०१३ यज्ञशाला-प्रवेशः

वाचनम्
भागसूचना
  1. राजाका वसिष्ठजीसे यज्ञकी तैयारीके लिये अनुरोध, वसिष्ठजीद्वारा इसके लिये सेवकोंकी नियुक्ति और सुमन्त्रको राजाओंको बुलानेके लिये आदेश, समागत राजाओंका सत्कार तथा पत्नियोंसहित राजा दशरथका यज्ञकी दीक्षा लेना
त्र्यम्बकः - धर्माकूतम्

त्रयोदशे सर्गे-

विश्वास-प्रस्तुतिः

पुनः प्राप्ते वसन्ते तु पूर्णः संवत्सरोऽभवत् ।
प्रसवार्थं गतो यष्टुं हयमेधेन वीर्यवान् ॥ १ ॥

मूलम्

पुनः प्राप्ते वसन्ते तु पूर्णः संवत्सरोऽभवत् ।
प्रसवार्थं गतो यष्टुं हयमेधेन वीर्यवान् ॥ १ ॥

अनुवाद (हिन्दी)

वर्तमान वसन्त ऋतुके बीतनेपर जब पुनः दूसरा वसन्त आया, तबतक एक वर्षका समय पूरा हो गया । उस समय शक्तिशाली राजा दशरथ संतानके लिये अश्वमेध यज्ञकी दीक्षा लेनेके निमित्त वसिष्ठजीके समीप गये ॥

विश्वास-प्रस्तुतिः

अभिवाद्य वसिष्ठं च न्यायतः प्रतिपूज्य च ।
अब्रवीत् प्रश्रितं वाक्यं प्रसवार्थं द्विजोत्तमम् ॥ २ ॥

मूलम्

अभिवाद्य वसिष्ठं च न्यायतः प्रतिपूज्य च ।
अब्रवीत् प्रश्रितं वाक्यं प्रसवार्थं द्विजोत्तमम् ॥ २ ॥

मूलम् - त्र्यम्बकः

अभिवाद्य वसिष्ठं च न्यायतः प्रतिपूज्य च ।
अब्रवीत् प्रश्रितं वाक्यं प्रसवार्थं द्विजोत्तमः ॥

अनुवाद (हिन्दी)

वसिष्ठजीको प्रणाम करके राजाने न्यायतः उनका पूजन किया और पुत्र-प्राप्तिका उद्देश्य लेकर उन द्विजश्रेष्ठ मुनिसे यह विनययुक्त बात कही ॥ २ ॥

विश्वास-प्रस्तुतिः

यज्ञो मे क्रियतां ब्रह्मन् यथोक्तं मुनिपुङ्गव ।
यथा न विघ्नाः क्रियन्ते यज्ञाङ्गेषु विधीयताम् ॥ ३ ॥

मूलम्

यज्ञो मे क्रियतां ब्रह्मन् यथोक्तं मुनिपुङ्गव ।
यथा न विघ्नाः क्रियन्ते यज्ञाङ्गेषु विधीयताम् ॥ ३ ॥

मूलम् - त्र्यम्बकः

यत्नो मे क्रियतां ब्रह्मन् यथोक्तं मुनिपुंगव ।
यथा न विघ्नः क्रियते यज्ञाङ्गेषु विधीयताम् ॥

अनुवाद (हिन्दी)

‘ब्रह्मन्! मुनिप्रवर! आप शास्त्रविधिके अनुसार मेरा यज्ञ करावें और यज्ञके अंगभूत अश्व-संचारण आदिमें ब्रह्मराक्षस आदि जिस तरह विघ्न न डाल सकें, वैसा उपाय कीजिये ॥ ३ ॥

विश्वास-प्रस्तुतिः

भवान् स्निग्धः सुहृन्मह्यं गुरुश्च परमो महान् ।
वोढव्यो भवता चैव भारो यज्ञस्य चोद्यतः ॥ ४ ॥

मूलम्

भवान् स्निग्धः सुहृन्मह्यं गुरुश्च परमो महान् ।
वोढव्यो भवता चैव भारो यज्ञस्य चोद्यतः ॥ ४ ॥

मूलम् - त्र्यम्बकः

भवान् स्निग्धः सुहृन् मह्यं गुरुश् च परमो भवान् ।
वोढव्यो भवता चेह भारो यज्ञस्य चोद्यतः ॥

अनुवाद (हिन्दी)

‘आपका मुझपर विशेष स्नेह है, आप मेरे सुहृद्—अकारण हितैषी, गुरु और परम महान् हैं । यह जो यज्ञका भार उपस्थित हुआ है, इसको आप ही वहन कर सकते हैं’ ॥ ४ ॥

