०४३ हनुमता लङ्कादहनचिन्तनम्

वाचनम्
भागसूचना
  1. हनुमान् जी के द्वारा चैत्यप्रासादका विध्वंस तथा उसके रक्षकोंका वध
विश्वास-प्रस्तुतिः

ततः स किङ्करान् हत्वा हनूमान् ध्यानमास्थितः ।
वनं भग्नं मया चैत्यप्रासादो न विनाशितः ॥ १ ॥

मूलम्

ततः स किङ्करान् हत्वा हनूमान् ध्यानमास्थितः ।
वनं भग्नं मया चैत्यप्रासादो न विनाशितः ॥ १ ॥

अनुवाद (हिन्दी)

इधर किंकरोंका वध करके हनुमान् जी यह सोचने लगे कि ‘मैंने वनको तो उजाड़ दिया, परंतु इस चैत्य* प्रासादको नष्ट नहीं किया है ॥ १ ॥

पादटिप्पनी
  • लङ्कामें राक्षसोंके कुलदेवताका जो स्थान था, उसीका नाम ‘चैत्यप्रासाद’ रखा गया था ।
विश्वास-प्रस्तुतिः

तस्मात् प्रासादमद्यैवमिमं विध्वंसयाम्यहम् ।
इति सञ्चिन्त्य हनुमान् मनसादर्शयन् बलम् ॥ २ ॥
चैत्यप्रासादमुत्प्लुत्य मेरुशृङ्गमिवोन्नतम् ।
आरुरोह हरिश्रेष्ठो हनूमान् मारुतात्मजः ॥ ३ ॥

मूलम्

तस्मात् प्रासादमद्यैवमिमं विध्वंसयाम्यहम् ।
इति सञ्चिन्त्य हनुमान् मनसादर्शयन् बलम् ॥ २ ॥
चैत्यप्रासादमुत्प्लुत्य मेरुशृङ्गमिवोन्नतम् ।
आरुरोह हरिश्रेष्ठो हनूमान् मारुतात्मजः ॥ ३ ॥

अनुवाद (हिन्दी)

‘अतः आज इस चैत्यप्रासादका भी विध्वंस किये देता हूँ । मन-ही-मन ऐसा विचारकर पवनपुत्र वानरश्रेष्ठ हनुमान् जी अपने बलका प्रदर्शन करते हुए मेरुपर्वतके शिखरकी भाँति ऊँचे उस चैत्यप्रासादपर उछलकर चढ़ गये’ ॥ २-३ ॥

विश्वास-प्रस्तुतिः

आरुह्य गिरिसङ्काशं प्रासादं हरियूथपः ।
बभौ स सुमहातेजाः प्रतिसूर्य इवोदितः ॥ ४ ॥

मूलम्

आरुह्य गिरिसङ्काशं प्रासादं हरियूथपः ।
बभौ स सुमहातेजाः प्रतिसूर्य इवोदितः ॥ ४ ॥

अनुवाद (हिन्दी)

उस पर्वताकार प्रासादपर चढ़कर महातेजस्वी वानर-यूथपति हनुमान् तुरंतके उगे हुए दूसरे सूर्यकी भाँति शोभा पाने लगे ॥ ४ ॥

विश्वास-प्रस्तुतिः

सम्प्रधृष्य तु दुर्धर्षश्चैत्यप्रासादमुन्नतम् ।
हनूमान् प्रज्वलल्ँ लक्ष्म्या पारियात्रोपमोऽभवत् ॥ ५ ॥

मूलम्

सम्प्रधृष्य तु दुर्धर्षश्चैत्यप्रासादमुन्नतम् ।
हनूमान् प्रज्वलल्ँ लक्ष्म्या पारियात्रोपमोऽभवत् ॥ ५ ॥

अनुवाद (हिन्दी)

उस ऊँचे प्रासादपर आक्रमण करके दुर्धर्ष वीर हनुमान् जी अपनी सहज शोभासे उद्भासित होते हुए पारियात्र पर्वतके समान प्रतीत होने लगे ॥ ५ ॥

विश्वास-प्रस्तुतिः

स भूत्वा सुमहाकायः प्रभावान् मारुतात्मजः ।
धृष्टमास्फोटयामास लङ्कां शब्देन पूरयन् ॥ ६ ॥

मूलम्

स भूत्वा सुमहाकायः प्रभावान् मारुतात्मजः ।
धृष्टमास्फोटयामास लङ्कां शब्देन पूरयन् ॥ ६ ॥

