०११ ऋष्यशृङ्गागमनम्

वाचनम्
भागसूचना
  1. सुमन्त्रके कहनेसे राजा दशरथका सपरिवार अंगराजके यहाँ जाकर वहाँसे शान्ता और ऋष्यशृंगको अपने घर ले आना
त्र्यम्बकः - धर्माकूतम्

एकादशे सर्गे-

विश्वास-प्रस्तुतिः

भूय एव हि राजेन्द्र शृणु मे वचनं हितम् ।
यथा स देवप्रवरः कथयामास बुद्धिमान् ॥ १ ॥

मूलम्

भूय एव हि राजेन्द्र शृणु मे वचनं हितम् ।
यथा स देवप्रवरः कथयामास बुद्धिमान् ॥ १ ॥

अनुवाद (हिन्दी)

तदनन्तर सुमन्त्रने फिर कहा—‘‘राजेन्द्र! आप पुनः मुझसे अपने हितकी वह बात सुनिये, जिसे देवताओंमें श्रेष्ठ बुद्धिमान् सनत्कुमारजीने ऋषियोंको सुनाया था ॥

विश्वास-प्रस्तुतिः

इक्ष्वाकूणां कुले जातो भविष्यति सुधार्मिकः ।
नाम्ना दशरथो राजा श्रीमान् सत्यप्रतिश्रवः ॥ २ ॥

मूलम्

इक्ष्वाकूणां कुले जातो भविष्यति सुधार्मिकः ।
नाम्ना दशरथो राजा श्रीमान् सत्यप्रतिश्रवः ॥ २ ॥

अनुवाद (हिन्दी)

‘‘उन्होंने कहा था—इक्ष्वाकुवंशमें दशरथ नामसे प्रसिद्ध एक परम धार्मिक सत्यप्रतिज्ञ राजा होंगे ॥ २ ॥

विश्वास-प्रस्तुतिः

अङ्गराजेन सख्यं च तस्य राज्ञो भविष्यति ।
कन्या चास्य महाभागा शान्ता नाम भविष्यति ॥ ३ ॥
पुत्रस्त्वङ्गस्य राज्ञस्तु रोमपाद इति श्रुतः ।
तं स राजा दशरथो गमिष्यति महायशाः ॥ ४ ॥
अनपत्योऽस्मि धर्मात्मन् शान्ताभर्ता मम क्रतुम् ।
आहरेत त्वयाऽऽज्ञप्तः सन्तानार्थं कुलस्य च ॥ ५ ॥

मूलम्

अङ्गराजेन सख्यं च तस्य राज्ञो भविष्यति ।
कन्या चास्य महाभागा शान्ता नाम भविष्यति ॥ ३ ॥
पुत्रस्त्वङ्गस्य राज्ञस्तु रोमपाद इति श्रुतः ।
तं स राजा दशरथो गमिष्यति महायशाः ॥ ४ ॥
अनपत्योऽस्मि धर्मात्मन् शान्ताभर्ता मम क्रतुम् ।
आहरेत त्वयाऽऽज्ञप्तः सन्तानार्थं कुलस्य च ॥ ५ ॥

अनुवाद (हिन्दी)

‘‘उनकी अंगराजके साथ मित्रता होगी । दशरथके एक परम सौभाग्यशालिनी कन्या होगी, जिसका नाम होगा ‘शान्ता’* । अंगदेशके राजकुमारका नाम होगा ‘रोमपाद’ । महायशस्वी राजा दशरथ उनके पास जायँगे और कहेंगे—‘धर्मात्मन्! मैं संतानहीन हूँ । यदि आप आज्ञा दें तो शान्ताके पति ऋष्यशृंग मुनि चलकर मेरा यज्ञ करा दें । इससे मुझे पुत्रकी प्राप्ति होगी और मेरे वंशकी रक्षा हो जायगी’ ॥ ३—५ ॥

पादटिप्पनी
  • शान्ता राजा दशरथ एवं कौसल्याकी औरस पुत्री थी । उन्होंने राजा रोमपादको उसे दत्तक पुत्रीके रूपमें दिया था । इस प्रकार वह राजा दशरथकी औरसी और राजा रोमपादकी दत्तक कन्या थी । (श्रीविष्णुपुराण ४ ।१८ ।१७-१८)
विश्वास-प्रस्तुतिः

श्रुत्वा राज्ञोऽथ तद् वाक्यं मनसा स विचिन्त्य च ।
प्रदास्यते पुत्रवन्तं शान्ताभर्तारमात्मवान् ॥ ६ ॥

