००८ अश्वमेधसन्नाहः

वाचनम्
भागसूचना
  1. राजाका पुत्रके लिये अश्वमेधयज्ञ करनेका प्रस्ताव और मन्त्रियों तथा ब्राह्मणोंद्वारा उनका अनुमोदन
त्र्यम्बकः - धर्माकूतम्

एतादृशः पुत्रो नास्तीति अष्टम-सर्गे उक्तम् -

विश्वास-प्रस्तुतिः

तस्य चैवम्प्रभावस्य धर्मज्ञस्य महात्मनः ।
सुतार्थं तप्यमानस्य नासीद् वंशकरः सुतः ॥ १ ॥

मूलम्

तस्य चैवम्प्रभावस्य धर्मज्ञस्य महात्मनः ।
सुतार्थं तप्यमानस्य नासीद् वंशकरः सुतः ॥ १ ॥

मूलम् - त्र्यम्बकः

तस्य त्व् एवं-प्रभावस्य धर्मज्ञस्य महात्मनः ।
सुतार्थं तप्यमानस्य नासीद् वंश-करः सुतः ॥

अनुवाद (हिन्दी)

सम्पूर्ण धर्मोंको जाननेवाले महात्मा राजा दशरथ ऐसे प्रभावशाली होते हुए भी पुत्रके लिये सदा चिन्तित रहते थे । उनके वंशको चलानेवाला कोई पुत्र नहीं था ॥ १ ॥

त्र्यम्बकः - धर्माकूतम्

अतः पुत्रोत्पत्त्य्-उपायं चिन्तयतो धर्म-प्रधानस्यास्य दशरथस्य प्राचीन-भव-परम्परासादित-सुकृत-परिपाक-वशात् प्रकृष्ट-धर्म एवाभिलषित-साधने बुद्धिर् आसीत् -

विश्वास-प्रस्तुतिः

चिन्तयानस्य तस्यैवं बुद्धिरासीन्महात्मनः ।
सुतार्थं वाजिमेधेन किमर्थं न यजाम्यहम् ॥ २ ॥

मूलम्

चिन्तयानस्य तस्यैवं बुद्धिरासीन्महात्मनः ।
सुतार्थं वाजिमेधेन किमर्थं न यजाम्यहम् ॥ २ ॥

मूलम् - त्र्यम्बकः

चिन्तयानस्य तस्यैवं बुद्धिर् आसीन् महात्मनः ।
सुतार्थं हयमेधेन किम् अर्थं न यजाम्य् अहम् ॥

अनुवाद (हिन्दी)

उसके लिये चिन्ता करते-करते एक दिन उन महामनस्वी नरेशके मनमें यह विचार हुआ कि मैं पुत्रप्राप्तिके लिये अश्वमेध यज्ञका अनुष्ठान क्यों न करूँ? ॥

त्र्यम्बकः - धर्माकूतम्

इति । तथा च अश्वमेधस्य अत्रोत्पादकत्वम् अत्रैव स्फुटम् । प्रकृष्टत्वं च सकल-पाप-निवर्तकत्वाद् ब्रह्म-लोक-प्रापकत्वात् मुक्ति-जनकत्वाच् च । पाप-निवर्तकत्वं च

सर्वं पाप्मानं तरति तरति ब्रह्म-हत्यां यो ऽश्वमेधेन यजते ।

इति श्रुतेः । ब्रह्म-लोक-प्रापकत्वं च

तान् इन्द्रः सुपर्णो भूत्वा वायवे प्रायच्छत् तान् वायुर् आत्मनि धित्वा तत्रागमयद् यत्राश्वमेध-याजिनो गच्छन्ति ।

इति श्रुतेः । तस्यैवोपासना-सहितस्य समष्टि-हिरण्यगर्भ-भाव-प्रापकत्वम् उक्तं बृहदारण्यके - “उषा वा अश्वस्य” इत्य्-आरभ्य “अप पुनर् मृत्युं जयति” इत्य्-अन्तेन । एवं महा-फलत्वात् सर्वोत्कृष्टो ऽयम् अश्वमेधः । तथा च मनुः - “ब्रह्महत्याश्वमेधाभ्यां न परं पुण्य-पापयोः” इति । किं बहुना? यतः यद्-अपेक्षया उत्कृष्टं पापं नास्ति सापि ब्रह्म-हत्या अन्यदीयाश्वमेधावभृथ-स्नानेन मुच्यते । तथा चापस्तम्बाचार्याः - “ब्रह्महा आश्वमेधिकं वावभृथम् अवेत्य मुच्यते” इति । तथा अन्यदापि

