०४६ तपस्वीरूपेण रावणागमनम्

वाचनम्
भागसूचना
  1. रावणका साधुवेषमें सीताके पास जाकर उनका परिचय पूछना और सीताका आतिथ्यके लिये उसे आमन्त्रित करना
विश्वास-प्रस्तुतिः

तया परुषम् उक्तस् तु
कुपितो राघवानुजः ।
विकाङ्क्षन् भृशं रामं
प्रतस्थे नचिराद् इव ॥ १ ॥

मूलम्

तया परुषमुक्तस्तु कुपितो राघवानुजः ।
स विकाङ्क्षन् भृशं रामं प्रतस्थे नचिरादिव ॥ १ ॥

गोविन्दराजः

अथ सीतायाः लक्ष्मण-विषय-परुष-भाषण-फलं दर्शयत्य् एकादशभिः सर्गैः । रावण-प्रलोभनम् आह षट्-चत्वारिंशे तया परुषम् इत्यादि । विकाङ्क्षन् अनिच्छन्नेव रामम् उद्दिश्य प्रतस्थे । नचिराद् इव अविलम्बितम् एव । इव-शब्दो वाक्यालङ्कार इति वा । यद् वा नचिराद् इव सीता-त्यागासहिष्णुतया पादौ पश्चाद् आकर्षतः राम-प्राप्ति-त्वरा तु पुरतः कर्षतीतीव-शब्दस्य भावः ॥ 3.46.1 ॥

अनुवाद (हिन्दी)

सीताके कठोर वचन कहनेपर कुपित हुए लक्ष्मण श्रीरामसे मिलनेकी विशेष इच्छा रखकर शीघ्र ही वहाँसे चल दिये ॥ १ ॥

विश्वास-प्रस्तुतिः

तद् आसाद्य दश-ग्रीवः
क्षिप्रम् अन्तरम् आस्थितः ।
अभिचक्राम वैदेहीम्
परिव्राजक-रूप-धृक् ॥ २ ॥

मूलम्

तदासाद्य दशग्रीवः क्षिप्रमन्तरमास्थितः ।
अभिचक्राम वैदेहीं परिव्राजकरूपधृक् ॥ २ ॥

गोविन्दराजः

तद् इति । आस्थितः अवकाशं प्रतीक्षमाणः स्थितो दश-ग्रीवः । तद् एव अन्तरम् अवकाशम् । आसाद्य वैदेहीम् अभिचक्राम आभिमुख्येनाजगाम । परिव्राजको भिक्षुः तस्य रूपं लिङ्गं धारयतीति परिव्राजक-रूप-धृत् ॥ 3.46.2 ॥

अनुवाद (हिन्दी)

लक्ष्मणके चले जानेपर रावणको मौका मिल गया, अतः वह संन्यासीका वेष धारण करके शीघ्र ही विदेहकुमारी सीताके समीप गया ॥ २ ॥

विश्वास-प्रस्तुतिः

श्लक्ष्ण-काषाय-संवीतः
शिखी छत्री उपानही ।
वामे चांसे ऽवसज्याथ
शुभे यष्टि-कमण्डलू ॥ ३ ॥

मूलम्

श्लक्ष्णकाषायसंवीतः शिखी छत्री उपानही ।
वामे चांसेऽवसज्याथ शुभे यष्टिकमण्डलू ॥ ३ ॥

गोविन्दराजः

परिव्राजक-लिङ्गान्य् आह श्लक्ष्णेति । शिखी अदन्तत्वाभावे ऽपि व्रीह्यादित्वादिनिः । छत्त्रीत्य् अत्र वाक्य-सन्धेर् अनित्यत्वेन यण्-भावः । उपानहीत्य् अत्र इनिरार्षः । यष्टिः त्रिदण्डम् । शिखीत्यनेन साहचर्यात् । अत्र धर्म-प्रधान-जनक-कुल-जनककुलनन्दिन्याः सीताया विश्वासाय धृतत्वादित्थम् एव यति-लिङ्गम् इति दर्शितम् । तथाहाङ्गिराः “यतेर् लिङ्गं प्रवक्ष्यामि येनासौ लक्ष्यते यतिः । ब्रह्मसूत्रं त्रिदण्डं च वस्त्रं जन्तु-निवारणम् । शिक्यं पात्रं बृसी चैव कौपीनं कटि-वेष्टनम् । यस्यैतद् विद्यते लिङ्गं स यतिर् नेतरो यतिः ॥” इति। परिव्राजक-रूपेणेत्यनेन ब्रह्मसूत्र-आदिकम् उक्तम्। समुपागमद् इति प्रतिपाद्यार्थ-भेदात् पुनः पुनः क्रिया-पद-प्रयोगः ॥ 3.46.3 ॥

अनुवाद (हिन्दी)

वह शरीरपर साफ-सुथरा गेरुए रंगका वस्त्र लपेटे हुए था । उसके मस्तकपर शिखा, हाथमें छाता और पैरोंमें जूते थे । उसने बायें कंधेपर डंडा रखकर उसमें कमण्डलु लटका रखा था ॥ ३ ॥

विश्वास-प्रस्तुतिः

परिव्राजक-रूपेण
वैदेहीम् अन्ववर्तत
ताम् आससादातिबलो
भ्रातृभ्यां रहितां वने ॥ ४ ॥

मूलम्

परिव्राजकरूपेण वैदेहीमन्ववर्तत ।
तामाससादातिबलो भ्रातृभ्यां रहितां वने ॥ ४ ॥

गोविन्दराजः

ताम् इति । भ्रातृभ्यां राम-लक्ष्मणाभ्याम् ॥ 3.46.4 ॥

अनुवाद (हिन्दी)

अत्यन्त बलवान् रावण उस वनमें परिव्राजकका रूप धारण करके श्रीराम और लक्ष्मण दोनों बन्धुओंसे रहित हुई अकेली विदेहकुमारी सीताके पास गया ॥ ४ ॥

