वाचनम्
भागसूचना
- राजाओं तथा ऋष्यशृंगको विदा करके राजा दशरथका रानियोंसहित पुरीमें आगमन, श्रीराम, भरत, लक्ष्मण तथा शत्रुघ्नके जन्म, संस्कार, शील-स्वभाव एवं सद्गुण, राजाके दरबारमें विश्वामित्रका आगमन और उनका सत्कार
त्र्यम्बकः - धर्माकूतम्
अष्टादशे सर्गे -
विश्वास-प्रस्तुतिः
निर्वृत्ते तु क्रतौ तस्मिन् हयमेधे महात्मनः ।
प्रतिगृह्यामरा भागान् प्रतिजग्मुर्यथागतम् ॥ १ ॥
मूलम्
निर्वृत्ते तु क्रतौ तस्मिन् हयमेधे महात्मनः ।
प्रतिगृह्यामरा भागान् प्रतिजग्मुर्यथागतम् ॥ १ ॥
मूलम् - त्र्यम्बकः
निर्वृत्ते तु ऋतौ तस्मिन् हयमेधे महात्मनः ।
प्रतिगृह्य सुरा भागान् प्रतिजग्मुर् यथागतम् ॥
अनुवाद (हिन्दी)
महामना राजा दशरथका यज्ञ समाप्त होनेपर देवतालोग अपना-अपना भाग ले जैसे आये थे, वैसे लौट गये ॥ १ ॥
विश्वास-प्रस्तुतिः
समाप्तदीक्षानियमः पत्नीगणसमन्वितः ।
प्रविवेश पुरीं राजा सभृत्यबलवाहनः ॥ २ ॥
मूलम्
समाप्तदीक्षानियमः पत्नीगणसमन्वितः ।
प्रविवेश पुरीं राजा सभृत्यबलवाहनः ॥ २ ॥
अनुवाद (हिन्दी)
दीक्षाका नियम समाप्त होनेपर राजा अपनी पत्नियोंको साथ ले सेवक, सैनिक और सवारियोंसहित पुरीमें प्रविष्ट हुए ॥ २ ॥
विश्वास-प्रस्तुतिः
यथार्हं पूजितास्तेन राज्ञा च पृथिवीश्वराः ।
मुदिताः प्रययुर्देशान् प्रणम्य मुनिपुङ्गवम् ॥ ३ ॥
मूलम्
यथार्हं पूजितास्तेन राज्ञा च पृथिवीश्वराः ।
मुदिताः प्रययुर्देशान् प्रणम्य मुनिपुङ्गवम् ॥ ३ ॥
अनुवाद (हिन्दी)
भिन्न-भिन्न देशोंके राजा भी (जो उनके यज्ञमें सम्मिलित होनेके लिये आये थे) महाराज दशरथद्वारा यथावत् सम्मानित हो मुनिवर वसिष्ठ तथा ऋष्यशृंगको प्रणाम करके प्रसन्नतापूर्वक अपने-अपने देशको चले गये ॥ ३ ॥
विश्वास-प्रस्तुतिः
श्रीमतां गच्छतां तेषां स्वगृहाणि पुरात् ततः ।
बलानि राज्ञां शुभ्राणि प्रहृष्टानि चकाशिरे ॥ ४ ॥
मूलम्
श्रीमतां गच्छतां तेषां स्वगृहाणि पुरात् ततः ।
बलानि राज्ञां शुभ्राणि प्रहृष्टानि चकाशिरे ॥ ४ ॥
अनुवाद (हिन्दी)
अयोध्यापुरीसे अपने घरको जाते हुए उन श्रीमान् नरेशोंके शुभ्र सैनिक अत्यन्त हर्षमग्न होनेके कारण बड़ी शोभा पा रहे थे ॥ ४ ॥
विश्वास-प्रस्तुतिः
गतेषु पृथिवीशेषु राजा दशरथः पुनः ।
प्रविवेश पुरीं श्रीमान् पुरस्कृत्य द्विजोत्तमान् ॥ ५ ॥
मूलम्
गतेषु पृथिवीशेषु राजा दशरथः पुनः ।
प्रविवेश पुरीं श्रीमान् पुरस्कृत्य द्विजोत्तमान् ॥ ५ ॥
अनुवाद (हिन्दी)
उन राजाओंके विदा हो जानेपर श्रीमान् महाराज दशरथने श्रेष्ठ ब्राह्मणोंको आगे करके अपनी पुरीमें प्रवेश किया ॥ ५ ॥
विश्वास-प्रस्तुतिः
शान्तया प्रययौ सार्धमृष्यशृङ्गः सुपूजितः ।
अनुगम्यमानो राज्ञा च सानुयात्रेण धीमता ॥ ६ ॥
मूलम्
शान्तया प्रययौ सार्धमृष्यशृङ्गः सुपूजितः ।
अनुगम्यमानो राज्ञा च सानुयात्रेण धीमता ॥ ६ ॥
अनुवाद (हिन्दी)
राजाद्वारा अत्यन्त सम्मानित हो ऋष्यशृंग मुनि भी शान्ताके साथ अपने स्थानको चले गये । उस समय सेवकोंसहित बुद्धिमान् महाराज दशरथ कुछ दूरतक उनके पीछे-पीछे उन्हें पहुँचाने गये थे ॥ ६ ॥
विश्वास-प्रस्तुतिः
एवं विसृज्य तान् सर्वान् राजा सम्पूर्णमानसः ।
उवास सुखितस्तत्र पुत्रोत्पत्तिं विचिन्तयन् ॥ ७ ॥
मूलम्
एवं विसृज्य तान् सर्वान् राजा सम्पूर्णमानसः ।
उवास सुखितस्तत्र पुत्रोत्पत्तिं विचिन्तयन् ॥ ७ ॥
अनुवाद (हिन्दी)
इस प्रकार उन सब अतिथियोंको विदा करके सफल मनोरथ हुए राजा दशरथ पुत्रोत्पत्तिकी प्रतीक्षा करते हुए वहाँ बड़े सुखसे रहने लगे ॥ ७ ॥
विश्वास-प्रस्तुतिः
ततो यज्ञे समाप्ते तु ऋतूनां षट् समत्ययुः ।
ततश्च द्वादशे मासे चैत्रे नावमिके तिथौ ॥ ८ ॥
नक्षत्रेऽदितिदैवत्ये स्वोच्चसंस्थेषु पञ्चसु ।
ग्रहेषु कर्कटे लग्ने वाक्पताविन्दुना सह ॥ ९ ॥
प्रोद्यमाने जगन्नाथं सर्वलोकनमस्कृतम् ।
कौसल्याजनयद् रामं दिव्यलक्षणसंयुतम् ॥ १० ॥
मूलम्
ततो यज्ञे समाप्ते तु ऋतूनां षट् समत्ययुः ।
ततश्च द्वादशे मासे चैत्रे नावमिके तिथौ ॥ ८ ॥
नक्षत्रेऽदितिदैवत्ये स्वोच्चसंस्थेषु पञ्चसु ।
ग्रहेषु कर्कटे लग्ने वाक्पताविन्दुना सह ॥ ९ ॥
प्रोद्यमाने जगन्नाथं सर्वलोकनमस्कृतम् ।
कौसल्याजनयद् रामं दिव्यलक्षणसंयुतम् ॥ १० ॥
अनुवाद (हिन्दी)
यज्ञ-समाप्तिके पश्चात् जब छः ऋतुएँ बीत गयीं, तब बारहवें मासमें चैत्रके शुक्लपक्षकी नवमी तिथिको पुनर्वसु नक्षत्र एवं कर्क लग्नमें कौसल्यादेवीने दिव्य लक्षणोंसे युक्त, सर्वलोकवन्दित जगदीश्वर श्रीरामको जन्म दिया । उस समय (सूर्य, मंगल, शनि, गुरु और शुक्र—ये) पाँच ग्रह अपने-अपने उच्च स्थानमें विद्यमान थे तथा लग्नमें चन्द्रमाके साथ बृहस्पति विराजमान थे ॥
विश्वास-प्रस्तुतिः
विष्णोरर्धं महाभागं पुत्रमैक्ष्वाकुनन्दनम् ।
लोहिताक्षं महाबाहुं रक्तोष्ठं दुन्दुभिस्वनम् ॥ ११ ॥
मूलम्
विष्णोरर्धं महाभागं पुत्रमैक्ष्वाकुनन्दनम् ।
लोहिताक्षं महाबाहुं रक्तोष्ठं दुन्दुभिस्वनम् ॥ ११ ॥
मूलम् - त्र्यम्बकः
विष्णोर् अर्धं महा-भागं पुत्रमिक्ष्वाकु-नन्दनम् ।
