०६५ वानरैः सागरोल्लङ्घनभयम्

वाचनम्
भागसूचना
  1. बारी-बारीसे वानर-वीरोंके द्वारा अपनी-अपनी गमनशक्तिका वर्णन, जाम्बवान् और अङ्गदकी बातचीत तथा जाम्बवान‍्का हनुमान‍्जी को प्रेरित करनेके लिये उनके पास जाना
विश्वास-प्रस्तुतिः

अथाङ्गदवचः श्रुत्वा ते सर्वे वानरर्षभाः ।
स्वं स्वं गतौ समुत्साहमूचुस्तत्र यथाक्रमम् ॥ १ ॥

मूलम्

अथाङ्गदवचः श्रुत्वा ते सर्वे वानरर्षभाः ।
स्वं स्वं गतौ समुत्साहमूचुस्तत्र यथाक्रमम् ॥ १ ॥

अनुवाद (हिन्दी)

अङ्गदकी यह बात सुनकर वे सभी श्रेष्ठ वानर लम्बी छलाँग मारनेके सम्बन्धमें अपने-अपने उत्साहका—शक्तिका क्रमशः परिचय देने लगे ॥ १ ॥

विश्वास-प्रस्तुतिः

गजो गवाक्षो गवयः शरभो गन्धमादनः ।
मैन्दश्च द्विविदश्चैव सुषेणो जाम्बवांस्तथा ॥ २ ॥

मूलम्

गजो गवाक्षो गवयः शरभो गन्धमादनः ।
मैन्दश्च द्विविदश्चैव सुषेणो जाम्बवांस्तथा ॥ २ ॥

अनुवाद (हिन्दी)

गज, गवाक्ष, गवय, शरभ, गन्धमादन, मैन्द, द्विविद, सुषेण और जाम्बवान्—इन सबने अपनी-अपनी शक्तिका वर्णन किया ॥ २ ॥

विश्वास-प्रस्तुतिः

आबभाषे गजस्तत्र प्लवेयं दशयोजनम् ।
गवाक्षो योजनान्याह गमिष्यामीति विंशतिम् ॥ ३ ॥

मूलम्

आबभाषे गजस्तत्र प्लवेयं दशयोजनम् ।
गवाक्षो योजनान्याह गमिष्यामीति विंशतिम् ॥ ३ ॥

अनुवाद (हिन्दी)

इनमेंसे गजने कहा—‘मैं दस योजनकी छलाँग मार सकता हूँ ।’ गवाक्ष बोले—‘मैं बीस योजनतक चला जाऊँगा’ ॥ ३ ॥

विश्वास-प्रस्तुतिः

शरभो वानरस्तत्र वानरांस्तानुवाच ह ।
त्रिंशतं तु गमिष्यामि योजनानां प्लवङ्गमाः ॥ ४ ॥

मूलम्

शरभो वानरस्तत्र वानरांस्तानुवाच ह ।
त्रिंशतं तु गमिष्यामि योजनानां प्लवङ्गमाः ॥ ४ ॥

अनुवाद (हिन्दी)

इसके बाद वहाँ शरभ नामक वानरने उन कपिवरोंसे कहा—‘वानरो! मैं तीस योजनतक एक छलाँगमें चला जाऊँगा’ ॥ ४ ॥

विश्वास-प्रस्तुतिः

ऋषभो वानरस्तत्र वानरांस्तानुवाच ह ।
चत्वारिंशद् गमिष्यामि योजनानां न संशयः ॥ ५ ॥

मूलम्

ऋषभो वानरस्तत्र वानरांस्तानुवाच ह ।
चत्वारिंशद् गमिष्यामि योजनानां न संशयः ॥ ५ ॥

अनुवाद (हिन्दी)

तदनन्तर कपिवर ऋषभने उन वानरोंसे कहा—‘मैं चालीस योजनतक चला जाऊँगा, इसमें संशय नहीं है’ ॥

विश्वास-प्रस्तुतिः

वानरांस्तु महातेजा अब्रवीद् गन्धमादनः ।
योजनानां गमिष्यामि पञ्चाशत्तु न संशयः ॥ ६ ॥

मूलम्

वानरांस्तु महातेजा अब्रवीद् गन्धमादनः ।
योजनानां गमिष्यामि पञ्चाशत्तु न संशयः ॥ ६ ॥

अनुवाद (हिन्दी)