अनुवाद (हिन्दी)

वे तेजस्वी पवनकुमार विशाल शरीर धारण करके लङ्काको प्रतिध्वनित करते हुए धृष्टतापूर्वक उस प्रासादको तोड़ने-फोड़ने लगे ॥ ६ ॥

विश्वास-प्रस्तुतिः

तस्यास्फोटितशब्देन महता श्रोत्रघातिना ।
पेतुर्विहङ्गमास्तत्र चैत्यपालाश्च मोहिताः ॥ ७ ॥

मूलम्

तस्यास्फोटितशब्देन महता श्रोत्रघातिना ।
पेतुर्विहङ्गमास्तत्र चैत्यपालाश्च मोहिताः ॥ ७ ॥

अनुवाद (हिन्दी)

जोर-जोरसे होनेवाला वह तोड़-फोड़का शब्द कानोंसे टकराकर उन्हें बहरा किये देता था । इससे मूर्च्छित हो वहाँके पक्षी और प्रासादरक्षक भी पृथ्वीपर गिर पड़े ॥ ७ ॥

विश्वास-प्रस्तुतिः

अस्त्रविज्जयतां रामो लक्ष्मणश्च महाबलः ।
राजा जयति सुग्रीवो राघवेणाभिपालितः ॥ ८ ॥
दासोऽहं कोसलेन्द्रस्य रामस्याक्लिष्टकर्मणः ।
हनूमान् शत्रुसैन्यानां निहन्ता मारुतात्मजः ॥ ९ ॥
न रावणसहस्रं मे युद्धे प्रतिबलं भवेत् ।
शिलाभिश्च प्रहरतः पादपैश्च सहस्रशः ॥ १० ॥
धर्षयित्वा पुरीं लङ्कामभिवाद्य च मैथिलीम् ।
समृद्धार्थो गमिष्यामि मिषतां सर्वरक्षसाम् ॥ ११ ॥

उस समय हनुमान् जी ने पुनः यह घोषणा की— ‘अस्त्रवेत्ता भगवान् श्रीराम तथा महाबली लक्ष्मणकी जय हो । श्रीरघुनाथजीके द्वारा सुरक्षित राजा सुग्रीवकी भी जय हो । मैं अनायास ही महान् पराक्रम करनेवाले कोसलनरेश श्रीरामचन्द्रजीका दास हूँ । मेरा नाम हनुमान् है । मैं वायुका पुत्र तथा शत्रुसेनाका संहार करनेवाला हूँ । जब मैं हजारों वृक्षों और पत्थरोंसे प्रहार करने लगूँगा, उस समय सहस्रों रावण मिलकर भी युद्धमें मेरे बलकी समानता अथवा मेरा सामना नहीं कर सकते । मैं लङ्कापुरीको तहस-नहस कर डालूँगा और मिथिलेशकुमारी सीताको प्रणाम करनेके अनन्तर सब राक्षसोंके देखते-देखते अपना कार्य सिद्ध करके जाऊँगा’ ॥ ८—११ ॥

विश्वास-प्रस्तुतिः

एवमुक्त्वा महाकायश्चैत्यस्थो हरियूथपः ।
ननाद भीमनिर्ह्रादो रक्षसां जनयन् भयम् ॥ १२ ॥

मूलम्

एवमुक्त्वा महाकायश्चैत्यस्थो हरियूथपः ।
ननाद भीमनिर्ह्रादो रक्षसां जनयन् भयम् ॥ १२ ॥

अनुवाद (हिन्दी)

ऐसा कहकर चैत्यप्रासादपर खड़े हुए विशालकाय वानरयूथपति हनुमान् राक्षसोंके मनमें भय उत्पन्न करते हुए भयानक आवाजमें गर्जना करने लगे ॥ १२ ॥

विश्वास-प्रस्तुतिः

तेन नादेन महता चैत्यपालाः शतं ययुः ।
गृहीत्वा विविधानस्त्रान् प्रासान् खड्गान् परश्वधान् ॥ १३ ॥

मूलम्

तेन नादेन महता चैत्यपालाः शतं ययुः ।
गृहीत्वा विविधानस्त्रान् प्रासान् खड्गान् परश्वधान् ॥ १३ ॥

अनुवाद (हिन्दी)

