वाचनम्
भागसूचना
- ब्रह्मपुत्र कुशके चार पुत्रोंका वर्णन, शोणभद्र-तटवर्ती प्रदेशको वसुकी भूमि बताना, कुशनाभकी सौ कन्याओंका वायुके कोपसे ‘कुब्जा’ होना
त्र्यम्बकः - धर्माकूतम्
द्वात्रिंशे —
विश्वास-प्रस्तुतिः
ब्रह्मयोनिर्महानासीत् कुशो नाम महातपाः ।
अक्लिष्टव्रतधर्मज्ञः सज्जनप्रतिपूजकः ॥ १ ॥
मूलम्
ब्रह्मयोनिर्महानासीत् कुशो नाम महातपाः ।
अक्लिष्टव्रतधर्मज्ञः सज्जनप्रतिपूजकः ॥ १ ॥
अनुवाद (हिन्दी)
(विश्वामित्रजी कहते हैं—) श्रीराम! पूर्वकालमें कुश नामसे प्रसिद्ध एक महातपस्वी राजा हो गये हैं । वे साक्षात् ब्रह्माजीके पुत्र थे । उनका प्रत्येक व्रत एवं संकल्प बिना किसी क्लेश या कठिनाईके ही पूर्ण होता था । वे धर्मके ज्ञाता, सत्पुरुषोंका आदर करनेवाले और महान् थे ॥ १ ॥
विश्वास-प्रस्तुतिः
स महात्मा कुलीनायां युक्तायां सुमहाबलान् ।
वैदर्भ्यां जनयामास चतुरः सदृशान् सुतान् ॥ २ ॥
मूलम्
स महात्मा कुलीनायां युक्तायां सुमहाबलान् ।
वैदर्भ्यां जनयामास चतुरः सदृशान् सुतान् ॥ २ ॥
अनुवाद (हिन्दी)
उत्तम कुलमें उत्पन्न विदर्भदेशकी राजकुमारी उनकी पत्नी थी । उसके गर्भसे उन महात्मा नरेशने चार पुत्र उत्पन्न किये, जो उन्हींके समान थे ॥ २ ॥
विश्वास-प्रस्तुतिः
कुशाम्बं कुशनाभं च असूर्तरजसं१ वसुम् ।
दीप्तियुक्तान् महोत्साहान् क्षत्रधर्मचिकीर्षया ॥ ३ ॥
तानुवाच कुशः पुत्रान् धर्मिष्ठान् सत्यवादिनः ।
क्रियतां पालनं पुत्रा धर्मं प्राप्स्यथ पुष्कलम् ॥ ४ ॥
मूलम्
कुशाम्बं कुशनाभं च असूर्तरजसं१ वसुम् ।
दीप्तियुक्तान् महोत्साहान् क्षत्रधर्मचिकीर्षया ॥ ३ ॥
तानुवाच कुशः पुत्रान् धर्मिष्ठान् सत्यवादिनः ।
क्रियतां पालनं पुत्रा धर्मं प्राप्स्यथ पुष्कलम् ॥ ४ ॥
मूलम् - त्र्यम्बकः
कुशाम्बं कुशनाभं च आधूर्तरजसं वसुम् ॥
अनुवाद (हिन्दी)
उनके नाम इस प्रकार हैं—कुशाम्ब, कुशनाभ, असूर्तरजस२ तथा वसु । ये सब-के-सब तेजस्वी तथा महान् उत्साही थे । राजा कुशने ‘प्रजारक्षणरूप’ क्षत्रिय-धर्मके पालनकी इच्छासे अपने उन धर्मिष्ठ तथा सत्यवादी पुत्रोंसे कहा—‘पुत्रो! प्रजाका पालन करो, इससे तुम्हें धर्मका पूरा-पूरा फल प्राप्त होगा’ ॥ ३-४ ॥
पादटिप्पनी