मूलम्

श्रुत्वा राज्ञोऽथ तद् वाक्यं मनसा स विचिन्त्य च ।
प्रदास्यते पुत्रवन्तं शान्ताभर्तारमात्मवान् ॥ ६ ॥

अनुवाद (हिन्दी)

‘‘राजाकी यह बात सुनकर मन-ही-मन उसपर विचार करके मनस्वी राजा रोमपाद शान्ताके पुत्रवान् पतिको उनके साथ भेज देंगे ॥ ६ ॥

विश्वास-प्रस्तुतिः

प्रतिगृह्य च तं विप्रं स राजा विगतज्वरः ।
आहरिष्यति तं यज्ञं प्रहृष्टेनान्तरात्मना ॥ ७ ॥

मूलम्

प्रतिगृह्य च तं विप्रं स राजा विगतज्वरः ।
आहरिष्यति तं यज्ञं प्रहृष्टेनान्तरात्मना ॥ ७ ॥

अनुवाद (हिन्दी)

‘‘ब्राह्मण ऋष्यशृंगको पाकर राजा दशरथकी सारी चिन्ता दूर हो जायगी और वे प्रसन्नचित्त होकर उस यज्ञका अनुष्ठान करेंगे ॥ ७ ॥

विश्वास-प्रस्तुतिः

तं च राजा दशरथो यशस्कामः कृताञ्जलिः ।
ऋष्यशृङ्गं द्विजश्रेष्ठं वरयिष्यति धर्मवित् ॥ ८ ॥
यज्ञार्थं प्रसवार्थं च स्वर्गार्थं च नरेश्वरः ।
लभते च स तं कामं द्विजमुख्याद् विशाम्पतिः ॥ ९ ॥

मूलम्

तं च राजा दशरथो यशस्कामः कृताञ्जलिः ।
ऋष्यशृङ्गं द्विजश्रेष्ठं वरयिष्यति धर्मवित् ॥ ८ ॥
यज्ञार्थं प्रसवार्थं च स्वर्गार्थं च नरेश्वरः ।
लभते च स तं कामं द्विजमुख्याद् विशाम्पतिः ॥ ९ ॥

अनुवाद (हिन्दी)

‘‘यशकी इच्छा रखनेवाले धर्मज्ञ राजा दशरथ हाथ जोड़कर द्विजश्रेष्ठ ऋष्यशृंगका यज्ञ, पुत्र और स्वर्गके लिये वरण करेंगे तथा वे प्रजापालक नरेश उन श्रेष्ठ ब्रह्मर्षिसे अपनी अभीष्ट वस्तु प्राप्त कर लेंगे ॥ ८-९ ॥

विश्वास-प्रस्तुतिः

पुत्राश्चास्य भविष्यन्ति चत्वारोऽमितविक्रमाः ।
वंशप्रतिष्ठानकराः सर्वभूतेषु विश्रुताः ॥ १० ॥

मूलम्

पुत्राश्चास्य भविष्यन्ति चत्वारोऽमितविक्रमाः ।
वंशप्रतिष्ठानकराः सर्वभूतेषु विश्रुताः ॥ १० ॥

मूलम् - त्र्यम्बकः

पुत्राश् चास्य भविष्यन्ति चत्वारो ऽमित-विक्रमाः ।
वंश-प्रतिष्ठान-करास् त्रिषु लोकेषु विश्रुताः ॥

अनुवाद (हिन्दी)

‘‘राजाके चार पुत्र होंगे, जो अप्रमेय पराक्रमी, वंशकी मर्यादा बढ़ानेवाले और सर्वत्र विख्यात होंगे ॥

विश्वास-प्रस्तुतिः

एवं स देवप्रवरः पूर्वं कथितवान् कथाम् ।
सनत्कुमारो भगवान् पुरा देवयुगे प्रभुः ॥ ११ ॥

मूलम्

एवं स देवप्रवरः पूर्वं कथितवान् कथाम् ।
सनत्कुमारो भगवान् पुरा देवयुगे प्रभुः ॥ ११ ॥

अनुवाद (हिन्दी)

‘‘महाराज! पहले सत्ययुगमें शक्तिशाली देवप्रवर भगवान् सनत्कुमारजीने ऋषियोंके समक्ष ऐसी कथा कही थी ॥ ११ ॥

विश्वास-प्रस्तुतिः

स त्वं पुरुषशार्दूल समानय सुसत्कृतम् ।
स्वयमेव महाराज गत्वा सबलवाहनः ॥ १२ ॥

मूलम्

स त्वं पुरुषशार्दूल समानय सुसत्कृतम् ।
स्वयमेव महाराज गत्वा सबलवाहनः ॥ १२ ॥

मूलम् - त्र्यम्बकः

स त्वं पुरुष-शार्दूल तम् आनय सुसत्कृतम् । स्वयम् एव महाराज गत्वा स-बल-वाहनः ।

अनुवाद (हिन्दी)