त्र्यम्बकः - धर्माकूतम्

अनेन यज्ञादि-महा-कर्मारम्भे नूतनेषु ऋत्विक्षु सत्स्व् अपि प्राचीन एव सर्वज्ञे आस्तिके महा-ब्राह्मणे भारं विनिक्षिप्य तद्-वचनानुसारेण कर्म कर्तव्यम् इति सूचितम् ॥

विश्वास-प्रस्तुतिः

तथेति च स राजानमब्रवीद् द्विजसत्तमः ।
करिष्ये सर्वमेवैतद् भवता यत् समर्थितम् ॥ ५ ॥

मूलम्

तथेति च स राजानमब्रवीद् द्विजसत्तमः ।
करिष्ये सर्वमेवैतद् भवता यत् समर्थितम् ॥ ५ ॥

अनुवाद (हिन्दी)

तब ‘बहुत अच्छा’ कहकर विप्रवर वसिष्ठ मुनि राजासे इस प्रकार बोले—‘नरेश्वर! तुमने जिसके लिये प्रार्थना की है, वह सब मैं करूँगा’ ॥ ५ ॥

विश्वास-प्रस्तुतिः

ततोऽब्रवीद् द्विजान् वृद्धान् यज्ञकर्मसुनिष्ठितान् ।
स्थापत्ये निष्ठितांश्चैव वृद्धान् परमधार्मिकान् ॥ ६ ॥
कर्मान्तिकान् शिल्पकारान् वर्धकीन् खनकानपि ।
गणकान् शिल्पिनश्चैव तथैव नटनर्तकान् ॥ ७ ॥
तथा शुचीन् शास्त्रविदः पुरुषान् सुबहुश्रुतान् ।
यज्ञकर्म समीहन्तां भवन्तो राजशासनात् ॥ ८ ॥

तदनन्तर वसिष्ठजीने यज्ञसम्बन्धी कर्मोंमें निपुण तथा यज्ञविषयक शिल्पकर्ममें कुशल, परम धर्मात्मा, बूढ़े ब्राह्मणों, यज्ञकर्म समाप्त होनेतक उसमें सेवा करनेवाले सेवकों, शिल्पकारों, बढ़इयों, भूमि खोदनेवालों, ज्योतिषियों, कारीगरों, नटों, नर्तकों, विशुद्ध शास्त्रवेत्ताओं तथा बहुश्रुत पुरुषोंको बुलाकर उनसे कहा—‘तुमलोग महाराजकी आज्ञासे यज्ञकर्मके लिये आवश्यक प्रबन्ध करो ॥

विश्वास-प्रस्तुतिः

इष्टका बहुसाहस्री शीघ्रमानीयतामिति ।
उपकार्याः क्रियन्तां च राज्ञो बहुगुणान्विताः ॥ ९ ॥

मूलम्

इष्टका बहुसाहस्री शीघ्रमानीयतामिति ।
उपकार्याः क्रियन्तां च राज्ञो बहुगुणान्विताः ॥ ९ ॥

अनुवाद (हिन्दी)

‘शीघ्र ही कई हजार ईंटें लायी जायँ । राजाओंके ठहरनेके लिये उनके योग्य अन्न-पान आदि अनेक उपकरणोंसे युक्त बहुत-से महल बनाये जायँ ॥ ९ ॥

विश्वास-प्रस्तुतिः

ब्राह्मणावसथाश्चैव कर्तव्याः शतशः शुभाः ।
भक्ष्यान्नपानैर्बहुभिः समुपेताः सुनिष्ठिताः ॥ १० ॥

मूलम्

ब्राह्मणावसथाश्चैव कर्तव्याः शतशः शुभाः ।
भक्ष्यान्नपानैर्बहुभिः समुपेताः सुनिष्ठिताः ॥ १० ॥

अनुवाद (हिन्दी)

‘ब्राह्मणोंके रहनेके लिये भी सैकड़ों सुन्दर घर बनाये जाने चाहिये । वे सभी गृह बहुत-से भोजनीय अन्न-पान आदि उपकरणोंसे युक्त तथा आँधी-पानी आदिके निवारणमें समर्थ हों ॥ १० ॥

विश्वास-प्रस्तुतिः

तथा पौरजनस्यापि कर्तव्याश्च सुविस्तराः ।
आगतानां सुदूराच्च पार्थिवानां पृथक् पृथक् ॥ ११ ॥

मूलम्

तथा पौरजनस्यापि कर्तव्याश्च सुविस्तराः ।
आगतानां सुदूराच्च पार्थिवानां पृथक् पृथक् ॥ ११ ॥

अनुवाद (हिन्दी)

‘इसी तरह पुरवासियोंके लिये भी विस्तृत मकान बनने चाहिये । दूरसे आये हुए भूपालोंके लिये पृथक्-पृथक् महल बनाये जायँ ॥ ११ ॥

