००४ राम-लक्ष्मणयोः सुग्रीवान्तिके नयनम्

वाचनम्
भागसूचना
  1. लक्ष्मणका हनुमान् जी से श्रीरामके वनमें आने और सीताजीके हरे जानेका वृत्तान्त बताना तथा इस कार्यमें सुग्रीवके सहयोगकी इच्छा प्रकट करना, हनुमान् जी का उन्हें आश्वासन देकर उन दोनों भाइयोंको अपने साथ ले जाना
विश्वास-प्रस्तुतिः

ततः प्रहृष्टो हनुमान् कृत्यवानिति तद्वचः ।
श्रुत्वा मधुरभावं च सुग्रीवं मनसा गतः ॥ १ ॥

मूलम्

ततः प्रहृष्टो हनुमान् कृत्यवानिति तद्वचः ।
श्रुत्वा मधुरभावं च सुग्रीवं मनसा गतः ॥ १ ॥

अनुवाद (हिन्दी)

श्रीरामजीकी बात सुनकर तथा सुग्रीवके विषयमें उनका सौम्यभाव जानकर और साथ ही यह समझकर कि इन्हें भी सुग्रीवसे कोई आवश्यक काम है, हनुमान् जी को बड़ी प्रसन्नता हुई । उन्होंने मन-ही-मन सुग्रीवका स्मरण किया ॥ १ ॥

विश्वास-प्रस्तुतिः

भाव्यो राज्यागमस्तस्य सुग्रीवस्य महात्मनः ।
यदयं कृत्यवान् प्राप्तः कृत्यं चैतदुपागतम् ॥ २ ॥

मूलम्

भाव्यो राज्यागमस्तस्य सुग्रीवस्य महात्मनः ।
यदयं कृत्यवान् प्राप्तः कृत्यं चैतदुपागतम् ॥ २ ॥

अनुवाद (हिन्दी)

‘अब अवश्य ही महामना सुग्रीवको राज्यकी प्राप्ति होनेवाली है; क्योंकि ये महानुभाव किसी कार्य या प्रयोजनसे यहाँ आये हैं और यह कार्य सुग्रीवके ही द्वारा सिद्ध होनेवाला है ॥ २ ॥

विश्वास-प्रस्तुतिः

ततः परमसंहृष्टो हनूमान् प्लवगोत्तमः ।
प्रत्युवाच ततो वाक्यं रामं वाक्यविशारदः ॥ ३ ॥

मूलम्

ततः परमसंहृष्टो हनूमान् प्लवगोत्तमः ।
प्रत्युवाच ततो वाक्यं रामं वाक्यविशारदः ॥ ३ ॥

अनुवाद (हिन्दी)

तत्पश्चात् बातचीतमें कुशल वानरश्रेष्ठ हनुमान् जी अत्यन्त हर्षमें भरकर श्रीरामचन्द्रजीसे बोले— ॥ ३ ॥

विश्वास-प्रस्तुतिः

किमर्थं त्वं वनं घोरं पम्पाकाननमण्डितम् ।
आगतः सानुजो दुर्गं नानाव्यालमृगायुतम् ॥ ४ ॥

मूलम्

किमर्थं त्वं वनं घोरं पम्पाकाननमण्डितम् ।
आगतः सानुजो दुर्गं नानाव्यालमृगायुतम् ॥ ४ ॥

अनुवाद (हिन्दी)

‘पम्पा-तटवर्ती काननसे सुशोभित यह वन भयंकर और दुर्गम है । इसमें नाना प्रकारके हिंसक जन्तु निवास करते हैं । आप अपने छोटे भाईके साथ यहाँ किसलिये आये हैं?’ ॥ ४ ॥

विश्वास-प्रस्तुतिः

तस्य तद् वचनं श्रुत्वा लक्ष्मणो रामचोदितः ।
आचचक्षे महात्मानं रामं दशरथात्मजम् ॥ ५ ॥