‘‘पुरुषसिंह महाराज! इसलिये आप स्वयं ही सेना और सवारियोंके साथ अंगदेशमें जाकर मुनिकुमार ऋष्यशृंगको सत्कारपूर्वक यहाँ ले आइये’’ ॥ १२ ॥

विश्वास-प्रस्तुतिः

सुमन्त्रस्य वचः श्रुत्वा हृष्टो दशरथोऽभवत् ।
अनुमान्य वसिष्ठं च सूतवाक्यं निशाम्य च ॥ १३ ॥
सान्तःपुरः सहामात्यः प्रययौ यत्र स द्विजः ।

मूलम्

सुमन्त्रस्य वचः श्रुत्वा हृष्टो दशरथोऽभवत् ।
अनुमान्य वसिष्ठं च सूतवाक्यं निशाम्य च ॥ १३ ॥
सान्तःपुरः सहामात्यः प्रययौ यत्र स द्विजः ।

मूलम् - त्र्यम्बकः

वसिष्ठेनाभ्यनुज्ञातो राजा संपूर्ण-मानसः ।
सान्तःपुरः सहामात्यः प्रययौ यत्र स द्विजः ॥

अनुवाद (हिन्दी)

सुमन्त्रका वचन सुनकर राजा दशरथको बड़ा हर्ष हुआ । उन्होंने मुनिवर वसिष्ठजीको भी सुमन्त्रकी बातें सुनायीं और उनकी आज्ञा लेकर रनिवासकी रानियों तथा मन्त्रियोंके साथ अंगदेशके लिये प्रस्थान किया, जहाँ विप्रवर ऋष्यशृंग निवास करते थे ॥ १३ १/२ ॥

त्र्यम्बकः - धर्माकूतम्

अनेन प्राचीन-ऋत्विग्-अभ्यनुज्ञानेनैव अन्य आनेयः, न तु तद्-अतिक्रमणेनेति सूचितम् । तथा च बोधायनः -

यो ऽस्य संस्तुत-तमः स्यात् तं प्रथमं वृणीत तेन सचिवेनान्यं लिप्सेत ।

इति ।

तथा -

तस्य चेत् पूर्व-पुरुषैर् वृताः स्युस्
तान् एव नातिवृणीत -
अव्यवच्छिन्नाश् चेत् कौलेनाध्ययनेन मानुषेण शीलवृत्ताभ्याम् ।

इति।

प्राचीन-ऋत्विग्-अभ्यनुज्ञानेनैवान्य आनेयो न तु तद्-अतिक्रमेणेत्य् अयम् अर्थो ऽन्वय-व्यतिरेकाभ्यां फल-मुखेन स्पष्टीक्रियते । अन्वयस् तावत् अङ्ग-देशानीत-ऋश्यशृङ्ग-कारित-क्रतुना चत्वारः पुत्रा भविष्यन्तीति सनत्कुमार-वाक्यं सुमन्त्रेण कथितं श्रुत्वा वसिष्ठाभ्यनुज्ञां विना ऋश्यशृङ्गानयनम् अयुक्तम् इति निश्चित्य अवाप्य तद्-अनुज्ञां मुदित-मना दशरथः समानीय ऋश्यशृङ्गं वसिष्ठ-ऋश्यशृङ्गाभ्यां कारित-यागेन सकल-दुरित-निरसन-पूर्वकम् अभिलषित-सिद्धिम् अवापेति । व्यतिरेकस् तावत् एतद्-वंश्यस् त्रिशङ्कुः स-शरीर-स्वर्ग-प्राप्तये यज्ञः कारयितव्य इति प्रार्थितेन वसिष्ठेन गुरुणा प्रत्याख्यातो गुरु-पुत्रान् आसाद्य निवेदित-पूर्व-वृत्तान्तः गुरु-पुत्रैर् अपि -

इक्ष्वाकूणां तु सर्वेषां पुरोधाः परमो गुरुः ।
न चातिक्रमितुं शक्यं वचनं सत्य-वादिनः ॥

अशक्यम् इति चोवाच वसिष्ठो भगवान् ऋषिः ।
ते वयं वै समाहर्तुं क्रतुं शक्ताः कथं तव ॥ बालिशस् त्वं नर-श्रेष्ठ गम्यतां स्व-पुरं पुनः ॥