विश्वास-प्रस्तुतिः

रहितां सूर्य-चन्द्राभ्यां
सन्ध्याम् इव महत् तमः ।
ताम् अपश्यत् ततो बालां
राज-पुत्रीं यशस्विनीम् ॥ ५ ॥
रोहिणीं शशिना हीनां
ग्रहवद् भृश-दारुणः ।

मूलम्

रहितां सूर्यचन्द्राभ्यां सन्ध्यामिव महत्तमः ।
तामपश्यत् ततो बालां राजपुत्रीं यशस्विनीम् ॥ ५ ॥
रोहिणीं शशिना हीनां ग्रहवद् भृशदारुणः ।

गोविन्दराजः

महत्तम इत्य् अभूतोपमा, सन्ध्यायां महतस् तमसो ऽसम्भवात् ॥ 3.46.4 ॥

ताम् इति । ग्रहः अङ्गारकः शनैश्चरो वा स रोहिणीम् इव भृश-दारुणो रावणस् ताम् अपश्यत् । यथा रोहिण्याः क्रूर-ग्रह-वीक्षणं लोकानर्थकरं तथा रावणस्य सीता-वीक्षणम् इति भावः ॥ 3.46.5 ॥

अनुवाद (हिन्दी)

जैसे सूर्य और चन्द्रमासे हीन हुई संध्याके पास महान् अंधकार उपस्थित हो, उसी प्रकार वह सीताके निकट गया । तदनन्तर जैसे चन्द्रमासे रहित हुई रोहिणीपर अत्यन्त दारुण ग्रह मंगल या शनैश्चरकी दृष्टि पड़े, उसी प्रकार उस अतिशय क्रूर रावणने उस भोली-भाली यशस्विनी राजकुमारीकी ओर देखा ॥ ५ १/२ ॥

विश्वास-प्रस्तुतिः

तम् उग्रं पाप-कर्माणं
जनस्थान-गता द्रुमाः ॥ ६ ॥
सन्दृश्य न प्रकम्पन्ते
न प्रवाति च मारुतः ।
शीघ्र-स्रोताश् च तं दृष्ट्वा
वीक्षन्तं रक्त-लोचनम् ॥ ७ ॥
स्तिमितं गन्तुम् आरेभे
भयाद् गोदावरी नदी ।

मूलम्

तमुग्रं पापकर्माणं जनस्थानगता द्रुमाः ॥ ६ ॥
सन्दृश्य न प्रकम्पन्ते न प्रवाति च मारुतः ।
शीघ्रस्रोताश्च तं दृष्ट्वा वीक्षन्तं रक्तलोचनम् ॥ ७ ॥
स्तिमितं गन्तुमारेभे भयाद् गोदावरी नदी ।

गोविन्दराजः

दारुणत्वं प्रकटयति तम् उग्रम् इति ॥ 3.46.6 ॥

शीघ्र-स्रोताः शीघ्र-प्रवाहा । वीक्षन्तं वीक्षमाणम् । स्तिमितम् इति क्रिया-विशेषणम् ॥ 3.46.7 ॥

अनुवाद (हिन्दी)

उस भयंकर पापाचारीको आया देख जनस्थानके वृक्षोंने हिलना बंद कर दिया और हवाका वेग रुक गया । लाल नेत्रोंवाले रावणको अपनी ओर दृष्टिपात करते देख तीव्र गतिसे बहनेवाली गोदावरी नदी भयके मारे धीरे-धीरे बहने लगी ॥ ६-७ १/२ ॥

विश्वास-प्रस्तुतिः

रामस्य त्व् अन्तरं प्रेप्सुर्
दश-ग्रीवस् तद्-अन्तरे ॥ ८ ॥
उपतस्थे च वैदेहीं
भिक्षु-रूपेण रावणः ।

मूलम्

रामस्य त्वन्तरं प्रेप्सुर्दशग्रीवस्तदन्तरे ॥ ८ ॥
उपतस्थे च वैदेहीं भिक्षुरूपेण रावणः ।

गोविन्दराजः

रामस्येति । रामस्य अन्तर-प्रेप्सुः विश्लेषान्वेषी । तद् अन्तरे तस्मिन्नवकाशे । प्रथमं सीताम् उद्दिश्य गमनम् अथाश्रम-समीप-गमनं ततः सीता-दर्शनं ततः सन्निकर्ष-गमनम् इति क्रमः ॥ 3.46.8 ॥

अनुवाद (हिन्दी)

रामसे बदला लेनेका अवसर ढूँढ़नेवाला दशमुख रावण उस समय भिक्षुरूपसे विदेहकुमारी सीताके पास पहुँचा ॥ ८ १/२ ॥

विश्वास-प्रस्तुतिः

अभव्यो भव्य-रूपेण
भर्तारम् अनुशोचतीम् ॥ ९ ॥
अभ्यवर्तत वैदेहीं
चित्राम् इव शनैश्चरः ।

मूलम्

अभव्यो भव्यरूपेण भर्तारमनुशोचतीम् ॥ ९ ॥
अभ्यवर्तत वैदेहीं चित्रामिव शनैश्चरः ।

गोविन्दराजः

अथाभिमुख-गमनम् आह अभव्य इति । अभव्यः दुर्जनः । भव्य-रूपेण सुजन-रूपेण । अनुशोचतीम् इति आगम-शासनस्यानित्यत्वान् नुम् अभावः ॥ 3.46.9 ॥

अनुवाद (हिन्दी)

उस समय विदेहराजकुमारी सीता अपने पतिके लिये शोक और चिन्तामें डूबी हुई थीं । उसी अवस्थामें अभव्य रावण भव्य रूप धारण करके उनके सामने उपस्थित हुआ, मानो शनैश्चर ग्रह चित्राके सामने जा पहुँचा हो ॥

