०२५ रामेण खरसैन्यसंहारः

वाचनम्
भागसूचना
  1. राक्षसोंका श्रीरामपर आक्रमण और श्रीरामचन्द्रजीके द्वारा राक्षसोंका संहार
विश्वास-प्रस्तुतिः

अवष्टब्धधनुं रामं क्रुद्धं तं रिपुघातिनम् ।
ददर्शाश्रममागम्य खरः सह पुरःसरैः ॥ १ ॥
तं दृष्ट्वा सगुणं चापमुद्यम्य खरनिःस्वनम् ।
रामस्याभिमुखं सूतं चोद्यतामित्यचोदयत् ॥ २ ॥

मूलम्

अवष्टब्धधनुं रामं क्रुद्धं तं रिपुघातिनम् ।
ददर्शाश्रममागम्य खरः सह पुरःसरैः ॥ १ ॥
तं दृष्ट्वा सगुणं चापमुद्यम्य खरनिःस्वनम् ।
रामस्याभिमुखं सूतं चोद्यतामित्यचोदयत् ॥ २ ॥

अनुवाद (हिन्दी)

खरने अपने अग्रगामी सैनिकोंके साथ आश्रमके पास पहुँचकर क्रोधमें भरे हुए शत्रुघाती श्रीरामको देखा, जो हाथमें धनुष लिये खड़े थे । उन्हें देखते ही अपने तीव्र टंकार करनेवाले प्रत्यञ्चासहित धनुषको उठाकर सूतको आज्ञा दी—‘मेरा रथ रामके सामने ले चलो’ ॥ १-२ ॥

विश्वास-प्रस्तुतिः

स खरस्याज्ञया सूतस्तुरगान् समचोदयत् ।
यत्र रामो महाबाहुरेको धुन्वन् धनुः स्थितः ॥ ३ ॥

मूलम्

स खरस्याज्ञया सूतस्तुरगान् समचोदयत् ।
यत्र रामो महाबाहुरेको धुन्वन् धनुः स्थितः ॥ ३ ॥

अनुवाद (हिन्दी)

खरकी आज्ञासे सारथिने घोड़ोंको उधर ही बढ़ाया, जहाँ महाबाहु श्रीराम अकेले खड़े होकर अपने धनुषकी टंकार कर रहे थे ॥ ३ ॥

विश्वास-प्रस्तुतिः

तं तु निष्पतितं दृष्ट्वा सर्वतो रजनीचराः ।
मुञ्चमाना महानादं सचिवाः पर्यवारयन् ॥ ४ ॥

मूलम्

तं तु निष्पतितं दृष्ट्वा सर्वतो रजनीचराः ।
मुञ्चमाना महानादं सचिवाः पर्यवारयन् ॥ ४ ॥

अनुवाद (हिन्दी)

खरको श्रीरामके समीप पहुँचा देख श्येनगामी आदि उसके निशाचर मन्त्री भी बड़े जोरसे सिंहनाद करके उसे चारों ओरसे घेरकर खड़े हो गये ॥ ४ ॥

विश्वास-प्रस्तुतिः

स तेषां यातुधानानां मध्ये रथगतः खरः ।
बभूव मध्ये ताराणां लोहिताङ्ग इवोदितः ॥ ५ ॥

मूलम्

स तेषां यातुधानानां मध्ये रथगतः खरः ।
बभूव मध्ये ताराणां लोहिताङ्ग इवोदितः ॥ ५ ॥

अनुवाद (हिन्दी)

उन राक्षसोंके बीचमें रथपर बैठा हुआ खर तारोंके मध्यभागमें उगे हुए मङ्गलकी भाँति शोभा पा रहा था ॥ ५ ॥

विश्वास-प्रस्तुतिः

ततः शरसहस्रेण राममप्रतिमौजसम् ।
अर्दयित्वा महानादं ननाद समरे खरः ॥ ६ ॥

मूलम्

ततः शरसहस्रेण राममप्रतिमौजसम् ।
अर्दयित्वा महानादं ननाद समरे खरः ॥ ६ ॥

अनुवाद (हिन्दी)