इति न्यायतः प्रतिषिद्धो ऽपि तद्-वचन-अतिक्रमात् प्राप्त-नीच-जातिः भगवन्तम् |उग्रे तपसि वर्तमानं लोक-मर्यादाम् अन्यथयितुं समर्थं विश्वामित्रं शरणं प्राप्तः । तेन,

पश्य मे तपसो वीर्यं स्वार्जितस्य नरेश्वर ।
एष त्वां स्व-शरीरेण नयामि स्वर्गम् ओजसा ॥

दुःप्रापं स-शरीरेण दिवं गच्छ नराधिप ।
स्वार्जितं किंचिद् अप्य् अस्ति मया हि तपसः फलम् ॥ राजंस् त्वं तेजसा तस्य स-शरीरो दिवं व्रज ॥

इति प्रतिज्ञा-पूर्वकं स-शरीरं स्वर्गं प्रापितो ऽपि,

गुरु-शाप-हतो मूढ पत भूमिम् अवाक्-शिराः ।
एवम् उक्तो महेन्द्रेण त्रिशङ्कुर् अपतत् पुनः ॥

स तु अद्यापि अवाक्-शिराः अन्तरिक्षे लम्बमानस् तिष्ठतीति । एवं च महा-वंश-प्रसूतस्याति-धर्मिष्ठस्य त्रिशङ्कोर् विश्वामित्रेण निखिल-स्व-तपो-व्ययेन स्वर्गम् आरोपितस्यापि गुरुरापिदोषेण महेन्द्रेण पातितस्यावाक्-शिरसः अन्तराले ऽवस्थानात् गुरु-शापो ऽप्रतिकार्य इति सूचितम् । तस्मात् पूर्व-परिगृहीत-ऋत्विक्-साचिव्येनैव अन्य आनेयः इति सिद्धम् । अयम् अर्थो महाभारते आश्वमेधिके पर्वणि संवर्त-मरुत्तीये ऽप्य् अभिहितः । तथा हि बृहस्पतिं प्रति मरुत्त-वाक्यम् -

‘भगवन् यन् मया पूर्वम् अधिगम्य तपोधन ।
कृतो ऽभिसंधिर्-यज्ञाय भवतो वचनाद् गुरो ॥

तद् अहं यष्टुम् इच्छामि संभाराः संभृताश् च मे ।
याज्यो ऽस्मि भवतः साधो तत् प्राप्नुहि विधत्स्व च ॥

बृहस्पतिः-

न कामये याजयितुं त्वाम् अहं पृथिवीपते ।
वृतो ऽस्मि देव-राजेन प्रतिज्ञातं च तस्य मे ॥

मरुत्तः-

पित्र्यम् अस्मि तव क्षेत्रं बहु मन्ये च ते भृशम् ।
तवास्मि याज्यतां प्राप्तो भजमानं भजस्व माम् ॥

तव पित्रा अङ्गिरसा याज्यत्वेन परिगृहीतो ऽहं त्वयाप्य् अवश्यं याज्य इत्य् अर्थः ।

बृहस्पतिः -

अमर्त्यं याजयित्वाहं याजयिष्ये न मानुषम् ।
मरुत्त गच्छ वा मा वा निवृत्तो ऽप्य् अन्य-याजनात् ॥

न त्वां याजयितास्म्य् अद्य वृणु त्वं यम् इहेच्छसि ।
उपाध्यायं महा-बाहो यस् ते यज्ञं करिष्यति ॥

एवं बृहस्पतिना प्रत्याख्यातो नारदं प्रत्य् उक्तवान् मरुत्तः -

गतो ऽस्म्य् अङ्गिरसः पुत्रं देवाचार्यं बृहस्पतिम् ।
यज्ञार्थम् ऋत्विजं प्रष्टुं स च मां नाभ्यनन्दत ॥
प्रत्याख्यातश् च तेनाहं जीवितं नाद्य कामये ।

इति निरपराधिनः स्वस्य गुरुणा “नाहं याजयिष्यामि” इति प्रत्याख्यान-पूर्वकम् “अन्यं वृणीष्वे"त्य् अभ्यनुज्ञानेनान्य-वरणे दोषाभावे ऽपि अन्य-वरणापेक्षया प्राण-त्यागो ऽपि वर इति क्लिश्यमानं मरुत्तं संजीवयन्न् इव नारदः प्रत्युवाच -

राजन्न् अङ्गिरसः पुत्रः संवर्तो नाम धार्मिकः ।
चङ्क्रमीति दिशः सर्वा दिग्-वासा मोहयन् प्रजाः ।

स गच्छ यदि याज्यं त्वां न वाञ्छति बृहस्पतिः ॥
प्रसन्नस् त्वां महा-तेजाः संवर्तो याजयिष्यति ।