१. रामायणशिरोमणि नामक व्याख्याके निर्माताने ‘अमूर्तिरजसम्’ पाठ माना है । महाभारतके अनुसार इनका नाम ‘अमूर्तरयस्’ या ‘अमूर्तरया’ था (वन ९५ ।१७) । यहाँ इनके द्वारा धर्मारण्य नामक नगर बसानेका उल्लेख है । यह नगर धर्मारण्य नामक तीर्थभूत वनमें था । यह वन गयाके आस-पासका ही प्रदेश है । अमूर्तरयाके पुत्र गयने ही गया नामक नगर बसाया था । अतः धर्मारण्य और गयाकी एकता सिद्ध होती है । महाभारत वनपर्व (८४ ।८५) में गयाके ब्रह्मसरोवरको धर्मारण्यसे सुशोभित बताया गया है । (वन० ८२ ।४७) धर्मारण्यमें पितृ-पूजनकी महत्ता बतायी गयी है ।
विश्वास-प्रस्तुतिः
कुशस्य वचनं श्रुत्वा चत्वारो लोकसत्तमाः ।
निवेशं चक्रिरे सर्वे पुराणां नृवरास्तदा ॥ ५ ॥
मूलम्
कुशस्य वचनं श्रुत्वा चत्वारो लोकसत्तमाः ।
निवेशं चक्रिरे सर्वे पुराणां नृवरास्तदा ॥ ५ ॥
मूलम् - त्र्यम्बकः
कुशस्य वचनं श्रुत्वा चत्वारो लोक-संमताः ।
निवेशं चक्रिरे सर्वे पुराणां नृ-वरास् तदा ॥
अनुवाद (हिन्दी)
अपने पिता महाराज कुशकी यह बात सुनकर उन चारों लोकशिरोमणि नरश्रेष्ठ राजकुमारोंने उस समय अपने-अपने लिये पृथक्-पृथक् नगर निर्माण कराया ॥ ५ ॥
विश्वास-प्रस्तुतिः
कुशाम्बस्तु महातेजाः कौशाम्बीमकरोत् पुरीम् ।
कुशनाभस्तु धर्मात्मा पुरं चक्रे महोदयम् ॥ ६ ॥
मूलम्
कुशाम्बस्तु महातेजाः कौशाम्बीमकरोत् पुरीम् ।
कुशनाभस्तु धर्मात्मा पुरं चक्रे महोदयम् ॥ ६ ॥
अनुवाद (हिन्दी)
महातेजस्वी कुशाम्बने ‘कौशाम्बी’ पुरी बसायी (जिसे आजकल ‘कोसम’ कहते हैं) । धर्मात्मा कुशनाभने ‘महोदय’ नामक नगरका निर्माण कराया ॥ ६ ॥
विश्वास-प्रस्तुतिः
असूर्तरजसो नाम धर्मारण्यं महामतिः ।
चक्रे पुरवरं राजा वसुनाम गिरिव्रजम् ॥ ७ ॥
मूलम्
असूर्तरजसो नाम धर्मारण्यं महामतिः ।
चक्रे पुरवरं राजा वसुनाम गिरिव्रजम् ॥ ७ ॥
मूलम् - त्र्यम्बकः
आधूर्तरजसो राम धर्मारण्यं महीपतिः ।
चक्रे पुर-वरं राजा वसुश् चक्रे गिरि-व्रजम् ॥
अनुवाद (हिन्दी)
परम बुद्धिमान् असूर्तरजसने ‘धर्मारण्य’ नामक एक श्रेष्ठ नगर बसाया तथा राजा वसुने ‘गिरिव्रज’ नगरकी स्थापना की ॥ ७ ॥
त्र्यम्बकः - धर्माकूतम्
एतेन कुशाम्बादयः पितुर् अनुज्ञया तत्र तत्रावस्थाय पृथग्-धर्मम् आचरितवन्त इति गम्यते । ननु भ्रातॄणां मध्ये ज्येष्ठेन कर्मणि कृते सर्वैः कृतं भवति; तथा च मरीचिः —
बहवः स्युर् यदा पुत्राः पितुर् एकत्र-वासिनः ।
सर्वेषां तु मतं कृत्वा ज्येष्ठेनैव तु यत् कृतम् ॥ द्रव्येण चाविभक्तेन सर्वैर् एव कृतं भवेत् ।
