वाचनम्
भागसूचना
- अङ्गद और गन्धमादनके आश्वासन देनेपर वानरोंका पुनःउत्साहपूर्वक अन्वेषण-कार्यमें प्रवृत्त होना
विश्वास-प्रस्तुतिः
अथाङ्गदस्तदा सर्वान् वानरानिदमब्रवीत् ।
परिश्रान्तो महाप्राज्ञः समाश्वास्य शनैर्वचः ॥ १ ॥
मूलम्
अथाङ्गदस्तदा सर्वान् वानरानिदमब्रवीत् ।
परिश्रान्तो महाप्राज्ञः समाश्वास्य शनैर्वचः ॥ १ ॥
अनुवाद (हिन्दी)
तदनन्तर परिश्रमसे थके हुए महाबुद्धिमान् अङ्गद सम्पूर्ण वानरोंको आश्वासन देकर धीरे-धीरे इस प्रकार कहने लगे— ॥ १ ॥
विश्वास-प्रस्तुतिः
वनानि गिरयो नद्यो दुर्गाणि गहनानि च ।
दरी गिरिगुहाश्चैव विचिताः सर्वमन्ततः ॥ २ ॥
तत्र तत्र सहास्माभिर्जानकी न च दृश्यते ।
तथा रक्षोऽपहर्ता च सीतायाश्चैव दुष्कृती ॥ ३ ॥
मूलम्
वनानि गिरयो नद्यो दुर्गाणि गहनानि च ।
दरी गिरिगुहाश्चैव विचिताः सर्वमन्ततः ॥ २ ॥
तत्र तत्र सहास्माभिर्जानकी न च दृश्यते ।
तथा रक्षोऽपहर्ता च सीतायाश्चैव दुष्कृती ॥ ३ ॥
अनुवाद (हिन्दी)
‘हमलोगोंने वन, पर्वत, नदियाँ, दुर्गम स्थान, घने जंगल, कन्दरा और गुफाएँ भीतर प्रवेश करके अच्छी तरह देख डालीं; परंतु उन स्थानोंमें हमें न तो जानकीके दर्शन हुए और न उनका अपहरण करनेवाला वह पापी राक्षस ही मिला ॥ २-३ ॥
विश्वास-प्रस्तुतिः
कालश्च नो महान् यातः सुग्रीवश्चोग्रशासनः ।
तस्माद् भवन्तः सहिता विचिन्वन्तु समन्ततः ॥ ४ ॥
मूलम्
कालश्च नो महान् यातः सुग्रीवश्चोग्रशासनः ।
तस्माद् भवन्तः सहिता विचिन्वन्तु समन्ततः ॥ ४ ॥
अनुवाद (हिन्दी)
‘हमारा समय भी बहुत बीत गया । राजा सुग्रीवका शासन बड़ा भयंकर है । अतः आपलोग मिलकर पुनः सब ओर सीताकी खोज आरम्भ करें ॥ ४ ॥
विश्वास-प्रस्तुतिः
विहाय तन्द्रीं शोकं च निद्रां चैव समुत्थिताम् ।
विचिनुध्वं तथा सीतां पश्यामो जनकात्मजाम् ॥ ५ ॥
मूलम्
विहाय तन्द्रीं शोकं च निद्रां चैव समुत्थिताम् ।
विचिनुध्वं तथा सीतां पश्यामो जनकात्मजाम् ॥ ५ ॥
अनुवाद (हिन्दी)
‘आलस्य, शोक और आयी हुई निद्राका परित्याग करके इस प्रकार ढूँढ़ें, जिससे हमें जनककुमारी सीताका दर्शन हो सके ॥ ५ ॥
विश्वास-प्रस्तुतिः
अनिर्वेदं च दाक्ष्यं च मनसश्चापराजयम् ।
कार्यसिद्धिकराण्याहुस्तस्मादेतद् ब्रवीम्यहम् ॥ ६ ॥
मूलम्
अनिर्वेदं च दाक्ष्यं च मनसश्चापराजयम् ।
कार्यसिद्धिकराण्याहुस्तस्मादेतद् ब्रवीम्यहम् ॥ ६ ॥
अनुवाद (हिन्दी)
