०६४ वानरैः सागरतीरगमनम्

वाचनम्
भागसूचना
  1. समुद्रकी विशालता देखकर विषादमें पड़े हुए वानरोंको आश्वासन दे अङ्गदका उनसे पृथक्-पृथक् समुद्र-लङ्घनके लिये उनकी शक्ति पूछना
विश्वास-प्रस्तुतिः

आख्याता गृध्रराजेन समुत्प्लुत्य प्लवङ्गमाः ।
सङ्गताः प्रीतिसंयुक्ता विनेदुः सिंहविक्रमाः ॥ १ ॥

मूलम्

आख्याता गृध्रराजेन समुत्प्लुत्य प्लवङ्गमाः ।
सङ्गताः प्रीतिसंयुक्ता विनेदुः सिंहविक्रमाः ॥ १ ॥

अनुवाद (हिन्दी)

गृध्रराज सम्पातिके इस प्रकार कहनेपर सिंहके समान पराक्रमी सभी वानर बड़े प्रसन्न हुए और परस्पर मिलकर उछल-उछलकर गर्जने लगे ॥ १ ॥

विश्वास-प्रस्तुतिः

सम्पातेर्वचनं श्रुत्वा हरयो रावणक्षयम् ।
हृष्टाः सागरमाजग्मुः सीतादर्शनकाङ्क्षिणः ॥ २ ॥

मूलम्

सम्पातेर्वचनं श्रुत्वा हरयो रावणक्षयम् ।
हृष्टाः सागरमाजग्मुः सीतादर्शनकाङ्क्षिणः ॥ २ ॥

अनुवाद (हिन्दी)

सम्पातिकी बातोंसे रावणके निवासस्थान तथा उसके भावी विनाशकी सूचना मिली थी । उन्हें सुनकर हर्षसे भरे हुए वे सभी वानर सीताजीके दर्शनकी इच्छा मनमें लिये समुद्रके तटपर आये ॥ २ ॥

विश्वास-प्रस्तुतिः

अभिगम्य तु तं देशं ददृशुर्भीमविक्रमाः ।
कृत्स्नं लोकस्य महतः प्रतिबिम्बमवस्थितम् ॥ ३ ॥

मूलम्

अभिगम्य तु तं देशं ददृशुर्भीमविक्रमाः ।
कृत्स्नं लोकस्य महतः प्रतिबिम्बमवस्थितम् ॥ ३ ॥

अनुवाद (हिन्दी)

उन भयंकर पराक्रमी वानरोंने उस देशमें पहुँचकर समुद्रको देखा, जो इस विराट् विश्वके सम्पूर्ण प्रतिबिम्बकी भाँति स्थित था ॥ ३ ॥

विश्वास-प्रस्तुतिः

दक्षिणस्य समुद्रस्य समासाद्योत्तरां दिशम् ।
सन्निवेशं ततश्चक्रुर्हरिवीरा महाबलाः ॥ ४ ॥

मूलम्

दक्षिणस्य समुद्रस्य समासाद्योत्तरां दिशम् ।
सन्निवेशं ततश्चक्रुर्हरिवीरा महाबलाः ॥ ४ ॥

अनुवाद (हिन्दी)

दक्षिण समुद्रके उत्तर तटपर जाकर उन महाबली वानर वीरोंने डेरा डाला ॥ ४ ॥

विश्वास-प्रस्तुतिः

प्रसुप्तमिव चान्यत्र क्रीडन्तमिव चान्यतः ।
क्वचित् पर्वतमात्रैश्च जलराशिभिरावृतम् ॥ ५ ॥

मूलम्

प्रसुप्तमिव चान्यत्र क्रीडन्तमिव चान्यतः ।
क्वचित् पर्वतमात्रैश्च जलराशिभिरावृतम् ॥ ५ ॥

अनुवाद (हिन्दी)

वह समुद्र कहीं तो तरङ्गहीन एवं शान्त होनेके कारण सोया हुआ-सा जान पड़ता था । अन्यत्र जहाँ थोड़ी-थोड़ी लहरें उठ रही थीं, वहाँ वह क्रीडा करता-सा प्रतीत होता था और दूसरे स्थलोंमें जहाँ उत्ताल तरङ्गें उठती थीं, वहाँ पर्वतके बराबर जलराशियोंसे आवृत दिखायी देता था ॥ ५ ॥

