००७ मन्त्रिगुणगौरवम्

वाचनम्
भागसूचना
  1. राजमन्त्रियोंके गुण और नीतिका वर्णन
त्र्यम्बकः - धर्माकूतम्

तेषां गुणाः सप्तमे सर्गे -

विश्वास-प्रस्तुतिः

तस्यामात्या गुणैरासन्निक्ष्वाकोः सुमहात्मनः ।
मन्त्रज्ञाश्चेङ्गितज्ञाश्च नित्यं प्रियहिते रताः ॥ १ ॥
अष्टौ बभूवुर्वीरस्य तस्यामात्या यशस्विनः ।
शुचयश्चानुरक्ताश्च राजकृत्येषु नित्यशः ॥ २ ॥

मूलम्

तस्यामात्या गुणैरासन्निक्ष्वाकोः सुमहात्मनः ।
मन्त्रज्ञाश्चेङ्गितज्ञाश्च नित्यं प्रियहिते रताः ॥ १ ॥
अष्टौ बभूवुर्वीरस्य तस्यामात्या यशस्विनः ।
शुचयश्चानुरक्ताश्च राजकृत्येषु नित्यशः ॥ २ ॥

मूलम् - त्र्यम्बकः

तस्यामात्या गुणैर् आसन्नैक्ष्वाकस्य महात्मनः ।
मन्त्रज्ञाश् चेङ्गितज्ञाश् च नित्यं प्रिय-हिते रताः ॥

अष्टौ बभूवुर् वीरस्य महामात्या यशस्विनः ।
शुचयश् चानुरक्ताश् च राज-कृत्येषु नित्यशः ॥

अनुवाद (हिन्दी)

इक्ष्वाकुवंशी वीर महामना महाराज दशरथके मन्त्रिजनोचित गुणोंसे सम्पन्न आठ मन्त्री थे, जो मन्त्रके तत्त्वको जाननेवाले और बाहरी चेष्टा देखकर ही मनके भावको समझ लेनेवाले थे । वे सदा ही राजाके प्रिय एवं हितमें लगे रहते थे । इसीलिये उनका यश बहुत फैला हुआ था । वे सभी शुद्ध आचार-विचारसे युक्त थे और राजकीय कार्योंमें निरन्तर संलग्न रहते थे ॥ १-२ ॥

विश्वास-प्रस्तुतिः

धृष्टिर्जयन्तो विजयः सुराष्ट्रो राष्ट्रवर्धनः ।
अकोपो धर्मपालश्च सुमन्त्रश्चाष्टमोऽर्थवित् ॥ ३ ॥

मूलम्

धृष्टिर्जयन्तो विजयः सुराष्ट्रो राष्ट्रवर्धनः ।
अकोपो धर्मपालश्च सुमन्त्रश्चाष्टमोऽर्थवित् ॥ ३ ॥

मूलम् - त्र्यम्बकः

धृष्टिर् जयन्तो विजयः सिद्धार्थो ह्य् अर्थ-साधकः ।
अशोको मन्त्र-पालश् च सुमन्त्रश् चाष्टमो ऽभवत् ॥

अनुवाद (हिन्दी)

उनके नाम इस प्रकार हैं—धृष्टि, जयन्त, विजय, सुराष्ट्र, राष्ट्रवर्धन, अकोप, धर्मपाल और आठवें सुमन्त्र, जो अर्थशास्त्रके ज्ञाता थे ॥ ३ ॥

विश्वास-प्रस्तुतिः

ऋत्विजौ द्वावभिमतौ तस्यास्तामृषिसत्तमौ ।
वसिष्ठो वामदेवश्च मन्त्रिणश्च तथापरे ॥ ४ ॥
सुयज्ञोऽप्यथ जाबालिः काश्यपोऽप्यथ गौतमः ।
मार्कण्डेयस्तु दीर्घायुस्तथा कात्यायनो द्विजः ॥ ५ ॥

मूलम्

ऋत्विजौ द्वावभिमतौ तस्यास्तामृषिसत्तमौ ।
वसिष्ठो वामदेवश्च मन्त्रिणश्च तथापरे ॥ ४ ॥
सुयज्ञोऽप्यथ जाबालिः काश्यपोऽप्यथ गौतमः ।
मार्कण्डेयस्तु दीर्घायुस्तथा कात्यायनो द्विजः ॥ ५ ॥