‘उत्साह, सामर्थ्य और मनमें हिम्मत न हारना—ये कार्यकी सिद्धि करानेवाले सद्गुण कहे गये हैं; इसीलिये मैं आपलोगोंसे यह बात कह रहा हूँ ॥ ६ ॥
विश्वास-प्रस्तुतिः
अद्यापीदं वनं दुर्गं विचिन्वन्तु वनौकसः ।
खेदं त्यक्त्वा पुनः सर्वं वनमेव विचिन्वताम् ॥ ७ ॥
मूलम्
अद्यापीदं वनं दुर्गं विचिन्वन्तु वनौकसः ।
खेदं त्यक्त्वा पुनः सर्वं वनमेव विचिन्वताम् ॥ ७ ॥
अनुवाद (हिन्दी)
‘आज भी सारे वानर खेद छोड़कर इस दुर्गम वनमें खोज आरम्भ करें और सारे वनको ही छान डालें ॥ ७ ॥
विश्वास-प्रस्तुतिः
अवश्यं कुर्वतां तस्य दृश्यते कर्मणः फलम् ।
परं निर्वेदमागम्य नहि नोन्मीलनं क्षमम् ॥ ८ ॥
मूलम्
अवश्यं कुर्वतां तस्य दृश्यते कर्मणः फलम् ।
परं निर्वेदमागम्य नहि नोन्मीलनं क्षमम् ॥ ८ ॥
अनुवाद (हिन्दी)
‘कर्ममें लगे रहनेवाले लोगोंको उस कर्मका फल अवश्य होता दिखायी देता है; अतः अत्यन्त खिन्न होकर उद्योगको छोड़ बैठना कदापि उचित नहीं है ॥
विश्वास-प्रस्तुतिः
सुग्रीवः क्रोधनो राजा तीक्ष्णदण्डश्च वानराः ।
भेतव्यं तस्य सततं रामस्य च महात्मनः ॥ ९ ॥
मूलम्
सुग्रीवः क्रोधनो राजा तीक्ष्णदण्डश्च वानराः ।
भेतव्यं तस्य सततं रामस्य च महात्मनः ॥ ९ ॥
अनुवाद (हिन्दी)
‘सुग्रीव क्रोधी राजा हैं । उनका दण्ड भी बड़ा कठोर होता है । वानरो! उनसे तथा महात्मा श्रीरामसे आपलोगोंको सदा डरते रहना चाहिये ॥ ९ ॥
विश्वास-प्रस्तुतिः
हितार्थमेतदुक्तं वः क्रियतां यदि रोचते ।
उच्यतां हि क्षमं यत् तत् सर्वेषामेव वानराः ॥ १० ॥
मूलम्
हितार्थमेतदुक्तं वः क्रियतां यदि रोचते ।
उच्यतां हि क्षमं यत् तत् सर्वेषामेव वानराः ॥ १० ॥
अनुवाद (हिन्दी)
‘आपलोगोंकी भलाईके लिये ही मैंने ये बातें कही हैं । यदि अच्छी लगें तो आप इन्हें स्वीकार करें । अथवा वानरो! जो सबके लिये उचित हो, वह कार्य आप ही लोग बतावें’ ॥ १० ॥
विश्वास-प्रस्तुतिः
अङ्गदस्य वचः श्रुत्वा वचनं गन्धमादनः ।
उवाच व्यक्तया वाचा पिपासाश्रमखिन्नया ॥ ११ ॥
मूलम्
अङ्गदस्य वचः श्रुत्वा वचनं गन्धमादनः ।
उवाच व्यक्तया वाचा पिपासाश्रमखिन्नया ॥ ११ ॥
अनुवाद (हिन्दी)
अङ्गदकी यह बात सुनकर गन्धमादनने प्यास और थकावटसे शिथिल हुई स्पष्ट वाणीमें कहा— ॥ ११ ॥
विश्वास-प्रस्तुतिः
सदृशं खलु वो वाक्यमङ्गदो यदुवाच ह ।
हितं चैवानुकूलं च क्रियतामस्य भाषितम् ॥ १२ ॥
