वाचनम्
भागसूचना
- सुग्रीवका हनुमान् जी को वानरसेनाके संग्रहके लिये दोबारा दूत भेजनेकी आज्ञा देना, उन दूतोंसे राजाकी आज्ञा सुनकर समस्त वानरोंका किष्किन्धाके लिये प्रस्थान और दूतोंका लौटकर सुग्रीवको भेंट देनेके साथ ही वानरोंके आगमनका समाचार सुनाना
विश्वास-प्रस्तुतिः
एवमुक्तस्तु सुग्रीवो लक्ष्मणेन महात्मना ।
हनूमन्तं स्थितं पार्श्वे वचनं चेदमब्रवीत् ॥ १ ॥
मूलम्
एवमुक्तस्तु सुग्रीवो लक्ष्मणेन महात्मना ।
हनूमन्तं स्थितं पार्श्वे वचनं चेदमब्रवीत् ॥ १ ॥
अनुवाद (हिन्दी)
महात्मा लक्ष्मणने जब ऐसा कहा, तब सुग्रीव अपने पास ही खड़े हुए हनुमान् जी से यों बोले— ॥ १ ॥
विश्वास-प्रस्तुतिः
महेन्द्रहिमवद्विन्ध्यकैलासशिखरेषु च ।
मन्दरे पाण्डुशिखरे पञ्चशैलेषु ये स्थिताः ॥ २ ॥
तरुणादित्यवर्णेषु भ्राजमानेषु नित्यशः ।
पर्वतेषु समुद्रान्ते पश्चिमस्यां तु ये दिशि ॥ ३ ॥
आदित्यभवने चैव गिरौ सन्ध्याभ्रसन्निभे ।
पद्माचलवनं भीमाः संश्रिता हरिपुङ्गवाः ॥ ४ ॥
अञ्जनाम्बुदसङ्काशाः कुञ्जरेन्द्रमहौजसः ।
अञ्जने पर्वते चैव ये वसन्ति प्लवङ्गमाः ॥ ५ ॥
महाशैलगुहावासा वानराः कनकप्रभाः ।
मेरुपार्श्वगताश्चैव ये च धूम्रगिरिं श्रिताः ॥ ६ ॥
तरुणादित्यवर्णाश्च पर्वते ये महारुणे ।
पिबन्तो मधु मैरेयं भीमवेगाः प्लवङ्गमाः ॥ ७ ॥
वनेषु च सुरम्येषु सुगन्धिषु महत्सु च ।
तापसाश्रमरम्येषु वनान्तेषु समन्ततः ॥ ८ ॥
तांस्तांस्त्वमानय क्षिप्रं पृथिव्यां सर्ववानरान् ।
सामदानादिभिः कल्पैर्वानरैर्वेगवत्तरैः ॥ ९ ॥

‘महेन्द्र, हिमवान्, विन्ध्य, कैलास तथा श्वेत शिखरवाले मन्दराचल—इन पाँच पर्वतोंके शिखरोंपर जो श्रेष्ठ वानर रहते हैं, पश्चिम दिशामें समुद्रके परवर्ती तटपर प्रातःकालिक सूर्यके समान कान्तिमान् और नित्य प्रकाशमान पर्वतोंपर जिन वानरोंका निवास है, भगवान् सूर्यके निवासस्थान तथा संध्याकालिक मेघसमूहके समान अरुण वर्णवाले उदयाचल एवं अस्ताचलपर जो वानर वास करते हैं, पद्माचलवर्ती वनका आश्रय लेकर जो भयानक पराक्रमी वानर-शिरोमणि निवास करते हैं, अञ्जनपर्वतपर जो काजल और मेघके समान काले तथा गजराजके समान महाबली वानर रहते हैं, बड़े-बड़े पर्वतोंकी गुफाओंमें निवास करनेवाले तथा मेरुपर्वतके आस-पास रहनेवाले जो सुवर्णकी-सी कान्तिवाले वानर हैं, जो धूम्रगिरिका आश्रय लेकर रहते हैं, मैरेय मधुका पान करते हुए जो महारुण पर्वतपर प्रातःकालके सूर्यकी भाँति लाल रंगके भयानक वेगशाली वानर निवास करते हैं तथा सुगन्धसे परिपूर्ण एवं तपस्वियोंके आश्रमोंसे सुशोभित बड़े-बड़े रमणीय वनों और वनान्तोंमें चारों ओर जो वानर रहते हैं, भूमण्डलके उन सभी वानरोंको तुम शीघ्र यहाँ ले आओ । शक्तिशाली तथा अत्यन्त वेगवान् वानरोंको भेजकर उनके द्वारा साम, दान आदि उपायोंका प्रयोग करके उन सबको यहाँ बुलवाओ ॥ २—९ ॥
