सुन्दरकाण्डः

[[सुन्दरकाण्डः Source: EB]]

[

SUNDARAKANDAM

OF

SRIMADRAMAYANAM

<MISSING_FIG href="../books_images/U-IMG-1701320357Screenshot(3"/>.png)

MADRAS:

V. RAMASWAMY SASTRULU & SONS

202, Esplanade.

॥ श्रीरस्तु ॥

श्रीमद्वाल्मीकिरामायणे

सु न्द र का ण्डः

<MISSING_FIG href="../books_images/U-IMG-1701320784Screenshot(4"/>.jpg)

चेन्नपुर्यां
वाविल्ल, रामस्वामिशास्त्रुलु अण्ड् सन्स्
इत्येतैः प्रकटितः

॥ श्रीरस्तु ॥
॥श्रीमत्सुन्दरकाण्डपठनश्रवणादिफलम्॥
<MISSING_FIG href="../books_images/U-IMG-170409879315.png"/>

ब्रह्माण्डे— ततो रावणनीताया स्सीताया श्शत्रुकर्शनः ।

इति श्लोकं समाकर्ण्य कार्यसिद्धिं लभेन्नरः ॥

सुन्दरादिमसर्गस्थहनूमद्विक्रमादिकम् ।

श्रुत्वापस्मारकुष्ठादिभूतभेतालनाशनम् ॥

स निर्जित्य पुरीं श्रेष्ठा मिति श्लोकादिमाक्षरम् ।

श्रुत्वा बन्धा द्विमुक्त स्सन्ब्रह्मभूयाय कल्पते ॥

सीतासंदर्शनं श्रुत्वा वीतशोको भविष्यति ।

श्रुत्वातु त्रिजटास्वप्नं दुस्स्वप्नो नश्यति ध्रुवम् ॥

श्रीराममुद्रिकादानं ये शृण्वंत्यादरेण तु ।

निर्जित्य शत्रून्संग्रामे स्थिरं राज्यं ब्रजंति ते ॥

धन्या देवा स्सगंधर्वा स्सिद्धा इत्यत्र चादिमम् ।

श्रुत्वा चतुर्दशं वर्ण मसंगो वायुव चरेत् ॥

हनूमद्रहणं श्रुत्वा बन्धा न्मुच्येत मानवः ।

लङ्कादाहाद्यनुश्रुत्वा तापत्रयहति र्भवेत् ॥

मङ्गलाभिमुखी त्यस्मिन् श्लोके यत्प्रथमाक्षरम् ।

तद्गायत्र्याः पञ्चदशं श्रुत्वा मद्रूपभाग्भवेत् ॥

श्रुत्वा तु पञ्चमं काण्डं हनूमद्विजयांकितम् ।

आंजनेयप्रसादेन ब्रह्मलोकं सगच्छति ॥

काण्डस्य सुन्दराख्यस्य श्रवणा त्पठना दपि ।

मां प्राप्नुया ज्जगद्धेतुं नात्र संदेह इष्यते ॥

<MISSING_FIG href="../books_images/U-IMG-170409894016.png"/>

॥ श्रीः ॥
स्मार्तादीनांसर्वेषां
श्रीरामायगपारायणादौ कर्तव्यपूजाविधानम्॥

<MISSING_FIG href="../books_images/U-IMG-170409899916.png"/>

आचम्य। प्राणानायम्य। ममोपात्त…शुभे शोभने मुहूर्ते अस्यां शुभतिथौ श्रीसीतालक्ष्मणभरतशत्रुघ्न हनुमत्समेत श्रीरामचन्द्रदेवता प्रीत्यर्थं यावच्छक्तिध्यानावाहनादिषोडशोपचारपूजां करिष्ये॥आदौ निर्विघ्नेन परिसमाप्त्यर्थं गणाधिपतिपूजां करिष्ये तदंगत्वेन कलशपूजां करिष्ये (कलशपूजां गणपतिपूजां च कृत्वा)

वैदेहीसहितं सुरद्रुमतले हैमे महामंटपे

मध्येपुष्पक मासने मणिमये वीरासने सुस्थितम् ।

अग्रे वाचयति प्रभंजनसुते तत्त्वं मुनिभ्यः परं

व्याख्यांतं भरतादिभिः परिवृतं रामंभजे श्यामलम् ॥

तत श्श्रीमत्कोशोपरि श्रीरामध्यानावाहनादिनैवेद्यांतपूजा विधेया। श्रीसीतारामचन्द्रदेवताभ्यां नमः (ध्यानावाहनादि-षोडशोपचारपूजां च कृत्वा)

<MISSING_FIG href="../books_images/U-IMG-170409899916.png"/>

॥ श्रीमत्सुन्दरकाण्डमहामन्त्रानुष्ठानक्रमः॥

<MISSING_FIG href="../books_images/U-IMG-170409899916.png"/>

अस्य श्रीसुन्दरकाण्ड महामन्त्रस्य।वाल्मीकीऋषिःआंजनेयो देवता। रामदूताय कपय इति बीजं। नमो वातात्मजाय इति

शक्तिः। समुद्रतारकाय इति कीलकं। सर्वानिष्टनिवारणार्थे सर्वाभीष्ट सिद्ध्यर्थे सुन्दरकाण्डपारायणे जपे विनियोगः उदधिक्रमिणे तुभ्यं नमो राक्षसमर्दिने। अंगुष्ठाभ्यां नमः॥छायाग्रहविनाशाय सुरसा मारकाय च।तर्जनीभ्यां नमः॥ मैनाकदर्शिनेतुभ्यं मैनाक गिरिमानिने। मध्यमाभ्यां नमः॥ आकाशगामिने देवमानिने सर्वदायिने। अनामिकाभ्यां नमः॥वायुपुत्त्रायधीराय लङ्कादर्पापहारिणे। कनिष्ठिकाभ्यां नमः॥ अक्षहन्त्रे नमस्तुभ्यं पुच्छवह्निप्रदीपिने। करतलकरपृष्ठाभ्यां नमः॥ उदधि…..मर्दिने। हृदयाय नमः॥ छाया… काय च। शिरसेस्वाहा॥मैनाका… मानिने। शिखायै वौषट्॥ आकाश…धिने।कवचाय हुं॥वायुपुत्त्राय…हारिणे। नेत्रत्रयाय वौषट्॥अक्षहत्रे…पिने।अस्त्रायफट्॥अष्टमंत्रिसुतानां च गर्वभङ्गकृते नमः॥ भूर्भुवस्सुवरो मिति दिग्बन्धः॥

ध्यानम् - सर्वानिष्टनिवारकं शुभकरंपिंगाक्षमक्षा पहं

सीतान्वेषणतत्परं कपिवरं कोटीन्दुसूर्यप्रभम् ।

लङ्काद्वीपभयङ्करं सकलदं सुग्रीवसम्मानिनं

देवेन्द्रादिसमस्त देवविनुतं काकुत्स्थ दूतं भजे ॥

बुद्धि र्बलं यशोधैर्य निर्भयत्व मरोगता ।
अजाड्यं वाक्पटुत्वं च हनूमत्स्मरणा द्भवेत्॥

<MISSING_FIG href="../books_images/U-IMG-170409938216.png"/>

श्रीवैष्णवानां
॥ श्रीमद्रामायणपउनोपक्रमानुसंधेयक्रमः॥
<MISSING_FIG href="../books_images/U-IMG-170409943715.png"/>

प्रथमतः ‘श्रीशैलेशे’त्यादि स्वस्वसंप्रदायनिर्वाहकाचार्यानुसंधानं।ततः ‘लक्ष्मीनाथे’त्यारभ्य ‘प्रणतोऽस्मिनित्य’ मित्यंतं। अनंतरं श्रीशैलपूर्णविषयं ‘पितामह’स्येति श्लोकमारभ्य श्रीभाष्यकार प्रभृतिस्वाचार्यपर्यंतविषया स्सांप्रदायिकश्लोका अनुसंधेयाः। यद्वा श्रीधरादिस्वाचार्यपर्यंताः प्रतिव्यक्तिश्लोका अनुसंधेयाः। ततः -

कूजंतं राम रामेति मधुरं मधुराक्षरम् ।

आरुह्य कविताशाखां वन्दे वाल्मीकिकोकिलम् ॥

वाल्मीकेर्मुनिसिंहस्य कवितावनचारिणः ।

शृण्वन्रामकथानादं को न याति परां गतिम् ॥

यः पिबन्सततं रामचरितामृतसागरम् ।

अतृप्तस्तं मुनिं वन्दे प्राचेतसमकल्मषम् ॥

गोष्पदीकृतवाराशिं मशकीकृतराक्षसम् ।

रामायणमहामालारत्नं वन्देऽनिलात्मजम् ॥

अञ्जनानंदनं वीरं जानकीशोकनाशनम् ।

कपीश मक्षहंतारं वन्दे लङ्काभयंकरम् ॥

मनोजवं मारुततुल्यवेगं जितेंद्रियं बुद्धिमतां वरिष्ठम् ।

वातात्मजं वानरयूथमुख्यं श्रीरामदूतं शिरसा नमामि ॥

उल्लंघ्यसिंधो स्सलिलं सलीलं यश्शोकवह्निं जनकात्मजायाः ।

आदाय तेनैव ददाह लंकां नमामि तं प्रांजलि रांजनेयम् ॥

आंजनेय मतिपाटलाननं कांचनाद्रिकमनीयविग्रहम् ।

पारिजाततरुमूलवासिनं भावयामि पवमाननन्दनम् ॥

यत्रयत्नरघुनाथकीर्तनं तत्रतत्रकृतमस्तकाञ्जलिम् ।

बाष्पवारिपरिपूर्णलोचनं मारुतिंनमतराक्षसांतकम् ॥

वेदवेद्ये परेपुंसि जाते दशरथात्मजे ।

वेदः प्राचेतसादासी त्साक्षा द्रामायणात्मना॥

तदुपगतसमाससंधियोग सममधुरोपनतार्थवाक्यबद्धम् ।

रघुवरचरितं मुनिप्रणीतं दशशिरसश्च वर्धनिशामयध्वम्॥

श्रीराघवं दशरथात्मज मप्रमेयं सीतापतिं रघुकुलान्वयरत्नदीपम् ।

आजानुबाहु मरविंददलायताक्षं रामं निशाचरविनाशकरं नमामि ॥

वैदेहीसहितं सुरद्रुमतले हैमे महामंटने

मध्येपुष्पक मासने मणिमये वीरासने सुस्थितम् ।

अग्रे वाचयति प्रभंजनसुते तत्त्वं मुनिभ्यः परं

व्याख्यांतं भरतादिभिः परिवृतं रामं भजे श्यामलम्॥

ततो यथाशक्ति श्रीकोशोपरि भगवदाराधनं कर्तव्यम् ।
<MISSING_FIG href="../books_images/U-IMG-170409968616.png"/>

॥पारायणसमापनक्रमः ॥
<MISSING_FIG href="../books_images/U-IMG-170409971915.png"/>

एव मेतत्पुरावृत्त माख्यानं भद्रमस्तु वः ।

प्रव्याहरत विस्रब्धं बलं विष्णोः प्रवर्धताम्॥

लाभस्तेषां जयस्तेषां कुतस्तेषां पराभवः ।

येषा मिंदीवरश्यामो हृदये सुप्रतिष्ठितः ॥

काले वर्षतु पर्जन्यः पृथिवी सस्यशालिनी ।

देशोऽयं क्षोभरहितो ब्राह्मणा स्संतु निर्भयाः ॥

कावेरी वर्धतां काले काले वर्षतु वासवः ।

श्रीरंगनाथो जयतु श्रीरंग श्री श्च वर्धताम् ॥

स्वस्तिप्रजाभ्यः परिपालयंतां न्याय्येन मागर्णे महीं महीशाः ।

गोब्राह्मणेभ्य श्शुभमस्तु नित्यं लोका स्समस्ता स्सुखिनो भवंतु ॥

मंगलं कोसलेंद्राय महनीयगुणाब्धये ।

चक्रवर्तितनूजाय सार्वभौमाय मंगलम् ॥

वेदवेदांतवेद्याय मेघश्यामलमूर्तये ।

पुंसां मोहनरूपाय पुण्यश्लोकाय मंगलम् ॥

विश्वामित्रांतरंगाय मिथिलानगरीपतेः ।

भाग्यानां परिपाकाय भव्यरूपाय मंगलम् ॥

पितृभक्ताय सततं भ्रातृभि स्सह सीतया ।

नंदिताखिललोकाय रामभद्राय मंगलम् ॥

त्यक्तसाकेतवासाय चित्रकूटविहारिणे ।

सेव्याय सर्वयमिनां धीरोदाराय मंगलम् ॥

सौमित्रिणा च जानक्या चापबाणासिधारिणे ।

संसेव्याय सदा भक्त्या स्वामिने मम मंगलम् ॥

दंडकारण्यवासाय खंडितामरशत्रवे ।

गृध्रराजाय भक्ताय मुक्तिदायास्तु मंगलम् ॥

सादरं शबरदित्त फलमूलाभिलाषिणे ।

सौलभ्यपरिपूर्णाय सत्त्वोद्रिक्ताय मंगलम्॥

हनुमत्समवेताय हरीशाभीष्टदायिने ।

वालिप्रमथनायास्तु महाधीराय मंगलम्॥

श्रीमते रघुवीराय सेतूल्लंधितसिंधवे ।

जितराक्षसराजाय रणधीराय मंगलम्॥

आसाद्य नगरीं दिव्या मभिषिक्ताय सीतया ।

राजाधिराजराजाय रामभद्राय मंगलम्॥

मंगलाशासनपरैर्मदाचार्यपुरोगमैः ।

सर्वैश्च पूर्वै राचार्यै स्सत्कृतायास्तु मंगलम्॥

ततः पितामहस्येत्यारभ्य स्वाचार्यांताश्श्लोका अनुसंधेयाः॥

<MISSING_FIG href="../books_images/U-IMG-170409991316.png"/>

॥ श्रीस्मार्तमध्वादीनां श्रीमद्रामायणपठनोपक्रमानुसंधेयक्रमः॥

<MISSING_FIG href="../books_images/U-IMG-170409991316.png"/>

शुक्लांबरधरं विष्णुं शशिवर्णं चतुर्भुजम् ।

प्रसन्नवदनं ध्याये त्सर्वविघ्नोपशांतये॥

वागीशाद्या स्सुमनस स्सर्वार्थाना मुपक्रमे ।

यं नत्वा कृतकृत्यास्स्युस्त न्नमामि गजाननम्॥

ततः श्रीमच्छङ्कराचार्यादिगुरुपरंपराऽनुसंधेया॥

दोर्भिर्युक्ताचतुर्भिस्स्फटिकमणिमयी मक्षमालांदधाना

हस्तेनैकेन पद्मं सितमपि च शुकं पुस्तकं चापरेण।

भासा कुन्देन्दुशंखस्फटिकमणिनिभा भासमाना समाना

सा मे वाग्देवतेयं निवसतु वदने सर्वदा सुप्रसन्ना॥

कूजंतं रामरामेति मधुरं मधुराक्षरम् ।

आरुह्य कविताशाखां वन्दे वाल्मीकिकोकिलम् ॥

वाल्मीकेर्मुनिसिंहस्य कवितावनचारिणः ।

शृण्वन्रामकथानादं को नयाति परां गतिम् ॥

यः पिबन्सततं रामचरितामृतसागरम् ।

अतृप्तस्तं मुनिं वन्दे प्राचेतस मकल्मषम्॥

गोष्पदीकृतवाराशिं मशकीकृतराक्षसम् ।

रामायणमहामालारत्नं वन्देऽनिलात्मजम्॥

अञ्जनानन्दनं वीरं जानकीशोकनाशनम् ।

कपीश मक्षहंतारं वन्दे लङ्काभयङ्करम् ॥

उल्लंघ्यसिंधो स्सलिलं सलीलं य श्शोकवह्निं जनकात्मजायाः ।

आदाय तेनैव ददाह लंकां नमामि तं प्रांजलि रांजनेयम् ॥

आंजनेय मतिपाटलाननं कांचनाट्रिकमनीयविग्रहम् ।
पारिजाततरुमूलवासिनं भावयामि पवमाननन्दनम्॥

यत्र यत्र रघुनाथकीर्तनं तत्र तत्रकृतमस्तकाञ्जलिम् ।

बाष्पवारिपरिपूर्णलोचनं मारुतिंनमतराक्षसांतकम् ॥

मनोजवं मारुततुल्यवेगं जितेंद्रियं बुद्धिमतां वरिष्ठम् ।

वातात्मजं वानरयूथमुख्यं श्रीरामदूतं शिरसा नमामि ॥

यः कर्णांजलिसंपुटै रहरह स्सम्य क्पिबत्यादरा-

द्वाल्मीके र्वदनारविंदगलितं रामायणाख्यं मधु ।

जन्मव्याधिजराविपत्तिमरणै रत्यन्तसोपद्रवं

संसारं स विहाय गच्छति पुमान्विष्णोः पदं शाश्वतम् ॥

तदुपगतसमास संघियोगं सममधुरोपनतार्थ वाक्यबद्धम् ।

रघुवरचरितं मुनिप्रणीतं दशशिरसश्च वधं निशामयध्वम् ॥

वाल्मीकिगिरिसंभूता रामसागरगामिनी ।

पुनाति भुवनं पुण्या रामायणमहानदी ॥

श्लोकसारसमाकीर्णं सर्गकल्लोलसंकुलम् ।

कांडग्राहमहामीनं वंदे रामायणार्णवम् ॥

वेदवेद्ये परेपुंसि जाते दशरथात्मजे ।

वेदः प्राचेतसा दासीत्साक्षा द्रामायणात्मना ॥

वैदेहीसहितं सुरद्रुमतले हैमे महामंटपे

मध्येपुष्पक मासने मणिमये वीरासने सुस्थितम् ।

अग्रेवाचयति प्रभंजनसुते तत्त्वं मुनिभ्यः परं

व्याख्यातं भरतादिभिः परिवृतं रामंभजे श्यामलम् ॥

वामे भूमिसुता पुरश्च हनुमान्पश्चात्सुमित्रासुत-

श्शत्रुघ्नो भरतश्च पार्श्वदलयो र्वाव्यादिकोणेषु च ।

सुग्रीवश्च विभीषणश्च युवराट् तारासुतो जांबवा-

न्मध्ये नीलसरोजकोमलरुचिं रामं भजे श्यामलम् ॥

नमोऽस्तु रामाय स लक्ष्मणाय देव्यै च तस्यै जनकात्मजायै ।

नमोऽस्तु रुद्रेंद्रयमानिलेभ्यो नमोऽस्तु चंद्रार्कमरुद्गणेभ्यः ॥

ततः श्रीकोशोपरि श्रीरामावाहनादिनैवेद्यांतपूजा विधेया ।

पारायणावसाने च पुनः पूजा कर्तव्या ॥
<MISSING_FIG href="../books_images/U-IMG-170410024216.png"/>

॥पारायणसमापनसमयानुसंधेयक्रमः॥
<MISSING_FIG href="../books_images/U-IMG-170410028516.png"/>

स्वस्ति प्रजाभ्यः परिपालयंतां न्याय्येन मार्गेण महीं महीशाः ।

गोब्राह्मणेभ्यः शुभमस्तु नित्यं लोकास्समस्ता स्सुखिनो भवंतु॥

काले वर्षतु पर्जन्यः पृथिवी सस्यशालिनी।

देशोऽयं क्षोभरहितो ब्राह्मणा स्संतु निर्भयाः॥

अपुत्त्राःपुत्त्रिण स्संतु पुत्त्रिणस्संतु पौत्त्रिणः ।

अधना स्सधना स्संतु जीवंतु शरदां शतम्॥

चरितं रघुनाथस्य शतकोटिप्रविस्तरम् ।

एकैक मक्षरं प्रोक्तं महापातकनाशनम्॥

शृण्वत्रामायणं भक्त्या यः पादं पद मेव वा ।

स याति ब्रह्मण स्स्थानं ब्रह्मणा पूज्यते सदा॥

रामाय रामभद्राय रामचंद्राय वेधसे ।

रघुनाथाय नाथाय सीतायाः पतये नमः ॥

यन्मंगलं सुपर्णस्य विनताऽकल्पय त्पुरा।

अमृतं प्रार्थयानस्य तत्ते भवतु मंगलम्॥

मंगलं कोसलेंद्राय महनीयगुणात्मने ।

चक्रवर्तितनूजाय सार्वभौमाय मंगलम्॥

अमृतोत्पादनेदैत्यान्घ्रतो वज्रधरस्य यत् ।

अदिति र्मंगलं प्रादा त्तत्ते भवतु मंगलम् ॥

त्रीन्विक्रमान्प्रक्रमतो विष्णो रमिततेजसः ।

यदासी न्मंगलं राम तत्ते भवतु मंगलम्॥

ऋतव स्सागरा द्वीपा वेदा लोका दिशश्चते ।

मंगलानि महाबाहो दिशंतु तव सर्वदा॥

कायेन वाचा मनसेंद्रियैर्वा बुद्ध्याऽऽत्मनावाप्रकृते स्स्वभावात् ।

करोमि यद्यत्सकलं परस्मै नारायणायेति समर्पयामि ॥

<MISSING_FIG href="../books_images/U-IMG-170410038916.png"/>

॥गायत्त्रीरामायणम्॥
<MISSING_FIG href="../books_images/U-IMG-170410042616.png"/>

तपस्स्वाध्यायनिरतं तपस्वी वाग्विदां वरम् ।

नारदं परिपप्रच्छ वाल्मीकिर्मुनिपुंगवम् ॥१

स हत्वा राक्षसान्सर्वान्यज्ञघ्नान्रघुनन्दनः ।

ऋषिभिः पूजित स्सम्य ग्यथेंद्रोविजयी पुरा ॥२

विश्वामित्र स्सधर्मात्मा श्रुत्वा जनकभाषितम् ।

वत्स राम धनुः पश्य इति राघव मब्रवीत् ॥३

तुष्टावास्य तदा वंशं प्रविश्य स विशांपतेः ।

शयनीयं नरेंद्रस्य तदासाद्य व्यतिष्ठत ॥४

वनवासं हि संख्याय वासांस्याभरणानि च ।

भर्तार मनुगच्छंत्यै सीतायै श्वशुरो ददौ ॥५

राजा सत्यं च धर्मं च राजा कुलवतां कुलम् ।

राजा माता पिता चैव राजा हितकरो नृणाम् ॥६

निरीक्ष्य स मुहूर्तं तु ददर्शभरतो गुरुम् ।

उटजे राम मासीनं जटावल्कलधारिणम् ॥७

यदि बुद्धिः कृता द्रष्टु मगस्त्यं तं महामुनिम् ।

अद्यैव गमने बुद्धिं रोचयस्व महायशाः ॥८

भरतस्यार्यपुत्रस्य श्वश्रूणां मम च प्रभो ।

मृगरूप मिदं व्यक्तं विस्मयं जनयिष्यति ॥९

गच्छ शीघ्र मितो राम सुग्रीवं तं महाबलम् ।

वयस्यं तं कुरु क्षिप्र मितो गत्वाऽद्य राघव ॥१०

देशकालौ प्रतीक्षख क्षममाणः प्रियाप्रिये ।

सुखदुःखसहः काले सुग्रीववशगो भव ॥११

वंद्या स्तेतु तपस्सिद्धा स्तपसा वीतकल्मषाः ।

प्रष्टव्या श्चापि सीतायाः प्रवृत्तिं विनयान्वितैः ॥१२

स निर्जित्य पुरीं श्रेष्ठां लंकां तां कामरूपिणीम् ।

विक्रमेण महातेजा हनुमान्मारुतात्मजः ॥१३

धन्या देवा स्सगंधर्वा सिद्धाश्च परमर्षयः ।

मम पश्यंति ये नाथं रामं राजीवलोचनम् ॥१४

मंगलाभिमुखी तस्य सा तदासी न्महाकपेः ।

उपतस्थे विशालाक्षी प्रयता हव्यवाहनम् ॥१५

हितं महार्थं मृदुपूर्वसंहितं व्यतीतकालायति संप्रतिक्षमम् ।

निशम्य तद्वाक्य मुपस्थितज्वरः प्रसंगवा नुत्तर मेत दब्रवीत् ॥१६

धर्मात्मा रक्षसां श्रेष्ठ स्संप्राप्तोऽयं विभीषणः ।

लंकैश्वर्यं ध्रुवं श्रीमा नयं प्राप्नोत्यकंटकम् ॥१७

यो वज्रपाताशनिसन्निपाता न्न चुक्षुभे नापि चचाल राजा ।

स रामबाणाभिहतो भृशार्त श्चचाल चापंच मुमोच वीरः ॥१८

यस्य विक्रम मासाद्य राक्षसा निधनं गताः ।

तं मन्ये राघवं वीरं नारायण मनामयम् ॥१९

न ते ददृशिरे रामं दहंत मरिवाहिनीम् ।

मोहिताः परमास्त्रेण गांधर्वेण महात्मना ॥२०

प्रणम्य देवताभ्यश्च ब्राह्मणेभ्यश्च मैथिली ।

बद्धांजलिपुटा चेद मुवाचाग्निसमीपतः ॥२१

चलना त्पर्वतेंद्रस्य गणा देवाश्च कंपिताः ।

चचाल पार्वती चापि तदाश्लिष्टा महेश्वरम् ॥२२

दाराःपुत्त्राः पुरं राष्ट्रं भोगाच्छादनभाजनम् ।

सर्वमेवा विभक्तं नो भविष्यति हरीश्वर ॥२३

या मेव रात्रिं शत्रुघ्नः पर्णशालां समाविशत् ।

तामेव रात्रिं सीताऽपि प्रसूता दारकद्वयम् ॥२४

इदं रामायणं कृत्स्त्रं गायत्त्रीबीजसंयुतम् ।

त्रिसंध्यं यःपठे न्नित्यं सर्वपापैः प्रमुच्यते ॥२५

गायत्त्रीरामायणं संपूर्णम् ॥
<MISSING_FIG href="../books_images/U-IMG-170410064016.png"/>

॥देवताप्रार्थना॥
<MISSING_FIG href="../books_images/U-IMG-170410068216.png"/>

शुक्लांबरधरं विष्णुं शशिवर्णं चतुर्भुजम् ।

प्रसन्नवदनं ध्याये त्सर्वविघ्नोपशान्तये ॥

रामाय रामभद्राय रामचन्द्राय वेधसे ।

रघुनाथाय नाथाय सीतायाः पतये नमः ॥

<MISSING_FIG href="../books_images/U-IMG-170410068216.png"/>

॥वाल्मीकिप्रार्थना॥
<MISSING_FIG href="../books_images/U-IMG-170410068216.png"/>

कूजंतं रामरामेति मधुरं मधुराक्षरम् ।

आरुह्य कविताशाखां वन्दे वाल्मीकिकोकिलम् ॥

वाल्मीकेर्मुनिसिंहस्य कवितावनचारिणः ।

शृण्वन्रामकथानादं कोन याति परां गतिम् ॥

<MISSING_FIG href="../books_images/U-IMG-170410068216.png"/>

॥ आंजनेयप्रार्थना॥
<MISSING_FIG href="../books_images/U-IMG-170410068216.png"/>

अञ्जनानन्दनं वीरं जानकीशोकनाशनम् ।

कपीश मक्षहंतारं वन्दे लङ्काभयंकरम् ॥

गोष्पदीकृतवाराशिं मशकीकृतराक्षसम् ।

रामायणमहामालारत्नं वन्देऽनिलात्मजम् ॥

मनोजवं मारुततुल्यवेगं जितेंद्रियं बुद्धिमतां वरिष्ठम् ।

वातात्मजं वानरयूथमुख्यं श्रीरामदूतं शिरसा नमामि ॥

॥ श्रीरामायणप्रशंसा॥
<MISSING_FIG href="../books_images/U-IMG-170410077915.png"/>

वेदवेद्ये परे पुंसि जाते दशरथात्मजे ।

वेदः प्राचेतसा दासी त्साक्षा द्रामायणात्मना ॥

श्रीमद्ब्रह्मतदेव बीज ममलं यस्याङ्कर श्चिन्मयः

काण्डै स्सप्तभि रन्वितोऽतिविततो ऋष्यालवालोदितः ।

पत्त्रैस्तत्त्वसहस्रकै स्सुविलसच्छाखाशतैः पञ्चभिः

स्वात्मप्राप्तिफलप्रदो विजयते रामायणस्वस्तरुः ॥

यः कर्णांजलिसंपुटै रहरह स्सम्य क्पिबत्यादरा

द्याल्मीके र्वदनारविंदगलितं रामायणाख्यं मधु ।

जन्मव्याधिजराविपत्तिमरणै रत्यन्तसोपद्रवं

संसारं स विहाय गच्छति पुमा न्विष्णोः पदं शाश्वतम्॥

वाल्मीकिगिरिसंभूता रामांभोनिधिसंगता ।

श्रीमद्रामायणी गंगा पुनातु भुवनत्रयम् ॥

चरितं रघुनाथस्य शतकोटिप्रविस्तरम् ।

एकैक मक्षरं प्रोक्तं महापातकनाशनम् ॥

<MISSING_FIG href="../books_images/U-IMG-170410083816.png"/>

॥ श्रीरस्तु ॥

श्रीमद्रामायणे - सुन्दरकाण्डे

॥प्रथमस्सर्गः॥
<MISSING_FIG href="../books_images/U-IMG-170410089516.png"/>

**ततो रावणनीतायास्सीतायाश्शत्रुकर्शनः ।
इयेष पदमन्वेष्टुं चारणाचरिते पथि ॥१
**

दुष्करं निष्प्रतिद्वंद्वं चिकीर्षन् कर्म वानरः ।
समुदग्रशिरोग्रीवो गवाम्पतिरिवाबभौ ॥२

अथ वैडूर्यवर्णेषु शाद्वलेषु महाबलः ।
धीर स्सलिलकल्पेषु विचचार यथासुखम् ॥३

द्विजा न्वित्नासयन् धीमा नुरसा पादपान् हरन ।
मृगांश्च सुबहू न्निघ्नन् प्रवृद्ध इव केसरी ॥४

नीललोहितमाञ्जिष्ठपत्रवर्णै स्सितासितैः।
स्वभावविहितै श्चिर्त्नै र्धातुभि स्समलङ्कृतम् ॥५

कामरूपिभि राविष्ट मभीक्ष्णं सपरिच्छेदैः ।
यक्षकिन्नरगन्धर्वै र्देवकल्पै श्च पन्नगैः ॥६

स तस्य गिरिवर्यस्य तले नागवरायुते ।
तिष्ठन् कपिवर स्तत्न ह्रदे नाग इवाबभौ ॥७

ससुर्याय महेन्द्राय पवनाय स्वयम्भुवे ।
भूतेभ्य श्चाञ्जलिं कृत्वा चकार गमने मतिम् ॥८

अञ्जलिं प्राङ्मुखःकृत्वा पवनायात्मयोनये ।

ततो हि ववृघे गन्तुं दक्षिणो दक्षिणां दिशम् ॥९

प्लवङ्गप्रवरै र्दृष्टःप्लवने कृतनिश्चयः ।

ववृधे रामवृद्धयर्थं समुद्र इव पर्वसु ॥१०

निष्प्रमाणशरीरस्सन् लिलङ्घयिषु रर्णवम् ।

बाहुभ्यां पीडयामास चरणाभ्यां च पर्वतम् ॥११

स चचालाचल श्चापि मुहूर्तं कपिपीडितः ।

तरूणां पुष्पिताग्राणां सर्वं पुष्प मशातयत् ॥१२

तेन पादपमुक्तेन पुष्पौघेण सुगन्धिना ।

सर्वत स्संवृत श्शैलो बभौ पुष्पमयो यथा ॥१३

तेन चोत्तमवीर्येण पीड्यमान स्स पर्वतः ।

सलिलं संप्रसुस्राव मदं मत्त इव द्विपः ॥१४

पीड्यमानस्तु बलिना महेन्द्रस्तेन पर्वतः ।

रीती र्निर्वर्तयामास काञ्चनाञ्जनराजतीः ॥१५

मुमोच च शिला श्शैलो विशाला स्समनश्शिलाः ।

मध्यमेनार्चिषा जुष्टो धूमराजीरिवानलः ॥१६

गिरिणा पीड्यमानेन पीड्यमानानि सर्वतः ।

गुहाविष्टानि भूतानि विनेदु र्विकृतै स्स्वरैः ॥१७

स महासत्त्वसन्नाद श्शैलपीडानिमित्तजः।

पृथिवीं पूरयामास दिश श्चोपवनानि च ॥१८

शिरोभिः पृथुभि स्सर्पा व्यक्तस्वस्तिक लक्षणैः ।

वमन्तः पावकं घोरं ददंशु र्दशनै श्शिलाः ॥१९

तास्तदा सविषै र्दष्टाः कुपितै स्तै र्महाशिलाः ।

जज्वलुः पावकोद्दीप्ता बिभिवु श्च सहस्रधा॥२०

यानि चौषधजालानि तस्मिन् जातानि पर्वते ।

विषघ्नान्यपि नागानां न शेकु श्शमितुं विषम् ॥२१

[अपरेतु महाकाया वमन्तोऽग्निं स्वतेजसा ।

कन्दरेभ्यो विनिष्पेतुः कपिपादनिपीडिताः ॥

गिरेराक्रममाणस्य तरव स्तरुणाङ्कुराः ।

मुमुचुः पुष्पवर्षाणि व्यक्त मुत्पलगन्धिनः ॥

गैरिकाञ्जनसञ्जुष्टा हरितालसमावृताः ।

व्यदीर्यन्त गिरे स्तस्य शिला स्ता स्समनश्शिलाः ॥

सचन्दनारुण स्ताम्र श्चित्नः काननधातुभिः ।

क्षिप्तः शिखिनिभै र्दीपै र्दीप्तगैरिकधातुभिः ॥]