विश्वास-प्रस्तुतिः

सहसा भव्य-रूपेण
तृणैः कूप इवावृतः ॥ १० ॥
अतिष्ठत् प्रेक्ष्य वैदेहीं
राम-पत्नीं यशस्विनीम् ।

मूलम्

सहसा भव्यरूपेण तृणैः कूप इवावृतः ॥ १० ॥
अतिष्ठत् प्रेक्ष्य वैदेहीं रामपत्नीं यशस्विनीम् ।

गोविन्दराजः

स इति । पापः अन्तः पापात्मा । भव्य-रूपेण बाह्याकारेणोपलक्षितः ॥ 3.46.10 ॥

अनुवाद (हिन्दी)

जैसे कुआँ तिनकोंसे ढका हुआ हो, उसी प्रकार भव्य रूपसे अपनी अभव्यताको छिपाकर रावण सहसा वहाँ जा पहुँचा और यशस्विनी रामपत्नी वैदेहीको देखकर खड़ा हो गया ॥ १० ॥

विश्वास-प्रस्तुतिः

तिष्ठन् सम्प्रेक्ष्य च तदा
पत्नीं रामस्य रावणः ॥ ११ ॥
शुभां रुचिर-दन्तोष्ठीं
पूर्ण-चन्द्र-निभाननाम् ।
आसीनां पर्ण-शालायां
बाष्प-शोकाभिपीडिताम् ॥ १२ ॥

मूलम्

तिष्ठन् सम्प्रेक्ष्य च तदा पत्नीं रामस्य रावणः ॥ ११ ॥
शुभां रुचिरदन्तोष्ठीं पूर्णचन्द्रनिभाननाम् ।
आसीनां पर्णशालायां बाष्पशोकाभिपीडिताम् ॥ १२ ॥

गोविन्दराजः

बाष्प-शोकाभिपीडितां रामार्त-स्वर-श्रवणेन बाह्यभ्यन्तरास्वास्थ्यवतीम् ॥ 3.46.11 ॥

अनुवाद (हिन्दी)

उस समय रावण वहाँ खड़ा-खड़ा रामपत्नी सीताको देखने लगा । वे बड़ी सुन्दरी थीं । उनके दाँत और ओठ भी सुन्दर थे, मुख पूर्ण चन्द्रमाकी शोभाको छीने लेता था । वे पर्णशालामें बैठी हुई शोकसे पीड़ित हो आँसू बहा रही थीं ॥ ११-१२ ॥

विश्वास-प्रस्तुतिः

स तां पद्म-पलाशाक्षीं
पीत-कौशेय-वासिनीम् ।
अभ्यगच्छत वैदेहीं
हृष्ट-चेता निशाचरः ॥ १३ ॥

मूलम्

स तां पद्मपलाशाक्षीं पीतकौशेयवासिनीम् ।
अभ्यगच्छत वैदेहीं हृष्टचेता निशाचरः ॥ १३ ॥

गोविन्दराजः

पीत-कौशेयं वस्ते इति पीत-कौशेय-वासिनीम् । णिन्य् अन्तात् ङीप् । अभ्यगच्छत पूर्वस्माद् अपि सन्निकर्षं प्राप्तः ॥ 3.46.12 ॥

अनुवाद (हिन्दी)

वह निशाचर प्रसन्नचित्त हो रेशमी पीताम्बरसे सुशोभित कमलनयनी विदेहकुमारीके सामने गया ॥

विश्वास-प्रस्तुतिः

दृष्ट्वा काम-शराविद्धो
ब्रह्म-घोषम् उदीरयन्
अब्रवीत् प्रश्रितं वाक्यं
रहिते राक्षसाधिपः ॥ १४ ॥

मूलम्

दृष्ट्वा कामशराविद्धो ब्रह्मघोषमुदीरयन् ।
अब्रवीत् प्रश्रितं वाक्यं रहिते राक्षसाधिपः ॥ १४ ॥

गोविन्दराजः

स इति । ब्रह्मघोषम् “उपनिषदम् आवर्तयेत्” इत्य् उक्त-परिव्राजकोचित-वेद-घोषम् । प्रश्रितं विनयान्वितम् । रहिते विजन-प्रदेशे ॥ 3.46.13 ॥

अनुवाद (हिन्दी)

अन्हें देखते ही कामदेवके बाणोंसे घायल हो राक्षसराज रावण वेदमन्त्रका उच्चारण करने लगा और उस एकान्त स्थानमें विनीतभावसे उनसे कुछ कहनेको उद्यत हुआ ॥ १४ ॥

विश्वास-प्रस्तुतिः

ताम् उत्तमां त्रि-लोकानां
पद्म-हीनाम् इव श्रियम् ।
विभ्राजमानां वपुषा
रावणः प्रशशंस ह ॥ १५ ॥

मूलम्

तामुत्तमां त्रिलोकानां पद्महीनामिव श्रियम् ।
विभ्राजमानां वपुषा रावणः प्रशशंस ह ॥ १५ ॥

गोविन्दराजः

ताम् इति । लोके उत्तमां स्त्रियम् इत्य् अन्वयः । प्रश्रितं वाक्यम् अब्रवीद् इत्य् अस्य एव विवरणं प्रशशंसेति ॥ 3.46.14 ॥

अनुवाद (हिन्दी)

त्रिलोकसुन्दरी सीता अपने शरीरसे कमलसे रहित कमलालया लक्ष्मीकी भाँति शोभा पा रही थीं । रावण उनकी प्रशंसा करता हुआ बोला— ॥ १५ ॥

विश्वास-प्रस्तुतिः

रौप्य-काञ्चन-वर्णाभे
पीत-कौशेय-वासिनि ।
कमलानां शुभां मालां
पद्मिनीव च बिभ्रती ॥ १६ ॥

मूलम्

रौप्यकाञ्चनवर्णाभे पीतकौशेयवासिनि ।
कमलानां शुभां मालां पद्मिनीव च बिभ्रती ॥ १६ ॥