अनुवाद (हिन्दी)

ऋषियोंमें श्रेष्ठतम वसिष्ठ और वामदेव—ये दो महर्षि राजाके माननीय ऋत्विज् (पुरोहित) थे । इनके सिवा सुयज्ञ, जाबालि, काश्यप, गौतम, दीर्घायु मार्कण्डेय और विप्रवर कात्यायन भी महाराजके मन्त्री थे ॥ ४-५ ॥

विश्वास-प्रस्तुतिः

एतैर्ब्रह्मर्षिभिर्नित्यमृत्विजस्तस्य पौर्वकाः ।
विद्याविनीता ह्रीमन्तः कुशला नियतेन्द्रियाः ॥ ६ ॥
श्रीमन्तश्च महात्मानः शस्त्रज्ञा दृढविक्रमाः ।
कीर्तिमन्तः प्रणिहिता यथावचनकारिणः ॥ ७ ॥
तेजःक्षमायशःप्राप्ताः स्मितपूर्वाभिभाषिणः ।
क्रोधात् कामार्थहेतोर्वा न ब्रूयुरनृतं वचः ॥ ८ ॥

मूलम्

एतैर्ब्रह्मर्षिभिर्नित्यमृत्विजस्तस्य पौर्वकाः ।
विद्याविनीता ह्रीमन्तः कुशला नियतेन्द्रियाः ॥ ६ ॥
श्रीमन्तश्च महात्मानः शस्त्रज्ञा दृढविक्रमाः ।
कीर्तिमन्तः प्रणिहिता यथावचनकारिणः ॥ ७ ॥
तेजःक्षमायशःप्राप्ताः स्मितपूर्वाभिभाषिणः ।
क्रोधात् कामार्थहेतोर्वा न ब्रूयुरनृतं वचः ॥ ८ ॥

मूलम् - त्र्यम्बकः

विद्या-विनीता ह्रीमन्तः कुशला नियतेन्द्रियाः ।
परस्परानुरक्ताश् च नीति-मन्तो बहु-श्रुताः ॥

अनुवाद (हिन्दी)

इन ब्रह्मर्षियोंके साथ राजाके पूर्वपरम्परागत ऋत्विज् भी सदा मन्त्रीका कार्य करते थे । वे सब-के-सब विद्वान् होनेके कारण विनयशील, सलज्ज, कार्यकुशल, जितेन्द्रिय, श्रीसम्पन्न, महात्मा, शस्त्रविद्याके ज्ञाता, सुदृढ़ पराक्रमी, यशस्वी, समस्त राजकार्योंमें सावधान, राजाकी आज्ञाके अनुसार कार्य करनेवाले, तेजस्वी, क्षमाशील, कीर्तिमान् तथा मुसकराकर बात करनेवाले थे । वे कभी काम, क्रोध या स्वार्थके वशीभूत होकर झूठ नहीं बोलते थे ॥ ६—८ ॥

विश्वास-प्रस्तुतिः

तेषामविदितं किञ्चित् स्वेषु नास्ति परेषु वा ।
क्रियमाणं कृतं वापि चारेणापि चिकीर्षितम् ॥ ९ ॥

मूलम्

तेषामविदितं किञ्चित् स्वेषु नास्ति परेषु वा ।
क्रियमाणं कृतं वापि चारेणापि चिकीर्षितम् ॥ ९ ॥

अनुवाद (हिन्दी)

अपने या शत्रुपक्षके राजाओंकी कोई भी बात उनसे छिपी नहीं रहती थी । दूसरे राजा क्या करते हैं, क्या कर चुके हैं और क्या करना चाहते हैं—ये सभी बातें गुप्तचरोंद्वारा उन्हें मालूम रहती थीं ॥ ९ ॥

विश्वास-प्रस्तुतिः

कुशला व्यवहारेषु सौहृदेषु परीक्षिताः ।
प्राप्तकालं यथा दण्डं धारयेयुः सुतेष्वपि ॥ १० ॥

मूलम्

कुशला व्यवहारेषु सौहृदेषु परीक्षिताः ।
प्राप्तकालं यथा दण्डं धारयेयुः सुतेष्वपि ॥ १० ॥

अनुवाद (हिन्दी)

वे सभी व्यवहारकुशल थे । उनके सौहार्दकी अनेक अवसरोंपर परीक्षा ली जा चुकी थी । वे मौका पड़नेपर अपने पुत्रको भी उचित दण्ड देनेमें भी नहीं हिचकते थे ॥ १० ॥