उस समय खरने समराङ्गणमें सहस्रों बाणोंद्वारा अप्रतिम बलशाली श्रीरामको पीड़ित-सा करके बड़े जोरसे गर्जना की ॥ ६ ॥

विश्वास-प्रस्तुतिः

ततस्तं भीमधन्वानं क्रुद्धाः सर्वे निशाचराः ।
रामं नानाविधैः शस्त्रैरभ्यवर्षन्त दुर्जयम् ॥ ७ ॥

मूलम्

ततस्तं भीमधन्वानं क्रुद्धाः सर्वे निशाचराः ।
रामं नानाविधैः शस्त्रैरभ्यवर्षन्त दुर्जयम् ॥ ७ ॥

अनुवाद (हिन्दी)

तदनन्तर क्रोधमें भरे हुए समस्त निशाचर भयंकर धनुष धारण करनेवाले दुर्जय वीर श्रीरामपर नाना प्रकारके अस्त्र-शस्त्रोंकी वर्षा करने लगे ॥ ७ ॥

विश्वास-प्रस्तुतिः

मुद‍्गरैरायसैः शूलैः प्रासैः खड्गैः परश्वधैः ।
राक्षसाः समरे शूरं निजघ्नू रोषतत्पराः ॥ ८ ॥

मूलम्

मुद‍्गरैरायसैः शूलैः प्रासैः खड्गैः परश्वधैः ।
राक्षसाः समरे शूरं निजघ्नू रोषतत्पराः ॥ ८ ॥

अनुवाद (हिन्दी)

उस समराङ्गणमें रुष्ट हुए राक्षसोंने शूरवीर श्रीरामपर लोहेके मुद‍्गरों, शूलों, प्रासों, खड्गों और फरसोंद्वारा प्रहार किया ॥ ८ ॥

विश्वास-प्रस्तुतिः

ते बलाहकसङ्काशा महाकाया महाबलाः ।
अभ्यधावन्त काकुत्स्थं रथैर्वाजिभिरेव च ॥ ९ ॥
गजैः पर्वतकूटाभै रामं युद्धे जिघांसवः ।

मूलम्

ते बलाहकसङ्काशा महाकाया महाबलाः ।
अभ्यधावन्त काकुत्स्थं रथैर्वाजिभिरेव च ॥ ९ ॥
गजैः पर्वतकूटाभै रामं युद्धे जिघांसवः ।

अनुवाद (हिन्दी)

वे मेघोंके समान काले, विशालकाय और महाबली निशाचर रथों, घोड़ों और पर्वतशिखरके समान गजराजोंद्वारा ककुत्स्थकुलभूषण श्रीरामपर चारों ओरसे टूट पड़े । वे युद्धमें उन्हें मार डालना चाहते थे ॥ ९ १/२ ॥

विश्वास-प्रस्तुतिः

ते रामे शरवर्षाणि व्यसृजन् रक्षसां गणाः ॥ १० ॥
शैलेन्द्रमिव धाराभिर्वर्षमाणा महाघनाः ।

मूलम्

ते रामे शरवर्षाणि व्यसृजन् रक्षसां गणाः ॥ १० ॥
शैलेन्द्रमिव धाराभिर्वर्षमाणा महाघनाः ।

अनुवाद (हिन्दी)

जैसे बड़े-बड़े मेघ गिरिराजपर जलकी धाराएँ बरसा रहे हों, उसी प्रकार वे राक्षसगण श्रीरामपर बाणोंकी वृष्टि कर रहे थे ॥ १० १/२ ॥

विश्वास-प्रस्तुतिः

सर्वैः परिवृतो रामो राक्षसैः क्रूरदर्शनैः ॥ ११ ॥
तिथिष्विव महादेवो वृतः पारिषदां गणैः ।

मूलम्

सर्वैः परिवृतो रामो राक्षसैः क्रूरदर्शनैः ॥ ११ ॥
तिथिष्विव महादेवो वृतः पारिषदां गणैः ।

अनुवाद (हिन्दी)

क्रूरतापूर्ण दृष्टिसे देखनेवाले उन सभी राक्षसोंने श्रीरामको उसी प्रकार घेर रखा था, जैसे प्रदोषसंज्ञक तिथियोंमें भगवान् शिवके पार्षदगण उन्हें घेरे रहते हैं ॥