ये ऽश्वस्य हुतस्य गन्धम् आजिघ्रन्ति, सर्वे ते पुण्य-लोका भवन्तीति विज्ञायते । सह पुण्य-कृतः पाप-कृतश् च हस्त-संरब्धा ग्रामम् अभ्युदायन्ति सर्वे ते पुण्य-लोका भवन्तीति विज्ञायते ।

इति । महा-पुरुषः पुत्रत्वेन भावीत्य् अतो ऽप्य् एवं सर्वोत्कृष्ट एव धर्मे बुद्धिर् आसीत् ॥

विश्वास-प्रस्तुतिः

स निश्चितां मतिं कृत्वा यष्टव्यमिति बुद्धिमान् ।
मन्त्रिभिः सह धर्मात्मा सर्वैरपि कृतात्मभिः ॥ ३ ॥
ततोऽब्रवीन्महातेजाः सुमन्त्रं मन्त्रिसत्तम ।
शीघ्रमानय मे सर्वान् गुरूंस्तान् सपुरोहितान् ॥ ४ ॥

मूलम्

स निश्चितां मतिं कृत्वा यष्टव्यमिति बुद्धिमान् ।
मन्त्रिभिः सह धर्मात्मा सर्वैरपि कृतात्मभिः ॥ ३ ॥
ततोऽब्रवीन्महातेजाः सुमन्त्रं मन्त्रिसत्तम ।
शीघ्रमानय मे सर्वान् गुरूंस्तान् सपुरोहितान् ॥ ४ ॥

मूलम् - त्र्यम्बकः

ततो ऽब्रवीद् इदं राजा सुमन्त्रं मन्त्रि-सत्तमम् ।
शीघ्रम् आनय मे सर्वान् गुरूंस् तान् स-पुरोहितान् ॥

अनुवाद (हिन्दी)

अपने समस्त शुद्ध बुद्धिवाले मन्त्रियोंके साथ परामर्शपूर्वक यज्ञ करनेका ही निश्चित विचार करके उन महातेजस्वी, बुद्धिमान् एवं धर्मात्मा राजाने सुमन्त्रसे कहा—‘मन्त्रिवर! तुम मेरे समस्त गुरुजनों एवं पुरोहितोंको यहाँ शीघ्र बुला ले आओ’ ॥ ३-४ ॥

विश्वास-प्रस्तुतिः

ततः सुमन्त्रस्त्वरितं गत्वा त्वरितविक्रमः ।
समानयत् स तान् सर्वान् समस्तान् वेदपारगान् ॥ ५ ॥

मूलम्

ततः सुमन्त्रस्त्वरितं गत्वा त्वरितविक्रमः ।
समानयत् स तान् सर्वान् समस्तान् वेदपारगान् ॥ ५ ॥

अनुवाद (हिन्दी)

तब शीघ्रतापूर्वक पराक्रम प्रकट करनेवाले सुमन्त्र तुरंत जाकर उन समस्त वेदविद्याके पारंगत मुनियोंको वहाँ बुला लाये ॥ ५ ॥

विश्वास-प्रस्तुतिः

सुयज्ञं वामदेवं च जाबालिमथ काश्यपम् ।
पुरोहितं वसिष्ठं च ये चाप्यन्ये द्विजोत्तमाः ॥ ६ ॥
तान् पूजयित्वा धर्मात्मा राजा दशरथस्तदा ।
इदं धर्मार्थसहितं श्लक्ष्णं वचनमब्रवीत् ॥ ७ ॥

मूलम्

सुयज्ञं वामदेवं च जाबालिमथ काश्यपम् ।
पुरोहितं वसिष्ठं च ये चाप्यन्ये द्विजोत्तमाः ॥ ६ ॥
तान् पूजयित्वा धर्मात्मा राजा दशरथस्तदा ।
इदं धर्मार्थसहितं श्लक्ष्णं वचनमब्रवीत् ॥ ७ ॥

मूलम् - त्र्यम्बकः

सुयज्ञं वामदेवं च जाबालिम् अथ काश्यपम् ।
पुरोहितं वसिष्ठं च ये चान्ये द्विज-सत्तमाः ॥