विश्वास-प्रस्तुतिः

कोशसङ्ग्रहणे युक्ता बलस्य च परिग्रहे ।
अहितं चापि पुरुषं न हिंस्युरविदूषकम् ॥ ११ ॥

मूलम्

कोशसङ्ग्रहणे युक्ता बलस्य च परिग्रहे ।
अहितं चापि पुरुषं न हिंस्युरविदूषकम् ॥ ११ ॥

मूलम् - त्र्यम्बकः

कोश-संग्रहणे युक्ता बलस्य च परिग्रहे ।
अहितं चापि पुरुषं न विहिंस्युर् अदूषकम् ॥

अनुवाद (हिन्दी)

कोषके संचय तथा चतुरंगिणी सेनाके संग्रहमें सदा लगे रहते थे । शत्रुने भी यदि अपराध न किया हो तो वे उसकी हिंसा नहीं करते थे ॥ ११ ॥

विश्वास-प्रस्तुतिः

वीराश्च नियतोत्साहा राजशास्त्रमनुष्ठिताः ।
शुचीनां रक्षितारश्च नित्यं विषयवासिनाम् ॥ १२ ॥

मूलम्

वीराश्च नियतोत्साहा राजशास्त्रमनुष्ठिताः ।
शुचीनां रक्षितारश्च नित्यं विषयवासिनाम् ॥ १२ ॥

मूलम् - त्र्यम्बकः

वीराश् च नियतोत्साहा राज-शास्त्रम् अनुव्रताः ।
शुचीनां रक्षितारश् च नित्यं विषय-वासिनाम् ॥

अनुवाद (हिन्दी)

उन सबमें सदा शौर्य एवं उत्साह भरा रहता था । वे राजनीतिके अनुसार कार्य करते तथा अपने राज्यके भीतर रहनेवाले सत्पुरुषोंकी सदा रक्षा करते थे ॥ १२ ॥

विश्वास-प्रस्तुतिः

ब्रह्मक्षत्रमहिंसन्तस्ते कोशं समपूरयन् ।
सुतीक्ष्णदण्डाः सम्प्रेक्ष्य पुरुषस्य बलाबलम् ॥ १३ ॥

मूलम्

ब्रह्मक्षत्रमहिंसन्तस्ते कोशं समपूरयन् ।
सुतीक्ष्णदण्डाः सम्प्रेक्ष्य पुरुषस्य बलाबलम् ॥ १३ ॥

अनुवाद (हिन्दी)

ब्राह्मणों और क्षत्रियोंको कष्ट न पहुँचाकर न्यायोचित धनसे राजाका खजाना भरते थे । वे अपराधी पुरुषके बलाबलको देखकर उसके प्रति तीक्ष्ण अथवा मृदु दण्डका प्रयोग करते थे ॥ १३ ॥

विश्वास-प्रस्तुतिः

शुचीनामेकबुद्धीनां सर्वेषां सम्प्रजानताम् ।
नासीत्पुरे वा राष्ट्रे वा मृषावादी नरः क्वचित् ॥ १४ ॥
क्वचिन्न दुष्टस्तत्रासीत् परदाररतिर्नरः ।
प्रशान्तं सर्वमेवासीद् राष्ट्रं पुरवरं च तत् ॥ १५ ॥

मूलम्

शुचीनामेकबुद्धीनां सर्वेषां सम्प्रजानताम् ।
नासीत्पुरे वा राष्ट्रे वा मृषावादी नरः क्वचित् ॥ १४ ॥
क्वचिन्न दुष्टस्तत्रासीत् परदाररतिर्नरः ।
प्रशान्तं सर्वमेवासीद् राष्ट्रं पुरवरं च तत् ॥ १५ ॥

अनुवाद (हिन्दी)

उन सबके भाव शुद्ध और विचार एक थे । उनकी जानकारीमें अयोध्यापुरी अथवा कोसलराज्यके भीतर कहीं एक भी मनुष्य ऐसा नहीं था, जो मिथ्यावादी, दुष्ट और परस्त्रीलम्पट हो । सम्पूर्ण राष्ट्र और नगरमें पूर्ण शान्ति छायी रहती थी ॥ १४-१५ ॥