विश्वास-प्रस्तुतिः
प्रेषिताः प्रथमं ये च मयाऽऽज्ञाता महाजवाः ।
त्वरणार्थं तु भूयस्त्वं सम्प्रेषय हरीश्वरान् ॥ १० ॥
मूलम्
प्रेषिताः प्रथमं ये च मयाऽऽज्ञाता महाजवाः ।
त्वरणार्थं तु भूयस्त्वं सम्प्रेषय हरीश्वरान् ॥ १० ॥
अनुवाद (हिन्दी)
‘मेरी आज्ञासे पहले जो महान् वेगशाली वानर भेजे गये हैं, उनको जल्दी करनेके लिये प्रेरणा देनेके निमित्त तुम पुनः दूसरे श्रेष्ठ वानरोंको भेजो ॥ १० ॥
विश्वास-प्रस्तुतिः
ये प्रसक्ताश्च कामेषु दीर्घसूत्राश्च वानराः ।
इहानयस्व तान् शीघ्रं सर्वानेव कपीश्वरान् ॥ ११ ॥
मूलम्
ये प्रसक्ताश्च कामेषु दीर्घसूत्राश्च वानराः ।
इहानयस्व तान् शीघ्रं सर्वानेव कपीश्वरान् ॥ ११ ॥
अनुवाद (हिन्दी)
‘जो वानर कामभोगमें फँसे हुए हों तथा जो दीर्घसूत्री (प्रत्येक कार्यको विलम्बसे करनेवाले) हों, उन सभी कपीश्वरोंको शीघ्र यहाँ ले आओ ॥ ११ ॥
विश्वास-प्रस्तुतिः
अहोभिर्दशभिर्ये च नागच्छन्ति ममाज्ञया ।
हन्तव्यास्ते दुरात्मानो राजशासनदूषकाः ॥ १२ ॥
मूलम्
अहोभिर्दशभिर्ये च नागच्छन्ति ममाज्ञया ।
हन्तव्यास्ते दुरात्मानो राजशासनदूषकाः ॥ १२ ॥
अनुवाद (हिन्दी)
‘जो मेरी आज्ञासे दस दिनके भीतर यहाँ न आ जायँ, राजाज्ञाको कलङ्कित करनेवाले उन दुरात्मा वानरोंको मार डालना चाहिये ॥ १२ ॥
विश्वास-प्रस्तुतिः
शतान्यथ सहस्राणि कोट्यश्च मम शासनात् ।
प्रयान्तु कपिसिंहानां निदेशे मम ये स्थिताः ॥ १३ ॥
मूलम्
शतान्यथ सहस्राणि कोट्यश्च मम शासनात् ।
प्रयान्तु कपिसिंहानां निदेशे मम ये स्थिताः ॥ १३ ॥
अनुवाद (हिन्दी)
‘जो मेरी आज्ञाके अधीन रहते हों, ऐसे सैकड़ों, हजारों तथा करोड़ों वानरसिंह मेरे आदेशसे जायँ ॥ १३ ॥
विश्वास-प्रस्तुतिः
मेघपर्वतसङ्काशाश्छादयन्त इवाम्बरम् ।
घोररूपाः कपिश्रेष्ठा यान्तु मच्छासनादितः ॥ १४ ॥
मूलम्
मेघपर्वतसङ्काशाश्छादयन्त इवाम्बरम् ।
घोररूपाः कपिश्रेष्ठा यान्तु मच्छासनादितः ॥ १४ ॥
अनुवाद (हिन्दी)
‘जो मेघ और पर्वतके समान अपने विशालशरीरसे आकाशको आच्छादित-सा कर लेते हैं, वे घोर रूपधारी श्रेष्ठ वानर मेरा आदेश मानकर यहाँसे यात्रा करें ॥ १४ ॥
