१४ अरण्यकाण्डका विनियोग एवं ऋष्यादिन्यास

Misc Detail

ॐ अस्य श्रीमदरण्यकाण्डमहामन्त्रस्य भगवानृषिः । अनुष्टुप् छन्दः । श्रीरामो दाशरथिः परमात्मा महेन्द्रो देवता । ईं बीजम् । नमः शक्तिः । इन्द्रायेति कीलकम् । इन्द्रप्रसादसिद्ध्यर्थे अरण्यकाण्डपारायणे जपे विनियोगः । ॐ भगवदृषये नमः शिरसि । ॐ अनुष्टुप्छन्दसे नमः मुखे । ॐ दाशरथिश्रीरामपरमात्ममहेन्द्रदेवतायै नमः हृदि । ॐ ईं बीजाय नमः गुह्ये । ॐ नमः शक्तये नमः पादयोः । ॐ इन्द्राय कीलकाय नमः सर्वाङ्गे ।