विश्वास-प्रस्तुतिः

सुवाससः सुवेषाश्च ते च सर्वे शुचिव्रताः ।
हितार्थाश्च नरेन्द्रस्य जाग्रतो नयचक्षुषा ॥ १६ ॥

मूलम्

सुवाससः सुवेषाश्च ते च सर्वे शुचिव्रताः ।
हितार्थाश्च नरेन्द्रस्य जाग्रतो नयचक्षुषा ॥ १६ ॥

मूलम् - त्र्यम्बकः

सुवाससः सुवेषाश् च ते च सर्वे सुशीलिनः ।
हितार्थं च नरेन्द्रस्य जाग्रतो नय-चक्षुषा ॥

अनुवाद (हिन्दी)

उन मन्त्रियोंके वस्त्र और वेष स्वच्छ एवं सुन्दर होते थे । वे उत्तम व्रतका पालन करनेवाले तथा राजाके हितैषी थे । नीतिरूपी नेत्रोंसे देखते हुए सदा सजग रहते थे ॥

विश्वास-प्रस्तुतिः

गुरोर्गुणगृहीताश्च प्रख्याताश्च पराक्रमैः ।
विदेशेष्वपि विज्ञाताः सर्वतो बुद्धिनिश्चयाः ॥ १७ ॥

मूलम्

गुरोर्गुणगृहीताश्च प्रख्याताश्च पराक्रमैः ।
विदेशेष्वपि विज्ञाताः सर्वतो बुद्धिनिश्चयाः ॥ १७ ॥

मूलम् - त्र्यम्बकः

गुरौ गुण-गृहीताश् च प्रख्याताश् च पराक्रमे ।
विदेशेष्व् अपि विख्याताः सर्वतो बुद्धि-निश्चयात् ॥

अनुवाद (हिन्दी)

अपने गुणोंके कारण वे सभी मन्त्री गुरुतुल्य समादरणीय राजाके अनुग्रहपात्र थे । अपने पराक्रमोंके कारण उनकी सर्वत्र ख्याति थी । विदेशोंमें भी सब लोग उन्हें जानते थे । वे सभी बातोंमें बुद्धिद्वारा भलीभाँति विचार करके किसी निश्चयपर पहुँचते थे ॥ १७ ॥

विश्वास-प्रस्तुतिः

अभितो गुणवन्तश्च न चासन् गुणवर्जिताः ।
सन्धिविग्रहतत्त्वज्ञाः प्रकृत्या सम्पदान्विताः ॥ १८ ॥

मूलम्

अभितो गुणवन्तश्च न चासन् गुणवर्जिताः ।
सन्धिविग्रहतत्त्वज्ञाः प्रकृत्या सम्पदान्विताः ॥ १८ ॥

अनुवाद (हिन्दी)

समस्त देशों और कालोंमें वे गुणवान् ही सिद्ध होते थे, गुणहीन नहीं । संधि और विग्रहके उपयोग और अवसरका उन्हें अच्छी तरह ज्ञान था । वे स्वभावसे ही सम्पत्तिशाली (दैवी सम्पत्तिसे युक्त) थे ॥ १८ ॥

विश्वास-प्रस्तुतिः

मन्त्रसंवरणे शक्ताः शक्ताः सूक्ष्मासु बुद्धिषु ।
नीतिशास्त्रविशेषज्ञाः सततं प्रियवादिनः ॥ १९ ॥

मूलम्

मन्त्रसंवरणे शक्ताः शक्ताः सूक्ष्मासु बुद्धिषु ।
नीतिशास्त्रविशेषज्ञाः सततं प्रियवादिनः ॥ १९ ॥

मूलम् - त्र्यम्बकः

संधि-विग्रह-तत्त्वज्ञाः प्रकृत्या संपदान्विताः ।
मन्त्र-संवरणे युक्ताः शक्ताः सूक्ष्मासु बुद्धिषु ॥
नीति-शास्त्र-विशेषज्ञाः सततं प्रिय-वादिनः ॥

अनुवाद (हिन्दी)

उनमें राजकीय मन्त्रणाको गुप्त रखनेकी पूर्ण शक्ति थी । वे सूक्ष्मविषयका विचार करनेमें कुशल थे । नीतिशास्त्रमें उनकी विशेष जानकारी थी तथा वे सदा ही प्रिय लगनेवाली बात बोलते थे ॥ १९ ॥

