वाचनम्
भागसूचना
- तापसी स्वयंप्रभाके पूछनेपर वानरोंका उसे अपना वृत्तान्त बताना और उसके प्रभावसे गुफाके बाहर निकलकर समुद्रतटपर पहुँचना
विश्वास-प्रस्तुतिः
अथ तानब्रवीत् सर्वान् विश्रान्तान् हरियूथपान् ।
इदं वचनमेकाग्रा तापसी धर्मचारिणी ॥ १ ॥
मूलम्
अथ तानब्रवीत् सर्वान् विश्रान्तान् हरियूथपान् ।
इदं वचनमेकाग्रा तापसी धर्मचारिणी ॥ १ ॥
अनुवाद (हिन्दी)
तत्पश्चात् जब सब वानर-यूथपति खा-पीकर विश्राम कर चुके, तब धर्मका आचरण करनेवाली वह एकाग्रहृदया तपस्विनी उन सबसे इस प्रकार बोली— ॥ १ ॥
विश्वास-प्रस्तुतिः
वानरा यदि वः खेदः प्रणष्टः फलभक्षणात् ।
यदि चैतन्मया श्राव्यं श्रोतुमिच्छामि तां कथाम् ॥ २ ॥
मूलम्
वानरा यदि वः खेदः प्रणष्टः फलभक्षणात् ।
यदि चैतन्मया श्राव्यं श्रोतुमिच्छामि तां कथाम् ॥ २ ॥
अनुवाद (हिन्दी)
‘वानरो! यदि फल खानेसे तुम्हारी थकावट दूर हो गयी हो और यदि तुम्हारा वृत्तान्त मेरे सुनने योग्य हो तो मैं उसे सुनना चाहती हूँ’ ॥ २ ॥
विश्वास-प्रस्तुतिः
तस्यास्तद् वचनं श्रुत्वा हनूमान् मारुतात्मजः ।
आर्जवेन यथातत्त्वमाख्यातुमुपचक्रमे ॥ ३ ॥
मूलम्
तस्यास्तद् वचनं श्रुत्वा हनूमान् मारुतात्मजः ।
आर्जवेन यथातत्त्वमाख्यातुमुपचक्रमे ॥ ३ ॥
अनुवाद (हिन्दी)
उसकी यह बात सुनकर पवनकुमार हनुमान् जी बड़ी सरलताके साथ यथार्थ बात कहने लगे— ॥ ३ ॥
विश्वास-प्रस्तुतिः
राजा सर्वस्य लोकस्य महेन्द्रवरुणोपमः ।
रामो दाशरथिः श्रीमान् प्रविष्टो दण्डकावनम् ॥ ४ ॥
मूलम्
राजा सर्वस्य लोकस्य महेन्द्रवरुणोपमः ।
रामो दाशरथिः श्रीमान् प्रविष्टो दण्डकावनम् ॥ ४ ॥
अनुवाद (हिन्दी)
‘देवि! सम्पूर्ण जगत् के राजा दशरथनन्दन श्रीमान् भगवान् राम, जो देवराज इन्द्र और वरुणके समान तेजस्वी हैं, दण्डकारण्यमें पधारे थे ॥ ४ ॥
विश्वास-प्रस्तुतिः
लक्ष्मणेन सह भ्रात्रा वैदेह्या सह भार्यया ।
तस्य भार्या जनस्थानाद् रावणेन हृता बलात् ॥ ५ ॥
मूलम्
लक्ष्मणेन सह भ्रात्रा वैदेह्या सह भार्यया ।
तस्य भार्या जनस्थानाद् रावणेन हृता बलात् ॥ ५ ॥
अनुवाद (हिन्दी)
‘उनके साथ उनके छोटे भाई लक्ष्मण तथा उनकी धर्मपत्नी विदेहनन्दिनी सीता भी थीं । जनस्थानमें आकर रावणने उनकी स्त्रीका बलपूर्वक अपहरण कर लिया ॥ ५ ॥
विश्वास-प्रस्तुतिः