भिद्यतेऽयं गिरि र्भुतै रिति मत्वा तपस्विनः ।

त्रस्ता विद्याधरा स्तस्मा दुत्पेतु स्स्त्रीगणै स्सह ॥२२

पानभूमिगतं हित्वा हैम मासवभाजनम् ।

पात्राणि च महार्हाणि करकां श्च हिरण्मयान् ॥२३

लेह्यानुच्चावचा न्भक्ष्या न्मांसानि विविधानि च ।

आर्षभाणिधचर्माणि खड्गांश्च कनकत्सरून् ॥२४

कृतकण्ठगुणाःक्षीबा रक्तमाल्यानुलेपनाः ।

रक्ताक्षाः पुष्कराक्षा श्च गगनं प्रतिपेदिरे ॥२५

हारनूपुरकेयूरपारिहार्यधराः स्त्रियः ।

विस्मिता रसस्मिता स्तस्थु राकाशे रमणै स्सह ॥२६

दर्शयंतो महाविद्यां विद्याधरमहर्षयः ।

सहिता स्तस्थु राकाशे वीक्षां चक्रुश्च पर्वतम् ॥२७

शुश्रुवु श्च तदा शब्द मृषीणां भावितात्मनाम् ।

चारणानां च सिद्धानां स्थितानां विमलेऽम्बरे ॥२८

एष पर्वतसंकाशो हनुमान्मारुतात्मजः ।

तितीर्षति महावेग स्समुद्रं मकरालयम् ॥२९

रामार्थं वानरार्थं च चिकीर्षन् कर्म दुष्करम् ।

समुद्रस्य परं पारं दुष्प्रापं प्राप्तु मिच्छति ॥३०

इति विद्याधरा श्श्रुत्वा वच स्तेषां महात्मनाम् ।

त मप्रमेयं ददृशुः पर्वते वानरर्षभम् ॥३१

दुधुवे च सरोमाणि चकंपे चाचलोपमः ।

ननाद सुमहानादं सुमहा निव तोयदः ॥३२

आनुपूर्व्येण वृत्तं च लाङ्गूलं लोभभि श्चितम् ।

उत्पतिष्य न्विचिक्षेप पक्षिराज इवोरगम् ॥३३

तस्य लाङ्गूल माविद्ध मात्तवेगस्य पृष्ठतः ।

ददृशे गरुडेनेव ह्रियमाणो महोरगः ॥३४

बाहू सम्स्तम्भयामास महापरिघसन्निभौ ।

आससाद कपिः कट्यां चरणौ सञ्चुकोच च ॥३५

संहृत्य च भुजौ श्रीमान्तथैव च शिरोधराम् ।

तेज स्सत्त्वं तथा वीर्य माविवेश स वीर्यवान् ॥३६

मार्ग मालोकयन् दूरा दूर्ध्वं प्रणिहितेक्षणः ।

रुरोध हृदये प्राणा नाकाश मवलोकयन् ॥३७

पद्भयां दृढ मवस्थानं कृत्वा स कपिकुंजरः ।

निकुच्य कर्णौ हनुमा नुत्पतिष्यन्महाबलः ॥३८

वानरा न्वानरश्रेष्ठ इदं वचन मब्रवीत् ।

यथा राघवनिर्मुक्त श्शरश्श्वसनविक्रमः ॥३९

गच्छे त्तद्वद्गमिष्यामि लंकां रावणपालिताम् ।

नहि द्रक्ष्यामि यदि तां लंकायां जनकात्मजाम् ॥४०

अनेनैव हि वेगेन गमिष्यामि सुरालयम् ।

यदि वा त्रिदिवे सीतां न द्रक्ष्यामिप्रकृतश्रमः ॥४१

बद्ध्वाराक्षसराजान मानयिष्यामि रावणम् ।

सर्वथा कृतकार्योऽह मेष्यामि सह सीतया ॥४२

आनयिष्यामि वा लंकां समुत्पाट्य सरावणाम् ।

एव मुक्त्वातु हनुमान्वानरा न्वानरोत्तमः ॥४३

उत्पपाताथ वेगेन वेगवा नविचारयन् ।

सुपर्ण मिव चात्मानं मेने स कपिकुंजरः ॥४४

समुत्पतति तस्मिं स्तु वेगात्ते नगरोहिणः ।

संहृत्य विटपान् सर्वान् समुत्पेतु स्समंततः ॥४५

समत्तकोयष्टिभकान् पादपान् पुष्पशालिनः ।

उद्वहन्नूरुवेगेन जगाम विमलेऽम्वरे ॥४६

ऊरुवेगोद्धता वृक्षा मुहूर्तं कपि मन्वयुः ।

प्रस्थितं दीर्घ मध्वानं स्वबंधुमिव बान्धवाः ॥४७

त मूरुवेगोन्मथिता स्साला श्चान्ये नगोत्तमाः ।

अनुजग्मुर्हनूमन्तं सैन्या इव महीपतिम् ॥४८

सुपुष्पिताग्नै र्बहुभिः पादपै रन्वितः कपिः ।

हनुमा न्पर्वताकारो बभूवाद्भुतदर्शनः ॥४९

सारवन्तोऽथ ये वृक्षा न्यमज्जन्लवणाम्भसि ।

भया दिव महेन्द्रस्य पर्वता वरुणालये ॥५०

स नानाकुसुमैः कीर्णः कपि स्साङ्कुरकोरकैः ।

शुशुभे मेघसङ्काशः खद्योतै रिव पर्वतः ॥५१

विमुक्ता स्तस्य वेगेन मुक्त्वा पुष्पाणि ते द्रुमाः ।

अवशीर्यंत सलिले निवृत्ता स्सुहृदो यथा ॥५२

लघुत्वेनोपपन्नं त द्विचित्रं सागरेऽपतत् ।

द्रुमाणां विविधं पुष्पं कपिवायुसमीरितम् ॥५३

ताराशत मिवाकाशं प्रबभौ स महार्णवः ।

पुष्पौधेनानुबद्धेन नानावर्णेन वानरः ॥५४

बभौ मेघ इवाकाशे विद्युद्गणविभूषितः ।

तस्यवेगसमाधूतैः पुष्पै स्तोय मदृश्यत ॥५५

ताराभि रभिरामाभि रुदिताभि रिवांवरम् ।

तस्यांबरगतौ बाहू ददृशाते प्रसारितै ॥५६

पर्वताग्राद्विनिष्क्रांतौ पंचास्या विव पन्नगौ ।

पिबन्निव बभौ चापि सोर्मि मालं महार्णवम् ॥५७

पिपासु रिव चाकाशं ददृशे स महाकपिः ।

तस्य विद्युत्प्रभाकारे वायुमार्गानुसारिणः ॥५८

नयने विप्रकाशेते पर्वतस्था विवानलौ ।

पिंगे पिंगाक्षमुख्यस्य बृहती परिमंडले ॥५९

चक्षुषी संप्रकाशेते चंद्रसूर्या विवोदितौ ।

मुखं नासिकया तस्य ताम्रया ताम्र माबभौ ॥६०

संध्यया समभिस्पृष्टं यथा तत्सूर्य मंडलम् ।

लांगूलं च समाविद्धं प्लवमानस्य शोभते ॥६१

अंबरे वायुपुत्रस्य शक्रध्वज इवोच्छ्रितम् ।

लांगूलचक्रेण महान् शुक्लदंष्ट्रोऽनिलात्मजः ॥६२

व्यरोचत महाप्राज्ञः परिवेषीव भास्करः ।

स्फिग्देशेनाभिताम्रेण रराज स महाकपिः ॥६३

महता दारितेनेव गिरि गैरिकधातुना ।

तस्य वानरसिंहस्य प्लवमानस्य सागरम् ॥६४

कक्षांतरगतो वायु र्जीमूत इव गर्जति ।

खेयथा निपर्तत्युल्का ह्युत्तरांता द्विनिस्सृता ॥६५

दृश्यते सानुबंधा च तथा स कपिकुंजरः ।

पतत्पतंगसंकाशो व्यायत श्शुशुभे कपिः ॥६६

प्रवृद्धइव मातंगः कक्ष्यया बद्ध्यमानया ।

उपरिष्टाच्छरीरेण छायया चावगाढया ॥६७

सागरे मारुताविष्टा नौ रिवासीत्तदा कपिः ।

यं यं देशं समुद्रस्य जगाम स महाकपिः ॥६८

सस तस्योरुवेगेन सोन्माद इव लक्ष्यते ।

सागरस्योर्मिजालाना मुरसा शैलवर्मणाम् ॥६९

अभिघ्नंस्तु महावेगः पुप्लुवे स महाकपिः ।

कार्पवातश्च बलवान् मेघवातश्च निस्सृतः ॥७०

सागरं भीमनिर्घोषं कंपयामासतु र्भृशम् ।

विकर्षन्नूर्भिजालानि बृहंति लवणांभसि ॥७१

पुप्लुवे कपिशार्दूलो विकिरन्निव रोदसी ।

मेरुमंदरसंकाशा नुद्धतान् स महार्णवे ॥७२

अतिक्रामन्महावेग स्तरंगान् गणयन्निव ।

तस्य वेगसमुद्भूतं जलं स जलदं तदा ॥७३

अंबरस्थं विवभ्राज शारदाभ्रमिव/ततम् ।

तिमिनक्रझषाः कूर्मा दृश्यंते विवृता स्तदा ॥७४

वस्त्रापकर्षणेनेव शरीराणि शरीरिणाम् ।

प्लवमानं समीक्ष्याथ भुजंगा स्सागरालयाः ॥७५

व्योम्रि तं कपिशार्दूलं सुपर्ण इति मेनिरे ।

दशयोजनविस्तीर्ण त्रिंशद्योजन मायता ॥७६

छाया वानरसिंहस्य जले चारुतराऽभवत् ।

श्वेताभ्रघनराजीव वायुपुत्रानुगामिनी ॥७७

तस्य सा शुशुभे छाया वितता लवणांभसि ।

शुशुभे स महातेजा महाकायो महाकपिः ॥७८

वायुमार्गे निरालंबे पक्षवा निव पर्वतः ।

येनासौ याति बलवान् वेगेन कपिकुंजरः ॥७९

तेनमार्गेण सहसा द्रोणीकृत इवार्णवः ।

आपाते पक्षिसंघानां पक्षिराज इव ब्रजन् ॥८०

हनुमान्मेघजालानि प्रकर्षन् मारुतो यथा ।

पांडुरारुणवर्णानि नीलमांजिष्ठकानिच ॥८१

कपिनाकृष्यमाणानि महाभ्राणिचकाशिरे ।

प्रविशन्नभ्रजालनि निष्पतंश्च पुनःपुनः ॥८२

प्रच्छन्नश्च प्रकाशश्च चंद्रमा इव लक्ष्यते ।

प्लवमानं तु तं दृष्ट्वा प्लवगं त्वरितं तदा ॥८३

ववर्षुः पुष्पवर्षाणि देवगंधर्वदानवाः ।

तताप न हि तं सूर्यः प्लवंतं वानरोत्तमम् ॥८४

सिषेवे च तदा वायू रामकार्यार्थसिद्धये ।

ऋषय स्तुष्टुवुश्चैनं प्लवमानं विहायसा ॥८५

जगुश्च देवगंधर्वाः प्रशंसंतो महौजसम् ।

नागाश्च तुष्टुवु र्यक्षा रक्षांसि विबुधाः खगाः ॥८६

प्रेक्ष्य सर्वे कपिवरं सहसा विगतक्लमम् ।

तस्मिन् प्लवगशार्दूले प्लवमाने हनुमति ॥८७

इक्ष्वाकुकुलमानार्थी चिंतयामास सागरः ।

साहाय्यं वानरेंद्रस्य यदि नाहं हनुमतः ॥८८

करिष्यामि भविष्यामि सर्ववाच्यो विवक्षताम् ।

अहमिक्ष्वाकुनाथेन सगरेण विवर्धितः ॥८९

इक्ष्वाकुसचिवश्चायं नावसीदितु मर्हति ।

तथा मया विधातव्यं विश्रमेत यथा कपिः ॥९०

शेषंच मयि विश्रांत स्मुखेनातिपतिष्यति ।

इति कृत्वा मतिं साध्वींसमुद्र श्छन्न मंभसि ॥९१

हिरण्यनाभं मैनाक मुवाच गिरिसत्तमम् ।

त्व मिहासुरसंघानां पातालतलवासिनाम् ॥९२

देवराज्ञा गिरिश्रेष्ठ परिघ स्सन्निवेशितः ।

त्व मेषां जातवीर्याणां पुन रेवोत्पतिष्यताम् ॥९३

पातालस्याप्रमेयस्य द्वार मावृत्य तिष्ठसि ।

तिर्य गूर्ध्व मधश्चैव शक्ति स्ते शैल वर्धितुम् ॥९४

तस्मा त्संचोदयामि त्वा मुत्तिष्ठ गिरिसत्तम ।

स एषकपिशार्दूल स्त्वा मुपर्येति वीर्यवान् ॥९५

हनूमान् रामकार्यार्थं भीमकर्मा खमाप्लुतः ।

अस्य साह्यं मया कार्य मिक्ष्वाकुकुलवर्तिनः ॥९६

मम हीक्ष्वाकवः पूज्याः परं पूज्यतमास्तव ।

कुरु साचिव्य मस्माकं न नः कार्य मतिक्रमेत् ॥९७

कर्तव्य मकृतं कार्यं सतां मन्यु मुदीरयेत् ।

सलिला दूर्ध्व मुत्तिष्ठ तिष्टत्वेष कपि स्त्वयि ॥९८

अस्माकमतिथि श्चैव पूज्यश्च प्लवतां वरः ।

चामीकरमहानाभ देवगंधर्वसेवित ॥९९

हनुमां स्त्वयि विश्रांत स्तत श्शेषं गमिष्यति ।

स एषकपिशार्दूल स्त्वा मुपर्येति वीर्यवान् ॥१००

काकुत्स्थस्यानृशंस्यं च मैथिल्याश्च विवासनम् ।

श्रमंच प्लवगेंद्रस्य समीक्ष्योत्थातु मर्हसि ॥१०१

हिरण्यनाभो मैनाको निशम्य लवणांभसः ।

उत्पपात जला चूर्णं महाद्रुमलतायुतः ॥१०२

स सागरजलं भित्वा बभूवाभ्युस्थित स्तदा ।

यथा जलधरं भित्वा दीप्तरश्मि र्दिवाकरः ॥१०३

स महात्मा मुहूर्तेन सर्वत स्सलिलावृतः ।

दर्शयामास शृंगाणि सागरेण नियोजितः ॥१०४

शातकुंभमयै श्शृंगै स्सकिन्नरमहोरगैः ।

आदित्योदयसंकाशै रालिखद्भि रिवांबरम् ॥१०५

तप्तजांबूनदै श्शृंगैः पर्वतस्य समुत्थितैः ।

आकाशं शस्त्रसंकाश मभव त्काञ्चनप्रभम् ॥१०६

जातरूपमयै श्शृङ्गै र्भ्राजमानै स्स्वयंप्रभैः ।

आदित्यशतसंकाश स्सोऽभव द्विरिसत्तमः ॥१०७

तमुत्थित मसंगेन हनुमा नग्रत स्स्थितम् ।

मध्ये लवणतोयस्य विघ्नोऽय मिति निश्चितः ॥१०८

स त मुच्छ्रित मत्यर्थं महावेगो महाकपिः ।

उरसा पातयामास जीमूत मिव मारुतः ॥१०९

स तथा पातित स्तेन कपिना पर्वतोत्तमः ।

बुद्ध्वा तस्य कपे वेंगं जहर्ष च ननाद च ॥११०

त माकाशगतं वीर माकाशे समुपस्थितः ।

प्रीतो हृष्टमना वाक्य मब्रवी त्पर्वतः कपिम् ॥१११

मानुषं धारयन् रूप मात्म नश्शिखरे स्थितः ।

दुष्करं कृतवा न्कर्म त्व मिदं वानरोत्तम ॥११२

निपत्य मम शृंगेषु विश्रमस्व यथासुखम् ।

राघवस्य कुले जातै रुदधिः परिवर्धितः ॥११३

स त्वां रामहिते युक्तं प्रत्यर्वयति सागरः ।

कृते च प्रतिकर्तव्य मेष धर्म स्सनातनः ॥११४

सोऽयं त्वत्प्रतिकारार्थी त्वत्त सम्मान मर्हति ।

त्वन्निमित्त मनेनाहं बहुमाना त्प्रचोदितः ॥११५

तिष्ठ त्वं कपिशार्दूल मयि विश्रम्य गम्यताम् ।

योजनानां शतं चापि कपिरेष खमाप्लुतः ॥११६

तव सानुषु विश्रांत श्शेषं प्रक्रमता मिति ।

तदिदं गंधव त्स्वादु कंदमूलफलं बहु ॥११७

तदास्वाद्य हरिश्रेष्ठ विश्रांतोऽनुगमिष्यसि ।

अस्माकमपि संबंधःकपिमुख्य त्वयाऽस्तिवै ॥११८

प्रख्यात स्त्रिषु लोकेषु महागुणपरिग्रहः ।

वेगवंतः प्लवंतो ये प्लवंगा मारुतात्मज ॥११९

तेषां मुख्यतमं मन्ये त्वा महं कपिकुञ्जर ।

अतिथिः किल पूजार्हः प्राकृतोऽपि विजानता ॥१२०

धर्मं जिज्ञासमानेन किं पुन स्त्वादृशो महान् ।

त्वं हि देववरिष्ठस्य मारुतस्य महात्मनः ॥१२१

पुत्रस्तस्यैव वेगेन सदृशः कपिकुञ्जर ।

पूजिते त्वयि धर्मज्ञ पूजां प्राप्नोति मारुतः ॥१२२

तस्मात्त्वं पूजनीयो मे शृणु चाप्यत्र कारणम् ।

पूर्वं कृतयुगे तात पर्वताः पक्षिणोऽभवन् ॥१२३

तेहि जग्मुर्दिश स्सर्वा गरुडानिलवेगिनः ।

ततस्तेषु प्रयातेषु देवसंघा स्सहर्षिभिः ॥१२४

भूतानि च भयं जग्मु स्तेषां पतनशंकया ।

ततः क्रुद्ध स्सहस्राक्षः पर्वतानां शतक्रतुः ॥१२५

पक्षां श्चिच्छेद वज्रेण तत्र तत्र सहस्रशः ।

स मा मुपागतः क्रुद्धो वज्र मुद्यम्य देवराट् ॥१२६

ततोऽहं सहसा क्षिप्त श्श्वसनेन महात्मना ।

अस्मिन्लवणतोयेच प्रक्षिप्तः प्लवगोत्तम ॥१२७

गुप्तपक्षसमग्रश्च तव पित्राऽभिरक्षितः ।

ततोऽहंमानयामित्वां मान्योहि मम मारुतः ॥१२८

त्वया मे ह्येष संबंधःकपिमुख्य महागुणः ।

अस्मिन्नेवं गते कार्ये सागरस्य ममैव च ॥१२९

प्रीतिं प्रीतमनाः कर्तुं त्व मर्हसि महाकपे ।

श्रमं मोक्षय पूजां च गृहाण कपिसत्तम ॥१३०

प्रीतिंच बहुमन्यस्व प्रीतोऽस्मि तव दर्शनात् ।

एव मुक्तः कपिश्रेष्ठ स्तं नगोत्तम मब्रवीत् ॥१३१

प्रीतोऽस्मि कृत मातिथ्यं मन्युरेषोऽपनीयताम् ।

त्वरते कार्यकालो मे अह श्चाप्यतिवर्तते ॥१३२

प्रतिज्ञा च मया दत्ता न स्थातव्य मिहांतरे ।

इत्युक्त्वा पाणिना शैल मालभ्य हरिपुंगवः ॥१३३

जगामाकाश माविश्य वीर्यवान् प्रहसन्निव ।

स पर्वतसमुद्राभ्यां बहुमाना दवेक्षितः ॥१३४

पूजित श्चोपपन्नाभि राशीर्भि रनिलात्मजः ।

अथोर्ध्वं दूर मुत्प्लुत्य हित्वाशैलमहार्णवौ ॥१३५

पितुःपंथान मास्थाय जगाम विमलांबरे ।

भूयश्चोर्ध्वं गतिं प्राप्य गिरिं त मवलोकयन् ॥१३६

वायुसूनु र्निरालंबे जगाम विमलेऽम्बरे ।

त्तद्वितीयं हनुमतो दृष्ट्वा कर्म सुदुष्करम् ॥१३७

प्रशशंसु स्सुरा स्सर्वे सिद्धाश्च परमर्षयः ।

देवताश्चाभवन् हृष्टा स्तत्रस्था स्तस्य कर्मणा ॥१३८

कांचनस्य सुनाभस्य सहस्राक्ष श्च वासवः ।

उवाच वचनं धीमान् परितोषा त्सगद्गदम् ॥१३९

सुनाभं पर्वतश्रेष्ठं स्वयमेव शचीपतिः ।

हिरण्यनाभ शैलेंद्र परितुष्टोऽस्मि ते भृशम् ॥१४०

अभयं ते प्रयच्छामि तिष्ठ सौम्य यथासुखम् ।

साह्यं कृतं ते सुमह द्विक्रांतस्य हनूमतः ॥१४१

क्रमतो योजनशतं निर्भयस्य भये सति ।

रामस्यैव हि दूत्येन याति दाशरथे र्हरिः ॥१४२

सत्क्रियां कुर्वता तस्य तोषितोऽस्मि दृढं त्वया ।

ततः प्रहर्ष मगम द्विपुलं पर्वतोत्तमः ॥१४३

देवतानां पतिं दृष्ट्वा परितुष्टं शतक्रतुम् ।

स वै दत्तवर श्शैलो बभूवावस्थित स्तदा ॥१४४

हनुमां श्च मुहूर्तेन व्यतिचक्राम सागरम् ।

ततो देवा स्सगन्धर्वा स्सिद्धा च परमर्षयः ॥१४५

[तं प्रयान्तं समुद्वीक्ष्य ह्यकाशे मारुतात्मजम्]
अब्रुव न्सूर्यसन्काशां सुरसां नागमातरम् ।

अयं वातात्मज श्श्रीमा न्प्लवते सागरोपरि ॥१४६

हनुमान्नामतस्य त्वं मुहूर्तं विघ्न माचर ।

राक्षसं रूप मास्थाय सुघोरं पर्वतोपमम् ॥१४७

दंष्ट्राकरालं पिङ्गाक्षं वफ्रङ्कृत्वा नभस्समम् ।

बल मिच्छामहे ज्ञातुं भूय श्चास्य पराक्रमम् ॥१४८

त्वां विजेष्यत्युपायेन विषादं वा गमिष्यति ।

एव मुक्ता तु सा देवी दैवतै रभिसत्कृता ॥१४९

समुद्रमध्ये सुरसा बिभ्रती राक्षसं वपुः ।

विकृतंच विरूपञ्च सर्वस्यच भयावहम् ॥१५०

प्लवमानं हनूमन्त मावृत्येद मुवाचह ।

मम भक्षः प्रदिष्टस्त्व मीश्वरै र्वानरर्षभ ॥१५१

अहं त्वां भक्षयिष्यामि प्रविशेदं ममाननम् ।

एवमुक्त स्सुरसया प्रांजलि र्वानरर्षभः ॥१५२

प्रहृष्टवदन श्श्रीमा निदं वचन मब्रवीत् ।‌‌

रामो दाशरथि र्नाम प्रविष्टो दण्डकावनम् ॥१५३

लक्ष्मणेन सह भ्रात्रा वैदेह्याचापि भार्यया ।

अन्यकार्यविषक्तस्य बद्धवैरस्य राक्षसैः ॥१५४

तस्या सीता हृता भार्या रावणेन यशस्विनी ।

तस्या स्सकाशं दूतोऽहं गमिष्ये रामशासनात् ॥१५५

कर्तु मर्हसि रामस्य साह्यं विषयवासिनि ।

अथवा मैथिलीं दृष्ट्वा रामं चाक्लिष्ट कारिणम् ॥१५६

आगमिष्यामि ते वक्रं सत्यं प्रतिशृणोमिते ।

एव मुक्ता हनुमता सुरसा कामरूपिणी ॥१५७

अब्रवी न्नातिवर्ते न्मां कश्चि देष वरो मम ।

तं प्रयांतं समुद्रीक्ष्य सुरसा वाक्य मब्रवीत् ।

बलं जिज्ञासमानावै नागमाता हनूमतः ॥

प्रविश्य वदनं मेऽद्य गंतव्यं वानरोत्तम ।

वर एष पुरा दत्तो मम धात्रेति सत्वरा ॥

व्यादाय विपुलं वक्रं स्थिता सा मारुतेः पुरः

एव मुक्त स्सुरसया क्रुद्धो वानरपुंगवः ॥

अब्रवी त्कुरु वै वक्रं येन मां विषहिष्यसे ।

इत्युक्त्वा सुरसां क्रुद्धान दशयोजनमायती ॥

दशयोजनविस्तारो बभूव हनुमां स्तदा ।

तं दृष्ट्वा मेघसंकाशं दशयोजन मायतम् ॥

चकार सुरसा चास्यं विंशद्योजन मायतम् ।

हनुमां स्तु ततः क्रुद्ध स्त्रिंशद्योजन मायतः ॥

चकार सुरसा वक्रं चत्वारिंश त्तदोच्छ्रितम् ।

बभूव हनुमा न्वीरः पञ्चाशद्योजनोच्छ्रितः ॥

चकार सुरसा वक्रं षष्ठियोजन मायतम् ।

तथैव हनुमा न्वीर स्सप्तती योजनोच्छ्रितः ॥

चकार सुरसा वक्र मशीतीयोजनायतम् ।

हनुमा नचलप्रख्यो नवतीयोजनोच्छ्रितः ॥

[चकार सुरसा वक्रं शतयोजन मायतम्।]

तद्दृष्ट्वा व्यादितं त्वास्यं वायुपुत्र स्सुबुद्धिमान् ॥१५८

दीर्घजिंह्वा सुरसया सुघोरं नरकोपमम् ।

ससंक्षिप्यात्मनः कायं बभूवांगुष्ठमात्रकः ॥१५९

सोऽभिपत्याशु तद्वकं निष्पत्यच महाबलः ।

अंतरिक्षे स्थित श्श्रीमा निदं वचन मब्रवीत् ॥१६०

प्रविष्टोऽस्मि हि ते वक्रं दाक्षायणि नमोऽस्तुते ।

गमिष्ये यत्र वैदेही सत्यंश्चासी दूरस्तव ॥१६१

तं दृष्ट्वा वदना न्मुक्तं चंद्रं राहुमुखादिव ।

अब्रवी त्सुरसा देवी स्वेन रूपेण वानरम् ॥१६२

अर्थसिद्ध्यै हरिश्रेष्ठ गच्छ सौम्य यथासुखम् ।

समानयस्व वैदेहीं राघवेण महात्मना ॥१६३

तत्तृतीयं हनुमतो दृष्ट्वा कर्म सुदुष्करम् ।

साधुसाध्विति भूतानि प्रशशंसु स्तदा हरिम् ॥१६४

ससागर मनाधृष्य मभ्येत्य वरुणालयम् ।

जगामाकाश माविश्य वेगेन गरुडोपमः ॥१६५

सेविते वारिधाराभिः पतगै श्च निषेविते ।

चरिते कैशिकाचार्यै रैरावतनिषेविते ॥१६६

सिंहकुंजरशार्दूलपतगोरगवाहनैः ।

विमानै स्संपतद्भि श्च विमलै स्समलंकृते ॥१६७

वज्राशनिसमाघातैः पावकै रुपशोभिते ।

कृतपुण्यै र्महाभागै स्स्वर्गजिद्भि रलंकृते ॥१६८

वहता हव्य मत्यर्थं सेविते चित्रभानुना ।

ग्रहनक्षत्रचंद्रार्कतारागण विभूषिते ॥१६९

महर्षिगण गंधर्व नागयक्षसमाकुले ।

विविक्ते विमले विश्वे विश्वावसुनिषेविते ॥१७०

देवराजगजाक्रांते चंद्रसूर्यपथोशिवे ।

विताने जीवलोकस्य वितते ब्रह्मनिर्मिते ॥१७१

बहुश स्सेविते वीरै र्विद्याधरगणै र्वरैः ।

जगाम वायुमार्गे तु गरुत्मानिव मारुतिः ॥१७२

[हनुमान्मेघजालानि प्रकर्ष न्मारुतो यथा ।

कालागरुसवर्णानि रक्तपीतसितानिच ॥

कपिना कृष्यमाणानि महाभ्राणि चकाशिरे ।

प्रविश न्नभ्रजालानि निष्पतं श्च पुनः पुनः ॥

प्रावृषीन्दुरि वाभाति निष्पतन्प्रविशं स्तदा ।]

प्रदृश्यमान स्सर्वत्र हनुमा न्मारुतात्मजः ।

भेजेऽम्बरं निरालंबं लंबपक्ष इवाद्रिराट् ॥१७३

प्लवमानंतु तं दृष्ट्वा सिंहिका नाम राक्षसी ।

मनसा चिन्तयामास प्रवृद्धा कामरूपिणी ॥१७४

अद्य दीर्घस्य कालस्य भविष्याम्यह माशिता ।

इदं हि मे महत्सत्वं चिरस्य वश मागतम् ॥१७५

इतिं संचित्य मनसा छाया मस्य समाक्षिपत् ।

छायायां गृह्यमाणायां चिन्तयामास वानरः ॥१७६

समाक्षिप्तोऽस्मि सहसा पंगूकृतपराक्रमः ।

प्रतिलोभेन वातेन महानौ रिव सागरे ॥१७७

तिर्यगूर्ध्व मधश्चैव वीक्षमाण स्ततः कपिः ।

ददर्श समहत्सत्त्व मुत्थितं लवणाम्भसि ॥१७८

तदृष्ट्वा चिन्तयामास मारुति र्विकृताननम् ।

कपिराजेन कथितं (सत्य) सत्त्व मद्भुतदर्शनम् ॥१७९

छायाग्राहि महावीर्यं तदिदं नात्रसंशयः ।

सतां बुद्ध्वाऽर्थतत्त्वेन सिंहिकां मतिमान्कपिः ॥१८०

व्यवर्धत महाकायः प्रावृषीव वलाहकः ।

तस्य सा काय मुद्वीक्ष्य वर्धमानं महाकपेः ॥१८१

वक्रं प्रसारयामास पातालांतरसन्निभम् ।

घनराजीव गर्जंती वानरं समभिद्रवत् ॥१८२

स ददर्श ततस्तस्या विवृतं सुमह न्मुखम् ।

कायमात्रं च मेधावी मर्माणि च महाकपिः ॥१८३

सतस्या विवृते वक्रे वज्रसंहननः कपिः ।

संक्षिप्य मुहु रात्मानं निष्पपात महाबलः ॥१८४

आस्ये तस्या निमज्जंतं ददृशु स्सिद्धचारणाः ।

ग्रस्यमानं यथा चंद्रं पूर्णं पर्वणि राहुणा ॥१८५

ततस्तस्या नखै स्तीक्ष्णै र्मर्माण्युत्कृत्य वानरः ।

उत्पपाताथ वेगेन मनस्संपातविक्रमः ॥१८६

तां तु (दृष्ट्वा) च दिष्ट्या च दाक्षिण्येन निपात्य च ।

स कपिप्रवरो वेगा द्ववृधे पुन रात्मवान् ॥१८७

हृतहृत्सा हनुमता पपात विधुराऽम्भसि ।

[स्वयंभुवैव हनुमान् सृष्टस्तस्या निपातने ॥]

तां हतां वानरेणाशु पतितां वीक्ष्य सिंहिकाम् ॥१८८

भूतान्याकाशचारीणि त मूचुः प्लवगोत्तमम् ।

भीम मद्य कृतं कर्म महत्सत्त्वं त्वया हृतम् ॥१८९

साधयार्थ मभिप्रेत मरिष्टं प्लवतां वर ।

यस्य त्वेतानि चत्वारि वानरेंद्र यथा तव ॥१९०

धृति र्दृष्टि र्मति र्दाक्ष्यं सकर्मसु न सीदति ।

स तै स्सम्भावितः पूज्यःप्रतिपन्नप्रयोजनः ॥१९१

जगामाकाश माविश्य पन्नगाशनवत्कपिः ।

प्राप्तभूयिष्ठपार स्तु सर्वतः प्रतिलोकयन् ॥१९२

योजनानां शतस्यांते वनराजिं ददर्श सः ।

ददर्श च पतन्नेव विविधद्रुमभूषितम् ॥१९३

द्वीपं शाखामृगश्रेष्ठो मलयोपवनानिच ।

सागरं सागरानूपं सागरानूपजा न्हुमान् \।\।१९४

सागरस्य च पत्नीनां मुखान्यपि विलोकयन् ।

समहामेघसंकाशं समीक्ष्यात्मान मात्मवान् ॥१९४

निरुंधंतमि वाकाशं चकार मतिमा न्मतिम् ।

कायवृद्धिं प्रवेगञ्च मम दृष्ट्वैव राक्षसाः ॥१९६

मयि कौतूहलं कुर्यु रिति मेने महाकपिः ।

तत श्शरीरं संक्षिप्य तन्महीधर सन्निभम् ॥१९७

पुनः प्रकृति मापेदे वीतमोह इवात्मवान् ।

तद्रूप मतिसंक्षिप्य हनूमा न्प्रकृतौ स्थितः ॥१९८

त्रीन्क्रमानिव विक्रम्य बलिवीर्यहरो हरिः ।

स चारुनानाविधरूपधारी परं समासाद्य समुद्रतीरम् ।

परै रशक्यः प्रतिपन्नरूप स्समीक्षितात्मा समवेक्षितार्थः ॥१९९

तत स्स लंबस्य गिरे स्समृद्धे विचित्रकूटे निपपात कूटे ।

सकेतकोद्दालकनालिकेरे महाद्रिकूटप्रतिमो महात्मा ॥२००

तत स्तु संप्राप्य समुद्रतीरं समीक्ष्य लंकां गिरिवर्यमूर्ध्नि ।

कपि स्तु तस्मि न्निपपात पर्वते विधूय रूपं व्यथय न्मृगद्विजान् ॥२०१

ससागरं दानवपन्नगायुतं बलेन विक्रम्य महोर्मिमालिनम् ।

निपत्य तीरे च महोदधे स्तदा ददर्श लंका ममरावती मिव ॥२०२

इति श्रीमत्सुन्दरकाण्डे प्रथमस्सर्गः ॥
<MISSING_FIG href="../books_images/U-IMG-170412980715.png"/>

॥ द्वितीयस्सर्गः ॥

ससागर मनाधृष्य मतिक्रम्य महाबलः ।

त्रिकूटशिखरे लंकां स्थितां स्वस्थो ददर्शह ॥१

ततः पादपमुक्तेन पुष्पवर्षेण वीर्यवान् ।

अभिवृष्ट स्सित स्तत्र बभौ पुष्पमयो यथा ॥२

योजनानां शतं श्रीमां स्तीर्त्वाऽप्युत्तमविक्रमः ।

अनिश्श्वसन् कपि स्तत्र न ग्लानि मधिगच्छति ॥३

शता न्यहं योजनानां क्रमेयं सुबहून्यपि ।

किंपुन स्सागरस्यांतं संख्यातं शतयोजनम् ॥४

स तु वीर्यवतां श्रेष्ठः प्लवता मपि चोत्तमः ।

जगाम वेगवान् लंकां लंघयित्वा महोदधिम् ॥५

शाद्वलानि च नीलानि गंधवंति वनानि च ।

मधुमं च मध्येन जगाम नगवंति च ॥६

शैलांश्च तरुसंछन्नान् वनराजी श्च पुष्पिताः ।

अधिचक्राम तेजस्वी हनुमान् प्लवगर्षभः ॥७

स तस्मि न्नचले तिष्ठन् वना न्युपवनानि च ।

सनगाग्रेच तां लंकां ददर्श पवनात्मजः ॥८

सरला न्कर्णिकारां श्च खर्जूरां श्च सुपुष्पितान् ।

प्रियालू न्मुचुलिदां श्च कुटजा न्केतकानपि ॥९

प्रियंगू न्गंधपूर्णांश्च नीपा न्सप्तच्छदां स्तथा ।

असना न्कोविदारां श्च करवीरां श्च पुष्पितान् ॥१०

पुष्पभारनिबद्धां श्च तथा मुकुलिता नपि ।

पादपान्विहगाकीर्णा न्पवनाधूतमस्तकान ॥११

हंसकारण्डवाकीर्णा वापीः पद्मोत्पलायुताः ।

आक्रीडा न्विविधान्रम्या न्विविधां श्च जलाशयान् ॥१२

संतता न्विविधैर्वृक्षै स्सर्वर्तुफलपुष्पितैः ।

उद्यानानि च रम्याणि ददर्श कपिकुञ्जरः ॥१३

समासाद्य च लक्ष्मीवा न्लंकां रावणपालिताम् ।

परिखाभि स्सपद्माभि स्सोत्पलाभि रलंकृताम् ॥१४

सीतापहरणार्थेन रावणेन सुरक्षिताम् ।

समंता द्विचरद्भिश्च राक्षसै रुग्रधन्विभिः ॥१५

काञ्चनेनावृतां रम्यां प्राकारेण महापुरीम् ।

गृहैश्च गिरिसंकाशै श्शारदाम्बुदसन्निभैः ॥१६

पांडुराभिः प्रतोलीभिः च्चाभि रभिसंवृताम् ।

अट्टालकशताकीर्णां पताकाध्वजमालिनीम् ॥१७

तोरणैः काञ्चनै र्दिव्यै र्लतापङ्क्तिविचित्रितैः ।

ददर्श हनुमान्लंकां दिवि देवपुरीं यथा ॥१८

गिरिमूर्ध्नि स्थितां लंकां पांडुरैर्भवनैश्शुभैः ।

ददर्श स कपिश्रेष्ठः पुर माकाशगं यथा ॥१९

पालितां राक्षसेंद्रेण निर्मितां विश्वकर्मणा ।

प्लवमाना मिवाकाशे ददर्श हनुमान्पुरीम् ॥२०

वप्रप्राकारजघनां विपुलाम्बुनवाम्बराम् ।

शतघ्नी शूलकेशांता मट्टालकवतंसकाम् ॥२१

मनसेव कृतां लंकां निर्मितां विश्वकर्मणा ।

द्वार मुत्तर मासाद्य चिन्तयामास वानरः ॥२२

कैलास शिखरप्रख्या मालिखन्ती मिवांबस्म् ।

द्वार मुत्तर मासाद्य चिन्तयामास वानरः ॥२३

कैलास शिखरप्रख्या मालिखंती मिवांबरम् ।

डीयमाना मिवाकाश मुच्छ्रितै र्भवनोत्तमैः ॥२४

संपूर्णां राक्षसैघोरैर्नागै र्भोगवती मिव ।

अचिन्त्यां सुकृतां स्पष्टां कुबेराध्युषितां पुरा ॥२५

दंष्ट्रिभि र्बहुभि श्शूरै श्शूलपट्टसपाणिभिः ।

रक्षितां राक्षसै र्घोरै र्गुहा माशीविषै रिव ॥२६

तस्याश्च महतीं गुप्तिं सागरं च निरीक्ष्यसः ।

रावणं च रिपुं घोरं चिन्तयामास वानरः ॥२७

आगत्यापीह हरयोभविष्यंति निरर्थकाः ।

नहि युद्धेन वैलंका शक्या जेतुं सुरैरपि ॥२८

इमांतु विषमां दुर्गां लंकां रावणपालिताम् ।

प्राप्यापि स महाबाहुः किंकरिष्यति राघवः ॥२९

अवकाशो न सांत्वस्यराक्षसे ष्वभिगम्यते ।

नदानस्य नभेदस्यनैव युद्धस्यदृश्यते ॥३०

चतुर्णामेवहिगति र्वानराणां महात्मनाम् ।

वालिपुत्त्रस्य नीलस्य मम राज्ञञ्च धीमतः ॥३१

यावज्जानामि वैदेहीं यदि जीवतिवा नवा ।

तत्रैव चिंतयिष्यामि दृष्ट्वा तां जनकात्मजाम् ॥३२

ततस्सचिंतयामास मुहूर्तं कपिकुञ्जरः ।

गिरिशृंगे स्थित स्तस्मिन् रामस्याभ्युदये रतः ॥३३

अनेन रूपेण मया नशक्या रक्षसां पुरी ।

प्रवेष्टुं राक्षसैर्गुप्ताक्रूरैर्बलसमन्वितैः ॥३४

उग्रौजसो महावीर्या बलवंतश्च राक्षसाः ।

वंचनीया मया सर्वे जानकीं परिमार्गता ॥३५

लक्ष्यालक्ष्येण रूपेण रात्रौ लंकापुरी मया ।

प्रवेष्टुं प्राप्तकालं मे कृत्यं साधयितुं महत् ॥३६

तां पुरीं तादृशीं दृष्ट्वा दुराधर्षा सुरासुरैः ।

हनुमान् चिंतयामास विनिश्चित्य मुहुर्मुहुः ॥३७

केनोपायेन पश्येयं मैथिलीं जनकात्मजाम् ।

अदृष्टोराक्षसेंद्रेण रावणेन दुरात्मना ॥३८

नविनश्येत्कथं कार्यं रामस्य विदितात्मनः ।

एकामेकश्चपश्येयं रहिते जनकात्मजाम् ॥३९

भूताश्चार्थाविपद्यंते देशकालविरोधिताः ।

विक्लबं दूत मासाद्य तम स्सूर्योदये यथा ॥४०

अर्थानर्थांतरे बुद्धि र्निश्चिताऽपि न शोभते ।

घातयंति हि कार्याणि दूताःपंडितमानिनः ॥४१

न विनश्ये त्कथं कार्यं वैक्लव्यं न कथं भवेत् ।

लंघनं च समुद्रस्य कथं नु न वृथा भवेत् ॥४२

मयि दृष्टे तु रक्षोभी रामस्य विदितात्मनः ।

भवे द्व्यर्थ मिदं कार्यं रावणानर्थ मिच्छतः ॥४३

न हि शक्यं क्वचि त्स्थातु मविज्ञातेन राक्षसैः ।

अपि राक्षसरूपेण किमुतान्येन केनचित् ॥४४

वायुरप्यत्र नज्ञात श्चरे दिति मति र्मम ।

नह्य स्त्यविदितं किञ्चि द्राक्षसानां बलीयसाम् ॥४५

इहाहं यदि तिष्ठामि स्वेन रूपेण संवृतः ।

विनाश मुपयास्यामि भर्तु रर्थश्च हीयते ॥४६

तदहं स्वेनरूपेण रजन्यां ह्रस्वतां गतः ।

लंका मभिपतिष्यामि राघवस्यार्थसिद्धये ॥४७

रावणस्य पुरीं रात्रौ प्रविश्य सुदुरासदाम् ।

विचिन्व न्भवनं सर्वं द्रक्ष्यामि जनकात्मजाम् ॥४८

इति संचित्य हनुमान् सूर्यस्यास्तमयं कपिः ।

आचकांक्षे तदा वीरो वैदेह्या दर्शनोत्सुकः ॥४९

सूर्ये चास्तंगते रात्रौ देहं संक्षिप्य मारुतिः ।

पृषदंशकमात्रस्सन् बभूवाद्भुतदर्शनः ॥५०

प्रदोषकाले हनुमां स्तूर्ण मुत्प्लुत्य वीर्यवान् ।

प्रविवेश पुरीं रम्यां सुविभक्तमहापथाम् ॥५१

प्रासादमालाविततां स्तंभैः कांचनराजतैः ।

शातकुंभमयै र्जालै र्गंधर्वनगरोपमाम् ॥५२

सप्तभौमाष्टभौमैवश्च स ददर्श महापुरीम् ।

तलै स्स्फटिक संकीर्णैः कार्तस्वरविभूषितैः ॥५३

वैडूर्यमणिचित्रैश्च मुक्ताजालविभूषितैः ।

तलै श्शुत्रुभिरे तानि भवनान्यन्त्र रक्षसाम् ॥५४

कांचनानि च चित्राणि तोरणानि च रक्षसाम् ।

लंका मुद्योतयामासु स्सर्वत स्समलंकृताम् ॥५५

अचिंत्या मद्भुताकारां दृष्ट्वा लंकां महाकपिः ।

आसी द्विषण्णो हृष्टश्च वैदेह्या दर्शनोत्सुकः ॥५६

स पांडुरोद्विद्धविमानमालिनीं महार्हजांवूनदजालतोरणाम् ।

यशस्विनीं रावणबाहुपालितां क्षपाचरै भर्मिबलै स्समावृतम् ॥५७

चंद्रोऽपि साचिव्य मिवास्य कुर्वन्तारागणै र्मध्यगतो विराजन् ।

ज्योत्स्नावितानेन वितत्य लोक मुत्तिष्ठते नैकसहस्ररश्मिः ॥५८

शंखप्रभं क्षीरमृणालवर्ण मुद्रच्छमानं व्यवभासमानम् ।

ददर्श चन्द्रं स हरिप्रवीरःपोप्लूयमानं सरसीव हंसम् ॥५९

इति श्रीमत्सुन्दरकाण्डे द्वितीयस्सर्गः
<MISSING_FIG href="../books_images/U-IMG-170413039016.png"/>

॥ तृतीयस्सर्गः ॥

स लंबशिखरे लंबे लंबतोयदसन्निभे ।

सत्त्व मास्थाय मेधावी हनूमा न्मारुतात्मजः ॥१

निशि लंकां महासत्वो विवेश कपिकुञ्जरः ।

रम्यकाननतोयाढ्यां पुरीं रावणपालिताम् ॥२

शारदाम्बुधरप्रख्यै र्भवनै रुपशोभिताम् ।

सागरोपमनिर्घोषां सागरानिलसेविताम् ॥३

सुपुष्टबलसंधुष्टां यथैव विटपावतीम् ।

चारुतोरणनिर्यूहां पांडुरद्वारतोरणाम् ॥४

भुजगाचरितां गुप्तां शुभां भोगवती मिव ।

तां स विद्युद्धनाकीर्णां ज्योतिर्मार्ग निषेविताम् ॥५

मंदमारुतसंचारां यथेंद्रस्यामरावतीम् ।

शातकुंभेन महता प्राकारेणाभिसंवृताम् ॥६

किंकिणीजालघोषाभिः पताकाभि रलंकृताम् ।

आसाद्य सहसा हृष्टः प्राकार मभिपेदिवान् ॥७

विस्मयाविष्टहृदयः पुरी मालोक्य सर्वतः ।

जांवूनदमयै र्द्वा रैर्वैडूर्यकृतवेदिकैः ॥८

वज्र स्फटिकमुक्ताभि र्मणिकुट्टिमभूषितैः ।

तप्तहाटकनिर्यूहै राजतामलपांडुरैः ॥९

वैडूर्यकृतसोपानै स्स्फाटिकांतरपांसुभिः ।

चारुसंजवनोपेतैः खमिवोत्पतितै श्शुभैः ॥१०

क्रौंचबर्हिणसंघुष्टै राजहंसनिषेवितैः ।

तूर्याभरणनिर्घोषै स्सर्वतः प्रतिनादिताम् ॥११

वस्वौकसाराप्रतिमां तां वीक्ष्य नगरीं ततः ।

खमिवोत्पतितां लंकां जहर्ष हनुमान् कपिः ॥१२

तां समीक्ष्य पुरीं रम्यां राक्षसाधिपते श्शुभाम् ।

अनुत्तमामृद्धियुतां चिंतयामास वीर्यवान् ॥१३

नेय मन्येन नगरी शक्या धर्षयितुं बलात् ।

रक्षिता रावणबलै रुद्यतायुधधारिभिः॥१४

कुमुदाङ्गदयो र्वापि सुषेणस्य महाकपेः ।

प्रसिद्धेयं भवे द्भूमि मैंन्दद्विवियो रपि ॥१५

विवस्वत स्तनूजस्य हरेश्च कुशपर्वणः ।

ऋक्षस्य केतुमालस्य ममचैव गति र्भवेत् ॥१६

समीक्ष्यतु महाबाहू राघवस्य पराक्रमम् ।

लक्ष्मणस्य च विक्रान्त मभव त्प्रीतिमा न्कपिः ॥१७

तां रत्नवसनोपेतां कोष्ठागारावतंसकाम् ।

यन्त्रागारस्तनी मृद्धां प्रमदा मिव भूषिताम् ॥१८

तां नष्टतिमरां दीपै र्भास्वरै श्च महागृहैः ।

नगरीं राक्षसेन्द्रस्य स ददर्शमहाकपिः ॥१९

अथ सा हरिशार्दूलं प्रविशन्तं महाबलम् ।

नगरी स्वेन रूपेण ददर्श पवनात्मजम् ॥२०

सा तं हरिवरं दृष्ट्वा लंका रावणपालिता ।

स्वय मेवोत्थिता तत्र विकृताननदर्शना ॥२१

पुरस्ता त्कपिवर्यस्य वायुसूनो रतिष्ठत ।

मुञ्चमाना महानाद मब्रवी त्पवनात्मजम् ॥२२

कस्त्वं केन च कार्येण इह प्राप्तो वनालय ।

कथयस्वेह यत्तत्त्वं यावत्प्राणा घरन्ति ते ॥२३

न शक्यं खल्वियं लंका प्रवेष्टुं वानर त्वया ।

रक्षिता रावणबलै रभिगुप्ता समन्ततः ॥२४

अथ ता मब्रवीद्वीरो हनुमा नग्रतस्स्थिताम् ।

कथयिष्यामि ते तत्त्वं य न्मां त्वं परिपृच्छसि ॥२५

का त्वं विरूपनयना पुरद्वारेऽवतिष्ठसि ।

कि मर्थं चापि मां रुद्धा निर्भर्त्सयसि दारुणा ? ॥२६

हनुमद्वचनं श्रुत्वा लंका सा कामरूपिणी ।

उवाच वचनं क्रुद्धा परुषं पवनात्मजम् ॥२७

अहं राक्षसराजस्य रावणस्य महात्मनः ।

आज्ञाप्रतीक्षा दुर्धर्षा रक्षामि नगरी मिमाम् ॥२८

न शक्या मा मवज्ञाय प्रवेष्टुं नगरी त्वया ।

अद्य प्राणैः परित्यक्तः स्वप्स्यसे निहतो मया ॥२९

अहं हि नगरी लंका स्वयमेव प्लवङ्गम ।

सर्वतः परिरक्षामि ह्येत त्ते कथितं मया ॥३०

लंकाया वचनं श्रुत्वा हनुमा न्मारुतात्मजः ।

यत्नवान् स हरिश्रेष्टः स्थितश्शैलइवा परः ॥३१

सतां स्त्रीरूपविकृतां दृष्ट्वा वानरपुंगवः ।

आबभाषेऽथ मेधावी सत्त्ववान् प्लवगर्षभः ॥३२

द्रक्ष्यामि नगरीं लंकां सादृप्राकारतोरणाम् ।

[निर्विशङ्क मिमं लोकं पश्यन्त्या स्तव सां प्रतम् ।]

इत्यर्थ मिह संप्राप्तः परं कौतूहलं हि मे ॥३३

वना न्युपवनानीह लंकायाः काननानि च ।

सर्वतो गृहमुख्यानि द्रष्टु मागमनं हि मे ॥३४

तस्य तद्वचनं श्रुत्वा लंका सा कामरूपिणी ।

भूय एव पुन र्वाक्यं बभाषे परुषाक्षरम् ॥३५

मा मनिर्जित्य दुर्बुद्धे राक्षसेश्वरपालिताम् ।

न शक्य मद्य ते द्रष्टुं पुरीयं वानराधम ॥३६

तत स्स कपिशार्दूल स्ता मुवाच निशाचरीम् ।

द्दष्ट्वा पुरी मिमां भद्रे पुनर्यास्ये यथागतम् ॥३७

ततः कृत्वा महानादं सा वै लंका भयावहम् ।

तलेन वानरश्रेष्ठं ताडयामास वेगिता ॥३८

तत स्सकपिशार्दूलो लंकया ताडितो भृशम् ।

ननाद सुमहानादं वीर्यवा न्पवनात्मजः ॥३९

ततस्संवर्तयामास वामहस्तस्य सोऽङ्गुलीः ।

मुष्टिनाऽभिजघानैनां हनुमा न्क्रोधमूर्छितः ॥४०

स्त्री चेति मन्यमानेन नातिक्रोधस्स्वयं कृतः ।

सातु तेन प्रहारेण विह्वलाङ्गी निशाचरी ॥४१

पपात सहसा भूमौ विकृताननदर्शना ।

ततस्तु हनुमा न्प्राज्ञ स्तां दृष्ट्वा विनिपातिताम् ॥४२

कृपां चकार तेजस्वी मन्यमानः स्त्रियंतु ताम् ।

ततो वैभृशसंविग्ना लंका सा गद्गदाक्षरम् ॥४३

उवाचागर्वितं वाक्यं हनुमंतं प्लवंगमम् ।

प्रसीद सुमहाबाहो त्रायस्व हरिसत्तम ॥४४

समये सौम्य तिष्ठंति सत्त्ववंतो महाबलाः ।

अहं तु नगरी लंका स्वयमेव प्लवंगम ॥४५

निर्जिता हं त्वया वीर विक्रमेण महाबल ।

इदं तु तथ्यं शृणु वै ब्रुवंत्या मे हरीश्वर ॥४६

स्वयंभुवा पुरादत्तं वरदानं यथा मम ।

यदा त्वां वानरः कश्चि द्विक्रमा द्वश मानयेत् ॥४७

तदा त्वया हि विज्ञेयं रक्षसां भय मागतम् ।

स हि मे समय स्सौम्य प्राप्तोऽद्य तव दर्शनात् ॥४८

स्वयंभूविहित स्सत्यो न तस्यास्ति व्यतिक्रमः ।

सीतानिमित्तं राज्ञस्तु रावणस्य दुरात्मनः ॥४९

रक्षसां चैव सर्वेषां विनाश स्समुपागतः ।

तत्प्रविश्य हरिश्रेष्ठ पुरीं रावणपालिताम् ॥५०

विधत्स्व सर्वकार्याणि यानियानीह वांछसि ।

प्रविश्य शापोपहतां हरीश्वरः शुभां पुरीं राक्षसमुख्यपालिताम् ।

यदृच्छया त्वं जनकात्मजां सतीं विमार्ग सर्वत्र गतो यथासुखम् ॥

इति श्रीमत्सुन्दरकाण्डे तृतीयस्सर्गः ॥
<MISSING_FIG href="../books_images/U-IMG-170413085516.png"/>

श्रीमद्रामायणे सुन्दरकाण्डे
॥ चतुर्थस्सर्गः ॥

सनिर्जित्य पुरीं श्रेष्ठां लंकां तां कामरूपिणीम् ।

विक्रमेण महातेजा हनुमान्कपिसत्तमः ॥१

द्वारेण स महाबाहुः प्राकार मभिपुप्लुवे ।

निशि लङ्कां महासत्त्वो विवेश कपिकुञ्जरः

प्रविश्य नगरीं लंकां कपिराजहितंकरः ॥२

चक्रेऽथ पादं सव्यं च शत्रूणां स तु मूर्धनि ।

प्रविष्ट स्सत्त्वसंपन्नो निशायां मारुतात्मजः ॥३

स महापथ मास्थाय मुक्तापुष्पविराजितम् ।

सेवितां राक्षसै र्भीमै र्बलिभि श्शस्त्रपाणिभिः

ततस्तु तां पुरीं लंकां रम्या मभिययौ कपिः ॥४

हसितोत्कृष्टनिनदै स्तूर्यघोषपुरस्सरैः ।

वज्रांकुशनिकाशैश्च वज्रजालविभूषितैः ॥५

गृहमेघैः पुरीरम्या बभासे द्यौ रिवांबुदैः ।

प्रजज्वाल तदा लंका रक्षोगणगृहैश्शुभैः ॥६

सिताभ्रसदृशै श्चित्रैः पद्मस्वस्तिकसंस्थितैः ।

वर्धमानगृहै श्चापि सर्वत स्सुविभूषिता ॥७

तां चित्रमाल्याभरणां कपिराजहितंकरः ।

राघवार्थं चरन् श्रीमान् ददर्श च ननंदच ॥८

भवना द्भवनं गच्छन् ददर्श पवनात्मजः ।

विविधाकृतिरूपाणि भवनानि ततस्ततः ॥९

शुश्राव मधुरं गीतं त्रिस्थानस्वरभूषितम् ।

स्त्रीणां मदसमृद्धानां दिवि चाप्सरसामिव ॥१०

शुश्राव कांचीनिनदं नूपुराणां च निस्स्वनम् ।

सोपाननिनदांश्चैव भवनेषु महात्मनाम् ॥११

आस्फोटितनिनादांश्च क्ष्वेलितांश्च ततस्ततः ।

शुश्राव जपतां तत्र मंत्रान् रक्षोगृहेषु वै ॥१२

स्वाध्यायनिरतांश्चैव यातुधानान् ददर्श सः ।

रावणस्तवसंयुक्तान गर्जतो राक्षसानपि ॥१३

राजमार्गं समावृत्य स्थितं रक्षोबलं महत् ।

ददर्श मध्यमे गुल्मे रावणस्य चरान्बहून् ॥१४

दीक्षितान् जटिलान् मुंडान् गोजिनांबरवाससः ।

दर्भमुष्टिप्रहरणानग्निकुंडायुधांस्तथा ॥१५

कूटमुद्गरपाणींश्च दण्डायुधधरानपि ।

एकाक्षानेककर्णांश्च लंबोदरपयोधरान् ॥१६

करालान्भुनवक्रांश्च विकटान्वामनांस्तथा ।

धन्विनः खङ्गिनश्चैव शतघ्नी मुसलायुधान् ॥१७

परिघोत्तमहस्तांश्च विचित्रकवचोज्ज्वलान् ।

नातिस्थूलान्नातिकृशान्नातिदीर्घातिह्नस्वकान् ॥१८

नातिगौरान्नातिकृष्णान्नातिकुब्जान्न वामनान् ।

विरूपान्बहुरूपांश्च सुरूपांश्च सुवर्चसः ॥१९

ध्वजिनः पताकिनश्चैव ददर्श विविधायुधान् ।

शक्तिवृक्षायुधांश्चैव पट्टसाशनिधारिणः ॥२०

क्षेपणीपाशहस्तांश्च ददर्श स महाकपिः ।

स्रग्विणस्त्वनुलिप्तांश्च वराभरणभूषितान् ॥२१

नानावेषसमायुक्तान्यथा स्वैरगतान्बहून् ।

तीक्ष्णशूलधरांश्चैव वज्रिणश्च महाबलान् ॥२२

शतसाहस्रमव्यग्रमारक्षं मध्यमं कपिः ।

रक्षोधिपतिनिर्दिष्टं ददर्शांतः पुराग्रतः ॥२३

स तदा तद्गृहं दृष्ट्वा महाहाटकतोरणम् ।

राक्षसेंद्रस्य विख्यातमद्रिमूर्ध्नि प्रतिष्ठितम् ॥२४

पुंडरीकावतंसाभिः परिखाभिरलंकृतम् ।

प्राकारावृतमत्यंतं ददर्श स महाकपिः ॥२५

त्रिविष्टपनिभं दिव्यं दिव्यनादविनादितम् ।

वाजिहेषितसंघुष्टं नादितं भूषणैस्तथा ॥२६

रथैर्यानैर्विमानैश्च तथा हयगजैश्शुभैः ।

वारणैश्च चतुर्दंतैश्श्वेताभ्रनिचयोपमैः ॥२७

भूषितं रुचिरद्वारं मत्तैश्च मृगपक्षिभिः ।

रक्षितं सुमहावीर्यैर्यातुधानैस्सहस्रशः ॥२८

राक्षसाधिपतेर्गुप्तमाविवेश महाकपिः ।

सहेमजांबूनदचक्रवालं महार्हमुक्तामणिभूषितांतम् ।

परार्ध्यकालागरुचंदनाक्तं स रावणांतःपुर माविवेश ॥२९

इति श्रीमत्सुन्दरकाण्डे चतुर्थस्सर्गः ॥
<MISSING_FIG href="../books_images/U-IMG-170413141416.png"/>