त्र्यम्बकः - धर्माकूतम्

एतेन राज्ञा सद्-गुण-विशिष्टा अष्टौ मन्त्रिणः संगृह्या इति सूचितम् । तथा च मनुः -

मौलाञ् शास्त्र-विदः शूराल् लब्ध-लक्षान् कुलागतान् ।
सचिवान् सप्त वाष्टौ वा प्रकुर्वीत परीक्षितान् ॥

मन्त्रिणो यस्य कुलजा असंहार्याः सहोषिताः ।
नृपतेर् मतिदाः सन्ति संबंध-ज्ञान-कोविदाः ॥

अनागत-विधातारः काल-ज्ञान-विशारदाः ।
अतिक्रान्तम् अशोचन्तः स राज्य-फलम् अश्नुते ॥

सम-दुःख-सुखा यस्य सहायाः प्रिय-कारिणः ।
अर्थ-चिन्ता-पराः सभ्याः स राज्य-फलम् अश्नुते ॥

इति ॥

विश्वास-प्रस्तुतिः

ईदृशैस्तैरमात्यैश्च राजा दशरथोऽनघः ।
उपपन्नो गुणोपेतैरन्वशासद् वसुन्धराम् ॥ २० ॥

मूलम्

ईदृशैस्तैरमात्यैश्च राजा दशरथोऽनघः ।
उपपन्नो गुणोपेतैरन्वशासद् वसुन्धराम् ॥ २० ॥

मूलम् - त्र्यम्बकः

ईदृशैस् तैर् अमात्यैस् तु राजा दशरथो ऽनघः ।
उपपन्नो गुणोपेतैर् अन्व् अशासद् वसुंधराम् ॥

अनुवाद (हिन्दी)

ऐसे गुणवान् मन्त्रियोंके साथ रहकर निष्पाप राजा दशरथ उस भूमण्डलका शासन करते थे ॥ २० ॥

विश्वास-प्रस्तुतिः

अवेक्ष्यमाणश्चारेण प्रजा धर्मेण रक्षयन् ।
प्रजानां पालनं कुर्वन्नधर्मं परिवर्जयन् ॥ २१ ॥

मूलम्

अवेक्ष्यमाणश्चारेण प्रजा धर्मेण रक्षयन् ।
प्रजानां पालनं कुर्वन्नधर्मं परिवर्जयन् ॥ २१ ॥

मूलम् - त्र्यम्बकः

अवेक्षमाणश् चारेण प्रजा धर्मेण रञ्जयन् ।
विश्रुत-स्त्रिषु लोकेषु वदान्यः सत्य-संगरः ॥

अनुवाद (हिन्दी)

वे गुप्तचरोंके द्वारा अपने और शत्रु-राज्यके वृत्तान्तोंपर दृष्टि रखते थे, प्रजाका धर्मपूर्वक पालन करते थे तथा प्रजापालन करते हुए अधर्मसे दूर ही रहते थे ॥ २१ ॥

विश्वास-प्रस्तुतिः

विश्रुतस्त्रिषु लोकेषु वदान्यः सत्यसङ्गरः+++(=सत्यसन्धिः)+++ ।
स तत्र पुरुषव्याघ्रः शशास पृथिवीमिमाम् ॥ २२ ॥

मूलम्

विश्रुतस्त्रिषु लोकेषु वदान्यः सत्यसङ्गरः ।
स तत्र पुरुषव्याघ्रः शशास पृथिवीमिमाम् ॥ २२ ॥

अनुवाद (हिन्दी)

उनकी तीनों लोकोंमें प्रसिद्धि थी । वे उदार और सत्यप्रतिज्ञ थे । पुरुषसिंह राजा दशरथ अयोध्यामें ही रहकर इस पृथ्वीका शासन करते थे ॥ २२ ॥

विश्वास-प्रस्तुतिः

नाध्यगच्छद्विशिष्टं वा तुल्यं वा शत्रुमात्मनः ।
मित्रवान्नतसामन्तः प्रतापहतकण्टकः ।
स शशास जगद् राजा दिवि देवपतिर्यथा ॥ २३ ॥

मूलम्

नाध्यगच्छद्विशिष्टं वा तुल्यं वा शत्रुमात्मनः ।
मित्रवान्नतसामन्तः प्रतापहतकण्टकः ।
स शशास जगद् राजा दिवि देवपतिर्यथा ॥ २३ ॥

अनुवाद (हिन्दी)