तथा आश्वमेधिके पर्वणि युधिष्ठिरं प्रति कृष्ण-वचनम् —
भीमसेनार्जुनौ चैव तथा माद्रवती-सुतौ ।
इष्टवन्तो भविष्यन्ति त्वयीष्टवति पार्थिव ॥
इति । एवमादिषु बहु-वचनेषु सत्सु राम-युधिष्ठिरादीनां महताम् आचारे च सति कथं पृथग्-अनुष्ठानम् इति चेत्, एतेषां वचनानाम् अविभक्त-विषयत्वात्, विभक्तानां तु पृथग् एव धर्माचरणम् । तथा च बृहस्पतिः —
एक-पाकेन वसतां पितृ-देव-द्विजार्चनम् ।
एकं भवेद् विभक्तानां तद् एव स्याद् गृहे गृहे ॥
नारदो ऽपि —
भ्रातॄणाम् अविभक्तानाम् एको धर्मः प्रवर्तते ।
विभागे सति धर्मो ऽपि भवेत् तेषां पृथक्-पृथक् ॥
इति । गौतमो ऽपि — विभागे तु धर्म-वृद्धिः" इति । मनुर् अपि —
पितेव पालयेत् पुत्राञ् ज्येष्ठो भ्राता यवीयसः ।
पुत्रवच् चापि वर्तेरञ् ज्येष्ठे भ्रातरि धर्मतः ॥एवं सह वसेयुर् वा पृथग् वा धर्म-काम्यया ।
पृथग् विवर्धते धर्मस् तस्माद् धर्म्या पृथक्-क्रिया ॥
इति । नन्वेवं विभक्तानां भ्रातॄणां पृथग्-धर्मानुष्ठान-संभवे ऽपि जीवति पितरि कथं पुत्राणां पृथग्-धर्माचरणम्, अनधिकारात् तथा च मनुः —
इमं लोकं मातृ-भक्त्या पितृ-भक्त्या तु मध्यमम् ।
गुरु-शुश्रूषया च एव ब्रह्म-लोकं समश्नुते ॥सर्वे तस्यादृता धर्मा यस्य एते त्रय आदृताः ।
अनादृतास् तु यस्यैते सर्वास् तस्याफलाः क्रियाः ॥यावत् त्रयस् ते जीवेयुस् तावन् नान्यं समाचरेत् ।
तेष्व् एव नित्यं शुश्रूषां कुर्यात् प्रिय-हिते रतः ॥तेषाम् अनुपरोधेन पारक्यं यद् यद् आचरेत् ।
तत् तन् निवेदयेतेभ्यो मनो-वाक्-काय-कर्मभिः ॥त्रिष्व् एतेष्व् इति कृत्यं हि पुरुषस्य समाप्यते ।
एष धर्मः परः साक्षाद् उपधर्मो ऽन्य उच्यते ॥
इति चेत् सत्यम्, पितुर् अनुज्ञाभावे नाधिकारः, अभ्यनुज्ञायां तु पितुर् आज्ञा-करणम् एव मुख्या धर्मः । तथा च मनुः —
एषां त्रयाणां शुश्रूषा परमं तप उच्यते ।
न तैर् अनभ्यनुज्ञातो धर्मम् अन्यं समाचरेत् ॥
इति ।
जीवतो वाक्य-करणात् प्रत्यब्दं भूरि-भोजनात् ।
गयायां पिण्ड-दानाच् च त्रिभिः पुत्रस्य पुत्रता ॥
इति पितृ-वाक्यस्य गौरवम् अयोध्या-काण्डे राम-वाक्येनानुष्ठानेन च स्फुटम् । ननु “ऊर्ध्वं पितुः पुत्रा रिक्थं भजेरन् मातुः” इति गौतम-वचनेन,
ऊर्ध्वं पितुश् च मातुश् च समेत्य भ्रातरः सह ।
भजेरन् पैतृकं रिक्थम् अनीशास् ते हि जीवतोः ॥त्रय एवाधना राजन् भार्या दासस् तथा सुतः । यत् ते समधिगच्छन्ति यस्यैते तस्य तद् धनम् ॥