॥ पञ्चमस्सर्गः ॥

ततस्समध्यंगतमंशुमंतं ज्योत्स्नावितानं महदुद्वमंतम् ।

ददर्श धीमान् दिवि भानुमंतं गोष्ठे वृषं मत्तमिव भ्रमंतम् ॥१

लोकस्य पापानि विनाशयन्तं महोदधिं चापि समेधयन्तम् ।

भूतानि सर्वाणि विराजयंतं ददर्श शीतांशुमाभियांतम् ॥२

या भाति लक्ष्मीर्भुवि मंदरस्था तथा प्रदोषेषु च सागरस्था ।

तथैव तोयेषु च पुष्करस्था रराज सा चारुनिशाकरस्था ॥३

हंसो यथा राजत पञ्जरस्थस्सिंहो यथा मन्दरकन्दरस्थः ।

वीरो यथा गर्वितकुञ्जरस्थश्चन्द्रोऽपि बभ्राज तथाम्बरस्थः॥४

स्थितः ककुद्मानिव तीक्ष्णशृङ्गो महाचलश्श्वेत इवोच्चशृङ्गः ।

हस्तीव जांबूनदबद्धशृङ्गो रराज चन्द्रः परिपूर्णशृङ्गः ॥५

विनष्टशीतांबुतुषारपङ्को महाग्रहग्राहविनष्टपङ्कः ।

प्रकाशलक्ष्म्याश्रयनिर्मलाङ्को रराज चन्द्रो भगवान्शशाङ्कः ॥६

शिलातलं प्राप्य यथा मृगेन्द्रो महारणं प्राप्य यथा गजेंद्रः ।

राज्यं समासाद्य यथा नरेंद्रस्तथा प्रकाशो विरराज चन्द्रः ॥७

प्रकाशचंद्रोदयनष्टदोषः प्रवृत्तरक्षः पिशिताशदोषः ।

रामाभिरामेरितचित्तदोषः स्वर्गप्रकाशो भगवान् प्रदोषः ॥८

तंत्रस्विनाः कर्णसुखाः प्रवृत्ताः स्वपंति नार्यः पतिभिस्सुवृत्ताः ।

नक्तंचराश्चापि तथा प्रवृत्ता विहर्तुमत्यद्भुतरौद्रवृत्ताः ॥९

मत्तप्रमत्तानि समाकुलानि रथाश्वभद्रासनसंकुलानि ।

वीरश्रियाचापि समाकुलानि ददर्श धीमान् स कपिः कुलानि ॥१०

परस्परं चाधिकमाक्षिपंति भुजांश्च पीनानधिकं क्षिपंति ।

मत्तप्रलापानधिकं क्षिपंति मत्तानि चान्योन्यमधिक्षिपंति ॥११

रक्षांसि वक्षांसि च विक्षिपंति गात्राणि कांतासु च विक्षिपंति ।

रूपाणि चित्राणि च विक्षिपंति दृढानि चापानि च विक्षिपंति ॥१२

ददर्श कांताश्च समालभंत्यस्तथापरास्तत्र पुनस्स्वपंत्यः ।

सुरूपवक्राश्च तथाहसंत्यः क्रुद्धाः पराश्चापि विनिश्श्वसंत्यः ॥१३

महागजैश्चापि तथानदद्भिस्सुपूजितैश्चापि तथासुसद्भिः ।

रराजवीरैश्च विनिश्श्वसद्भिर्ह्नदो भुजङ्गैरिव निश्श्वसद्भिः ॥१४

बुद्धिप्रधानान्रुचिराभिधानान्संश्रद्धधानान्जगतः प्रधानान् ।

नानाविधानान्रुचिराभिधानान्ददर्श तस्यां पुरियातुधानान् ॥१५

ननंद दृष्ट्वा स च तान्सुरूपान्नानागुणानात्मगुणानुरूपान् ।

विद्योतमानान्स तदानुरूपान्ददर्श कांश्चिच्च पुनर्विरूपान् ॥१६

ततो वरार्हस्सुविशुद्धभावास्तेषां स्त्रियस्तत्र महानुभावाः ।

प्रियेषु पानेषु च सक्तभावा ददर्श तारा इव सुप्रभावाः ॥१७

श्रिया ज्वलंती स्त्रपयोपगूढा निशीथकाले रमणोपगूढाः ।

ददर्श काश्चित्प्रमदोपगूढा यथा विहंगाःकुसुमोपगूढाः ॥१८

अन्याः पुनर्हर्म्यतलोपविष्टास्तत्र प्रियांकेषु सुखोपविष्टाः ।

भर्तुः प्रिया धर्मपरा निविष्टा ददर्श धीमान्मदनाभिविष्टाः ॥ १९

अप्रावृताः कांचनराजिवर्णाः काश्चित्परागर्ध्यास्तपनीयवर्णाः ।

पुनश्च काश्चिच्छशलक्ष्मवर्णाः कांतप्रहीणा रुचिरांगवर्णाः ॥२०

ततः प्रियान्प्राप्य मनोभिरामास्सुप्रीतियुक्ताः प्रसमीक्ष्य रामाः ।

गृहेषु हृष्टाः परमाभिरामा हरिप्रवरिस्स ददर्श रामाः ॥२१

चंद्रप्रकाशाश्च हि वक्रमाला वक्राक्षिपक्ष्माश्च सुनेत्रमालाः ।

विभूषणानां च ददर्श मालाश्शतह्नदानामिव चारुमालाः ॥२२

न त्वेव सीतां परमाभिजातां पथिस्थिते राजकुले प्रजाताम् ।

लतां प्रफुल्लामिव साधुजातां ददर्श तन्वीं मनसाभिजाताम् ॥२३

सनातने वर्त्मनि सन्निविष्टां रामेक्षणां तां मदनाभिविष्टाम् ।

भर्तुर्मनश्श्रीमदनुप्रविष्टां स्त्रीभ्यो वराभ्यश्च सदा विशिष्टाम् ॥२४

उष्णार्दितां सानुसृतास्त्रकाण्ठीं पुरा वरार्होत्तमनिष्ककण्ठीम् ।

सुजातपक्षामभिरक्तकण्ठींवने प्रनृत्तामिव नीलकण्ठीम् ॥२५

अव्यक्तरेखामिव चन्द्ररेखां पांसुप्रदिग्धामिव हेमरेखाम् ।

क्षतप्ररूढामिव बाणरेखां वायुवभिन्नामिव मेघरेखाम् ॥२६

सीतामपश्यन्मनुजेश्वरस्य रामस्य पत्नीं वदतां वरस्य ।

बभूव दुःखाभिहतश्चिरस्य प्लवङ्गमो मंद इवाचिरस्य ॥४७

इति श्रीमत्सुन्दरकाण्डे पञ्चमस्सर्गः ॥

॥ षष्ठस्सर्गः ॥
<MISSING_FIG href="../books_images/U-IMG-170413178916.png"/>

सनिकामं विमानेषु विचरन् कामरूपधृत् ।

विचचार पुनर्लङ्का लाघवेन समन्वितः ॥१

आससादाथ लक्ष्मीवान् राक्षसेन्द्रनिवेशनम् ।

प्राकारेणार्कवर्णेन भास्वरेणाभिसंवृतम् ॥२

रक्षितं राक्षसैर्घोरैस्सिंहैरिव महद्वनम् ।

समीक्षमाणो भवनं चकाशे कपिकुञ्जरः ॥३

रूप्यकोपहितैश्चित्रैस्तोरणैर्हेमभूषितैः ।

विधित्राभिश्च कश्याभिर्द्वारैश्च रुचिरैर्वृतम् ॥४

गजास्थितैर्महामात्रैश्शूरैश्च विगतश्रमैः ।

उपस्थितमसंहार्यैर्हयैस्स्यंदनयायिभिः ॥५

सिंहव्याघ्रतनुत्राणैर्दातकांचनराजतीः ।

घोषवद्भिर्विचित्रैश्च सदा विचरितं रथैः ॥६

बहुरत्नसमाकोर्णं परार्ध्यासनभाजनम् ।

महारथसमावासं महारथमहास्वनम् ॥७

दृश्यैश्च परमोदारैस्तैस्तैश्च मृगपक्षिभिः ।

विविधैर्बहुसाहस्रैः परिपूर्णं समंततः ॥८

विनीतैरंतपालैश्च रक्षोभिश्च सुरक्षितम् ।

मुख्याभिश्च वरस्त्रीभिः परिपूर्णं समंततः ॥९

मुदितप्रमदारत्नं राक्षसेंद्रनिवेशनम् ।

वराभरणसंह्रादैस्समुद्रस्खननिस्स्वनम् ॥१०

तद्राजगुणसंपन्नं मुख्यैश्चागरुचंदनैः ।

महाजनैस्समाकीर्णं सिंहैरिव महद्वनम् ॥११

भेरीमृदंगाभिरुतं शंखघोषनिनादितम् ।

नित्यार्चितं पर्वहुतं पूजितं राक्षसैस्सदा ॥१२

समुद्रमिव गंभीरं समुद्रमिव निस्स्वनम् ।

महात्मनो महद्वेश्म महारत्नपरिच्छदम् ॥१३

महारत्नसमाकीर्णं ददर्श स महाकपिः ।

विराजमानं वपुषा गजाश्वरथसङ्कुलम् ॥१४

लंकाभरण मित्येव सोऽमन्यत महाकपिः ।

चचार हनुमांस्तत्र रावणस्य समीपतः ॥१५

[संक्षिप्य चात्मनः कायं प्रविश्यानुपलक्षितः ।

चिन्तयामास मनसा मुहूर्तं ध्यानमास्थितः ॥

कपिप्रवीरो हनुमान्राघवप्रियकाम्यर्याः ।

कीदृशी बंधने बद्धा मुक्ता वा स्वैरचारिणी ॥

काश्च रक्षन्ति राक्षस्यः कथंरूपा च मैथिली ।

न दृष्टपूर्वा च मया वैदेही जनकात्मजा ॥

इङ्गितैश्चानुमानैश्च मया ज्ञेया भविष्यति ।

एतां बुद्धिं तदा कृत्वा हनुमान्मारुतात्मजः ॥

अन्वियेष तदा सीतां राघवप्रियकाम्यया ।

स निकामं विमानेषु निपतन्पादपेषु च ॥

विचचार कपिर्लङ्का लघुप्रक्रमविक्रमः]

गृहाद्गृहं राक्षसानामुद्यानानि च वानरः ।

वीक्षमाणो ह्यसन्त्रस्तः प्रासादांश्च चचार सः ॥१६

अवप्लुत्य महावेगः प्रहस्तस्य निवेशनम् ।

ततोऽन्यत्पुप्लुवे वेश्म महापार्श्वस्य वीर्यवान् ॥१७

अथ मेघप्रतीकाशं कुंभकर्णनिवेशनम् ।

विभीषणस्य च तदा पुप्लुवे स महाकपिः ॥१८

महोदरस्य च गृहं विरूपाक्षस्य चैव हि ।

विद्युज्जिह्वस्य भवनं विद्युन्मालेस्तथैव च ॥१९

वज्रदंष्ट्रस्य च तथा पुप्लुवे स महाकपिः ।

शुकस्य च महातेजास्सारणस्य च धीमतः ॥२०

तथा चेंद्रजितो वेश्म जगाम हरियूथपः ।

जंबुमालेस्सुमालेश्च जगाम हरिसत्तमः ॥२१

रश्मिकेतोश्च भवनं सूर्यकेतोस्तथैव च ।

वज्रकायस्य च तथा पुप्लुवे स महाकपिः ॥२२

धूम्राक्षस्य च संपातेर्भवनं मारुतात्मजः ।

विद्युद्रुपस्य भीमस्य घनस्य विघनस्य च ॥२३

शुकनासस्य वक्रस्य शठस्य विकटस्य च ।

ब्रह्मकर्णस्य दंष्ट्रस्य रोमशस्य च रक्षसः ॥२४

युद्धोन्मत्तस्य मत्तस्य ध्वजग्रीवस्य नादिनः ।

विद्युज्जिह्रेंद्रजिह्वानां तथा हस्तिमुखस्य च ॥२५

करालस्य पिशाचस्य शोणिताक्षस्य चैव हि ।

क्रममाणः क्रमेणैव हनुमान्मारुतात्मजः ॥२६

तेषु तेषु महार्हेषु भवनेषु महायशाः ।

तेषामृद्धिमतामृद्धिं ददर्श स महाकपिः ॥२७

सर्वेषां समतिक्रम्य भवनानि समन्ततः ।

आससादाथ लक्ष्मीवात्राक्षसेन्द्रनिवेशनम् ॥२८

रावणस्योपशायिन्यो ददर्श हरिसत्तमः ।

विचरन्हरिशार्दूलो राक्षसीर्विकृतेक्षणाः ॥२९

शूलमुद्गरहस्ताश्च शक्तितोमरधारिणीः ।

ददर्श विविधान्गुल्मान्तस्य रक्षःपतेर्गृहे ॥३०

राक्षसांश्च महाकायान्नानाप्रहरणोद्यतान् ।

रक्तान्श्वेतान्स्थितांश्चैव हरींश्चापि महाजवान् ॥३१

कुलीनान्रूपसम्पन्नान्गजान्परगजारुजान् ।

निष्टितान्गजशिक्षायामैरावतसमान्युधि ॥३२

निहंतॄन्परसैन्यानां गृहे तस्मिन्ददर्श सः ।

क्षरतश्च यथा मेघान्स्त्रवतश्च यथा गिरीन् ॥३३

मेघस्तनितनिर्घोषान्दुर्धर्षान्समरे परैः ।

सहस्रं वाहिनीस्तव जांबूनदपरिष्कृताः ॥३४

हेमजालपरिच्छन्नास्तरुणादित्यसन्निभाः ।

ददर्श राक्षसेन्द्रस्य रावणस्य निवेशने ॥३५

शिबिका विविधाकारास्स कपिर्मारुतात्मजः ।

लतागृहाणि चित्राणि चित्रशालागृहाणि च ॥३६

क्रीडागृहाणि चान्यानि दारुपर्वतकानपि ।

कामस्य गृहकं रम्यं दिवागृहकमेव च ॥३७

ददर्श राक्षसेंद्रस्य रावणस्य निवेशने ।

स मंदरगिरिप्रख्यं मयूरस्थानसंकुलम् ॥३८

ध्वजयष्टिभिराकीर्ण ददर्श भवनोत्तमम् ।

अनेकरत्नसंकीर्ण निधिजालं समंततः ॥३९

धीरनिष्ठितकर्मांतं गृहं भूतपतेरिव ।

अर्चिर्भिश्चापि रत्नानां तेजसा रावणस्य च ॥४०

विरराजाथ तद्वेश्म रश्मिमानिव रश्मिभिः ।

जांबूनदमयान्येव शयनान्यासनानि च ॥४१

भाजनानि च मुख्यानि ददर्श हरियूथपः ।

मध्वासकृतक्लेदं मणिभाजनसंकुलम् ॥४२

मनोरममसंबाधं कुबेरभवनं यथा ।

[चन्दनागरुधूपैश्च दिव्यधूपैस्सुधूपितम् ।

माल्यदामभिराकीर्णं पुष्पभक्तिविराजितम् ॥

दिव्यगंधावसिक्ताभिर्दीपिकाभिर्विदीपितम् ।

लोकपालान् परित्यज्य तच्छ्रियेव समावृतम् ॥]

नूपुराणां च घोषेण कांचीनां निनदेन च ॥४३

मृदंगतलघोषैश्च घोषवद्भिर्विनादितम् ।

प्रासादसंघातयुतं स्त्रीरत्नशतसंकुलम् ॥४४

सुव्यूढकक्ष्यं हनुमान्प्रविवेश महागृहम् ।

इति श्रीमत्सुन्दरकाण्डे षष्ठस्सर्गः ॥
<MISSING_FIG href="../books_images/U-IMG-170413219616.png"/>

॥ सप्तमस्सर्गः ॥

स वेश्मजालं बलवान् ददर्श व्यासक्तवैडूर्यसुवर्णजालम् ।

यथा महत्प्रावृषि मेघजालं विद्युत्पिनद्धं सविहंगजालम् ॥१

निवेशनानां विविधाश्च शालाःप्रधानशंखायुधचापशालाः ।

मनोहराश्चापि पुनर्विशाला ददर्श वेश्माद्रिषु चंद्रशालाः ॥२

गृहाणि नानावसुराजितानि देवासुरैश्चापि सुपूजितानि ।

सर्वैश्च दोषैः परिवर्जितानि कपिर्ददर्श स्वबलार्जितानि ॥३

तानि प्रयत्नाभि समाहितानि मयेन साक्षादिव निर्मितानि ।

महीतले सर्वगुणोत्तराणि ददर्श लंकाधिपतेर्गृहाणि ॥४

ततो ददर्शेच्छ्रितमेघरूपं मनोहरं काञ्चनचारुरूपम् ।

रक्षोऽधिपस्यात्मबलानुरूपं गृहोत्तमं ह्यप्रतिरूपरूपम् ॥५

महीतले स्वर्गमिव प्रकीर्णं श्रिया ज्वलन्तं बहुरत्नकीर्णम् ।

नानातरूणां कुसमावकीर्णं गिरेरिवाग्रं रजसावकीर्णम् ॥६

नारीप्रवेकैरिव दीप्यमानं तटिद्भिरंभोदवदर्च्यमानम् ।

हंसप्रवेकैरिव वाह्यमानं श्रिया युतं खे सुकृतां विमानम् ॥७

यथा नगाग्रं बहुधातुचित्रं यथा नभश्च ग्रहचन्द्रचित्रम् ।

ददर्श युक्तीकृतमेघचित्रं विमानरत्नं बहुरत्नचित्रम् ॥८

मही कृता पर्वतराजिपूर्णा शैलाः कृता वृक्षवितानपूर्णाः ।

वृक्षाः कृताः पुष्पवितानपूर्णाः पुष्पं कृतं केसरपत्तपूर्णम् ॥९

कृतानि वेश्मानि च पांडुराणि तथा सुपुष्पाण्यपि पुष्कराणि ।

पुनश्च पद्मानि सकेसराणि धन्यानि चित्राणि तथा वनानि ॥१०

पुष्पाह्वयं नाम विराजमानं रत्नप्रभाभिश्च विवर्धमानम् ।

वेश्मोत्तमानामपि चोच्चमानं महाकपिस्तत्र महाविमानम् ॥११

कृताश्च वैडूर्यमया विहंगाःरूप्यप्रवालैश्च तथा विहंगाः ।

चित्राश्च नानावसुभिर्भुजङ्गा जात्यानुरूपास्तुरगाश्शुभाङ्गाः ॥१२

प्रवालजांवूनदपुष्पपक्षास्सलीलमावर्जितजिह्मपक्षाः ।

कामस्य साक्षादिव भांति पक्षाः कृता विहंगास्सुमुखास्सुपक्षाः ॥१३

नियुज्यमानास्तु गजास्सुहस्तास्सकेसराश्चोत्पत्त्रहस्ताः ।

बभूव देवी च कृता सुहस्ता लक्ष्मीस्तथा पद्मिनि पद्महस्ता ॥१४

इतीव तद्गृहमभिगम्य शोभनं सविस्मयो नगमिव चारु शोभनम् ।

पुनश्च तत्परम सुगंधि सुन्दरं हिमात्यये नगमिव चारु कन्दरम् ॥१५

ततस्स तां कपिरभिपत्य पूजितां चरन्पुरीं दशमुखबाहुपालिताम् ।

अदृश्यतां जनकसुतां सुपूजितां सुदुःखितः पतिगुणवेगनिर्जिताम् ॥१६

ततस्तदा बहुविधभावितात्मनः कृतात्मनो जनकसुतां सुवर्त्मनः ।

अपश्यतोऽभवदतिदुःखितं मनस्सुचक्षुषः प्रविचरतो महात्मनः ॥१७

इति श्रीमत्सुन्दरकाण्डे सप्तमस्सर्गः ॥
<MISSING_FIG href="../books_images/U-IMG-170420758416.png"/>

॥ अष्टमस्सर्गः ॥

स तस्य मध्ये भवनस्य संस्थितं महद्विमानं मणिवज्रचित्रितम् ।

प्रतप्तजाम्बूनदजालकृत्रिमं ददर्श वीरः पवनात्मजः कपिः ॥१

तदप्रमेयाप्रतिकारकृत्रिमं कृतं स्वयं साध्विति विश्वकर्मणा ।

दिवं गतं वायुपथप्रतिष्ठितं व्यराज ताऽऽदित्यपथस्य लक्ष्मवत् ॥ २

न तत्र किंचिन्न कृतं प्रयत्नतो न तत्र किंचिन्न महार्हरत्नवत् ।

न ते विशेषा नियतास्सुरेष्वपि न तत्र किंचिन्न महाविशेषवत् ॥३

तपस्समाधानपराक्रमार्जितं मनस्समाधानविचारचारिणम् ।

अनेकसंस्थानविशेषनिर्मितं ततस्ततस्तुल्यविशेषदर्शनम् ॥४

मनस्समाधाय तु शीघ्रगामिनं दुरावरं मारुततुल्यगामिनम् ।

महात्मनां पुण्यकृतां महर्धिनां यशस्स्विनामग्र्यमुदामिवालयम् ॥५

विशेषमालंव्य विशेषसंस्थितं विचित्रकूटं बहुकूटमंडितम् ।

मनोऽभिरामं शरदिंदुनिर्मलं विचित्रकूटं शिखरं गिरेर्यथा ॥ ६

वहति यं कुंडलशोभितांनना महाशना व्योमचरा निशाचराः ।

विवृत्तविध्वस्तविशाललोचना महाजवा भूतगणास्सहस्रशः ॥७

वसंतपुष्पोत्करचारुदर्शनं वसंतमासादपि कांतदर्शनम् ।

स पुष्पकं तत्र विमानमुत्तमं ददर्श तद्वानरवीरसत्तमः ॥८

॥इति श्रीमत्सुन्दरकाण्डे अष्टमस्सर्गः॥
<MISSING_FIG href="../books_images/U-IMG-170420769816.png"/>

॥ नवमस्सर्गः ॥

तस्यालयवरिष्ठस्य मध्ये विपुलमायतम् ।

ददर्श भवनश्रेष्टं हनूमान्मारुतात्मजः ॥१

अर्धयोजनविस्तीर्णमायतं योजनं हि तत् ।

भवनं राक्षसेंद्रस्य बहुप्रासादसङ्कुलम् ॥२

मार्गमाणस्तु वैदेहीं सीतामायतलोचनाम् ।

सर्वतः परिचक्राम हनुमानरिसूदनः ॥३

उत्तमं राक्षसावासं हनुमानवलोकयन् ।

आससादाथ लक्ष्मीवान्राक्षसेंद्रनिवेशनम् ॥४

चतुर्विषाणैर्द्विरदैस्त्रिविषाणैस्तथैव च ।

परिक्षिप्तमसम्बाधं रक्ष्यमाण मुदायुधैः ॥५

राक्षसीभिश्च पत्नीमीरावणस्य निवेशनम् ।

आहृताभिश्च विक्रम्य राजकन्याभिरावृतम् ॥६

तन्नक्रमकराकीर्णं तिमिङ्गिलझषाकुलम् ।

वायुवेगसमाधूतं पन्नगैरिव सागरम् ॥७

या हि वैश्रवणे लक्ष्मीर्या चेंद्रे हरिवाहने ।

सा रावणगृहे सर्वा नित्यमेवानपायिनी ॥८

या च राज्ञः कुबेरस्य यमस्य वरुणस्य च ।

तादृशी तद्विशिष्टा वा ऋद्धी रक्षोगृहेष्वह ॥९

तस्य हर्म्यस्य मध्यस्थं वेश्म चान्यत्सुनिर्मितम् ।

बहुनिर्यूहसंकीर्ण ददर्श पवनात्मजः ॥१०

ब्रह्मणोऽर्थे कृतं दिव्यं दिवि यद्विश्वकर्मणा ।

विमानं पुष्पकं नाम सर्वरत्नविभूषितम् ॥११

परेण तपसा लेभे यत्कुबेरः पितामहात् ।

कुबेरमोजसा जित्वा लेभे तद्राक्षसेश्वरः ॥१२

ईहामृगसमायुक्तैः कार्तस्वरहिरण्मयैः ।

सुकृतैराचितं स्तंभैः प्रदीप्तमिव च श्रिया ॥१३

मेरुमन्दरसङ्काशैरुल्लिखद्भिरिखाम्बरम् ।

कूटागारैश्शुभागारैस्सर्वतस्समलंकृतम् ॥१४

ज्वलनार्कप्रतीकाशं सुकृतं विश्वकर्मणा ।

हेमसोपानसंयुक्तं चारुप्रवरवेदिकम् ॥१५

जालवातायनैर्युक्तं काञ्चनैस्स्फाटिकैरपि ।

इन्द्रनीलमहानीलमणिप्रवरवेदिकम् ॥१६

विद्रुमेण विचित्रेण मणिभिश्च महाधनैः ।

निस्तुलाभिश्च मुक्ताभिस्तलेनाभिविराजितम् ॥१७

चंदनेन च रक्तेन तपनीयनिभेन च ।

सुपुण्यगंधिना युक्तमादित्यतरुणोपमम् ॥१८

कूटागोरैर्वराकारैर्विविघैस्समलंकृतम् ।

विमानं पुष्पकं दिव्यमारुरोह महाकपिः ॥१९

तत्रस्थस्स तदा गन्धं पानभक्ष्यान्नसम्भवम् ।

दिन संमूर्छितं जिघ्रन्रूपवन्तमिवानिलम् ॥२०

स गंधस्तं महासत्त्वं बंधुर्बंधुमिवोत्तमम् ।

इत ए हीत्युवाचेव तत्र यत्र स रावणः ॥२१

ततस्तां प्रस्थितश्शालां ददर्श महतीं शुभाम् ।

रावणस्य मनः कान्तां कान्तामिव वरस्त्रियम् ॥२२

मणिसोपानविकृतां हेमजालविभूषिताम् ।

स्फाटिकैरावृततलां दंतांतरितरूपिकाम् ॥२३

मुक्ताभिश्च प्रवालैश्च रूप्यचामीकरैरपि ।

विभूषितां मणिस्तंभैस्सुबहुस्तंभभूषिताम् ॥२४

समैर्ऋजुभिरत्युच्चैस्समंतात्सुविभूषितैः ।

स्तंभैः पक्षैरिवात्युच्चैर्दिवं संप्रस्थितामिव ॥२५

महत्या कुथयास्तीर्णां पृथिवी लक्षणाङ्कया ।

पृथिवीमिव विस्तीर्णां सराष्ट्रगृहमालिनीम् ॥२६

नादितां मत्तविहगैर्दिव्यगन्धाधिवासिताम् ।

परार्ध्यास्तरणोपेतां रक्षोधिपनिषेविताम् ॥२७

धूम्रामगरुधूपेन विमलां हंसपाण्डुराम् ।

चित्रां पुष्पोपहारेण कल्माषीमिव सुप्रभाम् ॥२८

मनस्सम्ह्लादजननीं वर्णस्यापि प्रसा दि नीम् ।

तां शोकनाशिनीं दिव्यां श्रियस्सञ्जननीमिव ॥२९

इन्द्रियाणींद्रियार्थैस्तु पञ्चपञ्चभिरुत्तमैः ।

तर्पयामास मातेव तदा रावणपालिता ॥३०

स्वर्गोऽयं देवलोकोऽयमिन्द्रस्येयं पुरी भवेत् ।

सिद्धिर्वेयं पराहि स्यादित्यमन्यत मारुतिः ॥३१

प्रध्यायत इवापश्यत्प्रदीप्तांस्तत्र काञ्चनान् ।

धूर्तानिव महाघूर्तैर्देवनेन पराजितान् ॥३२

दीपानां च प्रकाशेन तेजसा रावणस्य च ।

अर्चिर्भिभूषणानां च प्रदीप्तेत्यभ्यमन्यत ॥३३

ततोऽपश्यत्कुथाऽऽसीनं नानावर्णांबरस्रजम् ।

सहस्रं वरनारीणां नानवेषसुभूषितम् ॥३४

परिवृत्तेऽर्धरात्रे तु पाननिद्रावशङ्गतम् ।

क्रीडित्वोपरतं रात्रौ प्रसुप्तं बलवत्तदा ॥३५

तत्प्रसुप्तं विरुरुचे निश्शब्दान्तरभूषणम् ।

निश्शब्दहंसभ्रमरं यथा पद्मवनं महत् ॥३६

तासां संवृतदन्तानि मीलिताक्षाणि मारुतिः ।

अपश्यत्पद्मगन्धीनि वदनानि सुयोषिताम् ॥३७

प्रबुद्धानीव पद्मानि तासां भूत्वा क्षपाक्षये ।

पुनस्संवृतपत्त्राणि रात्राविव बभुस्तदा ॥३८

इमानि मुखपद्मानि नियतं मत्तषट्पदाः ।

अंबुजानीव फुल्लानि प्रार्थयंति पुनःपुनः ॥३९

इति चामन्यत श्रीमानुपपत्त्या महाकपिः ।

मेनेहि गुणतस्तानि समानि सलिलोद्भवैः ॥४०

सा तस्य शुशुभे शाला ताभिस्त्रीभिर्विराजिता ।

शारदीव प्रसन्ना द्यौस्ताराभिरभिशोभिता ॥४१

स च ताभिः परिवृतश्शुशुभे राक्षसाधिपः ।

यथा ह्युडुपतिश्श्रीमांस्ताराभिरभिसंवृतः ॥४१

याश्च्यवन्तेऽम्बरात्ताराः पुण्यशेषसमावृताः ।

इमास्तास्संगताः कृत्स्ना इति मेने हरिस्तदा ॥४३

ताराणामिव सुव्यक्तं महतीनां शुभार्चिषाम् ।

प्रभावर्णप्रसादाश्च विरेजुस्तत्र योषिताम् ॥४४

व्यावृत्तगुरुपीनस्रक्प्रकीर्णवरभूषणाः ।

पानव्यायामकालेषु निद्रापहृतचेतसः ॥४५

व्यावृत्ततिलकाः कश्चित्काश्चिदुद्भ्रान्तनूपुराः ।

पार्श्वे गलितहाराश्च काश्चित्परमयोषितः ॥४६

मुक्ताहाराऽऽवृताश्चान्याः काश्चिद्विस्रस्तवाससः ।

व्याविद्धरशनादामाःकिशोर्य इव वाहिताः ॥४७

सुकुण्डलधराश्चान्या विच्छिन्नमृदितस्रजः ।

गजेंद्रमृदिताः फुल्ला लता इव महावने ॥४८

चन्द्रांशुकिरणाभाश्च हाराः कासाञ्चिदुत्कटाः ।

हंसा इव बभुस्सुप्ता स्तनमध्येषु योषिताम् ॥४९

अपरासां च वैडूर्याःकादंबा इव पक्षिणः ।

हेमसूत्राणि चान्यासां चक्रवाका इवाभवन् ॥५०

हंसकारंडवाकीर्णाश्चक्रवाकोपशोभिताः ।

आपगा इव ता रेजुर्जघनैः पुलिनैरिव ॥५१

किंकिणीजालसंकाशास्ता हैमविपुलांबुजाः ।

भावग्राहा यशस्तीरास्सुप्ता नद्य इवाऽऽबभुः ॥५२

मृदुष्वंगेषु कासांचित्कुचाग्रेषु च संस्थिताः ।

बभूवुर्भूषणानीव शुभा भूषणराजयः ॥५३

अंशुकांताश्च कासांचिन्मुखमारुतकंपिताः ।

उपर्युपरि वाक्रणां व्याधूयंते पुनःपुनः ॥५४

ताः पताका इवोद्धुताः पत्नीनां रुचिरप्रभाः ।

नानावर्णसुवर्णानां वक्रमूलेषु रेजिरे ॥५५

ववल्गुश्चात्र कासांचित्कुंडलानि शुभार्चिषाम् ।

मुखमारुतसंसर्गान्मंद मंदं सुयोषिताम् ॥५६

शर्कराऽसवगंधैश्च प्रकृत्या सुरभिस्सुखः ।

तासां वदननिश्श्वासस्सिषेवे रावणं तदा ॥५७

रावणाननशंकाश्च काश्चिद्रावणयोषितः ।

मुखानि स्म सपत्नीनामुपाजिघ्रन्पुनः पुनः ॥५८

अत्यर्थं सक्तमनसो रावणे ता वरस्त्रियः ।

अस्वतंत्राः सपत्नीनां प्रियमेवाऽऽचरंस्तदा ॥८९

बाहूनुपनिधायान्याःपारिहार्यविभूषितान् ।

अंशुकानि च रम्याणि प्रमदास्तव शिशियरे ॥६०

अन्या वक्षसि चान्यस्यास्तस्याः काश्चित्पुनर्भुजम् ।

अपरा त्वंकमन्यस्यास्तस्याश्चाप्यपरा भुजौ ॥६१

ऊरुपार्श्वकटीपृष्ठमन्योन्यस्य समाश्रिताः ।

परस्परनिविष्टांग्यो मदस्नेहवशानुगाः ॥६२

अन्योन्यस्याङ्गसंस्पर्शात्प्रीयमाणास्सुमध्यमाः ।

एकीकृतभुजास्सर्वास्सुषुपुस्तत्र योषितः ॥६३

अन्योन्यभुजसूत्रेण स्त्रीमालाग्रथिता हि सा ।

मालेव ग्रथिता सूत्रे शुशुभे मत्तषट्पदा ॥६४

लतानां माघवे मासि फुल्लानां वायुसेवनात् ।

अन्योन्यमालाग्रथितं संसक्तकुसुमोच्चयम् ॥६५

व्यतिवेष्टितसुस्कंधमन्योन्यभ्रमराकुलम् ।

आसीद्वनमिवोद्धूतं स्त्रीवनं रावणस्य तत् ॥६६

उचितेष्वपि सुव्यक्तं न तासां योषितां तदा ।

विवेकश्शक्य आघातुं भूषणांगांबरस्रजाम् ॥६७

रावणे सुखसंविष्टे तास्स्त्रियो विविधप्रभाः ।

ज्वलंतः कांचना दीपाःप्रैक्षंतानिमिषा इव ॥६८

राजर्षिपितृदैत्यानां गंधर्वाणां च योषितः ।

रक्षसानां च याः कन्यास्तस्य कामवशं गताः ॥६९

युद्धकामेन तास्सर्वा रावणेन हृताः स्त्रियः ।

समदा मदनेनैव मोहिताः काश्चिदागताः ॥७०

न तत्र काचित्प्रमदा प्रसह्य वीर्योपपन्नेन गुणेन लब्धा ।

न चान्यकामापि नचान्यपूर्वा विना वरार्हा जनकात्मजां ताम् ॥७१

न चाकुलीना न च हीनरूपा नादक्षिणा नानुपचारयुक्ता ।

भार्याभवत्तस्य न हीनसत्त्वा न चापि कान्तस्य न कामनीया ॥ ७२

बभूव बुद्धिस्तु हरीश्वरस्य यदीदृशी राघवधर्मपत्नी ।

इमा यथा राक्षसराजभार्यास्सुजातमस्येति हि साधुबुद्धेः ॥७३

पुनश्च सोऽचिन्तयदार्तरूपो धृवं विशिष्टा गुणतो हि सीता ।

अथायमस्यां कृतवान्महात्मा लंकेश्वरः कष्टमनार्यकर्म ॥७४

इति श्रीमत्सुन्दरकाण्डे नवमस्सर्गः ॥
<MISSING_FIG href="../books_images/U-IMG-170420816415.png"/>

श्रीमद्रामायणे सुन्दरकाण्डे
॥ दशमस्सर्गः ॥

तत्र दिव्योपमं मुख्यं स्फाटिकं रत्नभूषितम् ।

अवेक्षमाणो हनुमान्ददर्श शयनासनम् ॥१

दांतकाञ्चनचित्रांगैर्वैडूर्यैश्च वरासनैः ।

महार्हास्तरणोपेतैरुपपन्नं महाधनैः ॥२

तस्य चैकतमे देशे सोऽग्र्यमालाविभूषिताम् ।

ददर्श पाण्डुरं छत्रं ताराधिपतिसन्निभम् ॥३

जातरूपपरिक्षिप्तं चित्रभानुसमप्रभम् ।

अशोकमालाविततं ददर्श परमासनम् ॥४

वालव्यजनहस्ताभिर्वीज्यमानं समन्ततः ।

गंधैश्च विविधैर्जुष्टं वरधूपेन धूपितम् ॥५

परमास्तरणास्तीर्णमाविकाजिनसंवृतम् ।

दामभिर्वरमाल्यानां समन्तादुपशोभितम् ॥६

तस्मिन्जीमूतसङ्काशं प्रदीप्तोत्तमकुण्डलम् ।

लोहिताक्षं महाबाहु महारजतवाससम् ॥७

लोहिते नानुलिप्तांगं चन्दनेन सुगन्धिना ।

सन्ध्यारक्तमिवाकाशे तोयदं सतटिद्गणम् ॥८

वृतमाभरणैर्दिव्यैस्सुरूपं कामरूपिणम् ।

सवृक्षवनगुल्मांढ्यं प्रसुप्तमिव मन्दरम् ॥९

क्रीडित्वोपरतं रात्रौ वराभरणभूषितम् ।

प्रियं राक्षसकन्यानां राक्षसानां सुखावहम् ॥१०

पीत्वाऽप्युपरतं चापि ददर्श स महाकपिः ।

भास्वरे शयने वीरं प्रसुप्तं राक्षसाधिपम् ॥११

निश्श्वसंतं यथा नागं रावणं वानरर्षभः ।

आसाद्य परमोद्विग्नस्सोपासर्पत्सुभीतवत् ॥१२

अथाऽऽरोहणमासाद्य वेदिकाऽन्तरमाश्रितः ।

सुप्तं राक्षसशार्दूलं प्रेक्षते स्म महाकपिः ॥१३

शुशुभे राक्षसेंद्रस्य स्वपतश्शयनोत्तमम् ।

गंधहस्तिनि संविष्टे यथा प्रस्रवणं महत् ॥१४

कांचनांगदसन्नद्धौ ददर्श स महात्मनः ।

विक्षिप्तौ राक्षसेंद्रस्य भुजाविंद्रध्वजोपमौ ॥१५

ऐरावतविषाणाग्नैरापीडनकृतव्रणौ ।

वज्रोल्लिखितपीनांसौ विष्णुचक्रपरिक्षतौ ॥१६

पीनौ समसुजातांसौ संगतौ बलसंयुतौ ।

सुलक्षणनखांगुष्ठौ स्वंगुलीतललक्षितौ ॥१७

संहतौ परिघाकारौ वृत्तौ करिकरोपमौ ।

विक्षिप्तौ शयने शुभ्रे पंचशीर्षाविवोरगौ ॥१८

शश क्षतजकल्पेन सुशीतेन सुगंधिना ।

चंदनेन परार्ध्येन स्वनुलिप्तौ स्वलंकृतौ ॥१९

उत्तमस्त्रीविमृदितौ गंधोत्तमनिषेवितौ ।

यक्षपन्नगगंधर्वदेवदानवराविणौ ॥२०

ददर्श स कपिस्तस्य बाहू शयनसंस्थितौ ।

मंदरस्यांतरे सुप्तौ महाहीरुषिताविव ॥२१

ताभ्यां स परिपूर्णाभ्यां भुजाभ्यां राक्षसेश्वरः ।

शुशुभेऽचलसंकाश्शृंगाभ्यामिव मंदरः ॥२२

चूतपुन्नागसुरभिर्वकुलोत्तमसंयुतः।

मृष्टान्नरससंयुक्तः पानगंधपुरस्सरः ॥२३

तस्य राक्षससिंहस्य निश्चक्राम महामुखात् ।

शयानस्य विनिश्श्वासः पूरयन्निव तद्गृहम् ॥२४

मुक्तामणिविचित्रेण कांचनेन विराजितम् ।

मकुटेनापवृत्तेन कुंडलोज्ज्वलिताननम् ॥२५

रक्तचंदनदिग्धेन तथा हारेण शोभिना ।

पीनायतविशालेन वक्षसाऽभिविराजितम् ॥२६

पांडरेणापविद्धेन क्षैमेण क्षतजेक्षणम् ।

महार्हेण सुसंवीतं पीते नोत्तमवाससा ॥२७

माषराशिप्रतीकाशं निश्श्वसंतं भुजंगवत् ।

गांगे महति तोयांते प्रसुप्तमिव कुंजरम् ॥२८

चतुर्भिःकांचनैर्दीपैर्दीप्यमानचतुर्दिशम् ।

प्रकाशीकृतसर्वांगं मेघं विद्युद्गणैरिव ॥२९

पादमूलगताश्चापि ददर्श सुमहात्मनः ।

पत्नीस्सप्रियभार्यस्य तस्य रक्षः पतेर्गृहे ॥३०

शशिप्रकाशवदनाश्चारुकुंडलभूषिताः ।

अम्लानमाल्याभरणा ददर्श हरियूथपः ॥३१

नृत्तवादित्रकुशला राक्षसेंद्रभुजांकगाः ।

वराभरणधारिण्यो निषण्णा ददृशे हरिः ॥३२

वज्रवैडूर्यगर्भाणि श्रवणांतेषु योषिताम् ।

ददर्श तापनीयानि कुंडलान्यंगदानि च ॥३३

तासां चंद्रोपमैर्वक्रैश्शुभैर्ललितकुंडलैः ।

विरराज विमानं तन्नभस्तारागणैरिव ॥३४

मदव्यायामखिन्नास्ता राक्षसेंद्रस्य योषितः ।

तेषु तेष्ववकाशेषु प्रसुप्तास्तनुमध्यमाः ॥३५

अंगहारैस्तथैवान्या कोमलैर्नृत्तशालिनी ।

विन्यस्त शुभसर्वांगी प्रसुप्ता वरवर्णिनी ॥३६

काचिद्वीणां परिष्वज्य प्रसुप्ता संप्रकाशते ।

महानदीप्रकीर्णेव नलिनीपोतमाश्रिता ॥३७

अन्या कक्षगतेनैव भड्डुकेनासितेक्षणा ।

प्रसुप्ता भामिनी भाति बालपुत्रेव वत्सला ॥३८

पटहं चारुसर्वांगी पीड्य शेते शुभस्तनी ।

चिरस्य रमणं लब्ध्वा परिष्वज्येव भामिनी ॥३९

काचिद्वंशं परिष्वज्य सुप्ता कमललोचना ।

रहः प्रियतमं गृह्य सकामेव च कामिनी ॥४०

विपंचींपरिगृह्यान्या नियता नृत्तशालिनी ।

निद्रावशमनुप्राप्ता सहकांतेव भामिनी ॥४१

अन्या कनकसंकाशैर्मृदुपीनैर्मनोरमैः ।

मृदंगं परिपीड्यांगैः प्रसुप्ता मत्तलोचना ॥४२

भुजपार्श्वांतरस्थेन कक्षगेण कृशोदरो ।

पणवेन सहानिंद्या सुप्ता मदकृतश्रमा ॥४३

डिंडिमं परिगृह्यान्या तथैवासक्तडिंडिमा ।

प्रसुप्ता तरुणं वत्समुपगूह्येव भामिनी ॥४४

काचिदाडंबरं नारी भुजसंयोगपीडितम् ।

कृत्वा कमलपत्त्राक्षी प्रसुप्ता मदमोहिता ॥४५

कलशीमपविध्यान्या प्रसुप्ता भाति भामिनी ।

वसंते पुष्पशबला मालेव परिमार्जिता ॥४६

पाणिभ्यां च कुचौ काचित्सुवर्णकलशोपमौ ।

उपगूह्याबला सुप्ता निद्राबलपराजिता ॥४७

अन्या कमलपत्त्राक्षी पूर्णेन्दुसदृशानना ।

अन्यामालिंग्य सुश्रोणी प्रसुप्ता मदविह्वला ॥४८

आतोद्यानि विचित्राणि परिष्वज्य वरस्त्रियः ।

निपीड्य च कुचैस्सुप्ताःकामिन्यःकामुकानिव ॥४९

तासामेकांतविन्यस्ते शयानां शयने शुभे ।

ददर्श रूपसंपन्नामपरां स कपिस्स्त्रियम् ॥५०

मुक्तामणिसमायुक्तैर्भूषणैस्सुविभूषिताम् ।

विभूषयंतीमिव तत्स्वश्रिया भवनोत्तमम् ॥५१

गौरीं कनकवर्णाभामिष्टामंतःपुरेश्वरीम् ।

कपिर्मंदोदरीं तत्र शयानां चारुरूपिणीम् ॥५२

स तां दृष्ट्वा महाबाहुर्भूषितां मारुतात्मजः ।

तर्कयामास सीतेति रूपयौवनसंपदा ॥५३

हर्षेण महता युक्तो ननंद हरियूथपः ।

[दृष्टा सीवेति हृष्टोऽभूद्दीनश्चारित्रदर्शनात् ॥]

आस्फोटयामास चुचुंब पुच्छं ननंद चिक्रीड जगौ जगाम ।

स्तंभानरोहन्त्रिपपात भूमौ निदर्शयन् स्वां प्रकृतिं कपीनाम् ॥५४

इति श्रीमत्सुन्दरकाण्डे दशमस्सर्गः ॥
<MISSING_FIG href="../books_images/U-IMG-170421596116.png"/>