उन्हें कभी अपनेसे बड़ा अथवा अपने समान भी कोई शत्रु नहीं मिला । उनके मित्रोंकी संख्या बहुत थी । सभी सामन्त उनके चरणोंमें मस्तक झुकाते थे । उनके प्रतापसे राज्यके सारे कण्टक (शत्रु एवं चोर आदि) नष्ट हो गये थे । जैसे देवराज इन्द्र स्वर्गमें रहकर तीनों लोकोंका पालन करते हैं, उसी प्रकार राजा दशरथ अयोध्यामें रहकर सम्पूर्ण जगत् का शासन करते थे ॥ २३ ॥

विश्वास-प्रस्तुतिः

तैर्मन्त्रिभिर्मन्त्रहिते निविष्टै-
र्वृतोऽनुरक्तैः कुशलैः समर्थैः ।
स पार्थिवो दीप्तिमवाप युक्त-
स्तेजोमयैर्गोभिरिवोदितोऽर्कः ॥ २४ ॥

मूलम्

तैर्मन्त्रिभिर्मन्त्रहिते निविष्टै-
र्वृतोऽनुरक्तैः कुशलैः समर्थैः ।
स पार्थिवो दीप्तिमवाप युक्त-
स्तेजोमयैर्गोभिरिवोदितोऽर्कः ॥ २४ ॥

अनुवाद (हिन्दी)

उनके मन्त्री मन्त्रणाको गुप्त रखने तथा राज्यके हित-साधनमें संलग्न रहते थे । वे राजाके प्रति अनुरक्त, कार्यकुशल और शक्तिशाली थे । जैसे सूर्य अपनी तेजोमयी किरणोंके साथ उदित होकर प्रकाशित होते हैं, उसी प्रकार राजा दशरथ उन तेजस्वी मन्त्रियोंसे घिरे रहकर बड़ी शोभा पाते थे ॥ २४ ॥

त्र्यम्बकः - धर्माकूतम्

अनेन

स्वयं समर्थो ऽपि राजा सर्व-लक्षणान्वितैः पुरोहित-अमात्यैर् अन्वित एव राज्य-पालनं कुर्यात् ।

इति धर्मः सूचितः । तथा च मनुः -

अपि यत् सुकरं कर्म तद् अप्य् एकेन दुष्करम् ।
विशेषतो ऽसहायेन किम् उ राज्यं महोदयम् ॥

नित्यं तस्मिन् समाश्वस्तः सर्व-कार्याणि निक्षिपेत् ।
तेन सार्धं विनिश्चित्य ततः कर्म समारभेत् ॥

इति । तस्मिन् मन्त्रिणि याज्ञवल्क्यो ऽपि -

सद्-मन्त्रिणः प्रकुर्वीत राज्ञो मौलान् स्थिराञ् शुचीन् । तैः सार्धं चिन्तयेद् राजा विप्रेणाथ ततः स्वयम् ॥

इति । तथा च कामान्दकीये -

इति स्म राज्यं सकलं समीरितं परा प्रतिष्ठास्य धनं सुसाधनम् ।
गृहीतम् एतद्-विपुलेन मन्त्रिणा त्रिवर्गनिष्पत्तिम् उपैति शाश्वतीम् ॥

राज्य-भारावसन्नानां राज्ञां किल पदे पदे ।
स्थिरवृत्ताः कुलामात्याः स्वैरं विश्रान्तिभूमयः ॥

इति । एतादृशस्य राज्ञो दशरथस्य सर्व-धर्मानुष्ठान-कर्तुः सुतोदयप्रयुक्तो धर्मो नासीत् । पुत्रोत्पत्तेश् च ऋणनिवर्तकत्वं नरकोद्धारकत्वम् उत्तमलोकप्रापकत्वं वंशाभिवृद्धिकरत्वं च श्रुताव् उक्तम् । ऋणनिवर्तकत्वे तावत् -

जायमानो वै ब्राह्मणस्त्रिभिर् ऋणवा जायते, ब्रह्मचर्येण ऋषिभ्यो यज्ञेन देवेभ्यः प्रजया पितृभ्य एष वा अनृणो यः पुत्री ।

इति । नरकोद्धारकत्वे च “पुन्-नाम्नो नरकात्रायत इति पुत्रः” इति । उत्तम-लोक-प्रापकत्वे च “नापुत्रस्य लोको ऽस्ति” इति । वंशाभिवृद्धिकरत्वे च “प्रजातन्तुं मा व्यवच्छेत्सीः” इति । बोधायनो ऽपि -