इति मनु-वचनेन च पितुर् ऊर्ध्वम् एव विभाग-धनावगमात्, तत्-पूर्वं विभाग-द्रव्य-अभावाद् अनधिकार इति चेत्, जीवति पितरि पुष्कल-धर्माचरणाय तेनैव विभाग-करणे तद्-अनुज्ञया धर्मानुष्ठान-संभवात् । अत एव श्रुतिः — “मनुः पुत्रेभ्यो दायं व्यभजत” इति । आपस्तम्बो ऽपि — “जीवन् पुत्रेभ्यो दायं विभजेत् समम्” इति । गौतमो ऽपि — “जीवति चेच्छति पितरि” इति । तस्मात् पितुः कुशस्याज्ञया चतुर्भिः पुत्रैः पृथग्-धर्माचरणं यत् कृतं तद्-युक्तम् एव । रामेणापि स्वयम् एव स्व-पुत्राणां भ्रातृ-पुत्राणां च राज्यानि विभज्य दत्तानि । तद् उत्तर-काण्डे स्पष्टम् । अयं तु विभागः अधर्मिष्ठानां न भवति । तथा च मनुः — “सर्व एव वि-कर्मस्था नार्हन्ति भ्रातरो धनम्” इति । अत एव “धर्मिष्ठान् सत्य-वादिनः” इति तेषां विशेषणम् उक्तम् । तेषु कौशाम्ब्यादिषु,
विश्वास-प्रस्तुतिः
एषा वसुमती नाम वसोस्तस्य महात्मनः ।
एते शैलवराः पञ्च प्रकाशन्ते समन्ततः ॥ ८ ॥
मूलम्
एषा वसुमती नाम वसोस्तस्य महात्मनः ।
एते शैलवराः पञ्च प्रकाशन्ते समन्ततः ॥ ८ ॥
अनुवाद (हिन्दी)
महात्मा वसुकी यह ‘गिरिव्रज’ नामक राजधानी वसुमतीके नामसे प्रसिद्ध हुई । इसके चारों ओर ये पाँच श्रेष्ठ पर्वत सुशोभित होते हैं* ॥ ८ ॥
पादटिप्पनी
- महाभारत सभापर्व (२१ । १—१०) में इन पाँचों पर्वतोंके नाम इस प्रकार वर्णित हैं—(१) विपुल, (२) वराह, (३) वृषभ (ऋषभ), (४) ऋषिगिरि (मातङ्ग) तथा (५) चैत्यक ।
विश्वास-प्रस्तुतिः
सुमागधी नदी रम्या मागधान् विश्रुताऽऽययौ ।
पञ्चानां शैलमुख्यानां मध्ये मालेव शोभते ॥ ९ ॥
मूलम्
सुमागधी नदी रम्या मागधान् विश्रुताऽऽययौ ।
पञ्चानां शैलमुख्यानां मध्ये मालेव शोभते ॥ ९ ॥
अनुवाद (हिन्दी)
यह रमणीय (सोन) नदी दक्षिण-पश्चिमकी ओरसे बहती हुई मगध देशमें आयी है, इसलिये यहाँ ‘सुमागधी’ नामसे विख्यात हुई है । यह इन पाँच श्रेष्ठ पर्वतोंके बीचमें मालाकी भाँति सुशोभित हो रही है ॥ ९ ॥
विश्वास-प्रस्तुतिः
सैषा हि मागधी राम वसोस्तस्य महात्मनः ।
पूर्वाभिचरिता राम सुक्षेत्रा सस्यमालिनी ॥ १० ॥
मूलम्
सैषा हि मागधी राम वसोस्तस्य महात्मनः ।
पूर्वाभिचरिता राम सुक्षेत्रा सस्यमालिनी ॥ १० ॥
अनुवाद (हिन्दी)