विश्वास-प्रस्तुतिः

सङ्कुलं दानवेन्द्रैश्च पातालतलवासिभिः ।
रोमहर्षकरं दृष्ट्वा विषेदुः कपिकुञ्जराः ॥ ६ ॥

मूलम्

सङ्कुलं दानवेन्द्रैश्च पातालतलवासिभिः ।
रोमहर्षकरं दृष्ट्वा विषेदुः कपिकुञ्जराः ॥ ६ ॥

अनुवाद (हिन्दी)

वह सारा समुद्र पातालनिवासी दानवराजोंसे व्याप्त था । उस रोमाञ्चकारी महासागरको देखकर वे समस्त श्रेष्ठ वानर बड़े विषादमें पड़ गये ॥ ६ ॥

विश्वास-प्रस्तुतिः

आकाशमिव दुष्पारं सागरं प्रेक्ष्य वानराः ।
विषेदुः सहिताः सर्वे कथं कार्यमिति ब्रुवन् ॥ ७ ॥

मूलम्

आकाशमिव दुष्पारं सागरं प्रेक्ष्य वानराः ।
विषेदुः सहिताः सर्वे कथं कार्यमिति ब्रुवन् ॥ ७ ॥

अनुवाद (हिन्दी)

आकाशके समान दुर्लङ्घ्य समुद्रपर दृष्टिपात करके वे सब वानर ‘अब कैसे करना चाहिये’ ऐसा कहते हुए एक साथ बैठकर चिन्ता करने लगे ॥ ७ ॥

विश्वास-प्रस्तुतिः

विषण्णां वाहिनीं दृष्ट्वा सागरस्य निरीक्षणात् ।
आश्वासयामास हरीन् भयार्तान् हरिसत्तमः ॥ ८ ॥

मूलम्

विषण्णां वाहिनीं दृष्ट्वा सागरस्य निरीक्षणात् ।
आश्वासयामास हरीन् भयार्तान् हरिसत्तमः ॥ ८ ॥

अनुवाद (हिन्दी)

उस महासागरका दर्शन करके सारी वानर-सेनाको विषादमें डूबी हुई देख कपिश्रेष्ठ अङ्गद उन भयातुर वानरोंको आश्वासन देते हुए बोले— ॥ ८ ॥

विश्वास-प्रस्तुतिः

न विषादे मनः कार्यं विषादो दोषवत्तरः ।
विषादो हन्ति पुरुषं बालं क्रुद्ध इवोरगः ॥ ९ ॥

मूलम्

न विषादे मनः कार्यं विषादो दोषवत्तरः ।
विषादो हन्ति पुरुषं बालं क्रुद्ध इवोरगः ॥ ९ ॥

अनुवाद (हिन्दी)

‘वीरो! तुम्हें अपने मनको विषादमें नहीं डालना चाहिये; क्योंकि विषादमें बहुत बड़ा दोष है । जैसे क्रोधमें भरा हुआ साँप अपने पास आये हुए बालकको काट खाता है, उसी प्रकार विषाद पुरुषका नाश कर डालता है ॥ ९ ॥

विश्वास-प्रस्तुतिः

यो विषादं प्रसहते विक्रमे समुपस्थिते ।
तेजसा तस्य हीनस्य पुरुषार्थो न सिद्ध्यति ॥ १० ॥

मूलम्

यो विषादं प्रसहते विक्रमे समुपस्थिते ।
तेजसा तस्य हीनस्य पुरुषार्थो न सिद्ध्यति ॥ १० ॥

अनुवाद (हिन्दी)

‘जो पराक्रमका अवसर आनेपर विषादग्रस्त हो जाता है, उसके तेजका नाश होता है । उस तेजोहीन पुरुषका पुरुषार्थ नहीं सिद्ध होता है’ ॥ १० ॥

विश्वास-प्रस्तुतिः

तस्यां रात्र्यां व्यतीतायामङ्गदो वानरैः सह ।
हरिवृद्धैः समागम्य पुनर्मन्त्रममन्त्रयत् ॥ ११ ॥

मूलम्

तस्यां रात्र्यां व्यतीतायामङ्गदो वानरैः सह ।
हरिवृद्धैः समागम्य पुनर्मन्त्रममन्त्रयत् ॥ ११ ॥

अनुवाद (हिन्दी)

उस रात्रिके बीत जानेपर बड़े-बड़े वानरोंके साथ मिलकर अङ्गदने पुनः विचार आरम्भ किया ॥ ११ ॥