॥ एकादशस्सर्गः ॥

अवधूय च तां बुद्धिं बभूवावस्थितस्तदा ।

जगाम चापरां चिंतां सीतां प्रति महाकपिः ॥१

न रामेण वियुक्ता सा स्वप्नुमर्हति भामिनी ।

न भोक्तुं ना प्यलंकर्तुं न पानमुपसेवितुम् ॥२

नान्यं नरमुपस्थातुं सुराणामपि चेश्वरम् ।

न हि रामसमः कश्चिद्विद्यते त्रिदशेष्वपि ॥३

अन्येयमिति निश्चित्य पानभूमौ चचार सः ।

क्रीडितेनापराः क्लांता गीतेन च तथाऽपराः ॥४

नृत्तेन चापराःक्लांताःपानविप्रहतास्तथा ।

मुरजेषु मृदंगेषु पीठिकासु च संस्थिताः ॥५

तथाऽऽस्तरणमुख्येषु संविष्टाश्चापरा स्त्रियः ।

अंगनानां सहस्रेण भूषितेन विभूषणैः ॥६

रूपसल्लापशीलेन युक्तगीतार्थभाषिणा ।

देशकालाभियुक्तेन युक्तवाक्याभिधायिना ॥७

रताभिरतसंसुप्तं ददर्श हरियूथपः ।

तासां मध्ये महाबाहुश्शुशुभे राक्षसेश्वरः ॥८

गोष्ठे महति मुख्यानां गवां मध्ये यथा वृषः ।

स राक्षसेंद्रश्शुशुभे ताभिः परिवृतस्स्वयम् ॥९

करेणुभिर्यथाऽरण्ये परिकीर्णो महाद्विपः ।

सर्वकामैरुपेतां च पानभूमिं महात्मनः ॥१०

ददर्श हरिशार्दूलस्तस्य रक्षःपतेगृहे ।

मृगाणां महिषाणां च वराहाणां च भागशः ॥११

तत्र न्यस्तानि मांसानि पानभूमौ ददर्श सः ।

रौक्मेषु च विशालेषु भाजनेष्वर्धभक्षितान् ॥१२

ददर्श हरिशार्दूलो मयूरान्कुक्कुटांस्तथा ।

वराहवार्ध्राणसकान् दधिसौवर्चलायुतान् ॥१३

शल्यान्मृगमयूरांश्च हनुमानन्ववैक्षत ।

क्रकरान्विविधान्सिद्धांश्चकोरानर्धभक्षितान् ॥१४

महिषानेकशल्यांश्च भागांश्च कृतनिष्ठितान् ।

लेह्यानुच्चावचान्पेयान् भोज्यानि विविधानि च ॥१५

तथाऽऽम्ललवणोत्तसैर्विविधैरागखाण्डवैः ।

हारनूपुरकेयूरैरपविद्धैर्महाधनैः ॥१६

पानभाजनविक्षिप्तैः फलैश्च विविधैरपि ।

कृतपुष्पोपहारा भू रधिकं पुष्यति श्रियम् ॥१७

तत्र तत्र च विन्यस्तैस्सुश्लिष्टैश्शयनासनैः ।

पानभूमिर्विना वह्निं प्रदीप्ते वोपलक्ष्यते ॥१८

बहुप्रकारैर्विविधैर्वरसंस्कारसंस्कृतैः ।

मांसैः कुशलसंपृक्तैः पानभूमिगतैः पृथक् ॥१९

दिव्याः प्रसन्ना विविधास्सुराः कृतसुरा अपि ।

शर्कराऽऽसवमाध्वीकपुष्पासवफलासवाः॥२०

वासचूर्णैश्च विविधैर्दृष्टास्तैस्तैः पृथक्पृथक् ।

संतताशुशुभे भूमिर्माल्यैश्च बहुसंस्थितैः ॥२१

हिरण्मयैश्च विविधैर्भाजनैस्स्फाटिकैरपि ।

जांबूनदमयैश्चान्यैः करकैरभिसंवृता ॥२२

राजतेषु च कुंभेषु जांबूनदमयेषु च ।

पानश्रेष्ठं तदा भूरि कपिस्तत्र ददर्श ह ॥२३

सोऽपश्यच्छातकुंभानि शिलामणिमयानि च ।

राजतानि च पूर्णानि भाजनानि महाकपिः ॥२४

क्वचिदवशेषाणि क्वचित्पीतानि सर्वशः ।

क्वचिन्नैव प्रपीतानि पानानि स ददर्श ह ॥२५

क्वचिद्भक्ष्यांश्च विविधान् क्वचित्पानानि भागशः ।

क्वचिदर्धावशेषाणि पश्यन्वै विचचार ह ॥२६

क्वचित्प्रभिन्नैः करकैः क्वचिदालोडितैर्घटैः ।

क्वचित्संपृक्तमाल्यानि जलानि च फलानि च ॥२७

शयनान्यत्र नारीणां शुभ्राणि बहुधा पुनः ।

परस्परं समाश्लिष्य कश्चित्सुप्ता वरांगनाः ॥२८

काश्चिच्च वस्त्रमन्यस्यास्स्वपंत्याः परिधाय च ।

आहत्य चाबला सुप्ता निद्राबलपराजिता ॥२९

तासामुच्छ्वासवातेन वस्त्रं माल्यं च गात्रजम् ।

नात्यर्थं स्पंदते चित्तं प्राप्य मंदमिवानिलम् ॥३०

चंदनस्य च शीतस्य सीधोर्मधुरसस्य च ।

विविधस्य च माल्यस्य धूपस्य विविधस्य च ॥३१

बहुधा मारुतस्तत्र गंधं विविधमुद्वहन् ।

स्नानानां चंदनानां च धूपानां चैव मूर्छितः ॥३२

प्रववौ सुरभिर्गंधो विमाने पुष्पके तदा ।

श्यामावदातास्तत्रान्याः काश्चित्कृष्णा वरांगनाः ॥३३

काश्चित्कांचनवर्णांग्यः प्रमदा राक्षसालये ।

तासां निद्रावशत्वाच्च मदनेन विमूर्छितम् ॥३४

पद्मिनीनां प्रसुप्तानां रूपमासीद्यथैव हि ।

एवं सर्वमशेषेण रावणांतःपुरं कपिः ॥३५

ददर्श सुमहातेजा न ददर्श च जानकीम् ।

निरीक्षमाणश्च तदा ता स्त्रियस्स महाकपिः ॥३६

परदारावरोधस्य प्रसुप्तस्य निरीक्षणम् ।

इदं खलु ममात्यर्थं धर्मलोपं करिष्यति ॥३७

न हि मे परदाराणां दृष्टिर्विषयवर्तिनी ।

अयं चात्र मया दृष्टः परदारपरिग्रहः ॥३८

तस्य प्रादुरभूच्चिन्ता पुनरन्या मनस्विनः ।

निश्चितैकांतचित्तस्य कार्यनिश्चयदर्शिनः ॥३९

कामं दृष्टा मया सर्वा विश्वस्ता रावणस्त्रियः ।

न हि मे मनसः किञ्चिद्वैकृत्यमुपपद्यते ॥४०

मनो हि हेतुस्सर्वेषामिन्द्रियाणां प्रवर्तने ।

शुभाशुभास्ववस्थासु तच्च मे सुव्यवस्थितम् ॥४१

नान्यत्र हि मया शक्या वैदेही परिमार्गितुम् ।

स्त्रियोहि स्त्रीषु दृश्यन्ते सदा संपरिमार्गणे ॥४२

यस्य सत्त्वस्य या योनिस्तस्यां तत्परिमार्गते ।

न शक्या प्रमदा नष्टा मृगीषु परिमार्गितुम् ॥४३

तदिदं मार्गितं तावच्छुद्धेन मनसा मया ।

रावणांतःपुरं सर्वं दृश्यते न च जानकी ॥४४

देवगन्धर्वकन्याश्च नागकन्याश्च वीर्यवान् ।

अवेक्षमाणो हनुमात्रैवापश्यत जानकीम् ॥४५

तामपश्यन्कपिस्तत्र पश्यंश्चान्या वरस्त्रियः ।

अपक्रम्य तदा वीरः प्रध्यातुमुपचक्रमे ॥४६

स भूयस्तु परं श्रीमान्मारुतिर्यत्नमास्थितः ।

आपानभूमिमुत्सृज्य तां विचेतुं प्रचक्रमे ॥४७

इति श्रीमत्सुन्दरकाण्डे एकादशस्सर्गः ॥
<MISSING_FIG href="../books_images/U-IMG-170421724316.png"/>

॥ द्वाशस्सर्गः ॥

स तस्य मध्ये भवनस्य मारुतिर्लतागृहांश्चित्रगृहान्निशागृहान् ।

जगाम सीतां प्रति दर्शनोत्सुको न चैव तां पश्यति चारुदर्शनाम् ॥१

स चिन्तयामास ततो महाकपिः प्रियामपश्यत्रघुनन्दनस्य ताम् ।

धृवं हि सीता म्रियते यथा न मे विचिन्वतो दर्शनमेति मैथिली ॥२

सा राक्षसानां प्रवरेण जानकी स्वशीलसंरक्षणतत्परा सती ।

अनेन नूनं प्रति दुष्टकर्मणा हता भवेदार्यपथे परे स्थिता ॥३

विरूपरूपा विकृता विवर्चसो महानना दीर्घविरूपदर्शनाः ।

समीक्ष्य सा राक्षसराजयोषितो भयाद्विनष्टा जनकेश्वरात्मजा ॥४

सीतामदृष्ट्वा ह्यनवाप्य पौरुषं विहृत्य कालं सह वानरैश्चिरम् ।

न मेऽस्ति सुग्रीवसमीपगा गतिस्सुतीक्ष्णदंडो बलवांश्च वानरः ॥५

दृष्ट मंतःपुरं सर्वं दृष्टा रावणयोषितः ।

न सीता दृश्यते साध्वी वृथा जातो मम श्रमः ॥६

किं नु मां वानरास्सर्वे गतं वक्ष्यंति संगताः ।

गत्वा तत्र त्वया वीर किं कृतं तद्वदस्व नः ॥७

अदृष्ट्वा किं प्रवक्ष्यामि तामहं जनकात्मजाम् ।

ध्रुवं प्रायमुपासिष्ये कालस्य व्यतिवर्तने ॥८

किं वा वक्ष्यति वृद्धश्च जांबवांनगश्च सः ।

गतं पारं समुद्रस्य वानराश्च समागताः ॥९

अनिर्वेदरिश्रयो मूलमनिर्वेदः परं सुखम् ।

अनिर्वेदो हि सततं सर्वार्थेषु प्रवर्तकः ॥१०

करोति सफलं जंतोः कर्म यत्तत्करोति सः ।

तस्मादनिर्वेदकृतं यत्नं चेष्टेऽहमुत्तमम् ॥११

भूयस्तावद्विचेष्यामि देशान्रावणपालितान् ।

[भूयस्तत्र विवेष्यामि न यत्र विचयः कृतः ॥]

अपानशाला विचितास्तथा पुष्पगृहाणि च ॥१२

चित्रशालाश्च विचिता भूयः क्रीडागृहाणि च ।

निष्कुटान्तररथ्याश्च विमानानि च सर्वशः ॥१३

इति संचिन्त्य भूयोऽपि विचेतुमुपचक्रमे ।

भूमीगृहांश्चैत्यगृहान्गृहातिगृहकानपि ॥१४

उत्पतन्निष्पतंश्चापि तिष्ठन्गच्छन्पुनःपुनः ।

अपावृण्वंश्च द्वाराणि कवाटान्यवघाटयन् ॥१५

प्रविशन्निष्पतंश्चापि प्रपतन्नुत्पतन्नपि ।

सर्वमप्यवकाशं स विचचार महाकपिः ॥१६

चतुरङ्गुलमात्रोऽपि नावकाशस्स विद्यते ।

रावणान्तः पुरे तस्मिन्यं कपिर्न जगाम सः ॥१७

प्राकारान्तररथ्याश्च वेदिकाश्चैत्यसंश्रयाः ।

दीर्घिकाःपुष्करिण्यश्च सर्वं तेनावलोकितम् ॥१८

राक्षस्यो विविधाकारा विरूपा विकृतास्तथा ।

दृष्टा हनुमता तत्र न तु सा जनकात्मजा ॥१९

रूपेणाप्रतिमा लोके वरा विद्याधरस्त्रियः ।

दृष्टा हनुमता तत्र न तु राघवनन्दिनी ॥२०

नागकन्या वरारोहाःपूर्णचन्द्रनिभाननाः ।

दृष्टा हनुमता तत्र नतु सीता सुमध्यमा ॥२१

प्रमथ्य राक्षसेन्द्रेण देवकन्या बलाद्धृताः ।

दृष्टा हनुमता तत्र न सा जनकनन्दिनी ॥२२

सोऽपश्यंस्तां महाबाहुः पश्यंश्चान्या वरस्त्रियः ।

विषसाद मुहुर्धीमान्हनुमान्मारुतात्मजः ॥२३

उद्योगं वानरेंद्राणां प्लवनं सागरस्य च ।

व्यर्थं वीक्ष्यानिलसुतश्चिंतां पुनरुपागमत् ॥२४

अवतीर्य विमानाच्च हनुमान्मारुतात्मजः ।

चिंतामुपजगामाथ शोकोपहतचेतनः ॥२५

इति श्रीमत्सुन्दरकाण्डे द्वादशस्सर्गः ॥
<MISSING_FIG href="../books_images/U-IMG-170421742016.png"/>

॥ त्रयोदशस्सर्गः ॥

विमानात्तु सुसंक्रम्य प्राकारं हरियूथपः ।

हनुमान्वेगवानासीद्यथा विद्युद्धनांतरे ॥१

संपरिक्रम्य हनुमात्रावणस्य निवेशनात् ।

अदृष्ट्वा जानकों सीतामब्रवीद्वचनं कपिः ॥२

भूयिष्टं लोलिता लंका रामस्य चरता प्रियम् ।

न हि पश्यामि वैदेहीं सीतां सर्वांगशोभनाम् ॥३

पल्वलानि तटाकानि सरांसि सरितस्तथा ।

नद्योऽनूपवनांताश्च दुर्गाश्च धरणीधराः ॥४

लोलिता वसुधा सर्वा न तु पश्यामि जानकीम् ।

इह संपातिना सीता रावणस्य निवेशने ॥५

आख्याता गृध्रराजेन न च पश्यामि तामहम् ।

किं नु सीताऽथ वैदेही मैथिली जनकात्मजा ॥६

उपतिष्टेत विवशा रावणं दुष्टचारिणम् ।

क्षिप्रमुत्पततो मन्ये सीतामादाय रक्षसः ॥७

बिभ्यतो रामबाणानामन्तरा पतिता भवेत् ।

अथवा ह्रियमाणयाः पथि सिद्धनिषेविते ॥८

मन्ये पतितमार्याया हृदयं प्रेक्ष्य सागरम् ।

रावणस्योरुवेगेन भुजाभ्यां पीडितेन च ॥८

तया मन्ये विशालाक्ष्या त्यक्तं जीवितमार्यया ।

उपर्युपरि वा नूनं सागरं क्रमत स्तदा ॥१०

विवेष्टमाना पतिता समुद्रे जनकात्मजा ।

अहो क्षुद्रेण वाऽनेन रक्षंती शील मात्मनः ॥११

अबंधु र्भक्षिता सीता रावणेन तपस्विनी ।

अथवा राक्षसेन्द्रस्य पत्नीभि रसितेक्षणा ॥१२

अदुष्टा दुष्टभावाभि र्भक्षिता सा भविष्यति ।

संपूर्णचन्द्रप्रतिमं पद्मपत्ननिभेक्षणम् ॥१३

रामस्य ध्यायती वक्रं पञ्चत्वं कृपणा गता ।

हा राम लक्ष्मणे त्येवं हाऽयोध्ये चेति मैथिली ॥१४

विलप्य बहु वैदेही न्यस्तदेहा भविष्यति ।

अथवा निहिता मन्ये रावणस्य निवेशने ॥१५

नूनं लालप्यते सीता पञ्जरस्थेव शारिका ।

जनकस्य सुता सीता रामपत्नी सुमध्यमा ॥१६

कथ मुत्पलपत्ताक्षी रावणस्य वशं व्रजेत् ।

विनष्टा वा प्रणष्टा वा मृता वा जनकात्मजा ॥१७

रामस्य प्रियभार्यस्य न निवेदयितुं क्षमम् ।

निवेद्यमाने दोष स्स्या द्दोष स्स्या दनिवेदने ॥१८

कथं नु खलु कर्तव्यं विषमं प्रतिभाति मे ।

अस्मि न्नेवं गते कार्ये प्राप्तकालं क्षमं च किम् ॥१९

भवेदिति मतं भूयो हनुमान्प्रविचारयत् ।

यदि सीता मदृष्ट्वाऽहं वानरेंद्रपुरी मितः ॥२०

गमिष्यामि ततः को मे पुरुषार्थो भविष्यति ।

ममेदं लंघनं व्यर्थं सागरस्य भविष्यति ॥२१

प्रवेशश्चैव लंकाया राक्षसानां च दर्शनम् ।

किं मां वक्ष्यति सुग्रीवो हरयो वा समागताः ॥२२

किष्किंधां समनुप्राप्तं तौ वा दशरथात्मजौ ।

गत्वातु यदि काकुत्स्थं वक्ष्यामि परमप्रियम् ॥२३

न दृष्टेति मया सीता तत स्त्यक्ष्यति जीवितम् ।

परुषं दारुणं क्रूरं तीक्ष्ण मिंद्रियतापनम् ॥२४

सीतानिमित्तं दुर्वाक्यं श्रुत्वा स न भविष्यति ।

तं तु कृच्छ्रगतं दृष्ट्वा पंचत्वगतमानसम् ॥२५

भृशानुरक्तो मेधावी न भविष्यति लक्ष्मणः ।

विनष्टौ भ्रातरौ श्रुत्वा भरतोऽपि मरिष्यति ॥२६

भरतं च मृतं दृष्ट्वा शत्रुघ्नो न भविष्यति ।

पुत्त्रान् मृतान् समीक्ष्याथ न भविष्यंति मातरः ॥२७

कौसल्या च सुमित्रा च कैकेयी च न संशयः ।

कृतज्ञ स्सत्यसंधश्च सुग्रीवः प्लवगाधिपः ॥२८

रामं तथागतं दृष्ट्वा तत स्त्यक्ष्यति जीवितम् ।

दुर्मना व्यथिता दीना निरानंदा तपस्विनी ॥२९

पीडिता भर्तृशोकेन रुमा त्यक्ष्यति जीवितम् ।

वालिजेन तु दुःखेन पीडिता शोककर्शिता ॥३०

पञ्चत्वं च गते राज्ञि ताराऽपि न भविष्यति ।

मातापित्रोर्विनाशेन सुग्रीव व्यसनेन च ॥३१

कुमारोऽप्यङ्गदः कस्मा द्धारयिष्यति जीवितम् ।

भर्तृजेनतु दुःखेन ह्यभिभूता वनौकसः ॥३२

शिरांस्यभिहनिष्यंति तलैर्मुष्टिभि रेव च ।

सांत्वेनानुप्रदानेन मानेन च यशस्विनना ॥३३

लालिताः कपिराजेन प्राणां स्त्यक्ष्यन्ति वानराः ।

न वनेषु न शैलेषु न निरोधेषु वा पुनः ॥३४

क्रीडा मनुभविष्यंति समेत्य कपिकुञ्जराः ।

सपुत्त दारा स्सामात्या भर्तृव्यसनपीडिताः ॥३५

शैलाग्रेभ्यः पतिष्यन्ति समेषु विषमेषुच ।

विष मुद्वंधनं वापि प्रवेशं ज्वलनस्य वा ॥३६

उपवास मथो शस्त्रं प्रचरिष्यन्ति वानराः ।

घोर मारोदनं मन्ये गते मयि भविष्यति ॥३७

इक्ष्वाकुकुलनाश श्च नाश श्चैव वनौकसाम् ।

सोऽहं नैव गमिष्यामि किष्किन्धां नगरी मितः ॥३८

न च शक्ष्याम्यहं द्रष्टुं सुग्रीवं मैथिली विना ।

मय्यगच्छति चेहस्थे धर्मात्मानौ महारथौ ॥३९

आशया तौ धरिष्येते वानराश्च मनस्विनः ।

हस्तादानो मुखादानो नियतो वृक्षमूलिकः ॥४०

वानप्रस्थो भविष्यामि ह्यदृष्ट्वा जनकात्मजाम् ।

सागरानूपजे देशे बहुमूलफलोदके ॥४१

चितां कृत्वा प्रवेक्ष्यामि समिद्ध मरणीसुतम् ।

उपविष्टस्य वा सम्य ग्लिङ्गिनी साधयिष्यतः ॥४२

शरीरं भक्षयिष्यंति वायसा श्श्वापदानि च ।

इदं महर्षिभि दृष्टं निर्याण मिति मे मतिः ॥४३

सम्य गापः प्रवेक्ष्यामि न चे त्पश्यामि जानकीम् ।

सुजातमूला सुभगा कीर्तिमाला यशस्विनी ॥४४

प्रभग्ना चिररात्राय मम सीता मपश्यतः ।

तापसो वा भविष्यामि नियतो वृक्षमूलिकः ॥४५

नेतः प्रतिगमिष्यामि ता मदृष्ट्वाऽसितेक्षणाम् ।

य दतिः प्रतिगच्छामि सीता मनधिगम्य ताम् ॥४६

अंगद स्सह तै स्सर्वै र्वनरैर्नभविष्यति ।

विनाशे बहवो दोषा जीवन् भद्राणि पश्यति ॥४७

तस्मात्प्राणान् धरिष्यामि ध्रुवो जीवितसंगमः ।

एवं बहुविधं दुःखं मनसा धारय न्मुहुः ॥४८

नाध्यगच्छ त्तदा पारं शोकस्य कपिकुञ्जरः ।

ततो विक्रम मासाद्य धैर्यवान् कपिकुञ्जरः

रावणं वा वधिष्यामि दशग्रीवं महाबलम् ॥४९

काम मस्तु हृता सीता प्रत्याचीर्णं भविष्यति ।

अथवैनं समुत्क्षिप्य उपर्युपरिसागरम् ॥५०

रामायोपहरिष्यामि पशुं पशुपते रिव ।

इति चिंतां समापन्न स्सीता मनधिगम्य ताम् ॥५१

ध्यानशोकपरीतात्मा चिंतयामास वानरः ।

याव त्सीतां हि पश्यामि रामपत्नीं यशस्विनीम् ॥५२

ताव देतां पुरी लंकां विचिनोमि पुनः पुनः ।

सम्पातिवचना च्चापि रामं यद्यानयाम्यहम् ॥५३

अपश्य न्राघवो भार्यां निर्दहे त्सर्ववानरान् ।

इहैव नियताहारो वत्स्यामि नियतेन्द्रियः ॥५४

न मत्कृते विनश्येयु स्सर्वे ते नरवानराः ।

अशोकवनिका चेयं दृश्यते या महाद्रुमा ॥५५

इमा मधिगमिष्यामि नहीयं विचिता मया ।

वसून्रूद्रांस्तथाऽऽदित्या नश्विनौ मरुतोऽपिच ॥५६

नमस्कृत्वा गमिष्यामि रक्षसां शोकवर्धनः ।

जित्वातु राक्षसा न्सर्वा निक्ष्वाकुकुलनंदिनीम् ॥५७

संप्रदास्यामि रामाय यथासिद्धिं तपस्विने ।

स मुहूर्त मिव ध्यात्वा चिन्ताविग्रथितेंद्रियः ॥५८

उदतिष्ठ न्महातेजा हनुमा न्मारुतात्मजः ।

नमोऽस्तु रामाय सलक्ष्मणाय देव्यैच तस्यै जनकात्मजायै ॥५९

नमोऽस्तु रुद्रेन्द्र यमानिलेभ्यो नमोऽस्तु चन्द्रार्क मरुद्रणेभ्यः ।

स तेभ्यस्तु नमस्कृत्य सुग्रीवाय च मारुतिः ॥६०

दिश स्सर्वा स्समालोक्य ह्यशोकवनिकां प्रति ।

स गत्वा मनसा पूर्व मशोकवनिकां शुभाम् ॥६१

उत्तरं चिन्तयामास वानरो मारुतात्मजः ।

ध्रुवं तु रक्षो बहुला भविष्यति वनाकुला ॥६२

अशोकवनिका चिन्त्या सर्वसंस्कारसंस्कृता ।

रक्षिण श्चात्र विहिता नूनं रक्षंति पादपान् ॥६३

भगवानपि सवार्त्मा नातिक्षोभं प्रवातिवै ।

संक्षिप्तोऽयं मयाऽऽत्माच रामार्थे रावणस्य च ॥६४

सिद्धिं मे संविधास्यंति देवा स्सर्षिगणा स्त्विह ।

ब्रह्मा स्वयंभू र्भगवान् देवा श्चैव दिशंतु मे ॥६५

सिद्धि मग्निश्च वायुश्च पुरुहूत श्च वज्रभृत् ।

वरुणः पाशहस्तश्च सोमादित्यौ तथैव च ॥६६

अश्विनौ च महात्मानौ मरुत श्शर्व एव च ।

सिद्धिं सर्वाणि भूतानि भूतानां चैव यः प्रभुः ॥६७

दास्यंति मम ये चान्ये ह्यदृष्टाः पथि गोचराः ।

त दुन्नसं पांडुरदंत मव्रणं शुचि स्मितं पद्मपलाशलोचनम् ।

द्रक्ष्ये तदार्यावदनं कदा न्वहं प्रसन्न ताराधिपतुल्यदर्शनम् ॥६८

क्षुद्रेण पापेन नृशंसकर्मणा सुदारुणालंकृत वेषधारिणा ।

बलाभिभूता ह्यबला तपस्विनी कथं नु मे दृष्टिपथेऽद्य सा भवेत् ? ॥

इति श्रीमत्सुन्दरकाण्डे त्रयोदशस्सर्गः ॥
<MISSING_FIG href="../books_images/U-IMG-170421636916.png"/>

॥ चतुर्दशस्सर्गः ॥

स मुहूर्त मिव ध्यात्वा मनसा चा धिगम्य ताम् ।

अवप्लुतो महातेजाः प्राकारं तस्य वेश्मनः ॥१

स तु संहृष्टसर्वागः प्राकारस्थो महाकपिः ।

पुष्पिताग्रा न्वसन्तादौ ददर्श विविधा न्द्रुमान् ॥२

सालानशोका न्भव्यां श्च चम्पकां श्च सुपुष्पितान् ।

उद्दालका न्नागवृक्षां श्रूतान्कपिमुखा नपि ॥३

अथाम्रवणसन्छन्त्रां लताशत समावृताम् ।

ज्यामुक्त इव नाराचः पुप्लवे वृक्षवाटिकाम् ॥४

स प्रविश्य विचित्रां तां विहगै रभिनादिताम् ।

राजतैः काञ्चनै श्चैव पादपै स्सर्वतो वृताम् ॥५

विहगै र्मृगसंघैश्च विचित्रां चित्रकाननाम् ।

उदितादित्यसङ्कशां ददर्श हनुमा न्कपिः ॥६

वृतां नानाविधै र्वृक्षैः पुष्पोपग फलोपगैः ।

कोकिलै र्भृङ्गराजैश्च मत्तै र्नित्यनिषेविताम् ॥७

प्रहृष्टमनुजे काले मृगपक्षिसमाकुले ।

मत्तबर्हिणसङ्घुष्टां नानाद्विजगणायुताम् ॥८

मार्गमाणो वरारोहां राजपुत्री मनिन्दिताम् ।

सुखप्रसुप्ता न्विहगा न्बोधयामास वानरः ॥९

उत्पतद्भिर्द्विजगणैः पक्षै स्साला स्समाहताः ।

अनेकवर्णा विविधा मुमुचुः पुष्पवृष्टयः ॥१०

पुष्पावकीर्ण श्शुशुभे हनुमा न्मारुतात्मजः ।

अशोकवनिकामध्ये यथा पुष्पमयो गिरिः ॥११

दिश स्सर्वाःप्रधावंतं वृक्षषंडगतं कपिम् ।

दृष्ट्वा सर्वाणि भूतानि वसंत इति मेनिरे ॥१२

वृक्षेभ्यः पतितैः पुष्पै रवकोर्णा पृथग्विधैः ।

रराज वसुधा तब प्रमदेव विभूषिता ॥१३

तरस्विना ते तरव स्तरसाभिप्रकंपिताः ।

कुसुमानि विचित्राणि ससृजुः कपिना तदा ॥१४

निर्धूतपत्त्रशिखरा श्शीर्णपुष्पफला द्रुमाः ।

निक्षिप्त वस्त्राभरणा धूर्ता इव पराजिताः ॥१५

हनूमता वेगवता कंपितास्ते नगोत्तमाः ।

पुष्पपर्णफलान्याशु मुमुचुः पुष्पशालिनः ॥१६

विहंगसंघै र्हीना स्ते स्कंधमात्रश्रया द्रुमाः ।

बभूवु रगमा स्सर्वे मारुतेनेव निर्घुताः ॥१७

निर्धूतकेशी युवति र्यथा मृदितवर्णका ।

निष्पीतभदंतोष्ठी नखै र्दंतै श्च विक्षता ॥१८

तथा लांगूलहस्तै श्च चरणाभ्यां च मर्दिता ।

बभूवाशोकवनिका प्रभग्न वरपादपा ॥१९

महालतानां दामानि व्यधमत्तरसा कपिः ।

यथा प्रावृषि विंध्यस्य मेघजालानि मारुतः ॥२०

स तत्र मणिभूमीश्च राजतीश्च मनोरमाः ॥

तथा कांचनभूमी श्च ददर्श विचर न्कपिः ॥२१

वापी श्च विविधाकाराः पूर्णाः परमवारिणा ।

महार्है र्मणिसोपानै रुपपन्ना स्ततः स्ततः ॥२२

मुक्ताप्रवालसिकताः स्फाटिकांतर कुट्टिमाः ।

कांचनै स्तरुभि श्चित्रै स्तोरजै रुपशोभिताः ॥२३

फुल्लपद्मोत्पलवा श्चक्रवाकोपकूजिताः ।

नत्यूह रुत संघुष्टा हंससारसनादिताः ॥२४

दीर्घाभि र्द्रुमयुक्ताभि स्सरिद्भिश्च समन्ततः ।

अमृतोपमतोयाभि श्शिवाभि रुपसंस्कृताः ॥२५

लताशतै रवतता स्सन्तानकुसुमा वृताः ।

नानागुल्मावृत धनाःकरवीर कृतान्तराः ॥२६

ततोऽम्बुधरसङ्काशं प्रवृद्धशिखरं गिरिम् ।

विचित्रकूटं कूटैश्च सर्वतः परिवारितम् ॥२७

शिलागृहै रवततं नानावृक्षै स्समावृतम् ।

ददर्श हरिशार्दूलो रम्यं जगति पर्वतम् ॥२८

ददर्श च नगा त्तस्मा न्नदीं निपतितां कपिः ।

अंका दिव समुत्पत्य प्रियस्य पतितां प्रियाम् ॥२९

जले निपतिताग्रैश्च पादपै रुपशोभिताम् ।

वार्यमाणा मिव क्रुद्धां प्रमदां प्रियबन्धुभिः ॥३०

पुनरावृत्ततोयां च ददर्श स महाकपिः ।

प्रसन्ना मिव कान्तस्य कान्तां पुनरुपस्थिताम् ॥३१

तस्यादूरा त्सपद्मिन्यो नानाद्विजगणायुताः ।

ददर्श हरिशार्दूलो हनुमा न्मारुतात्मजः ॥३२

कृत्रिमां दीर्घिकां चापि पूर्णां शीतेन वारिणा ।

मणिप्रवरसोपानां मुक्तासिकतशोभिताम् ॥३३

विविधै र्मृगसङ्घै श्च विचित्रां चित्रकाननाम् ।

प्रासादै स्समहद्भि श्च निर्मितै र्विश्वकर्मणा ॥३४

काननैः कृत्रिमै श्चापि सर्वत स्समलंकृताम् ।

ये केचित्पादपा स्तत्र पुष्पोपग फलोपगाः ॥३५

सच्छत्रा स्सवितर्दीका स्सर्वे सौवर्ग वेदिकाः ।

लताप्रतानै र्बहुभिः पर्णैश्च बहुभिर्वृताम् ॥३६

काञ्चनीं शिंशुपा मेकां ददर्श हरियूथपः ।

वृतां हेममयीभि स्तु वेदिकाभि स्समन्ततः ॥३७

तेषां द्रुमाणां प्रभया मेरो रिव दिवाकरः ।

अमन्यत तदा वीरः काञ्चनोऽस्मीति वानरः ॥३८

सोऽपश्य द्भूमिभागांश्च गर्तप्रस्रवणानि च ।

सुवर्णवृक्षा नपरान्ददर्श शिखिसन्निभान् ॥३९

तां काञ्चनै स्तरुगणै र्मारुतेन च वीजिताम् ।

किङ्किणीशतनिर्घोषां दृष्ट्वा विस्मय मागमत् ॥४०

स पुष्पिताग्रां रुचिरां तरुणाङ्करपल्लवम् ।

ता मारुह्य महाबाहु श्शिशुपां पर्णसंवृताम् ॥४१

इतो द्रक्ष्यामि वैदेहीं रामदर्शन लालसाम् ।

इत श्वेतश्च दूःखार्तां संपतन्तीं यदृच्छया ॥४२

अशोकवनिका चेयं दृढं रम्या दुरात्मनः ।

चंपकै श्चन्दनै श्चापि वकुलैश्च विभूषिता ॥४३

इयं च नलिनी रम्या द्विजसङ्घनिषेविता ।

इमां सा राममहिषी नून मेष्यति जानकी ॥४४

सा रामा राममहिषी राघवस्य प्रियासती ।

वनसंचारकुशला नून मेष्यति जानकी ॥४५

अथवा मृगशाबाक्षी वनस्यास्य विचक्षणा ।

वनमेष्यति साऽऽर्येह रामचिंतानुकर्शिता ॥४६

रामशोकाभिसंतप्ता सा देवी वामलोचना ।

वनवासे रतानित्य मेष्यते वनचारिणी ॥४७

वनेचराणां सततं नूनं स्पृहयते पुरा ।

रामस्य दयिता भार्या जनकस्य सुता सती ॥४८

संध्याकालमनाश्श्यामा ध्रुव मेष्यति जानकी ।

नदीं चेमां शिवजलां संध्यार्थे वरवर्णिनी ॥४९

तस्याश्चाप्यनुरूपेय मशोकवनिका शुभा ।

शुभा या पार्थिवेंद्रस्य पत्नीरामस्य सम्मता ॥५०

यदि जीवति सा देवी ताराधिपनिभानना ।

आगमिष्यति साऽवश्य मिमां शिवजलां नदीम् ॥५१

एवं तु मत्वा हनुमान्महात्मा प्रतीक्षमाणो मनुजेंद्रपत्नीम् ।

अवेक्षमाण श्च ददर्श सर्वं सुपुष्पिते पर्णवने निलीनः ॥५२

इति श्रीमत्सुन्दरकाण्डे चतुर्दशस्सर्गः ॥
<MISSING_FIG href="../books_images/U-IMG-170421687115.png"/>

॥ पञ्चदशस्सर्गः ॥

स वीक्षमाण स्तत्रस्थो मार्गमाणश्च मैथिलीम् ।

अवेक्षमाणश्च महीं सर्वां ता मन्ववैक्षत ॥१

संतानकलताभिश्च पादपै रुपशोभिताम् ।

दिव्यगन्धरसोपेतां सर्वत स्समलंकृताम् ॥२

तां स नन्दनसङ्काशां मृगपक्षिभिरावृताम् ।

हर्म्यप्रासादसम्बाधां कोकिलाकुलनिस्वनाम् ॥३

काञ्चनोत्पलपद्माभि र्वापीभि रुपशोभिताम् ।

बह्वासनकुथोपेतां बहुभूमिगृहायुताम् ॥४

सर्वर्तुकुसुमै रम्यां फलवद्भि श्च पादपैः ।

पुष्पिताना मशोकानां श्रिया सूर्योदयप्रभाम् ॥५

प्रदीप्ता मिव तत्रस्थो मारुति स्समुदैक्षत ।

निष्पत्रशाखां विहगैः क्रियमाणा मिवासकृत् ॥६

विनिष्पतद्भि श्शतश श्चित्रैः पुष्पावतंसकैः ।

आमूलपुष्पनिचितै रशोकै श्शोकनाशनैः ॥७

पुष्पभारतिभारैश्च स्पृशद्भि रिव मेदिनीम् ।

कर्णिकारैः कुसुमितैः किंशुकै श्च सुपुष्पितैः ॥८

स देशःप्रभया तेषां प्रदीप्त इव सर्वतः ।

पुन्नागाः सप्तपर्णा श्च चम्पकोद्दालका स्तथा ॥९

विवृद्धमूला बहव श्शोभंते स्म सुपुष्पिताः ।

शातकुम्भनिभाः केचि त्केचि दग्निशिखोपमाः ॥१०

नीलाञ्जननिभाः केचि त्तत्राऽशोका स्सहस्रशः ।

नंदनं विविधोद्यानं चित्रं चैत्ररथं यथा ॥११

अतिवृत्त मिवाचिन्त्यं दिव्यं रम्यं श्रिया वृतम् ।

द्वितीय मिव चाकाशं पुष्पज्योतिर्गणायुतम् ॥१२

पुष्परत्नशतै श्चित्रं पञ्चमं सागरं यथा ।

सर्वर्तुपुष्पै र्निचितं पादपै र्मधुगंधिभिः ॥१३

नानानिनादै रुद्यानं रम्यं मृगगणै र्द्विजैः ।

अनेकगन्धप्रवहं पुण्यगन्धं मनोरमम् ॥१४

शैलेन्द्र मिव गन्धाढ्यं द्वितीयं गन्धमादनम् ।

अशोकवनिकायां तु तस्यां वानरपुङ्गवः ॥१५

स ददर्शाविदूरस्थं चैत्यप्रासाद मुच्छ्रितम् ।

मध्ये स्तम्भसहस्रेण स्थितं कैलासपाण्डुरम् ॥१६

प्रवालकृतसोपानं तप्तकाञ्चन वेदिकम् ।

मुष्णंत मिव चक्षूंषि द्योतमान मिव श्रिया ॥१७

विमलं प्रांशुभावत्वा दुल्लिखन्त मिवाम्बरम् ।

ततो मलिनसंवीतां राक्षसीभि स्समावृताम् ॥१८

उपवासकृशां दीनां निश्श्वसन्तीं पुनःपुनः ।

ददर्श शुक्लपक्षादौ चन्द्ररेखा मिवामलाम् ॥१९

मन्दंप्रख्यायमानेन रूपेण रुचिरप्रभाम् ।

पिनद्धां धूमजालेन शिखा मिव विभावसोः ॥२०

पीतेनैकेन संवीतां क्लिष्टे नोत्तमवाससा ।

सपङ्का मनलङ्कारां विपद्मा मिव पद्मिनीम् ॥२१

व्रीलितां दुःखसंतप्तां परिम्लानां तपस्विनीम् ।

ग्रहेणाङ्गारकेणेव पीडिता मिव रोहिणीम् ॥२२

अश्रुपूर्णमुखीं दीनां कृशा मनशनेन च ।

शोकध्यानपरां दीनां नित्यंदुःखपरायणाम् ॥२३

प्रियं जन मपश्यन्तीं पश्यन्तीं राक्षसीगणम् ।

स्वगणेन मृगीं हीनां श्वगणाभिवृतामिव ॥२४

नीलनागाभया वेण्या जघनं गतयैकया ।

नीलया नीरदापाये वनराज्या मही मिव ॥२५

सुखार्हां दुःखसंतप्तां व्यसनाना मकोविदाम् ।

तां समीक्ष्य विशालाक्षी मधिकं मलिनां कृशाम् ॥२६

तर्कयामास सीतेति कारणै रुपपादिभिः ।

ह्रियमाणा तदा तेन रक्षसा कामरूपिणा ॥२७

यथारूपाहि दृष्टावै तथारूपेय मङ्गना ।

पूर्णचन्द्राननां सुभ्रूं चारुवृत्तपयोधराम् ॥२८

कुर्वन्तीं प्रभया देवीं सर्वा वितिमिरा दिशः ।

तां नीलकेशीं बिंबोष्ठीं सुमध्यां सुप्रतिष्ठिताम् ॥२९

सीतां पद्मपलाशाक्षीं मन्मथस्य रतिं यथा ।

इष्टां सर्वस्य जगतः पूर्णचन्द्रप्रभामिव ॥३०

भूमौ सुतनु मासीनां नियता मिव तापसीम् ।

निश्श्वासबहुलां भीरुं भुजगेन्द्रवधू मिव ॥३१

शोकजालेन महता विततेन न राजतीम् ।

संसक्तां धूमजालेन शिखा मिव विभावसोः ॥३२

तां स्मृती मिव संदिग्धा मृद्धिं निपतिता मिव ।

विहतामिव च श्रद्धा माशां प्रतिहतामिव ॥३३

सोपसर्गां यथा सिद्धिं बुद्धिं सकलुषामिव ।

अभूते नापवादेन कीर्तिं निपतिता मिव ॥३४

रामोपरोध व्यथितां रक्षोहरण कर्शिताम् ।

अबलां मृगशाबाक्षीं वीक्षमाणां ततस्ततः ॥३५

बाष्पांबुपरिपूर्णेन कृष्णवक्राक्षि पक्ष्मणा ।

वदनेनाप्रसन्नेन निश्श्वसंतीं पुनःपुनः ॥३६

मलपंकधरां दीनां मंडनार्हा ममंडिताम् ।

प्रभां नक्षत्र राजस्य कालमेघैरिवावृताम् ॥३७

तस्य संदिदिहे बुद्धिर्मुहुस्सीतां निरीक्ष्य तु ।

आम्नायानामयोगेन विद्यां प्रशिथिलामिव ॥३८

दुःखेन बुबुधे सीतां हनुमाननलंकृताम् ।

संस्कारेण यथा हीनां वाच मर्थांतरं गताम् ॥३९

तां समीक्ष्य विशालाक्षीं राजपुत्री मनिंदिताम् ।

तर्कयामास सीतेति कारणैरुपपादिभिः ॥४०

वैदेह्यायानि चाङ्गेषु तदा रामोऽन्वकीर्तयत् ।

ता न्याभरणजालानि गात्रशोभी न्यलक्षयत् ॥४१

सुकृतौ कर्णवेष्टौच श्वदंष्ट्रौचसुसंस्थितौ ।

मणिविद्रुम चित्राणि हस्ते ष्वाभरणानि च ॥४२

श्यामानि चिरयुक्तत्वात्तथा संस्थानवन्ति च ।

तान्येवैतानि मन्येऽहं यानि रामोऽन्वकीर्तयत् ॥४३

तत्र या न्यवहीनानि तान्यहं नोपलक्षये ।

या न्यस्या नावहीनानि तानीमानि न संशयः ॥४४

पीतं कनकपट्टाभं स्रस्तं तद्वसनं शुभम् ।

उत्तरीयं नगासक्तं तदा दृष्टं प्लवङ्गमैः ॥४५

भूषणाणि च मुख्यानि दृष्टानि धरणीतले ।

अनयैवापविद्धानि स्वनवन्ति महांति च ॥४६

इदं चिरगृहीतत्वा द्वसनं क्लिष्टवत्तरम् ।

तथाऽपि नूनं तद्वर्णं तथा श्रमिद्यथेतरत् ॥४७

इयं कनकवर्णाङ्गी रामस्य महिषी प्रिया ।

प्रणष्टाऽपि सती याऽस्य मनसो नप्रणश्यति ॥४८

इयं सा यत्कृते राम श्चतुर्भिः परितप्यते ।

कारुण्ये नानृशंस्थेन शोकेन मदनेन च ॥४९

स्त्री प्रणष्टेति कारुण्यादाश्रिते त्यानृशंस्यतः ।

पत्नीनष्टेति शोकेन प्रियेति मदनेन च ॥५०

अस्या देव्या यथारूप मंगप्रत्यंग सौष्ठवम् ।

रामस्य च यथारूपं तस्येय मसितेक्षणा ॥५१

अस्या देव्या मनस्तस्मिंस्तस्य चास्यां प्रतिष्ठितम् ।

तेनेयं स च धर्मात्मा मुहूर्तमपि जीवति ॥५२

दुष्करं कृतवान्नामो हीनो य दनया प्रभुः ।

धारय त्यात्मनो देहं नशोके नावसीदति ॥५३

दुष्करं कुरुते रामो य इमां मत्तकाशिनीम् ।

सीतां विना महाबाहुर्मुहूर्त मपि जीवति ॥५४

एवं सीतां तदा दृष्ट्वा हृष्टः पवनसंभवः ।

जगाम मनसा रामं प्रशशंस च तं प्रभुम् ॥५५

इति श्रीमत्सुन्दरकाण्डे पञ्चदशस्सर्गः ॥
<MISSING_FIG href="../books_images/U-IMG-170426376816.png"/>

॥ षोडशस्सर्गः ॥

प्रशस्यतु प्रशस्तव्यां सीतां तां हरिपुंगवः ।

गुणाभिरामं रामं च पुन श्चिंतापरोऽभवत् ॥१

स मुहूर्त मिव ध्यात्वा बाष्पपर्याकुलेक्षणः ।

सीता माश्रित्य तेजस्वी हनुमा न्विललापह ॥२

मान्या गुरुविनीतस्य लक्ष्मणस्य गुरुप्रिया ।

यदि सीताऽपि दुःखार्ता कालोहि दुरतिक्रमः ॥३

रामस्य व्यवसायज्ञा लक्ष्मणस्य च धीमतः ।

नात्यर्थं क्षुभ्यते देवी गङ्गेव जलदागमे ॥४

तुल्यशीलवयोवृत्तां तुल्याभिजनलक्षणाम् ।

राघवोऽर्हति वैदेहीं तंत्रेय मसितेक्षणा ॥५

तां दृष्ट्वा नवहेमाभां लोककान्ता मिव श्रियम् ।

जगाम मनसा रामं वचनं चेद मब्रवीत् ॥६

अस्या हेतो र्विशालाक्ष्या हतो वाली महाबलः ।

रावणप्रतिमो वीर्ये कबन्धश्च निपातितः ॥७

विराधश्च हतस्संख्ये राक्षसो भीमविक्रमः ।

वने रामेण विक्रम्य महेंद्रेणेव शम्बरः ॥८

चतुर्दश सहस्राणि रक्षसां भीमकर्मणाम् ।

निहतानि जनस्थाने शरै रग्निशिखोपमैः ॥९

खरश्च निहतस्संख्ये त्रिशिराश्च निपातितः ।

दूषणश्च महातेजा रामेण विदितात्मना ॥१०

ऐश्वर्यं वानराणां च दुर्लभं वालिपालितम् ।

अस्या निमित्ते सुग्रीवः प्राप्तवान्लोकसत्कृतम् ॥११

सागरश्च मयाक्रान्त श्श्रीमा न्नदनदपितिः ।

अस्याहेतो र्विशालाक्ष्याः पुरीचेयं निरीक्षिता ॥१२

यदि राम स्समुद्रान्तां मेदिनीं परिवर्तयेत् ।

अस्याः कृते जगच्चापि युक्त मित्येव मे मतिः ॥१३

राज्यं वा त्रिषु लोकेषु सीता वा जनकात्मजा ।

त्रैलोक्यराज्यं सकलं सीताया नाप्नुयात्कलाम् ॥१४

इयं सा धर्मशीलस्य मैथिलस्य महात्मनः ।

सुता जनकराजस्य सीता भर्तृदृढव्रता ॥१५

उत्थिता मेदिनीं भित्त्वा क्षेत्रे हलमुखक्षते ।

पद्मरेणुनिभैः कीर्णा शुभैः केदारपांसुभिः ॥१६

विक्रान्तस्यार्यशीलस्य संयुगे ध्वनिवर्तिनः ।

स्नुषा दशरथैस्यैषा ज्येष्ठा राज्ञो यशस्विनी ॥१७

धर्मज्ञस्य कृतज्ञस्य रामस्य विदितात्मनः ।

इयं सा दयिता भार्या राक्षसीवश मागता ॥१८

सर्वान्भोगा न्परित्यज्य भर्तृस्नेहबलात्कृता ।

अचिन्तयित्वा दुःखानि प्रविष्टा निर्जनं वनम् ॥१९

संतुष्टा फलमूलेन भर्तृशुश्रूषणे रता ।

या परां भजते प्रीतिं वनेऽपि भवने यथा ॥२०

सेयं कनकवर्णांगी नित्यं सुस्मितभाषिणी ।

सहते यातना मेता मनर्थाना मभागिनी ॥२१

इमां तु शीलसंपन्नां द्रष्टु मर्हति राघवः ।

रावणेन प्रमथितां प्रपा मिव पिपासितः ॥२२

अस्या नूनं पुनर्लाभा द्राघवः प्रीति मेष्यति ।

राजा राज्यपरिभ्रष्टः पुनः प्राप्येव मेदिनीम् ॥२३

कामभोगैः परित्यक्ता होना बंधुजनेन च ।

धारयत्यात्मनो देहं तत्समागमकांक्षिणी ॥२४

नैषा पश्यति राक्षस्यो नेमान्पुष्पफलद्रुमान् ।

एकस्थहृदया नूनं राम मेवानुपश्यति ॥२५

भर्तानाम परं नार्या भूषणं भूषणादपि ।

एषा तु रहिता तेन भूषणार्हा न शोभते ॥२६

दुष्करं कुरुते रामो हीनो यदनया प्रभुः ।

धारयत्यात्मनो देहं नदुःखेनावसीदति ॥२७

इमा मसितकेशांतां शतपत्तनिभेक्षणाम् ।

सुखार्हां दुःखितां दृष्ट्वा ममापि व्यथितं मनः ॥२८

क्षितिक्षमा पुष्करसन्निभाक्षी या रक्षिता राघवलक्ष्मणाभ्याम् ।

सा राक्षसीभिर्विकृतेक्षणाभि स्संरक्ष्यते संप्रति वृक्षमूले ॥२९

हिमहतनलिनीव नष्टशोभा व्यसनपरम्परया निपीड्यमाना ।

सहचररहितेव चक्रवाकी जनकसुता कृपणां दशां प्रपन्ना ॥३०

अस्याहि पुष्पावनताग्रशाखा श्शोकं दृढं वै जनयंत्यशोकाः ।

हिमव्यपायेन च मन्दरश्मि रभ्युत्थितोनैकसहस्ररश्मिः ॥३१

इत्येव मर्थं कपिरन्ववेक्ष्य सीतेय मित्येव निविष्टबुद्धिः ।

संश्रित्य तस्मि न्निषसाद वृक्षे बली हरीणा मृषभस्तरखी ॥३२

इति श्रीमत्सुन्दरकाण्डे षोडशस्सर्गः ॥
<MISSING_FIG href="../books_images/U-IMG-170426399216.png"/>