श्रीराम! इस प्रकार ‘मागधी’ नामसे प्रसिद्ध हुई यह सोन नदी पूर्वोक्त महात्मा वसुसे सम्बन्ध रखती है । रघुनन्दन! यह दक्षिण-पश्चिमसे आकर पूर्वोत्तर दिशाकी ओर प्रवाहित हुई है । इसके दोनों तटोंपर सुन्दर क्षेत्र (उपजाऊ खेत) हैं, अतः यह सदा सस्य-मालाओंसे अलंकृत (हरी-भरी खेतीसे सुशोभित) रहती है ॥ १० ॥
विश्वास-प्रस्तुतिः
कुशनाभस्तु राजर्षिः कन्याशतमनुत्तमम् ।
जनयामास धर्मात्मा घृताच्यां रघुनन्दन ॥ ११ ॥
मूलम्
कुशनाभस्तु राजर्षिः कन्याशतमनुत्तमम् ।
जनयामास धर्मात्मा घृताच्यां रघुनन्दन ॥ ११ ॥
अनुवाद (हिन्दी)
रघुकुलको आनन्दित करनेवाले श्रीराम! धर्मात्मा राजर्षि कुशनाभने घृताची अप्सराके गर्भसे परम उत्तम सौ कन्याओंको जन्म दिया ॥ ११ ॥
विश्वास-प्रस्तुतिः
तास्तु यौवनशालिन्यो रूपवत्यः स्वलङ्कृताः ।
उद्यानभूमिमागम्य प्रावृषीव शतह्रदाः ॥ १२ ॥
गायन्त्यो नृत्यमानाश्च वादयन्त्यस्तु राघव ।
आमोदं परमं जग्मुर्वराभरणभूषिताः ॥ १३ ॥
मूलम्
तास्तु यौवनशालिन्यो रूपवत्यः स्वलङ्कृताः ।
उद्यानभूमिमागम्य प्रावृषीव शतह्रदाः ॥ १२ ॥
गायन्त्यो नृत्यमानाश्च वादयन्त्यस्तु राघव ।
आमोदं परमं जग्मुर्वराभरणभूषिताः ॥ १३ ॥
अनुवाद (हिन्दी)
वे सब-की-सब सुन्दर रूप-लावण्यसे सुशोभित थीं । धीरे-धीरे युवावस्थाने आकर उनके सौन्दर्यको और भी बढ़ा दिया । रघुवीर! एक दिन वस्त्र और आभूषणोंसे विभूषित हो वे सभी राजकन्याएँ उद्यान-भूमिमें आकर वर्षाऋतुमें प्रकाशित होनेवाली विद्युन्मालाओंकी भाँति शोभा पाने लगीं । सुन्दर अलंकारोंसे अलंकृत हुई वे अंगनाएँ गाती, बजाती और नृत्य करती हुई वहाँ परम आमोद-प्रमोदमें मग्न हो गयीं ॥ १२-१३ ॥
विश्वास-प्रस्तुतिः
अथ ताश्चारुसर्वाङ्ग्यो रूपेणाप्रतिमा भुवि ।
उद्यानभूमिमागम्य तारा इव घनान्तरे ॥ १४ ॥
मूलम्
अथ ताश्चारुसर्वाङ्ग्यो रूपेणाप्रतिमा भुवि ।
उद्यानभूमिमागम्य तारा इव घनान्तरे ॥ १४ ॥
अनुवाद (हिन्दी)
उनके सभी अंग बड़े मनोहर थे । इस भूतलपर उनके रूप-सौन्दर्यकी कहीं भी तुलना नहीं थी । उस उद्यानमें आकर वे बादलोंके ओटमें कुछ-कुछ छिपी हुई तारिकाओंके समान शोभा पा रही थीं ॥ १४ ॥
विश्वास-प्रस्तुतिः
ताः सर्वा गुणसम्पन्ना रूपयौवनसंयुताः ।
दृष्ट्वा सर्वात्मको वायुरिदं वचनमब्रवीत् ॥ १५ ॥
मूलम्
ताः सर्वा गुणसम्पन्ना रूपयौवनसंयुताः ।
दृष्ट्वा सर्वात्मको वायुरिदं वचनमब्रवीत् ॥ १५ ॥
मूलम् - त्र्यम्बकः
ताः सर्व-गुण-संपन्ना रूप-यौवन-संयुताः ॥
दृष्ट्वा सर्व-गतो वायुर् इदं वचनम् अब्रवीत् ।