विश्वास-प्रस्तुतिः

तानि मुक्तानि शस्त्राणि यातुधानैः स राघवः ॥ १२ ॥
प्रतिजग्राह विशिखैर्नद्योघानिव सागरः ।

मूलम्

तानि मुक्तानि शस्त्राणि यातुधानैः स राघवः ॥ १२ ॥
प्रतिजग्राह विशिखैर्नद्योघानिव सागरः ।

अनुवाद (हिन्दी)

श्रीरघुनाथजीने राक्षसोंके छोड़े हुए उन अस्त्र-शस्त्रोंको अपने बाणोंद्वारा उसी तरह ग्रस लिया, जैसे समुद्र नदियोंके प्रवाहको आत्मसात् कर लेता है ॥ १२ १/२ ॥

विश्वास-प्रस्तुतिः

स तैः प्रहरणैर्घोरैर्भिन्नगात्रो न विव्यथे ॥ १३ ॥
रामः प्रदीप्तैर्बहुभिर्वज्रैरिव महाचलः ।

मूलम्

स तैः प्रहरणैर्घोरैर्भिन्नगात्रो न विव्यथे ॥ १३ ॥
रामः प्रदीप्तैर्बहुभिर्वज्रैरिव महाचलः ।

अनुवाद (हिन्दी)

उन राक्षसोंके घोर अस्त्र-शस्त्रोंके प्रहारसे यद्यपि श्रीरामका शरीर क्षत-विक्षत हो गया था तो भी वे व्यथित या विचलित नहीं हुए, जैसे बहुसंख्यक दीप्तिमान् वज्रोंके आघात सहकर भी महान् पर्वत अडिग बना रहता है ॥ १३ १/२ ॥

विश्वास-प्रस्तुतिः

स विद्धः क्षतजादिग्धः सर्वगात्रेषु राघवः ॥ १४ ॥
बभूव रामः सन्ध्याभ्रैर्दिवाकर इवावृतः ।

मूलम्

स विद्धः क्षतजादिग्धः सर्वगात्रेषु राघवः ॥ १४ ॥
बभूव रामः सन्ध्याभ्रैर्दिवाकर इवावृतः ।

अनुवाद (हिन्दी)

श्रीरघुनाथजीके सारे अङ्गोंमें अस्त्र-शस्त्रोंके आघातसे घाव हो गया था । वे लहूलुहान हो रहे थे, अतः उस समय संध्याकालके बादलोंसे घिरे हुए सूर्यदेवके समान शोभा पा रहे थे ॥ १४ १/२ ॥

विश्वास-प्रस्तुतिः

विषेदुर्देवगन्धर्वाः सिद्धाश्च परमर्षयः ॥ १५ ॥
एकं सहस्रैर्बहुभिस्तदा दृष्ट्वा समावृतम् ।

मूलम्

विषेदुर्देवगन्धर्वाः सिद्धाश्च परमर्षयः ॥ १५ ॥
एकं सहस्रैर्बहुभिस्तदा दृष्ट्वा समावृतम् ।

अनुवाद (हिन्दी)

श्रीराम अकेले थे । उस समय उन्हें अनेक सहस्र शत्रुओंसे घिरा हुआ देख देवता, सिद्ध, गन्धर्व और महर्षि विषादमें डूब गये ॥ १५ १/२ ॥

विश्वास-प्रस्तुतिः

ततो रामस्तु सङ्क्रुद्धो मण्डलीकृतकार्मुकः ॥ १६ ॥
ससर्ज निशितान् बाणान् शतशोऽथ सहस्रशः ।
दुरावारान् दुर्विषहान् कालपाशोपमान् रणे ॥ १७ ॥

मूलम्

ततो रामस्तु सङ्क्रुद्धो मण्डलीकृतकार्मुकः ॥ १६ ॥
ससर्ज निशितान् बाणान् शतशोऽथ सहस्रशः ।
दुरावारान् दुर्विषहान् कालपाशोपमान् रणे ॥ १७ ॥

अनुवाद (हिन्दी)