वीरस्तस्य सखा राज्ञः सुग्रीवो नाम वानरः ।
राजा वानरमुख्यानां येन प्रस्थापिता वयम् ॥ ६ ॥
अगस्त्यचरितामाशां दक्षिणां यमरक्षिताम् ।
सहैभिर्वानरैर्मुख्यैरङ्गदप्रमुखैर्वयम् ॥ ७ ॥
मूलम्
वीरस्तस्य सखा राज्ञः सुग्रीवो नाम वानरः ।
राजा वानरमुख्यानां येन प्रस्थापिता वयम् ॥ ६ ॥
अगस्त्यचरितामाशां दक्षिणां यमरक्षिताम् ।
सहैभिर्वानरैर्मुख्यैरङ्गदप्रमुखैर्वयम् ॥ ७ ॥
अनुवाद (हिन्दी)
‘श्रेष्ठ वानरोंके राजा वानरजातीय वीरवर सुग्रीव महाराज श्रीरामचन्द्रजीके मित्र हैं, जिन्होंने इन अङ्गद आदि प्रधान वीरोंके साथ हमलोगोंको सीताकी खोज करनेके लिये अगस्त्यसेवित और यमराजद्वारा सुरक्षित दक्षिण दिशामें भेजा है ॥ ६-७ ॥
विश्वास-प्रस्तुतिः
रावणं सहिताः सर्वे राक्षसं कामरूपिणम् ।
सीतया सह वैदेह्या मार्गध्वमिति चोदिताः ॥ ८ ॥
मूलम्
रावणं सहिताः सर्वे राक्षसं कामरूपिणम् ।
सीतया सह वैदेह्या मार्गध्वमिति चोदिताः ॥ ८ ॥
अनुवाद (हिन्दी)
‘उन्होंने आज्ञा दी थी कि तुम सब लोग एक साथ रहकर विदेहकुमारी सीतासहित उस इच्छानुसार रूप धारण करनेवाले राक्षसराज रावणका पता लगाना ॥ ८ ॥
विश्वास-प्रस्तुतिः
विचित्य तु वनं सर्वं समुद्रं दक्षिणां दिशम् ।
वयं बुभुक्षिताः सर्वे वृक्षमूलमुपाश्रिताः ॥ ९ ॥
मूलम्
विचित्य तु वनं सर्वं समुद्रं दक्षिणां दिशम् ।
वयं बुभुक्षिताः सर्वे वृक्षमूलमुपाश्रिताः ॥ ९ ॥
अनुवाद (हिन्दी)
‘हमने यहाँका सारा जंगल छान डाला । अब दक्षिण दिशामें समुद्रके भीतर उनका अन्वेषण करना है । अबतक सीताका कुछ पता नहीं लगा और हमलोग भूख-प्याससे पीड़ित हो गये । अन्तमें हम सब-के-सब एक वृक्षके नीचे थककर बैठ गये ॥ ९ ॥
विश्वास-प्रस्तुतिः
विवर्णवदनाः सर्वे सर्वे ध्यानपरायणाः ।
नाधिगच्छामहे पारं मग्नाश्चिन्तामहार्णवे ॥ १० ॥
मूलम्
विवर्णवदनाः सर्वे सर्वे ध्यानपरायणाः ।
नाधिगच्छामहे पारं मग्नाश्चिन्तामहार्णवे ॥ १० ॥
अनुवाद (हिन्दी)
‘हमारे मुखकी कान्ति फीकी पड़ गयी । हम सभी चिन्तामें मग्न हो गये । चिन्ताके महासागरमें डूबकर हम उसका पार नहीं पा रहे थे ॥ १० ॥
विश्वास-प्रस्तुतिः
चारयन्तस्ततश्चक्षुर्दृष्टवन्तो महद् बिलम् ।
लतापादपसञ्छन्नं तिमिरेण समावृतम् ॥ ११ ॥
मूलम्
चारयन्तस्ततश्चक्षुर्दृष्टवन्तो महद् बिलम् ।