मूलम्

तस्य तद् वचनं श्रुत्वा लक्ष्मणो रामचोदितः ।
आचचक्षे महात्मानं रामं दशरथात्मजम् ॥ ५ ॥

अनुवाद (हिन्दी)

हनुमान् जी का यह वचन सुनकर श्रीरामकी आज्ञासे लक्ष्मणने दशरथनन्दन महात्मा श्रीरामका इस प्रकार परिचय देना आरम्भ किया— ॥ ५ ॥

विश्वास-प्रस्तुतिः

राजा दशरथो नाम द्युतिमान् धर्मवत्सलः ।
चातुर्वर्ण्यं स्वधर्मेण नित्यमेवाभिपालयन् ॥ ६ ॥

मूलम्

राजा दशरथो नाम द्युतिमान् धर्मवत्सलः ।
चातुर्वर्ण्यं स्वधर्मेण नित्यमेवाभिपालयन् ॥ ६ ॥

अनुवाद (हिन्दी)

‘विद्वन्! इस पृथ्वीपर दशरथ नामसे प्रसिद्ध जो धर्मानुरागी तेजस्वी राजा थे, वे सदा ही अपने धर्मके अनुसार चारों वर्णोंकी प्रजाका पालन करते थे ॥ ६ ॥

विश्वास-प्रस्तुतिः

न द्वेष्टा विद्यते तस्य स तु द्वेष्टि न कञ्चन ।
स तु सर्वेषु भूतेषु पितामह इवापरः ॥ ७ ॥

मूलम्

न द्वेष्टा विद्यते तस्य स तु द्वेष्टि न कञ्चन ।
स तु सर्वेषु भूतेषु पितामह इवापरः ॥ ७ ॥

अनुवाद (हिन्दी)

‘इस भूतलपर उनसे द्वेष रखनेवाला कोई नहीं था और वे भी किसीसे द्वेष नहीं रखते थे । वे समस्त प्राणियोंपर दूसरे ब्रह्माजीके समान स्नेह रखते थे ॥ ७ ॥

विश्वास-प्रस्तुतिः

अग्निष्टोमादिभिर्यज्ञैरिष्टवानाप्तदक्षिणैः ।
तस्यायं पूर्वजः पुत्रो रामो नाम जनैः श्रुतः ॥ ८ ॥

मूलम्

अग्निष्टोमादिभिर्यज्ञैरिष्टवानाप्तदक्षिणैः ।
तस्यायं पूर्वजः पुत्रो रामो नाम जनैः श्रुतः ॥ ८ ॥

अनुवाद (हिन्दी)

‘उन्होंने पर्याप्त दक्षिणावाले अग्निष्टोम आदि यज्ञोंका अनुष्ठान किया था । ये उन्हीं महाराजके ज्येष्ठ पुत्र हैं । लोग इन्हें श्रीराम कहते हैं ॥ ८ ॥

विश्वास-प्रस्तुतिः

शरण्यः सर्वभूतानां पितुर्निर्देशपारगः ।
ज्येष्ठो दशरथस्यायं पुत्राणां गुणवत्तरः ॥ ९ ॥

मूलम्

शरण्यः सर्वभूतानां पितुर्निर्देशपारगः ।
ज्येष्ठो दशरथस्यायं पुत्राणां गुणवत्तरः ॥ ९ ॥

अनुवाद (हिन्दी)

‘ये सब प्राणियोंको शरण देनेवाले और पिताकी आज्ञाका पालन करनेवाले हैं । महाराज दशरथके चारों पुत्रोंमें ये सबसे अधिक गुणवान् हैं ॥ ९ ॥

विश्वास-प्रस्तुतिः

राजलक्षणसंयुक्तः संयुक्तो राज्यसम्पदा ।
राज्याद् भ्रष्टो मया वस्तुं वने सार्धमिहागतः ॥ १० ॥

मूलम्

राजलक्षणसंयुक्तः संयुक्तो राज्यसम्पदा ।
राज्याद् भ्रष्टो मया वस्तुं वने सार्धमिहागतः ॥ १० ॥

