वाचनम्
भागसूचना
- महर्षि वाल्मीकिका चौबीस हजार श्लोकोंसे युक्त रामायणकाव्यका निर्माण करके उसे लव-कुशको पढ़ाना, मुनिमण्डलीमें रामायणगान करके लव और कुशका प्रशंसित होना तथा अयोध्यामें श्रीरामद्वारा सम्मानित हो उन दोनोंका रामदरबारमें रामायणगान सुनाना
विश्वास-प्रस्तुतिः
प्राप्तराजस्य रामस्य वाल्मीकिर्भगवानृषिः ।
चकार चरितं कृत्स्नं विचित्रपदमर्थवत् ॥ १ ॥
मूलम्
प्राप्तराजस्य रामस्य वाल्मीकिर्भगवानृषिः ।
चकार चरितं कृत्स्नं विचित्रपदमर्थवत् ॥ १ ॥
मूलम् - त्र्यम्बकः
प्राप्त-राज्यस्य रामस्य वाल्मीकिर् भगवान् ऋषिः ।
चकार चरितं कृत्स्नं विचित्र-पदम् आत्मवान् ॥
अनुवाद (हिन्दी)
श्रीरामचन्द्रजीने जब वनसे लौटकर राज्यका शासन अपने हाथमें ले लिया, उसके बाद भगवान् वाल्मीकि मुनिने उनके सम्पूर्ण चरित्रके आधारपर विचित्र पद और अर्थसे युक्त रामायणकाव्यका निर्माण किया ॥ १ ॥
त्र्यम्बकः - धर्माकूतम्
अनेन ग्रन्थ-करण-कालः सूचितः ॥
विश्वास-प्रस्तुतिः
चतुर्विंशत्सहस्राणि श्लोकानामुक्तवानृषिः ।
तथा सर्गशतान् पञ्च षट्काण्डानि तथोत्तरम् ॥ २ ॥
मूलम्
चतुर्विंशत्सहस्राणि श्लोकानामुक्तवानृषिः ।
तथा सर्गशतान् पञ्च षट्काण्डानि तथोत्तरम् ॥ २ ॥
अनुवाद (हिन्दी)
इसमें महर्षिने चौबीस हजार श्लोक, पाँच सौ सर्ग तथा उत्तरसहित सात काण्डोंका प्रतिपादन किया है ॥ २ ॥
विश्वास-प्रस्तुतिः
कृत्वा तु तन्महाप्राज्ञः सभविष्यं सहोत्तरम् ।
चिन्तयामास को न्वेतत् प्रयुञ्जीयादिति प्रभुः ॥ ३ ॥
मूलम्
कृत्वा तु तन्महाप्राज्ञः सभविष्यं सहोत्तरम् ।
चिन्तयामास को न्वेतत् प्रयुञ्जीयादिति प्रभुः ॥ ३ ॥
मूलम् - त्र्यम्बकः
कृत्वापि तन् महा-प्राज्ञः स-भविष्यं सहोत्तरम् । चिन्तयामास को न्व् एतत् प्रयुञ्जीयाद् इति प्रभुः ॥
अनुवाद (हिन्दी)
भविष्य तथा उत्तरकाण्डसहित समस्त रामायण पूर्ण कर लेनेके पश्चात् सामर्थ्यशाली, महाज्ञानी महर्षिने सोचा कि कौन ऐसा शक्तिशाली पुरुष होगा, जो इस महाकाव्यको पढ़कर जनसमुदायमें सुना सके ॥ ३ ॥
त्र्यम्बकः - धर्माकूतम्
अत्र चतुर्विंशति-सहस्र-संख्य्योक्त्या चतुर्विंशत्य्-अक्षर-गायत्री-तुल्यता सूचिता । प्रथम-पद्ये “तपः-स्वाध्याय-निरतम्” इत्य्-अत्र प्रथमं त-कारस्य सर्ग-प्रान्ते “पठन् द्विजः-” इत्य् एतस्मिन् पद्ये “महत्त्वम् ईयात्” इत्य्-अत्र “यात्” इत्य् अक्षरस्य ग्रहणाद् अपि गायत्री-रूपत्वं सूचितम् । अन्यच् च, गायत्री सवितृ-प्रतिपादिका । अयं ग्रन्थस् तद्-वंश-प्रतिपादकः । तस्माद् गायत्र्या एव विस्तरः ॥
विश्वास-प्रस्तुतिः
तस्य चिन्तयमानस्य महर्षेर्भावितात्मनः ।
अगृह्णीतां ततः पादौ मुनिवेषौ कुशीलवौ ॥ ४ ॥
मूलम्
तस्य चिन्तयमानस्य महर्षेर्भावितात्मनः ।
अगृह्णीतां ततः पादौ मुनिवेषौ कुशीलवौ ॥ ४ ॥
अनुवाद (हिन्दी)
शुद्ध अन्तःकरणवाले उन महर्षिके इस प्रकार विचार करते ही मुनिवेषमें रहनेवाले राजकुमार कुश और लवने आकर उनके चरणोंमें प्रणाम किया ॥ ४ ॥
विश्वास-प्रस्तुतिः