लतापादपसञ्छन्नं तिमिरेण समावृतम् ॥ ११ ॥
अनुवाद (हिन्दी)
‘इसी समय चारों ओर दृष्टि दौड़ानेपर हमको यह विशाल गुफा दिखायी पड़ी, जो लता और वृक्षोंसे ढकी हुई तथा अन्धकारसे आच्छन्न थी ॥ ११ ॥
विश्वास-प्रस्तुतिः
अस्माद्धंसा जलक्लिन्नाः पक्षैः सलिलरेणुभिः ।
कुरराः सारसाश्चैव निष्पतन्ति पतत्त्रिणः ॥ १२ ॥
मूलम्
अस्माद्धंसा जलक्लिन्नाः पक्षैः सलिलरेणुभिः ।
कुरराः सारसाश्चैव निष्पतन्ति पतत्त्रिणः ॥ १२ ॥
अनुवाद (हिन्दी)
‘थोड़ी ही देरमें इस गुफासे हंस, कुरर और सारस आदि पक्षी निकले, जिनके पंख जलसे भीगे थे और उनमें कीचड़ लगी हुई थी ॥ १२ ॥
विश्वास-प्रस्तुतिः
साध्वत्र प्रविशामेति मया तूक्ताः प्लवङ्गमाः ।
तेषामपि हि सर्वेषामनुमानमुपागतम् ॥ १३ ॥
मूलम्
साध्वत्र प्रविशामेति मया तूक्ताः प्लवङ्गमाः ।
तेषामपि हि सर्वेषामनुमानमुपागतम् ॥ १३ ॥
अनुवाद (हिन्दी)
‘तब मैंने वानरोंसे कहा, ‘अच्छा होगा कि हमलोग इसके भीतर प्रवेश करें’ । इन सब वानरोंको भी यह अनुमान हो गया कि गुफाके भीतर पानी है ॥ १३ ॥
विश्वास-प्रस्तुतिः
अस्मिन् निपतिताः सर्वेऽप्यथ कार्यत्वरान्विताः ।
ततो गाढं निपतिता गृह्य हस्तैः परस्परम् ॥ १४ ॥
मूलम्
अस्मिन् निपतिताः सर्वेऽप्यथ कार्यत्वरान्विताः ।
ततो गाढं निपतिता गृह्य हस्तैः परस्परम् ॥ १४ ॥
अनुवाद (हिन्दी)
‘हम सब लोग अपने कार्यकी सिद्धिके लिये उतावले थे ही, अतः इस गुफामें कूद पड़े । अपने हाथोंसे एक-दूसरेको दृढ़तापूर्वक पकड़कर हम गुफामें आगे बढ़ने लगे ॥ १४ ॥
विश्वास-प्रस्तुतिः
इदं प्रविष्टाः सहसा बिलं तिमिरसंवृतम् ।
एतन्नः कार्यमेतेन कृत्येन वयमागताः ॥ १५ ॥
मूलम्
इदं प्रविष्टाः सहसा बिलं तिमिरसंवृतम् ।
एतन्नः कार्यमेतेन कृत्येन वयमागताः ॥ १५ ॥
अनुवाद (हिन्दी)
‘इस तरह सहसा हमलोगोंने इस अँधेरी गुफामें प्रवेश किया । यही हमारा कार्य है और इसी कार्यसे हम इधर आये हैं ॥ १५ ॥
विश्वास-प्रस्तुतिः
त्वां चैवोपगताः सर्वे परिद्यूना बुभुक्षिताः ।
आतिथ्यधर्मदत्तानि मूलानि च फलानि च ॥ १६ ॥
अस्माभिरुपयुक्तानि बुभुक्षापरिपीडितैः ।
मूलम्
त्वां चैवोपगताः सर्वे परिद्यूना बुभुक्षिताः ।
आतिथ्यधर्मदत्तानि मूलानि च फलानि च ॥ १६ ॥
अस्माभिरुपयुक्तानि बुभुक्षापरिपीडितैः ।