गोविन्दराजः

काञ्चन-वर्णाभे काञ्चन-तुल्य-वर्णे कमलानां मालां बिभ्रती पद्मिनीव स्थिता पद्म-तुल्य-मुख-नयन-पाणि-पाद-विशिष्टत्वाद् इति भावः ॥ 3.46.15 ॥

अनुवाद (हिन्दी)

‘उत्तम सुवर्णकी-सी कान्तिवाली तथा रेशमी पीताम्बर धारण करनेवाली सुन्दरी! (तुम कौन हो?) तुम्हारे मुख, नेत्र, हाथ और पैर कमलोंके समान हैं, अतः तुम पद्मिनी (पुष्करिणी) की भाँति कमलोंकी सुन्दर-सी माला धारण करती हो ॥ १६ ॥

विश्वास-प्रस्तुतिः

ह्रीः श्रीः कीर्तिः शुभा लक्ष्मीर्
अप्सरा वा शुभानने ।
भूतिर् वा त्वं वरारोहे
रतिर् वा स्वैर-चारिणी ॥ १७ ॥

मूलम्

ह्रीः श्रीः कीर्तिः शुभा लक्ष्मीरप्सरा वा शुभानने ।
भूतिर्वा त्वं वरारोहे रतिर्वा स्वैरचारिणी ॥ १७ ॥

गोविन्दराजः

ह्रीः विष्णुपत्नी भूमिः । “ह्रीस् च ते लक्ष्मीस् च पत्न्यौ” इति श्रुतेः । श्रीः कमला । लक्ष्मीः कान्त्य् अधिष्ठान-देवता । रतिः मन्मथ-स्त्री । स्वैरचारिणी स्वतन्त्रा ॥ 3.46.16 ॥

अनुवाद (हिन्दी)

‘शुभानने! तुम श्री, ह्री, कीर्ति, शुभस्वरूपा लक्ष्मी अथवा अप्सरा तो नहीं हो? अथवा वरारोहे! तुम भूति या स्वेच्छापूर्वक विहार करनेवाली कामदेवकी पत्नी रति तो नहीं हो? ॥ १७ ॥

विश्वास-प्रस्तुतिः

समाः शिखरिणः स्निग्धाः
पाण्डुरा दशनास् तव ।
विशाले विमले नेत्रे
रक्तान्ते कृष्ण-तारके ॥ १८ ॥
विशालं जघनं पीनम्
ऊरू करि-करोपमौ ।

मूलम्

समाः शिखरिणः स्निग्धाः पाण्डुरा दशनास्तव ।
विशाले विमले नेत्रे रक्तान्ते कृष्णतारके ॥ १८ ॥
विशालं जघनं पीनमूरू करिकरोपमौ ।

गोविन्दराजः

समाः वैषम्य-रहिताः । शिखराणि अग्राणि प्रशस्तानि सन्तीति शिखरिणः । प्रशंसायाम् इनिः । कुन्द-कुड्मलवत् प्रशस्ताग्रा इत्य् अर्थः । स्निग्धाः मसृणाः । रक्त-अन्ते रक्त-रेखा-युक्तान्ते । जघनं कटि-पुरोभागः । “पश्चान्नितम्बः स्त्रीकट्याः क्लीबे तु जघनं पुरः” इत्यमरः ॥ 3.46.17,18 ॥

अनुवाद (हिन्दी)

तुम्हारे दाँत बराबर हैं । उनके अग्रभाग कुन्दकी कलियोंके समान शोभा पाते हैं । वे सब-के-सब चिकने और सफेद हैं । तुम्हारी दोनों आँखें बड़ी-बड़ी और निर्मल हैं । उनके दोनों कोये लाल हैं और पुतलियाँ काली हैं । कटिका अग्रभाग विशाल एवं मांसल है । दोनों जाँधें हाथीकी सूँड़के समान शोभा पाती हैं ॥ १८ १/२ ॥

विश्वास-प्रस्तुतिः

एताव् उपचितौ वृत्तौ
संहतौ सम्प्रगल्भितौ ॥ १९ ॥
पीनोन्नत-मुखौ कान्तौ
स्निग्ध-ताल-फलोपमौ ।
मणि-प्रवेकाभरणौ
रुचिरौ ते पयोधरौ ॥ २० ॥

मूलम्

एतावुपचितौ वृत्तौ संहतौ सम्प्रगल्भितौ ॥ १९ ॥
पीनोन्नतमुखौ कान्तौ स्निग्धतालफलोपमौ ।
मणिप्रवेकाभरणौ रुचिरौ ते पयोधरौ ॥ २० ॥

गोविन्दराजः

एताव् इति । उपचितौ उन्नतौ । वृत्तौ वर्तुलौ । संहतौ अन्योन्य-संश्लिष्टौ । सम्यक् प्रकृष्टं वल्गितं चलनं ययोस्तौ सम्प्रवल्गितौ गुरुत्वौन्नत्याभ्यां किञ्चिच् चलन्ताव् इव स्थिताव् इत्य् अर्थः । पीनोन्नत-मुखौ क्वचित् स्तनयोः पीनत्वे ऽप्यग्रे औन्नत्यं पीनत्वं च न स्तः तथा न भवत इमौ किन्तु पीनम् उन्नतं च मुखं ययोस्तौ । कान्तौ काम्यमानौ । मणिप्रवेकाभरणौ मणिप्रवेकाः मणि-श्रेष्ठाः । “प्रवेकानुत्तमोत्तमौ” इत्यमरः । ते मालात्मकाः आभरणं ययोस्तौ । रुचुरौ शोभमानौ । सूक्ष्मतर-कौशेयोत्तरीय-चलन-वशेन हठाद् दृष्टः प्रकारो दुरात्मना वर्ण्यते ॥ 3.46.19 ॥

अनुवाद (हिन्दी)