॥ सप्तदशस्सर्गः ॥

ततः कुमुदषण्डाभो निर्मलो निर्मलं स्वयम् ।

प्रजगाम नभश्चन्द्रो हंसो नील मिवोदकम् ॥१

साचिव्य मिव कुर्वन्सप्रभया निर्मलप्रभः ।

चंद्रमा रश्मिभिश्शीतै स्सिषेवे पवनात्मजम् ॥२

स ददर्श तत स्सीतां पूर्णचंद्रनिभाननाम् ।

शोकभारैरिवन्यस्तां भारैर्नावमिवांभसि ॥३

दिदृक्षमाणो वैदेहीं हनुमान्मारुतात्मजः ।

स ददर्शा विदूरस्था राक्षसीर्घोरदर्शनाः ॥४

एकाक्षी मेककर्णां च कर्णप्रावरणां तथा ।

अकर्णां शंकुकर्णां च मस्तकोच्छ्वासनासिकाम् ॥५

अतिकायोत्तमांगीं च तनुदीर्घशिरोधराम् ।

ध्वस्तकेशीं तथाऽकेशीं केशकंबलधारिणीम् ॥६

लंबकर्णललाटांच लंबोदरपयोधराम् ।

लंबोष्ठीं चुबुकोष्टीं च लंबास्यां लंबजानुकाम् ॥७

ह्रस्वां दीर्घं तथा कुव्जां विकटां वामनां तथा ।

करालां भुग्नवक्रां च पिंगाक्षीं विकृताननाम् ॥८

विकृताःपिङ्गलाःकालीःक्रोधनाः कलहप्रियाः ।

कालायसमहाशूलकूटमुद्गरधारिणीः ॥९

वराहमृगशार्दूलमहिषाजशिवामुखीः ।

गजोष्ट्रहयपादीश्च निखातशिरसो ऽपराः ॥१०

एकहस्तैकपादाश्च खरकर्ण्यस्वकर्णिकाः ।

गोकर्णीर्हस्तिकर्णीश्च हरिकर्णीस्तथापराः ॥११

अनासा अतिनासाश्च तिर्यङ्नासा विनासिकाः ।

गजसन्निभनासाश्च ललाटोच्छ्वासनासिकाः ॥१२

हस्तिपादा महापादा गोपादाः पादवूलिकाः ।

अतिमात्र शिरोग्रीवा अतिमात्रकुचोदरीः ॥१३

अतिमात्रास्यनेत्राश्च दीर्घजिह्वा नखास्तथा ।

अजामुखी र्हस्तिमुखी र्गोमुखी स्सूकरीमुखीः ॥१४

हयोष्ट्रखरवक्राश्च राक्षसी र्घोरदर्शनाः ।

शूलमुद्गरहस्ताश्च क्रोधनाः कलहप्रियाः ॥१५

कराला धूम्रकेशीश्च राक्षसी र्विकृताननाः ।

पिबंती स्सततं पानं सदा मांससुराप्रियाः ॥१६

मांसशोणितदिग्धांगीर्मांस शोणित भोजनाः ।

ता ददर्श कपिश्रेष्ठो रोमहर्षण दर्शनाः ॥१७

स्कन्धवन्त मुपासीनाःपरिवार्य वनस्पतिम् ।

तस्याधस्ताच्च तां देवीं राजपुत्री मनिंदिताम् ॥१८

लक्षयामास लक्ष्मीवान् हनुमान् जनकात्मजाम् ।

निष्प्रभां शोकसंतप्तां मलसंकुलमूर्धजाम् ॥१९

क्षीणपुण्यां च्युतां भूमौ तारां निपतिता मिव ।

चारित्रव्यपदेशाढ्यां भर्तृदर्शनदुर्गताम् ॥२०

भूषणैरुत्तमैर्हीनां भर्तृवात्सल्यभूषणाम् ।

राक्षसाधिप संरुद्धां बंधुभिश्च विनाकृताम् ॥२१

वियूथां सिंहसंरुद्धां बद्धां गजवधूमिव ।

चंद्ररेखां पयोदांते शारदाभ्रैरिवावृताम् ॥२२

क्लिष्टरूपा मसंस्पर्शादयुक्तामिववल्लकीम् ।

सीतां भर्तृवशे युक्तामयुक्तां राक्षसीवशे ॥२३

अशोकवनिकामध्ये शोकसागर माप्लुताम् ।

ताभिः परिवृतां तत्र सग्रहा मित्र रोहिणीम् ॥२४

ददर्श हनुमान् देवीं लतामकुसुमामिव ।

सा मलेन च दिग्धांगी वपुषा चाप्यलंकृता ॥२५

मृणाली पंकदिग्धेव विभाति न विभाति च ।

मलिनेन तु वस्त्रेण परिक्लिष्टेन भामिनीम् ॥२६

संवृतां मृगशाबाक्षीं ददर्श हनुमान्कपिः ।

तां देवीं दीनवदना मदीनां भर्तृतेजसा ॥२७

रक्षितां स्वेन शीलेन सीता मसितलोचनाम् ।

तां दृष्ट्वा हनुमान्सीतां मृगशाबनिभेक्षणाम् ॥२८

मृगकन्या मिवत्रस्तां वीक्षमाणां समंततः ।

दहंती मिव निश्श्वासै र्वृक्षान् पल्लवधारिणः ॥२९

संघातमिव शोकानां दुःखस्योर्मिमिवोत्थिताम् ।

तां क्षमां सुविभक्तांगीं विनाभरणशोभिनीम् ॥३०

प्रहर्ष मतुलं लेभे मारुतिः प्रेक्ष्य मैथिलीम् ।

हर्षजानि च सोऽश्रूणि तां दृष्ट्वा मदिरेक्षणाम् ॥३१

मुमोच हनुमां स्तत्र नमश्चक्रे च राघवम् ।

नमस्कृत्वा स रामाय लक्ष्मणाय च वीर्यवान् ॥३२

सीतादर्शनसंहृष्टो हनुमान् संवृतोऽभवत् ।

॥ इति श्रीमत्सुन्दरकाण्डे सप्तदशस्सर्गः ॥
<MISSING_FIG href="../books_images/U-IMG-170426421916.png"/>

॥ अष्टादशस्सर्गः ॥

तथा विप्रेक्षमाणस्य वनं पुष्पितपादपम् ।

विचिन्वत च वैदेहीं किंचिच्छेषा निशाऽभवत् ॥१

षडङ्गवेदविदुषां क्रतुप्रवरयाजिनाम् ।

शुश्राव ब्रह्मघोषांश्च विरात्रे ब्रह्मरक्षसाम् ॥२

अथ मङ्गलवादित्र शब्दैश्श्रोत्रमनोहरैः ।

प्राबुध्यत महाबाहु र्दशग्रीवो महाबलः ॥३

विबुध्यतु यथाकालं राक्षसेंद्रःप्रतापवान् ।

स्रस्तमाल्याम्बरधरो वैदेही मन्वचिन्तयत् ॥४

भृशं नियुक्तस्तस्याञ्च मदनेन मदोत्कटः ।

न स तं राक्षसः कामं शशाकत्मनि गृहितुम् ॥५

स सर्वाभरणै र्युक्तो बिभ्रच्छ्यिमनुत्तमाम् ।

तां नगै र्बहुभिर्जुष्टां सर्वपुष्पफलोपगैः ॥६

वृतां पुष्करिणीभिश्च नानापुष्पोपशोभिताम् ।

सदामदैश्च विहगै र्विंचित्रां परमाद्भुताम् ॥७

ईहामृगैश्च विविधैर्जुष्टां दृष्टिमनोहरैः ।

वीथी स्संप्रेक्षमाणश्च मणिकाञ्चनतोरणाः ॥८

नानामृगगणाकीर्णां फलैः प्रपतितैर्वृताम् ।

अशोकवनिकामेव प्राविशत्सन्ततद्रुमाम् ॥९

अङ्गना शतमात्रं तु तं व्रजन्त मनुव्रजत् ।

महेंद्र मिव पौलस्त्यं देवगन्धर्वयोषितः ॥१०

दीपिकाःकांचनीः काश्चि ज्जगृहुस्तत्व योषितः ।

वालव्यजनहस्ताश्च तालवृंतानि चापराः ॥११

कांचनै रपि भृंगारैर्जह्रु स्सलिल मग्रतः ।

मंडलाग्रान्बृसींचैव गृह्यान्याः पृष्ठतो ययुः ॥१२

काचि द्रत्नमयींस्थालींपूर्णां पानस्य भामिनी ।

दक्षिणा दक्षिणेनैव तदा जग्राह पाणिना ॥१३

राजहंसप्रतीकाशं छत्रं पूर्णशशिप्रभम् ।

सौवर्णदंड मपरा गृहीत्वा पृष्ठतो ययौ ॥१४

निद्रामदपरीताक्ष्यो रावणस्योत्तमाः स्त्रियः ।

अनुजग्मुः पतिंवीरं घनं विद्युल्लता इव ॥१५

व्याविद्धहारकेयूरा स्समा मृदितवर्णकाः ।

समागलितकेशांता स्सस्वेद वदनास्तथा ॥१६

घूर्णंत्यो मदशेषेण निद्रया च शुभाननाः ।

स्वेदक्लिष्टाङ्गकुसुमा स्सुमाल्याकुलमूर्धजाः ॥१७

प्रयांतं नैर्ऋतपतिं नार्यो मदिरलोचनाः ।

बहुमाना च्च कामा च्च प्रिया भार्यास्तमन्वयुः ॥१८

स च कामपराधीनः पतिस्तासां बहाबलः ।

सीतासक्तमना मंदो मदांचितगति र्बभौ ॥१९

ततः कांचीनिनादं च नूपुराणांच निस्स्वनम् ।

शुश्राव परमस्त्रिणां स कपिर्मारुतात्मजः ॥२०

तं चाप्रतिमकर्माण मचिंत्यबलपौरुषम् ।

द्वारदेश मनुप्राप्तं ददर्श हनुमान्कपिः ॥२१

दीपिकाभि रनेकाभि स्समन्ता दवभासितम् ।

गंधतैलावसिक्ताभि र्ध्रियमाणाभि रग्रतः ॥२२

कामदर्पमदैर्युक्तं जिह्मताम्रायतेक्षणम् ।

समक्ष मिव कन्दर्प मपविद्धशरासनम् ॥२३

मथितामृतफेनाभ मरजोवस्त्रमुत्तमम् ।

सलील मनुकर्षंतं विमुक्तं सक्तमङ्गदे ॥२४

तं पत्तविटपे लीनः पत्तपुष्पधनावृतः ।

समीप मिव संक्रान्तं निध्यातु मुपचक्रमे ॥२५

अवेक्षमाणस्तु ततो ददर्श कपिकुञ्जरः ।

रूपयौवनसंपन्ना रावणस्य वरस्त्रियः ॥२६

ताभिः परिवृतो राजा सुरूपाभिर्महायशाः ।

त न्मृगद्विजसंघुष्टं प्रविष्टः प्रमदावनम् ॥२७

क्षीबो विवित्राभरण श्शंकुकर्णो महाबलः ।

तेन विश्रवसः पुत्त्रस्सदृष्टो राक्षसाधिपः ॥२८

वृतः परमनारीभि स्ताराभि रवि चन्द्रमाः ।

तं ददर्श महातेजा स्तेजोवंतं महाकपिः ॥२९

रावणोऽयं महाबाहु रिति संचिंत्य वानरः ।

सोऽयमेव पुराशेते पुरमध्ये गृहोत्तमे ।

अवप्लुतो महातेजा हनुमान्मारुतात्मजः ॥३९

स तथाऽप्युग्रतेजा स्सन्निर्धूत स्तस्यतेजसा ।

पत्त्रेगुह्यांतरे सक्तो हनुमान्संवृतोऽभवत् ॥३१

स ता मसितकेशांतां सुश्रोणीं संहतस्तनीम् ।

दिदृक्षु रसितापांगी मुपावर्तत रावणः ॥३२

इति श्रीमत्सुन्दरकाण्डे अष्टादशस्सर्गः ॥
<MISSING_FIG href="../books_images/U-IMG-170426462216.png"/>

॥ एकोनविंशस्सर्गः ॥

तस्मिन्नेव ततःकाले राजपुत्तीत्वनिंदिता ।

रूपयौवनसंपन्नं भूषणोत्तमभूषितम् ॥१

ततो दृष्ट्वैव वैदेही रावणं राक्षसाधिपम् ।

प्रावेपत वरारोहा प्रवाते कदली यथा ॥२

आच्छाद्योदर मूरुभ्यां बाहुभ्यांच पयोधरौ ।

उपविष्टा विशालाक्षी रुदंती वरवर्णिनी ॥३

दशग्रीवस्तु वैदेहीं रक्षितां राक्षसगिणैः ।

ददर्श सीतां दुःखार्तां नावं सन्ना मिवार्णवे ॥४

असंवृताया मासीनां धरण्यां संशितव्रताम् ।

छिन्नां प्रपतितां भूमौ शाखामिव वनस्पतेः ॥५

मलमण्डनचित्रांगीं मण्डनार्हा ममंडिताम् ।

मृणाली पंकदिग्धेव विभाति न विभातिच ॥६

समीपं राजसिंहस्य रामस्य विदितात्मनः ।

संकल्पहयसंयुक्तै र्यांतीमिव मनोरथैः ॥७

शुष्यंतीं रुदती मेकां ध्यानशोकपरायणाम् ।

दुःखस्यांतमपश्यन्तीं रामां राम मनुव्रताम् ॥८

वेष्टमानां तथाऽऽविष्टां पन्नगेंद्रवधू मिव ।

धूप्यमानां ग्रहेणेव रोहिणीं धूमकेतुना ॥९

वृत्तशीलकुले जाता माचारवति धार्मिके ।

पुन स्संस्कार मापन्नां जातामिवच दुष्कुले ॥१०

अभूते नापवादेन कीर्तिं निपतितामिव ।

आम्नायाना मयोगेन विद्यां प्रशिथिला मिव ॥११

सन्नामिव महाकीर्तिं श्रद्धामिव विमानिताम् ।

पूजामिव परिक्षीणा माशां प्रतिहतामिव ॥१२

आयती मिव विध्वस्ता माज्ञां प्रतिहतामिव ।

दीप्तामिव दिशं काले पूजा मपहृतामिव ॥१३

पद्मिनीमिव विध्वस्तां हतशूरां चमूमिव ।

प्रभामिव तमोध्वस्ता मुपक्षीणा मिवापगाम् ॥१४

वेदीमिव परामृष्टां शांता मग्निशिखामिव ।

पौर्णमासीमिव निशां राहुग्रस्तेंदुमण्डलाम् ॥१५

उत्कृष्टपर्णकमलां वित्रासितविहंगमाम् ।

हस्तिहस्तपरामृष्टा माकुलां पद्मिनीमिव ॥१६

पतिशोकातुरां शुष्कां नदीं विस्रावितामिव ।

परया मृजया हीनां कृष्णपक्षनिशामिव ॥१७

सुकुमारीं सुजातांगीं रत्नगर्भगृहोचिताम् ।

तप्यमाना मिवोष्णेन मृणाली मचिरोद्धृताम् ॥१८

गृहीता मालितां स्तंभे यूथपेन विनाकृताम् ।

निश्श्वसंतीं सुदुःखार्तां गजराजवधूमिव ॥१९

एकया दीर्घया वेण्या शोभमाना मयत्नतः ।

नीलया नीरदापाये वनराज्या महीमिव ॥२०

उपवासेन शोकेन ध्यानेन च भयेनच ।

परिक्षीणां कृशां दीना मल्पाहारां तपोधनाम् ॥२१

आयाचमानां दुःखार्तां प्रांजलिं देवतामिव ।

भावेन रघुमुख्यस्य दशग्रीवपराभवम् ॥२३

समीक्षमाणां रुदती मनिंदितां सुपक्ष्मताम्रायतशुक्ललोचनाम् ।

अनुव्रतां राम मतीव मैथिलीं प्रलोभयामास वधाय रावणः ॥ २३

इति श्रीमत्सुन्दरकाण्डे एकोनविंशस्सर्गः ॥
<MISSING_FIG href="../books_images/U-IMG-170426295716.png"/>

॥ विंशस्सर्गः ॥

स तां पतिव्रतां दीनां निरानंदां तपस्विनीम् ।

साकारैर्मधुरैर्वाक्यैर्न्यदर्शयत रावणः ॥१

मांदृष्ट्वा नागनासोरु गूहमाना स्तनोदरम् ।

अदर्शन मिवात्मानं भयान्नेतुं त्व मिच्छसि ॥२

कामये त्वां विशालाक्षि बहुमन्यस्व मां प्रिये ।

सर्वांगगुणसंपन्ने सर्वलोकमनोहरे ॥३

नेह केचिन्मनुष्यावा राक्षसाः कामरूपिणः ।

ब्यपसर्पतु ते सीते भयं मत्तस्समुत्थितम् ॥४

स्वधर्मो रक्षसां भीरु सर्वथैव न संशयः ।

गमनं वा परस्त्रीणां हरणं संप्रमध्यवा ॥५

एवं चैत दकामां तु न त्वां स्प्रक्ष्यामि मैथिलि ।

कामं कामश्शरीरे मे यथाकामं प्रवर्तताम् ॥६

देवि नेह भयंकार्य मयि विश्वसिहि प्रिये ।

प्रणयस्व च तत्त्वेन मैवं भूश्शोकलालसा ॥७

एकवेणी धरा शय्या ध्यानं मलिनमंबरम् ।

अस्थानेऽप्युपवासश्च नैतान्यौपयिकानिते ॥८

विचित्राणि च माल्यानि चंदनान्यगरूणिच ।

विविधानिच वासांसि दिव्यान्याभरणानिच ॥९

महार्हाणिच पानानि शयना न्यासनानिच ।

गीतं नृत्तंच वाद्यंच लभमां प्राप्यमैथिलि ॥१०

स्त्रीरत्न मसिमैवं भूः कुरु गात्रेषु भूषणम् ।

मांप्राप्य हि कथं नुस्यास्त्व मनर्हा सुविग्रहे ॥११

इदं ते चारु संजातं यौवनं व्यतिवर्तते ।

य दतीतं पुनर्नैति स्रोत श्शीघ्रमपामिव ॥१२

त्वां कृत्वोपरतो मन्ये रूपकर्ता स विश्वसृट् ।

नहि रूपोपमा त्वन्या तवास्ति शुभदर्शने ॥१३

त्वां समासाद्य वैदेहि रूपयौवनशालिनीम् ।

कः पुमा नतिवर्तेत साक्षादपि पितामहः ॥१४

यद्यत्पश्यामि ते गात्रं शीतांशुसदृशानने ।

तस्मिंस्तस्मिन्पृथुश्रोणि चक्षुर्मम निबध्यते ॥१५

भव मैथिलि भार्यामे मोहमेनं विसर्जय ।

बह्वीना मुत्तमस्त्रीणा माहृताना मितस्ततः ॥१६

सर्वासामेव भद्रंते ममाग्रमहिषी भव ।

लोकेभ्यो यानि रत्नानि संप्रमथ्याहृतानि वै ॥१७

तानिमे भीरु सर्वाणि राज्यं चैत दहंच ते ।

विजित्य पृथिवीं सर्वां नानानगरमालिनीम् ॥१८

जनकाय प्रदास्यामि तव हेतोर्विलासिनि ।

नेह पश्यामि लोकेऽन्यं यो मे प्रतिबलोभवेत् ॥१९

पश्य मे सुमहद्वीर्य मप्रतिद्वंद्व माहवे ।

असकृ त्संयुगे भग्ना मया विमृदितध्वजाः ॥२०

अशक्ताःप्रत्यनीकेषु स्थातुं मम सुरासुराः ।

इच्छया क्रियता मद्य प्रतिकर्म तवोत्तमं ॥२१

सुप्रभाण्यवसज्जंतां तवांगे भूषणानि च ।

साधु पश्यामि ते रूपं संयुक्तं प्रतिकर्मणा ॥२२

प्रतिकर्माभिसंयुक्ता दाक्षिण्येन वरानने ।

भुङ्क्ष्वभोगान्यथाकामं पिब भीरु रमस्वच ॥२३

यथेष्टं च प्रयच्छ त्वं पृथिवीं वा धनानि च ।

ललस्वमयि विस्रब्धाधृष्ट माज्ञापयस्व च ॥२४

मत्प्रसादाल्लत्याश्च ललंतां बांधवा स्तव ।

ऋद्धिं ममानुपश्य त्वं श्रियं भद्रे यशश्च मे ॥२५

किं करिष्यसि रामेण सुभगे चीरवाससा ।

निक्षिप्तविजयो रामो गतश्रीर्वनगोचरः ॥२६

व्रती स्थंडिलशायीच शंके जीव तिवा नवा ।

नहि वैदेहि रामस्त्वां द्रष्टुं वाप्युपलप्स्यते ॥२७

पुरोबलाकै रसितै र्मेघै र्ज्योत्स्ना मिवावृताम् ।

न चापि मम हस्तात्त्वां प्राप्नु मर्हति राघवः ॥२८

हिरण्यकशिपुः कीर्ति मिंद्रहस्तगता मिव ।

चारुस्मिते चारुदति चारुनेत्रे विलासिनि ॥२९

मनो हरसि मे भीरु सुपर्णः पन्नगं यथा ।

क्लिष्टकौशेयवसनां तन्वी मप्यनलंकृताम् ॥३०

त्वां दृष्ट्वा स्वेषु दारेषु रतिं नोपलभा म्यहम् ।

अंतःपुरनिवासिन्यस्स्त्रियस्सर्वगुणान्विताः ॥३१

यावंत्यो मम सर्वासा मैश्वर्यं कुरुजानकि ।

मम ह्यासितकेशांते त्रैलोक्यप्रवरास्स्त्रियः ॥३२

तास्त्वां परिचरिष्यंति श्रियमप्सरसो यथा ।

यानि वैश्रवणे सुभ्रु रत्नानि च धनानि च ॥३३

तानि लोकांश्च सुश्रोणि मांच भुङ्क्ष्व यथासुखम् ।

न राम स्तपसा देवि न बलेन न विक्रमैः ॥३४

न धनेन मया तुल्य स्तेजसा यशसाऽपि वा ।

पिब विहर रमस्व भुङ्क्ष्वभोगान् धननिचयं प्रदिशामि मेदिनीं च ।

मयि लल ललने यथासुखं त्वं त्वयि च समेत्य ललंतु बांधवास्ते ॥३५

कुसुमिततरुजालसंततानि भ्रमरयुतानि समुद्रतीरजानि ।

कनकविमलहारभूषिताङ्गी विहर मयासह भीरु काननानि ॥३६

इति श्रीमत्सुन्दरकाण्डे विंशस्सर्गः ॥
<MISSING_FIG href="../books_images/U-IMG-170426328616.png"/>

॥ एकविंशस्सर्गः ॥

तस्य त द्वचनं श्रुत्वा सीता रौद्रस्य रक्षसः ।

आर्ता दीनस्वरा दीनं प्रत्युवाच शनैर्वचः ॥१

दुःखार्ता रुदती सीता वेपमाना तपस्विनी ।

चिंतयंती वरारोहा पति मेव पतिव्रता ॥२

तृण मंतरतः कृत्वा प्रत्युवाच शुचिस्मिता ।

निवर्तय मनोमत्त स्वजने क्रियतां मनः ॥३

न मां प्रार्थयितुं युक्तं सुसिद्धि मिवपापकृत् ।

अकार्यं न मया कार्य मेकपत्नया विगर्हितम् ॥४

कुलं संप्राप्तया पुण्यं कुले महति जातया ।

एव मुक्त्वातु वैदेही रावणं तं यशस्विनी ॥५

राक्षसं पृष्ठतः कृत्वा भूयो वचन मब्रवीत् ।

नाह मौपयिकी भार्या परभार्या सती तव ॥६

साधु धर्म मवेक्षस्व साधुसाधुव्रतं चर ।

यथा तव तथाऽन्येषां दारा रक्ष्या निशाचर ॥७

आत्मान मुपमां कृत्वा स्वेषु दारेषु रम्यताम् ।

अतुष्टं स्वेषु दारेषु चपलं चलितेंद्रियम् ॥८

नयंति निकृतिप्रज्ञं परदाराःपराभवम् ।

इह संतो न वा संति सतो वा नानुवर्तसे ॥९

तथा हि विपरीता ते बुद्धि राचारवर्जिता ।

वचो मिथ्या प्रणीतात्मा पथ्य मुक्तं विचक्षणैः ॥१०

राक्षसाना मभावाय त्वं वा न प्रतिपद्यसे ।

अकृतात्मान मासाद्य राजान सनये रतम् ॥११

समृद्धानि विनश्यंति राष्ट्राणि नगराणि च ।

तथेयं त्वां समासाद्य लंका रत्नौघसंकुला ॥१२

अपराधात्तवैकस्य न चिराद्विनशिष्यति ।

स्वकृतैर्हन्यमानस्य रावणादीर्घदर्शिनः ॥१३

अभिनंदंति भूतानि विनाशे पापकर्मणः ।

एवं त्वां पापकर्माणं वक्ष्यंति निकृता जनाः ॥१४

दिष्टचैतद्व्यसनं प्राप्तो रौद्र इत्येव हर्षिताः ।

शक्या लोभयितुं नाह मैश्वर्येण धनेनवा ॥१५

अनन्या राघवेणाहं भास्करेण प्रभा यथा ।

उपधाय भुजं तस्य लोकनाथस्य सत्कृतम् ॥१६

कथं नामोपधास्यामि भुजमन्यस्य कस्यचित् ।

अह मौपयिकी भार्या तस्यैव वसुधापतेः ॥१७

व्रतस्त्रातस्य विप्रस्य विद्येव विदितात्मनः ।

साधु रावण रामेण मां समानय दुःखिताम् ॥१८

वने वाशितया सार्थं करेण्वेव गजाधिपम् ।

मित्त्रमौपयिकं कर्तुं रामस्स्थानं परीप्सता ॥१९

वधं चानिच्छता घोरं त्वयाऽसौ पुरुषर्षभः ।

विदितस्सहि धर्मज्ञ श्शरणागतवत्सलः ॥२०

तेन मैत्री भवतु ते यदि जीवितु मिच्छसि ।

प्रसादयस्व त्वं चैनं शरणागतवत्सलम् ॥२१

मां चास्मै प्रयतो भूत्वा निर्यातयितु मर्हसि ।

एवं हि ते भवेत्स्वस्ति संप्रदाय रचूत्तमे ॥२२

अन्यथा त्वं हि कुर्वाणो वधं प्राप्स्यसि रावण ।

वर्जये द्वज्र मुत्सृष्टं वर्जये दंतकश्विरम् ॥२३

त्वद्विधं तु न संक्रुद्धो लोकनाथस्सराघवः ।

रामस्य धनुषश्शब्दं श्रोष्यसि त्वं महास्वनम् ॥२४

शतक्रतुविसृष्टस्य निर्घोषमशने रिव ।

इह शीघ्रं सुपर्वाणो ज्वलितास्या इवोरगाः ॥२५

इषवो निपतिष्यंति रामलक्ष्मणलक्षणाः ।

रक्षांसि परिनिघ्नंतः पुर्या मस्यां समंततः ॥२६

असंपातं करिष्यंति पतंतः कंकवाससः ।

राक्षसेंद्रमहासर्पान् स रामगरुडोमहान् ॥२७

उद्धरिष्यति वेगेन वैनतेय इवोरगान् ।

अपनेव्यति मां भर्ता त्वत्तश्शीघ्रमरिंदमः ॥२८

असुरेभ्यश्श्रियं दीप्तां विष्णुस्त्रिभि रिव क्रमैः ।

जनस्थाने हतस्थाने निहते रक्षसां बलें ॥२९

अशक्तेन त्वया रक्षः कृत मेत दुसाधु वै ।

आश्रमं तु तयोश्शून्यं प्रविश्य नरसिंहयोः ॥३०

गोचरं गतयोर्भ्रात्रोरपनीता त्वयाऽधम ।

न हि गंधमुपाघ्राय रामलक्ष्मणयोस्त्वया ॥३१

शक्यं संदर्शने स्थातुं शुना शार्दूलयो रिव ।

तस्य ते विग्रहे ताभ्यां युगग्रहण मस्थिरम् ॥३२

वृत्रस्येवेंद्रबाहुभ्यां बाहोरेकस्यनिग्रहः ।

क्षिप्रं तव सनाथो मे रामस्सौमित्रिण सह ॥३३

तोय मल्पमिवादित्यः प्राणा नादास्यते शरैः ।

गिरिं कुबेरस्य गतो वाऽलयंसभां गतो वा वरुणस्य राज्ञः ।

असंशयं दाशरथेर्नमोक्ष्यसे महाद्रुमः कालहतोऽशने रिव ॥ ३४

इति श्रीमत्सुन्दरकाण्डे एकविंशस्सर्गः ॥
<MISSING_FIG href="../books_images/U-IMG-170426359316.png"/>

॥ द्वाविंशस्सर्गः ॥

सीताया वचनं श्रुत्वा परुषं राक्षसाधिपः ।

प्रत्युवाच ततस्सीतां विप्रियं प्रियदर्शनाम् ॥१

यथा यथा सांत्वयिता वश्यस्स्त्रीणां तथातथा ।

यथा यथा प्रियंवक्ता परिभूत स्तथा तथा ॥२

सन्नियच्छति मे क्रोधं त्वयिकाम स्समुत्थितः ।

द्रवतो मार्ग मासाद्य हयानिव सुसारथिः ॥३

वामः कामो मनुष्याणां यस्मिन्किल निबध्यते ।

जने तस्मिं स्त्वनुक्रोश स्स्नेहश्च किल जायते ॥४

एतस्मात्कारणान्नत्वां घातयामि वरानने ।

वधार्हा मवमानार्हां मिथ्या प्रव्रजिते रताम् ॥५

परुषाणीह वाक्यानि यानि यानि ब्रवोषि माम् ।

तेषुतेषु वधोयुक्त स्तव मैथिलि दारुणः ॥६

एव मुक्तवातु तैदेहीं रावणो राक्षसाधिपः ।

क्रोधसंरंभसंयुक्त स्सीतामुत्तर मव्रवीत् ॥७

द्वौ मासौ रक्षितव्यौ मे योऽवधिस्ते मया कृतः ।

तत श्शयन मारोह मम त्वं वरवर्णिनि ॥८

ऊर्ध्वं द्वाभ्यांतुमासाभ्यां भर्तारं मामनिच्छतीम् ।

मम त्वां प्रातराशार्थ मालभंते महानसे ॥९

तां तर्ज्यमानां संप्रेक्ष्य राक्षसेंद्रेण जानकीम् ।

देवगंधर्वकन्या स्ता विषेदुर्विकृतेक्षणाः ॥१०

ओष्ठप्रकारै रपरा वक्रनेत्रै स्तथाऽपराः ।

सीता माश्वासयामासु स्तर्जितां तेन रक्षसा ॥११

ताभि राश्वासिता सीता रावणं राक्षसाधिपम् ।

उवाचात्महितं वाक्यं वृत्तर्शौटीर्यगर्वितम् ॥१२

नूनं नते जनः कश्चिदस्ति निश्श्रेयसे स्थितः ।

निवारयति योन त्वां कर्मणोऽस्मा द्विगर्हितात् ॥१३

मां हि धर्मात्मनः पत्नीं शचीमिव शचीपतेः ।

त्वदन्य स्त्रिषु लोकेषु प्रार्थयेन्मनसाऽपि कः ॥१४

राक्षसाधम रामस्य भार्या ममिततेजसः ।

उक्तवानसि यत्पापं क्व गतस्तस्य मोक्ष्यसे ॥१५

यथा हप्तश्च मातंग श्शशस्त्र सहितो वने ।

तथा द्विरदवद्रामस्त्वं नीच शशवत्स्मृतः ॥१६

स त्व मिक्ष्वाकुनाथं वै क्षिपन्निह न लज्जसे ।

चक्षुषो र्विषयं तस्य न याव दुपगच्छसि ॥१७

इमे ते नयने क्रूरे विरूपे कृष्णपिङ्गले ।

क्षितौ न पतिते कस्मान्मा मनार्य निरीक्षतः ॥१८

तस्य धर्मात्मनः पत्नीं स्नुषां दशरथस्यच ।

कथं व्याहरतो मां ते न जिह्वा व्यवशीर्यते ॥१९

असंदेशात्तु रामस्य तपसश्चानुपालनात् ।

न त्वां कुर्मि दशग्रीव भस्मभस्मार्हतेजसा ॥२०

नापहर्तु महं शक्या त्वया रामस्य धीमतः ।

विधि स्तव वधार्थाय विहितो नात्र संशयः ॥२१

शूरेण धनदभ्रात्राबलैस्समुदितेन च ।

अपोह्य रामं कस्माद्धि दारचौर्यं त्वया कृतम् ॥२२

सीताया वचनं श्रुत्वा रावणो राक्षसाधिपः ।

विवृत्य नयने क्रूरे जानकी मन्ववैक्षत ॥२३

नीलजीमूतसंकाशो महाभुजशिरोधरः ।

सिंहसत्त्वगतिश्श्रीमान् दीप्तजिह्वाग्रलोचनः ॥२४

चलाग्रमकुटप्रांशु श्वित्रमाल्यानुलेपनः ।

रक्तमाल्यांबरधरस्तप्तांगदविभूषणः ॥२५

श्रोणिसूत्रेण महता मेचकेन सुसंवृतः ।

अमृतोत्पादनद्धेन भुजगेनेव मंदरः ॥२६

ताभ्यां स परिपूर्णाभ्यां भुजाभ्यां राक्षसेश्वरः ।

शुशुभेऽचलसंकाशशृंगाभ्यामिव मंदरः ॥२७

तरुणादित्यवर्णाभ्यां कुंडलाभ्यां विभूषितः ।

रक्तपल्लवपुष्पाभ्या मशोकाभ्या मिवाचलः ॥२८

स कल्पवृक्षप्रतिमो वसंत इव मूर्तिमान् ।

श्मशानचैत्यप्रतिमो भूषितोऽपि भयंकरः ॥२९

अवेक्षमाणो वैदेहीं कोपसंरक्तलोचनः ।

उवाच रावण स्सीतां भुजंग इव निश्श्वसन् ॥३०

अनयेनाभिसंपन्न मर्थहीन मनुव्रते ।

नाशयाम्यह मद्य त्वां सूर्य स्संध्यामिवौजसा ॥३१

इत्युक्त्वा मैथिलीं राजा रावण श्शत्रुरावणः ।

संदिदेश तत स्सर्वा राक्षसी र्घोरदर्शनाः ॥३२

एकाक्षी मेककर्णांच कर्णप्रावरणां तथा ।

गोकर्णीं हस्तिकर्णींच लंबकर्णी मकर्णिकाम् ॥३३

हस्तिपाद्यश्वपाद्यौच गोपादीं पादचूलिकाम् ।

एकाक्षी मेकपादींच पृथुपादी मपादिकाम् ॥३४

अतिमात्रशिरो ग्रीवा मतिमात्रकुचोदरीम् ।

अतिमात्रास्यनेत्रांच दीर्घजिह्वा मजिह्विकाम् ॥३५

अनासिकां सिंहमुखीं गोमुखीं सूकरीमुखीम् ।

यथा मद्वशगा सीता क्षिप्रं भवति जानकी ॥३६

तथा कुरुत राक्षस्य स्सर्वाः क्षिप्रं समेत्य च ।

प्रतिलोमानुलोमैश्च सामदानादि भेदनैः ॥३७

आवर्जयत वैदेहीं दंडस्योद्यमनेन च ।

इति प्रतिसमादिश्य राक्षसेंद्रः पुनःपुनः ॥३८

काममन्यु परीतात्मा जानकीं पर्यतर्जयत् ।

उपगम्य ततः क्षिप्रं राक्षसी धान्यमालिनी ॥३९

परिष्वज्य दशग्रीव मिदं तचन मब्रवीत् ।

मया क्रीड महाराज सीतया किं तवानया ॥४०

विवर्गया कृपणया मानुष्या राक्षसेश्वर ।

नून मस्या महाराज न दिव्यान्भोगसत्तमान् ॥४१

विदधात्यमरश्रेष्ठस्तव बाहुवलार्जितान् ।

अकामां कामयानस्य शरीर मुपतप्यते ॥४२

इच्छंतीं कामयानस्य प्रीतिर्भवति शोभना ।

एवमुक्तस्तु राक्षस्या समुत्क्षिप्तस्ततोबली ॥४३

प्रहसन्मेघसंकाशो राक्षस स्सन्यवर्तत ।

प्रस्थित स्स दशग्रीवः कंपयन्निव मेदिनीम् ॥४४

ज्वलद्भास्करवर्णाभं प्रविवेश निवेशनम् ।

देवगंधर्वकन्याश्च नागकन्याश्च सर्वतः ।

परिवार्य दशग्रीवं विविशुस्तं गृहोत्तमम् ॥४५

स मैथिली धर्मपरा मवस्थितां

प्रवेपमानां परिभ रावगः ।

विहाय सीतां मदनेन मोहित

स्स्वमेव वेश्म प्रविवेश भास्वरम् ‌॥४६

इति श्रीमत्सुन्दरकाण्डे द्वाविंशस्सर्गः॥
<MISSING_FIG href="../books_images/U-IMG-170426209716.png"/>

॥ त्रयोविंशस्सर्गः ॥

इत्युत्तवा मैथिलीं राजा रावण श्शत्रुरावगः ।

संदिश्यच ततस्सर्वा राक्षसीर्निर्जगाम ह ॥१

निष्क्रांते रातुसेंन्दे तु पुन रंतःपुरं गते ।

राक्षस्यो भीमरूपा स्ता स्सीतां समभिदुद्रुवुः ॥२

तत स्सीता मुपागम्य राक्षस्यः क्रोधमूर्छिताः ।

परं परुषया वाचा वैदेही मिद मब्रुवन् ॥३

पौलस्त्यस्य वरिष्ठस्य रावणस्य महात्मनः ।

दशग्रीवस्य भार्यात्वं सीते न बहुमन्यसे ॥४

ततस्त्वेकजटा नाम राक्षसी वाक्य मत्रवीत् ।

आमन्त्र्य क्रोधताम्राक्षी सीतां करतलोदरीम् ॥५

प्रजापतीनां षण्णांतु चतुर्थो यः प्रजापतिः ।

मानसो ब्रह्मणः पुत्त्रःपुलस्त्य इति विश्रुतः ॥६

पुलस्त्यस्य तु तेजस्वी महर्षिर्मानस स्सुतः ।

नाम्ना स विश्रवानाम प्रजाप्रतिसमप्रभः ॥७

तस्य पुत्तो विशालाक्षि रावण श्शत्रुरावणः ।

तस्य त्वं राक्षसेंद्रस्य भार्या भवितु मर्हसि ॥८

मयोक्तं चारुसर्वांगि वाक्यं किंनानुमन्यसे ।

ततो हरिजटा नाम राक्षसीवाक्यमब्रवीत् ॥९

विवर्त्य नयने कोपान्मार्जारसदृशेक्षणा ।

येनदेवास्त्रयस्त्रिंशद्देवरराजश्चनिर्जिताः॥१०

तस्य त्वं राक्षसेंद्रस्य भार्या भवितु मर्हसि ।

तत स्तु प्रघसा नाम राक्षसी क्रोधमूर्छिता ॥११

भर्त्सयंती तदा घोर मिदं वचन सव्रवीत् ।

वीर्योत्सिक्तस्य शूरस्य संग्रामेष्वनिवर्तिनः ॥१३

बलिनो वीर्ययुक्तस्य भार्यात्वं किं नलप्स्यसे ।

प्रियां बहुमतां भार्यां त्यक्त्वा राजा महाबलः ॥१३

सर्वासां च महाभागां त्वा मुपैष्यति रावणः ।

समृद्धं स्त्रीसहस्रेण नानारत्नोपशोभितम् ॥१४

अंतःपुरं समुत्सृज्य त्वा मुपैष्यति रावणः ।

अन्यातु विकटानाम राक्षसी वाक्य मब्रवीत् ॥१५

असकृद्देवतायुद्धे नागगन्धर्वदानवाः ।

निर्जिता स्समरेयेन स ते पार्श्वमुपागतः ॥१६

तस्य सर्वसमृद्धस्य रावणस्य महात्मनः ।

कि मद्य राक्षसेंद्रस्य भार्यात्वं नेच्छसेऽधमे ? ॥१७

तत स्तु दुर्मुखीनाम राक्षसी वाक्यमब्रवीत् ।

यस्य सूर्यो न तपति भीतो यस्य च मारुतः ॥१८

नवाति स्मायतापांगे किं त्वं तस्य नतिष्ठसि ? ।

पुष्पवृष्टिं च तरवो मुमुचु र्यस्य वैभयात् ॥१९

शैलाश्च सुभ्रु पानीयं जलदाश्च यदेच्छति ।

तस्य नैर्ऋतराजस्य राजराजस्य भामिनि ॥२०

किं त्वं न कुरुषे बुद्धिं भार्यार्थे रावणस्य हि ।

साधुते तत्त्वतो देवि कथितं साधु भामिनि ॥२१

गृहाण सुस्मिते वाक्य मन्यथा न भविष्यसि ।

इति श्रीमत्सुन्दरकाण्डे त्रयोविंशस्सर्गः ॥
<MISSING_FIG href="../books_images/U-IMG-170426229016.png"/>