विश्वास-प्रस्तुतिः

वाजिवारणशालाश्च तथा शय्यागृहाणि च ।
भटानां महदावासा वैदेशिकनिवासिनाम् ॥ १२ ॥

मूलम्

वाजिवारणशालाश्च तथा शय्यागृहाणि च ।
भटानां महदावासा वैदेशिकनिवासिनाम् ॥ १२ ॥

अनुवाद (हिन्दी)

‘घोड़े और हाथियोंके लिये भी शालाएँ बनायी जायँ । साधारण लोगोंके सोनेके लिये भी घरोंकी व्यवस्था हो । विदेशी सैनिकोंके लिये भी बड़ी-बड़ी छावनियाँ बननी चाहिये ॥ १२ ॥

विश्वास-प्रस्तुतिः

आवासा बहुभक्ष्या वै सर्वकामैरुपस्थिताः ।
तथा पौरजनस्यापि जनस्य बहुशोभनम् ॥ १३ ॥
दातव्यमन्नं विधिवत् सत्कृत्य न तु लीलया ।

मूलम्

आवासा बहुभक्ष्या वै सर्वकामैरुपस्थिताः ।
तथा पौरजनस्यापि जनस्य बहुशोभनम् ॥ १३ ॥
दातव्यमन्नं विधिवत् सत्कृत्य न तु लीलया ।

अनुवाद (हिन्दी)

‘जो घर बनाये जायँ, उनमें खाने-पीनेकी प्रचुर सामग्री संचित रहे । उनमें सभी मनोवांछित पदार्थ सुलभ हों तथा नगरवासियोंको भी बहुत सुन्दर अन्न भोजनके लिये देना चाहिये । वह भी विधिवत् सत्कारपूर्वक दिया जाय, अवहेलना करके नहीं ॥ १३ १/२ ॥

विश्वास-प्रस्तुतिः

सर्वे वर्णा यथा पूजां प्राप्नुवन्ति सुसत्कृताः ॥ १४ ॥
न चावज्ञा प्रयोक्तव्या कामक्रोधवशादपि ।

मूलम्

सर्वे वर्णा यथा पूजां प्राप्नुवन्ति सुसत्कृताः ॥ १४ ॥
न चावज्ञा प्रयोक्तव्या कामक्रोधवशादपि ।

अनुवाद (हिन्दी)

‘ऐसी व्यवस्था होनी चाहिये, जिससे सभी वर्णके लोग भलीभाँति सत्कृत हो सम्मान प्राप्त करें । काम और क्रोधके वशीभूत होकर भी किसीका अनादर नहीं करना चाहिये ॥

विश्वास-प्रस्तुतिः

यज्ञकर्मसु ये व्यग्राः पुरुषाः शिल्पिनस्तथा ॥ १५ ॥
तेषामपि विशेषेण पूजा कार्या यथाक्रमम् ।

मूलम्

यज्ञकर्मसु ये व्यग्राः पुरुषाः शिल्पिनस्तथा ॥ १५ ॥
तेषामपि विशेषेण पूजा कार्या यथाक्रमम् ।

अनुवाद (हिन्दी)

‘जो शिल्पी मनुष्य यज्ञकर्मकी आवश्यक तैयारीमें लगे हों, उनका तो बड़े-छोटेका खयाल रखकर विशेषरूपसे समादर करना चाहिये ॥ १५ १/२ ॥

विश्वास-प्रस्तुतिः

ये स्युः सम्पूजिताः सर्वे वसुभिर्भोजनेन च ॥ १६ ॥
यथा सर्वं सुविहितं न किञ्चित् परिहीयते ।
तथा भवन्तः कुर्वन्तु प्रीतियुक्तेन चेतसा ॥ १७ ॥

मूलम्

ये स्युः सम्पूजिताः सर्वे वसुभिर्भोजनेन च ॥ १६ ॥
यथा सर्वं सुविहितं न किञ्चित् परिहीयते ।
तथा भवन्तः कुर्वन्तु प्रीतियुक्तेन चेतसा ॥ १७ ॥

अनुवाद (हिन्दी)

‘जो सेवक या कारीगर धन और भोजन आदिके द्वारा सम्मानित किये जाते हैं, वे सब परिश्रमपूर्वक कार्य करते हैं । उनका किया हुआ सारा कार्य सुन्दर ढंगसे सम्पन्न होता है । उनका कोई काम बिगड़ने नहीं पाता; अतः तुम सब लोग प्रसन्नचित्त होकर ऐसा ही करो’ ॥

विश्वास-प्रस्तुतिः

ततः सर्वे समागम्य वसिष्ठमिदमब्रुवन् ।
यथेष्टं तत् सुविहितं न किञ्चित् परिहीयते ॥ १८ ॥
यथोक्तं तत् करिष्यामो न किञ्चित् परिहास्यते ।