पुत्रेण लोकाञ् जयति पौत्रेणानन्त्यम् अश्नुते ।
अथ पुत्रस्य पौत्रेण नाकम् एवाधिरोहति ॥

इति ।

सप्तावरान् सप्त पूर्वान् षड्-अन्यान् आत्म-सप्तमान् । सत्पुत्रम् अधिगच्छानस् तारयत्य् एनसो भयात् । तस्मात् प्रजा-संतानम् उत्पाद्य फलम् अवाप्नोति । तस्माद् यत्नवान् प्रजाम् उत्पादयेद् आत्मनः फल-लाभाय । तस्मात् पुत्रं चोत्पाद्य् आत्मानम् एवोत्पादयति इति विज्ञायते ‘आत्मा वै पुत्र-नामासि’ इति । एवं द्वितीय आत्मा जीवता द्रष्टव्यो यः पुत्रम् उत्पादयति स यथा भवति’ इति । तथा च आदिपर्वणि कुन्तीं प्रति पाण्डुवचनम् -

अप्रजस्य महाभागे न द्वारं प्रतिचक्षते ।
देहनाशे ध्रुवो नाशः पितॄणाम् एव निश्चयः ।

ऋणैश् चतुर्भिः संयुक्ता जायन्ते मानवा भुवि ।
पितृ-देवर्षि-मनुज-देवैः शतसहस्रशः ॥

एतानि तु यथाकालं यो न बुध्यति मानवः ।
न तस्य लोकाः सन्त्य् इह धर्मवत्सु प्रतिष्ठिताः ॥

यज्ञैस् तु देवान् प्रीणाति स्वाध्यायैस् तपसा मुनीन् ।
पुत्रैः श्राद्धैः पितॄंश् चैव आनृशंस्येन मानवान् ॥

अपत्यं नाम लोकेषु प्रतिष्ठा धर्मसंहिता ।
इति कुन्ति विदुः प्राज्ञाः शाश्वतं धर्मम् आस्थिताः ॥

इष्टं दत्तं तपस् तप्तं नियमाश् च स्वनुष्ठिताः ।
सर्वम् एवानपत्यस्य न पावनम् इहोच्यते ॥

भारते आदि-पर्वणि आस्तिक्ये -

‘एतस्मिन्न् एव काले तु जरत्कारुर् महातपाः ।
चचार पृथिवीं कृत्स्नां यत्र सायंगृहो मुनिः ॥

चरन् दीप्त्या महातेजा दुश्चराम् अकृतात्मभिः ।
तीर्थेष्व् आप्लवनं कुर्वन् पुण्येषु विचचार ह ॥

वायुभक्षो निराहारः शुष्यन्न् अहरहर् मुनिः ।
स ददर्श पितॄन् गर्ते लम्बमानान् अधोमुखान् ॥

एक-तन्त्वावशिष्टं वै वीरण-स्तम्बम् आश्रितान् ।
तं च तन्तुं शनैर् आखुम् आददानं बिलाश्रयम् ॥

निराहारान् कृशान् दीनान् गर्तस्थांस्त्राणम् इच्छतः ।
उपश्रुत्य स तान् दीनान् दीनरूपो ऽभ्यभाषत ॥

के भवन्तो ऽवलम्बन्ते वीरणस्तम्बम् आश्रिताः ।
कृच्छ्राम् आपदम् आपन्नाः प्रियं किं करवाणि वः ॥

तपसो ऽस्य चतुर्थेन तृतीयेनापि वा पुनः ।
अर्धेन वापि निस्तर्तुम् आपदं ब्रूत मा चिरम् ॥

अथ वापि समग्रेण तरन्तु तपसा मम ।
पितरः - वृद्धो भवान् ब्रह्मचारी यो नस्त्रातुम् इहेच्छति ॥

न तु विप्राग्र्य तपसा शक्यम् एतद् व्यपोहितुम् ।
अस्ति नस् तात तपसः फलं प्रवदतां वर ॥

संतान-प्रक्षयात् तस्मिन् पतामो निरये ऽशुचौ ।
संतानः परमो धर्म एवम् आहुर् मनीषिणः ॥