अनुवाद (हिन्दी)

‘ये राजाके उत्तम लक्षणोंसे सम्पन्न हैं । जब इन्हें राज्य-सम्पत्तिसे संयुक्त किया जा रहा था, उस समय कुछ ऐसा कारण आ पड़ा, जिससे ये राज्यसे वञ्चित हो गये और वनमें निवास करनेके लिये मेरे साथ यहाँ आ गये ॥ १० ॥

विश्वास-प्रस्तुतिः

भार्यया च महाभाग सीतयानुगतो वशी ।
दिनक्षये महातेजाः प्रभयेव दिवाकरः ॥ ११ ॥

मूलम्

भार्यया च महाभाग सीतयानुगतो वशी ।
दिनक्षये महातेजाः प्रभयेव दिवाकरः ॥ ११ ॥

अनुवाद (हिन्दी)

‘महाभाग! जैसे दिनका क्षय होनेपर सायंकाल महातेजस्वी सूर्य अपने प्रभाके साथ अस्ताचलको जाते हैं, उसी प्रकार ये जितेन्द्रिय श्रीरघुनाथजी अपनी पत्नी सीताके साथ वनमें आये थे ॥ ११ ॥

विश्वास-प्रस्तुतिः

अहमस्यावरो भ्राता गुणैर्दास्यमुपागतः ।
कृतज्ञस्य बहुज्ञस्य लक्ष्मणो नाम नामतः ॥ १२ ॥

मूलम्

अहमस्यावरो भ्राता गुणैर्दास्यमुपागतः ।
कृतज्ञस्य बहुज्ञस्य लक्ष्मणो नाम नामतः ॥ १२ ॥

अनुवाद (हिन्दी)

‘मैं इनका छोटा भाई हूँ । मेरा नाम लक्ष्मण है । मैं अपने कृतज्ञ और बहुज्ञ भाईके गुणोंसे आकृष्ट होकर इनका दास हो गया हूँ ॥ १२ ॥

विश्वास-प्रस्तुतिः

सुखार्हस्य महार्हस्य सर्वभूतहितात्मनः ।
ऐश्वर्येण विहीनस्य वनवासे रतस्य च ॥ १३ ॥
रक्षसापहृता भार्या रहिते कामरूपिणा ।
तच्च न ज्ञायते रक्षः पत्नी येनास्य वा हृता ॥ १४ ॥

मूलम्

सुखार्हस्य महार्हस्य सर्वभूतहितात्मनः ।
ऐश्वर्येण विहीनस्य वनवासे रतस्य च ॥ १३ ॥
रक्षसापहृता भार्या रहिते कामरूपिणा ।
तच्च न ज्ञायते रक्षः पत्नी येनास्य वा हृता ॥ १४ ॥

अनुवाद (हिन्दी)

‘सम्पूर्ण भूतोंके हितमें मन लगानेवाले, सुख भोगनेके योग्य, महापुरुषोंद्वारा पूजनीय, ऐश्वर्यसे हीन तथा वनवासमें तत्पर मेरे भाईकी पत्नीको इच्छानुसार रूप धारण करनेवाले एक राक्षसने सूने आश्रमसे हर लिया । जिसने इनकी पत्नीका हरण किया है, वह राक्षस कौन है और कहाँ रहता है? इत्यादि बातोंका ठीक-ठीक पता नहीं लग रहा है ॥ १३-१४ ॥

विश्वास-प्रस्तुतिः

दनुर्नाम दितेः पुत्रः शापाद् राक्षसतां गतः ।
आख्यातस्तेन सुग्रीवः समर्थो वानराधिपः ॥ १५ ॥
स ज्ञास्यति महावीर्यस्तव भार्यापहारिणम् ।
एवमुक्त्वा दनुः स्वर्गं भ्राजमानो दिवं गतः ॥ १६ ॥