अनुवाद (हिन्दी)

सुयज्ञ, वामदेव, जाबालि, काश्यप, कुलपुरोहित वसिष्ठ तथा और भी जो श्रेष्ठ ब्राह्मण थे, उन सबकी पूजा करके धर्मात्मा राजा दशरथने धर्म और अर्थसे युक्त यह मधुर वचन कहा— ॥ ६-७ ॥

विश्वास-प्रस्तुतिः

मम लालप्यमानस्य सुतार्थं नास्ति वै सुखम् ।
तदर्थं हयमेधेन यक्ष्यामीति मतिर्मम ॥ ८ ॥

मूलम्

मम लालप्यमानस्य सुतार्थं नास्ति वै सुखम् ।
तदर्थं हयमेधेन यक्ष्यामीति मतिर्मम ॥ ८ ॥

अनुवाद (हिन्दी)

‘महर्षियो! मैं सदा पुत्रके लिये विलाप करता रहता हूँ । उसके बिना इस राज्य आदिसे मुझे सुख नहीं मिलता; अतः मैंने यह निश्चय किया है कि मैं पुत्र-प्राप्तिके लिये अश्वमेधद्वारा भगवान् का यजन करूँ ॥ ८ ॥

विश्वास-प्रस्तुतिः

तदहं यष्टुमिच्छामि शास्त्रदृष्टेन कर्मणा ।
कथं प्राप्स्याम्यहं कामं बुद्धिरत्रविचिन्त्यताम् ॥ ९ ॥

मूलम्

तदहं यष्टुमिच्छामि शास्त्रदृष्टेन कर्मणा ।
कथं प्राप्स्याम्यहं कामं बुद्धिरत्रविचिन्त्यताम् ॥ ९ ॥

मूलम् - त्र्यम्बकः

तद् अहं यष्टुम् इच्छामि शास्त्र-दृष्टेन कर्मणा ।
कथं प्राप्स्याम्य् अहं कामं बुद्धिर् अत्र विचार्यताम् ॥

अनुवाद (हिन्दी)

‘मेरी इच्छा है कि शास्त्रोक्त विधिसे इस यज्ञका अनुष्ठान करूँ; अतः किस प्रकार मुझे मेरी मनोवाञ्छित वस्तु प्राप्त होगी? इसका विचार आपलोग यहाँ करें’ ॥ ९ ॥

विश्वास-प्रस्तुतिः

ततः साध्विति तद्वाक्यं ब्राह्मणाः प्रत्यपूजयन् ।
वसिष्ठप्रमुखाः सर्वे पार्थिवस्य मुखेरितम् ॥ १० ॥

मूलम्

ततः साध्विति तद्वाक्यं ब्राह्मणाः प्रत्यपूजयन् ।
वसिष्ठप्रमुखाः सर्वे पार्थिवस्य मुखेरितम् ॥ १० ॥

अनुवाद (हिन्दी)

राजाके ऐसा कहनेपर वसिष्ठ आदि सब ब्राह्मणोंने ‘बहुत अच्छा’ कहकर उनके मुखसे कहे गये पूर्वोक्त वचनकी प्रशंसा की ॥ १० ॥

विश्वास-प्रस्तुतिः

ऊचुश्च परमप्रीताः सर्वे दशरथं वचः ।
सम्भाराः सम्भ्रियन्तां ते तुरगश्च विमुच्यताम् ॥ ११ ॥
सरय्वाश्चोत्तरे तीरे यज्ञभूमिर्विधीयताम् ।
सर्वथा प्राप्स्यसे पुत्रानभिप्रेतांश्च पार्थिव ॥ १२ ॥
यस्य ते धार्मिकी बुद्धिरियं पुत्रार्थमागता ।

फिर वे सभी अत्यन्त प्रसन्न होकर राजा दशरथसे बोले—‘महाराज! यज्ञ-सामग्रीका संग्रह किया जाय । भूमण्डलमें भ्रमणके लिये यज्ञसम्बन्धी अश्व छोड़ा जाय तथा सरयूके उत्तर तटपर यज्ञभूमिका निर्माण किया जाय । तुम यज्ञद्वारा सर्वथा अपनी इच्छाके अनुरूप पुत्र प्राप्त कर लोगे; क्योंकि पुत्रके लिये तुम्हारे हृदयमें ऐसी धार्मिक बुद्धिका उदय हुआ है’ ॥ ११-१२ १/२ ॥