तत्पश्चात् श्रीरामचन्द्रजीने अत्यन्त कुपित हो अपने धनुषको इतना खींचा कि वह गोलाकार दिखायी देने लगा । फिर तो वे उस धनुषसे रणभूमिमें सैकड़ों, हजारों ऐसे पैने बाण छोड़ने लगे, जिन्हें रोकना सर्वथा कठिन था, जो दुःसह होनेके साथ ही कालपाशके समान भयंकर थे ॥ १६-१७ ॥

विश्वास-प्रस्तुतिः

मुमोच लीलया कङ्कपत्रान् काञ्चनभूषणान् ।
ते शराः शत्रुसैन्येषु मुक्ता रामेण लीलया ॥ १८ ॥
आददू रक्षसां प्राणान् पाशाः कालकृता इव ।

मूलम्

मुमोच लीलया कङ्कपत्रान् काञ्चनभूषणान् ।
ते शराः शत्रुसैन्येषु मुक्ता रामेण लीलया ॥ १८ ॥
आददू रक्षसां प्राणान् पाशाः कालकृता इव ।

अनुवाद (हिन्दी)

उन्होंने खेल-खेलमें ही चीलके परोंसे युक्त असंख्य सुवर्णभूषित बाण छोड़े । शत्रुके सैनिकोंपर श्रीरामद्वारा लीलापूर्वक छोड़े गये वे बाण कालपाशके समान राक्षसोंके प्राण लेने लगे ॥ १८ १/२ ॥

विश्वास-प्रस्तुतिः

भित्त्वा राक्षसदेहांस्तांस्ते शरा रुधिराप्लुताः ॥ १९ ॥
अन्तरिक्षगता रेजुर्दीप्ताग्निसमतेजसः ।

मूलम्

भित्त्वा राक्षसदेहांस्तांस्ते शरा रुधिराप्लुताः ॥ १९ ॥
अन्तरिक्षगता रेजुर्दीप्ताग्निसमतेजसः ।

अनुवाद (हिन्दी)

राक्षसोंके शरीरोंको छेदकर खूनमें डूबे हुए वे बाण जब आकाशमें पहुँचते, तब प्रज्वलित अग्निके समान तेजसे प्रकाशित होने लगते थे ॥ १९ १/२ ॥

विश्वास-प्रस्तुतिः

असङ्ख्येयास्तु रामस्य सायकाश्चापमण्डलात् ॥ २० ॥
विनिष्पेतुरतीवोग्रा रक्षःप्राणापहारिणः ।

मूलम्

असङ्ख्येयास्तु रामस्य सायकाश्चापमण्डलात् ॥ २० ॥
विनिष्पेतुरतीवोग्रा रक्षःप्राणापहारिणः ।

अनुवाद (हिन्दी)

श्रीरामके मण्डलाकार धनुषसे अत्यन्त भयंकर और राक्षसोंके प्राण लेनेवाले असंख्य बाण छूटने लगे ॥ २० १/२ ॥

विश्वास-प्रस्तुतिः

तैर्धनूंषि ध्वजाग्राणि चर्माणि कवचानि च ॥ २१ ॥
बाहून् सहस्ताभरणानूरून् करिकरोपमान् ।
चिच्छेद रामः समरे शतशोऽथ सहस्रशः ॥ २२ ॥

मूलम्

तैर्धनूंषि ध्वजाग्राणि चर्माणि कवचानि च ॥ २१ ॥
बाहून् सहस्ताभरणानूरून् करिकरोपमान् ।
चिच्छेद रामः समरे शतशोऽथ सहस्रशः ॥ २२ ॥

अनुवाद (हिन्दी)

उन बाणोंद्वारा श्रीरामने समराङ्गणमें शत्रुओंके सैकड़ों-हजारों धनुष, ध्वजाओंके अग्रभाग, ढाल, कवच, आभूषणोंसहित भुजाएँ तथा हाथीकी सूँड़के समान जाँघें काट डालीं ॥ २१-२२ ॥

विश्वास-प्रस्तुतिः

हयान् काञ्चनसन्नाहान् रथयुक्तान् ससारथीन् ।
गजांश्च सगजारोहान् सहयान् सादिनस्तदा ॥ २३ ॥
चिच्छिदुर्बिभिदुश्चैव रामबाणा गुणच्युताः ।
पदातीन् समरे हत्वा ह्यनयद् यमसादनम् ॥ २४ ॥