विश्वास-प्रस्तुतिः

सा वानराणां ध्वजिनी परिवार्याङ्गदं बभौ ।
वासवं परिवार्येव मरुतां वाहिनी स्थिता ॥ १२ ॥

मूलम्

सा वानराणां ध्वजिनी परिवार्याङ्गदं बभौ ।
वासवं परिवार्येव मरुतां वाहिनी स्थिता ॥ १२ ॥

अनुवाद (हिन्दी)

उस समय अङ्गदको घेरकर बैठी हुई वानरोंकी वह सेना इन्द्रको घेरकर स्थित हुई देवताओंकी विशाल वाहिनीके समान शोभा पाती थी ॥ १२ ॥

विश्वास-प्रस्तुतिः

कोऽन्यस्तां वानरीं सेनां शक्तः स्तम्भयितुं भवेत् ।
अन्यत्र वालितनयादन्यत्र च हनूमतः ॥ १३ ॥

मूलम्

कोऽन्यस्तां वानरीं सेनां शक्तः स्तम्भयितुं भवेत् ।
अन्यत्र वालितनयादन्यत्र च हनूमतः ॥ १३ ॥

अनुवाद (हिन्दी)

वालिपुत्र अङ्गद तथा पवनकुमार हनुमान् जी को छोड़कर दूसरा कौन वीर उस वानरसेनाको सुस्थिर रख सकता था ॥ १३ ॥

विश्वास-प्रस्तुतिः

ततस्तान् हरिवृद्धांश्च तच्च सैन्यमरिन्दमः ।
अनुमान्याङ्गदः श्रीमान् वाक्यमर्थवदब्रवीत् ॥ १४ ॥

मूलम्

ततस्तान् हरिवृद्धांश्च तच्च सैन्यमरिन्दमः ।
अनुमान्याङ्गदः श्रीमान् वाक्यमर्थवदब्रवीत् ॥ १४ ॥

अनुवाद (हिन्दी)

शत्रुवीरोंका दमन करनेवाले श्रीमान् अङ्गदने उन बड़े-बूढ़े वानरोंका सम्मान करके उनसे यह अर्थयुक्त बात कही— ॥ १४ ॥

विश्वास-प्रस्तुतिः

क इदानीं महातेजा लङ्घयिष्यति सागरम् ।
कः करिष्यति सुग्रीवं सत्यसन्धमरिन्दमम् ॥ १५ ॥

मूलम्

क इदानीं महातेजा लङ्घयिष्यति सागरम् ।
कः करिष्यति सुग्रीवं सत्यसन्धमरिन्दमम् ॥ १५ ॥

अनुवाद (हिन्दी)

‘सज्जनो! तुमलोगोंमें कौन ऐसा महातेजस्वी वीर है जो इस समय समुद्रको लाँघ जायगा और शत्रुदमन सुग्रीवको सत्यप्रतिज्ञ बनायेगा ॥ १५ ॥

विश्वास-प्रस्तुतिः

को वीरो योजनशतं लङ्घयेत प्लवङ्गमः ।
इमांश्च यूथपान् सर्वान् मोचयेत् को महाभयात् ॥ १६ ॥

मूलम्

को वीरो योजनशतं लङ्घयेत प्लवङ्गमः ।
इमांश्च यूथपान् सर्वान् मोचयेत् को महाभयात् ॥ १६ ॥

अनुवाद (हिन्दी)

‘कौन वीर वानर सौ योजन समुद्रको लाँघ सकेगा? और कौन इन समस्त यूथपतियोंको महान् भयसे मुक्त कर देगा? ॥ १६ ॥

विश्वास-प्रस्तुतिः

कस्य प्रसादाद् दारांश्च पुत्रांश्चैव गृहाणि च ।
इतो निवृत्ताः पश्येम सिद्धार्थाः सुखिनो वयम् ॥ १७ ॥

मूलम्

कस्य प्रसादाद् दारांश्च पुत्रांश्चैव गृहाणि च ।
इतो निवृत्ताः पश्येम सिद्धार्थाः सुखिनो वयम् ॥ १७ ॥

अनुवाद (हिन्दी)

‘किसके प्रसादसे हमलोग सफल मनोरथ एवं सुखी होकर यहाँसे लौटेंगे और घर-द्वार तथा स्त्री-पुत्रोंका मुँह देख सकेंगे ॥ १७ ॥