कौसल्या शुशुभे तेन पुत्रेणामित-तेजसा ।
अनुवाद (हिन्दी)
वे विष्णुस्वरूप हविष्य या खीरके आधे भागसे प्रकट हुए थे । कौसल्याके महाभाग पुत्र श्रीराम इक्ष्वाकुकुलका आनन्द बढ़ानेवाले थे । उनके नेत्रोंमें कुछ-कुछ लालिमा थी । उनके ओठ लाल, भुजाएँ बड़ी-बड़ी और स्वर दुन्दुभिके शब्दके समान गम्भीर था ॥ ११ ॥
विश्वास-प्रस्तुतिः
कौसल्या शुशुभे तेन पुत्रेणामिततेजसा ।
यथा वरेण देवानामदितिर्वज्रपाणिना ॥ १२ ॥
मूलम्
कौसल्या शुशुभे तेन पुत्रेणामिततेजसा ।
यथा वरेण देवानामदितिर्वज्रपाणिना ॥ १२ ॥
अनुवाद (हिन्दी)
उस अमिततेजस्वी पुत्रसे महारानी कौसल्याकी बड़ी शोभा हुई, ठीक उसी तरह, जैसे सुरश्रेष्ठ वज्रपाणि इन्द्रसे देवमाता अदिति सुशोभित हुई थीं ॥ १२ ॥
विश्वास-प्रस्तुतिः
भरतो नाम कैकेय्यां जज्ञे सत्यपराक्रमः ।
साक्षाद् विष्णोश्चतुर्भागः सर्वैः समुदितो गुणैः ॥ १३ ॥
मूलम्
भरतो नाम कैकेय्यां जज्ञे सत्यपराक्रमः ।
साक्षाद् विष्णोश्चतुर्भागः सर्वैः समुदितो गुणैः ॥ १३ ॥
अनुवाद (हिन्दी)
तदनन्तर कैकेयीसे सत्यपराक्रमी भरतका जन्म हुआ, जो साक्षात् भगवान् विष्णुके (स्वरूपभूत पायस—खीरके) चतुर्थांशसे भी न्यून भागसे प्रकट हुए थे । ये समस्त सद्गुणोंसे सम्पन्न थे ॥ १३ ॥
विश्वास-प्रस्तुतिः
अथ लक्ष्मणशत्रुघ्नौ सुमित्राजनयत् सुतौ ।
वीरौ सर्वास्त्रकुशलौ विष्णोरर्धसमन्वितौ ॥ १४ ॥
मूलम्
अथ लक्ष्मणशत्रुघ्नौ सुमित्राजनयत् सुतौ ।
वीरौ सर्वास्त्रकुशलौ विष्णोरर्धसमन्वितौ ॥ १४ ॥
अनुवाद (हिन्दी)
इसके बाद रानी सुमित्राने लक्ष्मण और शत्रुघ्न—इन दो पुत्रोंको जन्म दिया । ये दोनों वीर साक्षात् भगवान् विष्णुके अर्धभागसे सम्पन्न और सब प्रकारके अस्त्रोंकी विद्यामें कुशल थे ॥ १४ ॥
विश्वास-प्रस्तुतिः
पुष्ये जातस्तु भरतो मीनलग्ने प्रसन्नधीः ।
सार्पे जातौ तु सौमित्री कुलीरेऽभ्युदिते रवौ ॥ १५ ॥
मूलम्
पुष्ये जातस्तु भरतो मीनलग्ने प्रसन्नधीः ।
सार्पे जातौ तु सौमित्री कुलीरेऽभ्युदिते रवौ ॥ १५ ॥
अनुवाद (हिन्दी)
भरत सदा प्रसन्नचित्त रहते थे । उनका जन्म पुष्य नक्षत्र तथा मीन लग्नमें हुआ था । सुमित्राके दोनों पुत्र आश्लेषा नक्षत्र और कर्कलग्नमें उत्पन्न हुए थे । उस समय सूर्य अपने उच्च स्थानमें विराजमान थे ॥ १५ ॥
विश्वास-प्रस्तुतिः
राज्ञः पुत्रा महात्मानश्चत्वारो जज्ञिरे पृथक् ।
गुणवन्तोऽनुरूपाश्च रुच्या प्रोष्ठपदोपमाः ॥ १६ ॥
मूलम्
राज्ञः पुत्रा महात्मानश्चत्वारो जज्ञिरे पृथक् ।
गुणवन्तोऽनुरूपाश्च रुच्या प्रोष्ठपदोपमाः ॥ १६ ॥
अनुवाद (हिन्दी)
राजा दशरथके ये चारों महामनस्वी पुत्र पृथक्-पृथक् गुणोंसे सम्पन्न और सुन्दर थे । ये भाद्रपदा नामक चार तारोंके समान कान्तिमान् थे* ॥ १६ ॥
पादटिप्पनी
- प्रोष्ठपदा कहते हैं—भाद्रपदा नक्षत्रको । उसके दो भेद हैं—पूर्वभाद्रपदा और उत्तरभाद्रपदा । इन दोनोंमें दो-दो तारे हैं । यह बात ज्यौतिषशास्त्रमें प्रसिद्ध है । (रा०ति०)
विश्वास-प्रस्तुतिः
जगुः कलं च गन्धर्वा ननृतुश्चाप्सरोगणाः ।
देवदुन्दुभयो नेदुः पुष्पवृष्टिश्च खात् पतत् ॥ १७ ॥
मूलम्
जगुः कलं च गन्धर्वा ननृतुश्चाप्सरोगणाः ।
देवदुन्दुभयो नेदुः पुष्पवृष्टिश्च खात् पतत् ॥ १७ ॥
मूलम् - त्र्यम्बकः
जगुः कलं च गन्धर्वा ननृतुश् चाप्सरो-गणाः ॥
देव-दुन्दुभयो नेदुः पुष्प-वृष्टिस् तु खाच् च्युता ।
अनुवाद (हिन्दी)
इनके जन्मके समय गन्धर्वोंने मधुर गीत गाये । अप्सराओंने नृत्य किया । देवताओंकी दुन्दुभियाँ बजने लगीं तथा आकाशसे फूलोंकी वर्षा होने लगी ॥ १७ ॥
विश्वास-प्रस्तुतिः
उत्सवश्च महानासीदयोध्यायां जनाकुलः ।
रथ्याश्च जनसम्बाधा नटनर्तकसङ्कुलाः ॥ १८ ॥
मूलम्
उत्सवश्च महानासीदयोध्यायां जनाकुलः ।
रथ्याश्च जनसम्बाधा नटनर्तकसङ्कुलाः ॥ १८ ॥
अनुवाद (हिन्दी)
अयोध्यामें बहुत बड़ा उत्सव हुआ । मनुष्योंकी भारी भीड़ एकत्र हुई । गलियाँ और सड़कें लोगोंसे खचाखच भरी थीं । बहुत-से नट और नर्तक वहाँ अपनी कलाएँ दिखा रहे थे ॥ १८ ॥
त्र्यम्बकः - धर्माकूतम्
अत्र संवत्सर-मुखोत्तरायण-वसन्त-चैत्र-मास-शुक्ल-पक्ष-देव-नक्षत्र-दिवाभिजिल्-लग्न-पुण्य-नक्षत्राद्य्-उत्कृष्ट-काले कर्कटक-लग्ने उच्चस्थ-ग्रह-पञ्चके गुरु-चन्द्र-योगे श्रीरामोत्पत्तिः तस्य सर्वोत्कृष्टतां सकल-कल्याण-गुणाभिरामतां सकल-शिष्टादरणीय-संपत्तिं महा-पराक्रमं च सूचयति । संवत्सर-मुखस्य प्रशस्तता च -
चित्रा-पूर्णमासे दीक्षेरन् मुखं वा एतत् संवत्सरस्य यच् चित्रा-पूर्णमासः ।
इति श्रुत्या चित्रा-पूर्णमासस्य संवत्सर-मुखत्वेन प्रशस्तता प्रतिपादनात् सिद्धा । अनयैव श्रुत्या चैत्र-मासस्यापि । तथा “मुखं वा एतद् ऋतूनां यद् वसन्तः” इति श्रुत्या वसन्तस्य,
यं कामयेत वसीयान् स्याद् इति तं पूर्व-पक्षे याजयेत् वसीयान् एव भवति ।