मरुत्तः - ‘संजीवितो ऽहं भवता वाक्येनानेन नारद’ इति परम्परा-गत-गुरु-पुत्र-लाभान् मरणान् निवृत्तः संतुष्टो ऽभवद् इत्य् अर्थः । तद् अनु नारद-वचनानुसारेण संवर्तं याजकं प्राप्य तद्-उपदेशेन आराधित-परमेश्वर-प्रसाद-लब्ध-बहु-धनो यज्ञम् आरब्धवान् । तत इन्द्र-कुबेरादि-देवानां गुरुर् अपि गुरुर् देवान् विहाय मर्त्यं न याजयिष्यामीति प्रतिज्ञां परित्यज्य “अन्यं वृणीष्वे"त्य् अभ्यनुज्ञां विस्मृत्य संवर्त-प्रवर्तित-मानव-यज्ञ-वैभव-श्रवण-संजात-याजन-कामो लोभेनेन्द्र-प्रेषित-दूत्येन आर्त्विज्यं प्रार्थितवान् । मरुत्तो ऽपि वृत-संवर्त-परित्यागे मित्र-द्रोहात् महत् पापं भवतीत्य् आह -

त्वं चैवैतद् वेत्थ पुरंदरश् च विश्वे देवा वसवश् च अश्विनौ च ।
मित्र-द्रोहे निष्कृतिर् नास्ति लोके महत् पापं ब्रह्म-हत्या-समं तत् ॥

इति दूतम् उक्त्वा प्रत्याचख्यौ । प्रत्याख्यानेन क्रुद्धः स्वयम् एतादृश-दोषान् जानन्न् अपि देवानाम् अपि अमार्गान् निवर्तयिता बृहस्पतिर् ब्राह्मणोत्तमं तपस्विनं निवृत्ति-मार्गे वर्तमानं साक्षाद् अनुजं संवर्तं सवन-गतं मरुतं च राजानं हन्तुम् इन्द्रं प्रेरितवान् । ततो महत्तहननाय वज्र-उद्यत-हस्तम् इन्द्रं संवर्तः स्तम्भयामास । ततो मरुत्तः प्रार्थनेन इन्द्रादीन् देवान् स्व-स्व-भाग-ग्रहणे यज्ञ-परिचर्यायां च नियुक्तवान् ।

ततः संवर्तश् चित्य-गतो महात्मा यथा वह्निश् चित्य-गतो द्वितीयः ।
हवींष्य् उच्चैर् आह्वयन् देव-संघाञ् जुहावाग्नौ मन्त्रवत् संप्रतीतः ।

ततः पीत्वा वलभित् सोमम् अग्र्यं ये च अपि अन्ये सोम-पा देव-संघाः ।
सर्वे ऽनुज्ञाताः प्रययुः पार्थिवेन यथा-जोषं तर्पिताः प्रीतिमन्तः ॥

इति । अनेन निरपराधिनो यजमानस्य ऋत्विजा परित्यागो न कार्य इति सूचितम् । मरुत्तेन च त्रिशङ्कुवद् अन्य-वरणम् अकृत्वा पूर्व-परिगृहीत-ऋत्विग्-वंश्यस्यैव वरण-महिम्ना स्व-प्रतिस्पर्धीन्द्रादि-कारित-परिचर्यातिशय-लब्ध-वैभवेन सर्वातिशायी यज्ञः प्राप्तः । एवं सति इदानीम् अपि ऋत्विग्-यजमानैर् दोषाभावे परस्परापरित्यागेन स्थेयम् । सति तु दोषे परित्याग इत्य् अयम् अर्थः “शक्तम् अदुष्टं च” इति विशेषणाभ्याम् अवगम्यते । मनुः -

ऋत्विजं यस् त्यजेद् याज्ये याज्यं च ऋत्विक् त्यजेद् यदि ।
शक्तं कर्मण्य् अदुष्टं च तपो दण्डः शतं शतम् ॥

इति । अयोध्याकाण्डे ऽपि -

अदुष्टस्य हि संत्यागः सत्-पथे निरतस्य च ।
निर्दहेद् अपि शक्रस्य द्युतिं धर्म-निरोधनात् ॥

तथा च गौतमः -

निन्दित-कर्माभ्यासि-पतितात्याग्य्-अपतित-त्यागिनः पतिताः ।

इति ।

विश्वास-प्रस्तुतिः

वनानि सरितश्चैव व्यतिक्रम्य शनैः शनैः ॥ १४ ॥
अभिचक्राम तं देशं यत्र वै मुनिपुङ्गवः ।