मूलम्

दनुर्नाम दितेः पुत्रः शापाद् राक्षसतां गतः ।
आख्यातस्तेन सुग्रीवः समर्थो वानराधिपः ॥ १५ ॥
स ज्ञास्यति महावीर्यस्तव भार्यापहारिणम् ।
एवमुक्त्वा दनुः स्वर्गं भ्राजमानो दिवं गतः ॥ १६ ॥

अनुवाद (हिन्दी)

‘दनु नामक एक दैत्य था, जो शापसे राक्षसभावको प्राप्त हुआ था । उसने सुग्रीवका नाम बताया और कहा— ‘वानरराज सुग्रीव सामर्थ्यशाली और महान् पराक्रमी हैं । वे आपकी पत्नीका अपहरण करनेवाले राक्षसका पता लगा देंगे ।’ ऐसा कहकर तेजसे प्रकाशित होता हुआ दनु स्वर्गलोकमें पहुँचनेके लिये आकाशमें उड़ गया ॥

विश्वास-प्रस्तुतिः

एतत् ते सर्वमाख्यातं याथातथ्येन पृच्छतः ।
अहं चैव च रामश्च सुग्रीवं शरणं गतौ ॥ १७ ॥

मूलम्

एतत् ते सर्वमाख्यातं याथातथ्येन पृच्छतः ।
अहं चैव च रामश्च सुग्रीवं शरणं गतौ ॥ १७ ॥

अनुवाद (हिन्दी)

‘आपके प्रश्नके अनुसार मैंने सब बातें ठीक-ठीक बता दीं । मैं और श्रीराम दोनों ही सुग्रीवकी शरणमें आये हैं ॥

विश्वास-प्रस्तुतिः

एष दत्त्वा च वित्तानि प्राप्य चानुत्तमं यशः ।
लोकनाथः पुरा भूत्वा सुग्रीवं नाथमिच्छति ॥ १८ ॥

मूलम्

एष दत्त्वा च वित्तानि प्राप्य चानुत्तमं यशः ।
लोकनाथः पुरा भूत्वा सुग्रीवं नाथमिच्छति ॥ १८ ॥

अनुवाद (हिन्दी)

‘ये पहले बहुत-से धन-वैभवका दान करके परम उत्तम यश प्राप्त कर चुके हैं । जो पूर्वकालमें सम्पूर्ण जगत् के नाथ (संरक्षक) थे, वे आज सुग्रीवको अपना रक्षक बनाना चाहते हैं ॥ १८ ॥

विश्वास-प्रस्तुतिः

सीता यस्य स्नुषा चासीच्छरण्यो धर्मवत्सलः ।
तस्य पुत्रः शरण्यश्च सुग्रीवं शरणं गतः ॥ १९ ॥

मूलम्

सीता यस्य स्नुषा चासीच्छरण्यो धर्मवत्सलः ।
तस्य पुत्रः शरण्यश्च सुग्रीवं शरणं गतः ॥ १९ ॥

अनुवाद (हिन्दी)

‘सीता जिनकी पुत्रवधू है, जो शरणागतपालक और धर्मवत्सल रहे हैं, उन्हीं महाराज दशरथके पुत्र शरणदाता श्रीराम आज सुग्रीवकी शरणमें आये हैं ॥ १९ ॥

विश्वास-प्रस्तुतिः

सर्वलोकस्य धर्मात्मा शरण्यः शरणं पुरा ।
गुरुर्मे राघवः सोऽयं सुग्रीवं शरणं गतः ॥ २० ॥

मूलम्

सर्वलोकस्य धर्मात्मा शरण्यः शरणं पुरा ।
गुरुर्मे राघवः सोऽयं सुग्रीवं शरणं गतः ॥ २० ॥

अनुवाद (हिन्दी)

‘जो मेरे धर्मात्मा बड़े भाई श्रीरघुनाथजी पहले सम्पूर्ण जगत् को शरण देनेवाले तथा शरणागतवत्सल रहे हैं, वे इस समय सुग्रीवकी शरणमें आये हैं ॥ २० ॥