कुशीलवौ तु धर्मज्ञौ राजपुत्रौ यशस्विनौ ।
भ्रातरौ स्वरसम्पन्नौ ददर्शाश्रमवासिनौ ॥ ५ ॥
स तु मेधाविनौ दृष्ट्वा वेदेषु परिनिष्ठितौ ।
वेदोपबृंहणार्थाय तावग्राहयत प्रभुः ॥ ६ ॥
काव्यं रामायणं कृत्स्नं सीतायाश्चरितं महत् ।
पौलस्त्यवधमित्येवं चकार चरितव्रतः ॥ ७ ॥
मूलम्
कुशीलवौ तु धर्मज्ञौ राजपुत्रौ यशस्विनौ ।
भ्रातरौ स्वरसम्पन्नौ ददर्शाश्रमवासिनौ ॥ ५ ॥
स तु मेधाविनौ दृष्ट्वा वेदेषु परिनिष्ठितौ ।
वेदोपबृंहणार्थाय तावग्राहयत प्रभुः ॥ ६ ॥
काव्यं रामायणं कृत्स्नं सीतायाश्चरितं महत् ।
पौलस्त्यवधमित्येवं चकार चरितव्रतः ॥ ७ ॥
अनुवाद (हिन्दी)
राजकुमार कुश और लव दोनों भाई धर्मके ज्ञाता और यशस्वी थे । उनका स्वर बड़ा ही मधुर था और वे मुनिके आश्रमपर ही रहते थे । उनकी धारणाशक्ति अद्भुत थी और वे दोनों ही वेदोंमें पारंगत हो चुके थे । भगवान् वाल्मीकिने उनकी ओर देखा और उन्हें सुयोग्य समझकर उत्तम व्रतका पालन करनेवाले उन महर्षिने वेदार्थका विस्तारके साथ ज्ञान करानेके लिये उन्हें सीताके चरित्रसे युक्त सम्पूर्ण रामायण नामक महाकाव्यका, जिसका दूसरा नाम पौलस्त्यवध अथवा दशाननवध था, अध्ययन कराया ॥ ५—७ ॥
त्र्यम्बकः - धर्माकूतम्
अनेन समीचीन-विद्या मेधाविने नियताय देयेति धर्मः सूचितः, “न विद्याम् ऊषरे वपेत्” इति श्रुतेः ॥
विश्वास-प्रस्तुतिः
पाठ्ये गेये च मधुरं प्रमाणैस्त्रिभिरन्वितम् ।
जातिभिः सप्तभिर्युक्तं तन्त्रीलयसमन्वितम् ॥ ८ ॥
रसैः शृङ्गारकरुणहास्य रौद्रभयानकैः ।
वीरादिभी रसैर्युक्तं काव्यमेतदगायताम् ॥ ९ ॥
मूलम्
पाठ्ये गेये च मधुरं प्रमाणैस्त्रिभिरन्वितम् ।
जातिभिः सप्तभिर्युक्तं तन्त्रीलयसमन्वितम् ॥ ८ ॥
रसैः शृङ्गारकरुणहास्य रौद्रभयानकैः ।
वीरादिभी रसैर्युक्तं काव्यमेतदगायताम् ॥ ९ ॥
मूलम् - त्र्यम्बकः
आसीनानां समीपस्थाविदं काव्यमगायताम् ।
पाठ्ये गेये च मधुरं प्रमाणैस्त्रिभिरन्वितम् ॥
जातिभिः सप्तभिर् बद्धं तन्त्री-लय-समन्वितम् ।
हास्य-शृङ्गार-कारुण्य-रौद्र-वीर-भयानकैः ॥
बीभत्साद्भुत-संयुक्तं काव्यम् एतद् अगायताम् ॥
अनुवाद (हिन्दी)
वह महाकाव्य पढ़ने और गानेमें भी मधुर, द्रुत, मध्य और विलम्बित—इन तीनों गतियोंसे अन्वित, षड्ज आदि सातों स्वरोंसे युक्त, वीणा बजाकर स्वर और तालके साथ गाने योग्य तथा शृंगार, करुण, हास्य, रौद्र, भयानक तथा वीर आदि सभी रसोंसे अनुप्राणित है । दोनों भाई कुश और लव उस महाकाव्यको पढ़कर उसका गान करने लगे ॥ ८-९ ॥
त्र्यम्बकः - धर्माकूतम्
अनेन वेद-त्रय-साम्यं सूचितम्, “मितम् अमितं स्वरः” इत्य् ऐतरेय-ब्राह्मणोक्त-लक्षणात् । मितम् ऋगादि, अमितं यजुरादि, स्वरः सामादि । अस्मिन् ग्रन्थे मितं श्लोकः, स्वरो गीतिः, एतद्-द्वयम् इह स्पष्टम् । अमितं साम्यम् । कथम् इति चेत्; “मा निषाद” इत्य् एतत्-पद्यानन्तरम् एव पाद-बद्ध-ग्रन्थः, तत्-पूर्वं छन्दो-बद्ध-पद्यानाम् अभावात् । “तपः-स्वाध्याय-निरतम्” इत्य् आरभ्य “क्रौञ्चीम् इदं वचनम् अब्रवीत्” इत्य् एतद्-अन्तस्य ग्रन्थस्य अमितत्वं विना न अन्या गतिः । इदानीं प्रत्यक्षं छन्दो-बद्धतया दृश्यत इति चेत्, श्लोकोत्पत्त्य्-अनन्तरं तच्-छिष्यैः छन्दो-बद्धतया रचितो भविष्यति । तस्मात् “मा निषाद” इत्य् एतत्-पूर्वस्य ग्रन्थस्य अमितत्व-रूपं यजुष्ट्वं सिद्धम् । तस्माद् वेद-त्रय-साम्यम् उपपन्नम् । तथा च प्रथम-सर्गे नारद-वाक्यम्-