इति श्रुत्या पूर्व-पक्षस्य, “यान्येव देव-नक्षत्राणि तेषु कुर्वीत यत्-कारी स्यात्” इति श्रुत्या देव-नक्षत्रस्य, “समानस्याहुः पञ्च पुण्यानि नक्षत्राणि” इति श्रुत्या पुण्य-नक्षत्रस्य प्रशस्तता सिद्धा । तथा “तृतीये वर्षे चौलम्”, “अष्टमे वर्षे ब्राह्मणम् उपनयेत्”, एतेन “गोदानं षोडशे वर्षे” इत्य् आदि-सूत्रैर् नियत-संवत्सरेषु चौलोपनयन-गोदानादिषु “उदगयन आपूर्यमाण-पक्षे कल्याणे नक्षत्रे चौल-कर्मोपनयन-गोदान-विवाहाः”, “वसन्ते ब्राह्मणम् उपनयेत्” इत्य् आदि-सूत्र-कारैर् उदगयनादि-काल-नियमं कुर्वद्भिः, पुंसवनम् अनवलोभनं च यदि नाधीया, “तृतीये गर्भ-मासे चतुर्थे गर्भ-मासे सीमन्तोन्नयनम्”, “षष्ठे ऽष्टमे वा”, “षष्ठे मास्य् अन्न-प्राशनम्” इति सूत्रैर् नियत-मासेषु पुंसवनादि-कर्मसु आपूर्यमाण-पक्षे “यदा पुंसा नक्षत्रेण चन्द्रमा युक्तः स्यात्” इति सूत्रेण असंभावितोदगयनादि-परित्यागेन संभावितापूर्यमाण-पक्षादि-नियमं कुर्वद्भिः आश्वलायनादि-सूत्र-कारैः, तथा “एकादशे द्वादशे वा पिता नाम कुर्यात्” इति श्रुति-नियत-काले नाम-करणे असंभावित-काल-परित्यागेनाह “पुण्याहेषु कार्याणि” इति सूत्रेण संभावित-मध्याह्न-पुण्य-नक्षत्र-संग्रह-कृद्भिः आपस्तम्बाचार्यैश् च, “उदगयन-पूर्व-पक्ष-पुण्याह-संनिपाते यज्ञ-कालो नादेशः” इति वदद्भिः द्राह्मायणाचार्यैश् च उक्तानां कालानां सर्वेषु उत्कृष्ट-कर्मसु नियमनात् प्रशस्तता सिद्धा । जनने तत्-कालस्य क्षणादि-रूपस्य सूक्ष्मत्वात् उदगयनादि-नियमनासंभवात् सूत्र-कारैर् उदगयनादि-कालानियमने ऽपि अर्थाद् एतादृश-काल-प्राप्तेः प्रशस्तता उक्त-प्रायैव । अत एव एतद्-व्यतिरिक्त-कालोत्पन्नस्य दुष्ट-फलम्, उक्त-कालोत्पन्नस्य तु प्रशस्तं फलं प्रतिपादयद्भिर् ज्यौतिषिकैर् अपि उक्त-कालानां फल-मुखेन प्राशस्त्यम् एव प्रतिपाद्यते । ज्यौतिषिके जातकाभरणे “तत्र निन्दित-काल-फलानि” - तत्र दक्षिणायनस्य -
अखर्व-गर्वः कृषि-कर्म-कर्ता चतुष्पदाढ्यो ऽति-कठोर-चित्तः ।
शठो ऽप्य् असह्यो ननु मानवानां याम्यायने ना जननं प्रपन्नः ।
कृष्ण-पक्षस्य -
प्रलाप-शीलो ऽविचलश् च-लोलः कलि-प्रियः स्वीय-कुलोद्धतश् च ।
मनोभवाधिक्य-युतो नितान्तं सितेतरे यस्य नरस्य जन्म ।
रात्रि-जननस्य -
कूट-कृद्-बहु-कामार्तः क्षय-रोगी मलीमसः ।
नर्तको ऽतिशठः कृष्णो रात्रि-जातो नरो भवेत् ।
इति एवम् आदि निन्दित-काल-फलानि बहुशः सन्ति । विस्तर-भिया दिक्-प्रदर्शनम् अत्र कृतम् । अथ प्रशस्त-फलानि - तत्र उत्तरायणस्य -
शश्वत्-प्रसन्नो ननु सूनु-कान्तां संतोष-युक्तो नितरां चिरायुः ।
नरः सदाचार-परो ऽत्य्-उदारो धीरश् च सौम्यायन-जात-जन्मा ।
वसन्तस्य -
‘कंदर्प-रूपो मतिमान् प्रतापी संगीत-शास्त्रे गणिते प्रवीणः ।
शास्त्र-प्रसूनामल-चेल-चेता वसन्त-जन्मा मनुजः प्रसन्नः ।
चैत्र-मासस्य -
सत्-कर्म-विद्या-विनयोपपन्नो भोगी नरः स्यान् मधुरान्न-भोक्ता ।
सत्-पात्र-मित्रानुरतश् च मन्त्री चैत्रोद्भवश् चापि विचित्र-मन्त्रः ।
शुक्ल-पक्षस्य -
चञ्चच् चिरायुः सुतरां सुशीलः श्री-पुत्रवान् कोमल-काय-कान्तिः ।
सदा सदानन्द-विनीत-कालश् चेज् जन्म-कालस् तु वलर्क्षपक्षे ।
नक्षत्रस्य -
प्रभूत-मित्रः कृत-शास्त्र-यत्नः सद्-रत्न-चामीकर-भूषणाढ्यः ।
दाता प्रतापी वसुधा-वसुश् च पुनर्वसू यस्य भवेत् प्रसूतिः ।
दिवा-जननस्य -
तेजस्वी पितृ-सादृश्यः शुभ-दृष्टिर् नृप-प्रियः ।
बन्धु-पूज्यो धनाढ्यश् च दिवा जातो न संशयः ।
कर्काटक-लग्नस्य -
भृष्टान्न-भुक् साधु-रतो विनीतो विलोल-बुद्धिर् जल-केलि-शीलः ।
प्रकृष्ट-सारो ऽतितराम् उदारो लग्ने कुलीरे हि नरो भवेत् सः ।
उच्च-ग्रह-योगस्य -
‘नभश् चराः पञ्च नीचोच्च-संस्थाः यस्य प्रसूतौ स तु सार्वभौमः ।
गुरु-चन्द्र-योगस्य -
सदा विनीतो दृढ-गूढ-मन्त्रः स्व-धर्म-कर्माभिरतो नरः स्यात् ।
परोपकारादरणैक-चित्तः सितद्युतौ वाक्पतिना समेते ।
मेष-गत-सूर्यस्य -
भवति साहस-कर्म-करो नरो रुधिर-पित्त-विकार-कलेवरः ।
क्षिति-पतिः सुहितश् च सदा सुखी सुमहसां महसाम् अधिपे क्रिये ॥
बलवतां शुभ-ग्रहाणाम् आचार-शौच-शुभ-सत्य-युताः । सुरूपास् तेजस्विनः कृत-विदो द्विज-देव-भक्ताः ॥
पुष्पाम्बरोत्तम-विभूषण-सादराश् च सौम्य-ग्रहैर् बल-युतैः पुरुषा भवन्ति ।
इति । तस्माद् एतेषां कालानां जनने प्रशस्तत्वात्, साधारणानाम् अस्मिन् काले जननासंभवात्, अस्य च श्री-रामस्य एतादृश-काले उत्पन्नत्वात् सर्वोत्कृष्टत्वं सकल-लोकादरणीयाचारवत्त्वं च सिद्धम् । तदा,
रथ्याश् च जन-संबाधा नट-नर्तक-संकुलाः ।
गायकैश् च विराविण्यो वादकैश् च तथापरैः ॥प्रदेयांश् च ददौ राजा सूत-मागध-वन्दिनाम् ।
ब्राह्मणेभ्यो ददौ वित्तं गो-धनानि सहस्रशः ॥
अन्यत्र पुण्य-काल उत्सव-कालो न भवति, उत्सव-कालः पुण्य-कालो न भवति । पुत्रोत्पत्ति-कालस् तु पुण्योत्सवोभयात्मकः । तथा च व्यासः -
‘देवाश् च पितरश् चैव पुत्रे जाते द्विजन्मनाम् ।
आयान्ति तस्मात् तद् अहः पुण्यं पूज्यं च सर्वदा ॥तत्र दद्यात् सुवर्णं च भूमिं गां तुरगं रथम् ।
छत्रं च गन्ध-माल्यं च शयनं चासनं गृहम्
इति ॥