॥ चतुर्विंशस्सर्गः ॥

तत स्सीता मुपागम्य राक्षस्यो विकृताननाः ।

परुषं परुषानार्हामूचुस्तां वाक्यमप्रियम् ॥१

किं त्व मंतःपुरे सीते सर्वभूतमनोहरे ।

महार्हशयनोपेते न वास मनुमन्यसे ॥२

मानुषी मानुषस्यैव भार्यात्वं बहुमन्यसे ।

प्रत्याहर मनो रामा न्नत्वं जातु भविष्यसि ॥३

त्रैलोक्यवसुभोक्तारं रावणं राक्षसेश्वरम् ।

भर्तार मुपसंगम्य विहरस्व यथासुखम् ॥४

मानुषी मानुषं तं तु राम मिच्छसि शोभने ।

राज्याद्भष्ट मसिद्धार्थं विक्लवं त्वमनिंदिते ॥५

राक्षसीनां वचश्श्रुत्वा सीता पद्मनिभेक्षणा ।

नेत्राभ्या मश्रुपूर्णाभ्या मिदं वचन मब्रवीत् ॥६

यदिदं लोकविद्विष्ट मुदाहरथ संगताः ।

नैतन्मनसि वाक्यं मे किल्बिषं प्रतिभाति वः ॥७

न मानुषी राक्षसस्य भार्या भवितु मर्हति ।

कामं खादत मांसर्वा न करिष्यामि वो वचः ॥८

दीनो वा राज्यहीनो वा यो मे भर्ता समे गुरुः ।

तं नित्य मनुरक्ताऽस्मि यथासूर्यं सुवर्चला ॥९

यथा शची महाभागा शक्रं समुपतिष्ठति ।

अरुंधती वसिष्ठंच रोहिणी शशिनं यथा ॥१०

लोपामुद्रायथाऽगस्त्यं सुकन्या च्यवनं यथा ।

सावित्री सत्यवंतंच कपिलं श्रीमती यथा ॥११

सौदासं मदयंतीव केशिनी सगरं यथा ।

नैषधं दमयंतीव भैमी पति मनुव्रता ॥१२

तथाऽह मिक्ष्वाकुवरं रामं पति मनुव्रता ।

सीताया वचनं श्रुत्वा राक्षस्यः क्रोधमूर्छिताः ॥१३

भर्त्सयंतिस्म परुषै र्वाक्यै रावणचोदिताः ।

अवलीन स्स निर्वाक्यो हनुमान्शिंशुपाद्रुमे ॥१४

सीतां संतर्जयंती स्ता राक्षसी रशृणोत्कपिः ।

ता मभिक्रम्य संक्रुद्धा वेपमानां समंततः ॥१५

भृशं संलिलिहुर्दीप्तान्प्रलंबान्दशनच्छदान् ।

ऊचुश्च परमक्रुद्धाः प्रगृह्याशु परश्वधान् ॥१६

नेय मर्हति भर्तारं रावणं राक्षसाधिपम् ।

सा भर्त्स्यमाना भीमाभी राक्षसीभिर्वरानना ॥१७

सा बाष्प मपमार्जंती शिंशुपां ता मुपागमत् ।

तत स्तां शिशुपां सीता राक्षसीभि स्समावृता ॥१८

अभिगम्य विशालाक्षी तस्थौ शोकपरिप्लुता ।

तां कृशां दीनवदनां मलिनांबरधारिणीम् ॥१९

भर्त्सयांचक्रिरे सीतां राक्षस्य स्तां समन्ततः ।

ततस्तां विनतानाम राक्षसी भीमदर्शना ॥२०

अव्रवी त्कुपिताकारा कराला निर्णतोदरी ।

सीते पर्याप्तमेताव द्भर्तु स्स्नेहोनिदर्शितः ॥२१

सर्वत्रातिकृतं भद्रे व्यसनायोपकल्पते ।

परितुष्टाऽस्मि भद्रंते मानुषस्ते कृतो विधिः ॥२२

ममा पितु वचः पथ्यं ब्रुवंत्याः कुरु मैथिलि ।

रावणं भज भर्तारं भर्तारं सर्वरक्षसाम् ॥२३

विक्रांतं रूपवंतंच सुरेशमिव वासवम् ।

दक्षिणं त्यागशीलंच सर्वत्य प्रियदर्शनम् ॥२४

मानुषं कृपणं रामं त्यत्तवा रावण माश्रय ।

दिव्यांगरागावैदेहि दिव्याभरणभूषिता ॥२५

अद्यप्रभृति सर्वेषां लोकाना मीश्वरी भव ।

अग्रेस्स्वाहा यथा देवी शचीवेंद्रस्य शोभने ॥२६

किं ते रामेण वैदेहि कृपणेन गतायुषा ।

एत दुक्तंच मे वाक्यं यदित्वं न करिष्यसि ॥२७

अस्मिन्मुहूर्ते सर्वा स्त्वां भक्षयिष्यामहे वयम् ।

अन्यातु विकटा नाम लंबमानपयोधरा ॥२८

अब्रवी त्कुपिता सीतां मुष्टि मुद्यम्य गर्जती ।

बहून्यप्रियरूपाणि वचनानि सुदुर्मते ॥२९

अनुक्रोशा न्मृदुत्वा च्च सोढानि तव मैथिलि ।

न चनः कुरुषे वाक्यं हितं कालपुरस्कृतम् ॥३०

आनीताऽसि समुद्रस्य पार मन्यैर्दुरासदम् ।

रावणांतःपुरं घोरं प्रविष्टा चासि मैथिलि ॥३१

रावणस्य गृहे रुद्धा मस्माभि स्तु सुरक्षिताम् ।

न त्वां शक्तः परित्रातु मपिसाक्षा त्पुरंदरः ॥३२

कुरुष्व हितवादिन्या वचनं मम मैथिलि ।

अल मश्चुप्रपातेन त्यज शोक मनर्थकम् ॥३३

भज प्रीतिं च हर्षं च त्यजैतां नित्यदैन्यताम् ।

सीते राक्षसराजेन सह क्रीड यथासुखम् ॥३४

जानासि हि यथा भीरु स्त्रीणां यौवन मध्रुवम् ।

यावन्नते व्यतिक्रामे त्ताव त्सुख मवाप्नुहि ॥३५

उद्यानानि च रम्याणि पर्वतोपवनानिच ।

सह राक्षसराजेन चर त्वं मदिरेक्षणे ॥३६

स्त्रीसहस्राणि ते देविवशे स्थास्यति सुंदरि ।

रावणं भज भर्तारं भर्तारं सर्वरक्षसाम् ॥३७

उत्पाट्य वा ते हृदयं भक्षयिष्यामि मैथिलि ।

यदि मे व्याहृतं वाक्यं न यथावत्करिष्यसि ॥३८

तत श्चंडोदरी नाम राक्षसी क्रोधमूर्छिता ।

भ्रामयंती मह च्छूल मिदं वचन मब्रवीत् ॥३९

इमां हरिणलोलाक्षीं त्रासोत्कंपिपयोधराम् ।

रावणेन हृतां दृष्ट्वा दौर्हृदो मे महा नभूत् ॥४०

यकृत्प्लीह मथोत्पीडं हृदयं च सबंधनम् ।

आंत्राण्यपि तथाशीर्षं खादेय मितिमे मतिः ॥४१

तत स्तुप्रघसा नाम राक्षसी वाक्य मब्रवीत् ।

कंठ मस्या नृशंसायाःपीडयाम कि मास्यते ॥४२

निवेद्यतां ततो राज्ञे मानुषी सां मृतेति ह ।

नात्र कश्चन संदेहः खादतेति स वक्ष्यति ॥४३

तत स्त्वजामुखी नाम राक्षसी वाक्य मब्रवीत् ।

विशस्येमां ततस्सर्वा स्समान्कुरत पीलुकान् ॥४४

विभजाम तत स्सर्वा विवादो मे न रोचते ।

पेय मानीयतां क्षिप्रं लेह्य मुच्चावचं बहु ॥४५

तत श्शूर्पणखा नाम राक्षसी वाक्य मव्रवीत् ।

अजामुख्या यदुक्तं हि तदेव मम रोचते ॥४५

सुरा चानीयतां क्षिप्रं सर्वशोकविनाशिनी ।

मानुषं मांस मास्वाद्य नृत्यामोऽथनिकुंभिलाम् ॥४७

एवं संभर्त्स्यमाना सा सीता सुरसुतोपमा ।

राक्षसीभि स्सुघोराभि र्धैर्य मुत्सृज्य रोदिति ॥४८

इति श्रीमत्सुन्दरकाण्डे चतुर्विंशस्सर्गः ॥
<MISSING_FIG href="../books_images/U-IMG-170426273916.png"/>

श्रीमद्रामायणे सुन्दरकाण्डे
॥ पञ्चविंशस्सर्गः ॥

तथा तासां वदंतीनां परुषं दारुणं बहु ।

राक्षसीना मसौम्यानां रुरोद जनकात्मजा ॥१

एवमुक्तातु वैदेही राक्षसीर्भिमनस्विनी ।

उवाच परमत्रस्ता बाष्पगद्गदया गिरा ॥२

न मानुषी राक्षसस्य भार्या भवितु मर्हति ।

कामं खादत मां सर्वां न करिष्यामि वो वचः ॥३

सा राक्षसीमध्यगता सीता सुरसुतोपमा ।

न शर्मालेभे दुःखार्ता रावणेन च तर्जिता ॥४

वेपतेस्माधिकं सीता विशंती वांग मात्मनः ।

वने यूथपरिभ्रष्टा मृगी कोकैरिवार्दिता ॥५

सा त्वशोकस्य विपुलां शाखा मालंब्य पुष्पिताम् ।

चिंतयामास शोकेन भर्तारं भग्नमानसा ॥६

सा स्त्रापयंती विपुलौ स्तनौ नेत्रजलस्रवैः ।

चिंतयंती न शोकस्य तदांत मधिगच्छति ॥७

सा वेपमाना पतिता प्रवाते कदलीयथा ।

राक्षसीनां भयत्रस्ता विवर्णवदनाऽभवत् ॥८

तस्या स्सा दीर्घविपुला वेपंत्याःसीतया तदा ।

ददृशे कंपिनी वेणी व्यालीव परिसर्पती ॥९

सा निश्श्वसंती दुःखार्ता शोकोपहतचेतना ।

आर्ता व्यसृजदश्रूणि मैथिली विललाप ह ॥१०

हा रामेति च दुःखार्ता हा पुनर्लक्ष्मणेति च ।

हा श्वश्रु मम कौसल्ये हा सुमित्रेति भामिनी ॥११

लोकप्रवाद स्सत्योऽयं पंडितै स्समुदाहृतः ।

अकाले दुर्लभो मृत्यु स्स्त्रिया वा पुरुषस्यवा ॥१२

यत्राह मेवं क्रूरामी राक्षसीभि रिहार्दिता ।

जीवामि हीना रामेण मुहूर्त मपि दुःखिता ॥१३

एषाऽल्पपुण्या कृपणा विनशिष्याम्यनाथवत् ।

समुद्रमध्ये नौः पूर्णा वायुवेगै रिवाहता ॥१४

भर्तारं त मपश्यंती राक्षसीवश मागता ।

सीदामि खलु शोकेन कूलं तोयहतं यथा ॥१५

तं पद्मदलपत्ताक्षं सिंहविक्रांतगामिनम् ।

धन्याः पश्यंति मे नाथं कृतज्ञं प्रियवादिनम् ॥१६

सर्वधा तेन हीनाया रामेण विदितात्मना ।

तीक्ष्णं विष मिवास्वाद्य दुर्लभं मम जीवितम् ॥१७

कीदृशं तु मया पापं पुरा जन्मांतरे कृतम् ।

येनेदं प्राप्यते दुःखं मया घोरं मुदारुणम् ॥१८

जीवितं त्यक्तु मिच्छामि शोकेन महतावृता ।

राक्षसीभिश्च रक्षंत्या रामो नासाद्यते मया ॥१९

धिगस्तु खलु मानुष्यं धिगस्तु परवश्यताम् ।

न शक्यं य त्परित्यक्तु मात्मच्छंदेन जीवितम् ॥२०

इति श्रीमत्सुन्दरकाण्डे पञ्चविंशस्सर्गः ॥
<MISSING_FIG href="../books_images/U-IMG-170426589016.png"/>

श्रीमद्रामायणे सुन्दरकाण्डे
॥ षड्विंशस्सर्गः ॥

प्रसक्ताश्रुमुखी त्येवं ब्रुवती जनकात्मजा ।

अधोमुखमुखी बाला विलप्तु मुपचक्रमे ॥१

उन्मत्तेव प्रमत्तेव भ्रांतचित्तेव शोचती ।

उपावृत्ता किशोरीव विवेष्टंती महीतले ॥२

राघवस्य प्रमत्तस्य रक्षसा कामरूपिणा ।

रावणेन प्रमथ्या ह मानीता क्रोशती बलात् ॥३

राक्षसी वशमापन्ना भर्त्स्यमाना सुदारुणम् ।

चिंतयंती सुदुःखार्ता नाहं जीवितु मुत्सहे ॥४

न हि मे जीविते नार्थो नैवार्थैर्नच भूषणैः ।

वसंत्या राक्षसीमध्ये विना रामं महारथम् ॥५

अश्मसार मिदं नून मथवाध्य जरामरम् ।

हृदयं मम येनेदं न दुःखेनावशीर्यते ॥६

धिड्मामनार्या मसतीं याऽहं तेन विनाकृता ।

मुहूर्त मपि रक्षामि जीवितं पापजीविता ॥७

का च मे जीविते श्रद्धा सुखे वा तं प्रियं विना ।

भर्तारं सागरांताया वसुधायाः प्रियंवदम् ॥८

भिद्यतां भक्ष्यतां वापि शरीरं विसृजाम्यहम् ।

नचाप्यहं चिरंदुःखं सहेयं प्रियवर्जिता ॥९

चरणेनापि सव्येन नस्पृशेयं निशाचरम् ।

रावणं किंपुन रहं कामयेयं विगर्हितम् ॥१०

प्रत्याख्यातं नजानाति नात्मानं नात्मनः कुलम् ।

यो नृशंसस्वभावेन मां प्रार्थयितु मिच्छति ॥११

छिन्ना भिन्ना विभक्ता वा दीप्ते वाऽग्नौप्रदीपिता ।

रावणं नोपतिष्ठेयं किं प्रलापेन वश्चिरम् ॥१२

ख्यातः प्राज्ञः कृतज्ञ श्च सानुक्रोशश्च राघवः ।

सद्वृत्तो निरनुक्रोश श्शंके मद्भाग्यसंक्षयात् ॥१३

राक्षसानां सहस्राणि जनस्थाने चतुर्दश ।

येनैकेन निरस्तानि स मां किं नाभिपद्यते ॥१४

निरुद्धा रावणेनाह मल्पवीर्येण रक्षसा ।

समर्थः खलु मे भर्ता रावणं हंतु माहवे ॥१५

विराधो दण्डकारण्ये येन राक्षसपुंगवः ।

रणे रामेण निहत स्स मां किं नाभिपद्यते ॥१६

कामं मध्ये समुद्रस्य लंकेयं दुष्प्रधर्षणा ।

नतु राघवबाणानां गतिरोधीह विद्यते ॥१७

किन्नु तत्कारणं येन रामो दृढपराक्रमः ।

रक्षसापहृतां भार्या मिष्टां नाभ्यवपद्यते ॥१८

इहस्थां मां न जानीते शंके लक्ष्मणपूर्वजः ।

जानन्नपिहि तेजस्वी घर्षणं मर्षयिष्यति ॥१९

हृतेति योऽधिगत्वा मां राघवाय निवेदयेत् ।

गृध्रराजोऽपि स रणे रावणेन निपातितः ॥२०

कृतंकर्म महत्तेन मां तथाऽभ्यवपद्यता ।

तिष्ठता रावणद्वंद्वे वृद्धेनापि जटायुषा ॥२१

यदि मा मिह जानीया द्वर्तमानां स राघवः ।

अद्य बाणै रभिक्रुद्धः कुर्याल्लोक मराक्षसम् ॥२२

विधमे च्च पुरीं लंकां शोषये च्च महोदधिम् ।

रावणस्य च नीचस्य कीर्तिं नाम च नाशयेत् ॥२३

ततो निहतनाथानां राक्षसीनां गृहेगृहे ।

यथाह मेवं रुदती तथा भूयो न संशयः ॥२४

अन्विष्य रक्षसां लंकां कुर्या द्राम स्स लक्ष्मणः ।

न हि ताभ्यां रिपुर्दृष्टो मुहूर्तमपि जीवति ॥२५

चिताधूमाकुलपथा गृध्रमण्डलसंकुला ।

अचिरेण तु लंकेयं श्मशानसदृशी भवेत् ॥२६

अचिरेणैव कालेन प्राप्स्याम्येव मनोरथम् ।

दुष्प्रस्थानोऽय माख्याति सर्वेषां वो विपर्ययम् ॥२७

यादृशानीह दृश्यंते लंकाया मशुभानिवै ।

अचिरेण तु कालेन भविष्यति हतप्रभा ॥२८

नूनं लंका हते पापे रावणे राक्षसाधमे ।

शोषं यास्यति दुर्धर्षा प्रमदा विधवा यथा ॥२९

पुण्योत्सवसमुत्थाच नष्टभर्त्री सराक्षसी ।

भविष्यति पुरी लंका नष्टभर्त्री यथाऽङ्गना ॥३०

नूनं राक्षसकन्यानां रुदैतीनां गृहेगृहे ।

श्रोष्यामि न चिरादेव दुःखार्ताना मिह ध्वनिम् ॥३१

सांधकारा हतद्योता हतराक्षसपुङ्गवा ।

भविष्यति पुरीलंका निर्दग्धा रामसायकैः ॥३२

यदि नाम स शूरो मां रामो रक्तांतलोचनः ।

जानीया द्वर्तमानां हि रावणस्य निवेशने ॥३३

अनेन तु नृशंसेन रावणेनाधमेनमे ।

समयो यस्तु निर्दिष्ट स्तस्यकालोऽय मागतः ॥३४

[ सचमे विहितो मृत्यु रस्मिन्दुष्टेनवर्तते]

अकार्यं ये नजानंति नैर्ॠताः पापकारिणः ।

अधर्मात्तु ममोत्पातो भविष्यति हि सांप्रतम् ॥३५

नैते धर्मं विजानंति राक्षसाः पिशिताशनाः ।

ध्रुवं मां प्रात राशार्थे राक्षसः कल्पयिष्यति ॥३६

साऽहं कथं करिष्यामि तं विना प्रियदर्शनम् ।

रामं रक्तांतनयन मपश्यंती सुदुःखिता ॥३७

यदि कश्चि त्प्रदाता मे विषस्याद्यभवेदिह ।

क्षिप्रं वैवस्वतं देवं पश्येयं पतिना विना ॥३८

नाजाना ज्जीवतीं राम स्स मां लक्ष्मणपूर्वजः ।

जानतौ तौ न कुर्यातां नोर्व्यां हि मम मार्गणम् ॥३९

नूनं ममैव शोकेन सवीरो लक्ष्मणाग्रजः ।

देवलोक मितो यात स्त्यक्त्वा देहं महीतले ॥४०

धन्या देवा स्सगंधर्वा सिद्धाश्च परमर्षयः ।

मम पश्यंति ये नाथं रामं राजीवलोचनम् ॥४१

अथवा किन्नु तस्यार्थो धर्मकामस्य धीमतः ।

मया रामस्य राजर्षेर्भार्यया परमात्मनः ॥४२

दृश्यमाने भवेत्प्रीति स्सौहृदं नास्त्यपश्यतः ।

नाशयंति कृतघ्नास्तु न रामो नाशयिष्यति ॥४३

किं नु मे न गुणाः केचित्किंवा भाग्यक्षयो मम ।

याऽहं सीदामि रामेण हीना मुख्येन भामिनी ॥४४

श्रेयो मे जीवितान्मर्तुं विहीनाया महात्मनः ।

रामा दक्लिष्टचारित्रा च्छूरा च्छत्रुनिबर्हणात् ॥४५

अथवान्यस्तशस्त्रौतौ वने मूलफलाशिनौ ।

भ्रातरौ हि नरश्रेष्ठौ संवृत्तौ वनगोचरौ ॥४६

अथवा राक्षसेंद्रेण रावणेन दुरात्मना ।

छद्मना घातितौ शूरौ भ्रातरौ रामलक्ष्मणौ ॥४७

साऽह मेवंगते काले मर्तु मिच्छामि सर्वदा ।

नचमे विहितो मृत्यु रस्मिन्दुःखेऽपि वर्तति ॥४८

धन्याः खलु महात्मानो मुनयस्त्यक्तकिल्बिषाः ।

जितात्मानो महाभागा येषां न स्तः प्रियाप्रिये ॥४९

प्रियान्न संभवेदुःख मप्रिया दधिकं भयम् ।

ताभ्यां हि ये वियुज्यंते नमस्तेषां महात्मनाम् ॥५०

साऽहं त्यक्ता प्रियार्हेण रामेण विदितात्मना ।

प्राणांस्त्यक्ष्यामि पापस्य रावणस्य गता वशम् ॥५१

इति श्रीमत्सुन्दरकाण्डे षड्विंशस्सर्गः ॥
<MISSING_FIG href="../books_images/U-IMG-170426622616.png"/>

॥ सप्तविंशस्सर्गः ॥

इत्युक्ता स्सीतया घोरा राक्षस्यः क्रोधमूर्छिताः ।

काश्चिज्जग्मुस्तदाख्यातुं रावणस्य तरस्विनः ॥१

तत स्सीता मुपागम्य राक्षस्यो घोरदर्शनाः ।

पुनः परुष मेकार्थ मनर्थार्थ मथाब्रुवन् ॥२

अद्येदानीं तवानार्ये सीते पापविनिश्चये ।

राक्षस्यो भक्षयिष्यंति मांस मेत द्यथासुखम् ॥३

सीतां ताभि रनार्याभि र्दृष्ट्वा संतर्जितां तदा ।

राक्षसी त्रिजटा वृद्धा (शयाना) वाक्य मब्रवीत् ॥४

अत्मानं खादतानार्या न सीतां भक्षयिष्यथ ।

जनकस्य सुता मिष्टां स्नुषां दशरथस्यच ॥५

स्वप्नो ह्यद्य मया दृष्टो दारुणो रोमहर्षणः ।

राक्षसाना मभावाय भर्तुरस्याजयायच ॥६

एव मुक्ता स्त्रिजटया राक्षस्यः क्रोधमूर्छिताः ।

सर्वा एवा ब्रुवन्भीता स्त्रिजटां ता मिदंवचः ॥७

कथयस्व त्वयादृष्टः स्वप्नोऽयं कीदृशो निशि ।

तासां श्रुत्वातु वचनं राक्षसीनां मुखाच्च्युतम् ॥८

उवाच वचनं काले त्रिजटा स्वप्नसंश्रितम् ।

गजदन्तमयीं दिव्यां शिबिका मंतरिक्षगाम् ॥९

युक्तां हंससहस्रेण स्वय मास्थाय राघवः ।

शुक्लमाल्यांबरधरो लक्ष्मणेन सहागतः ॥१०

स्वप्नेचाद्य मयादृष्टा सीता शुक्लांबरावृता ।

सागरेण परिक्षिप्तं श्वेतं पर्वत मास्थिता ॥११

रामेण संगता सीता भास्करेण प्रभा यथा ।

राघवश्च मयादृष्ट श्चतुर्दंतं महागजम् ॥१२

आरूढ श्शैलसंकाशं चचार सह लक्ष्मणः ।

तत स्तौ नरशार्दूलौ दीप्यमानौ स्वतेजसा ॥१३

शुक्लमाल्यांबरधरौ जानकीं पर्युपस्थितौ ।

ततस्तस्य नगस्याग्रे ह्याकाशस्थस्य दंतिनः ॥१४

भर्त्रा परिगृहीतस्य जानकीस्कंधमाश्रिता ।

भर्तुरंका त्समुत्पत्य ततः कमललोचना ॥१५

चन्द्रसूर्यौ मया दृष्टा पाणिना परिमार्जती ।

तत स्ताभ्यां कुमाराभ्या मास्थितस्स गजोत्तमः ॥१६

सीतया च विशालाक्ष्या लङ्काया उपरिस्थितः ।

पाण्डुरर्षभयुक्तेन रथेनाष्ट्युजा स्वयम् ॥१७

[ शुक्लमाल्याम्बरधरो लक्ष्मणेन सहागतः ।

ततोऽन्यत्र मयादृष्टो रामस्सत्यपराक्रमः।

इहोपयातः काकुत्स्थस्सीतया सह भार्यया ।

[ साण्डं त्रिभुवनं सर्वं सर्वतस्सचराचरम् ।

सर्वं ग्रस्तं मयादृष्टं रामेणाक्लिष्टकर्मणा ॥

क्षीरोदाघिजले मध्ये श्वेतश्शैलस्समुच्छ्रितः ।

तस्य मूर्ध्नि तत श्श्वेत श्चतुर्दन्तो महागजः ॥

तस्य पृष्ठे स्थितः श्रीमान्रामो राजीवलोचनः ।

तत स्सीता समुत्पत्य भर्तुरङ्काश्रिता तदा ॥

बाहुभ्यां संपरिष्वज्य संपूर्णं चन्द्रमण्डलम् ।

ततोऽन्यत्र मया दृष्टो रामो राजीवलोचनः ॥

आसीनः प्राङ्मुखः श्रीमा नासने परमाद्भुते ।

अभिषिक्तस्तु काकुत्स्थःसर्वदेवैर्नमस्कृतः ॥

स ब्रह्मर्षिगणै स्सर्वैः सर्वतीर्थजलेन च ।

शुक्लमाल्याम्बरधरा शुक्लमाल्यानुलेपना ॥

साधु सा तत्र सुश्रोणी रराज जनकात्मजा ।

ततो देवा स्सगन्धर्वाः सिद्धाश्च परमर्षयः ॥

ब्रह्माण मग्रतः कृत्वा रामं तत्र ववन्दिरे ।

पुनरेव मया दृष्टो रामो रमयतां वरः ॥

विष्णु रेव स्वयं भूत्वा तस्मिन्नास्ते वरासने ।

परं ब्रह्म परंतत्त्वं परंज्ञानं परंतपः ॥

परंबीजं परंक्षेत्र परं कारणकारणम् ।

शंखचक्रगदश्श्रीमान्पुंडरीकायतेक्षणः ॥

श्रीवत्सवक्षा नित्यश्री रजेय श्शाश्वतो ध्रुवः ।

एवंभूतो महातेजा रामः कमललोचनः ॥

सर्वलोकेश्वर श्श्रीमान्ससर्ज रघुनन्दनः ।

ततोऽमरेन्द्राः पितरो मुनींद्रा गंधर्व विद्याधर पन्नगेन्द्राः ।

कृताभिषेकं परिवार्य रामं प्रतुष्टुवुः प्राञ्जलयःप्रहृष्टाः ॥

ततस्तु सर्वाप्सरसः प्रहृष्टा नृत्यन्ति गायन्ति समेत्ययत्र ।

वाद्यंप्रकुर्वन्ति समेत्य शंखा वंशाश्च वीणामुरजाश्च भेर्यः ॥

ततोऽन्यत्न मयादृष्टो रामस्सत्यपराक्रमः।

लक्ष्मणेन सहभ्रात्रा सीतया सह वीर्यवान् ॥१८

आरुह्य पुष्पकं दिव्यं विमानं सूर्यसन्निभम् ।

उत्तरां दिश मालोक्य जगाम पुरुषोत्तमः ॥१९

एवं स्वप्ने मया दृष्टो रामो विष्णुपराक्रमः ।

लक्ष्मणेन सह भ्राता सीतया सह राघवः ॥२०

न हि रामो महातेजा श्शक्यो जेतुं सुरासुरैः ।

राक्षसै र्वापिचान्यै र्वा स्वर्गः पापजनैरिव ॥२१

रावणश्चमया दृष्टः क्षितौ तैलसमुक्षितः ।

रक्तवासाः पिब न्मत्तः करवीरकृतस्रजः ॥२२

विमानात्पुष्पका दद्य रावणः पतितो भुवि ।

कृष्यमाणस्त्रिया दृष्टो मुण्डः कृष्णाम्बरः पुनः ॥२३

रथेन स्वरयुक्तेन रक्तमाल्यानुलेपनः ।

पिबं स्तैलं हसन्नृत्यन्भ्रान्तचित्ताकुलेन्द्रियः ॥२४

गर्दभेन ययौ शीघ्रं दक्षिणां दिश मास्थितः ।

पुनरेव मयादृष्टो रावणो राक्षसेश्वरः ॥२५

पतितोऽवाक्छिरा भूमौ गर्दाभा द्भयमोहितः ।

सहसोत्थाय संभ्रान्तो भयार्तो मदविह्वलः ॥२६

उन्मत्तइवदिग्वासा दुर्वाक्यं प्रलपन्बहु ।

दुर्गन्धं दुस्सहं घोरं तिमिरं नरकोपमम् ॥२७

मलपङ्कं प्रविश्याशु मग्नस्तत्र सरावणः \।

[ प्रस्थितो दक्षिणा माशां प्रविष्टःकर्दमह्रदम् । ]

कण्ठे बद्ध्वा दशग्रीवं प्रमदा रक्तवासिनी ॥२८

काली कर्दमलिप्तांगी दिशं याम्यां प्रकर्षति ।

एवं तत्रमया दृष्टः कुम्भकर्णो निशाचरः ॥२९

रावणस्य सुता स्सर्वे दृष्टा स्तैलसमुक्षिताः ।

वराहेण दशग्रीव श्शिंशुमारेण चेन्द्रजित् ॥३०

उष्ट्रेण कुम्भकर्णश्च प्रयातो दक्षिणां दिशम् ।

एकस्तत्र मया दृष्ट श्श्वेतच्छत्रो विभीषणः ॥३१

शुक्लमाल्याम्बरधर श्शुक्लगन्धानुलेपनः ।

शंखदुन्दुभिनिर्घोषैर्नृत्तगीतै रलंकृतः ॥३२

आरुह्य शैलसंकाशं मेघस्तनितनिस्स्वनम् ।

चतुर्दंतं गजं दिव्य मास्ते तत्र विभीषणः ॥३३

चतुर्भिस्सचिवैस्सार्धं वैहायस मुपस्थितः ।

समाजश्च मया दृष्टो गीतवादित्रनिस्स्वनः ॥३४

पिबतां रक्तमाल्यनां रक्षसां रक्तवाससाम् ।

लङ्का चेयं पुरी रम्या सवाजिरथकुञ्जरा ॥३५

सागरे पतिता दृष्टा भग्नगोपुरतोरणा ।

लङ्का दृष्टा मया स्वप्ने रावणेनाभिरक्षिता ॥३६

दुग्धा रामस्य दूतेन वानरेण तरस्विना ।

पीत्वा तैलं प्रनृत्ताश्च प्रहसन्त्यो महास्वनाः ॥३७

लङ्कायां भस्मरूक्षायां प्रविष्टा राक्षसस्त्रियः ।

कुम्भकर्णादय श्चेमे सर्वे राक्षसपुङ्गवाः ॥३८

रक्तं निवसनं गृह्य प्रविष्टा गोमयह्रदे ।

अपगच्छत पयध्वं सीता माप्नोति राघवः ॥३९

घातये त्परमामर्षी सर्वै स्सार्थं हि राक्षसैः ।

[ रावणं राघवो घोरे भार्याहर्तार माहवे । ]

प्रियां बहुमतां भार्यां वनवास मनुव्रताम् ॥४०

भर्त्सितां तर्जितां वापि नानुमंस्यति राघवः ।

तदलं क्रूरवाक्यैर्वस्सान्त्वमेवाभिधीयताम् ॥४१

अभियाचामवैदेही मेतद्धि मम रोचते ।

यस्या मेवंविध स्स्वप्नो दुःखितायां प्रदृश्यते ॥४२

सा दुःखै र्विविधै र्मुक्ता प्रियं प्राप्नो त्यनुत्तमम् ।

भर्त्सिता मपि याचध्वं राक्षस्यः किं विवक्षया ॥४३

राघवाद्धि भयं घोरं राक्षसाना मुपस्थितम् ।

प्रणिपात प्रसन्ना हि मैथिली जनकात्मजा ॥४४

अल मेषा परित्रातुं राक्षस्यो महतो भयात् ।

[तत स्सा ह्रीमती बाला भर्तु र्विजयहर्षिता ।

अवोच द्यदि तत्तथ्यं भवेयं शरणं हि वः ]

अपि चास्या विशालाक्ष्या न किंचि दुपलक्षये ॥४५

विरूप मपि चाङ्गेषु सुसूक्ष्म मपि लक्षणम् ।

छायावैगुण्यमात्रं तु शङ्के दुःख मुपस्थितम् ॥४६

अदुःखार्हामिमां देवीं वैहायस मुपस्थिताम् ।

अर्थसिद्धिन्तु वैदेह्याः पश्याम्यह मुपस्थिताम् ॥४७

राक्षसेन्द्रविनाशं च विजयं राघवस्य च ।

निमित्तभूत मेतत्तु श्रोतु मस्या महत्प्रियम् ॥४८

दृश्यते च स्फुरच्चक्षुः पद्मपत्र मिवायतम् ।

ईषच्च हृषितो वास्या दक्षिणाया ह्यदक्षिणः ॥४९

अकस्मादेव वैदेह्या बाहु रेकःप्रकम्पते ।

करेणुहस्तप्रतिम स्स्तव्यश्चोरु रनुत्तमः ॥५०

वेपमान स्सूचयति राघवं पुरतस्स्थितम् ।

पक्षीच शाखानिलयं प्रविष्टः पुनः पुन श्चोत्तमसांत्ववादी ।

सुस्वागतां वाच मुदीरयाण पुनः पुन श्चोदयतीव हृष्टः ॥५१

इति श्रीमत्सुन्दरकाण्डे सप्तविंशस्सर्गः ॥
<MISSING_FIG href="../books_images/U-IMG-170426499316.png"/>

॥ अष्टाविंशस्सर्गः ॥

सा राक्षसेंद्रस्य वचो निशम्य तद्रावणस्याप्रिय मप्रियार्ता ।

सीता वितत्रास यथा वनांते सिंहाभिपन्ना गजराजकन्या ॥ १

सा राक्षसीमध्यगताचभीरुर्वाग्भिर्भृशं रावणतर्जिताच ।

कान्तारमध्ये विजने विसृष्टा बालेव कन्या विललाप सीता ॥२

सत्यं बतेदं प्रवदन्ति लोके नाकालमृत्यु र्भवतीति सन्तः ।

यत्राह मेवं परिभर्त्स्यमाना जीवामि किंचि त्क्षण मध्यपुण्या ॥३

सुखा द्विहीनं बहुदुःखपूर्ण मिदं तु नूनं हृदयं स्थिरं मे ।

विशीर्यते यन्न सहस्रधाऽद्य वज्राहतं शृङ्गमिवाचलस्य ॥४

नैवास्ति दोषं सम नून मत्र वध्याह मस्याऽप्रियदर्शनस्य ।

भावं नचास्याह मनुप्रदातु मलं द्विजो मन्त्र मिवाद्विजाय ॥५

नूनं ममाङ्गान्यचिरा दुनार्य श्शस्त्रै रिशते श्छेत्स्यति राक्षसेन्द्रः ।

तस्मिन्ननागच्छति लोकनाथे गर्भस्थजन्तो रिव शल्यकृन्तः ॥६

दुःखं बतेदं मम दुःखिताया मासौ चिरायाधिगमिष्यतो द्वौ ।

बद्धस्य वध्यस्य तथा निशान्ते राजापराधादिव तस्करस्य ॥७

हा राम हा लक्ष्मण हा सुमित्रे हा राममातस्सह मे जनन्या ।

एषा विपद्या म्यहमल्पभाग्या महार्णवे नौ रिव मूढवाता ॥८

तरस्विनौ धारयता मृगस्य सत्त्वेन रूपं मनुजेंद्रपुत्तौ ।

नूनं विशस्तौ मम कारणात्तौ सिंहर्षभौ द्वाविव वैद्युतेन ॥९

नूनं स काले मृगरूपधारी मा मल्पभाग्यां लुलुभे तदानीम् ।

यत्रार्यपुत्तुं विससर्ज मूढा रामानुजं लक्ष्मणपूर्वजं च ॥१०

हा राम सत्यव्रत दीर्घवाहो हा पूर्णचंद्रप्रतिमानवक्र ।

हा जीवलोकस्य हितः प्रियश्च वध्या न्नमां वेत्सि हि राक्षसानाम् ॥११

अनन्यदैवत्व मियं क्षमाच भूमौ च शय्या नियमश्च धर्मे ।

पतिव्रतात्वं विफलं ममेदं कृतं कृतघ्नेष्विव मानुषाणाम् ॥१२

मोघो हि धर्मश्चरितो मयाऽयं तथैकपत्नीत्व मिदं निरर्थम् ।

या त्वां न पश्यामि कृशा विवर्णा हीनात्वया संगमने निराशा ॥१३

पितुर्निदेशं नियमेन कृत्वा वनान्निवृत्तश्चरितव्रतश्च ।

स्त्रीभिस्तु मन्ये विपुलेक्षणाभि स्त्वं रंस्यसे वीतभयः कृतार्थः ॥ १४

अहंतु राम त्वयि जातकामा चिरं विनाशाय निबद्धभावा ।

मोघं चरित्वा च तपोव्रतं च त्यक्ष्यामि धिग्जीवित मल्पभाग्या ॥१५

सा जीवितं क्षिप्र महं त्यजेयं विषेण शस्त्रेण शितेन वापि ।

विषस्य दाता नहि मेऽस्तिकश्चि च्छस्त्रस्य वा वेश्मनि राक्षसस्य ॥१६

इतीव देवी बहुधा विलप्य सर्वात्मना राम मनुस्मरन्ती ।

प्रवेपमाना परिशुष्कवक्रा नगोत्तमं पुष्पित माससाद ॥१७

शोकाभितप्ता बहुधा विचिन्त्य सीताऽथ वेण्युद्गथनं गृहीत्वा ।

उद्धध्य वेण्युद्रथनेन शीघ्र महं गमिष्यामि यमस्य मूलम् ॥१८

उपस्थिता सा मृदुसर्वगात्री शाखां गृहीत्वाऽथ नगस्य तस्य ।

तस्यास्तु रामं प्रविचिन्तयंत्या रामानुजं स्वं च कुलं शुभांग्याः ॥१९

शोकानिमिताने तदा बहूनि धैर्यार्जितानि प्रवराणि लोके

प्रादुर्निमित्तानि तदा बभूवुः पुरापि सिद्धान्युपलक्षितानि ॥२०

इति श्रीमत्सुन्दरकाण्डे अष्टाविंशस्सर्गः ॥
<MISSING_FIG href="../books_images/U-IMG-170426515516.png"/>

॥ एकोनत्रिंशस्सर्गः॥

तथा गतांतां व्यथिता मनिंदितां व्यपेतहर्षां परिदीनमानसाम् ।

शुभां निमित्तानि शुभानि भेजिरे नरं श्रिया जुष्टमिवोपजीविनः ॥१

तस्याश्शुभं वाम मरालपक्ष्म राजीवृतं कृष्णविशालशुक्लम् ।

प्रास्पंदतैकं नयनंसुकेश्या मीनाहतं पद्ममिवाभिताम्रम् ॥२

भुजश्च चार्वंचितपीनवृत्तः परार्थ्यकालागरुचंदनार्हः ।

अनुत्तमेनाध्युषितः प्रियेण चिरेण वाम स्समवेपताऽशु ॥३

गजेंद्रहस्तप्रतिमश्च पीनस्तयोर्द्वयो स्संहतयो स्सुजातः ।

प्रस्पंदमानः पुन रूरुरस्या रामं पुरस्तात् स्थित माचचक्षे ॥४

शुभं पुनर्हेमसमानवर्ण मीष द्रजोध्वस्तमिवामलाक्ष्याः ।

वास स्थिताया श्शिखराग्र्यदत्याः किंचि त्परिस्रंसत चारुगात्र्याः ॥५

एतैर्निमित्तै रपरैश्च सुभ्रू स्सम्बोधिता प्रागपि साधु सिद्धैः ।

वातातपक्लान्त मिव प्रणष्टं वर्षेण बीजं प्रतिसञ्जहर्ष ॥६

तस्याः पुनर्बिम्बफलाधरोष्ठं स्वक्षिभ्रु केशान्त मरालपक्ष्म ।

वक्रं बभासे सितशुक्ल दंष्ट्र राहोर्मुखाच्चन्द्र इव प्रमुक्तः ॥७

सा वीतशोका व्यपनीततन्द्री शान्तज्वरा हर्षविवृद्धसत्त्वा ।

अशोभतार्या वदनेन शुक्ले शीतांशुना रात्रि रिवोदितेन ॥८

॥ इति श्रीमत्सुन्दरकाण्डे एकोनत्रिंशस्सर्गः ॥
<MISSING_FIG href="../books_images/U-IMG-170426525916.png"/>

॥ त्रिंशस्सर्गः ॥

हनुमानपि विक्रान्त स्सर्वं शुश्राव तत्त्वतः ।

सीतायास्त्रिजटायाश्च राक्षासीनां च तर्जनम् ॥१

अवेक्षमाणस्तां देवीं देवतामिव नन्दने ।

ततो बहुविधां चिन्तां चिन्तयामास वानरः ॥२

यां कपीनां सहस्राणि सुबहून्ययुतानि च ।

दिक्षु सर्वासु मार्गंते सेय मासादिता मया ॥३

चारेण तु सुयुक्तेन शत्रोश्शक्ति मवेक्षता ।

गूढेन चरतातावदवेक्षित मिदं मया ॥४

राक्षसानां विशेषश्च पुरी चेय मवेक्षिता ।

राक्षसाधिपते रस्य प्रभावो रावणस्य च ॥५

युक्तं तस्याप्रमेयस्य सर्वसत्त्वदयावतः ।

समाश्वासयितुं भार्यां पतिदर्शन कांक्षिणीम् ॥६

अह माश्वासयाम्येनां पूर्णचंद्रनिभाननाम् ।

अदृष्टदुःखां दुःखार्तां दुःखस्यांत मगच्छतीम् ॥७

यद्यप्यह मिमां देवीं शोकोपहतचेतनाम् ।

अनाश्वास्य गमिष्यामि दोषवद्गमनं भवेत् ॥८

गते हि मयि तत्रेयं राजपुत्री यशस्विनी ।

परित्राण मविंदंती जानकी जीवितं त्यजेत् ॥९

मया च स महाबाहुः पूर्णचंद्र निभाननः ।

समाश्वासयितुं न्याय्य स्सीतादर्शनलालसः ॥१०

निशाचरीणां प्रत्यक्ष मनर्हंचापि भाषणम् ।

कथंनु खलु कर्तव्य मिदं कृच्छ्रगतोह्यहम् ॥११

अनेन रात्रिशेषेण यदि नाश्वास्यते मया ।

सर्वधा नास्ति संदेहः परित्यक्ष्यति जीवितम् ॥१२

रामश्च यदि पृच्छेन्मां किं मां सीताऽब्रवीद्वचः ।

कि महं तं प्रतिब्रूया मसंभाष्य सुमध्यमाम् ॥१३

सीतासंदेशरहितं मा मित स्त्वरया गतम् ।

निर्दहे दपि काकुत्स्थः क्रुद्ध स्तीव्रेग चक्षुषा ॥१४

यदि चोद्योजयिष्यामि भर्तारं रामकारणात् ।

व्यर्थ मागमनं तस्य ससैन्यस्य भविष्यति ॥१५

अन्तरं त्वह मासाद्य राक्षसीना मिह स्थितः ।

शनै राश्वासयिष्यामि सन्तापबहुला मिमाम् ॥१६

अहं त्वतितनुश्चैव वानरश्च विशेषतः ।

वाचंचोदाहरिष्यामि मानुषी मिह संस्कृताम् ॥१७

यदि वाचं प्रदास्यामि द्विजाति रिव संस्कृताम् ।

रावणं मन्यमाना मां सीता भीता भविष्यति ॥१८

वानरस्य विशेषेण कथं स्यादभिभाषणम् ।

अवश्य मेव वक्तव्यं मानुषं वाक्य मर्थवत् ॥१९

मया सांत्वयितुं शक्या नान्यथेय मनिन्दिता ।

सेय मालोक्य मे रूपं जानकीभाषितं तथा ॥२०

रक्षोभि स्त्रासिता पूर्वं भूय स्त्रासं गमिष्यति ।

ततो जातपरित्रासा शब्दं कुर्यान्मनस्विनी ॥२१

जानमाना विशालाक्षी रावणं कामरूपिणम् ।

सीतया च कृते शब्दे सहसा राक्षसीगणः ॥२२

नानाप्रहरणो घोरस्समेया दन्तकोपमः ।

ततो मां संपरिक्षिप्य सर्वतो विकृताननाः ॥२३

वधेच ग्रहणेचैव कुर्युर्यत्नं यथावलम् ।

गृह्यशाखाः प्रशाखाश्च स्कन्धां श्चोत्तमशाखिनाम् ॥२४

दृष्ट्वा विपरिधावन्तं भवेयु र्भयशङ्किताः ।

मम रूपं च संप्रेक्ष्य वने विचरतो महत् ॥२५

राक्षस्यो भयवित्रस्ता भवेयु र्विकृताननाः ।

ततः कुर्युस्समाह्वानं राक्षस्यो रक्षसामपि ॥२६

राक्षसेन्द्रनियुक्तानां राक्षसेन्द्रनिवेशने ।

ते शूलशक्तिनिस्त्रिंशि विविधायुधपाणयः ॥२७

आपतेयुर्विमर्देऽस्मि न्वेगेनोद्विग्नकारिणः ।

संरुद्धस्तैस्तु परितो विधमन्रक्षसां बलम् ॥२८

शक्नुयां न तु संप्राप्तुं परं पारं महोदधेः ।

मां वा गृह्णीयु राप्लुत्य बहवश्शीघ्रकारिणः ॥२९

स्या दियं चागृहीतार्था मम व ग्रहणं भवेत् ।

हिंसाभिरुचयो हिंस्युरिमां वा जनकात्मजाम् ॥३०

विपन्नं स्यात्ततः कार्यं रामसुग्रीवयोरिदम् ।

उद्देशे नष्टमार्गेऽस्मिन्राक्षसैः परिवारिते ॥३१

सागरेण परिक्षिप्ते गुप्ते वसति जानकी ।

विशस्ते वा गृहीते वा रक्षोभिर्मयि संयुगे ॥३२

नान्यं पश्यामि रामस्य साहाय्यं कार्यसाधने ।

विमृशं श्च न पश्यामि यो हते मयि वानरः ॥३३

शतयोजनविस्तीर्णं लंघयेत महोदधिम् ।

कामं हंतु समर्थोऽस्मि सहस्राण्यपि रक्षसाम् ॥३४

नतु शक्ष्यामि संप्राप्तुं परं पारं महोदधेः ।

असत्यानि च युद्धानि संशयो मे नरोचते ॥३५

कश्च निस्संशयं कार्यं कुर्यात्प्राज्ञ स्ससंशयम् ।

प्राणत्यागश्च वैदेह्या भवेदनभिभाषणे ॥३६

एष दोषो महान्हि स्यान्मम सीताभिभाषणे ।

भूताश्चार्था विनश्यन्ति देशकालविरोधिताः ॥३७

विक्लबं दूत मासाद्य तमस्सूर्योदये यथा ।

अर्थानर्थांतरे बुद्धिर्निश्चितापि नशोभते ॥३८

[योह्यर्थं बहुधा वेद ससमर्थोऽर्थसाधने]

घातयन्ति हि कार्याणि दूताः पण्डितमानिनः ।

नविनश्ये त्कथं कार्यं वैक्लव्यं नकथं भवेत् ॥३९

लंघनञ्च समुद्रस्य कथंनु न वृथा भवेत् ।

कथंनु खलु वाक्यं मे शृणुयान्नोद्विजेतवा ॥४०

इति संचिन्त्य हनुमां श्चकार मतिमान्मतिम् ।

राम मक्लिष्टकर्माणं स्वबन्धु मनुकीर्तयन् ॥४१

नैना मुद्वेजयिष्यामि तद्वन्धुगतमानसाम् ।

इक्ष्वाकूणां वरिष्टस्य रामस्य विदितात्मनः ॥४२

शुभानि धर्मयुक्तानि वचनानि समर्पयन् ।

श्रावयिष्यामि सर्वाणि मधुरां प्रब्रुवन् गिरम् ॥४३

श्रद्धास्यति यथा हीयं तथा सर्वं समादधे ।

इति स बहुविधं महानुभावो जगतिपतेः प्रमदा मवेक्षमाणः ।

मधुर मवितथं जगाद वाक्यं द्रुमविपान्तर मास्थितो हनूमान् ॥

इति श्रीमत्सुन्दरकाण्डे त्रिंशस्सर्गः ॥
<MISSING_FIG href="../books_images/U-IMG-170435722016.png"/>