इदं पवित्रं पाप-घ्नं पुण्यं वेदैश् च संमितम् ।
इति । वेदैर् इति बहुवचनाद् वेदत्रयसाम्यं सिद्धम् ॥
विश्वास-प्रस्तुतिः
तौ तु गान्धर्वतत्त्वज्ञौ स्थानमूर्च्छनकोविदौ ।
भ्रातरौ स्वरसम्पन्नौ गन्धर्वाविव रूपिणौ ॥ १० ॥
मूलम्
तौ तु गान्धर्वतत्त्वज्ञौ स्थानमूर्च्छनकोविदौ ।
भ्रातरौ स्वरसम्पन्नौ गन्धर्वाविव रूपिणौ ॥ १० ॥
मूलम् - त्र्यम्बकः
तौ तु गान्धर्व-तत्त्वज्ञौ मूर्छना-स्थान-कोविदौ ॥
भ्रातरौ स्वर-संपन्नौ गन्धर्वाव् इव रूपिणौ ॥
अनुवाद (हिन्दी)
वे दोनों भाई गान्धर्व विद्या (संगीत-शास्त्र) के तत्त्वज्ञ, स्थान१ और मूर्च्छनाके२ जानकार, मधुर स्वरसे सम्पन्न तथा गन्धर्वोंके समान मनोहर रूपवाले थे ॥ १० ॥
पादटिप्पनी
१. स्थान शब्दसे यहाँ मन्द्र, मध्यम और ताररूप त्रिविध स्वरोंकी उत्पत्तिका स्थान बताया गया है । हृदयकी ग्रन्थिसे ऊपर और कपोलफलकसे नीचे जो प्राणोंके संचारका स्थान है, उसीको स्थान कहते हैं; उनके तीन भेद हैं—हृदय, कण्ठ और सिर । उसके पुनः तीन-तीन भेद होते हैं—मन्द्र, मध्य और तार; जैसा कि शाण्डिल्यका वचन है—
यदूर्ध्वं हृदयग्रन्थेः कपोलफलकादधः ।
प्राणसंचारणस्थानं स्थानमित्यभिधीयते ॥
उरः कण्ठः शिरश्चेतितत्पुनस्त्रिविधं भवेत् ।
मन्द्रं मध्यं च तारं च…… ॥
२. जहाँ स्वर पूर्ण होते हैं, उस स्थानको मूर्छना कहते हैं । जैसा कि कहा गया है—
यत्रैव स्युः स्वराः पूर्णा मूर्छना सेत्युदाहृता ।
वैजयन्तीकोशके अनुसार वीणा आदिके वादनको मूर्छना कहते हैं—‘वादने मूर्छना प्रोक्ता ।’
विश्वास-प्रस्तुतिः
रूपलक्षणसम्पन्नौ मधुरस्वरभाषिणौ ।
बिम्बादिवोत्थितौ बिम्बौ रामदेहात् तथापरौ ॥ ११ ॥
मूलम्
रूपलक्षणसम्पन्नौ मधुरस्वरभाषिणौ ।
बिम्बादिवोत्थितौ बिम्बौ रामदेहात् तथापरौ ॥ ११ ॥
मूलम् - त्र्यम्बकः
रूप-लक्षण-संपन्नौ मधुर-स्वर-भाषिणौ ।
बिम्बाद् इवोद्धृतौ बिम्बौ राम-देहात् तथापरौ ॥
अनुवाद (हिन्दी)
सुन्दर रूप और शुभ लक्षण उनकी सहज सम्पत्ति थे । वे दोनों भाई बड़े मधुर स्वरसे वार्तालाप करते थे । जैसे बिम्बसे प्रतिबिम्ब प्रकट होते हैं, उसी प्रकार श्रीरामके शरीरसे उत्पन्न हुए वे दोनों राजकुमार दूसरे युगल श्रीराम ही प्रतीत होते थे ॥ ११ ॥
विश्वास-प्रस्तुतिः
तौ राजपुत्रौ कात्स्न्र्येन धर्म्यमाख्यानमुत्तमम् ।
वाचोविधेयं तत्सर्वं कृत्वा काव्यमनिन्दितौ ॥ १२ ॥
ऋषीणां च द्विजातीनां साधूनां च समागमे ।
यथोपदेशं तत्त्वज्ञौ जगतुः सुसमाहितौ ॥ १३ ॥
मूलम्
तौ राजपुत्रौ कात्स्न्र्येन धर्म्यमाख्यानमुत्तमम् ।