विश्वास-प्रस्तुतिः
ते गतिज्ञा गतिं गत्वा पृथिव्यां सर्ववानराः ।
आनयन्तु हरीन् सर्वांस्त्वरिताः शासनान्मम ॥ १५ ॥
मूलम्
ते गतिज्ञा गतिं गत्वा पृथिव्यां सर्ववानराः ।
आनयन्तु हरीन् सर्वांस्त्वरिताः शासनान्मम ॥ १५ ॥
अनुवाद (हिन्दी)
‘वानरोंके निवासस्थानोंको जाननेवाले सभी वानर तीव्र गतिसे भूमण्डलमें चारों ओर जाकर मेरे आदेशसे उन-उन स्थानोंके सम्पूर्ण वानरगणोंको तुरंत यहाँ ले आवें’ ॥
विश्वास-प्रस्तुतिः
तस्य वानरराजस्य श्रुत्वा वायुसुतो वचः ।
दिक्षु सर्वासु विक्रान्तान् प्रेषयामास वानरान् ॥ १६ ॥
मूलम्
तस्य वानरराजस्य श्रुत्वा वायुसुतो वचः ।
दिक्षु सर्वासु विक्रान्तान् प्रेषयामास वानरान् ॥ १६ ॥
अनुवाद (हिन्दी)
वानरराज सुग्रीवकी बात सुनकर वायुपुत्र हनुमान् जी ने सम्पूर्ण दिशाओंमें बहुत-से पराक्रमी वानरोंको भेजा ॥ १६ ॥
विश्वास-प्रस्तुतिः
ते पदं विष्णुविक्रान्तं पतत्त्रिज्योतिरध्वगाः ।
प्रयाताः प्रहिता राज्ञा हरयस्तु क्षणेन वै ॥ १७ ॥
मूलम्
ते पदं विष्णुविक्रान्तं पतत्त्रिज्योतिरध्वगाः ।
प्रयाताः प्रहिता राज्ञा हरयस्तु क्षणेन वै ॥ १७ ॥
अनुवाद (हिन्दी)
राजाकी आज्ञा पाकर वे सब वानर तत्काल आकाशमें पक्षियों और नक्षत्रोंके मार्गसे चल दिये ॥ १७ ॥
विश्वास-प्रस्तुतिः
ते समुद्रेषु गिरिषु वनेषु च सरस्सु च ।
वानरा वानरान् सर्वान् रामहेतोरचोदयन् ॥ १८ ॥
मूलम्
ते समुद्रेषु गिरिषु वनेषु च सरस्सु च ।
वानरा वानरान् सर्वान् रामहेतोरचोदयन् ॥ १८ ॥
अनुवाद (हिन्दी)
उन वानरोंने समुद्रोंके किनारे, पर्वतोंपर, वनोंमें और सरोवरोंके तटोंपर रहनेवाले समस्त वानरोंको श्रीरामचन्द्रजीका कार्य करनेके लिये चलनेको कहा ॥ १८ ॥
विश्वास-प्रस्तुतिः
मृत्युकालोपमस्याज्ञां राजराजस्य वानराः ।
सुग्रीवस्याययुः श्रुत्वा सुग्रीवभयशङ्किताः ॥ १९ ॥
मूलम्
मृत्युकालोपमस्याज्ञां राजराजस्य वानराः ।
सुग्रीवस्याययुः श्रुत्वा सुग्रीवभयशङ्किताः ॥ १९ ॥
अनुवाद (हिन्दी)
अपने सम्राट् सुग्रीवका, जो मृत्यु एवं कालके समान भयानक दण्ड देनेवाले थे, आदेश सुनकर वे सभी वानर उनके भयसे थर्रा उठे और तुरंत ही किष्किन्धाकी ओर प्रस्थित हुए ॥ १९ ॥
विश्वास-प्रस्तुतिः
ततस्तेऽञ्जनसङ्काशा गिरेस्तस्मान्महाबलाः ।
तिस्रः कोट्यः प्लवङ्गानां निर्ययुर्यत्र राघवः ॥ २० ॥
मूलम्
ततस्तेऽञ्जनसङ्काशा गिरेस्तस्मान्महाबलाः ।
तिस्रः कोट्यः प्लवङ्गानां निर्ययुर्यत्र राघवः ॥ २० ॥
अनुवाद (हिन्दी)