अत्र पुण्य-पूज्य-शब्दाभ्याम् अह्नः उभय-रूपत्वं स्पष्टम् । तस्मिन् काले समागतानां देवानां पितॄणां च जातेष्टि-वृद्धि-श्राद्धादिना तृप्तिः कार्या । तथा च बोधायनः - “वैश्वानरं द्वादश-कपालं निर्वपेत् पुत्रे जाते” इति । “जातम् एव विदित्वा” इति शालीकिः । विष्णु-पुराणे
स-चेलस्य पितुः स्नानं जाते पुत्रे विधीयते । जात-कर्म तदा कुर्याच् छ्राद्धमाभ्युदयं चरेत् ।
त्रि-विधानि च दानानि देयानि - अदृष्टार्थं ब्राह्मणेभ्यो गवादि-दानम् । उत्सव-प्रयुक्ततया बान्धवानां प्रिय-शंसिने जनाय च यत् तत् प्रीति-दानम् । कीर्त्त्य्-अर्थं नटे नर्तके दानम् । तथा च महाभारते - “धर्मार्थं ब्राह्मणे दानं यशोर्थं नट-नर्तके” इति । प्रिय-शंसिने ऽपि देयम्, महताम् आचारात् । तथा च माधवीये देवलः -
दृष्ट्वा प्रियाणि श्रुत्वा हर्षाद् यद् यत् प्रयच्छति ।
हर्ष-दानम् इति प्राहुर् दानं धर्म-विचिन्तकाः ॥
इति । अयोध्याकाण्डे रामाभिषेक-प्रिय-वाक्य-शंसिने जनाय,
सा हिरण्यं च गाश् चैव रत्नानि विविधानि च ।
व्यादिदेश प्रियाख्येभ्यः कौसल्या प्रमदोत्तमा ।
तथा सुन्दरकाण्डे सीता-दर्शन-वृत्तान्तं कथयन्तं हनूमन्तं प्रति राम-वचनम् -
अहं च रघु-वंशश् च लक्ष्मणश् च महा-बलः ।
वैदेह्या दर्शनेनाद्य धर्मतः परिरक्षिताः ॥इदं तु मम दीनस्य मनो भूयः प्रकर्षति ।
यद् इहास्य प्रियाख्यातुर् न कुर्मि सदृशं प्रियम् ॥स एव सर्वं भूतस् तु परिष्वङ्गो हनूमतः ।
मया कालम् इमं प्राप्य दत्तश् चास्तु महात्मनः ॥इत्य् उक्त्वा प्रीति-हृष्टाङ्गो रामस् तं परिषस्वजे ।
हनूमन्तं महात्मानं कृत-कार्यम् उपागतम् ॥
तथा युद्धकाण्डे ऽपि रावण-वध-समनन्तरं श्री-राम-विजयं शंसन्तं हनूमन्तं प्रति सीता-वचनम् -
प्रियम् एतद् उपश्रुत्य भर्तुर् विजय-संश्रुतम् ।
प्रहर्ष-वशम् आपन्ना निर्वाक्यास्मि क्षणान्तरम् ॥न हि पश्यामि सदृशं चिन्तयन्ती प्लवंगम् ।
मत् प्रियाख्यानकस्येह तव प्रत्यभिनन्दनम् ॥न हि पश्यामि तत् सौम्य पृथिव्याम् अपि वानर ।
सदृशं मत्-प्रियाख्याने तव दातुं भवेत् समम् ॥हिरण्यं वा सुवर्णं वा रत्नानि विविधानि च ।
राज्यं वा त्रिषु लोकेषु नैतद् अर्हति भाषितम् ॥
इति । तत्रैवाग्रे रावण-वध-समनन्तरं विजयिनः श्री-राम-भद्रस्यागमनं कथयन्तम् आञ्जनेयं प्रति भरत-वचनम् -
देवो वा मानुषो वा त्वम् अनुक्रोशाद् इहागतः ।
प्रियाख्यानस्य ते सौम्य ददामि ब्रुवतः प्रियम् ॥गवां शत-सहस्रं च ग्रामाणां च शतं परम् ।
स-कुण्डलाः शुभाचारा भार्याः कन्याश् च षोडश ॥हेम-वर्णाः सु-नासोरूः शशि-सौम्याननाः स्त्रियः ।
सर्वाभरण-संपन्नाः संपन्नाः कुल-जातिभिः ॥
इति । एवं श्रौत-स्मार्त-उत्सव-योग्यः पुत्रोत्पत्ति-दिन-सदृशो ऽन्यो दिवसो नास्ति । किं बहुना, “पुत्रस् ते जातः” इति शब्दोच्चारणम् अपि प्रिय-सत्य-हित-रूपत्वात् वाङ्मय-तपो-रूपम् । तथा च गीतायाम् —
अनुद्वेग-करं वाक्यं सत्यं प्रिय-हितं च यत् ।
स्वाध्यायाभ्यसनं चैव वाङ्मयं तप उच्यते ॥
इति । भाष्य-कारा अपि सत्य-प्रिय-हित-वचनत्वेन “पुत्रस् ते जातः” इति वाक्यम् उदाजह्नुः । एतादृश-वाक्य-वक्तुर् अपि सर्वं देयम् इत्य्-आह कालिदासः -
जनाय शुद्धान्त-चराय शंसते कुमार-जन्मामृत-संमिताक्षरम् ।
अदेयम् आसीत् त्रयम् एव भूपतेः शशि-प्रभं छत्रम् उभे च चामरे ॥
इति । अतो दशरथेन दानानि दत्तानि, इतरैर् अपि पुत्र-जन्मन्य् एवम् आचरणीयम् इत्य् अयं धर्मः सूचितः ॥
विश्वास-प्रस्तुतिः
गायनैश्च विराविण्यो वादनैश्च तथापरैः ।
विरेजुर्विपुलास्तत्र सर्वरत्नसमन्विताः ॥ १९ ॥
मूलम्
गायनैश्च विराविण्यो वादनैश्च तथापरैः ।
विरेजुर्विपुलास्तत्र सर्वरत्नसमन्विताः ॥ १९ ॥
अनुवाद (हिन्दी)
वहाँ सब ओर गाने-बजानेवाले तथा दूसरे लोगोंके शब्द गूँज रहे थे । दीन-दुःखियोंके लिये लुटाये गये सब प्रकारके रत्न वहाँ बिखरे पड़े थे ॥ १९ ॥
विश्वास-प्रस्तुतिः
प्रदेयांश्च ददौ राजा सूतमागधवन्दिनाम् ।
ब्राह्मणेभ्यो ददौ वित्तं गोधनानि सहस्रशः ॥ २० ॥
मूलम्
प्रदेयांश्च ददौ राजा सूतमागधवन्दिनाम् ।
ब्राह्मणेभ्यो ददौ वित्तं गोधनानि सहस्रशः ॥ २० ॥
अनुवाद (हिन्दी)
राजा दशरथने सूत, मागध और वन्दीजनोंको देनेयोग्य पुरस्कार दिये तथा ब्राह्मणोंको धन एवं सहस्रों गोधन प्रदान किये ॥ २० ॥
विश्वास-प्रस्तुतिः
अतीत्यैकादशाहं तु नामकर्म तथाकरोत् ।
ज्येष्ठं रामं महात्मानं भरतं कैकयीसुतम् ॥ २१ ॥
सौमित्रिं लक्ष्मणमिति शत्रुघ्नमपरं तथा ।
वसिष्ठः परमप्रीतो नामानि कुरुते तदा ॥ २२ ॥
मूलम्
अतीत्यैकादशाहं तु नामकर्म तथाकरोत् ।
ज्येष्ठं रामं महात्मानं भरतं कैकयीसुतम् ॥ २१ ॥
सौमित्रिं लक्ष्मणमिति शत्रुघ्नमपरं तथा ।
वसिष्ठः परमप्रीतो नामानि कुरुते तदा ॥ २२ ॥
अनुवाद (हिन्दी)
ग्यारह दिन बीतनेपर महाराजने बालकोंका नामकरण-संस्कार किया* । उस समय महर्षि वसिष्ठने प्रसन्नताके साथ सबके नाम रखे । उन्होंने ज्येष्ठ पुत्रका नाम ‘राम’ रखा । श्रीराम महात्मा (परमात्मा) थे । कैकेयीकुमारका नाम भरत तथा सुमित्राके एक पुत्रका नाम लक्ष्मण और दूसरेका शत्रुघ्न निश्चित किया ॥ २१-२२ ॥