उस भीषण गर्जनासे प्रभावित हो सैकड़ों प्रासादरक्षक नाना प्रकारके प्रास, खड्ग और फरसे लिये वहाँ आये ॥ १३ ॥

विश्वास-प्रस्तुतिः

विसृजन्तो महाकाया मारुतिं पर्यवारयन् ।
ते गदाभिर्विचित्राभिः परिघैः काञ्चनाङ्गदैः ॥ १४ ॥
आजग्मुर्वानरश्रेष्ठं बाणैश्चादित्यसन्निभैः ।

मूलम्

विसृजन्तो महाकाया मारुतिं पर्यवारयन् ।
ते गदाभिर्विचित्राभिः परिघैः काञ्चनाङ्गदैः ॥ १४ ॥
आजग्मुर्वानरश्रेष्ठं बाणैश्चादित्यसन्निभैः ।

अनुवाद (हिन्दी)

उन विशालकाय राक्षसोंने उन सब अस्त्रोंका प्रहार करते हुए वहाँ पवनकुमार हनुमान् जी को घेर लिया । विचित्र गदाओं, सोनेके पत्र जड़े हुए परिघों और सूर्यतुल्य तेजस्वी बाणोंसे सुसज्जित हो वे सब-के-सब उन वानरश्रेष्ठ हनुमान् पर चढ़ आये ॥ १४ १/२ ॥

विश्वास-प्रस्तुतिः

आवर्त इव गङ्गायास्तोयस्य विपुलो महान् ॥ १५ ॥
परिक्षिप्य हरिश्रेष्ठं स बभौ रक्षसां गणः ।

मूलम्

आवर्त इव गङ्गायास्तोयस्य विपुलो महान् ॥ १५ ॥
परिक्षिप्य हरिश्रेष्ठं स बभौ रक्षसां गणः ।

अनुवाद (हिन्दी)

वानरश्रेष्ठ हनुमान् को चारों ओरसे घेरकर खड़ा हुआ राक्षसोंका वह महान् समुदाय गङ्गाजीके जलमें उठे हुए बड़े भारी भँवरके समान जान पड़ता था ॥ १५ १/२ ॥

विश्वास-प्रस्तुतिः

ततो वातात्मजः क्रुद्धो भीमरूपं समास्थितः ॥ १६ ॥
प्रासादस्य महांस्तस्य स्तम्भं हेमपरिष्कृतम् ।
उत्पाटयित्वा वेगेन हनूमान् मारुतात्मजः ॥ १७ ॥
ततस्तं भ्रामयामास शतधारं महाबलः ।
तत्र चाग्निः समभवत् प्रासादश्चाप्यदह्यत ॥ १८ ॥

तब राक्षसोंको इस प्रकार आक्रमण करते देख पवनकुमार हनुमान् ने कुपित हो बड़ा भयंकर रूप धारण किया । उन महावीरने उस प्रासादके एक सुवर्णभूषित खंभेको, जिसमें सौ धारें थीं, बड़े वेगसे उखाड़ लिया । उखाड़कर उन महाबली वीरने उसे घुमाना आरम्भ किया । घुमानेपर उससे आग प्रकट हो गयी, जिससे वह प्रासाद जलने लगा ॥ १६—१८ ॥

विश्वास-प्रस्तुतिः

दह्यमानं ततो दृष्ट्वा प्रासादं हरियूथपः ।
स राक्षसशतं हत्वा वज्रेणेन्द्र इवासुरान् ॥ १९ ॥
अन्तरिक्षस्थितः श्रीमानिदं वचनमब्रवीत् ।

मूलम्

दह्यमानं ततो दृष्ट्वा प्रासादं हरियूथपः ।
स राक्षसशतं हत्वा वज्रेणेन्द्र इवासुरान् ॥ १९ ॥
अन्तरिक्षस्थितः श्रीमानिदं वचनमब्रवीत् ।

अनुवाद (हिन्दी)

प्रासादको जलते देख वानरयूथपति हनुमान् ने वज्रसे असुरोंका संहार करनेवाले इन्द्रकी भाँति उन सैकड़ों राक्षसोंको उस खंभेसे ही मार डाला और आकाशमें खड़े होकर उन तेजस्वी वीरने इस प्रकार कहा— ॥ १९ १/२ ॥

विश्वास-प्रस्तुतिः

मादृशानां सहस्राणि विसृष्टानि महात्मनाम् ॥ २० ॥
बलिनां वानरेन्द्राणां सुग्रीववशवर्तिनाम् ।