‘तुम्हारे ये दोनों स्तन पुष्ट, गोलाकार, परस्पर सटे हुए, प्रगल्भ, मोटे, उठे हुए मुखवाले, कमनीय, चिकने ताड़फलके समान आकारवाले, परम सुन्दर और श्रेष्ठ मणिमय आभूषणोंसे विभूषित हैं ॥ १९-२० ॥

विश्वास-प्रस्तुतिः

चारु-स्मिते चारु-दति
चारु-नेत्रे विलासिनि ।
मनो हरसि मे रामे
नदी-कूलम् इवाम्भसा ॥ २१ ॥

मूलम्

चारुस्मिते चारुदति चारुनेत्रे विलासिनि ।
मनो हरसि मे रामे नदीकूलमिवाम्भसा ॥ २१ ॥

गोविन्दराजः

चारु-स्मित इति । चारवो दन्ता यस्याः सा चारु-दती । आर्षो दन्तस्य दत्रादेशः छन्दोवद्-भावेन “छन्दसी च” इति सूत्रेण समासान्तो दन्तस्य दत्रादेशो वा “उगितश्च” इति ङीप् । समा इत्यादिना पूर्वोक्तस्य सामान्योक्तिर् इयम् चारु-स्मितत्व-निर्वाहाय विलासो ऽम्भस्थानीयः अतो न न्यूनोपमा ॥ 3.46.20 ॥

अनुवाद (हिन्दी)

‘सुन्दर मुसकान, रुचिर दन्तावली और मनोहर नेत्रवाली विलासिनी रमणी! तुम अपने रूप-सौन्दर्यसे मेरे मनको वैसे ही हरे लेती हो, जैसे नदी जलके द्वारा अपने तटका अपहरण करती है ॥ २१ ॥

विश्वास-प्रस्तुतिः

करान्त-मित-मध्या ऽसि
सुकेशे संहत-स्तनि ।
नैव देवी न गन्धर्वी
न यक्षी न च किन्नरी ॥ २२ ॥

मूलम्

करान्तमितमध्यासि सुकेशे संहतस्तनि ।
नैव देवी न गन्धर्वी न यक्षी न च किन्नरी ॥ २२ ॥

गोविन्दराजः

करान्तेति । करान्तेन करतलाङ्गुष्ठ-प्रदेशिनी-चक्र-मानेन मितं परिच्छिन्नं मध्यं यस्याः सा । संहत-स्तनीति पूर्वं संहताव् इत्य् उक्त-कल्पे ऽपि पुनरुक्तिर् दुर्लभ-लक्षणत्व-विस्मयेन ॥ 3.46.21 ॥

अनुवाद (हिन्दी)

‘तुम्हारी कमर इतनी पतली है कि मुट्ठीमें आ जाय । केश चिकने और मनोहर हैं । दोनों स्तन एक-दूसरेसे सटे हुए हैं । सुन्दरी! देवता, गन्धर्व, यक्ष और किन्नर जातिकी स्त्रियोंमें भी कोई तुम-जैसी नहीं है ॥ २२ ॥

विश्वास-प्रस्तुति::

नैवंरूपा मया नारी
दृष्ट-पूर्वा मही-तले ।
रूपम् अग्र्यं च लोकेषु
सौकुमार्यं वयश् च ते ॥ २३ ॥
इह वासश् च कान्तारे
चित्तम् उन्माथयन्ति मे ।
सा प्रतिक्राम भद्रं ते
त्वं वस्तुम् इहार्हसि ॥ २४ ॥

मूलम्

नैवंरूपा मया नारी दृष्टपूर्वा महीतले ।
रूपमग्र्यं च लोकेषु सौकुमार्यं वयश्च ते ॥ २३ ॥
इह वासश्च कान्तारे चित्तमुन्माथयन्ति मे ।
सा प्रतिक्राम भद्रं ते न त्वं वस्तुमिहार्हसि ॥ २४ ॥

गोविन्दराजः

एवं-रूपा देवी देव-स्त्री देव-लोके न दृष्टा, एवम् उत्तरत्रापि योज्यम् । नारी मनुष्य-स्त्री ॥ 3.46.22 ॥

लोकेष्व् अग्य्रं श्रेष्ठं रूपं लावण्यं रूपादीनि कान्तार-वासस् च उन्मादयन्ति परस्पर-विरुद्धत्वात् । किम् अत्र तवागमनम् इति निर्णय-बुद्धिं न जनयन्तीत्य् अर्थः ॥ 3.46.23 ॥

सेति । प्रतिक्राम प्रतिनिवर्तस्व, निलयम् इति शेषः । वस्तुं स्थातुम् ॥ 3.46.24 ॥

अनुवाद (हिन्दी)

‘पृथ्वीपर तो ऐसी रूपवती नारी मैंने आजसे पहले कभी देखी ही नहीं थी । कहाँ तो तुम्हारा यह तीनों लोकोंमें सबसे सुन्दर रूप, सुकुमारता और नयी अवस्था और कहाँ इस दुर्गम वनमें निवास! ये सब बातें ध्यानमें आते ही मेरे मनको मथे डालती हैं । तुम्हारा कल्याण हो । यहाँसे चली जाओ । तुम यहाँ रहनेके योग्य नहीं हो ॥

विश्वास-प्रस्तुतिः

राक्षसानाम् अयम् वासो
घोराणां काम-रूपिणाम् ।
प्रासादाग्राणि रम्याणि
नगरोपवनानि च ॥ २५ ॥
सम्पन्नानि सुगन्धीनि
युक्तान्य् आचरितुं त्वया ।

मूलम्

राक्षसानामयं वासो घोराणां कामरूपिणाम् ।
प्रासादाग्राणि रम्याणि नगरोपवनानि च ॥ २५ ॥
सम्पन्नानि सुगन्धीनि युक्तान्याचरितं त्वया ।