विश्वास-प्रस्तुतिः

ततस्तुष्टोऽभवद् राजा श्रुत्वैतद् द्विजभाषितम् ॥ १३ ॥
अमात्यानब्रवीद् राजा हर्षव्याकुललोचनः ।
सम्भाराः सम्भ्रियन्तां मे गुरूणां वचनादिह ॥ १४ ॥
समर्थाधिष्ठितश्चाश्वः सोपाध्यायो विमुच्यताम् ।
सरय्वाश्चोत्तरे तीरे यज्ञभूमिर्विधीयताम् ॥ १५ ॥
शान्तयश्चापि वर्धन्तां यथाकल्पं यथाविधि ।
शक्यः प्राप्तुमयं यज्ञः सर्वेणापि महीक्षिता ॥ १६ ॥
नापराधो भवेत् कष्टो यद्यस्मिन् क्रतुसत्तमे ।
छिद्रं हि मृगयन्ते स्म विद्वांसो ब्रह्मराक्षसाः ॥ १७ ॥

ततः प्रीतो ऽभवद् राजा श्रुत्वा तद् द्विज-भाषितम् ॥

अनुवाद (हिन्दी)

ब्राह्मणोंका यह कथन सुनकर राजा बहुत संतुष्ट हुए । हर्षसे उनके नेत्र चञ्चल हो उठे । वे अपने मन्त्रियोंसे बोले—‘गुरुजनोंकी आज्ञाके अनुसार यज्ञकी सामग्री यहाँ एकत्र की जाय । शक्तिशाली वीरोंके संरक्षणमें उपाध्यायसहित अश्वको छोड़ा जाय । सरयूके उत्तर तटपर यज्ञभूमिका निर्माण हो । शास्त्रोक्त विधिके अनुसार क्रमशः शान्तिकर्मका विस्तार किया जाय (जिससे विघ्नोंका निवारण हो) । यदि इस श्रेष्ठ यज्ञमें कष्टप्रद अपराध बन जानेका भय न हो तो सभी राजा इसका सम्पादन कर सकते हैं; परंतु ऐसा होना कठिन है; क्योंकि विद्वान् ब्रह्मराक्षस यज्ञमें विघ्न डालनेके लिये छिद्र ढूँढ़ा करते हैं ॥ १३—१७ ॥

त्र्यम्बकः - धर्माकूतम्

अत्र महर्षिभिर् अपि अनुग्रहं कृत्वा फलम् अवश्यं भावीति निश्चित्य कर्मारम्भो ऽभ्यनुज्ञातः आ सर्ग-समाप्तेः ।

विश्वास-प्रस्तुतिः

विधिहीनस्य यज्ञस्य सद्यः कर्ता विनश्यति ।
तद्यथा विधिपूर्वं मे क्रतुरेष समाप्यते ॥ १८ ॥
तथा विधानं क्रियतां समर्थाः साधनेष्विति ।

मूलम्

विधिहीनस्य यज्ञस्य सद्यः कर्ता विनश्यति ।
तद्यथा विधिपूर्वं मे क्रतुरेष समाप्यते ॥ १८ ॥
तथा विधानं क्रियतां समर्थाः साधनेष्विति ।

अनुवाद (हिन्दी)

‘विधिहीन यज्ञका अनुष्ठान करनेवाला यजमान तत्काल नष्ट हो जाता है; अतः मेरा यह यज्ञ जिस तरह विधिपूर्वक सम्पन्न हो सके, वैसा उपाय किया जाय । तुम सब लोग ऐसे साधन प्रस्तुत करनेमें समर्थ हो’ ॥

विश्वास-प्रस्तुतिः

तथेति चाब्रुवन् सर्वे मन्त्रिणः प्रतिपूजिताः ॥ १९ ॥
पार्थिवेन्द्रस्य तद् वाक्यं यथापूर्वं निशम्य ते ।

मूलम्

तथेति चाब्रुवन् सर्वे मन्त्रिणः प्रतिपूजिताः ॥ १९ ॥
पार्थिवेन्द्रस्य तद् वाक्यं यथापूर्वं निशम्य ते ।

अनुवाद (हिन्दी)