मूलम्

वनानि सरितश्चैव व्यतिक्रम्य शनैः शनैः ॥ १४ ॥
अभिचक्राम तं देशं यत्र वै मुनिपुङ्गवः ।

अनुवाद (हिन्दी)

मार्गमें अनेकानेक वनों और नदियोंको पार करके वे धीरे-धीरे उस देशमें जा पहुँचे, जहाँ मुनिवर ऋष्यशृंग विराजमान थे ॥ १४ १/२ ॥

विश्वास-प्रस्तुतिः

आसाद्य तं द्विजश्रेष्ठं रोमपादसमीपगम् ॥ १५ ॥
ऋषिपुत्रं ददर्शाथो दीप्यमानमिवानलम् ।

मूलम्

आसाद्य तं द्विजश्रेष्ठं रोमपादसमीपगम् ॥ १५ ॥
ऋषिपुत्रं ददर्शाथो दीप्यमानमिवानलम् ।

मूलम् - त्र्यम्बकः

आसाद्य तं द्विज-श्रेष्ठं रोमपाद-समीपगम् ।
ऋषि-पुत्रं ददर्शादौ दीप्यमानम् इवानलम् ॥

अनुवाद (हिन्दी)

वहाँ पहुँचनेपर उन्हें द्विजश्रेष्ठ ऋष्यशृंग रोमपादके पास ही बैठे दिखायी दिये । वे ऋषिकुमार प्रज्वलित अग्निके समान तेजस्वी जान पड़ते थे ॥ १५ १/२ ॥

विश्वास-प्रस्तुतिः

ततो राजा यथायोग्यं पूजां चक्रे विशेषतः ॥ १६ ॥
सखित्वात् तस्य वै राज्ञः प्रहृष्टेनान्तरात्मना ।
रोमपादेन चाख्यातमृषिपुत्राय धीमते ॥ १७ ॥
सख्यं सम्बन्धकं चैव तदा तं प्रत्यपूजयत् ।

मूलम्

ततो राजा यथायोग्यं पूजां चक्रे विशेषतः ॥ १६ ॥
सखित्वात् तस्य वै राज्ञः प्रहृष्टेनान्तरात्मना ।
रोमपादेन चाख्यातमृषिपुत्राय धीमते ॥ १७ ॥
सख्यं सम्बन्धकं चैव तदा तं प्रत्यपूजयत् ।

अनुवाद (हिन्दी)

तदनन्तर राजा रोमपादने मित्रताके नाते अत्यन्त प्रसन्न हृदयसे महाराज दशरथका शास्त्रोक्त विधिके अनुसार विशेषरूपसे पूजन किया और बुद्धिमान् ऋषिकुमार ऋष्यशृंगको राजा दशरथके साथ अपनी मित्रताकी बात बतायी । उसपर उन्होंने भी राजाका सम्मान किया ॥

विश्वास-प्रस्तुतिः

एवं सुसत्कृतस्तेन सहोषित्वा नरर्षभः ॥ १८ ॥
सप्ताष्टदिवसान् राजा राजानमिदमब्रवीत् ।
शान्ता तव सुता राजन् सह भर्त्रा विशाम्पते ॥ १९ ॥
मदीयं नगरं यातु कार्यं हि महदुद्यतम् ।

मूलम्

एवं सुसत्कृतस्तेन सहोषित्वा नरर्षभः ॥ १८ ॥
सप्ताष्टदिवसान् राजा राजानमिदमब्रवीत् ।
शान्ता तव सुता राजन् सह भर्त्रा विशाम्पते ॥ १९ ॥
मदीयं नगरं यातु कार्यं हि महदुद्यतम् ।

अनुवाद (हिन्दी)

इस प्रकार भलीभाँति आदर-सत्कार पाकर नरश्रेष्ठ राजा दशरथ रोमपादके साथ वहाँ सात-आठ दिनोंतक रहे । इसके बाद वे अंगराजसे बोले—‘प्रजापालक नरेश! तुम्हारी पुत्री शान्ता अपने पतिके साथ मेरे नगरमें पदार्पण करे; क्योंकि वहाँ एक महान् आवश्यक कार्य उपस्थित हुआ है’ ॥ १८-१९ १/२ ॥

त्र्यम्बकः - धर्माकूतम्

रोमपादः -

विश्वास-प्रस्तुतिः

तथेति राजा संश्रुत्य गमनं तस्य धीमतः ॥ २० ॥
उवाच वचनं विप्रं गच्छ त्वं सह भार्यया ।
ऋषिपुत्रः प्रतिश्रुत्य तथेत्याह नृपं तदा ॥ २१ ॥