मूलम्

हयान् काञ्चनसन्नाहान् रथयुक्तान् ससारथीन् ।
गजांश्च सगजारोहान् सहयान् सादिनस्तदा ॥ २३ ॥
चिच्छिदुर्बिभिदुश्चैव रामबाणा गुणच्युताः ।
पदातीन् समरे हत्वा ह्यनयद् यमसादनम् ॥ २४ ॥

अनुवाद (हिन्दी)

प्रत्यञ्चासे छूटे हुए श्रीरामके बाणोंने उस समय सोनेके साज-बाज एवं कवचसे सजे और रथोंमें जुते हुए घोड़ों, सारथियों, हाथियों, हाथीसवारों, घोड़ों और घुड़सवारोंको भी छिन्न-भिन्न कर डाला । इसी प्रकार श्रीरामने समरभूमिमें पैदल सैनिकोंको भी मारकर यमलोक पहुँचा दिया ॥ २३-२४ ॥

विश्वास-प्रस्तुतिः

ततो नालीकनाराचैस्तीक्ष्णाग्रैश्च विकर्णिभिः ।
भीममार्तस्वरं चक्रुश्छिद्यमाना निशाचराः ॥ २५ ॥

मूलम्

ततो नालीकनाराचैस्तीक्ष्णाग्रैश्च विकर्णिभिः ।
भीममार्तस्वरं चक्रुश्छिद्यमाना निशाचराः ॥ २५ ॥

अनुवाद (हिन्दी)

उस समय उनके नालीक, नाराच और तीखे अग्रभागवाले विकर्णी नामक बाणोंद्वारा छिन्न-भिन्न होते हुए निशाचर भयंकर आर्तनाद करने लगे ॥ २५ ॥

विश्वास-प्रस्तुतिः

तत्सैन्यं विविधैर्बाणैरर्दितं मर्मभेदिभिः ।
न रामेण सुखं लेभे शुष्कं वनमिवाग्निना ॥ २६ ॥

मूलम्

तत्सैन्यं विविधैर्बाणैरर्दितं मर्मभेदिभिः ।
न रामेण सुखं लेभे शुष्कं वनमिवाग्निना ॥ २६ ॥

अनुवाद (हिन्दी)

श्रीरामके चलाये हुए नाना प्रकारके मर्मभेदी बाणोंद्वारा पीड़ित हुई वह राक्षससेना आगसे जलते हुए सूखे वनकी भाँति सुख-शान्ति नहीं पाती थी ॥ २६ ॥

विश्वास-प्रस्तुतिः

केचिद् भीमबलाः शूराः प्रासान् शूलान् परश्वधान् ।
चिक्षिपुः परमक्रुद्धा रामाय रजनीचराः ॥ २७ ॥

मूलम्

केचिद् भीमबलाः शूराः प्रासान् शूलान् परश्वधान् ।
चिक्षिपुः परमक्रुद्धा रामाय रजनीचराः ॥ २७ ॥

अनुवाद (हिन्दी)

कुछ भयंकर बलशाली शूरवीर निशाचर अत्यन्त कुपित हो श्रीरामपर प्रासों, शूलों और फरसोंका प्रहार करने लगे ॥ २७ ॥

विश्वास-प्रस्तुतिः

तेषां बाणैर्महाबाहुः शस्त्राण्यावार्य वीर्यवान् ।
जहार समरे प्राणांश्चिच्छेद च शिरोधरान् ॥ २८ ॥

मूलम्

तेषां बाणैर्महाबाहुः शस्त्राण्यावार्य वीर्यवान् ।
जहार समरे प्राणांश्चिच्छेद च शिरोधरान् ॥ २८ ॥

अनुवाद (हिन्दी)

परंतु पराक्रमी महाबाहु श्रीरामने रणभूमिमें अपने बाणोंद्वारा उनके उन अस्त्र-शस्त्रोंको रोककर उनके गले काट डाले और प्राण हर लिये ॥ २८ ॥