राजाके द्वारा सम्मानित हुए समस्त मन्त्री पूर्ववत् उनके वचनोंको सुनकर बोले—‘बहुत अच्छा, ऐसा ही होगा’ ॥ १९ १/२ ॥

विश्वास-प्रस्तुतिः

तथा द्विजास्ते धर्मज्ञा वर्धयन्तो नृपोत्तमम् ॥ २० ॥
अनुज्ञातास्ततः सर्वे पुनर्जग्मुर्यथागतम् ।

मूलम्

तथा द्विजास्ते धर्मज्ञा वर्धयन्तो नृपोत्तमम् ॥ २० ॥
अनुज्ञातास्ततः सर्वे पुनर्जग्मुर्यथागतम् ।

अनुवाद (हिन्दी)

इसी प्रकार वे सभी धर्मज्ञ ब्राह्मण भी नृपश्रेष्ठ दशरथको बधाई देते हुए उनकी आज्ञा लेकर जैसे आये थे, वैसे ही फिर लौट गये ॥ २० १/२ ॥

विश्वास-प्रस्तुतिः

विसर्जयित्वा तान् विप्रान् सचिवानिदमब्रवीत् ॥ २१ ॥
ऋत्विग्भिरुपसन्दिष्टो यथावत् क्रतुराप्यताम् ।

मूलम्

विसर्जयित्वा तान् विप्रान् सचिवानिदमब्रवीत् ॥ २१ ॥
ऋत्विग्भिरुपसन्दिष्टो यथावत् क्रतुराप्यताम् ।

अनुवाद (हिन्दी)

उन ब्राह्मणोंको विदा करके राजाने मन्त्रियोंसे कहा—‘पुरोहितोंके उपदेशके अनुसार इस यज्ञको विधिवत् पूर्ण करना चाहिये’ ॥ २१ १/२ ॥

विश्वास-प्रस्तुतिः

इत्युक्त्वा नृपशार्दूलः सचिवान् समुपस्थितान् ॥ २२ ॥
विसर्जयित्वा स्वं वेश्म प्रविवेश महामतिः ।

मूलम्

इत्युक्त्वा नृपशार्दूलः सचिवान् समुपस्थितान् ॥ २२ ॥
विसर्जयित्वा स्वं वेश्म प्रविवेश महामतिः ।

अनुवाद (हिन्दी)

वहाँ उपस्थित हुए मन्त्रियोंसे ऐसा कहकर परम बुद्धिमान् नृपश्रेष्ठ दशरथ उन्हें विदा करके अपने महलमें चले गये ॥ २२ १/२ ॥

विश्वास-प्रस्तुतिः

ततः स गत्वा ताः पत्नीर्नरेन्द्रो हृदयङ्गमाः ॥ २३ ॥
उवाच दीक्षां विशत यक्ष्येऽहं सुतकारणात् ।

मूलम्

ततः स गत्वा ताः पत्नीर्नरेन्द्रो हृदयङ्गमाः ॥ २३ ॥
उवाच दीक्षां विशत यक्ष्येऽहं सुतकारणात् ।

अनुवाद (हिन्दी)

वहाँ जाकर नरेशने अपनी प्यारी पत्नियोंसे कहा—‘देवियो! दीक्षा ग्रहण करो । मैं पुत्रके लिये यज्ञ करूँगा’ ॥ २३ १/२ ॥

विश्वास-प्रस्तुतिः

तासां तेनातिकान्तेन वचनेन सुवर्चसाम् ।
मुखपद्मान्यशोभन्त पद्मानीव हिमात्यये ॥ २४ ॥

मूलम्

तासां तेनातिकान्तेन वचनेन सुवर्चसाम् ।
मुखपद्मान्यशोभन्त पद्मानीव हिमात्यये ॥ २४ ॥

अनुवाद (हिन्दी)

उस मनोहर वचनसे उन सुन्दर कान्तिवाली रानियोंके मुखकमल वसन्तऋतुमें विकसित होनेवाले पङ्कजोंके समान खिल उठे और अत्यन्त शोभा पाने लगे ॥ २४ ॥

समाप्तिः

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डेऽष्टमः सर्गः ॥ ८ ॥
इस प्रकार श्रीवाल्मीकिनिर्मित आर्षरामायण आदिकाव्यके बालकाण्डमें आठवाँ सर्ग पूरा हुआ ॥ ८ ॥