मूलम्

ततः सर्वे समागम्य वसिष्ठमिदमब्रुवन् ।
यथेष्टं तत् सुविहितं न किञ्चित् परिहीयते ॥ १८ ॥
यथोक्तं तत् करिष्यामो न किञ्चित् परिहास्यते ।

अनुवाद (हिन्दी)

तब वे सब लोग वसिष्ठजीसे मिलकर बोले—‘आपको जैसा अभीष्ट है, उसके अनुसार ही करनेके लिये अच्छी व्यवस्था की जायगी । कोई भी काम बिगड़ने नहीं पायेगा । आपने जैसा कहा है, हमलोग वैसा ही करेंगे । उसमें कोई त्रुटि नहीं आने देंगे’ ॥ १८ १/२ ॥

विश्वास-प्रस्तुतिः

ततः सुमन्त्रमाहूय वसिष्ठो वाक्यमब्रवीत् ॥ १९ ॥
निमन्त्रयस्व नृपतीन् पृथिव्यां ये च धार्मिकाः ।
ब्राह्मणान् क्षत्रियान् वैश्यान् शूद्रांश्चैव सहस्रशः ॥ २० ॥

मूलम्

ततः सुमन्त्रमाहूय वसिष्ठो वाक्यमब्रवीत् ॥ १९ ॥
निमन्त्रयस्व नृपतीन् पृथिव्यां ये च धार्मिकाः ।
ब्राह्मणान् क्षत्रियान् वैश्यान् शूद्रांश्चैव सहस्रशः ॥ २० ॥

अनुवाद (हिन्दी)

तदनन्तर वसिष्ठजीने सुमन्त्रको बुलाकर कहा—‘इस पृथ्वीपर जो-जो धार्मिक राजा, ब्राह्मण, क्षत्रिय, वैश्य और सहस्रों शूद्र हैं, उन सबको इस यज्ञमें आनेके लिये निमन्त्रित करो ॥ २० ॥

विश्वास-प्रस्तुतिः

समानयस्व सत्कृत्य सर्वदेशेषु मानवान् ।
मिथिलाधिपतिं शूरं जनकं सत्यवादिनम् ॥ २१ ॥
तमानय महाभागं स्वयमेव सुसत्कृतम् ।
पूर्वं सम्बन्धिनं ज्ञात्वा ततः पूर्वं ब्रवीमि ते ॥ २२ ॥

मूलम्

समानयस्व सत्कृत्य सर्वदेशेषु मानवान् ।
मिथिलाधिपतिं शूरं जनकं सत्यवादिनम् ॥ २१ ॥
तमानय महाभागं स्वयमेव सुसत्कृतम् ।
पूर्वं सम्बन्धिनं ज्ञात्वा ततः पूर्वं ब्रवीमि ते ॥ २२ ॥

अनुवाद (हिन्दी)

‘सब देशोंके अच्छे लोगोंको सत्कारपूर्वक यहाँ ले आओ । मिथिलाके स्वामी शूरवीर महाभाग जनक सत्यवादी नरेश हैं । उनको अपना पुराना सम्बन्धी जानकर तुम स्वयं ही जाकर उन्हें बड़े आदर-सत्कारके साथ यहाँ ले आओ; इसीलिये पहले तुम्हें यह बात बता देता हूँ ॥ २१-२२ ॥

विश्वास-प्रस्तुतिः

तथा काशिपतिं स्निग्धं सततं प्रियवादिनम् ।
सद‍्वृत्तं देवसङ्काशं स्वयमेवानयस्व ह ॥ २३ ॥

मूलम्

तथा काशिपतिं स्निग्धं सततं प्रियवादिनम् ।
सद‍्वृत्तं देवसङ्काशं स्वयमेवानयस्व ह ॥ २३ ॥

अनुवाद (हिन्दी)

‘इसी प्रकार काशीके राजा अपने स्नेही मित्र हैं और सदा प्रिय वचन बोलनेवाले हैं । वे सदाचारी तथा देवताओंके तुल्य तेजस्वी हैं; अतः उन्हें भी स्वयं ही जाकर ले आओ ॥ २३ ॥

विश्वास-प्रस्तुतिः

तथा केकयराजानं वृद्धं परमधार्मिकम् ।
श्वशुरं राजसिंहस्य सपुत्रं तमिहानय ॥ २४ ॥

मूलम्

तथा केकयराजानं वृद्धं परमधार्मिकम् ।
श्वशुरं राजसिंहस्य सपुत्रं तमिहानय ॥ २४ ॥

अनुवाद (हिन्दी)