गोविन्दराजः

सम्पन्नानि समृद्धानि । आचरितुं सञ्चरितुम् ॥ 3.46.25 ॥

अनुवाद (हिन्दी)

‘यह तो इच्छानुसार रूप धारण करनेवाले भयंकर राक्षसोंके रहनेकी जगह है । तुम्हें तो रमणीय राजमहलों, समृद्धिशाली नगरों और सुगन्धयुक्त उपवनोंमें निवास करना और विचरना चाहिये ॥ २५ १/२ ॥

विश्वास-प्रस्तुतिः

वरं माल्यं वरं गन्धं
वरं वस्त्रं च शोभने ॥ २६ ॥
भर्तारं च वरं मन्ये
त्वद्-युक्तम् असितेक्षणे ।

मूलम्

वरं माल्यं वरं गन्धं वरं वस्त्रं च शोभने ॥ २६ ॥
भर्तारं च वरं मन्ये त्वद्युक्तमसितेक्षणे ।

गोविन्दराजः

वरं श्रेष्ठम् । माल्यादि त्वद्-युक्तं तव योग्यं मन्ये न तु यादृश-तादृशम् । एवम् उत्तरत्रापि । यद् वा माल्यादिकं त्वद्-युक्तं त्वत्-सम्बद्धं सत् वरं प्रशस्तं भवतीति मन्ये ॥ 3.46.26 ॥

अनुवाद (हिन्दी)

‘शोभने! वही पुरुष श्रेष्ठ है, वही गन्ध उत्तम है और वही वस्त्र सुन्दर है, जो तुम्हारे उपयोगमें आये । कजरारे नेत्रोंवाली सुन्दरि! मैं उसीको श्रेष्ठ पति मानता हूँ, जिसे तुम्हारा सुखद संयोग प्राप्त हो ॥ २६ १/२ ॥

विश्वास-प्रस्तुतिः

का त्वं भवसि रुद्राणां
मरुतां वा शुचि-स्मिते ॥ २७ ॥
वसूनां वा वरारोहे
देवता प्रतिभासि मे ।

मूलम्

का त्वं भवसि रुद्राणां मरुतां वा शुचिस्मिते ॥ २७ ॥
वसूनां वा वरारोहे देवता प्रतिभासि मे ।

गोविन्दराजः

का त्वम् इति । त्वं मे देवता देव-स्त्रीति प्रतिभासि । तत्र का त्वं किं रुद्राणां सम्बन्धिनी उत मरुताम् आहोस्विद् वसूनां सम्बन्धिनी । वाकारः समुच्चय-अर्थः । तेन किम् आदित्यानाम् इत्य् अपि सिद्ध्यति ॥ 3.46.27 ॥

अनुवाद (हिन्दी)

‘पवित्र मुसकान और सुन्दर अङ्गोंवाली देवि! तुम कौन हो? मुझे तो तुम रुद्रों, मरुद‍्गणों अथवा वसुओंसे सम्बन्ध रखनेवाली देवी जान पड़ती हो ॥

विश्वास-प्रस्तुतिः

नेह गच्छन्ति गन्धर्वा
न देवा न च किन्नराः ॥ २८ ॥
राक्षसानाम् अयम् वासः
कथं तु त्वम् इहागता ।

मूलम्

नेह गच्छन्ति गन्धर्वा न देवा न च किन्नराः ॥ २८ ॥
राक्षसानामयं वासः कथं तु त्वमिहागता ।

गोविन्दराजः

तत्रापि संशय-निवृत्तिम् आह नेहेति ॥ 3.46.28 ॥

अनुवाद (हिन्दी)

‘यहाँ गन्धर्व, देवता तथा किन्नर नहीं आते-जाते हैं । यह राक्षसोंका निवासस्थान है, फिर तुम कैसे यहाँ आ गयी ॥ २८ १/२ ॥

विश्वास-प्रस्तुतिः

इह शाखा-मृगाः सिंहा
द्वीपि-व्याघ्र-मृगा वृकाः ॥ २९ ॥
ऋक्षास् तरक्षवः कङ्काः+++(=गृध्राः)+++
कथं तेभ्यो न बिभ्यसे

मूलम्

इह शाखामृगाः सिंहा द्वीपिव्याघ्रमृगा वृकाः ॥ २९ ॥
ऋक्षास्तरक्षवः कङ्काः कथं तेभ्यो न बिभ्यसे ।

गोविन्दराजः

भय-हेत्व्-अन्तरम् आह इहेति । शाखा-मृगाः वानराः । द्वीपं चर्म तद्-योगात् द्वीपिनो बाल-व्याघ्राः । व्याजिघ्रन्तीति व्याघ्राः द्वीप्य् अपेक्षया किञ्चिन् महान्तो ऽमी । तरक्षवो मृगादनाः महा-व्याघ्राः । न बिभ्यसि न बिभेषि । कङ्काः मांसादा भयङ्कराकृतयः पक्षि-विशेषाः ॥ 3.46.29 ॥

अनुवाद (हिन्दी)

‘यहाँ वानर, सिंह, चीते, व्याघ्र, मृग, भेड़िये, रीछ, शेर और कंक (गीध आदि पक्षी) रहते हैं । तुम्हें इनसे भय क्यों नहीं हो रहा है? ॥ २९ १/२ ॥

विश्वास-प्रस्तुतिः

मदान्वितानां घोराणां
कुञ्जराणां तरस्विनाम् ॥ ३० ॥
कथम् एका महारण्ये
न बिभेषि वरानने ।

मूलम्

मदान्वितानां घोराणां कुञ्जराणां तरस्विनाम् ॥ ३० ॥
कथमेका महारण्ये न बिभेषि वरानने ।

गोविन्दराजः

पञ्चम्य् अर्थे षष्ठी । तरस्विनां बलवताम् ॥ 3.46.30 ॥

अनुवाद (हिन्दी)