वाचोविधेयं तत्सर्वं कृत्वा काव्यमनिन्दितौ ॥ १२ ॥
ऋषीणां च द्विजातीनां साधूनां च समागमे ।
यथोपदेशं तत्त्वज्ञौ जगतुः सुसमाहितौ ॥ १३ ॥
मूलम् - त्र्यम्बकः
तौ राज-पुत्रौ कार्त्स्न्येन धर्म्यम् आख्यानम् उत्तमम् ।
वाचो-विधेयं तत् सर्वं कृत्वा काव्यम् अनिन्दितौ ॥
ऋषीणां च द्विजातीनां साधूनां च समागमे ।
यथोपदेशं तत्त्व-ज्ञौ जगतुस् तौ कुशीलवौ ॥
अनुवाद (हिन्दी)
वे दोनों राजपुत्र सब लोगोंकी प्रशंसाके पात्र थे, उन्होंने उस धर्मानुकूल उत्तम उपाख्यानमय सम्पूर्ण काव्यको जिह्वाग्र कर लिया था और जब कभी ऋषियों, ब्राह्मणों तथा साधुओंका समागम होता था, उस समय उनके बीचमें बैठकर वे दोनों तत्त्वज्ञ बालक एकाग्रचित्त हो रामायणका गान किया करते थे ॥ १२-१३ ॥
त्र्यम्बकः - धर्माकूतम्
अनेन अध्येत्रा सम्यग् अधीतायाः विद्याया महतां समीपे प्रचारः कर्तव्य इति सूचितम् ॥
विश्वास-प्रस्तुतिः
महात्मानौ महाभागौ सर्वलक्षणलक्षितौ ।
तौ कदाचित् समेतानामृषीणां भावितात्मनाम् ॥ १४ ॥
मध्ये सभं समीपस्थाविदं काव्यमगायताम् ।
तच्छ्रुत्वा मुनयः सर्वे बाष्पपर्याकुलेक्षणाः ॥ १५ ॥
साधु साध्विति तावूचुः परं विस्मयमागताः ।
ते प्रीतमनसः सर्वे मुनयो धर्मवत्सलाः ॥ १६ ॥
मूलम्
महात्मानौ महाभागौ सर्वलक्षणलक्षितौ ।
तौ कदाचित् समेतानामृषीणां भावितात्मनाम् ॥ १४ ॥
मध्ये सभं समीपस्थाविदं काव्यमगायताम् ।
तच्छ्रुत्वा मुनयः सर्वे बाष्पपर्याकुलेक्षणाः ॥ १५ ॥
साधु साध्विति तावूचुः परं विस्मयमागताः ।
ते प्रीतमनसः सर्वे मुनयो धर्मवत्सलाः ॥ १६ ॥
मूलम् - त्र्यम्बकः
साधु साध्व् इति चाप्य् ऊचुः परं विस्मयम् आगताः ।
अनुवाद (हिन्दी)
एक दिनकी बात है, बहुत-से शुद्ध अन्तःकरणवाले महर्षियोंकी मण्डली एकत्र हुई थी । उसमें महान् सौभाग्यशाली तथा समस्त शुभ लक्षणोंसे सुशोभित महामनस्वी कुश और लव भी उपस्थित थे । उन्होंने बीच सभामें उन महात्माओंके समीप बैठकर उस रामायणकाव्यका गान किया । उसे सुनकर सभी मुनियोंके नेत्रोंमें आँसू भर आये और वे अत्यन्त विस्मय-विमुग्ध होकर उन्हें साधुवाद देने लगे । मुनि धर्मवत्सल तो होते ही हैं; वह धार्मिक उपाख्यान सुनकर उन सबके मनमें बड़ी प्रसन्नता हुई ॥ १४—१६ ॥
विश्वास-प्रस्तुतिः
प्रशशंसुः प्रशस्तव्यौ गायमानौ कुशीलवौ ।
अहो गीतस्य माधुर्यं श्लोकानां च विशेषतः ॥ १७ ॥
मूलम्
प्रशशंसुः प्रशस्तव्यौ गायमानौ कुशीलवौ ।
अहो गीतस्य माधुर्यं श्लोकानां च विशेषतः ॥ १७ ॥
मूलम् - त्र्यम्बकः
प्रशशंसुः प्रशस्तव्यौ गायन्तौ तौ कुशीलवौ ॥
अनुवाद (हिन्दी)
वे रामायण-कथाके गायक कुमार कुश और लवकी, जो प्रशंसाके ही योग्य थे, इस प्रकार प्रशंसा करने लगे—‘अहो! इन बालकोंके गीतमें कितना माधुर्य है । श्लोकोंकी मधुरता तो और भी अद्भुत है ॥ १७ ॥
विश्वास-प्रस्तुतिः
चिरनिर्वृत्तमप्येतत् प्रत्यक्षमिव दर्शितम् ।
प्रविश्य तावुभौ सुष्ठु तथाभावमगायताम् ॥ १८ ॥
सहितौ मधुरं रक्तं सम्पन्नं स्वरसम्पदा ।
मूलम्