‘केकयदेशके बूढ़े राजा बड़े धर्मात्मा हैं, वे राजसिंह महाराज दशरथके श्वशुर हैं; अतः उन्हें भी पुत्रसहित यहाँ ले आओ ॥ २४ ॥

विश्वास-प्रस्तुतिः

अङ्गेश्वरं महेष्वासं रोमपादं सुसत्कृतम् ।
वयस्यं राजसिंहस्य सपुत्रं तमिहानय ॥ २५ ॥

मूलम्

अङ्गेश्वरं महेष्वासं रोमपादं सुसत्कृतम् ।
वयस्यं राजसिंहस्य सपुत्रं तमिहानय ॥ २५ ॥

अनुवाद (हिन्दी)

‘अंगदेशके स्वामी महाधनुर्धर राजा रोमपाद हमारे महाराजके मित्र हैं, अतः उन्हें पुत्रसहित यहाँ सत्कारपूर्वक ले आओ ॥ २५ ॥

विश्वास-प्रस्तुतिः

तथा कोसलराजानं भानुमन्तं सुसत्कृतम् ।
मगधाधिपतिं शूरं सर्वशास्त्रविशारदम् ॥ २६ ॥
प्राप्तिज्ञं परमोदारं सत्कृतं पुरुषर्षभम् ।

मूलम्

तथा कोसलराजानं भानुमन्तं सुसत्कृतम् ।
मगधाधिपतिं शूरं सर्वशास्त्रविशारदम् ॥ २६ ॥
प्राप्तिज्ञं परमोदारं सत्कृतं पुरुषर्षभम् ।

अनुवाद (हिन्दी)

‘कोशलराज भानुमान् को भी सत्कारपूर्वक ले आओ । मगधदेशके राजा प्राप्तिज्ञको, जो शूरवीर, सर्वशास्त्रविशारद, परम उदार तथा पुरुषोंमें श्रेष्ठ हैं, स्वयं जाकर सत्कारपूर्वक बुला ले आओ ॥ २६ १/२ ॥

विश्वास-प्रस्तुतिः

राज्ञः शासनमादाय चोदयस्व नृपर्षभान् ।
प्राचीनान् सिन्धुसौवीरान् सौराष्ट्रेयांश्च पार्थिवान् ॥ २७ ॥

मूलम्

राज्ञः शासनमादाय चोदयस्व नृपर्षभान् ।
प्राचीनान् सिन्धुसौवीरान् सौराष्ट्रेयांश्च पार्थिवान् ॥ २७ ॥

अनुवाद (हिन्दी)

‘महाराजकी आज्ञा लेकर तुम पूर्वदेशके श्रेष्ठ नरेशोंको तथा सिन्धु-सौवीर एवं सुराष्ट्र देशके भूपालोंको यहाँ आनेके लिये निमन्त्रण दो ॥ २७ ॥

विश्वास-प्रस्तुतिः

दाक्षिणात्यान् नरेन्द्रांश्च समस्तानानयस्व ह ।
सन्ति स्निग्धाश्च ये चान्ये राजानः पृथिवीतले ॥ २८ ॥
तानानय यथा क्षिप्रं सानुगान् सहबान्धवान् ।
एतान् दूतैर्महाभागैरानयस्व नृपाज्ञया ॥ २९ ॥

‘दक्षिण भारतके समस्त नरेशोंको भी आमन्त्रित करो । इस भूतलपर और भी जो-जो नरेश महाराजके प्रति स्नेह रखते हैं, उन सबको सेवकों और सगे-सम्बन्धियोंसहित यथासम्भव शीघ्र बुला लो । महाराजकी आज्ञासे बड़भागी दूतोंद्वारा इन सबके पास बुलावा भेज दो’ ॥ २८-२९ ॥

विश्वास-प्रस्तुतिः

वसिष्ठवाक्यं तच्छ्रुत्वा सुमन्त्रस्त्वरितं तदा ।
व्यादिशत् पुरुषांस्तत्र राज्ञामानयने शुभान् ॥ ३० ॥

मूलम्

वसिष्ठवाक्यं तच्छ्रुत्वा सुमन्त्रस्त्वरितं तदा ।
व्यादिशत् पुरुषांस्तत्र राज्ञामानयने शुभान् ॥ ३० ॥

अनुवाद (हिन्दी)

वसिष्ठका यह वचन सुनकर सुमन्त्रने तुरंत ही अच्छे पुरुषोंको राजाओंकी बुलाहटके लिये जानेका आदेश दे दिया ॥ ३० ॥

विश्वास-प्रस्तुतिः

स्वयमेव हि धर्मात्मा प्रयातो मुनिशासनात् ।
सुमन्त्रस्त्वरितो भूत्वा समानेतुं महामतिः ॥ ३१ ॥