‘वरानने! इस विशाल वनके भीतर अत्यन्त वेगशाली और भयंकर मदमत्त गजराजोंके बीच अकेली रहती हुई तुम भयभीत कैसे नहीं होती हो? ॥ ३0 १/२ ॥

विश्वास-प्रस्तुतिः

कासि कस्य कुतश् च त्वं
किं निमित्तं च दण्डकान् ॥ ३१ ॥
एका चरसि कल्याणि
घोरान् राक्षस-सेवितान् ।

मूलम्

कासि कस्य कुतश्च त्वं किं निमित्तं च दण्डकान् ॥ ३१ ॥
एका चरसि कल्याणि घोरान् राक्षससेवितान् ।

गोविन्दराजः

का ऽसीति । का ऽसि किन्-नामधेया ऽसि । कस्य सम्बन्धिनी कुतः कस्माद् देशाद् आगता ऽसि ॥ 3.46.31 ॥

अनुवाद (हिन्दी)

‘कल्याणमयी देवि! बताओ, तुम कौन हो? किसकी हो? और कहाँसे आकर किस कारण इस राक्षससेवित घोर दण्डकारण्यमें अकेली विचरण करती हो?’ ॥ ३१ १/२ ॥

विश्वास-प्रस्तुतिः

इति प्रशस्ता वैदेही
रावणेन महात्मना ॥ ३२ ॥
द्विजाति-वेषेण हि तं
दृष्ट्वा रावणम् आगतम्
सर्वैर् अतिथि-सत्कारैः
पूजयाम् आस मैथिली ॥ ३३ ॥

मूलम्

इति प्रशस्ता वैदेही रावणेन महात्मना ॥ ३२ ॥
द्विजातिवेषेण हि तं दृष्ट्वा रावणमागतम् ।
सर्वैरतिथिसत्कारैः पूजयामास मैथिली ॥ ३३ ॥

गोविन्दराजः

इतीति । द्विजाति-वेषेण सन्न्यासि-वेषेण । हितं सहितम् । सत्क्रियते एभिर् इति सत्काराः पूजा-द्रव्याणि तैः ॥ 3.46.32 ॥

अनुवाद (हिन्दी)

वेशभूषासे महात्मा बनकर आये हुए रावणने जब विदेहकुमारी सीताकी इस प्रकार प्रशंसा की, तब ब्राह्मणवेषमें वहाँ पधारे हुए रावणको देखकर मैथिलीने अतिथि-सत्कारके लिये उपयोगी सभी सामग्रियोंद्वारा उसका पूजन किया ॥ ३२-३३ ॥

विश्वास-प्रस्तुतिः

उपानीयासनं पूर्वं
पाद्येनाभिनिमन्त्र्य च ।
अब्रवीत् सिद्धम् इत्य् एव
तदा तं सौम्य-दर्शनम् ॥ ३४ ॥

मूलम्

उपानीयासनं पूर्वं पाद्येनाभिनिमन्त्र्य च ।
अब्रवीत् सिद्धमित्येव तदा तं सौम्यदर्शनम् ॥ ३४ ॥

गोविन्दराजः

उक्तं विवृणोति उपनीयेति । पाद्येन पादोदकेन । अभिनिमन्त्र्य सत्कृत्य । तदा पाद्यप्रदानानन्तरं सिद्धम् इत्य् एव अब्रवीत् । पक्वान्नं सिद्धम् इत्य् अब्रवीत् ॥ 3.46.33 ॥

अनुवाद (हिन्दी)

पहले बैठनेके लिये आसन दे, पाद्य (पैर धोनेके लिये जल) निवेदन किया । तदनन्तर ऊपरसे सौम्य दिखायी देनेवाले उस अतिथिको भोजनके लिये निमन्त्रण देते हुए कहा—‘ब्रह्मन्! भोजन तैयार है, ग्रहण कीजिये’ ॥

विश्वास-प्रस्तुतिः

द्विजाति-वेषेण समीक्ष्य मैथिली
समागतं पात्र-कुसुम्भ+++(=काशाय)+++-धारिणम् ।
अशक्यम् उद‍्द्वेष्टुम् उपाय-दर्शनान्
न्यमन्त्रयद् ब्राह्मणवत् तथा-गतम् ॥ ३५ ॥

मूलम्

द्विजातिवेषेण समीक्ष्य मैथिली
समागतं पात्रकुसुम्भधारिणम् ।
अशक्यमुद‍्द्वेष्टुमुपायदर्शना-
न्न्यमन्त्रयद् ब्राह्मणवत् तथागतम् ॥ ३५ ॥

गोविन्दराजः

उक्तम् अर्थं सर्ग-ान्त-श्लोकाभ्यां विवृणोति द्विजातीत्यादि ।
द्विजाति-वेषेण समागतम् ।
पात्रम् अलाबु-प्रभृतिष्व् एकं कुसुम्भं महारजताख्य-रञ्जक-द्रव्य-विशेष-रक्तं वस्त्रम् । “तेन रक्तम्” इति प्राप्तस्याणो लोप आर्षः । यद् वा कुसुम्भः कमण्डलुः । “स्यान् महारजने क्लीबं कुसुम्भं करके पुमान्” इत्यमरः । तद्-उभय-धारिणम् । अपाये अपहरणे अनर्थकरणे वा दर्शनं बुद्धिर्यस्य तम् । अत एव उद्द्वेष्टुं भोजयितुमशक्यं तं समीक्ष्य मैथिली ब्राह्मणवत् ब्राह्मणेन सदृशं यथा भवति तथा न्यमन्त्रयत् । ब्राह्मणातिथिवन् निमन्त्रितवतीत्य् अर्थः ।
यद् वा ब्राह्मणवत् ब्राह्मणार्हम् “तदर्हम्” इति वतिः ।
यद् वा मैथिली जनक-कुल-जाततया तद्-व्यवहार-परिपाटी-विज्ञात-कपट-वेषा ऽपि
सन्न्यासि-वेष-धारण-मात्रेण उद्द्वेष्टुं द्वेषं कर्तुम् अशक्यं तं न्यमन्त्रयत् ।
“काषाय-दण्ड-मात्रेण यतिः पूज्यो न संशयः” इति वचनाद् इति भावः ॥ 3.46.34 ॥