तत्पश्चात् महातेजस्वी गन्धमादनने उन वानरोंसे कहा—‘इसमें संदेह नहीं कि मैं पचास योजनतक एक छलाँगमें चला जाऊँगा’ ॥ ६ ॥

विश्वास-प्रस्तुतिः

मैन्दस्तु वानरस्तत्र वानरांस्तानुवाच ह ।
योजनानां परं षष्टिमहं प्लवितुमुत्सहे ॥ ७ ॥

मूलम्

मैन्दस्तु वानरस्तत्र वानरांस्तानुवाच ह ।
योजनानां परं षष्टिमहं प्लवितुमुत्सहे ॥ ७ ॥

अनुवाद (हिन्दी)

इसके बाद वहाँ वानर-वीर मैन्द उन वानरोंसे बोले— ‘मैं साठ योजनतक एक छलाँगमें कूद जानेका उत्साह रखता हूँ’ ॥ ७ ॥

विश्वास-प्रस्तुतिः

ततस्तत्र महातेजा द्विविदः प्रत्यभाषत ।
गमिष्यामि न सन्देहः सप्ततिं योजनान्यहम् ॥ ८ ॥

मूलम्

ततस्तत्र महातेजा द्विविदः प्रत्यभाषत ।
गमिष्यामि न सन्देहः सप्ततिं योजनान्यहम् ॥ ८ ॥

अनुवाद (हिन्दी)

तदनन्तर महातेजस्वी द्विविद बोले—‘मैं सत्तर योजनतक चला जाऊँगा, इसमें संदेह नहीं है’ ॥ ८ ॥

विश्वास-प्रस्तुतिः

सुषेणस्तु महातेजाः सत्त्ववान् कपिसत्तमः ।
अशीतिं प्रतिजानेऽहं योजनानां पराक्रमे ॥ ९ ॥

मूलम्

सुषेणस्तु महातेजाः सत्त्ववान् कपिसत्तमः ।
अशीतिं प्रतिजानेऽहं योजनानां पराक्रमे ॥ ९ ॥

अनुवाद (हिन्दी)

इसके बाद धैर्यशाली कपिश्रेष्ठ महातेजस्वी सुषेण बोले—‘मैं एक छलाँगमें असी योजनतक जानेकी प्रतिज्ञा करता हूँ’ ॥ ९ ॥

विश्वास-प्रस्तुतिः

तेषां कथयतां तत्र सर्वांस्ताननुमान्य च ।
ततो वृद्धतमस्तेषां जाम्बवान् प्रत्यभाषत ॥ १० ॥

मूलम्

तेषां कथयतां तत्र सर्वांस्ताननुमान्य च ।
ततो वृद्धतमस्तेषां जाम्बवान् प्रत्यभाषत ॥ १० ॥

अनुवाद (हिन्दी)

इस प्रकार कहनेवाले सब वानरोंका सम्मान करके ऋक्षराज जाम्बवान्, जो सबसे बूढ़े थे, बोले— ॥ १० ॥

विश्वास-प्रस्तुतिः

पूर्वमस्माकमप्यासीत् कश्चिद् गतिपराक्रमः ।
ते वयं वयसः पारमनुप्राप्ताः स्म साम्प्रतम् ॥ ११ ॥
किं तु नैवं गते शक्यमिदं कार्यमुपेक्षितुम् ।
यदर्थं कपिराजश्च रामश्च कृतनिश्चयौ ॥ १२ ॥
साम्प्रतं कालमस्माकं या गतिस्तां निबोधत ।
नवतिं योजनानां तु गमिष्यामि न संशयः ॥ १३ ॥

‘पहले युवावस्थामें मेरे अंदर भी दूरतक छलाँग मारनेकी कुछ शक्ति थी । यद्यपि अब मैं उस अवस्थाको पार कर चुका हूँ तो भी जिस कार्यके लिये वानरराज सुग्रीव तथा भगवान् श्रीराम दृढ़ निश्चय कर चुके हैं, उसकी मेरे द्वारा उपेक्षा नहीं की जा सकती । इस समय मेरी जो गति है, उसे आपलोग सुनें । मैं एक छलाँगमें नब्बे योजनतक चला जाऊँगा, इसमें संशय नहीं है’ ॥