चिरनिर्वृत्तमप्येतत् प्रत्यक्षमिव दर्शितम् ।
प्रविश्य तावुभौ सुष्ठु तथाभावमगायताम् ॥ १८ ॥
सहितौ मधुरं रक्तं सम्पन्नं स्वरसम्पदा ।
अनुवाद (हिन्दी)
‘यद्यपि इस काव्यमें वर्णित घटना बहुत दिनों पहले हो चुकी है तो भी इन दोनों बालकोंने इस सभामें प्रवेश करके एक साथ ऐसे सुन्दर भावसे स्वरसम्पन्न, रागयुक्त मधुरगान किया है कि वे पहलेकी घटनाएँ भी प्रत्यक्ष-सी दिखायी देने लगी हैं—मानो अभी-अभी आँखोंके सामने घटित हो रही हों’ ॥ १८ १/२ ॥
विश्वास-प्रस्तुतिः
एवं प्रशस्यमानौ तौ तपः श्लाघ्यैर्महर्षिभिः ॥ १९ ॥
संरक्ततरमत्यर्थं मधुरं तावगायताम् ।
मूलम्
एवं प्रशस्यमानौ तौ तपः श्लाघ्यैर्महर्षिभिः ॥ १९ ॥
संरक्ततरमत्यर्थं मधुरं तावगायताम् ।
अनुवाद (हिन्दी)
इस प्रकार उत्तम तपस्यासे युक्त महर्षिगण उन दोनों कुमारोंकी प्रशंसा करते और वे उनसे प्रशंसित होकर अत्यन्त मधुर रागसे रामायणका गान करते थे ॥
विश्वास-प्रस्तुतिः
प्रीतः कश्चिन्मुनिस्ताभ्यां संस्थितः कलशं ददौ ॥ २० ॥
प्रसन्नो वल्कलं कश्चिद् ददौ ताभ्यां महायशाः ।
अन्यः कृष्णाजिनमदाद् यज्ञसूत्रं तथापरः ॥ २१ ॥
मूलम्
प्रीतः कश्चिन्मुनिस्ताभ्यां संस्थितः कलशं ददौ ॥ २० ॥
प्रसन्नो वल्कलं कश्चिद् ददौ ताभ्यां महायशाः ।
अन्यः कृष्णाजिनमदाद् यज्ञसूत्रं तथापरः ॥ २१ ॥
मूलम् - त्र्यम्बकः
प्रीतः कश्चिन् मुनिस् ताभ्यां संमतः कलशं ददौ ।
प्रसन्नो वल्कलं कश्चिद् ददौ ताभ्यां महा-तपाः ॥
अन्यः कृष्णाजिनं प्रादान् मौञ्जीम् अन्यो महा-मुनिः ।
कश्चित् कमण्डलुं प्रादाद् यज्ञसूत्रम् अथापरः ॥
अनुवाद (हिन्दी)
उनके गानसे संतुष्ट हुए किसी मुनिने उठकर उन्हें पुरस्कारके रूपमें एक कलश प्रदान किया । किसी दूसरे महायशस्वी महर्षिने प्रसन्न होकर उन दोनोंको वल्कल वस्त्र दिया । किसीने काला मृगचर्म भेंट किया तो किसीने यज्ञोपवीत ॥ २०-२१ ॥
विश्वास-प्रस्तुतिः
कश्चित् कमण्डलुं प्रादान्मौञ्जीमन्यो महामुनिः ।
बृसीमन्यस्तदा प्रादात् कौपीनमपरो मुनिः ॥ २२ ॥
ताभ्यां ददौ तदा हृष्टः कुठारमपरो मुनिः ।
काषायमपरो वस्त्रं चीरमन्यो ददौ मुनिः ॥ २३ ॥
मूलम्
कश्चित् कमण्डलुं प्रादान्मौञ्जीमन्यो महामुनिः ।
बृसीमन्यस्तदा प्रादात् कौपीनमपरो मुनिः ॥ २२ ॥
ताभ्यां ददौ तदा हृष्टः कुठारमपरो मुनिः ।
काषायमपरो वस्त्रं चीरमन्यो ददौ मुनिः ॥ २३ ॥
अनुवाद (हिन्दी)
एकने कमण्डलु दिया तो दूसरे महामुनिने मुञ्जकी मेखला भेंट की । तीसरेने आसन और चौथेने कौपीन प्रदान किया । किसी अन्य मुनिने हर्षमें भरकर उन दोनों बालकोंके लिये कुठार अर्पित किया । किसीने गेरुआ वस्त्र दिया तो किसी मुनिने चीर भेंट किया ॥ २२—२३ ॥
विश्वास-प्रस्तुतिः
जटाबन्धनमन्यस्तु काष्ठरज्जुं मुदान्वितः ।
यज्ञभाण्डमृषिः कश्चित् काष्ठभारं तथापरः ॥ २४ ॥
औदुम्बरीं बृसीमन्यः स्वस्ति केचित् तदावदन् ।
आयुष्यमपरे प्राहुर्मुदा तत्र महर्षयः ॥ २५ ॥
ददुश्चैवं वरान् सर्वे मुनयः सत्यवादिनः ।
मूलम्