तदनन्तर कज्जल गिरिसे काजलके ही समान काले और महान् बलवान् तीन करोड़ वानर उस स्थानपरजानेके लिये निकले, जहाँ श्रीरघुनाथजी विराजमान थे ॥ २० ॥
विश्वास-प्रस्तुतिः
अस्तं गच्छति यत्रार्कस्तस्मिन् गिरिवरे रताः ।
सन्तप्तहेमवर्णाभास्तस्मात् कोट्यो दश च्युताः ॥ २१ ॥
मूलम्
अस्तं गच्छति यत्रार्कस्तस्मिन् गिरिवरे रताः ।
सन्तप्तहेमवर्णाभास्तस्मात् कोट्यो दश च्युताः ॥ २१ ॥
अनुवाद (हिन्दी)
जहाँ सूर्यदेव अस्त होते हैं, उस श्रेष्ठ पर्वतपर रहनेवाले दस करोड़ वानर, जिनकी कान्ति तपाये हुए सुवर्णके समान थी, वहाँसे किष्किन्धाके लिये चले ॥
विश्वास-प्रस्तुतिः
कैलासशिखरेभ्यश्च सिंहकेसरवर्चसाम् ।
ततः कोटिसहस्राणि वानराणां समागमन् ॥ २२ ॥
मूलम्
कैलासशिखरेभ्यश्च सिंहकेसरवर्चसाम् ।
ततः कोटिसहस्राणि वानराणां समागमन् ॥ २२ ॥
अनुवाद (हिन्दी)
कैलासके शिखरोंसे सिंहके अयालकी-सी श्वेत कान्तिवाले दस अरब वानर आये ॥ २२ ॥
विश्वास-प्रस्तुतिः
फलमूलेन जीवन्तो हिमवन्तमुपाश्रिताः ।
तेषां कोटिसहस्राणां सहस्रं समवर्तत ॥ २३ ॥
मूलम्
फलमूलेन जीवन्तो हिमवन्तमुपाश्रिताः ।
तेषां कोटिसहस्राणां सहस्रं समवर्तत ॥ २३ ॥
अनुवाद (हिन्दी)
जो हिमालयपर रहकर फल-मूलसे जीवननिर्वाह करते थे, वे वानर एक नीलकी संख्यामें वहाँ आये ॥ २३ ॥
विश्वास-प्रस्तुतिः
अङ्गारकसमानानां भीमानां भीमकर्मणाम् ।
विन्ध्याद् वानरकोटीनां सहस्राण्यपतन् द्रुतम् ॥ २४ ॥
मूलम्
अङ्गारकसमानानां भीमानां भीमकर्मणाम् ।
विन्ध्याद् वानरकोटीनां सहस्राण्यपतन् द्रुतम् ॥ २४ ॥
अनुवाद (हिन्दी)
विन्ध्याचल पर्वतसे मङ्गलके समान लाल रंगवाले भयानक पराक्रमी भयंकर रूपधारी वानरोंकी दस अरब सेना बड़े वेगसे किष्किन्धामें आयी ॥ २४ ॥
विश्वास-प्रस्तुतिः
क्षीरोदवेलानिलयास्तमालवनवासिनः ।
नारिकेलाशनाश्चैव तेषां सङ्ख्या न विद्यते ॥ २५ ॥
मूलम्
क्षीरोदवेलानिलयास्तमालवनवासिनः ।
नारिकेलाशनाश्चैव तेषां सङ्ख्या न विद्यते ॥ २५ ॥
अनुवाद (हिन्दी)
क्षीरसमुद्रके किनारे और तमालवनमें नारियल खाकर रहनेवाले वानर इतनी अधिक संख्यामें आये कि उनकी गणना नहीं हो सकती थी ॥ २५ ॥
विश्वास-प्रस्तुतिः
वनेभ्यो गह्वरेभ्यश्च सरिद्भ्यश्च महाबलाः ।
आगच्छद् वानरी सेना पिबन्तीव दिवाकरम् ॥ २६ ॥
मूलम्
वनेभ्यो गह्वरेभ्यश्च सरिद्भ्यश्च महाबलाः ।
आगच्छद् वानरी सेना पिबन्तीव दिवाकरम् ॥ २६ ॥
अनुवाद (हिन्दी)