अनुवाद (हिन्दी)
उस समय उत्तम गुणोंसे सम्पन्न तथा रूप और यौवनसे सुशोभित उन सब राजकन्याओंको देखकर सर्वस्वरूप वायु देवताने उनसे इस प्रकार कहा— ॥
विश्वास-प्रस्तुतिः
अहं वः कामये सर्वा भार्या मम भविष्यथ ।
मानुषस्त्यज्यतां भावो दीर्घमायुरवाप्स्यथ ॥ १६ ॥
मूलम्
अहं वः कामये सर्वा भार्या मम भविष्यथ ।
मानुषस्त्यज्यतां भावो दीर्घमायुरवाप्स्यथ ॥ १६ ॥
अनुवाद (हिन्दी)
‘सुन्दरियो! मैं तुम सबको अपनी प्रेयसीके रूपमें प्राप्त करना चाहता हूँ । तुम सब मेरी भार्याएँ बनोगी । अब मनुष्यभावका त्याग करो और मुझे अंगीकार करके देवांगनाओंकी भाँति दीर्घ आयु प्राप्त कर लो ॥
विश्वास-प्रस्तुतिः
चलं हि यौवनं नित्यं मानुषेषु विशेषतः ।
अक्षयं यौवनं प्राप्ता अमर्यश्च भविष्यथ ॥ १७ ॥
मूलम्
चलं हि यौवनं नित्यं मानुषेषु विशेषतः ।
अक्षयं यौवनं प्राप्ता अमर्यश्च भविष्यथ ॥ १७ ॥
अनुवाद (हिन्दी)
‘विशेषतः मानव-शरीरमें जवानी कभी स्थिर नहीं रहती—प्रतिक्षण क्षीण होती जाती है । मेरे साथ सम्बन्ध हो जानेपर तुमलोग अक्षय यौवन प्राप्त करके अमर हो जाओगी’ ॥ १७ ॥
विश्वास-प्रस्तुतिः
तस्य तद् वचनं श्रुत्वा वायोरक्लिष्टकर्मणः ।
अपहास्य ततो वाक्यं कन्याशतमथाब्रवीत् ॥ १८ ॥
मूलम्
तस्य तद् वचनं श्रुत्वा वायोरक्लिष्टकर्मणः ।
अपहास्य ततो वाक्यं कन्याशतमथाब्रवीत् ॥ १८ ॥
अनुवाद (हिन्दी)
अनायास ही महान् कर्म करनेवाले वायुदेवका यह कथन सुनकर वे सौ कन्याएँ अवहेलनापूर्वक हँसकर बोलीं— ॥ १८ ॥
विश्वास-प्रस्तुतिः
अन्तश्चरसि भूतानां सर्वेषां सुरसत्तम ।
प्रभावज्ञाश्च ते सर्वाः किमर्थमवमन्यसे ॥ १९ ॥
मूलम्
अन्तश्चरसि भूतानां सर्वेषां सुरसत्तम ।
प्रभावज्ञाश्च ते सर्वाः किमर्थमवमन्यसे ॥ १९ ॥
मूलम् - त्र्यम्बकः
तस्य तद्-वचनं श्रुत्वा कन्या-शतम् अथाब्रवीत् ।
प्रभाव-ज्ञाः स्म ते सर्वाः किम् अस्मान् अवमन्यसे ॥
अनुवाद (हिन्दी)
‘सुरश्रेष्ठ! आप प्राणवायुके रूपमें समस्त प्राणियोंके भीतर विचरते हैं (अतः सबके मनकी बातें जानते हैं; आपको यह मालूम होगा कि हमारे मनमें आपके प्रति कोई आकर्षण नहीं है) । हम सब बहिनें आपके अनुपम प्रभावको भी जानती हैं (तो भी हमारा आपके प्रति अनुराग नहीं है); ऐसी दशामें यह अनुचित प्रस्ताव करके आप हमारा अपमान किसलिये कर रहे हैं? ॥ १९ ॥
विश्वास-प्रस्तुतिः
कुशनाभसुता देव समस्ताः सुरसत्तम ।