विश्वास-प्रस्तुतिः

कस्य प्रसादाद् रामं च लक्ष्मणं च महाबलम् ।
अभिगच्छेम संहृष्टाः सुग्रीवं च वनौकसम् ॥ १८ ॥

मूलम्

कस्य प्रसादाद् रामं च लक्ष्मणं च महाबलम् ।
अभिगच्छेम संहृष्टाः सुग्रीवं च वनौकसम् ॥ १८ ॥

अनुवाद (हिन्दी)

‘किसके प्रसादसे हमलोग हर्षोत्फुल्ल होकर श्रीराम, महाबली लक्ष्मण तथा वानरवीर सुग्रीवके पास चल सकेंगे ॥ १८ ॥

विश्वास-प्रस्तुतिः

यदि कश्चित् समर्थो वः सागरप्लवने हरिः ।
स ददात्विह नः शीघ्रं पुण्यामभयदक्षिणाम् ॥ १९ ॥

मूलम्

यदि कश्चित् समर्थो वः सागरप्लवने हरिः ।
स ददात्विह नः शीघ्रं पुण्यामभयदक्षिणाम् ॥ १९ ॥

अनुवाद (हिन्दी)

‘यदि तुमलोगोंमेंसे कोई वानरवीर समुद्रको लाँघ जानेमें समर्थ हो तो वह शीघ्र ही हमें यहाँ परम पवित्र अभय दान दे’ ॥ १९ ॥

विश्वास-प्रस्तुतिः

अङ्गदस्य वचः श्रुत्वा न कश्चित् किञ्चिदब्रवीत् ।
स्तिमितेवाभवत् सर्वा सा तत्र हरिवाहिनी ॥ २० ॥

मूलम्

अङ्गदस्य वचः श्रुत्वा न कश्चित् किञ्चिदब्रवीत् ।
स्तिमितेवाभवत् सर्वा सा तत्र हरिवाहिनी ॥ २० ॥

अनुवाद (हिन्दी)

अङ्गदकी यह बात सुनकर कोई कुछ नहीं बोला । वह सारी वानर-सेना वहाँ जडवत् स्थिर रही ॥ २० ॥

विश्वास-प्रस्तुतिः

पुनरेवाङ्गदः प्राह तान् हरीन् हरिसत्तमः ।
सर्वे बलवतां श्रेष्ठा भवन्तो दृढविक्रमाः ।
व्यपदेशकुले जाताः पूजिताश्चाप्यभीक्ष्णशः ॥ २१ ॥

मूलम्

पुनरेवाङ्गदः प्राह तान् हरीन् हरिसत्तमः ।
सर्वे बलवतां श्रेष्ठा भवन्तो दृढविक्रमाः ।
व्यपदेशकुले जाताः पूजिताश्चाप्यभीक्ष्णशः ॥ २१ ॥

अनुवाद (हिन्दी)

तब वानरश्रेष्ठ अङ्गदने पुनः उन सबसे कहा— ‘बलवानोंमें श्रेष्ठ वानरो! तुम सब लोग दृढ़तापूर्वक पराक्रम प्रकट करनेवाले हो । तुम्हारा जन्म कलङ्करहित उत्तम कुलमें हुआ है । इसके लिये तुम्हारी बारम्बार प्रशंसा हो चुकी है ॥ २१ ॥

विश्वास-प्रस्तुतिः

नहि वो गमने भङ्गः कदाचित् कस्यचिद् भवेत् ।
ब्रुवध्वं यस्य या शक्तिः प्लवने प्लवगर्षभाः ॥ २२ ॥

मूलम्

नहि वो गमने भङ्गः कदाचित् कस्यचिद् भवेत् ।
ब्रुवध्वं यस्य या शक्तिः प्लवने प्लवगर्षभाः ॥ २२ ॥

अनुवाद (हिन्दी)

‘श्रेष्ठ वानरो! तुमलोगोंमें कभी किसीकी भी गति कहीं नहीं रुकती । इसलिये समुद्रको लाँघनेमें जिसकी जितनी शक्ति हो, वह उसे बतावे’ ॥ २२ ॥

समाप्तिः

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये किष्किन्धाकाण्डे चतुःषष्टितमः सर्गः ॥ ६४ ॥
इस प्रकार श्रीवाल्मीकिनिर्मित आर्षरामायण आदिकाव्यके किष्किन्धाकाण्डमें चौंसठवाँ सर्ग पूरा हुआ ॥ ६४ ॥