप्रदीपिताम् ।
दह्यमानामिमां पश्य पुरीं साट्टप्रतोलिकाम् ॥ ३६ ॥
मूलम्
सीतायास्तेजसा दग्धां रामकोपप्रदीपिताम् ।
दह्यमानामिमां पश्य पुरीं साट्टप्रतोलिकाम् ॥ ३६ ॥
अनुवाद (हिन्दी)
‘देखो, अट्टालिकाओं और गलियोंसहित यह लङ्कापुरी सीताजीके तेज और श्रीरामकी क्रोधाग्निसे जलकर भस्म होने जा रही है (बचा सको तो बचाओ) ॥ ३६ ॥
विश्वास-प्रस्तुतिः
स्वानि मित्राणि मन्त्रींश्च ज्ञातीन् भ्रातॄन् सुतान्हितान् ।
भोगान् दारांश्च लङ्कां च मा विनाशमुपानय ॥ ३७ ॥
मूलम्
स्वानि मित्राणि मन्त्रींश्च ज्ञातीन् भ्रातॄन् सुतान्हितान् ।
भोगान् दारांश्च लङ्कां च मा विनाशमुपानय ॥ ३७ ॥
अनुवाद (हिन्दी)
‘इन मित्रों, मन्त्रियों, कुटुम्बीजनों, भाइयों, पुत्रों, हितकारियों, स्त्रियों, सुख-भोगके साधनों तथा समूची लङ्काको मौतके मुखमें न झोंको ॥ ३७ ॥
विश्वास-प्रस्तुतिः
सत्यं राक्षसराजेन्द्र शृणुष्व वचनं मम ।
रामदासस्य दूतस्य वानरस्य विशेषतः ॥ ३८ ॥
मूलम्
सत्यं राक्षसराजेन्द्र शृणुष्व वचनं मम ।
रामदासस्य दूतस्य वानरस्य विशेषतः ॥ ३८ ॥
अनुवाद (हिन्दी)
‘राक्षसोंके राजाधिराज! मैं भगवान् श्रीरामका दास हूँ, दूत हूँ और विशेषतः वानर हूँ । मेरी सच्ची बात सुनो— ॥
विश्वास-प्रस्तुतिः
सर्वाल्ँ लोकान् सुसंहृत्य सभूतान् सचराचरान् ।
पुनरेव तथा स्रष्टुं शक्तो रामो महायशाः ॥ ३९ ॥
मूलम्
सर्वांल्लोकान् सुसंहृत्य सभूतान् सचराचरान् ।
पुनरेव तथा स्रष्टुं शक्तो रामो महायशाः ॥ ३९ ॥
अनुवाद (हिन्दी)
‘महायशस्वी श्रीरामचन्द्रजी चराचर प्राणियोंसहित सम्पूर्ण लोकोंका संहार करके फिर उनका नये सिरेसे निर्माण करनेकी शक्ति रखते हैं ॥ ३९ ॥
विश्वास-प्रस्तुतिः
देवासुरनरेन्द्रेषु यक्षरक्षोरगेषु च ।
विद्याधरेषु नागेषु गन्धर्वेषु मृगेषु च ॥ ४० ॥
सिद्धेषु किन्नरेन्द्रेषु पतत्त्रिषु च सर्वतः ।
सर्वत्र सर्वभूतेषु सर्वकालेषु नास्ति सः ॥ ४१ ॥
यो रामं प्रति युध्येत विष्णुतुल्यपराक्रमम् ।

‘भगवान् श्रीराम श्रीविष्णुके तुल्य पराक्रमी हैं । देवता, असुर, मनुष्य, यक्ष, राक्षस, सर्प, विद्याधर, नाग, गन्धर्व, मृग, सिद्ध, किंनर, पक्षी एवं अन्य समस्त प्राणियोंमें कहीं किसी समय कोई भी ऐसा नहीं है, जो श्रीरघुनाथजीके साथ लोहा ले सके ॥ ४०-४१ १/२ ॥
विश्वास-प्रस्तुतिः