स्थानाच्च्यावयितुं देवं रक्षामस्तु तपो वयम् ॥ २० ॥
मूलम्
कुशनाभसुता देव समस्ताः सुरसत्तम ।
स्थानाच्च्यावयितुं देवं रक्षामस्तु तपो वयम् ॥ २० ॥
मूलम् - त्र्यम्बकः
कुश-नाभ-सुताः सर्वाः समर्थास् त्वां सुरोत्तम ।
स्थानाच् च्यावयितुं देवं रक्षामस् तु तपो वयम् ॥
अनुवाद (हिन्दी)
‘देव! देवशिरोमणे! हम सब-की-सब राजर्षि कुशनाभकी कन्याएँ हैं । देवता होनेपर भी आपको शाप देकर वायुपदसे भ्रष्ट कर सकती हैं, किंतु ऐसा करना नहीं चाहतीं; क्योंकि हम अपने तपको सुरक्षित रखती हैं ॥ २० ॥
विश्वास-प्रस्तुतिः
मा भूत् स कालो दुर्मेधः पितरं सत्यवादिनम् ।
अवमन्य स्वधर्मेण स्वयंवरमुपास्महे ॥ २१ ॥
मूलम्
मा भूत् स कालो दुर्मेधः पितरं सत्यवादिनम् ।
अवमन्य स्वधर्मेण स्वयंवरमुपास्महे ॥ २१ ॥
अनुवाद (हिन्दी)
‘दुर्मते! वह समय कभी न आवे, जब कि हम अपने सत्यवादी पिताकी अवहेलना करके कामवश या अत्यन्त अधर्मपूर्वक स्वयं ही वर ढूँढ़ने लगें ॥ २१ ॥
विश्वास-प्रस्तुतिः
पिता हि प्रभुरस्माकं दैवतं परमं च सः ।
यस्य नो दास्यति पिता स नो भर्ता भविष्यति ॥ २२ ॥
मूलम्
पिता हि प्रभुरस्माकं दैवतं परमं च सः ।
यस्य नो दास्यति पिता स नो भर्ता भविष्यति ॥ २२ ॥
अनुवाद (हिन्दी)
‘हमलोगोंपर हमारे पिताजीका प्रभुत्व है, वे हमारे लिये सर्वश्रेष्ठ देवता हैं । पिताजी हमें जिसके हाथमें दे देंगे, वही हमारा पति होगा’ ॥ २२ ॥
त्र्यम्बकः - धर्माकूतम्
अनेन कन्यायाः पितृ-दान-पूर्वको विवाहः प्रशस्त इति सूचितम् । तथा च बोधायनः —
त्रीणि वर्षाण्य् ऋतुमती काङ्क्षेत पितृ-शासनम् ।
ततश् चतुर्थे वर्षे तु विन्देत सदृशं पतिम् ।
याज्ञवल्क्यो ऽपि —
पिता पितामहो भ्राता स-कुल्यो जननी तथा ।
कन्या-प्रदः पूर्व-नाशे प्रकृति-स्थः परः परः ।
इति ।
विश्वास-प्रस्तुतिः
तासां तु वचनं श्रुत्वा हरिः परमकोपनः ।
प्रविश्य सर्वगात्राणि बभञ्ज भगवान् प्रभुः ॥ २३ ॥
अरत्निमात्राकृतयो भग्नगात्रा भयार्दिताः ।
मूलम्
तासां तु वचनं श्रुत्वा हरिः परमकोपनः ।
प्रविश्य सर्वगात्राणि बभञ्ज भगवान् प्रभुः ॥ २३ ॥
अरत्निमात्राकृतयो भग्नगात्रा भयार्दिताः ।
मूलम् - त्र्यम्बकः
तासां तद्-वचनं श्रुत्वा वायुः परम-कोपनः ।
प्रविश्य सर्व-गात्राणि बभञ्ज भगवान् प्रभुः ॥
अनुवाद (हिन्दी)