विश्वास-प्रस्तुतिः

तांश्च सर्वान् हरिश्रेष्ठाञ्जाम्बवानिदमब्रवीत् ।
न खल्वेतावदेवासीद् गमने मे पराक्रमः ॥ १४ ॥
मया वैरोचने यज्ञे प्रभविष्णुः सनातनः ।
प्रदक्षिणीकृतः पूर्वं क्रममाणस्त्रिविक्रमम् ॥ १५ ॥

मूलम्

तांश्च सर्वान् हरिश्रेष्ठाञ्जाम्बवानिदमब्रवीत् ।
न खल्वेतावदेवासीद् गमने मे पराक्रमः ॥ १४ ॥
मया वैरोचने यज्ञे प्रभविष्णुः सनातनः ।
प्रदक्षिणीकृतः पूर्वं क्रममाणस्त्रिविक्रमम् ॥ १५ ॥

अनुवाद (हिन्दी)

ऐसा कहकर जाम्बवान् उन समस्त श्रेष्ठ वानरोंसे पुनः इस प्रकार बोले—‘पूर्वकालमें मेरे अंदर इतनी ही दूरतक चलनेकी शक्ति नहीं थी । पहले राजा बलिके यज्ञमें सर्वव्यापी एवं सबके कारणभूत सनातन भगवान् विष्णु जब तीन पग भूमि नापनेके लिये अपने पैर बढ़ा रहे थे, उस समय मैंने उनके उस विराट् स्वरूपकी थोड़े ही समयमें परिक्रमा कर ली थी ॥ १४-१५ ॥

विश्वास-प्रस्तुतिः

स इदानीमहं वृद्धः प्लवने मन्दविक्रमः ।
यौवने च तदासीन्मे बलमप्रतिमं परम् ॥ १६ ॥

मूलम्

स इदानीमहं वृद्धः प्लवने मन्दविक्रमः ।
यौवने च तदासीन्मे बलमप्रतिमं परम् ॥ १६ ॥

अनुवाद (हिन्दी)

‘इस समय तो मैं बूढ़ा हो गया, अतः छलाँग मारनेकी मेरी शक्ति बहुत कम हो गयी है; किंतु युवावस्थामें मेरे भीतर वह महान् बल था, जिसकी कहीं तुलना नहीं है ॥ १६ ॥

विश्वास-प्रस्तुतिः

सम्प्रत्येतावदेवाद्य शक्यं मे गमने स्वतः ।
नैतावता च संसिद्धिः कार्यस्यास्य भविष्यति ॥ १७ ॥

मूलम्

सम्प्रत्येतावदेवाद्य शक्यं मे गमने स्वतः ।
नैतावता च संसिद्धिः कार्यस्यास्य भविष्यति ॥ १७ ॥

अनुवाद (हिन्दी)

‘आजकल तो मुझमें स्वतः चलनेकी इतनी ही शक्ति है, परंतु इतनी ही गतिसे समुद्रलङ्घनरूप इस वर्तमान कार्यकी सिद्धि नहीं हो सकती’ ॥ १७ ॥

विश्वास-प्रस्तुतिः

अथोत्तरमुदारार्थमब्रवीदङ्गदस्तदा ।
अनुमान्य तदा प्राज्ञो जाम्बवन्तं महाकपिः ॥ १८ ॥

मूलम्

अथोत्तरमुदारार्थमब्रवीदङ्गदस्तदा ।
अनुमान्य तदा प्राज्ञो जाम्बवन्तं महाकपिः ॥ १८ ॥

अनुवाद (हिन्दी)

तदनन्तर बुद्धिमान् महाकपि अङ्गदने उस समय जाम्बवान् का विशेष आदर करके यह उदारतापूर्ण बात कही— ॥ १८ ॥

विश्वास-प्रस्तुतिः

अहमेतद् गमिष्यामि योजनानां शतं महत् ।
निवर्तने तु मे शक्तिः स्यान्न वेति न निश्चितम् ॥ १९ ॥

मूलम्

अहमेतद् गमिष्यामि योजनानां शतं महत् ।
निवर्तने तु मे शक्तिः स्यान्न वेति न निश्चितम् ॥ १९ ॥

अनुवाद (हिन्दी)

‘मैं इस महासागरके सौ योजनकी विशाल दूरीको लाँघ जाऊँगा, किंतु उधरसे लौटनेमें मेरी ऐसी ही शक्ति रहेगी या नहीं, यह निश्चितरूपसे नहीं कहा जा सकता’ ॥ १९ ॥