मूलम्
सदृशं खलु वो वाक्यमङ्गदो यदुवाच ह ।
हितं चैवानुकूलं च क्रियतामस्य भाषितम् ॥ १२ ॥
अनुवाद (हिन्दी)
‘वानरो! युवराज अङ्गदने जो बात कही है, वह आपलोगोंके योग्य, हितकर और अनुकूल है; अतः सब लोग इनके कथनानुसार कार्य करें ॥ १२ ॥
विश्वास-प्रस्तुतिः
पुनर्मार्गामहे शैलान् कन्दरांश्च शिलांस्तथा ।
काननानि च शून्यानि गिरिप्रस्रवणानि च ॥ १३ ॥
मूलम्
पुनर्मार्गामहे शैलान् कन्दरांश्च शिलांस्तथा ।
काननानि च शून्यानि गिरिप्रस्रवणानि च ॥ १३ ॥
अनुवाद (हिन्दी)
‘हमलोग पुनः पर्वतों, कन्दराओं, शिलाओं, निर्जन वनों और पर्वतीय झरनोंकी खोज करें ॥ १३ ॥
विश्वास-प्रस्तुतिः
यथोद्दिष्टानि सर्वाणि सुग्रीवेण महात्मना ।
विचिन्वन्तु वनं सर्वे गिरिदुर्गाणि सङ्गताः ॥ १४ ॥
मूलम्
यथोद्दिष्टानि सर्वाणि सुग्रीवेण महात्मना ।
विचिन्वन्तु वनं सर्वे गिरिदुर्गाणि सङ्गताः ॥ १४ ॥
अनुवाद (हिन्दी)
‘महात्मा सुग्रीवने जिन स्थानोंकी चर्चा की थी, उन सबमें वन और पर्वतीय दुर्गम प्रदेशोंमें सब वानर एक साथ होकर खोज आरम्भ करें’ ॥ १४ ॥
विश्वास-प्रस्तुतिः
ततः समुत्थाय पुनर्वानरास्ते महाबलाः ।
विन्ध्यकाननसङ्कीर्णां विचेरुर्दक्षिणां दिशम् ॥ १५ ॥
मूलम्
ततः समुत्थाय पुनर्वानरास्ते महाबलाः ।
विन्ध्यकाननसङ्कीर्णां विचेरुर्दक्षिणां दिशम् ॥ १५ ॥
अनुवाद (हिन्दी)
यह सुनकर वे महाबली वानर उठकर खड़े हो गये और विन्ध्य पर्वतके काननोंसे व्याप्त दक्षिण दिशामें विचरने लगे ॥ १५ ॥
विश्वास-प्रस्तुतिः
ते शारदाभ्रप्रतिमं श्रीमद्रजतपर्वतम् ।
शृङ्गवन्तं दरीवन्तमधिरुह्य च वानराः ॥ १६ ॥
मूलम्
ते शारदाभ्रप्रतिमं श्रीमद्रजतपर्वतम् ।
शृङ्गवन्तं दरीवन्तमधिरुह्य च वानराः ॥ १६ ॥
अनुवाद (हिन्दी)
सामने शरद्-ऋतुके बादलोंके समान शोभाशाली रजत पर्वत दिखायी दिया, जिसमें अनेक शिखर और कन्दराएँ थीं । वे सब वानर उसपर चढ़कर खोजने लगे ॥ १६ ॥
विश्वास-प्रस्तुतिः
तत्र लोध्रवनं रम्यं सप्तपर्णवनानि च ।
विचिन्वन्तो हरिवराः सीतादर्शनकाङ्क्षिणः ॥ १७ ॥
मूलम्
तत्र लोध्रवनं रम्यं सप्तपर्णवनानि च ।
विचिन्वन्तो हरिवराः सीतादर्शनकाङ्क्षिणः ॥ १७ ॥
अनुवाद (हिन्दी)
सीताके दर्शनकी इच्छा रखनेवाले वे सभी श्रेष्ठ वानर वहाँके रमणीय लोध्रवनमें और सप्तपर्ण (छितवन) के जंगलोंमें उनकी खोज करने लगे ॥ १७ ॥
विश्वास-प्रस्तुतिः