विश्वास-प्रस्तुतिः

यस्य प्रसादे सततं प्रसीदेयुरिमाः प्रजाः ।
स रामो वानरेन्द्रस्य प्रसादमभिकाङ्क्षते ॥ २१ ॥

मूलम्

यस्य प्रसादे सततं प्रसीदेयुरिमाः प्रजाः ।
स रामो वानरेन्द्रस्य प्रसादमभिकाङ्क्षते ॥ २१ ॥

अनुवाद (हिन्दी)

‘जिनके प्रसन्न होनेपर सदा यह सारी प्रजा प्रसन्नतासे खिल उठती थी, वे ही श्रीराम आज वानरराज सुग्रीवकी प्रसन्नता चाहते हैं ॥ २१ ॥

विश्वास-प्रस्तुतिः

येन सर्वगुणोपेताः पृथिव्यां सर्वपार्थिवाः ।
मानिताः सततं राज्ञा सदा दशरथेन वै ॥ २२ ॥
तस्यायं पूर्वजः पुत्रस्त्रिषु लोकेषु विश्रुतः ।
सुग्रीवं वानरेन्द्रं तु रामः शरणमागतः ॥ २३ ॥

मूलम्

येन सर्वगुणोपेताः पृथिव्यां सर्वपार्थिवाः ।
मानिताः सततं राज्ञा सदा दशरथेन वै ॥ २२ ॥
तस्यायं पूर्वजः पुत्रस्त्रिषु लोकेषु विश्रुतः ।
सुग्रीवं वानरेन्द्रं तु रामः शरणमागतः ॥ २३ ॥

अनुवाद (हिन्दी)

‘जिन राजा दशरथने सदा अपने यहाँ आये हुए भूमण्डलके सर्वसद‍्गुणसम्पन्न समस्त राजाओंका निरन्तर सम्मान किया, उन्हींके ये त्रिभुवनविख्यात ज्येष्ठ पुत्र श्रीराम आज वानरराज सुग्रीवकी शरणमें आये हैं ॥

विश्वास-प्रस्तुतिः

शोकाभिभूते रामे तु शोकार्ते शरणं गते ।
कर्तुमर्हति सुग्रीवः प्रसादं सह यूथपैः ॥ २४ ॥

मूलम्

शोकाभिभूते रामे तु शोकार्ते शरणं गते ।
कर्तुमर्हति सुग्रीवः प्रसादं सह यूथपैः ॥ २४ ॥

अनुवाद (हिन्दी)

‘श्रीराम शोकसे अभिभूत और आर्त होकर शरणमें आये हैं । यूथपतियोंसहित सुग्रीवको इनपर कृपा करनी चाहिये ॥’ ॥ २४ ॥

विश्वास-प्रस्तुतिः

एवं ब्रुवाणं सौमित्रिं करुणं साश्रुपातनम् ।
हनूमान् प्रत्युवाचेदं वाक्यं वाक्यविशारदः ॥ २५ ॥

मूलम्

एवं ब्रुवाणं सौमित्रिं करुणं साश्रुपातनम् ।
हनूमान् प्रत्युवाचेदं वाक्यं वाक्यविशारदः ॥ २५ ॥

अनुवाद (हिन्दी)

नेत्रोंसे आँसू बहाकर करुणाजनक स्वरमें ऐसी बातें कहते हुए सुमित्राकुमार लक्ष्मणसे कुशल वक्ता हनुमान् जी ने इस प्रकार कहा— ॥ २५ ॥

विश्वास-प्रस्तुतिः

ईदृशा बुद्धिसम्पन्ना जितक्रोधा जितेन्द्रियाः ।
द्रष्टव्या वानरेन्द्रेण दिष्ट्या दर्शनमागताः ॥ २६ ॥

मूलम्

ईदृशा बुद्धिसम्पन्ना जितक्रोधा जितेन्द्रियाः ।
द्रष्टव्या वानरेन्द्रेण दिष्ट्या दर्शनमागताः ॥ २६ ॥