विश्वास-प्रस्तुतिः

तमुवाच हरिश्रेष्ठं जाम्बवान् वाक्यकोविदः ।
ज्ञायते गमने शक्तिस्तव हर्यृक्षसत्तम ॥ २० ॥

मूलम्

तमुवाच हरिश्रेष्ठं जाम्बवान् वाक्यकोविदः ।
ज्ञायते गमने शक्तिस्तव हर्यृक्षसत्तम ॥ २० ॥

अनुवाद (हिन्दी)

तब बातचीतकी कलामें चतुर जाम्बवान् ने कपिश्रेष्ठ अङ्गदसे कहा—‘रीछों और वानरोंमें श्रेष्ठ युवराज! तुम्हारी गमनशक्तिसे हमलोग भलीभाँति परिचित हैं ॥ २० ॥

विश्वास-प्रस्तुतिः

कामं शतसहस्रं वा नह्येष विधिरुच्यते ।
योजनानां भवान् शक्तो गन्तुं प्रतिनिवर्तितुम् ॥ २१ ॥

मूलम्

कामं शतसहस्रं वा नह्येष विधिरुच्यते ।
योजनानां भवान् शक्तो गन्तुं प्रतिनिवर्तितुम् ॥ २१ ॥

अनुवाद (हिन्दी)

‘भले ही, तुम एक लाख योजनतक चले जाओ, तथापि तुम सबके स्वामी हो, अतः तुम्हें भेजना हमारे लिये उचित नहीं है । तुम लाखों योजन जाने और वहाँसे लौटनेमें समर्थ हो ॥ २१ ॥

विश्वास-प्रस्तुतिः

नहि प्रेषयिता तात स्वामी प्रेष्यः कथञ्चन ।
भवतायं जनः सर्वः प्रेष्यः प्लवगसत्तम ॥ २२ ॥

मूलम्

नहि प्रेषयिता तात स्वामी प्रेष्यः कथञ्चन ।
भवतायं जनः सर्वः प्रेष्यः प्लवगसत्तम ॥ २२ ॥

अनुवाद (हिन्दी)

‘किंतु तात! वानरशिरोमणे! जो सबको भेजनेवाला स्वामी है, वह किसी तरह प्रेष्य (आज्ञापालक) नहीं हो सकता । ये सब लोग तुम्हारे सेवक हैं, तुम इन्हींमेंसे किसीको भेजो ॥ २२ ॥

विश्वास-प्रस्तुतिः

भवान् कलत्रमस्माकं स्वामिभावे व्यवस्थितः ।
स्वामी कलत्रं सैन्यस्य गतिरेषा परन्तप ॥ २३ ॥

मूलम्

भवान् कलत्रमस्माकं स्वामिभावे व्यवस्थितः ।
स्वामी कलत्रं सैन्यस्य गतिरेषा परन्तप ॥ २३ ॥

अनुवाद (हिन्दी)

‘तुम कलत्र (स्त्रीकी भाँति रक्षणीय) हो, (जैसे नारी पतिके हृदयकी स्वामिनी होती है, उसी प्रकार) तुम हमारे स्वामीके पदपर प्रतिष्ठित हो । परंतप! स्वामी सेनाके लिये कलत्र (स्त्री) के समान संरक्षणीय होता है । यही लोककी मान्यता है ॥ २३ ॥

विश्वास-प्रस्तुतिः

अपि वै तस्य कार्यस्य भवान् मूलमरिन्दम ।
तस्मात् कलत्रवत् तात प्रतिपाल्यः सदा भवान् ॥ २४ ॥

मूलम्

अपि वै तस्य कार्यस्य भवान् मूलमरिन्दम ।
तस्मात् कलत्रवत् तात प्रतिपाल्यः सदा भवान् ॥ २४ ॥

अनुवाद (हिन्दी)

‘शत्रुदमन! तात! तुम्हीं उस कार्यके मूल हो, अतः सदा कलत्रकी भाँति तुम्हारा पालन करना उचित है ॥ २४ ॥

विश्वास-प्रस्तुतिः

मूलमर्थस्य संरक्ष्यमेष कार्यविदां नयः ।
मूले हि सति सिध्यन्ति गुणाः सर्वे फलोदयाः ॥ २५ ॥