अनुवाद (हिन्दी)
‘भूखसे व्याकुल एवं दुर्बल होनेके कारण हम सबने तुम्हारी शरण ली । तुमने आतिथ्य-धर्मके अनुसार हमें फल और मूल अर्पित किये और हमने भी भूखसे पीड़ित होनेके कारण उन्हें भरपेट खाया ॥ १६ १/२ ॥
विश्वास-प्रस्तुतिः
यत् त्वया रक्षिताः सर्वे म्रियमाणा बुभुक्षया ॥ १७ ॥
ब्रूहि प्रत्युपकारार्थं किं ते कुर्वन्तु वानराः ।
मूलम्
यत् त्वया रक्षिताः सर्वे म्रियमाणा बुभुक्षया ॥ १७ ॥
ब्रूहि प्रत्युपकारार्थं किं ते कुर्वन्तु वानराः ।
अनुवाद (हिन्दी)
‘देवि! हम भूखसे मर रहे थे । तुमने हम सब लोगोंके प्राण बचा लिये । अतः बताओ ये वानर तुम्हारे उपकारका बदला चुकानेके लिये क्या सेवा करें’ ॥ १७ १/२ ॥
विश्वास-प्रस्तुतिः
एवमुक्ता तु सर्वज्ञा वानरैस्तैः स्वयम्प्रभा ॥ १८ ॥
प्रत्युवाच ततः सर्वानिदं वानरयूथपान् ।
मूलम्
एवमुक्ता तु सर्वज्ञा वानरैस्तैः स्वयम्प्रभा ॥ १८ ॥
प्रत्युवाच ततः सर्वानिदं वानरयूथपान् ।
अनुवाद (हिन्दी)
स्वयंप्रभा सर्वज्ञ थी । उन वानरोंके ऐसा कहनेपर उसने उन सभी यूथपतियोंको इस प्रकार उत्तर दिया’—
विश्वास-प्रस्तुतिः
सर्वेषां परितुष्टास्मि वानराणां तरस्विनाम् ॥ १९ ॥
चरन्त्या मम धर्मेण न कार्यमिह केनचित् ।
मूलम्
सर्वेषां परितुष्टास्मि वानराणां तरस्विनाम् ॥ १९ ॥
चरन्त्या मम धर्मेण न कार्यमिह केनचित् ।
अनुवाद (हिन्दी)
‘मैं तुम सभी वेगशाली वानरोंपर यों ही बहुत संतुष्ट हूँ । धर्मानुष्ठानमें लगी रहनेके कारण मुझे किसीसे कोई प्रयोजन नहीं रह गया है’ ॥ १९ १/२ ॥
विश्वास-प्रस्तुतिः
एवमुक्तः शुभं वाक्यं तापस्या धर्मसंहितम् ॥ २० ॥
उवाच हनुमान् वाक्यं तामनिन्दितलोचनाम् ।
मूलम्
एवमुक्तः शुभं वाक्यं तापस्या धर्मसंहितम् ॥ २० ॥
उवाच हनुमान् वाक्यं तामनिन्दितलोचनाम् ।
अनुवाद (हिन्दी)
उस तपस्विनीने जब इस प्रकार धर्मयुक्त उत्तम बात कही, तब हनुमान् जी ने निर्दोष दृष्टिवाली उस देवीसे यों कहा— ॥ २० १/२ ॥
विश्वास-प्रस्तुतिः
शरणं त्वां प्रपन्नाः स्मः सर्वे वै धर्मचारिणीम् ॥ २१ ॥
यः कृतः समयोऽस्मासु सुग्रीवेण महात्मना ।
स तु कालो व्यतिक्रान्तो बिले च परिवर्तताम् ॥ २२ ॥
मूलम्
शरणं त्वां प्रपन्नाः स्मः सर्वे वै धर्मचारिणीम् ॥ २१ ॥
यः कृतः समयोऽस्मासु सुग्रीवेण महात्मना ।