॥ एकत्रिंशस्सर्गः ॥

एवं वहुविधां चिन्तां चिन्तयित्वा महाकपिः ।

संश्रवे मधुरं वाक्यं वैदेह्या व्याजहारह ॥१

राजा दशरथो नाम रथकुञ्जरवाजिमान् ।

पुण्यशीलो महाकीर्ति र्ऋजुरासी न्महायशाः ॥२

राजर्षीणां गुणश्रेष्ठस्तपसा चर्षिभिस्समः ।

चक्रवर्तिकुले जातः पुरंदरसमो बले ॥३

अहिंसारति रक्षुद्रो घृणी सत्यपराक्रमः ।

मुख्यश्चेक्ष्वाकुवंशस्य लक्ष्मीवान्लक्ष्मिवर्धनः ॥४

पार्थिवव्यञ्जनै र्युक्तः पृधुश्रीः पार्थिवर्षभः ।

पृथिव्यां चतुरन्तायां विश्रुत स्सुखद स्सुखी ॥५

तस्य पुत्त्रःप्रियो ज्येष्टस्ताराधिपनिभाननः ।

रामो नाम विशेषज्ञः श्रेष्ठ स्सर्वधनुष्मताम् ॥६

रक्षिता स्वस्य धर्मस्य स्वजनस्यच रक्षिता ।

रक्षिताजीवलोकस्य धर्मस्यच परन्तपः ॥७

तस्य सत्याभिसन्धस्य वृद्धस्य वचना त्पितुः ।

सभार्यस्सह च भ्रात्रा वीरः प्रव्राजितो वनम् ॥८

तेन तत्र महारण्ये मृगयां परिधावता ।

राक्षसा निहता श्शूरा बहवः कामरूपिणः ॥९

जनस्थानवधं श्रुत्वा हतौ च खरदूषणौ ।

तत स्त्वमर्षापहृता जानकी रावणेन तु ॥१०

वञ्चयित्वा वने रामं मृगरूपेण मायया ।

स मार्गमाण स्तां देवीं रामस्सीता मनिंदिताम् ॥११

आससाद वने मित्त्रंसुग्रीवं नामवानरम् ।

तत स्स वालिनं हत्वा रामः परपुरंजयः ॥१२

प्रायच्छ त्कपिराज्यं तत्सुग्रीवाय महाबलः ।

सुग्रीवेणापि संदिष्टा हरयः कामरूपिणः ॥१३

दिक्षु सर्वासु तांदेवीं विचिन्वंति सहस्रशः ।

अहं संपातिवचना च्छतयोजन मायतम् ॥१४

अस्या हेतोर्विशालाक्ष्या स्सागरं वेगवान्प्लुतः ।

यथारूपां यथावर्णां यथालक्ष्मीं च निश्चिताम् ॥१५

अश्रौषं राघवस्याहं सेय मासादितामया ।

विररामैव मुक्तवासौ वाचं वानरपुंगवः ॥१६

जानकी चापि तच्छ्रुत्वा परं विस्मय मागता ।

तत स्सा वक्रकेशांता सुकेशी केशसंवृतम् ॥१७

उन्नम्य वदनं भीरु शिंशुपावृक्ष मैक्षत ।

निशम्य सीता वचनं कपेश्च दिशश्च सर्वाः प्रदिशश्च वीक्ष्य ।

स्वयं प्रहर्षं परमंजगाम सर्वात्मना राममनुस्मरंती ॥१८

सा तिर्यगूध्विपते तथा प्यधस्तान्निरीक्षमाणा त मंघिय बुद्धिम् ।

ददर्श पिङ्गाधिपते रमात्यं वातात्मजं सूर्य मिवोदयस्थम् ॥१९

इति श्रीमत्सुन्दरकाण्डे एकत्रिंशस्सर्गः ॥
<MISSING_FIG href="../books_images/U-IMG-170435740416.png"/>

॥ द्वात्रिंशस्सर्गः ॥

तत श्शाखांतरे लीनं दृष्ट्वा चलितमानसा ।

वेष्टितार्जुनवस्त्रं तं विद्युत्संघातपिंगन्यम् ॥१

सा ददर्श कपिं तत्न प्रश्रितं प्रियवादिनम् ।

फुल्लाशोकोत्कराभासं तप्तचामीकरेक्षणम् ॥२

[साधुदृष्ट्वा हरिश्रेष्ठं विनीतवदवस्थितम्]

मैथिली चिंतयामास विस्मयं परमंगता ।

अहोभीम मिदंरूपं वानरस्य दुरासदम् ॥३

दुर्निरीक्ष मितिज्ञात्वा पुनरेव मुमोह सा ।

विललाप भृशं सीता करुणं भयमोहिता ॥४

रामरामेति दुःखार्ता लक्ष्मणेतिच भामिनी ।

रुरोद बहुधासीता मंद मंदस्वरा सती ॥५

सा तं दृष्ट्वा हरिश्रेष्ठं विनीतवदुपस्थितम् ।

मैथिली चिंतयामास स्वप्नोऽय मिति भामिनी ॥६

सा वीक्षमाणा पृथुभुग्नवक्रं शाखामृगेंद्रस्य यथोक्तकारम् ।

ददर्श पिंगाधिपते रमात्यं वातात्मनं बुद्धिमतां वरिष्ठम् ॥७

सा तं समीक्ष्यैव भृशं विसंज्ञा गतासुकल्पेव बभूव सीता ।

चिरेण संज्ञां प्रतिलभ्यभूयो विचिन्तयामास विशालनेत्रा ॥८

स्वप्ने मयाऽयं विकृतोऽद्य दृष्ट श्शाखामृग श्शास्त्रगणैर्निषिद्धः ।

स्वस्त्यस्तु रामाय सलक्ष्मणाय तथा पितुर्मे जनकस्य राज्ञः ॥९

स्वप्नोऽपि नायं नहि मेऽस्ति निद्रा शोकेन दुःखेनच पीडितायाः ।

सुखंहि मे नास्ति यतोऽस्मि हीना तेनेंदुपूर्णप्रतिमाननेन ॥१०

रामेति रामेति सदैव बुद्ध्या विचिंत्य वाचा ब्रुवतीतमेव ।

तस्यानुरूपां च कथां तमर्थमेवं प्रपश्यामि तथा शृणोमि ॥११

अहं हि तस्याद्य मनोभवेन संपीडिता तद्गतसर्वभावा ।

विचिंतयंती सततं तमेव तथैव पश्यामि तथा शृणोमि ॥१२

मनोरथस्स्या दिति चिंतयामि तथापि बुद्ध्या च वितर्कयामि ।

किं कारणं तस्य हि नास्तिरूपं सुव्यक्तरूपश्च वदत्ययं माम् ॥१३

नमोऽस्तु वाचस्पतये सवज्रिणे स्वयंभुवे चैव हुताशनायच ।

अनेन चोक्तं यदिदं ममाग्रतो वनौकसा तच्च तथास्तु नान्यथा ॥१४

इति श्रीमत्सुन्दरकाण्डे द्वात्रिंशस्सर्गः ॥
<MISSING_FIG href="../books_images/U-IMG-170435756116.png"/>

॥ त्रयस्त्रिंशस्सर्गः ॥

सोऽवतीर्य द्रुमात्तस्मा द्विद्रुमप्रतिमाननः ।

विनीतवेषःकृपणः प्रणिपत्योपसृत्यच ॥१

ता मब्रवीन्महातेजा हनुमान्मारुतात्मजः ।

शिरस्यंजलि माधाय सीतां मधुरया गिरा ॥२

कानु पद्मपलाशाक्षि क्लिष्टकौशेयवासिनि ।

द्रुमस्य शाखा मालंव्य तिष्ठसि त्व मनिंदिते ॥३

किमर्थं तव नेत्राभ्यां वारिस्रवति शोकजम् ।

पुंडरीकपलाशाभ्यां विप्रकीर्ण मिवोदकम् ॥४

सुराणा मसुराणां वा नागगंधर्वरक्षसाम् ।

यक्षाणां किन्नराणां वाकात्वं भवसि शोभने ॥५

का त्वं भवसि रुद्राणां मरुतां वा वरानने ।

वसूनां वा वरारोहे देवता प्रतिभासि मे ॥६

किन्नु चंद्रमसा हीना पतिता विबुधालयात् ।

रोहिणी ज्योतिषां श्रेष्ठा श्रेष्ठसर्वगुणाधिका॥७

का त्वं भवसि कल्याणि त्व मनिन्दितलोचने ।

कोपा द्वा यादिवा मोहाद्भर्तार मसितेक्षणे ॥८

वसिष्ठंकोपयित्वा त्वं नासि कल्याण्यरुन्धती ।

कोनु पुत्रः पिताभ्राता भर्तावा ते सुमध्यमे ॥९

अस्माल्लोका दमुं लोकं गतं त्व मनुशोचसि ।

रोदना दतिनिश्श्वासा द्भूमिसंस्पर्शना दपि ॥१९

न त्वां देवी महं मन्ये राज्ञ स्संज्ञावधारणात् ।

व्यञ्जनानि च ते यानि लक्षणानि च लक्षये ॥११

महिषी भूमिपालस्य राजकन्यासि मे मता ।

रावणेन जनस्थाना द्वला दपहृता यदि ॥१२

सीता त्व मसि भद्रन्ते तन्ममाचक्ष्व पृच्छतः ।

यथा हि तव वैदैन्यं रूपं चा प्यतिमानुषम् ॥१३

तपसा चान्वितो वेषस्त्वं राममहिषी ध्रुवम् ।

सा तस्य वचनं श्रुत्वा रामकीर्तनहर्षिता ॥१४

उवाच वाक्यं वैदेही हनुमन्तं द्रुमाश्रितम् ।

पृथिव्यां राजसिंहानां मुख्यस्य विदितात्मनः ॥१५

स्नुषा दशरथस्याहं शत्रुसैन्यप्रतापिनः ।

दुहिता जनकस्याहं वैदेहस्य महात्मनः ॥१६

सीतेति नाम नाम्नाऽहं भार्या रामस्य धीमतः ।

समा द्वादश तत्राहं राघवस्य निवेशने ॥१७

भुञ्जाना मानुषान्भोगान्सर्वकामसमृद्धिनी ।

ततस्त्रयोदशे वर्षे राज्येनेक्ष्वाकुनन्दनम् ॥१८

अभिषेचयितुं राजा सोपाध्यायः प्रचक्रमे ।

तस्मिन्संभ्रियमाणेतु राघवस्याभिषेचने ॥१९

कैकेयीनाम भर्तारं देवी वचन मत्रवीत् ।

नपिबेयं नखादेयं प्रत्यहं मम भोजनम् ॥२०

एषमे जीवितस्यान्तो रामो यद्यभिषिच्यते ।

यत्तदुक्तं त्वया वाक्यं प्रीत्या नृपतिसत्तम ॥२१

तच्चेन्न वितथं कार्यं वनं गच्छतु राघवः ।

स राजा सत्यवाग्देव्या वरदान मनुस्मरन् ॥२२

मुमोह वचनं श्रुत्वा कैकेय्याः क्रूर मप्रियम् ।

ततस्तु स्थविरो राजा सत्ये धर्मे व्यवस्थितः ॥२३

ज्येष्ठं यशस्विनं पुत्त्रं रुद त्राज्य मयाचत ।

स पितुर्वचनं श्रीमा नभिषेका त्परं प्रियम् ॥२४

मनसा पूर्व मासाद्य वाचा प्रतिगृहीतवान् ।

दद्यान्नप्रतिगृह्णीयान्नब्रूयात्किंचिदप्रियम् ॥२५

अपि जीवितहेतो र्वा राम स्सत्यपराक्रमः ।

स विहायोत्तरीयाणि महार्हाणि महायशाः ॥२६

विसृज्य मनसा राज्यं जनन्यै मां समादिशत् ।

साहं तस्याग्रत स्तूर्णं प्रस्थिता वनचारिणी ॥२७

न हि मे तेन हीनाया वास स्स्वर्गेऽपि रोचते ।

प्रागेवतु महाभाग स्सौमित्रिर्मित्त्रनन्दनः ॥२८

पूर्वजस्यानुयात्रार्थे द्रुमचीरै रलङ्कृतः ।

ते वयं भर्तु रादेशं बहूमान्य दृढव्रताः ॥२९

प्रविष्टाः स्म पुरा दृष्टं वनं गम्भीरदर्शनम् ।

वसतो दण्डकारण्ये तस्याह ममितौजसः ॥३०

रक्षसाऽपहृता भार्या रावणेन दुरात्मना ।

द्वौ मासौ तेन मे कालो जीवितानुग्रहः कृतः ॥३१

ऊर्ध्वं द्वाभ्यां तु मासाभ्यां ततस्त्यक्ष्यामिजीवितम् ।

इति श्रीमत्सुन्दरकाण्डे त्रयस्त्रिंशस्सर्गः ॥
<MISSING_FIG href="../books_images/U-IMG-170435786515.png"/>

॥चतुस्त्रिंशस्सर्गः ॥

तस्या स्तद्वचनं श्रुत्वा हनुमान्हरियूथपः ।

दुःखा दुःखाभिभूताया स्सांत्व मुत्तर मब्रवीत् ॥१

अहं रामस्य संदेशा द्देवि दूत स्तवागतः ।

वैदेहि कुशली राम स्त्वांच कौशल मव्रवीत् ॥२

यो ब्राह्म मस्त्रं वेदांश्च वेद वेदविदां वरः ।

सत्वां दाशरथी रामो देवि कौशल मब्रवीत् ॥३

लक्ष्मणश्च महातेजा भर्तुस्तेऽनुचरः प्रियः ।

कृतवान् शोकसंतप्त श्शिरसा तेऽभिवादनम् ॥४

सातयोः कुशलं देवी निशम्य नरसिंहयोः ।

प्रीतिसंहृष्टसर्वांगी हनुमन्त मथाब्रवीत् ॥५

कल्याणी बत गाथेयं लौकिकी प्रतिभाति मा ।

एति जीवन्त मानन्दो नरं वर्षशता दपि ॥६

तयोः समागमे तस्मिन् प्रीति रुत्पादिताऽद्भुता ।

परस्परेण चालापं विश्वस्तौ तौ प्रचक्रतुः ॥७

तस्या स्तद्वचनं श्रुत्वा हनुमान्हरियूथपः ।

सीताया श्शोकीनाया स्समीप मुपचक्रमे ॥८

यथा यथा समीपं स हनुमा नुपसर्पति ।

तथा तथा रावणं सा तं सीता परिशंकते ॥९

अहो धिग्दुष्कृ मिदं कथितं हि यदस्यमे ।

रूपान्तर मुपागम्य स एवायं हि रावणः ॥१०

ता मशोकस्य शाखां सा विमुक्त्वा शोककर्शिता ।

तस्या मेवानवद्यांगी धरण्यां समुपाविशत् ॥११

हनुमानपि दुःखार्तान्तां दृष्ट्वा भयमोहिताम् ।

अवन्दत महाबाहुस्ततस्तां जनकात्मजाम् ॥१२

साचैनं भयवित्रस्ता भूयो नैवाभ्युदैक्षत ।

तं दृष्ट्वा वन्दमानन्तु सीता शशिनिभानना ॥१३

अब्रवी द्दीर्घमुच्छ्वस्य वानरं मधुरखरा ।

मायां प्रविष्टो मायावी यदि त्वं रावणस्स्वयम् ॥१४

उत्पादयासि मे भूय स्सन्तापं त न्न शोभनम् ।

स्वं परित्यज्य रूपं यः परिव्राजकरूपधृत् ॥१५

जनस्थाने मया दृष्ट स्त्वं स एवासि रावणः ।

उपवासकृशां दीनां कामरूप निशाचर ॥१६

सन्तापयसि मां भूयस्सन्तप्तां तन्न शोभनम् ।

अथवा नैत देवं हि यन्मया परिशङ्कितम् ॥१७

मनसो हि मम प्रीति रुत्पन्ना तव दर्शनात् ।

यदि रामस्य दूत स्त्वमागतो भद्र मस्तुते ॥१८

पृच्छामि त्वां हरिश्रेष्ठ प्रिया रामकथा हि मे।

गुणान् रामस्य कथय प्रियस्य मम वानर ॥१९

चित्तं हरसि मे सौम्य नदीकूलं यथा रयः ।

अहो स्वप्नस्य सुखता याह मेवं चिराहृता ॥२०

प्रेषितं नाम पश्यामि राघवेण वनौकसम् ।

स्वप्नेऽपि यद्यहं वीरं राघवं सहलक्ष्मणम् ॥२१

पश्येयं नावसीदेयं स्वप्नोऽपि मम मत्सरी ।

नाहं स्वप्न मिमं मन्ये स्वप्ने दृष्ट्वा हि वानरम् ॥२२

न शक्योऽभ्युदयः प्राप्तुं प्राप्त श्चाभ्युदयो मम ।

किंतु स्याच्चित्तमोहोऽयं भवे द्वातगतिस्त्वियम् ॥२३

उन्मादजो विकारोवा स्यादियं मृगतृष्णिका ।

अथवा नाय मुन्मादो मोहोऽप्युन्मादलक्षणः ॥२४

सम्बुध्ये चाह मात्मान मिमं चापि वनौकसम् ।

इत्येवं बहुधा सीता संप्रधार्य बलाबलम् ॥२५

रक्षसां कामरूपत्वान्मेने तं राक्षसाधिपम् ।

एतां बुद्धिं तदा कृत्वा सीता सा तनुमध्यमा ॥२६

न प्रतिव्याजहाराथ वानरं जनकात्मजा ।

सीतायाश्चिन्तितं बुद्ध्वा हनुमान्मारुतात्मजः ॥२७

श्रोत्रानुकूलै र्वचनैस्तदा तां संप्रहर्षयत् ।

आदित्य इव तेजस्वी लोककान्त श्शशी यथा ॥२८

राजा सर्वस्य लोकस्य देवो वैश्रवणो यथा ।

विक्रमेणोपपन्नश्च यथा विष्णुर्महायशाः ॥२९

सत्यवादी मधुरवाग्देवो वाचस्पति र्यथा ।

रूपवान्सुभग श्श्रीमान्कन्दर्प इवमूर्तिमान् ॥३०

स्थानक्रोधः प्रहर्ताच श्रेष्ठो लोके महारथः ।

बाहुच्छाया मवष्टन्धो यस्य लोको महात्मनः ॥३१

[ देवा इव महेन्द्रस्य मोदन्ते विगतज्वराः ]

अपकृष्याश्रमपदा न्मृगरूपेण राघवम् ।

शून्ये येनापनीतासि तस्य द्रक्ष्यसि यत्फलम् ॥३२

न चिरा द्रावणं संख्ये यो वधिष्यति वीर्यवान् ।

रोषप्रमुक्तै रिषुभिर्ज्वलद्भि रिव पावकैः ॥३३

तेनाहं प्रेषितो दूतस्त्वत्सकाश मिहागतः ।

त्वद्वियोगेन दुःखार्त स्स त्वां कौशल मब्रवीत् ॥३४

लक्ष्मणश्च महातेजा स्सुमित्रानन्दवर्धनः ।

अभिवाद्य महाबाहु स्स त्वां कौशल मब्रवीत् ॥३५

रामस्यच सखा देवि सुग्रीवो नाम वानरः ।

राजा वानरमुख्यानां सत्वां कौशल मब्रवीत् ॥३६

नित्यं स्मरति राम स्त्वां ससुग्रीव स्सलक्ष्मणः ।

दिष्टया जीवासि वैदेहि राक्षसी वश मागता ॥३७

न चिरा द्द्रक्ष्यसे रामं लक्ष्मणं च महाबलम् ।

मध्ये वानरकोटीनां सुग्रीवं चामितौजसम् ॥३८

अहं सुग्रीवसचिवो हनुमा न्नाम वानरः ।

प्रविष्टो नगरीं लङ्कां लङ्घयित्वा महोदधिम् ॥३९

कृत्वा मूर्ध्नि पदन्यासं रावणस्य दुरात्मनः ।

त्वां द्रष्टु मुपयातोऽहं समाश्रित्य पराक्रमम् ॥४०

ना हमस्मि तथा देवि यथा मा मवगच्छसि ।

विशङ्का त्यज्यता मेषा श्रद्धत्स्व वदतो मम ॥४१

इति श्रीमत्सुन्दरकाण्डे चतुस्त्रिंशस्सर्गः ॥
<MISSING_FIG href="../books_images/U-IMG-170435815916.png"/>

॥ पञ्चत्रिंशस्सर्गः ॥

तां तु रामकथां श्रुत्वा वैदेही वानरर्षभात् ।

उवाच वचनं सांत्व मिदं मधुरया गिरा ॥१

क्व ते रामेण संसर्गः कथं जानासि लक्ष्मणम् ? ।

वानराणां नराणां च कथ मासीत्समागमः ? ॥२

यानि रामस्य लिङ्गानि लक्ष्मणस्य च वानर ।

तानि भूय स्समाचक्ष्व न मां शोक स्समाविशेत् ॥३

कीदृशं तस्य संस्थानं रूपं रामस्य कीदृशम् ? ।

कथ मूरू कथं बाहू लक्ष्मणस्य च शंस मे ॥४

एव मुक्तस्तु वैदेद्या हनुमा न्मारुतात्मजः ।

ततो रामं यथा तत्त्व माख्यातु मुपचक्रमे ॥५

जानन्ती बत दिष्टया मां वैदेहि परिपृच्छसि ।

भर्तुः कमलपत्त्नाक्षि संस्थानं लक्ष्मणस्य च ॥६

यानि रामस्य चिह्नानि लक्ष्मणस्य च यानिवै ।

लक्षितानि विशालाक्षि वदत श्शृणु तानि मे ॥७

रामः कमलपत्त्राक्ष स्सर्वसत्वमनोहरः ।

रूपदाक्षिण्यसंपन्नः प्रसूतो जनकात्मजे ॥८

तेजसाऽऽदित्यसंकाशः क्षमया पृथिवीसमः ।

बृहस्पतिसमो बुद्ध्या यशसा वासवोपमः ॥९

रक्षिता जीवलोकस्य स्वजनस्याभिरक्षिता ।

रक्षिता स्वस्य वृत्तस्य धर्मस्य च परन्तपः ॥१०

रामो भामिनि लोकस्य चातुर्वर्ण्यस्य रक्षिता ।

मर्यादानां च लोकस्य कर्ता कारयिता च सः ॥११

अर्चिष्मानर्चितोऽत्यर्थं ब्रह्मचर्यव्रते स्थितः ।

साधूना मुपकारज्ञः प्रचारज्ञश्च कर्मणाम् ॥१२

राजविद्याविनीतश्च ब्राह्मणाना मुपासिता ।

श्रुतवान् शीलसंपन्नो विनीतश्च परन्तपः ॥१३

यजुर्वेदविनीतश्च वेदविद्भिस्सुपूजितः ।

धनुर्वेदे च वेदेषु वेदाङ्गेषु चनिष्ठितः ॥१४

विपुलांसो महाबाहुः कंबुग्रीव श्शुभाननः ।

गूढजत्रु स्सुताम्राक्षो रामो देवि जनै श्श्रुतः ॥१५

दुन्दुभिस्वननिर्घोष स्स्निग्धवर्णः प्रतापवान् ।

सम स्समविभक्ताङ्गो वर्णं श्यामं समाश्रितः ॥१६

त्रिस्थिरस्त्रिप्रलम्बश्च त्रिसम स्त्रिषु चोन्नतः ।

त्रिताम्र स्त्रिषु च स्निग्धो गम्भीर स्त्रिषु नित्यशः ॥१७

त्रिवलीवांस्च्यवनत श्चतुर्व्यङ्ग स्त्रिशीर्षयान् ।

चतुष्कल श्चतुर्लेख श्चतुष्किष्कुश्चतुस्समः ॥१८

चतुर्दशसमद्वंद्व श्चतुर्दंष्ट्र श्चतुर्गतिः ।

महोष्ठहनुनासश्च पञ्चस्निग्धोऽष्ट वंशवान् ॥१९

दशपद्मो दशबृह स्त्रिभि र्व्याप्तो द्विशुक्लवान् ।

षडुन्नतो नवतनु स्त्रिभि र्व्याप्नोति राघवः ॥२०

सत्यधर्मपर श्श्रीमान् संग्रहानुग्रहे रतः ।

देशकालविभागज्ञ स्सर्वलोकप्रियंवदः ॥२१

भ्राताच तस्य द्वैमात्र स्सौमित्रि रपराजितः ।

अनुरागेण रूपेण गुणैश्चैव तथाविधः ॥२२

[ससुवर्णच्छवि श्श्रीमान् रामश्श्यामो महायशाः ]

तावुभौ नरशार्दूलौ त्वद्दर्शनसमुत्सुकौ ।

विचिन्वन्तौ महीं कृत्स्ना मस्माभि रभिसंगतौ ॥२३

त्वा मेव मार्गमाणौ तौ विचरन्तौ वसुन्धराम् ।

ददर्शतु र्मृगपतिं पूर्वजेनावरोपितम् ॥२४

ऋश्यमूकस्य पृष्ठे तु बहुपादपसंकुले ।

भ्रातु र्भयार्त मासीनं सुग्रीवं प्रियदर्शनम् ॥२५

वयं तु हरिराजं तं सुग्रीवं सत्यसंगरम् ।

परिचर्यामहे राज्या त्पुर्वजेनावरोपितम् ॥२६

तत स्तौ चीरवसनौ धनुःप्रवरपाणितौ ।

ऋश्यमूकस्य शैलस्य रम्यं देश मुपागतौ ॥२७

स तौ दृष्ट्वा नरव्याघ्रौ धन्विनौ वानरर्षभः ।

अवप्लुतो गिरेस्तस्य शिखरं भयमोहितः ॥२८

तत स्स शिखरे तस्मिन्वानरेन्द्रो व्यवस्थितः ।

तयो स्समपिं मामेव प्रेषयामास सत्वरम् ॥२९

तावहं पुरुषव्याघ्रौ सुग्रीववचना त्प्रभू ।

रूपलक्षणसंपन्नौ कृताञ्जलि रुपस्थितः ॥३०

तौ परिज्ञाततत्त्वार्थौ मया प्रीतिसमन्वितौ ।

पृष्ठमारोप्य तं देशं प्रापितौ पुरुषर्षभो ॥३१

निवेदितौ च तत्त्वेन सुग्रीवाय महात्मने ।

तयो रन्योन्यासंल्लापा द्भृशं प्रीति रजायत ॥३२

तत स्तो कीर्तिसंपन्नौ हरीश्वरनरेश्वरौ ।

परस्परकृताश्वासौ कथया पूर्ववृत्तया ॥३३

तत स्स सान्त्वयामास सुग्रीवं लक्ष्मणाग्रजः ।

स्त्रीहेतो र्वलिना भ्रात्रा निरस्त मुरुतेजसा ॥३४

ततस्त्वन्नाशजं शोकं रामस्याक्लिष्टकर्मणः ।

लक्ष्मणो वानरेन्द्राय सुग्रीवाय न्यवेदयत् ॥३५

स श्रुत्वा वानरेन्द्रस्तु लक्ष्मणे नेरितं वचः ।

तदासी न्निष्प्रभोऽत्यर्थं ग्रहग्रस्तइवांशुमान् ॥३६

तत स्त्वद्गात्रशोभीनि रक्षसा ह्रियमाणया ।

यान्याभरणजालानि पातितानि महीतले ॥३७

तानि सर्वाणि रामाय आनीय हरियूथपाः ।

संहृष्टादर्शयामासुर्गतिं तु न विदु स्तव ॥३८

तानि रामाय दत्तानि मयै वोपहृतानि च ।

स्वनवंत्यवकीर्णानि तस्मि न्विगतचेतसि ॥३९

तान्यंके दर्शनीयानि कृत्वा बहुविधं तव ।

तेन देवप्रकाशेन देवेन परिदेवितम् ॥४०

पश्यतस्तानि रुदतस्ताम्यतश्च पुनःपुनः ।

प्रादीपयन् दाशरथेस्तानि शोकहुताशनम् ॥४१

शयितं च चिरं तेन दुःखार्तेन महात्मना ।

मयाऽपि विविधैर्वाक्यैः कृच्छ्रादुत्थापितः पुनः ॥४२

तानि दृष्ट्वा महाबाहुर्दर्शयित्वा मुहुर्मुहुः ।

राघवस्सह सौमित्रिस्सुग्रीवे स्सन्यवेशत् ॥४३

स तवादर्शनादायें राघवः परितप्यते ।

महता ज्वलता नित्यमग्निनेवाग्निपर्वतः ॥४४

त्वकृते तमनिद्रा च शोक श्चिन्ता च राघवम् ।

तापयन्ति महात्मानमग्न्यगारमिवाग्नयः ॥४५

तवादर्शनशोकेन राघवः प्रविचाल्यते ।

महता भूमिकंपेन महानिव शिलोच्चयः ॥४६

काननानि सुरम्याणि नदीः प्रस्रवणानि च ।

घर न्न रति माप्नोति त्वामपश्य न्नृपात्मजे ॥४७

स त्वां मनुजशार्दूलः क्षिप्रं प्राप्स्यति राघवः ।

समित्त्रबान्धवं हत्वा रावगं जनकात्मजे ॥४८

सहितौ रामसुग्रीवा भावकुरुतां तदा ।

समयं वालिनं हंतुं तव चान्वेषणं तथा ॥४९

ततस्ताभ्यां कुमाराभ्यां वीराभ्यां स हरश्विरः ।

किष्किन्धां समुपागम्य वाली युद्धे निपातितः ॥५०

ततो निहत्य तरसा रामो वालिनमाहवे ।

सर्वर्क्षहरिसंघानां सुग्रीवमकरोत्पतिम् ॥५१

रामसुग्रीवयो रैक्यं देव्येवं समजायत ।

हनुमन्तं च मां विद्धि तयोर्दूत मिहागतम् ॥५२

स्वराज्यं प्राप्य सुग्रीवस्मामानीय हरीश्वरान् ।

त्वदर्थं प्रेषयामास दिशो दश महाबलान् ॥५३

आदिष्टा वानरेन्द्रेण सुग्रीवेण महौजसा ।

अद्विराजप्रतीकाशास्सर्वतः प्रस्थिता महीम् ॥५४

ततस्ते मार्गमाणा वै सुग्रीववचनातुराः ।

चरन्ति वसुधां कृत्स्नां वयमन्ये च वानराः ॥५५

अङ्गदो नाम लक्ष्मीवान् वालिसूनुर्महाबलः ।

प्रस्थितः कपिशार्दूलस्त्रिभागबलसंवृतः ॥५६

तेषां नो विप्रणाष्टानां विन्ध्ये पर्वतसत्तमे ।

भृशं शोकपरीतानामहोरात्रगणा गताः ॥५७

ते वयं कार्यनैराश्यात्कालस्यातिक्रमेण च ।

भयाच्च कपिराजस्य प्राणांस्त्यक्तुं व्यवस्थिताः ॥५८

विचित्य वनदुर्गाणि गिरिप्रस्रवणानि च ।

अनासाद्य पदं देव्याः प्राणांस्त्यक्तुं समुद्यताः ॥५९

दृष्ट्वा प्रायोपविष्टांश्च सर्वान्वानरपुङ्गवान् ।

भृशं शोकार्णवे मग्नः पर्यदेवयदङ्गदः ॥६०

तव नाशञ्च वैदेहि वालिनश्च वधं तथा ।

प्रायोपवेशमस्माकं मरणं च जटायुषः ॥६१

तेषां नस्स्वामिसन्देशान्निराशानां मुमूर्षताम् ।

कार्यहेतोरिवायातश्शकुनिर्वीर्यवान्महान् ॥६२

गृध्रराजस्य सोदर्यस्संपातिर्नाम गृध्रराट् ।

श्रुत्वा भ्रातृवधं कोपादिदं वचनमब्रवीत् ॥६३

यवीयान्केन मे भ्राता हतः क्व च निपातितः ।

एतदाख्यातुमिच्छामि भवद्भिर्वानरोत्तमाः ॥६४

अङ्गदोऽकथयत्तस्य जनस्थाने महद्वधम् ।

रक्षसा भीमरूपेण त्वामुद्दिश्च यथातथम् ॥६५

जटायुषो वधं श्रुत्वा दुःखित स्सोऽरुणात्मजः ।

त्वां शशंस वरारोहे वसन्तीं रावणालये ॥६६

तस्य तद्वचनं श्रुत्वा संपातेः प्रीतिवर्धनम् ।

अङ्गदप्रमुखास्तूर्ण ततस्संस्थिता वयम् ॥६७

विन्ध्यादुत्थाय संप्राप्तास्सागरस्यान्तमुत्तरम् ।

त्वदर्शनकृतोत्साहा हृष्टास्तुष्टाः प्लवङ्गमाः ॥६८

अङ्गदप्रमुखास्सर्वे वेलोपान्तमुपस्थिताः ।

चिन्तां जग्मुः पुनर्भीतास्त्वदर्शनसमुत्सुकाः ॥६९

अथाहं हरिसैन्यस्य सागरं प्रेक्ष्य सीदतः ।

व्यवधूय भयं तीव्रं योजनानां शतं द्रुतः ॥७०

लङ्का चापि मया रात्रौ प्रविष्टा राक्षसाकुला ।

रावणश्च मया दृष्टस्त्वं च शोकपरिप्लुता ॥७१

एतत्ते सर्वमाख्यातं यथावृत्तमनिन्दिते ।

अभिभाषस्व मां देबि दूतो दाशरथेरहम् ॥७२

तं मां रामकृतोद्योगं त्वन्निमित्तमिहागतम् ।

सुग्रीवसचिवं देवि बुद्ध्यस्व पवनात्मजम् ॥७३

कुशली तव काकुत्स्थस्सर्वशस्त्रभृतां वरः ।

गुरोराराधने युक्तो लक्ष्मणश्च सुलक्षणः ॥७५४

तस्य बीर्यवतो देवि भर्तुस्तव हिते रतः ।

अहमेकस्तु संप्राप्तस्सुग्रीववचनादिह ॥७५

मयेयमसहायेन चरता कामरूपिणा ।

दक्षिणा दिगनुक्रान्ता त्वन्मार्गविचयैषिणा॥७६

दिष्टयाहं हरिसैन्यानां त्वन्नाशमनुशोचताम् ।

अपनेष्यामि सन्तापं तवाभिगमशंसनात् ॥७७

दिष्ट्या हि मम न व्यर्थं देवि सागरलङ्घनम् ।

प्राप्स्याम्यहमिदं दिष्ट्या त्वदर्शनकृतं यशः ॥७८

राघवश्च महावीर्यः क्षिप्रं त्वामभिपत्स्यते ।

समित्रबान्धवं हत्वा रावणं राक्षसाधिपम् ॥७९

माल्यवान्नाम वैदेहि गिरीणामुत्तमो गिरिः ।

ततो गच्छति गोकर्णपर्वतं केसरी हरिः ॥८०

स च देवर्षिभिर्दिष्टः पिता मम महाकपिः ।

तीर्थे नदीपतेः पुण्ये शम्बसादनमुद्धरत् ॥८१

तस्याहं हरिणः क्षेत्रे जातो वातेन मैथिलि ।

हनुमानिति विख्यातो लोके स्वेनैव कर्मणा ॥८२

विश्वासार्थं तु वैदेह भर्तुरुक्ता मया गुणाः ।

अचिराद्राघवो देवि त्वामितो नविताऽनघे ॥८३

एवं विश्वासिता सीता हेतुभिश्शोककर्शिता ।

उपपन्नैरभिज्ञानैर्दूतं तमवगच्छति ॥८४

अतुलं च गता हर्षं प्रहर्षेण च जानकी ।

नेत्राभ्यां वक्रपक्ष्माभ्यां मुमोचाऽऽनन्दजं जलम् ॥८५

चारु तद्वदनं तस्यास्ताम्रशुक्लायतेक्षणम् ।

अशोभत विशालाक्ष्या राहुमुक्त इवोडुराट् ॥८६

हनुमन्तं कपिं व्यक्तं मन्यते नान्यथेति सा ।

अथोवाच हनूमांस्तामुत्तरं प्रियदर्शनाम् ॥८७

एतत्ते सर्व माख्यातं समाश्वसिहि मैथिलि ।

किं करोमि कथं वा ते रोचते प्रतियाम्यहम् ॥८८

हतेऽसुरे संयति शम्बसादने कपिप्रवीरेण महर्षिचोदनात् ।

ततोऽस्मि वायुप्रभवो हि मैथिलि प्रभावतस्तत्प्रतिमश्च वानरः ॥८९

इति श्रीमत्सुन्दरकाण्डे पञ्चत्रिंशस्सर्गः ॥
<MISSING_FIG href="../books_images/U-IMG-170435885316.png"/>

॥ षट्त्रिंशस्सर्गः ॥

भूय एव महातेजा हनुमान्मारुतात्मजः ।

अब्रवीत्प्रश्रितं वाक्यं सीताप्रत्ययकारणात् ॥१

वानरोऽहं महाभागे दूतो रामस्य धीमतः ।

रामनामांकितं चेदं पश्य देव्यंगुलीयकम् ॥२

प्रत्ययार्थं तवाऽऽनीतं तेन दत्तं महात्मना ।

समाश्वसिहि भद्रं ते क्षीणदुःखफला ह्यसि ॥३

[ इत्युक्त्वा प्रददौ तस्यै सीतायै वानरोत्तमः]

गृहीत्वा प्रेक्षमाणा सा भर्तुः करविभूषणम् ।

भर्तारमिव संप्राप्ता जानकी मुदिताऽभवत् ॥४

चारु तद्वदनं तस्यास्ताम्रशुक्लायतेक्षणम् ।

अशोभत विशालाक्ष्या राहुमुक्त इवोडुराट् ॥५

ततस्सा ह्रीमती बाला भर्तृसन्देशहर्षिता ।

परितुष्टा प्रियं कृत्वा प्रशशंस महाकपिम् ॥६

विक्रान्तस्त्वं समर्थस्त्वं प्राज्ञस्त्वं वानरोत्तम ।

येनेदं राक्षसपदं त्वयैकेन प्रधर्षितम् ॥७

शतयोजनविस्तीर्णस्सागरो मकरालयः ।

विक्रमश्लाघनीयेन क्रमता गोष्पदीकृतः ॥८

न हि त्वां प्राकृतं मन्ये वानरं वानरर्षभ ।

यस्य ते नास्ति संत्रासो रावणान्नापि संभ्रमः ॥९

अर्हसे च कपिश्रेष्ठ मया समभिभाषितुम् ।

यद्यसिप्रेषितस्तेन रामेण विदितात्मना ॥१०

प्रेषयिष्यति दुर्धषो रामो न ह्यपरीक्षितम् ।

पराक्रममविज्ञाय मत्सकाशं विशेषतः ॥११

दिष्ट्या च कुशली रामो धर्मात्मा सत्यसङ्गरः ।

लक्ष्मणश्च महातेजास्सुमित्रानन्दवर्धनः ॥१२

कुशली यदि काकुत्स्थः किं न सागरमेखलाम् ।

महीं दहति कोपेन युगान्ताग्निरिवोत्थितः ॥१३

अथवा शक्तिमन्तौ तौ सुराणामपि निग्रहे ।

ममैव तु न दुःखानामस्ति मन्ये विपर्ययः ॥१४

कच्चिन्न व्यथितो रामः कच्चि न्न परितप्यते ? ।

उत्तराणि च कार्याणि कुरुते पुरुषोत्तमः ॥१५

कच्चि न्न दीनस्सम्भ्रान्तः कार्येषु च न मुह्यति ।

कच्चित्पुरुषकार्याणि कुरुते नृपतेस्सुतः ॥१६

द्विविधं त्रिविधोपायमुपायमपि सेवते ।

विजिगीषुस्सुहृत्कच्चिन्मित्रेषु च परन्तपः ॥१७

कच्चिन्मित्राणि लभते मित्रैश्चाप्यभिगम्यते ? ।

कच्चित्कल्याणमित्त्रश्च मित्त्रैश्चापि पुरस्कृतः ? ॥१८

कच्चि दाशास्ति देवानां प्रसादं पार्थिवात्मजः ? ।

कच्चित्पुरुषकारं च दैवं च प्रतिपद्यते ? ॥१९

कच्चिन्न विगतस्नेहः प्रवासान्मयि राघवः ? ।

कच्चिन्मां व्यसनादस्मान्मोक्षयिष्यति वानर ? ॥२०

सुखानामुचितो नित्यमसुखानामनुचितः ।

दुःख मुत्तरमासाद्य कच्चिद्रामो न सीदति ॥२१

कौसल्यायास्तथा कच्चित्सुमित्राया स्तथैव च ।

अभीक्ष्णं श्रूयते कच्चित्कुशलं भरतस्य च ॥२२

सन्निमित्तेन मानार्हः कच्चिच्छेोकेन राघवः ।

कच्चिन्नान्यमना रामः कच्चिन्मां तारयिष्यति ? ॥२३

कच्चिदक्षौहिणीं भीमां भरतो भ्रातृवत्सलः ।

ध्वजिनीं मन्त्रिभिर्गुप्तां प्रेषयिष्यति मत्कृते ? ॥२४

वानराधिपतिश्श्रीमान्सुग्रीवः कच्चिदेष्यति ? ।

मत्कृते हरिभिर्वीरैर्वृतो दन्तनखायुधैः ॥२५

कच्चिच्च लक्ष्मणश्शूरस्सुमित्रानन्दवर्धनः ।

अस्त्रविच्छरजालेन राक्षसान्विधमिष्यति ? ॥२६

रौद्रेण कच्चिदस्त्रेण ज्वलता निहतं रणे ।

द्रक्ष्याम्यल्पेन कालेन रावणं स सुहृज्जनम् ॥२७

कच्चि न्न तद्धेमसमानवर्णं तस्याननं पद्मसमानगन्धि ।

मया विना शुष्यति शोकदीनं जलक्षये पद्ममिवातपेन ? ॥२८

धर्मापदेशात्त्यजतश्च राज्यं मां चाप्यरण्यं नयतः पदातिम् ।

नासीद्यथा यस्य न भीर्न शोकः कच्चिच्च धैर्यं हृदये करोति ॥ २९

न चास्य माता न पिता च नान्यस्स्त्रेहाद्विशिष्टोऽस्ति मया समो वा ।

तावत्त्वहं दूत जिजीविषेयं यावत्प्रवृत्तिं शृणुयां प्रियस्य ॥ ३०

इतीव देवी वचनं महार्थं तं वानरेन्द्रं मधुरार्थमुक्त्वा ।

श्रोतुं पुनस्तस्य वचोऽभिरामं रामार्थयुक्तं विरराम रामा ॥३१

सीताया वचनं श्रुत्वा मारुतिर्भीमविक्रमः ।

शिरस्यञ्जलिमाधाय वाक्यमुत्तरमब्रवीत् ॥३२

न त्वामिहस्थां जानीते रामः कमललोचने ।

तेन त्वां नानयत्याशु शचीमिव पुरन्दरः ॥३३

श्रुत्वैव तु वचो मह्यं क्षिप्रमेष्यति राघवः ।

चमूं प्रकर्षन्महतीं हर्युक्षगणसंकुलाम् ॥३४

विष्टम्भयित्वा बाणौधैरक्षोभ्यं वरुणालयम् ।

करिष्यति पुरीं लङ्कां काकुत्स्थश्शान्तराक्षसाम् ॥३५

तत्र यद्यन्तरा मृत्युर्यदि देवास्सहासुराः ।

स्थास्यन्ति पथि रामस्य स तानपि वधिष्यति ॥३६

तवादर्शनर्जनार्ये शोकेन स परिप्लुतः ।

न शर्म लभते रामस्सिंहार्दित इव द्विपः ॥३७

मलयेन च विन्ध्येन मेरुणा मन्दरेण च ।

दर्दुरेण च ते देवि शपे मूलफलेन च ॥३८

यथा सुनयनं वल्गु बिम्बोष्ठं चारुकुण्डलम् ।

मुखं द्रक्ष्यसि रामस्य पूर्णचन्द्र मिवोदितम् ॥३९

क्षिप्रं द्रक्ष्यसि वैदेहि रामं प्रस्रवणे गिरौ ।

शतक्रतु मिवासीनं नाकपृष्ठस्य मूर्धनि ॥४०

न मांसं राघवो भुङ्क्ते न चाऽपि मधु सेवते ।

वन्यं सुविहितं नित्यं भक्त मश्नाति पञ्चमम् ॥४१

नैव दंशान्न मशकान्न कीटान्न सरीसृपान् ।

राघवोऽपनये द्गात्रात्त्वद्गतेनान्तरात्मना ॥४२

नित्यं ध्यानपरो रामो नित्यं शोकपरायणः ।

नान्यच्चिन्तयते किंचित्स तु कामवशं गतः ॥४३

अनिद्रस्सततं रामस्सुप्तोऽपि च नरोत्तमः ।

सीतेति मधुरां वाणीं व्याहरन् प्रतिबुध्यते ॥४४

दृष्ट्वा फलं वा पुष्पं वा यद्वाऽन्यत्सुमनोहरम् ।

बहुशो हा प्रियेत्येवं श्वसंस्त्वामभिभाषते ॥४५

स देवि नित्यं परितप्यमानस्त्वामेव सीतेत्यभिभाषमाणः ।

घृतव्रतो राजसुतो महात्मा तवैव लाभाय कृतप्रयत्नः ॥४६

सा रामसंकीर्तनवीतशोका रामस्य शोकेन समानशोका ।

शरन्मुखे सांबुदशेषचंद्रा निशेव वैदेहसुता बभूव ॥४७

इति श्रीमत्सुन्दरकाण्डे षट्त्रिंशस्सर्गः ॥
<MISSING_FIG href="../books_images/U-IMG-170435938315.png"/>