मूलम्

मूलमर्थस्य संरक्ष्यमेष कार्यविदां नयः ।
मूले हि सति सिध्यन्ति गुणाः सर्वे फलोदयाः ॥ २५ ॥

अनुवाद (हिन्दी)

‘कार्यके मूलकी रक्षा करनी चाहिये । यही कार्यके तत्त्वको जाननेवाले विद्वानोंकी नीति है; क्योंकि मूलके रहनेपर ही सभी गुण सफल सिद्ध होते हैं ॥ २५ ॥

विश्वास-प्रस्तुतिः

तद् भवानस्य कार्यस्य साधनं सत्यविक्रम ।
वुद्धिविक्रमसम्पन्नो हेतुरत्र परन्तप ॥ २६ ॥

मूलम्

तद् भवानस्य कार्यस्य साधनं सत्यविक्रम ।
वुद्धिविक्रमसम्पन्नो हेतुरत्र परन्तप ॥ २६ ॥

अनुवाद (हिन्दी)

‘अतः सत्यपराक्रमी शत्रुदमन वीर! तुम्हीं इस कार्यके साधन तथा बुद्धि और पराक्रमसे सम्पन्न हेतु हो ॥ २६ ॥

विश्वास-प्रस्तुतिः

गुरुश्च गुरुपुत्रश्च त्वं हि नः कपिसत्तम ।
भवन्तमाश्रित्य वयं समर्था ह्यर्थसाधने ॥ २७ ॥

मूलम्

गुरुश्च गुरुपुत्रश्च त्वं हि नः कपिसत्तम ।
भवन्तमाश्रित्य वयं समर्था ह्यर्थसाधने ॥ २७ ॥

अनुवाद (हिन्दी)

‘कपिश्रेष्ठ! तुम्हीं हमारे गुरु और गुरुपुत्र हो । तुम्हारा आश्रय लेकर ही हम सब लोग कार्यसाधनमें समर्थ हो सकते हैं’ ॥ २७ ॥

विश्वास-प्रस्तुतिः

उक्तवाक्यं महाप्राज्ञं जाम्बवन्तं महाकपिः ।
प्रत्युवाचोत्तरं वाक्यं वालिसूनुरथाङ्गदः ॥ २८ ॥

मूलम्

उक्तवाक्यं महाप्राज्ञं जाम्बवन्तं महाकपिः ।
प्रत्युवाचोत्तरं वाक्यं वालिसूनुरथाङ्गदः ॥ २८ ॥

अनुवाद (हिन्दी)

जब परम बुद्धिमान् जाम्बवान् पूर्वोक्त बात कह चुके, तब महाकपि वालिकुमार अङ्गदने उन्हें इस प्रकार उत्तर दिया— ॥ २८ ॥

विश्वास-प्रस्तुतिः

यदि नाहं गमिष्यामि नान्यो वानरपुङ्गवः ।
पुनः खल्विदमस्माभिः कार्यं प्रायोपवेशनम् ॥ २९ ॥

मूलम्

यदि नाहं गमिष्यामि नान्यो वानरपुङ्गवः ।
पुनः खल्विदमस्माभिः कार्यं प्रायोपवेशनम् ॥ २९ ॥

अनुवाद (हिन्दी)

‘यदि मैं नहीं जाऊँगा और दूसरा कोई भी श्रेष्ठ वानर जानेको तैयार न होगा, तब फिर हमलोगोंको निश्चितरूपसे मरणान्त उपवास ही करना चाहिये ॥ २९ ॥

विश्वास-प्रस्तुतिः

नह्यकृत्वा हरिपतेः सन्देशं तस्य धीमतः ।
तत्रापि गत्वा प्राणानां न पश्ये परिरक्षणम् ॥ ३० ॥

मूलम्

नह्यकृत्वा हरिपतेः सन्देशं तस्य धीमतः ।
तत्रापि गत्वा प्राणानां न पश्ये परिरक्षणम् ॥ ३० ॥

अनुवाद (हिन्दी)

‘बुद्धिमान् वानरराज सुग्रीवके आदेशका पालन किये बिना यदि हमलोग किष्किन्धाको लौट चलें तो वहाँ जाकर भी हमें अपने प्राणोंकी रक्षाका कोई उपाय नहीं दिखायी देता ॥ ३० ॥

विश्वास-प्रस्तुतिः

स हि प्रसादे चात्यर्थकोपे च हरिरीश्वरः ।
अतीत्य तस्य सन्देशं विनाशो गमने भवेत् ॥ ३१ ॥