विश्वास-प्रस्तुतिः

ते छिन्नशिरसः पेतुश्छिन्नचर्मशरासनाः ।
सुपर्णवातविक्षिप्ता जगत्यां पादपा यथा ॥ २९ ॥
अवशिष्टाश्च ये तत्र विषण्णास्ते निशाचराः ।
खरमेवाभ्यधावन्त शरणार्थं शराहताः ॥ ३० ॥

मूलम्

ते छिन्नशिरसः पेतुश्छिन्नचर्मशरासनाः ।
सुपर्णवातविक्षिप्ता जगत्यां पादपा यथा ॥ २९ ॥
अवशिष्टाश्च ये तत्र विषण्णास्ते निशाचराः ।
खरमेवाभ्यधावन्त शरणार्थं शराहताः ॥ ३० ॥

अनुवाद (हिन्दी)

सिर, ढाल और धनुषके कट जानेपर वे निशाचर गरुड़के पंखकी हवासे टूटकर गिरनेवाले नन्दनवनके वृक्षोंकी भाँति धराशायी हो गये । जो बचे थे, वे राक्षस भी श्रीरामके बाणोंसे आहत हो विषादमें डूब गये और अपनी रक्षाके लिये खरके पास ही दौड़े गये ॥ २९-३० ॥

विश्वास-प्रस्तुतिः

तान् सर्वान् धनुरादाय समाश्वास्य च दूषणः ।
अभ्यधावत् सुसङ्क्रुद्धः क्रुद्धं क्रुद्ध इवान्तकः ॥ ३१ ॥

मूलम्

तान् सर्वान् धनुरादाय समाश्वास्य च दूषणः ।
अभ्यधावत् सुसङ्क्रुद्धः क्रुद्धं क्रुद्ध इवान्तकः ॥ ३१ ॥

अनुवाद (हिन्दी)

परंतु बीचमें दूषणने धनुष लेकर उन सबको आश्वासन दिया और अत्यन्त कुपित हो रोषमें भरे हुए यमराजकी भाँति वह क्रुद्ध होकर युद्धके लिये डटे हुए श्रीरामचन्द्रजीकी ओर दौड़ा ॥ ३१ ॥

विश्वास-प्रस्तुतिः

निवृत्तास्तु पुनः सर्वे दूषणाश्रयनिर्भयाः ।
राममेवाभ्यधावन्त सालतालशिलायुधाः ॥ ३२ ॥

मूलम्

निवृत्तास्तु पुनः सर्वे दूषणाश्रयनिर्भयाः ।
राममेवाभ्यधावन्त सालतालशिलायुधाः ॥ ३२ ॥

अनुवाद (हिन्दी)

दूषणका सहारा मिल जानेसे निर्भय हो वे सब-के-सब फिर लौट आये और साखू, ताड़ आदिके वृक्ष तथा पत्थर लेकर पुनः श्रीरामपर ही टूट पड़े ॥ ३२ ॥

विश्वास-प्रस्तुतिः

शूलमुद‍्गरहस्ताश्च पाशहस्ता महाबलाः ।
सृजन्तः शरवर्षाणि शस्त्रवर्षाणि संयुगे ॥ ३३ ॥

मूलम्

शूलमुद‍्गरहस्ताश्च पाशहस्ता महाबलाः ।
सृजन्तः शरवर्षाणि शस्त्रवर्षाणि संयुगे ॥ ३३ ॥

अनुवाद (हिन्दी)

उस युद्धस्थलमें अपने हाथोंमें शूल, मुद‍्गर और पाश धारण किये वे महाबली निशाचर बाणों तथा अन्य अस्त्र-शस्त्रोंकी वर्षा करने लगे ॥ ३३ ॥

विश्वास-प्रस्तुतिः

द्रुमवर्षाणि मुञ्चन्तः शिलावर्षाणि राक्षसाः ।
तद् बभूवाद्भुतं युद्धं तुमुलं रोमहर्षणम् ॥ ३४ ॥
रामस्यास्य महाघोरं पुनस्तेषां च रक्षसाम् ।