जटाबन्धनमन्यस्तु काष्ठरज्जुं मुदान्वितः ।
यज्ञभाण्डमृषिः कश्चित् काष्ठभारं तथापरः ॥ २४ ॥
औदुम्बरीं बृसीमन्यः स्वस्ति केचित् तदावदन् ।
आयुष्यमपरे प्राहुर्मुदा तत्र महर्षयः ॥ २५ ॥
ददुश्चैवं वरान् सर्वे मुनयः सत्यवादिनः ।
मूलम् - त्र्यम्बकः
औदुम्बरीं ब्रसीम् अन्यो जप-मालाम् अथापरः ।
आयुष्यम् अपरे चोचुर् मुदा तत्र महर्षयः ॥
अनुवाद (हिन्दी)
किसी दूसरेने आनन्दमग्न होकर जटा बाँधनेके लिये रस्सी दी तो किसीने समिधा बाँधकर लानेके लिये डोरी प्रदान की । एक ऋषिने यज्ञपात्र दिया तो दूसरेने काष्ठभार समर्पित किया । किसीने गूलरकी लकड़ीका बना हुआ पीढ़ा अर्पित किया । कुछ लोग उस समय आशीर्वाद देने लगे—‘बच्चो! तुम दोनोंका कल्याण हो ।’ दूसरे महर्षि प्रसन्नतापूर्वक बोल उठे—‘तुम्हारी आयु बढ़े ।’ इस प्रकार सभी सत्यवादी मुनियोंने उन दोनोंको नाना प्रकारके वर दिये ॥ २४-२५ १/२ ॥
त्र्यम्बकः - धर्माकूतम्
अनेन महद्भिर् मुनिभिः श्लाघा-पूर्वक-पारितोषिक-प्रदानेन इतरैर् अपि पुण्य-कथा-श्रोतृभिः स्व-स्व-शक्त्य्-अनुसारेण धर्म-वक्ता पूजनीय इति सूचितम् । अनेन महा-जन-परिग्रहो ऽपि सूचितः । “तस्माद् गायते न देयम्” इति निषेधो वृत्त्यर्थम् असद्-गायक-विषय इत्य् अपि सूचितम् । एतत्-काव्यं पठतां श्रोतॄणां च आयुष्कारकं पुष्टि-जनकं च । तथा च -
आयुष्यं पुष्टि-जनकं सर्व-श्रुति-मनोहरम् ॥
प्रथम-सर्गे ऽपि,
इदं पवित्रं पापघ्नं पुण्यं वेदैश् च संमितम् ।
यः पठेद् राम-चरितं सर्व-पापैः प्रमुच्यते ॥
एतद् आख्यानम् आयुष्यं पठन् रामायणं नरः ।
स-पुत्र-पौत्रः सगणः प्रेत्य स्वर्गे महीयते ॥पठन् द्विजो वाग्-ऋषभत्वम् ईयात्
स्यात् क्षत्रियो भूमि-पतित्वम् ईयात् ।
वणिग्-जनः पण्य-फलत्वम् ईयाज्
जनश् च शूद्रो ऽपि महत्त्वम् ईयात् ॥
इत्य् उक्तम् । एवं च पुरुषार्थ-प्राप्तिः प्रतिपादिता ॥
विश्वास-प्रस्तुतिः
आश्चर्यमिदमाख्यानं मुनिना सम्प्रकीर्तितम् ॥ २६ ॥
परं कवीनामाधारं समाप्तं च यथाक्रमम् ।
मूलम्
आश्चर्यमिदमाख्यानं मुनिना सम्प्रकीर्तितम् ॥ २६ ॥
परं कवीनामाधारं समाप्तं च यथाक्रमम् ।
अनुवाद (हिन्दी)
महर्षि वाल्मीकिद्वारा वर्णित यह आश्चर्यमय काव्य परवर्ती कवियोंके लिये श्रेष्ठ आधारशिला है । श्रीरामचन्द्रजीके सम्पूर्ण चरित्रोंका क्रमशः वर्णन करते हुए इसकी समाप्ति की गयी है ॥ २६ १/२ ॥
विश्वास-प्रस्तुतिः
अभिगीतमिदं गीतं सर्वगीतिषु कोविदौ ॥ २७ ॥
आयुष्यं पुष्टिजननं सर्वश्रुतिमनोहरम् ।
मूलम्
अभिगीतमिदं गीतं सर्वगीतिषु कोविदौ ॥ २७ ॥
आयुष्यं पुष्टिजननं सर्वश्रुतिमनोहरम् ।
अनुवाद (हिन्दी)
सम्पूर्ण गीतोंके विशेषज्ञ राजकुमारो! यह काव्य आयु एवं पुष्टि प्रदान करनेवाला तथा सबके कान और मनको मोहनेवाला मधुर संगीत है । तुम दोनोंने बड़े सुन्दर ढंगसे इसका गान किया है ॥ २७ १/२ ॥
विश्वास-प्रस्तुतिः
प्रशस्यमानौ सर्वत्र कदाचित् तत्र गायकौ ॥ २८ ॥
रथ्यासु राजमार्गेषु ददर्श भरताग्रजः ।
स्ववेश्म चानीय ततो भ्रातरौ स कुशीलवौ ॥ २९ ॥