वनोंसे, गुफाओंसे और नदियोंके किनारोंसे असंख्य महाबली वानर एकत्र हुए । वानरोंकी वह सारी सेना सूर्यदेवको पीती (आच्छादित करती) हुई-सी आयी ॥ २६ ॥
विश्वास-प्रस्तुतिः
ये तु त्वरयितुं याता वानराः सर्ववानरान् ।
ते वीरा हिमवच्छैले ददृशुस्तं महाद्रुमम् ॥ २७ ॥
मूलम्
ये तु त्वरयितुं याता वानराः सर्ववानरान् ।
ते वीरा हिमवच्छैले ददृशुस्तं महाद्रुमम् ॥ २७ ॥
अनुवाद (हिन्दी)
जो वानर समस्त वानरोंको शीघ्र आनेके लिये प्रेरित करनेके निमित्त किष्किन्धासे दुबारा भेजे गये थे, उन वीरोंने हिमालय पर्वतपर उस प्रसिद्ध विशाल वृक्षको देखा (जो भगवान् शंकरकी यज्ञशालामें स्थित था) ॥ २७ ॥
विश्वास-प्रस्तुतिः
तस्मिन् गिरिवरे पुण्ये यज्ञो माहेश्वरः पुरा ।
सर्वदेवमनस्तोषो बभूव सुमनोरमः ॥ २८ ॥
मूलम्
तस्मिन् गिरिवरे पुण्ये यज्ञो माहेश्वरः पुरा ।
सर्वदेवमनस्तोषो बभूव सुमनोरमः ॥ २८ ॥
अनुवाद (हिन्दी)
उस पवित्र एवं श्रेष्ठ पर्वतपर पूर्वकालमें भगवान् शंकरका यज्ञ हुआ था, जो सम्पूर्ण देवताओंके मनको संतोष देनेवाला और अत्यन्त मनोरम था ॥ २८ ॥
विश्वास-प्रस्तुतिः
अन्ननिस्यन्दजातानि मूलानि च फलानि च ।
अमृतस्वादुकल्पानि ददृशुस्तत्र वानराः ॥ २९ ॥
मूलम्
अन्ननिस्यन्दजातानि मूलानि च फलानि च ।
अमृतस्वादुकल्पानि ददृशुस्तत्र वानराः ॥ २९ ॥
अनुवाद (हिन्दी)
उस पर्वतपर खीर आदि अन्न (होमद्रव्य) से घृत आदिका स्राव हुआ था, उससे वहाँ अमृतके समान स्वादिष्ट फल और मूल उत्पन्न हुए थे । उन फलोंको उन वानरोंने देखा ॥ २९ ॥
विश्वास-प्रस्तुतिः
तदन्नसम्भवं दिव्यं फलमूलं मनोहरम् ।
यः कश्चित् सकृदश्नाति मासं भवति तर्पितः ॥ ३० ॥
मूलम्
तदन्नसम्भवं दिव्यं फलमूलं मनोहरम् ।
यः कश्चित् सकृदश्नाति मासं भवति तर्पितः ॥ ३० ॥
अनुवाद (हिन्दी)
उक्त अन्नसे उत्पन्न हुए उस दिव्य एवं मनोहर फल-मूलको जो कोई एक बार खा लेता था, वह एक मासतक उससे तृप्त बना रहता था ॥ ३० ॥
विश्वास-प्रस्तुतिः
तानि मूलानि दिव्यानि फलानि च फलाशनाः ।
औषधानि च दिव्यानि जगृहुर्हरिपुङ्गवाः ॥ ३१ ॥
मूलम्
तानि मूलानि दिव्यानि फलानि च फलाशनाः ।
औषधानि च दिव्यानि जगृहुर्हरिपुङ्गवाः ॥ ३१ ॥
अनुवाद (हिन्दी)
फलाहार करनेवाले उन वानरशिरोमणियोंने उन दिव्य मूल-फलों और दिव्य औषधोंको अपने साथ ले लिया ॥
विश्वास-प्रस्तुतिः
तस्माच्च यज्ञायतनात् पुष्पाणि सुरभीणि च ।
आनिन्युर्वानरा गत्वा सुग्रीवप्रियकारणात् ॥ ३२ ॥
मूलम्
तस्माच्च यज्ञायतनात् पुष्पाणि सुरभीणि च ।
आनिन्युर्वानरा गत्वा सुग्रीवप्रियकारणात् ॥ ३२ ॥