यायावरा नाम वयम् ऋषयः संशित-व्रताः ।
लोकात् पुण्याद् इह भ्रष्टाः संतानप्रक्षयाद् विभो ।
प्रनष्टं नस् तपः पुण्यं न हि नस् तन्तुर् अस्ति वै ।
जरत्कारुर् इति ख्यातो वेद-वेदाङ्ग-पारगः ॥

नियतात्मा महात्मा च सुव्रतः सुमहातपाः ।
तेन स्म तपसो लोभात् कृच्छ्रम् आपादिता वयम् ॥

न तस्य भार्या पुत्रो वा बान्धवो वास्ति कश्चन । तस्माल् लम्बामहे गर्ते नष्टसंज्ञा ह्य् अनाथवत् । यांस् तु पश्यसि नो ब्रह्मन् वीरणस्तम्बम् आश्रितान् ॥

सो ऽद्यास्माकं कुले तन्तुर् आसीत् स कुलवर्धनः ।
यानि पश्यसि वै ब्रह्मन् मूलानीमानि वीरुधः ॥

एते नस् तन्तवस् तात कालेन परिभक्षिताः ।
यतस् त्वं पश्यसि ब्रह्मन् मूलम् अस्यार्धभक्षितम् ॥

तत्र लम्बामहे सर्वे सो ऽप्य् एकस् तपसि स्थितः ।
यम् आखुं पश्यसि ब्रह्मन् काल एष महाबलः ॥

स तं तपोरतं मन्दं दशनैः क्षिपते तुदन् ।
जरत्कारुं तपोलुब्धं मन्दात्मानम् अचेतसम् ॥

छिन्न-मूलान् परिभ्रष्टान् कालोपहत-चेतसः ।
नरकस्थान् प्रपश्यास्मान् यथा दुष्कृतिनस् तथा ।
अस्मासु पतितेष्व् अत्र सह पूर्वैः सहान्वयैः ।
छिन्नः कालेन सो ऽप्य् अत्र गन्ता वै नरकं ततः ॥

तपो वाप्य् अथ वा यज्ञो यच् चान्यत् पावनं महत् ।
तत् सर्वं न समं तात संतत्येति सतां मतम् ॥

एतच् छ्रुत्वा जरत्कारुर् दुःख-शोक-परायणः ।
उवाच स्वान् पितॄन् दुःखाद् बाष्पसंदिग्धया गिरा ॥

अहम् एव जरत् कारुः किल्बिषी भवतां सुतः ।
एवं दृष्ट्वा तु भवतः शकुन्तान् इव लम्बतः ॥

मया निवर्तिता बुद्धिर् ब्रह्मचर्यात् पितामहाः ।
करिष्ये वः प्रियं कामं निवेक्ष्ये नात्र संशयः ॥

हरिवंशे ऽपि सुपुत्रकामां रुक्मिणीं कृष्णो निजगाद -

पुत्रेण लेभिरे लोकान् सतां कामदुहो हि मे ॥

नरकं पुद् इति ख्यातं दुःखं च विबुधा विदुः ।
पुतस्त्राणात् ततः पुत्रम् इहेच्छन्ति परत्र च ॥ तेजो-मयैर् गोभिर् इवोदितो ऽर्कः ॥ अनन्ताः पुत्रिणो लोकाः पुरुषस्य प्रिये शुभाः ।
पतिर् जायां प्रविशति गर्भो भूत्वा स मातरम् ॥

तस्यां पुनर्नवो भूत्वा दशमे मासि जायते ।
पुत्रवन्तं बिभेतीन्द्रः किं नु तेनाजितं भवेत् ॥

नापुत्री विन्दते लोकान् कुपुत्राद् वन्ध्यता वरा ।
कुपुत्रो नरको यस्मात् सुपुत्रः स्वर्ग एव हि ॥

तस्माद् विनीतं यत् पुत्रं श्रुतवन्तं दयापरम् ।
विद्या च विनयो यस्मात् तस्मात् पुत्रं सुधार्मिकम् ॥

इच्छेत् पुत्रं पुत्रकामः पुरुषो यत्नवान् बुधः ।

इति ।

समाप्तिः

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे सप्तमः सर्गः ॥ ७ ॥
इस प्रकार श्रीवाल्मीकिनिर्मित आर्षरामायण आदिकाव्यके बालकाण्डमें सातवाँ सर्ग पूरा हुआ ॥ ७ ॥