पादटिप्पनी
- रामायणतिलकके निर्माताने मूलके एकादशाह शब्दको सूतकके अन्तिम दिनका उपलक्षण माना है । उनका कहना है कि यदि ऐसा न माना जाय तो ‘क्षत्रियस्य द्वादशाहं सूतकम्’ (क्षत्रियको बारह दिनोंका सूतक लगता है) इस स्मृतिवाक्यसे विरोध होगा; अतः रामजन्मके बारह दिन बीत जानेके बाद तेरहवें दिन राजाने नामकरण-संस्कार किया—ऐसा मानना चाहिये ।
विश्वास-प्रस्तुतिः
ब्राह्मणान् भोजयामास पौरजानपदानपि ।
अददद् ब्राह्मणानां च रत्नौघममलं बहु ॥ २३ ॥
मूलम्
ब्राह्मणान् भोजयामास पौरजानपदानपि ।
अददद् ब्राह्मणानां च रत्नौघममलं बहु ॥ २३ ॥
मूलम् - त्र्यम्बकः
ब्राह्मणान् भोजयामास पौर-जानपदान् अपि ।
अददाद् ब्राह्मणानां च रत्नौघम् अमितं बहु ॥
अनुवाद (हिन्दी)
राजाने ब्राह्मणों, पुरवासियों तथा जनपदवासियोंको भी भोजन कराया । ब्राह्मणोंको बहुत-से उज्ज्वल रत्नसमूह दान किये ॥ २३ ॥
त्र्यम्बकः - धर्माकूतम्
अनेन नाम-कर्मण्य् अपि ब्राह्मण-पौर-जानपद-भोजनानि दानानि च कर्तव्यानि इति सूचितम् ॥
विश्वास-प्रस्तुतिः
तेषां जन्मक्रियादीनि सर्वकर्माण्यकारयत् ।
तेषां केतुरिव ज्येष्ठो रामो रतिकरः पितुः ॥ २४ ॥
मूलम्
तेषां जन्मक्रियादीनि सर्वकर्माण्यकारयत् ।
तेषां केतुरिव ज्येष्ठो रामो रतिकरः पितुः ॥ २४ ॥
अनुवाद (हिन्दी)
महर्षि वसिष्ठने समय-समयपर राजासे उन बालकोंके जातकर्म आदि सभी संस्कार करवाये थे । उन सबमें श्रीरामचन्द्रजी ज्येष्ठ होनेके साथ ही अपने कुलकी कीर्ति-ध्वजाको फहरानेवाली पताकाके समान थे । वे अपने पिताकी प्रसन्नताको बढ़ानेवाले थे ॥ २४ ॥
विश्वास-प्रस्तुतिः
बभूव भूयो भूतानां स्वयम्भूरिव सम्मतः ।
सर्वे वेदविदः शूराः सर्वे लोकहिते रताः ॥ २५ ॥
मूलम्
बभूव भूयो भूतानां स्वयम्भूरिव सम्मतः ।
सर्वे वेदविदः शूराः सर्वे लोकहिते रताः ॥ २५ ॥
अनुवाद (हिन्दी)
सभी भूतोंके लिये वे स्वयम्भू ब्रह्माजीके समान विशेष प्रिय थे । राजाके सभी पुत्र वेदोंके विद्वान् और शूरवीर थे । सब-के-सब लोकहितकारी कार्योंमें संलग्न रहते थे ॥ २५ ॥
विश्वास-प्रस्तुतिः
सर्वे ज्ञानोपसम्पन्नाः सर्वे समुदिता गुणैः ।
तेषामपि महातेजा रामः सत्यपराक्रमः ॥ २६ ॥
इष्टः सर्वस्य लोकस्य शशाङ्क इव निर्मलः ।
गजस्कन्धेऽश्वपृष्ठे च रथचर्यासु सम्मतः ॥ २७ ॥
धनुर्वेदे च निरतः पितुः शुश्रूषणे रतः ।
मूलम्
सर्वे ज्ञानोपसम्पन्नाः सर्वे समुदिता गुणैः ।
तेषामपि महातेजा रामः सत्यपराक्रमः ॥ २६ ॥
इष्टः सर्वस्य लोकस्य शशाङ्क इव निर्मलः ।
गजस्कन्धेऽश्वपृष्ठे च रथचर्यासु सम्मतः ॥ २७ ॥
धनुर्वेदे च निरतः पितुः शुश्रूषणे रतः ।
अनुवाद (हिन्दी)
सभी ज्ञानवान् और समस्त सद्गुणोंसे सम्पन्न थे । उनमें भी सत्यपराक्रमी श्रीरामचन्द्रजी सबसे अधिक तेजस्वी और सब लोगोंके विशेष प्रिय थे । वे निष्कलङ्क चन्द्रमाके समान शोभा पाते थे । उन्होंने हाथीके कंधे और घोड़ेकी पीठपर बैठने तथा रथ हाँकनेकी कलामें भी सम्मानपूर्ण स्थान प्राप्त किया था । वे सदा धनुर्वेदका अभ्यास करते और पिताजीकी सेवामें लगे रहते थे ॥
विश्वास-प्रस्तुतिः
बाल्यात् प्रभृति सुस्निग्धो लक्ष्मणो लक्ष्मिवर्धनः ॥ २८ ॥
रामस्य लोकरामस्य भ्रातुर्ज्येष्ठस्य नित्यशः ।
सर्वप्रियकरस्तस्य रामस्यापि शरीरतः ॥ २९ ॥
मूलम्
बाल्यात् प्रभृति सुस्निग्धो लक्ष्मणो लक्ष्मिवर्धनः ॥ २८ ॥
रामस्य लोकरामस्य भ्रातुर्ज्येष्ठस्य नित्यशः ।
सर्वप्रियकरस्तस्य रामस्यापि शरीरतः ॥ २९ ॥
अनुवाद (हिन्दी)
लक्ष्मीकी वृद्धि करनेवाले लक्ष्मण बाल्यावस्थासे ही श्रीरामचन्द्रजीके प्रति अत्यन्त अनुराग रखते थे । वे अपने बड़े भाई लोकाभिराम श्रीरामका सदा ही प्रिय करते थे और शरीरसे भी उनकी सेवामें ही जुटे रहते थे ॥
विश्वास-प्रस्तुतिः
लक्ष्मणो लक्ष्मिसम्पन्नो बहिःप्राण इवापरः ।
न च तेन विना निद्रां लभते पुरुषोत्तमः ॥ ३० ॥
मृष्टमन्नमुपानीतमश्नाति न हि तं विना ।
मूलम्
लक्ष्मणो लक्ष्मिसम्पन्नो बहिःप्राण इवापरः ।
न च तेन विना निद्रां लभते पुरुषोत्तमः ॥ ३० ॥
मृष्टमन्नमुपानीतमश्नाति न हि तं विना ।
अनुवाद (हिन्दी)
शोभासम्पन्न लक्ष्मण श्रीरामचन्द्रजीके लिये बाहर विचरनेवाले दूसरे प्राणके समान थे । पुरुषोत्तम श्रीरामको उनके बिना नींद भी नहीं आती थी । यदि उनके पास उत्तम भोजन लाया जाता तो श्रीरामचन्द्रजी उसमेंसे लक्ष्मणको दिये बिना नहीं खाते थे ॥ ३० १/२ ॥
विश्वास-प्रस्तुतिः
यदा हि हयमारूढो मृगयां याति राघवः ॥ ३१ ॥
अथैनं पृष्ठतोऽभ्येति सधनुः परिपालयन् ।
भरतस्यापि शत्रुघ्नो लक्ष्मणावरजो हि सः ॥ ३२ ॥
प्राणैः प्रियतरो नित्यं तस्य चासीत् तथा प्रियः ।
मूलम्
यदा हि हयमारूढो मृगयां याति राघवः ॥ ३१ ॥
अथैनं पृष्ठतोऽभ्येति सधनुः परिपालयन् ।
भरतस्यापि शत्रुघ्नो लक्ष्मणावरजो हि सः ॥ ३२ ॥
प्राणैः प्रियतरो नित्यं तस्य चासीत् तथा प्रियः ।
अनुवाद (हिन्दी)