मूलम्

द्रुमवर्षाणि मुञ्चन्तः शिलावर्षाणि राक्षसाः ।
तद् बभूवाद्भुतं युद्धं तुमुलं रोमहर्षणम् ॥ ३४ ॥
रामस्यास्य महाघोरं पुनस्तेषां च रक्षसाम् ।

अनुवाद (हिन्दी)

कोई राक्षस वृक्षोंकी वर्षा करने लगे तो कोई पत्थरोंकी । उस समय इन श्रीराम और उन निशाचरोंमें पुनः बड़ा ही अद्भुत, महाभयंकर, घमासान और रोमाञ्चकारी युद्ध होने लगा ॥ ३४ १/२ ॥

विश्वास-प्रस्तुतिः

ते समन्तादभिक्रुद्धा राघवं पुनरार्दयन् ॥ ३५ ॥
ततः सर्वा दिशो दृष्ट्वा प्रदिशश्च समावृताः ।
राक्षसैः सर्वतः प्राप्तैः शरवर्षाभिरावृतः ॥ ३६ ॥
स कृत्वा भैरवं नादमस्त्रं परमभास्वरम् ।
समयोजयद् गान्धर्वं राक्षसेषु महाबलः ॥ ३७ ॥

वे राक्षस कुपित होकर चारों ओरसे पुनः श्रीरामचन्द्रजीको पीड़ित करने लगे । तब सब ओरसे आये हुए राक्षसोंसे सम्पूर्ण दिशाओं और उपदिशाओंको घिरी हुई देख बाण-वर्षासे आच्छादित हुए महाबली श्रीरामने भैरव-नाद करके उन राक्षसोंपर परम तेजस्वी गान्धर्व नामक अस्त्रका प्रयोग किया ॥ ३५—३७ ॥

विश्वास-प्रस्तुतिः

ततः शरसहस्राणि निर्ययुश्चापमण्डलात् ।
सर्वा दश दिशो बाणैरापूर्यन्त समागतैः ॥ ३८ ॥

मूलम्

ततः शरसहस्राणि निर्ययुश्चापमण्डलात् ।
सर्वा दश दिशो बाणैरापूर्यन्त समागतैः ॥ ३८ ॥

अनुवाद (हिन्दी)

फिर तो उनके मण्डलाकार धनुषसे सहस्रों बाण छूटने लगे । उन बाणोंसे दसों दिशाएँ पूर्णतः आच्छादित हो गयीं ॥ ३८ ॥

विश्वास-प्रस्तुतिः

नाददानं शरान् घोरान् विमुञ्चन्तं शरोत्तमान् ।
विकर्षमाणं पश्यन्ति राक्षसास्ते शरार्दिताः ॥ ३९ ॥

मूलम्

नाददानं शरान् घोरान् विमुञ्चन्तं शरोत्तमान् ।
विकर्षमाणं पश्यन्ति राक्षसास्ते शरार्दिताः ॥ ३९ ॥

अनुवाद (हिन्दी)

बाणोंसे पीड़ित राक्षस यह नहीं देख पाते थे कि श्रीरामचन्द्रजी कब भयंकर बाण हाथमें लेते हैं और कब उन उत्तम बाणोंको छोड़ देते हैं । वे केवल उनको धनुष खींचते देखते थे ॥ ३९ ॥

विश्वास-प्रस्तुतिः

शरान्धकारमाकाशमावृणोत् सदिवाकरम् ।
बभूवावस्थितो रामः प्रक्षिपन्निव तान् शरान् ॥ ४० ॥

मूलम्

शरान्धकारमाकाशमावृणोत् सदिवाकरम् ।
बभूवावस्थितो रामः प्रक्षिपन्निव तान् शरान् ॥ ४० ॥

अनुवाद (हिन्दी)

श्रीरामचन्द्रजीके बाणसमुदायरूपी अन्धकारने सूर्यसहित सारे आकाशमण्डलको ढक दिया । उस समय श्रीराम उन बाणोंको लगातार छोड़ते हुए एक स्थानपर खड़े थे ॥ ४० ॥