स तु कालो व्यतिक्रान्तो बिले च परिवर्तताम् ॥ २२ ॥
अनुवाद (हिन्दी)
‘देवि! तुम धर्माचरणमें लगी हुई हो । अतः हम सब लोग तुम्हारी शरणमें आये हैं । महात्मा सुग्रीवने हमलोगोंके लौटनेके लिये जो समय निश्चित किया था, वह इस गुफाके भीतर घूमनेमें ही बीत गया ॥ २१-२२ ॥
विश्वास-प्रस्तुतिः
सा त्वमस्माद् बिलादस्मानुत्तारयितुमर्हसि ।
तस्मात् सुग्रीववचनादतिक्रान्तान् गतायुषः ॥ २३ ॥
त्रातुमर्हसि नः सर्वान् सुग्रीवभयशङ्कितान् ।
मूलम्
सा त्वमस्माद् बिलादस्मानुत्तारयितुमर्हसि ।
तस्मात् सुग्रीववचनादतिक्रान्तान् गतायुषः ॥ २३ ॥
त्रातुमर्हसि नः सर्वान् सुग्रीवभयशङ्कितान् ।
अनुवाद (हिन्दी)
‘अब तुम कृपा करके हमें इस बिलसे बाहर निकाल दो । सुग्रीवके बताये हुए समयको हम लाँघ चुके हैं, इसलिये अब हमारी आयु पूरी हो चुकी है । हम सबके-सब सुग्रीवके भयसे डरे हुए हैं । अतः तुम हमारा उद्धार करो ॥ २३ १/२ ॥
विश्वास-प्रस्तुतिः
महच्च कार्यमस्माभिः कर्तव्यं धर्मचारिणि ॥ २४ ॥
तच्चापि न कृतं कार्यमस्माभिरिह वासिभिः ।
मूलम्
महच्च कार्यमस्माभिः कर्तव्यं धर्मचारिणि ॥ २४ ॥
तच्चापि न कृतं कार्यमस्माभिरिह वासिभिः ।
अनुवाद (हिन्दी)
‘धर्मचारिणि! हमें जो महान् कार्य करना है, उसे भी हम इस गुफामें रहनेके कारण नहीं कर सके हैं’ ॥
विश्वास-प्रस्तुतिः
एवमुक्ता हनुमता तापसी वाक्यमब्रवीत् ॥ २५ ॥
जीवता दुष्करं मन्ये प्रविष्टेन निवर्तितुम् ।
तपसः सुप्रभावेण नियमोपार्जितेन च ॥ २६ ॥
सर्वानेव बिलादस्मात् तारयिष्यामि वानरान् ।
मूलम्
एवमुक्ता हनुमता तापसी वाक्यमब्रवीत् ॥ २५ ॥
जीवता दुष्करं मन्ये प्रविष्टेन निवर्तितुम् ।
तपसः सुप्रभावेण नियमोपार्जितेन च ॥ २६ ॥
सर्वानेव बिलादस्मात् तारयिष्यामि वानरान् ।
अनुवाद (हिन्दी)
हनुमान् जी के ऐसा कहनेपर तापसी बोली—‘मैं समझती हूँ जो एक बार इस गुफामें चला आता है, उसका जीते-जी यहाँसे लौटना बहुत कठिन हो जाता है । तथापि नियमोंके पालन और तपस्याके उत्तम प्रभावसे मैं तुम सभी वानरोंको इस गुफासे बाहर निकाल दूँगी ॥
विश्वास-प्रस्तुतिः
निमीलयत चक्षूंषि सर्वे वानरपुङ्गवाः ॥ २७ ॥
नहि निष्क्रमितुं शक्यमनिमीलितलोचनैः ।
मूलम्
निमीलयत चक्षूंषि सर्वे वानरपुङ्गवाः ॥ २७ ॥