मूलम्

तथेति राजा संश्रुत्य गमनं तस्य धीमतः ॥ २० ॥
उवाच वचनं विप्रं गच्छ त्वं सह भार्यया ।
ऋषिपुत्रः प्रतिश्रुत्य तथेत्याह नृपं तदा ॥ २१ ॥

अनुवाद (हिन्दी)

राजा रोमपादने ‘बहुत अच्छा’ कहकर उन बुद्धिमान् महर्षिका जाना स्वीकार कर लिया और ऋष्यशृंगसे कहा— ‘विप्रवर! आप शान्ताके साथ महाराज दशरथके यहाँ जाइये ।’ राजाकी आज्ञा पाकर उन ऋषिपुत्रने ‘तथास्तु’ कहकर राजा दशरथको अपने चलनेकी स्वीकृति दे दी ॥ २०-२१ ॥

विश्वास-प्रस्तुतिः

स नृपेणाभ्यनुज्ञातः प्रययौ सह भार्यया ।
तावन्योन्याञ्जलिं कृत्वा स्नेहात्संश्लिष्य चोरसा ॥ २२ ॥
ननन्दतुर्दशरथो रोमपादश्च वीर्यवान् ।
ततः सुहृदमापृच्छ्य प्रस्थितो रघुनन्दनः ॥ २३ ॥

मूलम्

स नृपेणाभ्यनुज्ञातः प्रययौ सह भार्यया ।
तावन्योन्याञ्जलिं कृत्वा स्नेहात्संश्लिष्य चोरसा ॥ २२ ॥
ननन्दतुर्दशरथो रोमपादश्च वीर्यवान् ।
ततः सुहृदमापृच्छ्य प्रस्थितो रघुनन्दनः ॥ २३ ॥

अनुवाद (हिन्दी)

राजा रोमपादकी अनुमति ले ऋष्यशृंगने पत्नीके साथ वहाँसे प्रस्थान किया । उस समय शक्तिशाली राजा रोमपाद और दशरथने एक-दूसरेको हाथ जोड़कर स्नेहपूर्वक छातीसे लगाया तथा अभिनन्दन किया । फिर मित्रसे विदा ले रघुकुलनन्दन दशरथ वहाँसे प्रस्थित हुए ॥ २२-२३ ॥

विश्वास-प्रस्तुतिः

पौरेषु प्रेषयामास दूतान् वै शीघ्रगामिनः ।
क्रियतां नगरं सर्वं क्षिप्रमेव स्वलङ्कृतम् ॥ २४ ॥
धूपितं सिक्तसम्मृष्टं पताकाभिरलङ्कृतम् ।

मूलम्

पौरेषु प्रेषयामास दूतान् वै शीघ्रगामिनः ।
क्रियतां नगरं सर्वं क्षिप्रमेव स्वलङ्कृतम् ॥ २४ ॥
धूपितं सिक्तसम्मृष्टं पताकाभिरलङ्कृतम् ।

अनुवाद (हिन्दी)

उन्होंने पुरवासियोंके पास अपने शीघ्रगामी दूत भेजे और कहलाया कि ‘समस्त नगरको शीघ्र ही सुसज्जित किया जाय । सर्वत्र धूपकी सुगन्ध फैले । नगरकी सड़कोंको झाड़-बुहारकर उनपर पानीका छिड़काव कर दिया जाय तथा सारा नगर ध्वजा-पताकाओंसे अलंकृत हो’ ॥ २४ १/२ ॥

विश्वास-प्रस्तुतिः

ततः प्रहृष्टाः पौरास्ते श्रुत्वा राजानमागतम् ॥ २५ ॥
तथा चक्रुश्च तत् सर्वं राज्ञा यत् प्रेषितं तदा ।

मूलम्

ततः प्रहृष्टाः पौरास्ते श्रुत्वा राजानमागतम् ॥ २५ ॥
तथा चक्रुश्च तत् सर्वं राज्ञा यत् प्रेषितं तदा ।

अनुवाद (हिन्दी)

राजाका आगमन सुनकर पुरवासी बड़े प्रसन्न हुए । महाराजने उनके लिये जो संदेश भेजा था, उसका उन्होंने उस समय पूर्णरूपसे पालन किया ॥ २५ १/२ ॥

विश्वास-प्रस्तुतिः

ततः स्वलङ्कृतं राजा नगरं प्रविवेश ह ॥ २६ ॥
शङ्खदुन्दुभिनिर्ह्रादैः पुरस्कृत्वा द्विजर्षभम् ।