विश्वास-प्रस्तुतिः

युगपत्पतमानैश्च युगपच्च हतैर्भृशम् ।
युगपत्पतितैश्चैव विकीर्णा वसुधाभवत् ॥ ४१ ॥

मूलम्

युगपत्पतमानैश्च युगपच्च हतैर्भृशम् ।
युगपत्पतितैश्चैव विकीर्णा वसुधाभवत् ॥ ४१ ॥

अनुवाद (हिन्दी)

एक ही समय बाणोंद्वारा अत्यन्त घायल हो एक साथ ही गिरते और गिरे हुए बहुसंख्यक राक्षसोंकी लाशोंसे वहाँकी भूमि पट गयी ॥ ४१ ॥

विश्वास-प्रस्तुतिः

निहताः पतिताः क्षीणाश्छिन्ना भिन्ना विदारिताः ।
तत्र तत्र स्म दृश्यन्ते राक्षसास्ते सहस्रशः ॥ ४२ ॥

मूलम्

निहताः पतिताः क्षीणाश्छिन्ना भिन्ना विदारिताः ।
तत्र तत्र स्म दृश्यन्ते राक्षसास्ते सहस्रशः ॥ ४२ ॥

अनुवाद (हिन्दी)

जहाँ-जहाँ दृष्टि जाती थी, वहीं-वहीं वे हजारों राक्षस मरे, गिरे, क्षीण हुए, कटे-पिटे और विदीर्ण हुए दिखायी देते थे ॥ ४२ ॥

विश्वास-प्रस्तुतिः

सोष्णीषैरुत्तमाङ्गैश्च साङ्गदैर्बाहुभिस्तथा ।
ऊरुभिर्बाहुभिश्छिन्नैर्नानारूपैर्विभूषणैः ॥ ४३ ॥
हयैश्च द्विपमुख्यैश्च रथैर्भिन्नैरनेकशः ।
चामरव्यजनैश्छत्रैर्ध्वजैर्नानाविधैरपि ॥ ४४ ॥
रामेण बाणाभिहतैर्विच्छिन्नैः शूलपट्टिशैः ।
खड्गैः खण्डीकृतैः प्रासैर्विकीर्णैश्च परश्वधैः ॥ ४५ ॥
चूर्णिताभिः शिलाभिश्च शरैश्चित्रैरनेकशः ।
विच्छिन्नैः समरे भूमिर्विस्तीर्णाभूद् भयङ्करा ॥ ४६ ॥

वहाँ श्रीरामके बाणोंसे कटे हुए पगड़ियों-सहित मस्तकों, बाजूबंदसहित भुजाओं, जाँघों, बाँहों, भाँति-भाँतिके आभूषणों, घोड़ों, श्रेष्ठ हाथियों, टूटे-फूटे अनेकानेक रथों, चँवरों, व्यजनों, छत्रों, नाना प्रकारकी ध्वजाओं, छिन्न-भिन्न हुए शूलों, पट्टिशों, खण्डित खड्गों, बिखरे प्रासों, फरसों, चूर-चूर हुई शिलाओं तथा टुकड़े-टुकड़े हुए बहुतेरे विचित्र बाणोंसे पटी हुई वह समरभूमि अत्यन्त भयंकर दिखायी देती थी ॥ ४३—४६ ॥

विश्वास-प्रस्तुतिः

तान् दृष्ट्वा निहतान् सर्वे राक्षसाः परमातुराः ।
न तत्र चलितुं शक्ता रामं परपुरञ्जयम् ॥ ४७ ॥

मूलम्

तान् दृष्ट्वा निहतान् सर्वे राक्षसाः परमातुराः ।
न तत्र चलितुं शक्ता रामं परपुरञ्जयम् ॥ ४७ ॥

अनुवाद (हिन्दी)

उन सबको मारा गया देख शेष राक्षस अत्यन्त आतुर हो वहाँ शत्रुनगरीपर विजय पानेवाले श्रीरामके सम्मुख जानेमें असमर्थ हो गये ॥ ४७ ॥

समाप्तिः

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्येऽरण्यकाण्डे पञ्चविंशः सर्गः ॥ २५ ॥
इस प्रकार श्रीवाल्मीकिनिर्मित आर्षरामायण आदिकाव्यके अरण्यकाण्डमें पचीसवाँ सर्ग पूरा हुआ ॥ २५ ॥