पूजयामास पूजार्हौ रामः शत्रुनिबर्हणः ।
आसीनः काञ्चने दिव्ये स च सिंहासने प्रभुः ॥ ३० ॥
उपोपविष्टैः सचिवैर्भ्रातृभिश्च समन्वितः ।
दृष्ट्वा तु रूपसम्पन्नौ विनीतौ भ्रातरावुभौ ॥ ३१ ॥
उवाच लक्ष्मणं रामः शत्रुघ्नं भरतं तथा ।
श्रूयतामेतदाख्यानमनयोर्देववर्चसोः ॥ ३२ ॥
विचित्रार्थपदं सम्यग्गायकौ समचोदयत् ।
मूलम्
प्रशस्यमानौ सर्वत्र कदाचित् तत्र गायकौ ॥ २८ ॥
रथ्यासु राजमार्गेषु ददर्श भरताग्रजः ।
स्ववेश्म चानीय ततो भ्रातरौ स कुशीलवौ ॥ २९ ॥
पूजयामास पूजार्हौ रामः शत्रुनिबर्हणः ।
आसीनः काञ्चने दिव्ये स च सिंहासने प्रभुः ॥ ३० ॥
उपोपविष्टैः सचिवैर्भ्रातृभिश्च समन्वितः ।
दृष्ट्वा तु रूपसम्पन्नौ विनीतौ भ्रातरावुभौ ॥ ३१ ॥
उवाच लक्ष्मणं रामः शत्रुघ्नं भरतं तथा ।
श्रूयतामेतदाख्यानमनयोर्देववर्चसोः ॥ ३२ ॥
विचित्रार्थपदं सम्यग्गायकौ समचोदयत् ।
मूलम् - त्र्यम्बकः
प्रशस्यमानौ सर्वत्र कदाचित् तत्र गायनौ ।
रथ्यासु राज-मार्गेषु ददर्श भरताग्रजः ॥
स्व-वेश्म चानीय ततो भ्रातरौ तौ कुशीलवौ ।
पूजयामास पूजार्हौ रामः शत्रु-निबर्हणः ।
आसीनः काञ्चने दिव्ये स च सिंहासने प्रभुः ।
उपोपविष्टः सचिवैर् भ्रातृभिश् च परंतपः ॥
दृष्ट्वा तु रूप-संपन्नौ ताव् उभौ नियतस् तदा ।
उवाच लक्ष्मणं रामः शत्रुघ्नं भरतं तथा ॥
श्रूयताम् इदम् आख्यानम् अनयोर् देव-वर्चसोः ।
विचित्रार्थ-पदं सम्यग् गायिनौ समचोदयत् ॥
अनुवाद (हिन्दी)
एक समय सर्वत्र प्रशंसित होनेवाले राजकुमार कुश और लव अयोध्याकी गलियों और सड़कोंपर रामायणके श्लोकोंका गान करते हुए विचर रहे थे । इसी समय उनके ऊपर भरतके बड़े भाई श्रीरामकी दृष्टि पड़ी । उन्होंने उन समादरयोग्य बन्धुओंको अपने घर बुलाकर उनका यथोचित सम्मान किया । तदनन्तर शत्रुओंका संहार करनेवाले श्रीराम सुवर्णमय दिव्य सिंहासनपर विराजमान हुए । उनके मन्त्री और भाई भी उनके पास ही बैठे थे । उन सबके साथ सुन्दर रूपवाले उन दोनों विनयशील भाइयोंकी ओर देखकर श्रीरामचन्द्रजीने भरत, लक्ष्मण और शत्रुघ्नसे कहा—‘ये देवताके समान तेजस्वी दोनों कुमार विचित्र अर्थ और पदोंसे युक्त मधुर काव्य बड़े सुन्दर ढंगसे गाकर सुनाते हैं । तुम सब लोग इसे सुनो ।’ यों कहकर उन्होंने उन दोनों भाइयोंको गानेकी आज्ञा दी ॥
विश्वास-प्रस्तुतिः
तौ चापि मधुरं रक्तं स्वचित्तायतनिःस्वनम् ॥ ३३ ॥
तन्त्रीलयवदत्यर्थं विश्रुतार्थमगायताम् ।
ह्लादयत् सर्वगात्राणि मनांसि हृदयानि च ।
श्रोत्राश्रयसुखं गेयं तद् बभौ जनसंसदि ॥ ३४ ॥
मूलम्
तौ चापि मधुरं रक्तं स्वचित्तायतनिःस्वनम् ॥ ३३ ॥
तन्त्रीलयवदत्यर्थं विश्रुतार्थमगायताम् ।
ह्लादयत् सर्वगात्राणि मनांसि हृदयानि च ।
श्रोत्राश्रयसुखं गेयं तद् बभौ जनसंसदि ॥ ३४ ॥
मूलम् - त्र्यम्बकः
तौ चापि मधुरं रक्तं स्वञ्चितायत-निस्वनम् ।
तन्त्री-लयवद् अत्यर्थं विश्रुतार्थम् अगायताम् ॥
अनुवाद (हिन्दी)