उनकी यह बात सुनकर वायुदेव अत्यन्त कुपित हो उठे । उन ऐश्वर्यशाली प्रभुने उनके भीतर प्रविष्टहो सब अंगोंको मोड़कर टेढ़ा कर दिया । शरीर मुड़ जानेके कारण वे कुबड़ी हो गयीं । उनकी आकृति मुट्ठी बँधे हुए एक हाथके बराबर हो गयी । वे भयसे व्याकुल हो उठीं ॥ २३ १/२ ॥
विश्वास-प्रस्तुतिः
ताः कन्या वायुना भग्ना विविशुर्नृपतेर्गृहम् ।
प्रविश्य च सुसम्भ्रान्ताः सलज्जाः सास्रलोचनाः ॥ २४ ॥
मूलम्
ताः कन्या वायुना भग्ना विविशुर्नृपतेर्गृहम् ।
प्रविश्य च सुसम्भ्रान्ताः सलज्जाः सास्रलोचनाः ॥ २४ ॥
मूलम् - त्र्यम्बकः
ताः कन्या वायुना भग्ना विविशुर् नृपतेर् गृहम् ।
स च ता दर्पिताः कन्या दीनाः परम-शोभनाः ॥
अनुवाद (हिन्दी)
वायुदेवके द्वारा कुबड़ी की हुई उन कन्याओंने राजभवनमें प्रवेश किया । प्रवेश करके वे लज्जित और उद्विग्न हो गयीं । उनके नेत्रोंसे आँसुओंकी धाराएँ बहने लगीं ॥ २४ ॥
विश्वास-प्रस्तुतिः
स च ता दयिता भग्नाः कन्याः परमशोभनाः ।
दृष्ट्वा दीनास्तदा राजा सम्भ्रान्त इदमब्रवीत् ॥ २५ ॥
मूलम्
स च ता दयिता भग्नाः कन्याः परमशोभनाः ।
दृष्ट्वा दीनास्तदा राजा सम्भ्रान्त इदमब्रवीत् ॥ २५ ॥
अनुवाद (हिन्दी)
अपनी परम सुन्दरी प्यारी पुत्रियोंको कुब्जताके कारण अत्यन्त दयनीय दशामें पड़ी देख राजा कुशनाभ घबरा गये और इस प्रकार बोले— ॥ २५ ॥
विश्वास-प्रस्तुतिः
किमिदं कथ्यतां पुत्र्यः को धर्ममवमन्यते ।
कुब्जाः केन कृताः सर्वाश्चेष्टन्त्यो नाभिभाषथ ।
एवं राजा विनिःश्वस्य समाधिं सन्दधे ततः ॥ २६ ॥
मूलम्
किमिदं कथ्यतां पुत्र्यः को धर्ममवमन्यते ।
कुब्जाः केन कृताः सर्वाश्चेष्टन्त्यो नाभिभाषथ ।
एवं राजा विनिःश्वस्य समाधिं सन्दधे ततः ॥ २६ ॥
मूलम् - त्र्यम्बकः
दृष्ट्वा भग्नास् तदा राजा संभ्रान्त इदम् अब्रवीत् ।
किम् इदं कथ्यतां पुत्र्यः को धर्मम् अवमन्यते ।
कुब्जाः केन कृताः सर्वा वेष्टन्त्यो न अभिभाषथ ॥
अनुवाद (हिन्दी)
‘पुत्रियो! यह क्या हुआ? बताओ । कौन प्राणी धर्मकी अवहेलना करता है? किसने तुम्हें कुबड़ी बना दिया, जिससे तुम तड़प रही हो, किंतु कुछ बताती नहीं हो ।’ यों कहकर राजाने लंबी साँस खींची और उनका उत्तर सुननेके लिये वे सावधान होकर बैठ गये ॥ २६ ॥
समाप्तिः
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे द्वात्रिंशः सर्गः ॥ ३२ ॥
इस प्रकार श्रीवाल्मीकिनिर्मित आर्षरामायण आदिकाव्यके बालकाण्डमें बत्तीसवाँ सर्ग पूरा हुआ ॥ ३२ ॥