अनुवाद (हिन्दी)

‘राजकुमारो! वानरराज सुग्रीवको आप-जैसे बुद्धिमान्, क्रोधविजयी और जितेन्द्रिय पुरुषोंसे मिलनेकी आवश्यकता थी । सौभाग्यकी बात है कि आपने स्वयं ही दर्शन दे दिया ॥ २६ ॥

विश्वास-प्रस्तुतिः

स हि राज्याश्च विभ्रष्टः कृतवैरश्च वालिना ।
हृतदारो वने त्रस्तो भ्रात्रा विनिकृतो भृशम् ॥ २७ ॥

मूलम्

स हि राज्याश्च विभ्रष्टः कृतवैरश्च वालिना ।
हृतदारो वने त्रस्तो भ्रात्रा विनिकृतो भृशम् ॥ २७ ॥

अनुवाद (हिन्दी)

‘वे भी राज्यसे भ्रष्ट हैं । वालीके साथ उनकी शत्रुता हो गयी है । उनकी स्त्रीका भी वालीने ही अपहरण कर लिया है तथा उस दुष्ट भाईने उन्हें घरसे निकाल दिया है, इसलिये वे अत्यन्त भयभीत होकर वनमें निवास करते हैं ॥ २७ ॥

विश्वास-प्रस्तुतिः

करिष्यति स साहाय्यं युवयोर्भास्करात्मजः ।
सुग्रीवः सह चास्माभिः सीतायाः परिमार्गणे ॥ २८ ॥

मूलम्

करिष्यति स साहाय्यं युवयोर्भास्करात्मजः ।
सुग्रीवः सह चास्माभिः सीतायाः परिमार्गणे ॥ २८ ॥

अनुवाद (हिन्दी)

‘सूर्यनन्दन सुग्रीव सीताका पता लगानेमें हमारे साथ स्वयं रहकर आप दोनोंकी पूर्ण सहायता करेंगे’ ॥ २८ ॥

विश्वास-प्रस्तुतिः

इत्येवमुक्त्वा हनुमान् श्लक्ष्णं मधुरया गिरा ।
बभाषे साधु गच्छामः सुग्रीवमिति राघवम् ॥ २९ ॥

मूलम्

इत्येवमुक्त्वा हनुमान् श्लक्ष्णं मधुरया गिरा ।
बभाषे साधु गच्छामः सुग्रीवमिति राघवम् ॥ २९ ॥

अनुवाद (हिन्दी)

ऐसा कहकर हनुमान् जी ने श्रीरघुनाथजीसे स्निग्ध मधुर वाणीमें कहा—‘अच्छा, अब हमलोग सुग्रीवके पास चलें’ ॥ २९ ॥

विश्वास-प्रस्तुतिः

एवं ब्रुवन्तं धर्मात्मा हनूमन्तं स लक्ष्मणः ।
प्रतिपूज्य यथान्यायमिदं प्रोवाच राघवम् ॥ ३० ॥

मूलम्

एवं ब्रुवन्तं धर्मात्मा हनूमन्तं स लक्ष्मणः ।
प्रतिपूज्य यथान्यायमिदं प्रोवाच राघवम् ॥ ३० ॥

अनुवाद (हिन्दी)

उस समय धर्मात्मा लक्ष्मणने उपर्युक्त बात कहनेवाले हनुमान् जी का यथोचित सम्मान किया और श्रीरामचन्द्रजीसे कहा— ॥ ३० ॥

विश्वास-प्रस्तुतिः

कपिः कथयते हृष्टो यथायं मारुतात्मजः ।
कृत्यवान् सोऽपि सम्प्राप्तः कृतकृत्योऽसि राघव ॥ ३१ ॥

मूलम्

कपिः कथयते हृष्टो यथायं मारुतात्मजः ।
कृत्यवान् सोऽपि सम्प्राप्तः कृतकृत्योऽसि राघव ॥ ३१ ॥

अनुवाद (हिन्दी)