नहि निष्क्रमितुं शक्यमनिमीलितलोचनैः ।
अनुवाद (हिन्दी)
‘श्रेष्ठ वानरो! तुम सब लोग अपनी-अपनी आँखें बंद कर लो । आँख बंद किये बिना यहाँसे निकलना असम्भव है’ ॥ २७ १/२ ॥
विश्वास-प्रस्तुतिः
ततो निमीलिताः सर्वे सुकुमाराङ्गुलैः करैः ॥ २८ ॥
सहसा पिदधुर्दृष्टिं हृष्टा गमनकाङ्क्षया ।
मूलम्
ततो निमीलिताः सर्वे सुकुमाराङ्गुलैः करैः ॥ २८ ॥
सहसा पिदधुर्दृष्टिं हृष्टा गमनकाङ्क्षया ।
अनुवाद (हिन्दी)
यह सुनकर सबने सुकुमार अङ्गुलिवाले हाथोंसे आँखें मूँद लीं । गुफासे बाहर निकलनेकी इच्छासे प्रसन्न होकर उन सबने सहसा नेत्र बंद कर लिये ॥ २८ १/२ ॥
विश्वास-प्रस्तुतिः
वानरास्तु महात्मानो हस्तरुद्धमुखास्तदा ॥ २९ ॥
निमेषान्तरमात्रेण बिलादुत्तारितास्तया ।
मूलम्
वानरास्तु महात्मानो हस्तरुद्धमुखास्तदा ॥ २९ ॥
निमेषान्तरमात्रेण बिलादुत्तारितास्तया ।
अनुवाद (हिन्दी)
इस प्रकार उस समय हाथोंसे मुँह ढक लेनेके कारण उन महात्मा वानरोंको स्वयंप्रभाने पलक मारते-मारते बिलसे बाहर निकाल दिया ॥ २९ १/२ ॥
विश्वास-प्रस्तुतिः
उवाच सर्वांस्तांस्तत्र तापसी धर्मचारिणी ॥ ३० ॥
निःसृतान् विषमात् तस्मात् समाश्वास्येदमब्रवीत् ।
मूलम्
उवाच सर्वांस्तांस्तत्र तापसी धर्मचारिणी ॥ ३० ॥
निःसृतान् विषमात् तस्मात् समाश्वास्येदमब्रवीत् ।
अनुवाद (हिन्दी)
तत्पश्चात् वहाँ उस धर्मपरायणा तापसीने उस विषम गुफासे बाहर निकले हुए समस्त वानरोंको आश्वासन देकर इस प्रकार कहा— ॥ ३० १/२ ॥
विश्वास-प्रस्तुतिः
एष विन्ध्यो गिरिः श्रीमान् नानाद्रुमलतायुतः ॥ ३१ ॥
एष प्रस्रवणः शैलः सागरोऽयं महोदधिः ।
स्वस्ति वोऽस्तु गमिष्यामि भवनं वानरर्षभाः ।
इत्युक्त्वा तद् बिलं श्रीमत् प्रविवेश स्वयम्प्रभा ॥ ३२ ॥

‘श्रेष्ठ वानरो! यह रहा नाना प्रकारके वृक्षों और लताओंसे व्याप्त शोभाशाली विन्ध्यगिरि । इधर यह प्रस्रवणगिरि है और सामने यह महासागर लहरा रहा है । तुम्हारा कल्याण हो । अब मैं अपने स्थानपर जाती हूँ ।’ ऐसा कहकर स्वयंप्रभा उस सुन्दर गुफामें चली गयी ॥
समाप्तिः
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये किष्किन्धाकाण्डे द्विपञ्चाशः सर्गः ॥ ५२ ॥
इस प्रकार श्रीवाल्मीकिनिर्मित आर्षरामायण आदिकाव्यके किष्किन्धाकाण्डमें बावनवाँ सर्ग पूरा हुआ ॥ ५२ ॥