तस्याग्रमधिरूढास्ते श्रान्ता विपुलविक्रमाः ।
न पश्यन्ति स्म वैदेहीं रामस्य महिषीं प्रियाम् ॥ १८ ॥
मूलम्
तस्याग्रमधिरूढास्ते श्रान्ता विपुलविक्रमाः ।
न पश्यन्ति स्म वैदेहीं रामस्य महिषीं प्रियाम् ॥ १८ ॥
अनुवाद (हिन्दी)
उस पर्वतके शिखरपर चढ़े हुए वे महापराक्रमी वानर ढूँढ़ते-ढूँढ़ते थक गये, परंतु श्रीरामचन्द्रजीकी प्यारी रानी सीताका दर्शन न पा सके ॥ १८ ॥
विश्वास-प्रस्तुतिः
ते तु दृष्टिगतं दृष्ट्वा तं शैलं बहुकन्दरम् ।
अध्यारोहन्त हरयो वीक्षमाणाः समन्ततः ॥ १९ ॥
मूलम्
ते तु दृष्टिगतं दृष्ट्वा तं शैलं बहुकन्दरम् ।
अध्यारोहन्त हरयो वीक्षमाणाः समन्ततः ॥ १९ ॥
अनुवाद (हिन्दी)
अनेक कन्दराओंवाले उस पर्वतका अच्छी तरह निरीक्षण करके सब ओर दृष्टिपात करनेवाले वे वानर उससे नीचे उतर गये ॥ १९ ॥
विश्वास-प्रस्तुतिः
अवरुह्य ततो भूमिं श्रान्ता विगतचेतसः ।
स्थिता मुहूर्तं तत्राथ वृक्षमूलमुपाश्रिताः ॥ २० ॥
मूलम्
अवरुह्य ततो भूमिं श्रान्ता विगतचेतसः ।
स्थिता मुहूर्तं तत्राथ वृक्षमूलमुपाश्रिताः ॥ २० ॥
अनुवाद (हिन्दी)
पृथ्वीपर उतरकर अधिक थक जानेके कारण अचेत हुए वे सभी वानर वहाँ एक वृक्षके नीचे गये और दो घड़ीतक वहाँ बैठे रहे ॥ २० ॥
विश्वास-प्रस्तुतिः
ते मुहूर्तं समाश्वस्ताः किञ्चिद्भग्नपरिश्रमाः ।
पुनरेवोद्यताः कृत्स्नां मार्गितुं दक्षिणां दिशम् ॥ २१ ॥
मूलम्
ते मुहूर्तं समाश्वस्ताः किञ्चिद्भग्नपरिश्रमाः ।
पुनरेवोद्यताः कृत्स्नां मार्गितुं दक्षिणां दिशम् ॥ २१ ॥
अनुवाद (हिन्दी)
एक मुहूर्ततक सुस्ता लेनेपर जब उनकी थकावट कुछ कम हो गयी तब वे पुनः सम्पूर्ण दक्षिण दिशामें खोजके लिये उद्यत हो गये ॥ २१ ॥
विश्वास-प्रस्तुतिः
हनुमत्प्रमुखास्तावत् प्रस्थिताः प्लवगर्षभाः ।
विन्ध्यमेवादितः कृत्वा विचेरुश्च समन्ततः ॥ २२ ॥
मूलम्
हनुमत्प्रमुखास्तावत् प्रस्थिताः प्लवगर्षभाः ।
विन्ध्यमेवादितः कृत्वा विचेरुश्च समन्ततः ॥ २२ ॥
अनुवाद (हिन्दी)
हनुमान् आदि सभी श्रेष्ठ वानर सीताके अन्वेषणके लिये प्रस्थित हो पहले विन्ध्य पर्वतके ही चारों ओर विचरने लगे ॥ २२ ॥
समाप्तिः
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये किष्किन्धाकाण्डे एकोनपञ्चाशः सर्गः ॥ ४९ ॥
इस प्रकार श्रीवाल्मीकिनिर्मित आर्षरामायण आदिकाव्यके किष्किन्धाकाण्डमें उनचासवाँ सर्ग पूरा हुआ ॥ ४९ ॥