‘भैया रघुनन्दन! ये वानरश्रेष्ठ पवनकुमार हनुमान् अत्यन्त हर्षसे भरकर जैसी बात कह रहे हैं, उससे जान पड़ता है कि सुग्रीवको भी आपसे कुछ काम है । ऐसी दशामें आप अपना कार्य सिद्ध हुआ ही समझें ॥ ३१ ॥

विश्वास-प्रस्तुतिः

प्रसन्नमुखवर्णश्च व्यक्तं हृष्टश्च भाषते ।
नानृतं वक्ष्यते वीरो हनूमान् मारुतात्मजः ॥ ३२ ॥

मूलम्

प्रसन्नमुखवर्णश्च व्यक्तं हृष्टश्च भाषते ।
नानृतं वक्ष्यते वीरो हनूमान् मारुतात्मजः ॥ ३२ ॥

अनुवाद (हिन्दी)

‘इनके मुखकी कान्ति स्पष्टतः प्रसन्न दिखायी देती है और ये हर्षसे उत्फुल्ल होकर बातचीत करते हैं । अतः मेरा विश्वास है कि पवनपुत्र वीर हनुमान् जी झूठ नहीं बोलेंगे’ ॥ ३२ ॥

विश्वास-प्रस्तुतिः

ततः स सुमहाप्राज्ञो हनूमान् मारुतात्मजः ।
जगामादाय तौ वीरौ हरिराजाय राघवौ ॥ ३३ ॥

मूलम्

ततः स सुमहाप्राज्ञो हनूमान् मारुतात्मजः ।
जगामादाय तौ वीरौ हरिराजाय राघवौ ॥ ३३ ॥

अनुवाद (हिन्दी)

तदनन्तर परम बुद्धिमान् पवनपुत्र हनुमान् जी उन दोनों रघुवंशी वीरोंको साथ ले सुग्रीवसे मिलनेके लिये चले ॥ ३३ ॥

विश्वास-प्रस्तुतिः

भिक्षुरूपं परित्यज्य वानरं रूपमास्थितः ।
पृष्ठमारोप्य तौ वीरौ जगाम कपिकुञ्जरः ॥ ३४ ॥

मूलम्

भिक्षुरूपं परित्यज्य वानरं रूपमास्थितः ।
पृष्ठमारोप्य तौ वीरौ जगाम कपिकुञ्जरः ॥ ३४ ॥

अनुवाद (हिन्दी)

कपिवर हनुमान् ने भिक्षुरूपको त्यागकर वानररूप धारण कर लिया । वे उन दोनों वीरोंको पीठपर बिठाकर वहाँसे चल दिये ॥ ३४ ॥

विश्वास-प्रस्तुतिः

स तु विपुलयशाः कपिप्रवीरः
पवनसुतः कृतकृत्यवत् प्रहृष्टः ।
गिरिवरमुरुविक्रमः प्रयातः
स शुभमतिः सह रामलक्ष्मणाभ्याम् ॥ ३५ ॥

मूलम्

स तु विपुलयशाः कपिप्रवीरः
पवनसुतः कृतकृत्यवत् प्रहृष्टः ।
गिरिवरमुरुविक्रमः प्रयातः
स शुभमतिः सह रामलक्ष्मणाभ्याम् ॥ ३५ ॥

अनुवाद (हिन्दी)

महान् यशस्वी तथा शुभ विचारवाले महापराक्रमी वे कपिवीर पवनकुमार कृतकृत्य-से होकर अत्यन्त हर्षमें भर गये और श्रीराम-लक्ष्मणके साथ गिरिवर ऋष्यमूकपर जा पहुँचे ॥ ३५ ॥

समाप्तिः

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये किष्किन्धाकाण्डे चतुर्थः सर्गः ॥ ४ ॥
इस प्रकार श्रीवाल्मीकिनिर्मित आर्षरामायण आदिकाव्यके किष्किन्धाकाण्डमें चौथा सर्ग पूरा हुआ ॥ ४ ॥