सर्वलोकेश्वरस्येह कृत्वा विप्रियमीदृशम् ।
रामस्य राजसिंहस्य दुर्लभं तव जीवितम् ॥ ४२ ॥
मूलम्
सर्वलोकेश्वरस्येह कृत्वा विप्रियमीदृशम् ।
रामस्य राजसिंहस्य दुर्लभं तव जीवितम् ॥ ४२ ॥
अनुवाद (हिन्दी)
‘सम्पूर्ण लोकोंके अधीश्वर राजसिंह श्रीरामका ऐसा महान् अपराध करके तुम्हारा जीवित रहना कठिन है ॥
विश्वास-प्रस्तुतिः
देवाश्च दैत्याश्च निशाचरेन्द्र
गन्धर्वविद्याधरनागयक्षाः ।
रामस्य लोकत्रयनायकस्य
स्थातुं न शक्ताः समरेषु सर्वे ॥ ४३ ॥
मूलम्
देवाश्च दैत्याश्च निशाचरेन्द्र
गन्धर्वविद्याधरनागयक्षाः ।
रामस्य लोकत्रयनायकस्य
स्थातुं न शक्ताः समरेषु सर्वे ॥ ४३ ॥
अनुवाद (हिन्दी)
‘निशाचरराज! श्रीरामचन्द्रजी तीनों लोकोंके स्वामी हैं । देवता, दैत्य, गन्धर्व, विद्याधर, नाग तथा यक्ष—ये सब मिलकर भी युद्धमें उनके सामने नहीं टिक सकते ॥ ४३ ॥
विश्वास-प्रस्तुतिः
ब्रह्मा स्वयम्भूश्चतुराननो वा
रुद्रस्त्रिनेत्रस्त्रिपुरान्तको वा ।
इन्द्रो महेन्द्रः सुरनायको वा
स्थातुं न शक्ता युधि राघवस्य ॥ ४४ ॥
मूलम्
ब्रह्मा स्वयम्भूश्चतुराननो वा
रुद्रस्त्रिनेत्रस्त्रिपुरान्तको वा ।
इन्द्रो महेन्द्रः सुरनायको वा
स्थातुं न शक्ता युधि राघवस्य ॥ ४४ ॥
अनुवाद (हिन्दी)
‘चार मुखोंवाले स्वयम्भू ब्रह्मा, तीन नेत्रोंवाले त्रिपुरनाशक रुद्र अथवा देवताओंके स्वामी महान् ऐश्वर्यशाली इन्द्र भी समराङ्गणमें श्रीरघुनाथजीके सामने नहीं ठहर सकते’ ॥ ४४ ॥
विश्वास-प्रस्तुतिः
स सौष्ठवोपेतमदीनवादिनः
कपेर्निशम्याप्रतिमोऽप्रियं वचः ।
दशाननः कोपविवृत्तलोचनः
समादिशत् तस्य वधं महाकपेः ॥ ४५ ॥
मूलम्
स सौष्ठवोपेतमदीनवादिनः
कपेर्निशम्याप्रतिमोऽप्रियं वचः ।
दशाननः कोपविवृत्तलोचनः
समादिशत् तस्य वधं महाकपेः ॥ ४५ ॥
अनुवाद (हिन्दी)
वीरभावसे निर्भयतापूर्वक भाषण करनेवाले महाकपि हनुमान् जी की बातें बड़ी सुन्दर एवं युक्तियुक्त थीं, तथापि वे रावणको अप्रिय लगीं । उन्हें सुनकर अनुपम शक्तिशाली दशानन रावणने क्रोधसे आँखें तरेरकर सेवकोंको उनके वधके लिये आज्ञा दी ॥ ४५ ॥
समाप्तिः
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये सुन्दरकाण्डे एकपञ्चाशः सर्गः ॥ ५१ ॥
इस प्रकार श्रीवाल्मीकिनिर्मित आर्षरामायण आदिकाव्यके सुन्दरकाण्डमें इक्यावनवाँ सर्ग पूरा हुआ ॥ ५१ ॥