मूलम्

स हि प्रसादे चात्यर्थकोपे च हरिरीश्वरः ।
अतीत्य तस्य सन्देशं विनाशो गमने भवेत् ॥ ३१ ॥

अनुवाद (हिन्दी)

‘वे हमपर कृपा करने और अत्यन्त कुपित होकर हमें दण्ड देनेमें भी समर्थ हैं । उनकी आज्ञाका उल्लङ्घन करके जानेपर हमारा विनाश अवश्यम्भावी है ॥ ३१ ॥

विश्वास-प्रस्तुतिः

तत्तथा ह्यस्य कार्यस्य न भवत्यन्यथा गतिः ।
तद् भवानेव दृष्टार्थः सञ्चिन्तयितुमर्हति ॥ ३२ ॥

मूलम्

तत्तथा ह्यस्य कार्यस्य न भवत्यन्यथा गतिः ।
तद् भवानेव दृष्टार्थः सञ्चिन्तयितुमर्हति ॥ ३२ ॥

अनुवाद (हिन्दी)

‘अतः जिस उपायसे इस सीता दर्शनरूपी कार्यकी सिद्धिमें कोई रुकावट न पड़े, उसका आप ही विचार करें; क्योंकि आपको सब बातोंका अनुभव है’ ॥ ३२ ॥

विश्वास-प्रस्तुतिः

सोऽङ्गदेन तदा वीरः प्रत्युक्तः प्लवगर्षभः ।
जाम्बवानुत्तमं वाक्यं प्रोवाचेदं ततोऽङ्गदम् ॥ ३३ ॥

मूलम्

सोऽङ्गदेन तदा वीरः प्रत्युक्तः प्लवगर्षभः ।
जाम्बवानुत्तमं वाक्यं प्रोवाचेदं ततोऽङ्गदम् ॥ ३३ ॥

अनुवाद (हिन्दी)

उस समय अङ्गदके ऐसा कहनेपर वीर वानर-शिरोमणि जाम्बवान् ने उनसे यह उत्तम बात कही— ॥ ३३ ॥

विश्वास-प्रस्तुतिः

तस्य ते वीर कार्यस्य न किञ्चित् परिहास्यते ।
एष सञ्चोदयाम्येनं यः कार्यं साधयिष्यति ॥ ३४ ॥

मूलम्

तस्य ते वीर कार्यस्य न किञ्चित् परिहास्यते ।
एष सञ्चोदयाम्येनं यः कार्यं साधयिष्यति ॥ ३४ ॥

अनुवाद (हिन्दी)

‘वीर! तुम्हारे इस कार्यमें कोई किंचित् भी त्रुटि नहीं आने पायेगी । अब मैं ऐसे वीरको प्रेरित कर रहा हूँ, जो इस कार्यको सिद्ध कर सकेगा’ ॥ ३४ ॥

विश्वास-प्रस्तुतिः

ततः प्रतीतं प्लवतां वरिष्ठ-
मेकान्तमाश्रित्य सुखोपविष्टम् ।
सञ्चोदयामास हरिप्रवीरो
हरिप्रवीरं हनुमन्तमेव ॥ ३५ ॥

मूलम्

ततः प्रतीतं प्लवतां वरिष्ठ-
मेकान्तमाश्रित्य सुखोपविष्टम् ।
सञ्चोदयामास हरिप्रवीरो
हरिप्रवीरं हनुमन्तमेव ॥ ३५ ॥

अनुवाद (हिन्दी)

ऐसा कहकर वानरों और भालुओंके वीर यूथपति जाम्बवान् ने वानरसेनाके श्रेष्ठ वीर हनुमान् जी को ही प्रेरित किया, जो एकान्तमें जाकर मौजसे बैठे हुए थे । उन्हें किसी बातकी चिन्ता नहीं थी और वे दूरतककी छलाँग मारनेवालोंमें सबसे श्रेष्ठ थे ॥ ३५ ॥

समाप्तिः

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये किष्किन्धाकाण्डे पञ्चषष्टितमः सर्गः ॥ ६५ ॥
इस प्रकार श्रीवाल्मीकिनिर्मित आर्षरामायण आदिकाव्यके किष्किन्धाकाण्डमें पैंसठवाँ सर्ग पूरा हुआ ॥ ६५ ॥