जब श्रीरामचन्द्रजी घोड़ेपर चढ़कर शिकार खेलनेके लिये जाते, उस समय लक्ष्मण धनुष लेकर उनके शरीरकी रक्षा करते हुए पीछे-पीछे जाते थे । इसी प्रकार लक्ष्मणके छोटे भाई शत्रुघ्न भरतजीको प्राणोंसे भी अधिक प्रिय थे और वे भी भरतजीको सदा प्राणोंसे भी अधिक प्रिय मानते थे ॥ ३१-३२ १/२ ॥
विश्वास-प्रस्तुतिः
स चतुर्भिर्महाभागैः पुत्रैर्दशरथः प्रियैः ॥ ३३ ॥
बभूव परमप्रीतो देवैरिव पितामहः ।
मूलम्
स चतुर्भिर्महाभागैः पुत्रैर्दशरथः प्रियैः ॥ ३३ ॥
बभूव परमप्रीतो देवैरिव पितामहः ।
अनुवाद (हिन्दी)
इन चार महान् भाग्यशाली प्रिय पुत्रोंसे राजा दशरथको बड़ी प्रसन्नता प्राप्त होती थी, ठीक वैसे ही जैसे चार देवताओं (दिक्पालों) से ब्रह्माजीको प्रसन्नता होती है ॥ ३३ १/२ ॥
विश्वास-प्रस्तुतिः
ते यदा ज्ञानसम्पन्नाः सर्वे समुदिता गुणैः ॥ ३४ ॥
ह्रीमन्तः कीर्तिमन्तश्च सर्वज्ञा दीर्घदर्शिनः ।
तेषामेवम्प्रभावाणां सर्वेषां दीप्ततेजसाम् ॥ ३५ ॥
पिता दशरथो हृष्टो ब्रह्मा लोकाधिपो यथा ।
मूलम्
ते यदा ज्ञानसम्पन्नाः सर्वे समुदिता गुणैः ॥ ३४ ॥
ह्रीमन्तः कीर्तिमन्तश्च सर्वज्ञा दीर्घदर्शिनः ।
तेषामेवम्प्रभावाणां सर्वेषां दीप्ततेजसाम् ॥ ३५ ॥
पिता दशरथो हृष्टो ब्रह्मा लोकाधिपो यथा ।
अनुवाद (हिन्दी)
वे सब बालक जब समझदार हुए, तब समस्त सद्गुणोंसे सम्पन्न हो गये । वे सभी लज्जाशील, यशस्वी, सर्वज्ञ और दूरदर्शी थे । ऐसे प्रभावशाली और अत्यन्त तेजस्वी उन सभी पुत्रोंकी प्राप्तिसे राजा दशरथ लोकेश्वर ब्रह्माकी भाँति बहुत प्रसन्न थे ॥ ३४-३५ १/२ ॥
विश्वास-प्रस्तुतिः
ते चापि मनुजव्याघ्रा वैदिकाध्ययने रताः ॥ ३६ ॥
पितृशुश्रूषणरता धनुर्वेदे च निष्ठिताः ।
मूलम्
ते चापि मनुजव्याघ्रा वैदिकाध्ययने रताः ॥ ३६ ॥
पितृशुश्रूषणरता धनुर्वेदे च निष्ठिताः ।
अनुवाद (हिन्दी)
वे पुरुषसिंह राजकुमार प्रतिदिन वेदोंके स्वाध्याय, पिताकी सेवा तथा धनुर्वेदके अभ्यासमें दत्त-चित्त रहते थे ॥ ३६ १/२ ॥
त्र्यम्बकः - धर्माकूतम्
अनेन जात-कर्मादि-संस्कार-विशिष्टस्यैव वेदाध्ययनादि-सर्व-विद्याधिकार इति सूचितम् । राज्ञां तु विशेषतो विद्याधिगमो वृद्धोपसेवनं नीति-मार्गानुसारित्वं विनयोपपन्नत्वं चात्य्-आवश्यिकम् । तथा च कामन्दके —
शास्त्राय गुरु-संयोगः शास्त्रं विनय-वृद्धये ।
विद्या-विनीतो नृपतिर् न कृच्छ्रेष्व् अवसीदति ॥वृद्धोपसेवी नृपतिः सतां भवति संमतः ।
प्रेर्यमाणो ऽप्य् असद्-वृत्तैर् नाकार्येषु प्रवर्तते ॥आददानः प्रतिदिनं कलाः सम्यङ्-महीपतिः ।
शुक्ल-पक्षे प्रविचरञ् शशाङ्क इव वर्धते ॥जितेन्द्रियस्य नृपतेर् नीति-मार्गानुसारतः ।
भवन्त्य् उज्ज्वलिता लक्ष्म्यः कीर्त्तयश् च नभः-स्पृशः ॥गुरुस् तु विद्याधिगमाय सेव्यते श्रुता च विद्या मतये महात्मनाम् ।
श्रुतानुवर्तीनि मतानि वेधसामसंशयं साधु भवन्ति भूतये ॥भवति हि विनयोपबृंहितो नृपति-शमाय पदाय च क्षमः । सु-निपुणम् उपसेव्य सद्-गुरुं चिरम् अनुवृत्ति-परो विभूतये ॥
अविनय-रतम् आदराद् ऋते वशम् अवशं च नयन्ति विद्विषः । श्रुत-विनय-विधिः समाश्रितस् तनुर् अपि नैति पराभवं क्वचित् ॥
इति ।
विश्वास-प्रस्तुतिः
अथ राजा दशरथस्तेषां दारक्रियां प्रति ॥ ३७ ॥
चिन्तयामास धर्मात्मा सोपाध्यायः सबान्धवः ।
तस्य चिन्तयमानस्य मन्त्रिमध्ये महात्मनः ॥ ३८ ॥
अभ्यागच्छन्महातेजा विश्वामित्रो महामुनिः ।
मूलम्
अथ राजा दशरथस्तेषां दारक्रियां प्रति ॥ ३७ ॥
चिन्तयामास धर्मात्मा सोपाध्यायः सबान्धवः ।
तस्य चिन्तयमानस्य मन्त्रिमध्ये महात्मनः ॥ ३८ ॥
अभ्यागच्छन्महातेजा विश्वामित्रो महामुनिः ।
अनुवाद (हिन्दी)
एक दिन धर्मात्मा राजा दशरथ पुरोहित तथा बन्धु-बान्धवोंके साथ बैठकर पुत्रोंके विवाहके विषयमें विचार कर रहे थे । मन्त्रियोंके बीचमें विचार करते हुए उन महामनानरेशके यहाँ महातेजस्वी महामुनि विश्वामित्र पधारे ॥ ३७-३८ १/२ ॥
त्र्यम्बकः - धर्माकूतम्
अनेन विद्या-ग्रहणानन्तरं दार-क्रियेति सूचितम् । तथा च गौतमः —
विद्यान्ते गुरुर् अर्थेन निमन्त्र्य कृतानुज्ञातस्य वा स्नानम् ।
इति । याज्ञवल्क्यो ऽपि —
वेदान् अधीत्य वेदौ वा वेदं वापि यथा-क्रमम् ।
अविप्लुत-ब्रह्मचर्यो लक्षण्यां स्त्रियम् उद्वहेत् ॥
इति ।
विश्वास-प्रस्तुतिः
स राज्ञो दर्शनाकाङ्क्षी द्वाराध्यक्षानुवाच ह ॥ ३९ ॥
शीघ्रमाख्यात मां प्राप्तं कौशिकं गाधिनः सुतम् ।
मूलम्
स राज्ञो दर्शनाकाङ्क्षी द्वाराध्यक्षानुवाच ह ॥ ३९ ॥
शीघ्रमाख्यात मां प्राप्तं कौशिकं गाधिनः सुतम् ।
अनुवाद (हिन्दी)
वे राजासे मिलना चाहते थे । उन्होंने द्वारपालोंसे कहा—‘तुमलोग शीघ्र जाकर महाराजको यह सूचना दो कि कुशिकवंशी गाधिपुत्र विश्वामित्र आये हैं’ ॥ ३९ १/२ ॥
विश्वास-प्रस्तुतिः
तच्छ्रुत्वा वचनं तस्य राज्ञो वेश्म प्रदुद्रुवुः ॥ ४० ॥
सम्भ्रान्तमनसः सर्वे तेन वाक्येन चोदिताः ।
मूलम्
तच्छ्रुत्वा वचनं तस्य राज्ञो वेश्म प्रदुद्रुवुः ॥ ४० ॥
सम्भ्रान्तमनसः सर्वे तेन वाक्येन चोदिताः ।
अनुवाद (हिन्दी)