मूलम्

स्वयमेव हि धर्मात्मा प्रयातो मुनिशासनात् ।
सुमन्त्रस्त्वरितो भूत्वा समानेतुं महामतिः ॥ ३१ ॥

अनुवाद (हिन्दी)

परम बुद्धिमान् धर्मात्मा सुमन्त्र वसिष्ठ मुनिकी आज्ञासे खास-खास राजाओंको बुलानेके लिये स्वयं ही गये ॥ ३१ ॥

विश्वास-प्रस्तुतिः

ते च कर्मान्तिकाः सर्वे वसिष्ठाय महर्षये ।
सर्वं निवेदयन्ति स्म यज्ञे यदुपकल्पितम् ॥ ३२ ॥

मूलम्

ते च कर्मान्तिकाः सर्वे वसिष्ठाय महर्षये ।
सर्वं निवेदयन्ति स्म यज्ञे यदुपकल्पितम् ॥ ३२ ॥

अनुवाद (हिन्दी)

यज्ञकर्मकी व्यवस्थाके लिये जो सेवक नियुक्त किये गये थे, उन सबने आकर उस समयतक यज्ञसम्बन्धी जो-जो कार्य सम्पन्न हो गया था, उस सबकी सूचना महर्षि वसिष्ठको दी ॥ ३२ ॥

विश्वास-प्रस्तुतिः

ततः प्रीतो द्विजश्रेष्ठस्तान् सर्वान् मुनिरब्रवीत् ।
अवज्ञया न दातव्यं कस्यचिल्लीलयापि वा ॥ ३३ ॥
अवज्ञया कृतं हन्याद् दातारं नात्र संशयः ।

मूलम्

ततः प्रीतो द्विजश्रेष्ठस्तान् सर्वान् मुनिरब्रवीत् ।
अवज्ञया न दातव्यं कस्यचिल्लीलयापि वा ॥ ३३ ॥
अवज्ञया कृतं हन्याद् दातारं नात्र संशयः ।

अनुवाद (हिन्दी)

यह सुनकर वे द्विजश्रेष्ठ मुनि बड़े प्रसन्न हुए और उन सबसे बोले—‘भद्र पुरुषो! किसीको जो कुछ देना हो; उसे अवहेलना या अनादरपूर्वक नहीं देना चाहिये; क्योंकि अनादरपूर्वक दिया हुआ दान दाताको नष्ट कर देता है— इसमें संशय नहीं है’ ॥ ३३ १/२ ॥

त्र्यम्बकः - धर्माकूतम्

अत्र श्रद्धापुरः सरमेव दानं कर्तव्यम् । अश्रद्धया दानं निष्फलम् इत्य् उक्तम् । तथा च श्रुतिः - “श्रद्धया देयम्” इति । भगवद्-गीतायाम् अपि -

अश्रद्धया हुतं दत्तं तपस् तप्तं कृतं च यत् ।
असद् इत्य् उच्यते पार्थ न च तत् प्रेत्य नो इह ॥

इति ।

विश्वास-प्रस्तुतिः

ततः कैश्चिदहोरात्रैरुपयाता महीक्षितः ॥ ३४ ॥
बहूनि रत्नान्यादाय राज्ञो दशरथस्य ह ।

मूलम्

ततः कैश्चिदहोरात्रैरुपयाता महीक्षितः ॥ ३४ ॥
बहूनि रत्नान्यादाय राज्ञो दशरथस्य ह ।

मूलम् - त्र्यम्बकः

ततः कैश्चिद् अहो-रात्रैर् उपयाता महीक्षितः ।
बहूनि रत्नान्य् आदाय राज्ञो दशरथस्य वै ॥

अनुवाद (हिन्दी)

तदनन्तर कुछ दिनोंके बाद राजा लोग महाराज दशरथके लिये बहुत-से रत्नोंकी भेंट लेकर अयोध्यामें आये ॥ ३४ १/२ ॥

विश्वास-प्रस्तुतिः

ततो वसिष्ठः सुप्रीतो राजानमिदमब्रवीत् ॥ ३५ ॥
उपयाता नरव्याघ्र राजानस्तव शासनात् ।
मयापि सत्कृताः सर्वे यथार्हं राजसत्तम ॥ ३६ ॥

मूलम्

ततो वसिष्ठः सुप्रीतो राजानमिदमब्रवीत् ॥ ३५ ॥
उपयाता नरव्याघ्र राजानस्तव शासनात् ।
मयापि सत्कृताः सर्वे यथार्हं राजसत्तम ॥ ३६ ॥

अनुवाद (हिन्दी)

इससे वसिष्ठजीको बड़ी प्रसन्नता हुई । उन्होंने राजासे कहा—‘पुरुषसिंह! तुम्हारी आज्ञासे राजालोग यहाँ आ गये । नृपश्रेष्ठ! मैंने भी यथायोग्य उन सबका सत्कार किया है ॥ ३५-३६ ॥