अनुवाद (हिन्दी)

वह ब्राह्मणके वेषमें आया था, कमण्डलु और गेरुआ वस्त्र धारण किये हुए था । ब्राह्मण-वेषमें आये हुए अतिथिकी उपेक्षा असम्भव थी । उसकी वेशभूषामें ब्राह्मणत्वका निश्चय करानेवाले चिह्न दिखायी देते थे, अतः उस रूपमें आये हुए उस रावणको देखकर मैथिलीने ब्राह्मणके योग्य सत्कार करनेके लिये ही उसे निमन्त्रित किया ॥ ३५ ॥

विश्वास-प्रस्तुतिः

“इयं बृसी ब्राह्मण कामम् आस्यताम्
इदम् च पाद्यम् प्रतिगृह्यताम्” इति ।
“इदम् च सिद्धं वन-जातम् उत्तमम्
त्वद्-अर्थम् अव्यग्रम् इहोपभुज्यताम्” ॥ ३६ ॥

मूलम्

इयं बृसी ब्राह्मण काममास्यता-
मिदं च पाद्यं प्रतिगृह्यतामिति ।
इदं च सिद्धं वनजातमुत्तमं
त्वदर्थमव्यग्रमिहोपभुज्यताम् ॥ ३६ ॥

गोविन्दराजः

सत्कार-प्रकारम् आह इयम् इति । इयं बृसी मुनीनाम् आसनम् । आस्यतां त्वदर्थं सिद्धं पक्वम् इदं वन-जातं कन्द-मूल-फलादिकम् । इह स्थले अव्यग्रम् उपभुज्यताम् ।
इति-करणस्य उत्तर-श्लोके ऽन्वयः ॥ 3.46.35 ॥

अनुवाद (हिन्दी)

वे बोलीं—‘ब्राह्मण! यह चटाई है, इसपर इच्छानुसार बैठ जाइये । यह पैर धोनेके लिये जल है, इसे ग्रहण कीजिये और यह वनमें ही उत्पन्न हुआ उत्तम फल-मूल आपके लिये ही तैयार करके रखा गया है, यहाँ शान्तभावसे उसका उपभोग कीजिये’ ॥ ३६ ॥

विश्वास-प्रस्तुतिः

निमन्त्र्यमाणः प्रतिपूर्ण-भाषिणीम्
नरेन्द्र-पत्नीम् प्रसमीक्ष्य मैथिलीम् ।
प्रसह्य तस्या हरणे दृढम् मनः
समर्पयाम् आस वधाय रावणः ॥ ३७ ॥

मूलम्

निमन्त्र्यमाणः प्रतिपूर्णभाषिणीं
नरेन्द्रपत्नीं प्रसमीक्ष्य मैथिलीम् ।
प्रसह्य तस्या हरणे दृढं मनः
समर्पयामास वधाय रावणः ॥ ३७ ॥

गोविन्दराजः

निमन्त्र्यमाण इति । प्रतिपूर्ण-भाषिणीं सर्वं सम्पन्नम् इत्य् अतिथये वक्तव्यं वचनं भाषमाणाम् । धृतं धीरं यथा तथा मनो-विशेषणं वा । तस्या हरणे मनः समार्पयत् निहितवान् ॥ 3.46.36 ॥

अनुवाद (हिन्दी)

‘अतिथिके लिये सब कुछ तैयार है’ ऐसा कहकर सीताने जब उसे भोजनके लिये निमन्त्रित किया, तब रावणने ‘सर्वं सम्पन्नम्’ कहनेवाली राजरानी मैथिलीकी ओर देखा और अपने ही वधके लिये उसने हठपूर्वक सीताका हरण करनेके निमित्त मनमें दृढ़ निश्चय कर लिया ॥ ३७ ॥

विश्वास-प्रस्तुतिः

ततः सु-वेषं मृगया-गतं पतिं
प्रतीक्षमाणा सह-लक्ष्मणं तदा ।
निरीक्षमाणा हरितं ददर्श तन्
महद् वनं नैव तु राम-लक्ष्मणौ ॥ ३८ ॥

मूलम्

ततः सुवेषं मृगयागतं पतिं
प्रतीक्षमाणा सहलक्ष्मणं तदा ।
निरीक्षमाणा हरितं ददर्श त-
न्महद् वनं नैव तु रामलक्ष्मणौ ॥ ३८ ॥

गोविन्दराजः

सुवेषं शोभनाकारम् । मृगया-गतं मृगया-अर्थं गतं पतिं प्रतीक्षमाणा प्रतिपालयन्ती हरितं यत्र गतौ तौ तां दिशं विवीक्षमाणा विविधं पश्यन्ती । महद्-वनम् एव ददर्श राम-लक्ष्मणौ तु न ददर्श ॥ 3.46.37 ॥

अनुवाद (हिन्दी)

तदनन्तर सीता शिकार खेलनेके लिये गये हुए लक्ष्मणसहित अपने सुन्दर वेषधारी पति श्रीरामचन्द्रजीकी प्रतीक्षा करने लगीं । उन्होंने चारों ओर दृष्टि दौड़ायी, किंतु उन्हें सब ओर हराभरा विशाल वन ही दिखायी दिया, श्रीराम और लक्ष्मण नहीं दीख पड़े ॥ ३८ ॥

समाप्तिः

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्येऽरण्यकाण्डे षट्चत्वारिंशः सर्गः ॥ ४६ ॥
इस प्रकार श्रीवाल्मीकिनिर्मित आर्षरामायण आदिकाव्यके अरण्यकाण्डमें छियालीसवाँ सर्ग पूरा हुआ ॥ ४६ ॥