आज्ञा पाकर वे दोनों भाई वीणाके लयके साथ अपने मनके अनुकूल तार (उच्च) एवं मधुर स्वरमें राग अलापते हुए रामायणकाव्यका गान करने लगे । उनका उच्चारण इतना स्पष्ट था कि सुनते ही अर्थका बोध हो जाता था । उनका गान सुनकर श्रोताओंके समस्त अंगोंमें हर्षजनित रोमाञ्च हो आया तथा उन सबके मन और आत्मामें आनन्दकी तरंगें उठने लगीं । उस जनसभामें होनेवाला वह गान सबकी श्रवणेन्द्रियोंको अत्यन्त सुखद प्रतीत होता था ॥ ३३-३४ ॥
विश्वास-प्रस्तुतिः
इमौ मुनी पार्थिवलक्षणान्वितौ
कुशीलवौ चैव महातपस्विनौ ।
ममापि तद् भूतिकरं प्रचक्षते
महानुभावं चरितं निबोधत ॥ ३५ ॥
मूलम्
इमौ मुनी पार्थिवलक्षणान्वितौ
कुशीलवौ चैव महातपस्विनौ ।
ममापि तद् भूतिकरं प्रचक्षते
महानुभावं चरितं निबोधत ॥ ३५ ॥
अनुवाद (हिन्दी)
उस समय श्रीरामने अपने भाइयोंका ध्यान आकृष्ट करते हुए कहा—‘ये दोनों कुमार मुनि होकर भी राजोचित लक्षणोंसे सम्पन्न हैं । संगीतमें कुशल होनेके साथ ही महान् तपस्वी हैं । ये जिस चरित्रका—प्रबन्ध काव्यका गान करते हैं, वह शब्दार्थालङ्कार, उत्तम गुण एवं सुन्दर रीति आदिसे युक्त होनेके कारण अत्यन्त प्रभावशाली है । मेरे लिये भी अभ्युदयकारक है; ऐसा वृद्ध पुरुषोंका कथन है । अतः तुम सब लोग ध्यान देकर इसे सुनो’ ॥ ३५ ॥
विश्वास-प्रस्तुतिः
ततस्तु तौ रामवचःप्रचोदिता-
वगायतां मार्गविधानसम्पदा ।
स चापि रामः परिषद्गतः शनै-
र्बुभूषयासक्तमना बभूव ॥ ३६ ॥
मूलम्
ततस्तु तौ रामवचःप्रचोदिता-
वगायतां मार्गविधानसम्पदा ।
स चापि रामः परिषद्गतः शनै-
र्बुभूषयासक्तमना बभूव ॥ ३६ ॥
त्र्यम्बकः - धर्माकूतम्
ततस् तु तौ राम-वचः-प्रचोदिताव्-
अगायतां मार्ग-विधान-संपदा ।
स चापि रामः परिषद्-गतः स्वनैर्-
बुभूषयासक्तमना बभूव ह ॥
अनुवाद (हिन्दी)
तदनन्तर श्रीरामकी आज्ञासे प्रेरित हो वे दोनों भाई मार्गविधानकी* रीतिसे रामायणका गान करने लगे । सभामें बैठे हुए भगवान् श्रीराम भी धीरे-धीरे उनका गान सुननेमें तन्मय हो गये ॥ ३६ ॥
पादटिप्पनी
- गान दो प्रकारके होते हैं—मार्ग और देशी । भिन्न-भिन्न देशोंकी प्राकृत भाषामें गाये जानेवाले गानको देशी कहते हैं और समूचे राष्ट्रमें प्रसिद्ध संस्कृत आदि भाषाका आश्रय लेकर गाया हुआ गान मार्गके नामसे प्रसिद्ध है । कुमार कुश और लव संस्कृत भाषाका आश्रय लेकर इसीकी रीतिसे गा रहे थे ।
त्र्यम्बकः - धर्माकूतम्
अनेन अस्य प्रबन्धस्य विरुद्ध-कथा-अनभिरुचिना धर्म-विरुद्ध-केवल-अर्थ-पर-जाबालि-वाक्य-श्रवण-कुपितेन धर्म-प्रधानेन श्री-रामेण आदर-पूर्वकं श्रुतम् इति धर्म-अधिगमाय सत्-संग्राह्यता सूचिता । तम् एव धर्मं महर्षिणा वाल्मीकिना “व्यङ्ग्य-प्रधानं काव्यम् उत्तमम्” इति व्यङ्ग्य-मर्यादया प्रतिपादयता श्री-राम-स्वामि-चरितम् एव वाच्यत्वेन प्रतिपाद्यते ॥
समाप्तिः
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे चतुर्थः सर्गः ॥ ४ ॥
इस प्रकार श्रीवाल्मीकिनिर्मित आर्षरामायण आदिकाव्यके बालकाण्डमें चौथा सर्ग पूरा हुआ ॥ ४ ॥