अनुवाद (हिन्दी)
वहाँ जाकर उस यज्ञ-मण्डपसे वे सब वानर सुग्रीवका प्रिय करनेके लिये सुगन्धित पुष्प भी लेते आये ॥ ३२ ॥
विश्वास-प्रस्तुतिः
ते तु सर्वे हरिवराः पृथिव्यां सर्ववानरान् ।
सञ्चोदयित्वा त्वरितं यूथानां जग्मुरग्रतः ॥ ३३ ॥
मूलम्
ते तु सर्वे हरिवराः पृथिव्यां सर्ववानरान् ।
सञ्चोदयित्वा त्वरितं यूथानां जग्मुरग्रतः ॥ ३३ ॥
अनुवाद (हिन्दी)
वे समस्त श्रेष्ठ वानर भूमण्डलके सम्पूर्ण वानरोंको तुरंत चलनेका आदेश देकर उनके यूथोंके पहुँचनेके पहले ही सुग्रीवके पास आ गये ॥ ३३ ॥
विश्वास-प्रस्तुतिः
ते तु तेन मुहूर्तेन कपयः शीघ्रचारिणः ।
किष्किन्धां त्वरया प्राप्ताः सुग्रीवो यत्र वानरः ॥ ३४ ॥
मूलम्
ते तु तेन मुहूर्तेन कपयः शीघ्रचारिणः ।
किष्किन्धां त्वरया प्राप्ताः सुग्रीवो यत्र वानरः ॥ ३४ ॥
अनुवाद (हिन्दी)
वे शीघ्रगामी वानर उसी मुहूर्तमें चलकर बड़ी उतावलीके साथ किष्किन्धापुरीमें जहाँ वानरराज सुग्रीव थे, जा पहुँचे ॥ ३४ ॥
विश्वास-प्रस्तुतिः
ते गृहीत्वौषधीः सर्वाः फलमूलं च वानराः ।
तं प्रतिग्राहयामासुर्वचनं चेदमब्रुवन् ॥ ३५ ॥
मूलम्
ते गृहीत्वौषधीः सर्वाः फलमूलं च वानराः ।
तं प्रतिग्राहयामासुर्वचनं चेदमब्रुवन् ॥ ३५ ॥
अनुवाद (हिन्दी)
उस सम्पूर्ण ओषधियों और फल-मूलोंको लेकर उन वानरोंने सुग्रीवकी सेवामें अर्पित कर दिया और इस प्रकार कहा— ॥ ३५ ॥
विश्वास-प्रस्तुतिः
सर्वे परिसृताः शैलाः सरितश्च वनानि च ।
पृथिव्यां वानराः सर्वे शासनादुपयान्ति ते ॥ ३६ ॥
मूलम्
सर्वे परिसृताः शैलाः सरितश्च वनानि च ।
पृथिव्यां वानराः सर्वे शासनादुपयान्ति ते ॥ ३६ ॥
अनुवाद (हिन्दी)
‘महाराज! हमलोग सभी पर्वतों, नदियों और वनोंमें घूम आये । भूमण्डलके समस्त वानर आपकी आज्ञासे यहाँ आ रहे हैं’ ॥ ३६ ॥
विश्वास-प्रस्तुतिः
एवं श्रुत्वा ततो हृष्टः सुग्रीवः प्लवगाधिपः ।
प्रतिजग्राह च प्रीतस्तेषां सर्वमुपायनम् ॥ ३७ ॥
मूलम्
एवं श्रुत्वा ततो हृष्टः सुग्रीवः प्लवगाधिपः ।
प्रतिजग्राह च प्रीतस्तेषां सर्वमुपायनम् ॥ ३७ ॥
अनुवाद (हिन्दी)
यह सुनकर वानरराज सुग्रीवको बड़ी प्रसन्नता हुई । उन्होंने उनकी दी हुई सारी भेंट-सामग्री सानन्द ग्रहण की ॥ ३७ ॥
समाप्तिः
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये किष्किन्धाकाण्डे सप्तत्रिंशः सर्गः ॥ ३७ ॥
इस प्रकार श्रीवाल्मीकिनिर्मित आर्षरामायण आदिकाव्यके किष्किन्धाकाण्डमें सैंतीसवाँ सर्ग पूरा हुआ ॥ ३७ ॥