उनकी यह बात सुनकर वे द्वारपाल दौड़े हुए राजाके दरबारमें गये । वे सब विश्वामित्रके उस वाक्यसे प्रेरित होकर मन-ही-मन घबराये हुए थे ॥ ४० १/२ ॥
विश्वास-प्रस्तुतिः
ते गत्वा राजभवनं विश्वामित्रमृषिं तदा ॥ ४१ ॥
प्राप्तमावेदयामासुर्नृपायेक्ष्वाकवे तदा ।
मूलम्
ते गत्वा राजभवनं विश्वामित्रमृषिं तदा ॥ ४१ ॥
प्राप्तमावेदयामासुर्नृपायेक्ष्वाकवे तदा ।
अनुवाद (हिन्दी)
राजाके दरबारमें पहुँचकर उन्होंने इक्ष्वाकुकुल-नन्दन अवधनरेशसे कहा—‘महाराज! महर्षि विश्वामित्र पधारे हैं’ ॥ ४१ १/२ ॥
विश्वास-प्रस्तुतिः
तेषां तद् वचनं श्रुत्वा सपुरोधाः समाहितः ॥ ४२ ॥
प्रत्युज्जगाम संहृष्टो ब्रह्माणमिव वासवः ।
मूलम्
तेषां तद् वचनं श्रुत्वा सपुरोधाः समाहितः ॥ ४२ ॥
प्रत्युज्जगाम संहृष्टो ब्रह्माणमिव वासवः ।
अनुवाद (हिन्दी)
उनकी वह बात सुनकर राजा सावधान हो गये । उन्होंने पुरोहितको साथ लेकर बड़े हर्षके साथ उनकी अगवानी की, मानो देवराज इन्द्र ब्रह्माजीका स्वागत कर रहे हों ॥ ४२ १/२ ॥
विश्वास-प्रस्तुतिः
स दृष्ट्वा ज्वलितं दीप्त्या तापसं संशितव्रतम् ॥ ४३ ॥
प्रहृष्टवदनो राजा ततोऽर्घ्यमुपहारयत् ।
मूलम्
स दृष्ट्वा ज्वलितं दीप्त्या तापसं संशितव्रतम् ॥ ४३ ॥
प्रहृष्टवदनो राजा ततोऽर्घ्यमुपहारयत् ।
अनुवाद (हिन्दी)
विश्वामित्रजी कठोर व्रतका पालन करनेवाले तपस्वी थे । वे अपने तेजसे प्रज्वलित हो रहे थे । उनका दर्शन करके राजाका मुख प्रसन्नतासे खिल उठा और उन्होंने महर्षिको अर्घ्य निवेदन किया ॥ ४३ १/२ ॥
विश्वास-प्रस्तुतिः
स राज्ञः प्रतिगृह्यार्घ्यं शास्त्रदृष्टेन कर्मणा ॥ ४४ ॥
कुशलं चाव्ययं चैव पर्यपृच्छन्नराधिपम् ।
मूलम्
स राज्ञः प्रतिगृह्यार्घ्यं शास्त्रदृष्टेन कर्मणा ॥ ४४ ॥
कुशलं चाव्ययं चैव पर्यपृच्छन्नराधिपम् ।
अनुवाद (हिन्दी)
राजाका वह अर्घ्य शास्त्रीय विधिके अनुसार स्वीकार करके महर्षिने उनसे कुशल-मंगल पूछा ॥ ४४ १/२ ॥
विश्वास-प्रस्तुतिः
पुरे कोशे जनपदे बान्धवेषु सुहृत्सु च ॥ ४५ ॥
कुशलं कौशिको राज्ञः पर्यपृच्छत् सुधार्मिकः ।
मूलम्
पुरे कोशे जनपदे बान्धवेषु सुहृत्सु च ॥ ४५ ॥
कुशलं कौशिको राज्ञः पर्यपृच्छत् सुधार्मिकः ।
अनुवाद (हिन्दी)
धर्मात्मा विश्वामित्रने क्रमशः राजाके नगर, खजाना, राज्य, बन्धु-बान्धव तथा मित्रवर्ग आदिके विषयमें कुशल प्रश्न किया— ॥ ४५ १/२ ॥
विश्वास-प्रस्तुतिः
अपि ते सन्नताः सर्वे सामन्तरिपवो जिताः ॥ ४६ ॥
दैवं च मानुषं चैव कर्म ते साध्वनुष्ठितम् ।
मूलम्
अपि ते सन्नताः सर्वे सामन्तरिपवो जिताः ॥ ४६ ॥
दैवं च मानुषं चैव कर्म ते साध्वनुष्ठितम् ।
अनुवाद (हिन्दी)
‘राजन् आपके राज्यकी सीमाके निकट रहनेवाले शत्रु राजा आपके समक्ष नतमस्तक तो हैं? आपने उनपर विजय तो प्राप्त की है न? आपके यज्ञयाग आदि देवकर्म और अतिथि-सत्कार आदि मनुष्यकर्म तो अच्छी तरह सम्पन्न होते हैं न?’ ॥ ४६ १/२ ॥
विश्वास-प्रस्तुतिः
वसिष्ठं च समागम्य कुशलं मुनिपुङ्गवः ॥ ४७ ॥
ऋषींश्च तान् यथान्यायं महाभाग उवाच ह ।
मूलम्
वसिष्ठं च समागम्य कुशलं मुनिपुङ्गवः ॥ ४७ ॥
ऋषींश्च तान् यथान्यायं महाभाग उवाच ह ।
मूलम् - त्र्यम्बकः
ऋषींश् चान्यान् यथान्यायं महाभागान् उवाच ह ।
अनुवाद (हिन्दी)
इसके बाद महाभाग मुनिवर विश्वामित्रने वसिष्ठजी तथा अन्यान्य ऋषियोंसे मिलकर उन सबका यथावत् कुशल-समाचार पूछा ॥ ४७ १/२ ॥
विश्वास-प्रस्तुतिः
ते सर्वे हृष्टमनसस्तस्य राज्ञो निवेशनम् ॥ ४८ ॥
विविशुः पूजितास्तेन निषेदुश्च यथार्हतः ।
मूलम्
ते सर्वे हृष्टमनसस्तस्य राज्ञो निवेशनम् ॥ ४८ ॥
विविशुः पूजितास्तेन निषेदुश्च यथार्हतः ।
अनुवाद (हिन्दी)
फिर वे सब लोग प्रसन्नचित्त होकर राजाके दरबारमें गये और उनके द्वारा पूजित हो यथायोग्य आसनोंपर बैठे ॥
विश्वास-प्रस्तुतिः
अथ हृष्टमना राजा विश्वामित्रं महामुनिम् ॥ ४९ ॥
उवाच परमोदारो हृष्टस्तमभिपूजयन् ।
मूलम्
अथ हृष्टमना राजा विश्वामित्रं महामुनिम् ॥ ४९ ॥
उवाच परमोदारो हृष्टस्तमभिपूजयन् ।
अनुवाद (हिन्दी)
तदनन्तर प्रसन्नचित्त परम उदार राजा दशरथने पुलकित होकर महामुनि विश्वामित्रकी प्रशंसा करते हुए कहा— ॥ ४९ १/२ ॥
विश्वास-प्रस्तुतिः
यथामृतस्य सम्प्राप्तिर्यथा वर्षमनूदके ॥ ५० ॥
यथा सदृशदारेषु पुत्रजन्माप्रजस्य वै ।
प्रणष्टस्य यथा लाभो यथा हर्षो महोदयः ॥ ५१ ॥
तथैवागमनं मन्ये स्वागतं ते महामुने ।
कं च ते परमं कामं करोमि किमु हर्षितः ॥ ५२ ॥
मूलम्
यथामृतस्य सम्प्राप्तिर्यथा वर्षमनूदके ॥ ५० ॥
यथा सदृशदारेषु पुत्रजन्माप्रजस्य वै ।
प्रणष्टस्य यथा लाभो यथा हर्षो महोदयः ॥ ५१ ॥
तथैवागमनं मन्ये स्वागतं ते महामुने ।
कं च ते परमं कामं करोमि किमु हर्षितः ॥ ५२ ॥
मूलम् - त्र्यम्बकः
यथा सदृश-दारेषु पुत्र-जन्म प्रशस्यते ।
प्रनष्टस्य यथा लाभो यथा हर्षो महोदयः ॥
अनुवाद (हिन्दी)
‘महामुने! जैसे किसी मरणधर्मा मनुष्यको अमृतकी प्राप्ति हो जाय, निर्जल प्रदेशमें पानी बरस जाय, किसी संतानहीनको अपने अनुरूप पत्नीके गर्भसे पुत्र प्राप्त हो जाय, खोयी हुई निधि मिल जाय तथा किसी महान् उत्सवसे हर्षका उदय हो, उसी प्रकार आपका यहाँ शुभागमन हुआ है । ऐसा मैं मानता हूँ । आपका स्वागत है । आपके मनमें कौन-सी उत्तम कामना है, जिसको मैं हर्षके साथ पूर्ण करूँ? ॥ ५०—५२ ॥