विश्वास-प्रस्तुतिः

यज्ञियं च कृतं सर्वं पुरुषैः सुसमाहितैः ।
निर्यातु च भवान् यष्टुं यज्ञायतनमन्तिकात् ॥ ३७ ॥

मूलम्

यज्ञियं च कृतं सर्वं पुरुषैः सुसमाहितैः ।
निर्यातु च भवान् यष्टुं यज्ञायतनमन्तिकात् ॥ ३७ ॥

अनुवाद (हिन्दी)

‘हमारे कार्यकर्ताओंने पूर्णतः सावधान रहकर यज्ञके लिये सारी तैयारी की है । अब तुम भी यज्ञ करनेके लिये यज्ञमण्डपके समीप चलो ॥ ३७ ॥

विश्वास-प्रस्तुतिः

सर्वकामैरुपहृतैरुपेतं वै समन्ततः ।
द्रष्टुमर्हसि राजेन्द्र मनसेव विनिर्मितम् ॥ ३८ ॥

मूलम्

सर्वकामैरुपहृतैरुपेतं वै समन्ततः ।
द्रष्टुमर्हसि राजेन्द्र मनसेव विनिर्मितम् ॥ ३८ ॥

अनुवाद (हिन्दी)

‘राजेन्द्र! यज्ञमण्डपमें सब ओर सभी वाञ्छनीय वस्तुएँ एकत्र कर दी गयी हैं । आप स्वयं चलकर देखें । यह मण्डप इतना शीघ्र तैयार किया गया है, मानो मनके संकल्पसे ही बन गया हो’ ॥ ३८ ॥

विश्वास-प्रस्तुतिः

तथा वसिष्ठवचनादृष्यशृङ्गस्य चोभयोः ।
दिवसे शुभनक्षत्रे निर्यातो जगतीपतिः ॥ ३९ ॥

मूलम्

तथा वसिष्ठवचनादृष्यशृङ्गस्य चोभयोः ।
दिवसे शुभनक्षत्रे निर्यातो जगतीपतिः ॥ ३९ ॥

मूलम् - त्र्यम्बकः

द्रष्टुम् अर्हसि राजेन्द्र मनसेव विनिर्मितम् ।
तदा वसिष्ठ-वचनाद् ऋश्यशृङ्गस्य चोभयोः ॥

अनुवाद (हिन्दी)

मुनिवर वसिष्ठ तथा ऋष्यशृंग दोनोंके आदेशसे शुभ नक्षत्रवाले दिनको राजा दशरथ यज्ञके लिये राजभवनसे निकले ॥ ३९ ॥

विश्वास-प्रस्तुतिः

ततो वसिष्ठप्रमुखाः सर्व एव द्विजोत्तमाः ।
ऋष्यशृङ्गं पुरस्कृत्य यज्ञकर्मारभंस्तदा ॥ ४० ॥
यज्ञवाटं गताः सर्वे यथाशास्त्रं यथाविधि ।
श्रीमांश्च सह पत्नीभी राजा दीक्षामुपाविशत् ॥ ४१ ॥

मूलम्

ततो वसिष्ठप्रमुखाः सर्व एव द्विजोत्तमाः ।
ऋष्यशृङ्गं पुरस्कृत्य यज्ञकर्मारभंस्तदा ॥ ४० ॥
यज्ञवाटं गताः सर्वे यथाशास्त्रं यथाविधि ।
श्रीमांश्च सह पत्नीभी राजा दीक्षामुपाविशत् ॥ ४१ ॥

अनुवाद (हिन्दी)

तत्पश्चात् वसिष्ठ आदि सभी श्रेष्ठ द्विजोंने यज्ञमण्डपमें जाकर ऋष्यशृंगको आगे करके शास्त्रोक्त विधिके अनुसार यज्ञकर्मका आरम्भ किया । पत्नियोंसहित श्रीमान् अवधनरेशने यज्ञकी दीक्षा ली ॥ ४०-४१ ॥

त्र्यम्बकः - धर्माकूतम्

अत्र यज्ञादिकं कर्म ब्राह्मण-पुरःसरं कर्तव्यम् । अयं धर्मः सर्वेषां साधारणः । राज्ञां तु विशिष्य ब्रह्म-मुखत्वं सर्वत्रातिशयाधायकम् । तथा च श्रुतिः - “तस्माद् राजन्यो ब्राह्मणवान् अन्यं राजन्यम्” इति । गौतमश् च -