मूलम्

मादृशानां सहस्राणि विसृष्टानि महात्मनाम् ॥ २० ॥
बलिनां वानरेन्द्राणां सुग्रीववशवर्तिनाम् ।

अनुवाद (हिन्दी)

‘राक्षसो! सुग्रीवके वशमें रहनेवाले मेरे-जैसे सहस्रों विशालकाय बलवान् वानरश्रेष्ठ सब ओर भेजे गये हैं ॥ २० १/२ ॥

विश्वास-प्रस्तुतिः

अटन्ति वसुधां कृत्स्नां वयमन्ये च वानराः ॥ २१ ॥
दशनागबलाः केचित् केचिद् दशगुणोत्तराः ।
केचिन्नागसहस्रस्य बभूवुस्तुल्यविक्रमाः ॥ २२ ॥

मूलम्

अटन्ति वसुधां कृत्स्नां वयमन्ये च वानराः ॥ २१ ॥
दशनागबलाः केचित् केचिद् दशगुणोत्तराः ।
केचिन्नागसहस्रस्य बभूवुस्तुल्यविक्रमाः ॥ २२ ॥

अनुवाद (हिन्दी)

‘हम तथा दूसरे सभी वानर समूची पृथ्वीपर घूम रहे हैं । किन्हींमें दस हाथियोंका बल है तो किन्हींमें सौ हाथियोंका । कितने ही वानर एक सहस्र हाथियोंके समान बल-विक्रमसे सम्पन्न हैं ॥ २१-२२ ॥

विश्वास-प्रस्तुतिः

सन्ति चौघबलाः केचित् सन्ति वायुबलोपमाः ।
अप्रमेयबलाः केचित् तत्रासन् हरियूथपाः ॥ २३ ॥

मूलम्

सन्ति चौघबलाः केचित् सन्ति वायुबलोपमाः ।
अप्रमेयबलाः केचित् तत्रासन् हरियूथपाः ॥ २३ ॥

अनुवाद (हिन्दी)

‘किन्हींका बल जलके महान् प्रवाहकी भाँति असह्य है । कितने ही वायुके समान बलवान् हैं और कितने ही वानर-यूथपति अपने भीतर असीम बल धारण करते हैं ॥ २३ ॥

विश्वास-प्रस्तुतिः

ईदृग्विधैस्तु हरिभिर्वृतो दन्तनखायुधैः ।
शतैः शतसहस्रैश्च कोटिभिश्चायुतैरपि ॥ २४ ॥
आगमिष्यति सुग्रीवः सर्वेषां वो निषूदनः ।

मूलम्

ईदृग्विधैस्तु हरिभिर्वृतो दन्तनखायुधैः ।
शतैः शतसहस्रैश्च कोटिभिश्चायुतैरपि ॥ २४ ॥
आगमिष्यति सुग्रीवः सर्वेषां वो निषूदनः ।

अनुवाद (हिन्दी)

‘दाँत और नख ही जिनके आयुध हैं ऐसे अनन्त बलशाली सैकड़ों, हजारों, लाखों और करोड़ों वानरोंसे घिरे हुए वानरराज सुग्रीव यहाँ पधारेंगे, जो तुम सब निशाचरोंका संहार करनेमें समर्थ हैं ॥ २४ १/२ ॥

विश्वास-प्रस्तुतिः

नेयमस्ति पुरी लङ्का न यूयं न च रावणः ।
यस्य त्विक्ष्वाकुवीरेण बद्धं वैरं महात्मना ॥ २५ ॥

मूलम्

नेयमस्ति पुरी लङ्का न यूयं न च रावणः ।
यस्य त्विक्ष्वाकुवीरेण बद्धं वैरं महात्मना ॥ २५ ॥

अनुवाद (हिन्दी)

‘अब न तो यह लङ्कापुरी रहेगी, न तुमलोग रहोगे और न वह रावण ही रह सकेगा, जिसने इक्ष्वाकुवंशी वीर महात्मा श्रीरामके साथ वैर बाँध रखा है’ ॥ २५ ॥

समाप्तिः

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये सुन्दरकाण्डे त्रिचत्वारिंशः सर्गः ॥ ४३ ॥
इस प्रकार श्रीवाल्मीकिनिर्मित आर्षरामायण आदिकाव्यके सुन्दरकाण्डमें तैंतालीसवाँ सर्ग पूरा हुआ ॥ ४३ ॥