विश्वास-प्रस्तुतिः
पात्रभूतोऽसि मे ब्रह्मन् दिष्ट्या प्राप्तोऽसि मानद ।
अद्य मे सफलं जन्म जीवितं च सुजीवितम् ॥ ५३ ॥
मूलम्
पात्रभूतोऽसि मे ब्रह्मन् दिष्ट्या प्राप्तोऽसि मानद ।
अद्य मे सफलं जन्म जीवितं च सुजीवितम् ॥ ५३ ॥
मूलम् - त्र्यम्बकः
पात्र-भूतो ऽसि मे ब्रह्मन् दिष्ट्या प्राप्तो ऽसि धार्मिक ।
अद्य मे सफलं जन्म जीवितं च सु-जीवितम् ॥
अनुवाद (हिन्दी)
‘ब्रह्मन्! आप मुझसे सब प्रकारकी सेवा लेने योग्य उत्तम पात्र हैं । मानद! मेरा अहोभाग्य है, जो आपने यहाँतक पधारनेका कष्ट उठाया । आज मेरा जन्म सफल और जीवन धन्य हो गया ॥ ५३ ॥
विश्वास-प्रस्तुतिः
यस्माद् विप्रेन्द्रमद्राक्षं सुप्रभाता निशा मम ।
पूर्वं राजर्षिशब्देन तपसा द्योतितप्रभः ॥ ५४ ॥
ब्रह्मर्षित्वमनुप्राप्तः पूज्योऽसि बहुधा मया ।
तदद्भुतमभूद् विप्र पवित्रं परमं मम ॥ ५५ ॥
मूलम्
यस्माद् विप्रेन्द्रमद्राक्षं सुप्रभाता निशा मम ।
पूर्वं राजर्षिशब्देन तपसा द्योतितप्रभः ॥ ५४ ॥
ब्रह्मर्षित्वमनुप्राप्तः पूज्योऽसि बहुधा मया ।
तदद्भुतमभूद् विप्र पवित्रं परमं मम ॥ ५५ ॥
मूलम् - त्र्यम्बकः
तद् अद्भुतम् इदं विप्र पवित्रं परमं मम ।
शुभ-क्षेत्र-गतश् चाहं तव संदर्शनात् प्रभो ॥
अनुवाद (हिन्दी)
‘मेरी बीती हुई रात सुन्दर प्रभात दे गयी, जिससे मैंने आज आप ब्राह्मणशिरोमणिका दर्शन किया । पूर्वकालमें आप राजर्षि शब्दसे उपलक्षित होते थे, फिर तपस्यासे अपनी अद्भुत प्रभाको प्रकाशित करके आपने ब्रह्मर्षिका पद पाया; अतः आप राजर्षि और ब्रह्मर्षि दोनों ही रूपोंमें मेरे पूजनीय हैं । आपका जो यहाँ मेरे समक्ष शुभागमन हुआ है, यह परम पवित्र और अद्भुत है ॥
विश्वास-प्रस्तुतिः
शुभक्षेत्रगतश्चाहं तव सन्दर्शनात् प्रभो ।
ब्रूहि यत् प्रार्थितं तुभ्यं कार्यमागमनं प्रति ॥ ५६ ॥
मूलम्
शुभक्षेत्रगतश्चाहं तव सन्दर्शनात् प्रभो ।
ब्रूहि यत् प्रार्थितं तुभ्यं कार्यमागमनं प्रति ॥ ५६ ॥
अनुवाद (हिन्दी)
‘‘प्रभो! आपके दर्शनसे आज मेरा घर तीर्थ हो गया । मैं अपने-आपको पुण्यक्षेत्रोंकी यात्रा करके आया हुआ मानता हूँ । बताइये, आप क्या चाहते हैं? आपके शुभागमनका शुभ उद्देश्य क्या है? ॥ ५६ ॥
विश्वास-प्रस्तुतिः
इच्छाम्यनुगृहीतोऽहं त्वदर्थं परिवृद्धये ।
कार्यस्य न विमर्शं च गन्तुमर्हसि सुव्रत ॥ ५७ ॥
मूलम्
इच्छाम्यनुगृहीतोऽहं त्वदर्थं परिवृद्धये ।
कार्यस्य न विमर्शं च गन्तुमर्हसि सुव्रत ॥ ५७ ॥
मूलम् - त्र्यम्बकः
च्छाम्य् अनुगृहीतो ऽहं त्वद्-अर्थ-परिवृद्धये ॥ कार्यस्य न विमर्शं च गन्तुम् अर्हसि कौशिक ।
अनुवाद (हिन्दी)
‘उत्तम व्रतका पालन करनेवाले महर्षे! मैं चाहता हूँ कि आपकी कृपासे अनुगृहीत होकर आपके अभीष्ट मनोरथको जान लूँ और अपने अभ्युदयके लिये उसकी पूर्ति करूँ । ‘कार्य सिद्ध होगा या नहीं’ ऐसे संशयको अपने मनमें स्थान न दीजिये ॥ ५७ ॥
विश्वास-प्रस्तुतिः
कर्ता चाहमशेषेण दैवतं हि भवान् मम ।
मम चायमनुप्राप्तो महानभ्युदयो द्विज ।
तवागमनजः कृत्स्नो धर्मश्चानुत्तमो द्विज ॥ ५८ ॥
मूलम्
कर्ता चाहमशेषेण दैवतं हि भवान् मम ।
मम चायमनुप्राप्तो महानभ्युदयो द्विज ।
तवागमनजः कृत्स्नो धर्मश्चानुत्तमो द्विज ॥ ५८ ॥
अनुवाद (हिन्दी)
‘आप जो भी आज्ञा देंगे, मैं उसका पूर्णरूपसे पालन करूँगा; क्योंकि सम्माननीय अतिथि होनेके नाते आप मुझ गृहस्थके लिये देवता हैं । ब्रह्मन्! आज आपके आगमनसे मुझे सम्पूर्ण धर्मोंका उत्तम फल प्राप्त हो गया । यह मेरे महान् अभ्युदयका अवसर आया है’ ॥ ५८ ॥
विश्वास-प्रस्तुतिः
इति हृदयसुखं निशम्य वाक्यं
श्रुतिसुखमात्मवता विनीतमुक्तम् ।
प्रथितगुणयशा गुणैर्विशिष्टः
परमऋषिः परमं जगाम हर्षम् ॥ ५९ ॥
मूलम्
इति हृदयसुखं निशम्य वाक्यं
श्रुतिसुखमात्मवता विनीतमुक्तम् ।
प्रथितगुणयशा गुणैर्विशिष्टः
परमऋषिः परमं जगाम हर्षम् ॥ ५९ ॥
अनुवाद (हिन्दी)
मनस्वी नरेशके कहे हुए ये विनययुक्त वचन, जो हृदय और कानोंको सुख देनेवाले थे, सुनकर विख्यात गुण और यशवाले, शम-दम आदि सद्गुणोंसे सम्पन्न महर्षि विश्वामित्र बहुत प्रसन्न हुए ॥ ५९ ॥
त्र्यम्बकः - धर्माकूतम्
अत्र सकल-गुणाभिरामस्य रामस्य दार-क्रियां चिन्तयन्तं दशरथं प्रति विश्वामित्रागमनम् “अव्याक्षेपो भविष्यन्त्याः कार्य-सिद्धेर् हि लक्षणम्” इति स्मरणात् चिन्ता-समये महतामाकस्मिक-प्राप्तिः चिन्तितार्थ-प्रदेति सूचयति । तदागमन-समनन्तरं च तत्-कृताभ्युद्गमनासनार्घ्य-प्रदानाभीष्ट-दानं प्रतिज्ञाभिर् अन्येषाम् अपि महद्-आगमने एवं कर्तव्यता सूचिता ।
समाप्तिः
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डेऽष्टादशः सर्गः ॥ १८ ॥
इस प्रकार श्रीवाल्मीकिनिर्मित आर्षरामायण आदिकाव्यके बालकाण्डमें अठारहवाँ सर्ग पूरा हुआ ॥ १८ ॥