मूलम्

ततः स्वलङ्कृतं राजा नगरं प्रविवेश ह ॥ २६ ॥
शङ्खदुन्दुभिनिर्ह्रादैः पुरस्कृत्वा द्विजर्षभम् ।

अनुवाद (हिन्दी)

तदनन्तर राजा दशरथने शङ्ख और दुन्दुभि आदि वाद्योंकी ध्वनिके साथ विप्रवर ऋष्यशृंगको आगे करके अपने सजे-सजाये नगरमें प्रवेश किया ॥ २६ १/२ ॥

विश्वास-प्रस्तुतिः

ततः प्रमुदिताः सर्वे दृष्ट्वा वै नागरा द्विजम् ॥ २७ ॥
प्रवेश्यमानं सत्कृत्य नरेन्द्रेणेन्द्रकर्मणा ।
यथा दिवि सुरेन्द्रेण सहस्राक्षेण काश्यपम् ॥ २८ ॥

मूलम्

ततः प्रमुदिताः सर्वे दृष्ट्वा वै नागरा द्विजम् ॥ २७ ॥
प्रवेश्यमानं सत्कृत्य नरेन्द्रेणेन्द्रकर्मणा ।
यथा दिवि सुरेन्द्रेण सहस्राक्षेण काश्यपम् ॥ २८ ॥

अनुवाद (हिन्दी)

उन द्विजकुमारका दर्शन करके सभी नगरनिवासी बहुत प्रसन्न हुए । उन्होंने इन्द्रके समान पराक्रमी नरेन्द्र दशरथके साथ पुरीमें प्रवेश करते हुए ऋष्यशृंगका उसी प्रकार सत्कार किया, जैसे देवताओंने स्वर्गमें सहस्राक्ष इन्द्रके साथ प्रवेश करते हुए कश्यपनन्दन वामनजीका समादर किया था ॥ २७-२८ ॥

विश्वास-प्रस्तुतिः

अन्तःपुरं प्रवेश्यैनं पूजां कृत्वा च शास्त्रतः ।
कृतकृत्यं तदात्मानं मेने तस्योपवाहनात् ॥ २९ ॥

मूलम्

अन्तःपुरं प्रवेश्यैनं पूजां कृत्वा च शास्त्रतः ।
कृतकृत्यं तदात्मानं मेने तस्योपवाहनात् ॥ २९ ॥

मूलम् - त्र्यम्बकः

अन्तःपुरं प्रवेश्यैनं पूजां कृत्वाथ शास्त्रतः ।
कृत-कृत्यं तदात्मानं मेने तस्योपवाहनात् ॥

अनुवाद (हिन्दी)

ऋषिको अन्तःपुरमें ले जाकर राजाने शास्त्रविधिके अनुसार उनका पूजन किया और उनके निकट आ जानेसे अपनेको कृतकृत्य माना ॥ २९ ॥

विश्वास-प्रस्तुतिः

अन्तःपुराणि सर्वाणि शान्तां दृष्ट्वा तथागताम् ।
सह भर्त्रा विशालाक्षीं प्रीत्यानन्दमुपागमन् ॥ ३० ॥

मूलम्

अन्तःपुराणि सर्वाणि शान्तां दृष्ट्वा तथागताम् ।
सह भर्त्रा विशालाक्षीं प्रीत्यानन्दमुपागमन् ॥ ३० ॥

अनुवाद (हिन्दी)

विशाललोचना शान्ताको इस प्रकार अपने पतिके साथ उपस्थित देख अन्तःपुरकी सभी रानियोंको बड़ी प्रसन्नता हुई । वे आनन्दमग्न हो गयीं ॥ ३० ॥

विश्वास-प्रस्तुतिः

पूज्यमाना तु ताभिः सा राज्ञा चैव विशेषतः ।
उवास तत्र सुखिता कञ्चित् कालं सहद्विजा ॥ ३१ ॥

मूलम्

पूज्यमाना तु ताभिः सा राज्ञा चैव विशेषतः ।
उवास तत्र सुखिता कञ्चित् कालं सहद्विजा ॥ ३१ ॥

अनुवाद (हिन्दी)

शान्ता भी उन रानियोंसे तथा विशेषतः महाराज दशरथके द्वारा आदर-सत्कार पाकर वहाँ कुछ कालतक अपने पति विप्रवर ऋष्यशृंगके साथ बड़े सुखसे रही ॥

समाप्तिः

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे एकादशः सर्गः ॥ ११ ॥
इस प्रकार श्रीवाल्मीकिनिर्मित आर्षरामायण आदिकाव्यके बालकाण्डमें ग्यारहवाँ सर्ग पूरा हुआ ॥ ११ ॥