ब्राह्मणं च पुरो दधीत विद्याभिजनवान्-रूप-वयः-शील-संपन्नं न्यायवृत्तं तपस्विनं तत्-प्रसूतः कर्माणि कुर्वीत, ब्रह्म-प्रसूतं हि क्षत्रम् ऋध्यते न व्यथत इति च विज्ञायते ।

इति । महाभारते आदि-पर्वणि तापत्ये ऽपि -

‘यस् तु स्यात् कर्म-वृत्तो ऽपि पार्थ ब्रह्म-पुरस्कृतः ।
जयेन् नक्तं-चरान् सर्वान् स पुरोहित-धूर्गतः ॥

तस्मात् तापत्य यत् किंचिन् नृणां श्रेय इहेप्सितम् ।
तस्मिन् कर्मणि योक्तव्या दान्तात्मानः पुरोहिताः ॥

वेदे षडङ्ग-निरताः शुचयः सत्य-वादिनः ।
धर्मात्मानः कृतात्मानः स्युर् नृपाणां पुरोहिताः ॥

जयश् च नियतो राज्ञः स्वर्गस् तस्माद् अनन्तरम् ।
यस्य स्याद् धर्म-विद् वाग्मी पुरोधाः शीलवाञ् शुचिः ॥

लाभं लब्धुम् अलब्धुं वा लब्धं च परिरक्षितुम् ।
पुरोहितं प्रकुर्वीत राजा गुण-समन्वितम् ॥

पुरोहित-मते तिष्ठेद् य इच्छेद् भूतिम् आत्मनः ।
प्राप्तुं वसुमतीं सर्वां सर्वशः सागराम्बराम् ॥

न हि केवल-शौर्येण तापत्याभिजनने च ।
जयेद् अब्राह्मणः कश्चिद् भूमिं भूमिपतिः क्वचित् ॥

तस्माद् एवं विजानीहि कुरूणां वंश-वर्धन ।
ब्राह्मण-प्रमुखं राज्यं शक्यं पालयितुं चिरम् ॥

इति । तथा आरण्यके युधिष्ठिर-दाल्भ्य-संवादे ऽपि -

‘ब्रह्म क्षत्रेण संसृष्टं क्षत्रं च ब्रह्मणा सह ।
उदीर्णे दहतः शत्रून् वनानीवाग्नि-मारुतौ ॥

नाब्राह्मणस् तात चिरं बभूषेद् इच्छन्न् इमं लोकम् अमुं च जेतुम् ।
विनीत-धर्मार्थम् अपेत-मोहं लब्ध्वा द्विजं नुदति नृपः सपत्नान् ॥

चरन् नैःश्रेयसं धर्मं प्रजा-पालन-कारितम् ।
नाध्यगच्छद् बलिर् लोके तीर्थम् अन्यत्र वै द्विजात् ॥

अनूनम् आसीद् असुरस्य कामैर् वैरोचनेः श्रीर् अपि चाक्षयासीत् ।
लब्ध्वा महीं ब्राह्मण-संप्रयोगात् तेष्व् आचरन् दुष्टम् अथो व्यनश्यत् ॥

नाब्राह्मणं भूमिर् इयं स भूतिर् वर्णं द्वितीयं भजते चिराय ।
समुद्र-नेमिर् नमते तु तस्मै यं ब्राह्मणः शास्ति नयैर् विनीतम् ॥

कुञ्जरस्येव संग्रामे परिगृह्याङ्कुश-ग्रहम् ।
ब्राह्मणैर् विप्रहीणस्य क्षत्रस्य क्षीयते बलम् ॥

ब्राह्मणान् न परा दृष्टिः क्षात्रम् अप्रतिमं बलम् ।
तौ यदा चरतः सार्धं तदा लोकः प्रसीदति ॥

यथा हि सुमहान् अग्निः कक्षं दहति सानिलः ।
तथा दहति राजन्यो ब्राह्मणेन समं रिपुम् ॥

ब्राह्मणेष्व् एव मेधावी बुद्धि-वीर्येण संचरेत् ।
अलब्धस्य च लाभाय लब्धस्य परिवृद्धये ॥

अलब्धस्य-लाभाय च लब्ध-वृद्धये यथार्ह-तीर्थ-प्रतिपादनाय ।
यशस्विनं वेद-विदं विपश्चितं बहु-श्रुतं ब्राह्मणम् एव वासय ॥

ब्राह्मणेषूत्तमा वृत्तिस् तव नित्यं युधिष्ठिर ।
तेन ते सर्व-लोकेषु दीप्यते प्रथितं यशः ॥

इति ।

समाप्तिः

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे त्रयोदशः सर्गः ॥ १३ ॥
इस प्रकार श्रीवाल्मीकिनिर्मित आर्षरामायण आदिकाव्यके बालकाण्डमें तेरहवाँ सर्ग पूरा हुआ ॥ १३ ॥