॥ सप्तत्रिंशस्सर्गः ॥

सीता तद्वचनं श्रुत्वा पूर्णचंद्र निभानना ।

हनूमंतमुवाचेदं धर्मार्थसहितं वचः ॥१

अमृतं विषसंसृष्टं त्वया वानर भाषितम् ।

यच्च नान्यमना रामो यच्च शोकपरायणः ॥२

ऐश्वर्ये वा सुविस्तीर्ण व्यसने वा सुदारुणे ।

रज्ज्वेव पुरुषं बद्ध्वा कृतांतः परिकर्षति ॥३

विधिर्नूनमसंहार्यःप्राणिनां प्लवगोत्तम ।

सौमित्रिं मां च रामं च व्यसनैः पश्य मोहितान् ॥४

शोकस्यास्य कदा पारं राघवोऽधिगमिष्यति ।

प्लवमानः परिश्रांतो इतनौ स्सागरे यथा ॥५

राक्षसानां वधं कृत्वा सूदयित्वा च रावणम् ।

लंकामुन्मूलितां कृत्वा कदा द्रश्यति मां पतिः ॥६

स वाच्यस्संत्वरस्वेति यावदेव न पूर्यते ।

अयं संवत्सरः कालस्तावद्धि मम जीवितम् ॥७

वर्तते दशमो मासो द्वौतु शेषौ प्लवंगम ।

रावणेन नृशंसेन समयो यः कृतो मम ॥८

विभीषणेन च भ्रात्रा मम निर्यातनं प्रति ।

अनुनीतः प्रयत्नेन नच तत्कुरुते मतिम् ॥९

मम प्रतिप्रदानं हि रावणस्य न रोचते ।

रावणं मार्गते संख्ये मृत्युः कालवशं गतम् ॥१०

ज्येष्ठा कन्याऽनला नाम विभीषणसुता कपे ।

तया ममेद माख्यातं मात्रा प्रहितया स्वयम् ॥११

अविंध्यो नाम मेधावी विद्वान् राक्षसपुङ्गवः ।

द्युतिमान् शीलवान् वृद्धो रावणस्य सुसंगतः ॥

रामक्षयमनुप्राप्तं रक्षसां प्रत्यचोदयत् ।

न च तस्य सदुष्टात्मा शृणोति वचनं हितम् ॥

असंशयं हरिश्रेष्ठ क्षिप्रं मां प्राप्स्यते पतिः ।

अंतरात्मा हि मे शुद्धस्तस्मिंश्च बहवो गुणाः ॥१२

उत्साहःपौरुषं सत्त्वमानृशंस्यं कृतज्ञता ।

विक्रमश्च प्रभावश्च संति वानर राघवे ॥१३

चतुर्दशसहस्राणि राक्षसानां जघान यः ।

जनस्थाने विना भ्रात्रा शत्रुः कस्तस्य नो द्विजेत् ॥१४

न स शक्यस्तुलयितुं व्यसनैः पुरुषर्षभः ।

अहं तस्य प्रभावज्ञा शक्रस्येव पुलोमजा ॥१५

शरजालांशुमान्शूरः कपे रामदिवाकरः ।

शत्रु रक्षोमयं तोयमुपशोषं नयिष्यति ॥१६

इति सञ्जल्पमानां तां रामार्थे शोककर्शिताम् ।

अश्रुसंपूर्णनयना मुवाच वचनं कपिः ॥१७

श्रुत्वैव तु वचो मह्यं क्षिप्रमेष्यति राघवः ।

चमूं प्रकर्षन्महतीं हर्य्वृक्षगणसंकुलाम् ॥१८

अथ वा मोचयिष्यामि त्वामद्यैव वरानने ।

अस्माद्दुःखादुपारोह मम पृष्ठमनिन्दिते ॥१९

त्वां हि पृष्ठगतां कृत्वा सन्तरिष्यामि सागरम् ।

शक्तिरस्ति हि मे वोढुं लङ्कामपि सरावणाम् ॥२०

अहं प्रस्रवणस्थाय राघवायाद्य मैथिलि ।

प्रापयिष्यामि शक्राय हव्यं हुतमिवानलः ॥२१

द्रक्ष्यस्यद्यैव वैदेहि राघवं सह लक्ष्मणम् ।

व्यवसायसमायुक्तं विष्णुं दैत्यवधे यथा ॥२२

त्वद्दर्शनकृतोत्साहमाश्रमस्थं महाबलम् ।

पुरन्दरमिवासीनं नागराजस्य मूर्धनि ॥२३

पृष्ठ मारोह मे देवि मा विकांक्षस्व शोभने ।

योगमन्विच्छ रामेण शशांकेनेव रोहिणी ॥२४

कथयन्तीव चन्द्रेण सूर्येण च महार्चिषा ।

मत्पृष्ठ मधिरुह्य त्वं तराकाशमहार्णवौ ॥२५

नहि मे संप्रयातस्य त्वामितो नयतोंऽगने ।

अनुगन्तुं गतिं शक्तास्सर्वे लङ्कानिवासिनः ॥२६

यथै वाहमिह प्राप्त स्तथैवाहमसंशयम् ।

यास्यामि पश्य वैदेहि त्वामुद्यम्य विहायसम् ॥२७

मैथिली तु हरिश्रेष्ठाच्छ्रुत्वा वचनमद्भुतम् ।

हर्षविस्मितसर्वांगी हनुमन्तमथाब्रवीत् ॥२८

हनुमन् दूर मध्वानं कथं मां वोढुमिच्छसि ।

तदेव खलु ते मन्ये कपित्वं हरियूथप ॥२९

कथंवाल्पशरीरस्त्वं मामितो नेतुमिच्छसि ।

सकाशं मानवेन्द्रस्य भर्तुर्मे प्लवर्षभ ॥३०

सीताया वचनं श्रुत्वा हनुमान्मारुतात्मजः ।

चिंतयामास लक्ष्मीवान्नवं परिभवं कृतम् ॥३१

न मे जानाति सत्त्वं वा प्रभावं वाऽसितेक्षणा ।

तस्मात्पश्यतु वैदेही यद्रूपं मम कामतः ॥३२

इति संचिंत्य हनुमांस्तदा प्लवगसत्तमः ।

दर्शयामास वैदेह्यास्स्वरूपमरिमर्दनः ॥३३

स तस्मात्पादपाद्धीमानाप्लुत्य प्लवर्षभः ।

ततो वर्धितु मारेभे सीताप्रत्ययकारणात् ॥३४

मेरुमंदरसंकाशो बभौ दीप्तानलप्रभः ।

अग्रतो व्यवतस्थे च सीताया वानरोत्तमः ॥३५

हरिः पर्वतसंकाशस्ताम्रवक्रो महाबलः ।

वज्रदंष्ट्रनखो भीमो वैदेहीमिदमब्रवीत् ॥३६

सपर्वतवानोद्देशां साटृप्राकारतोरणाम् ।

लंकामिमां सनाथां वा नयितुं शक्ति रस्ति मे ॥३७

तदवस्थाप्यतां बुद्धिरलं देवि विकांक्षया ।

विशोकं कुरु वैदेहि राघवं सह लक्ष्मणम् ॥३८

तं दृष्ट्वा भीमसंकाशमुवाच जनकात्मजा ।

पद्मपत्त्रविशालाक्षी मारुतस्यौरसं सुतम् ॥३९

तव सत्त्वं बलं चैव विजानामि महाकपे ।

वायोरिव गतिं चैव तेजाश्चाग्रेरिवाद्भुतम् ॥४०

प्राकृतोऽन्यः कथं चेनां भूमिमागंतुमर्हति ।

उदधेरप्रमेयस्य पारं वानरपुंगव ॥४१

जानामि गमने शक्तिं नयने चापि ते मम ।

अवश्यं संप्रधार्याशु कार्यसिद्धिर्महात्मनः ॥४२

अयुक्तं तु कपिश्रेष्ठ मम गंतुं त्वयाऽनघ ।

वायुवेगसवेगस्य वेगो मां मोहयेत्तव ॥४३

अहमाकाशमापन्ना ह्युपर्युपरि सागरम् ।

प्रपतेयं हि ते पृष्ठाद्भयाद्वेगेन गच्छतः ॥४४

पतिता सागरे चाहं तिमिनक्रझषाकुले ।

भवेयमाशु विवशा यादसामन्नमुत्तमम् ॥४५

न च शक्ष्ये त्वया सार्धं गंतुं शत्रुविनाशन ।

कलत्रवति संदेह स्त्वय्यपि स्यादसंशयः ॥४६

ह्रियमाणां तु मां दृष्ट्वा राक्षसा भीमविक्रमाः ।

अनुगच्छेयुरादिष्टा रावणेन दुरात्मना ॥४७

तैस्त्वं परिवृतश्शूरैश्शूलमुद्गरपाणिभिः ।

भवेस्त्वं संशयं प्राप्तो मया वीरकलत्रवान् ॥४८

सायुधा बहवो व्योम्निराक्षसास्त्वं निरायुधः ।

कथं शक्ष्यसि संयातुं मां चैव परिरक्षितुम् ॥४९

युध्यमानस्य रक्षोभिस्तव तैः क्रूरकर्मभिः ।

प्रपतेयं हि ते पृष्ठाद्भयार्ता कपिसत्तम ॥५०

अथ रक्षांसि भीमानि महांति बलवंति च ।

कथंचि त्सांपराये त्वां जयेयुः कपिसत्तम ॥५१

अथवा युध्यमानस्य पतेयं विमुखस्य ते ।

पतितां च गृहीत्वा मां नयेयुः पापराक्षसाः ॥५२

मां वा हरेयुस्त्वद्वस्ताद्विशसेयुरथापि वा ।

अव्यवस्थौ हि दृश्येते युद्धे जयपराजयौ ॥५३

अहं वापि विपद्येयं रक्षोभिरभितर्जिता ।

त्वत्प्रयत्नो हरिश्रेष्ठ भवेन्निष्फल एव तु ॥५४

कामं त्वमसि पर्याप्तो निहंतुं सर्वराक्षसान् ।

राघवस्य यशो हीयेत्त्वया शस्तैस्तु राक्षसैः ॥५५

अथवाऽऽदाय रक्षांसि न्यसेयुस्संवृतेहि माम् ।

यत्र ते नाभिजानीयुर्हरयो नापि राघवौ ॥५६

आरम्भस्तु मदर्थोऽयं ततस्तव निरर्थकः ।

त्वया हि सह रामस्य महानागमने गुणः ॥५७

मयि जीवितमायत्तं राघवस्य महात्मनः ।

भ्रातॄणां च महाबाहो तव राजकुलस्य च ॥५८

तौ निराशौ मदर्थं तु शोकसन्तापकर्शितौ ।

सह सर्वर्क्षहरिभिस्त्यक्ष्यतः प्राणसंग्रहम् ॥५९

भर्तुर्भक्तिं पुरस्कृत्य रामादन्यस्य वानर ।

न स्पृशामि शरीरन्तु पुंसो वानरपुङ्गव ॥६०

यदहं गात्रसंस्पर्शं रावणस्य बला द्गता ।

अनीशा किं करिष्यामि विनाथा विवशा सती ॥६१

यदि रामो दशग्रीवमिह हत्वा सबान्धवम् ।

मामितो गृह्य गच्छेत तत्तस्य सदृशं भवेत् ॥६२

श्रुता हि दृष्टाश्च मया पराक्रमा महात्मन स्तस्य रणावमर्दिनः ।

न देवगन्धर्वभुजङ्गराक्षसा भवंति रामेण समा हि संयुगे ॥६३

समीक्ष्य तं संयति चित्रकार्मुकं महाबलं वासवतुल्यविक्रमम् ।

सलक्ष्मणं को विषहेत राघवं हुताशनं दीप्तमिवानिलेरितम् ॥६४

सलक्ष्मणं राघव माजिमर्दनं दिशागजं मत्तमिव व्यवस्थितम् ।

सहेत को वानरमुख्यसंयुगे युगांतसूर्यप्रतिमं शरार्चिषम् ॥६५

स मे हरिश्रेष्ठ सलक्ष्मणं पतिं सयूथपं क्षिप्रमिहोपपादय ।

चिराय रामं प्रति शोककर्शितां कुरुष्व मां वानरमुख्य हर्षिताम् ॥६६

इति श्रीमत्सुन्दरकाण्डे सप्तत्रिंशस्सर्गः ॥
<MISSING_FIG href="../books_images/U-IMG-170435990916.png"/>

॥ अष्टत्रिंशस्सर्गः ॥

ततस्स कपिशार्दूलस्तेन वाक्येन हर्षितः ।

सीतामुवाच तच्छ्रुत्वा वाक्यं वाक्यविशारदः ॥१

युक्तरूपं त्वया देवि भाषितं शुभदर्शने ।

सदृशं स्त्रीस्वभावस्य साध्वीनां विनयस्य च ॥२

स्त्रीत्वान्न त्वं समर्था सि सागरं व्यतिवर्तितुम् ।

मामधिष्ठाय विस्तीर्णं शतयोजन मायतम् ॥३

द्वितीयं कारणं यच्च ब्रवोषि विनयान्विते ।

रामादन्यस्य नार्हामि संस्पर्शमिति जानकि ॥४

एतत्ते देवि सदृशं पत्न्या स्तस्य महात्मनः ।

काह्यन्या त्वामृते देवि ब्रूपा द्वचन मीदृशम् ॥५

श्रोष्यते चैव काकुत्स्थ स्सर्व निरवशेषतः ।

चेष्टितं यत्त्वया देवि भाषितं मम चाग्रतः ॥६

कारणै र्बहुभिर्देवि रामप्रियचिकीर्षया ।

स्नेहप्रस्कन्नमनसा मयैतत्समुदीरितम् ॥७

लङ्काया दुष्प्रवेशत्वा द्दुस्तरत्वान्महोदघेः ।

सामर्थ्या दात्मनश्चैव मयैत त्समुदीरितम् ॥८

इच्छामि त्वां समानेतु मद्यैव रघुबन्धुना ।

गुरुस्नेहेन भक्त्या च नान्यथैत दुदाहृतम् ॥९

यदि नोत्सहसे यातुं मया सार्धं मनिन्दिते ।

अभिज्ञानं प्रयच्छ त्वं जानीया द्राघवो हि यत् ॥१०

एव मुक्ता हनुमता सीता सुरसुतोपमा ।

उवाच वचनं मन्दं बाष्पप्रग्रथिताक्षरम् ॥११

इदं श्रेष्ठ मभिज्ञानं ब्रूया स्त्वन्तु ममप्रियम् ।

शैलस्य चित्रकूटस्य पादे पूर्वोत्तरे पुरा ॥१२

तापसाश्रमवासिन्याः प्राज्यमूलफलोदके ।

तस्मिन् सिद्धाश्रमे देशे मन्दाकिन्या ह्यदूरतः ॥१३

तस्योपवनषण्डेषु नानापुष्पसुगन्धिषु ।

विहृत्य सलिलक्लिन्ना तवांके समुपाविशम् ॥१४

ततो मांससमायुक्तो वायसः पर्यतुण्डयत् ।

तमहं लोष्टमुद्यम्य वारयामि स्म वायसम् ॥१५

दारयन् सच मां काक स्तत्रैव परिलीयते ।

नचाप्युपारम न्मांसा द्भक्षार्थी बलिभोजनः ॥१६

उत्कर्षंत्यां च रशनां क्रुद्धायां मयि पक्षिणि ।

स्रस्यमाने च वसने ततो दृष्टा त्वया ह्यहम् ॥१७

त्वयाऽपहसिता चाहं क्रुद्धा संलज्जिता तदा ।

भक्षगृध्नेन काकेन दारिता त्वा मुपागता ॥१८

आसीनस्य च ते श्रान्ता पुन रुत्सङ्गमाविशम् ।

क्रुध्यन्ती च प्रहृष्टेन त्वयाऽहं परिसान्त्वता ॥१९

बाष्पपूर्णमुखी मन्दं चक्षुषी परिमार्जती ।

लक्षिताऽहं त्वयानाथ वायसेन प्रकोपिता ॥२०

परिश्रमा त्प्रसुप्ताच राघवाङ्केऽप्यहं चिरम् ।

प्रर्यायेण प्रसुप्तश्च ममाङ्के भरताग्रजः ॥२१

सतत्र पुनरेवाथ वायस स्समुपागमत् ।

ततस्सुप्तप्रबुद्धां मां राम स्याङ्का त्समुत्थिताम् ॥२२

वायस स्सहसागम्य विददार स्तनान्तरे ।

पुनःपुन रथोत्पत्य विददार स मां भृशम् ॥२३

तत स्समुक्षितो रामो मुक्तै श्शोणितबिन्दुभिः ।

स मां दृष्ट्वा महाबाहु र्वितुन्नां स्तनयो स्तदा ॥२४

[स मया बोधित श्श्रीमान्सुखसुप्तः परन्तपः ।

स मां दृष्ट्वा महाबाहु र्वितुन्नांस्तनयोस्तदा ॥]२५

आशीविष इव क्रुद्धः श्वसन् वाक्य मभाषत ।

केन ते नागनासोरु विक्षतं वैस्तनान्तरम् ॥२६

कः क्रीडति सरोषेण पञ्चवक्रेण भोगिना ।

वीक्षमाण स्तत स्तं वै वायसं समुदैक्षत ॥२७

नखै स्सरुधिरैस्तीक्ष्णैर्मामेवाभिमुखं स्थितम् ।

पुत्त्रः किल स शक्रस्य वायसः पततां वरः ॥२८

धरान्तरगत श्शीघ्रं पवनस्य गतौ समः ।

तत स्तस्मिन्महाबाहुः कोपसंवर्तितेक्षणः ॥२९

वायसे कृतवान् क्रूरां मतिं मतिमतां वरः ।

स दर्भं संस्तरा द्गृह्य ब्राह्मोणास्त्रेणयोजयत् ॥३०

स दीप्त इव कालाग्नि र्जज्वालाभिमुखो द्विजम् ।

स तं प्रदीप्तं चिक्षेप दर्भं तं वायसं प्रति ॥३१

तत स्तं वायसं दर्भ र्स्सोऽबरेऽनुजगाम ह ।

अनुसृष्ट स्तदा काको जगाम विविधां गतिम् ॥३२

लोककाम इमं लोकं सर्वं वै विचचार ह ।

स पित्त्रा च परित्यक्त स्सुरैश्च समहर्षिभिः ॥३३

त्रीन् लोकान् संपरिक्रम्य तमेव शरणं गतः ।

स तं निपतितं भूमौ शरण्य श्शरणागतम् ॥३४

बधार्ह मपि काकुत्स्थः कृपया पर्यपालयत् ।

न शर्म लब्ध्वा लोकेषु तमेव शरणं गतः ॥३५

परिद्युनं विषण्णं च स त मायांत मब्रवीत् ।

मोघं कर्तुं न शक्यं तु ब्राह्म मत्रं तदुच्यताम् ॥३६

हिनस्तु दक्षिणाक्षि त्वच्छर इत्यथ सोऽब्रवीत् ।

तत स्तस्याक्षि काकस्य हिनस्ति स्म स दक्षिणम् ॥३७

दत्वा स दक्षिणं नेत्रं प्राणेभ्यः परिरक्षितः ।

स रामाय नमस्कृत्वा राज्ञे दशरथायच ॥३८

विसृष्टस्तेन वीरेण प्रतिपेदे स्व मालयम् ।

मत्कृते काकमात्रेतु ब्रह्मास्त्रं समुदीरितम् ॥३९

कस्मा द्यो मां हरेत्त्वत्तः क्षमसे तं महीपते ।

स कुरुष्व महोत्साहः कृपां मयि नरर्षभ ॥४०

त्वया नाथवती नाथ ह्यनाथा इव दृश्यते ।

आनृशंस्यं परो धर्मस्त्वत्तएव मया श्रुतः ॥४१

जानामि त्वां महावीर्यं महोत्साहं महाबलम् ।

अपारपार मक्षोभ्यं गांभीर्या त्सागरोपमम् ॥४२

भर्तारं ससमुद्राया धरण्या वासवोपमम् ।

एव मस्त्रविदां श्रेष्ठ स्सत्यवा न्बलवा नपि ॥४३

किमर्थ मस्त्रं रक्षस्सु नयोजयति राघवः ।

न नागा नापि गन्धर्वा नासुरा न मरुद्गणाः ॥४४

रामस्य समरे वेगं शक्ताः प्रतिसमाधितुम् ।

तस्य वीर्यवतः कश्चिद्यद्यस्तिमयि सम्भ्रमः ॥४५

किमर्थं नशरैस्तीक्ष्णैः क्षयं नयति राक्षसान् ।

भ्रातु रादेश मादाय लक्ष्मणोवा परंतपः ॥४६

कस्यहेतो र्न मां वीरः परित्राति महाबलः ।

यदि तौ पुरुषव्याघ्रौ वाय्वग्निसमतेजसौ ॥४७

सुराणामपि दुर्धर्षौ किमर्थं मा मुपेक्षतः ।

ममैव दुष्कृतं किंचि न्मह दस्ति न संशयः ॥४८

समर्था वपि तौ यन्मां नावेक्षेते परन्तपौ ।

वैदेह्या वचनं श्रुत्वा करुणं साश्रुभाषितम् ॥४९

अथाब्रवीन्महातेजा हनुमा न्मारुतात्मजः ।

स्वच्छोकविमुखो रामो देवि सत्येन मे शपे ॥५०

रामे दुःखाभिपन्ने च लक्ष्मणः परितप्यते ।

कथं चि द्भवती दृष्टा नकालः परिशोचितुम् ॥५१

इमं मुहूर्तं दुःखानां द्रक्ष्यस्यंत मनिंदिते ।

ता वुभौ पुरुषव्याघ्रौ राजपुत्रौ महाबलौ ॥५२

त्वदृर्शनकृतोत्साहौ लंकां भस्मी करिष्यतः ।

हत्त्वा च समरे क्रूरं रावणं सहबांधवम् ॥५३

राघव स्त्वां विशालाक्षि नेष्यति स्वां पुरीं प्रति ।

ब्रूहि यद्राघवो वाच्यो लक्ष्मणश्च महाबलः ॥५४

सुग्रीवो वाऽपि तेजस्वी हरयोऽपि समागताः ।

इत्युक्तवति तस्मिंस्तु सीता सुरसुतोपमा ॥५५

उवाच शोकसंतप्ता हनुमन्तं प्लवङ्गमम् ।

कौसल्या लोकभर्तारं सुषुवे यं मनस्विनी ॥५६

तं ममार्थे सुखं पृच्छ शिरसा चाभिवादय ।

स्रज श्च सर्वरत्नानि प्रियायाश्च वराङ्गनाः ॥५७

ऐश्वर्यं च विशालायां पृथिव्या मपि दुर्लभम् ।

पितरं मातरं चैव सम्मान्याभिप्रसाद्य च ॥५८

अनुप्रव्रजितो रामं सुमित्रा येन सुप्रजाः ।

आनुकूल्येन धर्मात्मा त्यत्त्वा सुख मनुत्तमम ॥५९

अनुगच्छति काकुत्स्थं भ्रातरं पालय न्वने ।

सिंहस्कन्धो महाबाहु र्मनस्वी प्रियदर्शनः ॥६०

पितृवद्वर्तते रामे मातृवन्मां समाचरन् ।

ह्रियमाणां तदा वीरो न तु मां वेद लक्ष्मणः ॥६१

वृद्धोपसेवी लक्ष्मीवान्शक्तो न बहुभाषिता ।

राजपुत्रः प्रिय श्श्रेष्ठ स्सदृश श्श्वशुरस्य मे ॥६२

मम प्रियतरो नित्यं भ्राता रामस्य लक्ष्मणः ।

नियुक्तो धुरि यस्यांतु ता मुद्रहति वीर्यवान् ॥६३

यं दृष्ट्वा राघवोनैव वृत्तमार्य मनुस्मरेत् ।

स ममार्थाय कुशलं वक्तव्यो वचना न्मम ॥६४

मृदुर्नित्यं शुचिर्दक्षः प्रियो रामस्य लक्ष्मणः ।

यथाहि वानरश्रेष्ठ दुःखक्षयकरो भवेत् ॥६५

त्वमस्मिन्कार्यनिर्योगे प्रमाणं हरिसत्तम ।

राघव स्त्वत्समारम्भा न्मयि यत्नपरोभवेत् ॥६६

इदं ब्रूयाश्च मेनाथं शूरं रामं पुनःपुनः ।

जीवितं धारयिष्यामि मासं दशरथात्मज ॥६७

ऊर्ध्वं मासान्न जीवेयं सत्येनाऽहं ब्रवीमि ते ।

रावणेनोपरुद्धां मां निकृत्या पापकर्मणा ॥६८

त्रातु मर्हसि वीर त्वं पाताला दिव कौशिकीम् ।

ततो वस्त्रगतं मुक्त्वा दिव्यं चूडामणि शुभम् ॥६९

प्रदेयो राघवायेति सीता हनुमते ददौ ।

प्रतिगृह्य ततो वीरो मणिरत्नमनुत्तमम् ॥७०

अङ्गुल्या योजयामास नह्यस्य प्राभव द्भुजः ।

मणिरत्नं कपिवरः प्रतिगृह्याऽभिवाद्य च ॥७१

सीतां प्रदक्षिणं कृत्वा प्रणतः पार्श्वत स्स्थितः ।

हर्षेण महता युक्तस्सीतादर्शनजेनसः ॥७२

हृदयेन गतो रामं शरीरेण तु विष्ठितः ।

मणिवर मुपगृह्यतं महार्हं जनकनृपात्मजया घृतं प्रभावात् ।

गिरि रिव पवनावधूतमुक्त स्सुखितमनाः प्रतिसंक्रमं प्रपेदे ॥७३

इति श्रीमत्सुन्दरकाण्डे अष्टत्रिंशस्सर्गः ॥
<MISSING_FIG href="../books_images/U-IMG-170436046916.png"/>

॥ एकोनचत्वारिंशस्सर्गः ॥

मणिं दत्वा तत स्सीता हनुमन्त मथाऽब्रवीत् ।

अभिज्ञान मभिज्ञात मेत द्रामस्य तत्त्वतः ॥१

मणिं तु दृष्ट्वा रामो वै त्रयाणां संस्मरिष्यति ।

वीरो जनन्या मम च राज्ञो दशरथस्य च ॥२

स भूय स्त्वं समुत्साहे चोदितो हरिसत्तम ।

अस्मिन्कार्यसमारम्भे प्रचिन्तय यदुत्तरम् ॥३

त्व मस्मिन्कार्यनिर्योगे प्रमाणं हरिसत्तम ।

हनुमन्यत्न मास्थाय दुःखक्षयकरो भव ॥४

तस्य चिन्तयतो यत्नो दुःखक्षयकरो भवेत् ।

स तथेति प्रतिज्ञाय मारुति र्भीमविक्रमः ॥५

शिरसा वन्द्य वैदेहीं गमनायोपचक्रमे ।

ज्ञात्वा संप्रस्थितं देवी वानरं मारुतात्मजम् ॥६

बाष्पगद्गदया वाचा मैथिली वाक्य मब्रवीत् ।

कुशलं हनुमन्ब्रूया स्सहितौ रामलक्ष्मणौ ॥७

सुग्रीवं च सहामात्यं वृद्धान्सर्वां श्च वानरान् ।

ब्रूया स्त्वं वानरश्रेष्ठ कुशलं धर्मसंहितम् ॥८

यथा स च महाबाहुर्मां तारयति राघवः ।

अस्माद्दुःखाम्बुसंरोधा त्त्वं समाधातु मर्हसि ॥९

जीवंतों मां यथा राम स्सम्भावयतिकीर्तिमान् ।

तत्तथा हनुमन्वाच्यं वाचा धर्म मवाप्नुहि ॥१०

नित्यमुत्साहयुक्ताश्च वाचश्श्रुत्वात्वयेरिताः ।

वर्धिष्यते दाशरथेः पौरुषं मदवाप्तये ॥११

मत्सन्देशयुताः वाच स्त्वत्त श्श्रुत्वा च राघवः ।

पराक्रमविधिं वीरो विधिव त्संविधास्यति ॥१२

सीताया वचनं श्रुत्वा हनुमान्मारुतात्मजः ।

शिरस्यञ्जलि माधाय वाक्यमुत्तर मब्रवीत् ॥१३

क्षिप्र मेष्यति काकुत्स्थो हर्यृक्षप्रवरै र्वृतः ।

यस्ते युधि विजित्यारीन्शोकं व्यपनयिष्यति ॥१४

नहि पश्यामि मर्त्येषु नासुरेषु सुरेषु वा ।

यस्तस्य क्षिपतो बाणान्स्थातु मुत्सहतेऽग्रतः ॥१५

अप्यर्क मपि पर्जन्य मपिवैवस्वतं यमम् ।

स हि सोढुं रणे शक्तस्तव हेतोर्विशेषतः ॥१६

स हि सागरपर्यन्तां महीं शासितु मीहते ।

त्वन्निमित्तो हि रामस्य जयो जनकनन्दिनि ॥१७

तस्य तद्वचनं श्रुत्वा सम्यक्सत्यं सुभाषितम् ।

जानकी बहुमेनेऽथ वचनं चेद मब्रवीत् ॥१८

तत स्तं प्रस्थितं सीता वीक्षमाणा पुनः पुनः ।

भर्तृस्नेहान्वितं वाक्यं सौहार्दा दनुमानयत् ॥१९

यदिवा मन्यसे वीर वसै काह मरिन्दम ।

कस्मिंश्चित्संवृते देशे विश्रान्त श्श्वो गमिष्यसि ॥२०

मम चै वाल्पभाग्याया स्सान्निध्यात्तव वानर ।

अस्य शोकस्य महतो मुहूर्तं मोक्षणं भवेत् ॥२१

गते हि हरिशार्दूल पुन रागमनायतु ।

प्राणाना मपि संदेहो मम स्या न्नात्रसंशयः ॥२२

तवादर्शनज श्शोको भूयो मां परितापयेत् ।

दुःखा द्दुःखपरामृष्टां दीपयन्निव वानर ॥२३

अयं च वीर सन्देह स्तिष्ठतीव ममाग्रतः ।

सुमहां स्त्वत्सहायेषु हर्यक्षेषु हरीश्वर ॥२४

कथंनु खलु दुष्पारं तरिष्यन्ति महोदधिम् ।

तानि हर्यृक्षसैन्यानि तौ वा नरवरात्मजो ॥२५

त्रयाणा मेव भूतानां सागरस्यास्य लङ्घने ।

शक्ति स्याद्वैनतेयस्य तव वा मारुतस्य वा ॥२६

त दस्मिन्कार्यनिर्योगे वीरैवं दुरतिक्रमे ।

किं पश्यसि समाधानं त्वं हि कार्यविदां वरः ॥२७

काम मस्य त्वमेवैकः कार्यस्य परिसाधने ।

पर्याप्तः परवीरघ्न यशस्यस्ते फलोदयः ॥२८

बलै स्समग्रैर्यदिमां रावणं जित्य संयुगे ।

विजयी स्वपुरं यायात्तत्तु मे स्याद्यशस्करम् ॥२९

शरैस्तु संकुलां कृत्वा लङ्कां परबलार्दनः ।

मां नये द्यदि काकुत्स्थ स्तत्तस्य सदृशं भवेत् ॥३०

तद्यथा तस्य विक्रान्त मनुरूपं महात्मनः ।

भवेदाहवशूरस्य तथात्व मुपपादय ॥३१

तदर्थोपहितं वाक्यं प्रश्रितं हेतुसंहितम् ।

निशम्य हनुमान्शेषं वाक्य मुत्तर मब्रवीत् ॥३२

देवि हर्यृक्षसैन्याना मीश्वरः प्लवतां वरः ।

सुग्रीव स्सत्त्वसंपन्नस्तवार्थे कृतनिश्चयः ॥३३

स वानरसहस्राणां कोटीभि रभिसंवृतः ।

क्षिप्र मेष्यति वैदेहि राक्षसानां निबर्हणः ॥३४

तस्य विक्रमसंपन्नास्सत्त्ववन्तो महाबलाः ।

मनस्सङ्कल्पसंपाता निदेशे हरय स्स्थिताः ॥३५

येषां नोपरि नाधस्ता न्नतिर्य क्सज्जते गतिः ।

नच कर्मसु सीदन्ति महत्स्वमिततेजसः ॥३६

असकृत्तैर्महोत्साहै स्ससागरधराधरा ।

प्रदक्षिणीकृता भूमि र्वायुमार्गानुसारिभिः ॥३७

मद्विशिष्टा श्च तुल्या श्च संति तत्र वनौकसः ।

मत्तः प्रत्यवरः कश्चिन्नास्ति सुग्रीवसन्निधौ ॥३८

अहं ताव दिह प्राप्तः किंपुनस्ते महाबलाः ।

नहि प्रकृष्टाः प्रेष्यन्ते प्रेष्यन्ते हीतरे जनाः ॥३९

तदलं परितापेन देवि शोको व्यपैतु ते ।

एकोत्पातेन ते लङ्का मेष्यन्ति हरियूथपाः ॥४०

मम पृष्ठगतौ तौ च चन्द्रसूर्या विवोदितौ ।

त्वत्सकाशं महासत्त्वौ नृसिंहावागमिष्यतः ॥४१

ततो वीरौ नरवरौ सहितौ रामलक्ष्मणौ ।

आगम्य नगरीं लङ्कां सायकै र्विधमिष्यतः ॥४२

सगणं रावणं हत्वा राघवो रघुनन्दनः ।

त्वा मादाय वरारोहे स्वपुरं प्रति यास्यति ॥४३

तदाश्वसिहि भद्रन्ते भव त्वं कालकांक्षिणी ।

न चिरात् द्रक्ष्यसे रामं प्रज्वलन्त मिवानलम् ॥४४

निहते राक्षसेन्द्रेऽस्मिन्सपुत्त्रामात्यबान्धवे ।

त्वं समेष्यसि रामेण शशाङ्केनेव रोहिणी ॥४५

क्षिप्रं त्वं देवि शोकस्य पारं यास्यसि मैथिलि ।

रावणं चैव रामेण निहतं द्रक्ष्यसेऽचिरात् ॥४६

एव माश्वास्य वैदेहीं हनुमान्मारुतात्मजः ।

गमनाय मतिं कृत्वा वैदेहीं पुन रब्रवीत् ॥४७

तमरिघ्नं कृतात्मानं क्षिप्रं द्रक्ष्यसि राघवम् ।

लक्ष्मणं च धनुष्पाणिं लङ्काद्वार मुपस्थितम् ॥४८

[ सुग्रीवसहितं शूरं वानरैः परिवारितम् ]

नखदंष्ट्रायुधान्वीरानसिंहशार्दूलविक्रमान् ।

वानरान्वारणेन्द्राभान्क्षिप्रं द्रक्ष्यसि सङ्गतान् ॥४९

शैलाम्बुदनिकाशानां लङ्कामलयसानुषु ।

नर्दतां कपिमुख्याना मार्गे यूथान्यनेकशः ॥५०

स तु मर्मणि घोरेण ताडितो मन्मथेषुणा ।

न शर्म लभते राम स्सिंहार्दित इव द्विपः ॥५१

मारुदो देवि शोकेन माभूत्ते मनसोऽप्रियम् ।

शचीव पत्या शक्रेण भर्त्रा नाथवती ह्यसि ॥५२

रामा द्विशिष्टः कोऽन्योऽस्ति कश्चित्सौमित्रिणा समः ।

अग्निमारुतकल्पौ तौ भ्रातरौ तव संश्रयौ ॥५३

नास्मिंश्चिरं वत्स्यसि देवि देशे रक्षोगणै रध्युषितेऽतिरौद्रे ।

नते चिरा दागमनं प्रियस्य क्षमस्वमत्सङ्गमकालमात्रम् ॥५४

॥ इति श्रीमत्सुन्दरकाण्डे एकोनचत्वारिंशस्सर्गः ॥
<MISSING_FIG href="../books_images/U-IMG-170436093515.png"/>

॥ चत्वारिंशस्सर्गः ॥

श्रुत्वातु वचनं तस्य वायुसूनोर्महात्मनः ।

उवाचात्महितं वाक्यं सीता सुरसुतोपमा ॥१

त्वां दृष्ट्वा प्रियवक्तारं संप्रहृष्यामि वानर ।

अर्धसञ्जातसस्येव वृष्टिं प्राप्य वसुन्धरा ॥२

यथा तं पुरुषव्याघ्रं गात्रैश्शोकाभिकर्शितैः ।

संस्पृशेयं सकामाहं तथा कुरु दयां मयि ॥३

अभिज्ञानं च रामस्य दद्या हरिगणोत्तम ।

क्षिप्ता मिषीकां काकस्य कोपा देकाक्षिशातनीम् ॥४

मनश्शिलायास्तिलको गण्डपार्श्वे निवेशितः ।

त्वया प्रणष्टे तिलके तं किल स्मर्तु मर्हसि ॥५

स वीर्यवा न्कथं सीतां हृतां स मनुमन्यसे ।

वसन्तीं रक्षसां मध्ये महेन्द्रवरुणोपमः ॥६

एष चूडामणिर्दिव्यो मया सुपरिरक्षितः ।

एतं दृष्ट्वा प्रहृष्यामि व्यसने त्वा मिवानघ ॥७

एष निर्यातित श्श्रीमा न्मयाते वारिसंभवः ।

अतः परं न शक्ष्यामि जीवितुं शोकलालसा ॥८

असह्यानि च दुःखानि वाच श्च हृदयाच्छिदः ।

राक्षसीनां सुघोराणां त्वत्कृते मर्षयाम्यहम् ॥९

धारयिष्यामि मासं तु जीवितं शत्रुसूदन ।

ऊर्ध्वं मासा न जीविण्ये त्वया हीना नृपात्मज ॥१०

घोरो राक्षसराजोऽयं दृष्टि श्च न सुखा मयि ।

त्वां च श्रुत्वा विपद्यंतं न जीवेय महं क्षणम् ॥११

वैदेह्या वचनं श्रुत्वा करणं साश्रु भाषितम् ।

अथाब्रवीन्महातेजा हनुमान्मारुतात्मजः ॥१२

त्वच्छोकविमुखो रामो देवि सत्येन ते शपे ।

रामे दुःखाभिभूते तु लक्ष्मणः परितप्यते ॥१३

कथंचिद्भवती दृष्टा न कालः परिशोचितुम् ।

इमं मुहूर्तं दुःखाना मंतं द्रक्ष्यसि भामिनि ॥१४

तावुभौ पुरुषव्याघ्रौ राजपुत्त्रा वरिंदमौ ।

त्वद्दर्शनकृतोत्साहौ लंकां भस्मीकरिष्यतः ॥१५

हत्वा तु समरे क्रूरं रावणं सहबांधवम् ।

राघवौ त्वां विशालाक्षि स्वां पुरीं प्रापयिष्यतः ॥१६

यत्तु रामो विजानीया दभिज्ञान मनिंदिते ।

प्रीतिसंजननं तस्य भूय स्त्वं दातु मर्हसि ॥१७

साऽब्रवीद्दत्तमेवहो मयाभिज्ञान मुत्तमम् ।

एतदेव हि रामस्य दृष्ट्वा मत्केशभूषणम् ॥१८

श्रद्धेयं हनुमन्वाक्यं तव वीर भविष्यति ।

सतं मणिवरं गृह्य श्रीमान् प्लवगसत्तमः ॥१९

प्रणम्य शिरसा देवीं गमनायोपचक्रमे ।

तमुत्पातकृतोत्साह मवेक्ष्य हरिपुंगवम् ॥२०

वर्धमानं महावेग मुवाच जनकात्मजा ।

अश्रुपूर्णमुखी दीना बाष्पगद्गदयागिरा ॥२१

हनुमन् सिंहसंकाशौ भ्रातरौ रामलक्ष्मणौ ।

सुग्रीवंच सहामात्यं सर्वान्ब्रुया ह्यनामयम् ॥२२

यथा च समहाबाहु र्मां तारयति राघवः ।

अस्मा द्दुःखांबुसंरोधात्त्वं समाधातु मर्हसि ॥२३

इमं च तीव्रं मम शोकवेगं रक्षोभि रोभिः परिभर्त्सनंच ।

ब्रूयास्तु रामस्य गतस्समीपं शिवश्च तेऽध्वास्तु हरिप्रवीर ॥२४

स राजपुत्त्र्या प्रतिवेदितार्थः कपिः कृतार्थः परिहृष्टचेताः ।

अल्पावशेषं प्रसमीक्ष्य कार्यं दिशं ह्युदीचीं मनसा जगाम ॥२५

इति श्रीमत्सुन्दरकाण्डे चत्वारिंशस्सर्गः ॥
<MISSING_FIG href="../books_images/U-IMG-170436108916.png"/>

॥एकचत्वारिंशस्सर्गः॥

स च वाग्भिःप्रशस्ताभि र्गमिष्यन् पूजितस्तया ।

तस्मा द्देशा दपक्रम्य चिंतयामास वानरः ॥१

अल्पशेष मिदं कार्यं दृष्टेय मसितेक्षणा ।

त्रीनुपाया नतिक्रम्य चतुर्थ इह विद्यते ॥२

न साम रक्षस्सु गुणाय कल्पते न दान मर्थोपचितेषु युज्यते ।

न भेदसाध्या बलदर्पिता जनाः पराक्रम स्त्वेव ममेह रोचते ॥३

नचास्य कार्यस्य पराक्रमादृते विनिश्चयः कश्चिदिहोपपद्यते ।

हतप्रवीराहिरणेहिराक्षसाः कथंचिदीयुर्यदिहाद्य मार्दवम् ॥४

कार्ये कर्मणि निर्दिष्टे यो बहून्यपि साधयेत् ।

पूर्वकार्याविरोधेन स कार्यं कर्तु मर्हति ॥५

नह्येक स्साधको हेतु स्स्वल्पस्यापीह कर्मणः ।

योह्यर्थं बहुधा वेद ससमर्थोऽर्थसाधने ॥६

इह्रैवतावत्कृतनिश्चयो ह्यहं यदि व्रजेयं प्लवगेश्वरालयम् ।

परात्मसम्मर्दविशेषतत्त्ववित्ततः कृतं स्या न्ममभर्तृशासनम् ॥७

कथंनु खल्वद्य भवे त्सुखागतं प्रसह्य युद्धं मम राक्षसैस्सह ।

तथैव खल्वात्मबलञ्च सारवत्सम्मानये न्माञ्च रणे दशाननः ॥८

तत स्समासाद्य रणे दशाननं समंत्रिवर्गं सबल प्रयायिनम् ।

हृदि स्थितं तस्य मतं बलंचवै सुखेन मत्वाह मितः पुन र्व्रजे ॥ ९

इद मस्य नृशंसस्य नन्दनोपम मुत्तमम् ।

वनं नेत्रमनः कान्तं नानाद्रुमलतायुतम् ॥१०

इदं विध्वंसयिष्यामि शुष्कं वन मिवानलः ।

अस्मिन्भग्ने ततः कोपं करिष्यति दशाननः ॥११

ततो महत्साश्वमहारथद्विपं बलं समादेक्ष्यति राक्षसाधिपः ।

त्रिशूलकालायसपट्टसायुधं ततो महद्युद्ध मिदं भविष्यति ॥१२

अहन्तुतै स्संयति चण्डविक्रमै स्समेत्य रक्षोभिरसह्यविक्रमः ।

निहत्य तद्रावणचोदितं बलं सुखं गमिष्यामि कपीश्वरालयम् ॥ १३

ततो मारुतवत्क्रुद्धो मारुति र्भीमविक्रमः ।

उरुवेगेन महता द्रुमान्क्षेतु मथारभत् ॥१४

ततस्तु हनुमा न्वीरो बभञ्ज प्रमदावनम् ।

मत्तद्विपसमाघुष्टं नानाद्रुमलतायुतम् ॥१५

तद्वनं मथितै र्वृक्षै र्भिन्नैश्च सलिलाशयैः ।

चूर्णितैः पर्वताग्रैश्च बभूवाप्रियदर्शनम् ॥१६

नानाशकुन्तविरुतैः प्रभिन्नै स्सलिलाशयैः ।

ताम्रैः किसलयैः क्लांतैः क्लांतद्रुमलतायुतम् ॥१७

नबभौ तद्वनं तत्र दावानलहतं यथा ।

व्याकुलावरणा रेजु र्विह्वलाइव ता लताः ॥१८

लतागृहैश्चित्रगृहैश्च नाशितै र्महोरगैर्व्यालमृगैश्च निर्धुतैः ।

शिलागृहै रुन्मथितै स्तथा गृहैः प्रणष्टरूपं तदभून्महद्वनम् ॥१९

सा विह्वला शोकलताप्रताना वनस्थली शोकलताप्रताना ।

जाता दशास्यप्रमदावनस्य कपे र्बलाद्धि प्रमदावनस्य ॥२०

स तस्य कृत्वाऽर्थपतेर्महाकपि र्महव्यलीकं मनसो महात्मनः ।

युयुत्सुरेको बहुभिर्महाबलै रिश्रया ज्वलन्तोरण मास्थितः कपिः ॥२१

इति श्रीमत्सुन्दरकाण्डे एकचत्वारिंशस्सर्गः ॥
<MISSING_FIG href="../books_images/U-IMG-170436130616.png"/>

॥ द्विचत्वारिंशस्सर्गः ॥

ततः पक्षिनिनादेन वृक्षभंगस्वनेनच ।

बभूवु स्त्राससम्भ्रान्ता स्सर्वे लङ्कानिवासिनः ॥१

विद्रुताश्च भयत्रस्ताःविनेदुर्मृगपक्षिणः ।

रक्षसाञ्च निमित्तानि क्रूराणि प्रतिपेदिरे ॥२

ततो गतायां निद्रायां राक्षस्यो विकृताननाः ।

त द्वनं दद्दशु र्भग्नं तं च वीरं महाकपिम् ॥३

स ता दृष्ट्वा महाबाहु र्महासत्त्वो महाबलः ।

चकार सुमह द्रूपं राक्षसीनां भयावहम् ॥४

ततस्तं गिरिसंकाश मतिकायं महाबलम् ।

राक्षस्यो वानरं दृष्ट्वा पप्रच्छु र्जनकात्मजाम् ॥५

कोऽयं कस्य कुतो वायं किन्निमित्त मिहागतः ।

कथं त्वया सहानेन संवादः कृतइत्युत ॥६

आचक्ष्व नो विशालाक्षि माभूते सुभगे भयम् ।

संवाद मसितापाङ्गे त्वया किं कृतवा नयम् ॥७

अथाब्रवीन्महासाध्वी सीता सर्वाङ्गसुन्दरी ।

रक्षसां भीमरूपाणां विज्ञाने मम कागतिः ॥८

यूय मेवाभिजानीत योऽयं यद्वा करिष्यति ।

अहि रेव ह्यहे पादा न्विजानाति न संशयः ॥९

अह मध्यस्य भीतास्मि नैनं जानामि कोऽन्वयम् ।

वेद्मि राक्षस मे वैनं कामरूपिण मागतम् ॥१०

वैदेह्या वचनं श्रुत्वा रक्षस्यो विद्रुतादिशः ।

स्थिताः काश्रि द्गताः काश्चि द्रावणाय निवेदितुम् ॥११

रावणस्य समीपेतु राक्षस्यो विकृताननाः ।

विरूपं वानरं भीम माख्यातु मुपचक्रमुः ॥१२

अशोकवनिकामध्ये राजन् भीमवपुः कपिः ।

सतिया कृतसंवाद स्तिष्ठत्यमितविक्रमः ॥१३

न च तं जानकी सीता हरिं हरिणलोचना ।

अस्माभि र्बहुधा पृष्टा निवेदयितु मिच्छति ॥१५

वासवस्य भवे द्दूतो दूतो वैश्रवणस्य वा ।

प्रेषितो वापि रामेण सीतान्वेषणकांक्षया ॥२५

तेन त्वद्भुतरूपेण यत्तत्तव मनोहरम् ।

नानामृगगणाकीर्णं प्रमृष्टं प्रमदावनम् ॥१६

न तत्र कश्चि दुद्देशो यस्तेन नविनाशितः ।

यत्र सा जानकी सीता स तेन नविनाशितः ॥१७

जानकीरक्षणार्थं वा श्रमाद्वा नोपलाक्ष्यते ।

अथवा कश्श्रमस्तस्य सैव तेनाभिरक्षिता ॥१८

चारुपल्लवपुष्पाढ्यं यं सीता स्वय मास्थिता ।

प्रवृद्ध श्शिंशुपावृक्ष स्सच तेनाभिरक्षितः ॥१९

तस्योग्ररूपस्योतग्रंत्वं दंड माज्ञातु मर्हसि ।

सीतासंभाषिता येन तद्वनंच विनाशितम् ॥२०

मनः परिगृहीतां तां तव रक्षो गणेश्वर ।

कस्सीता मभिभाषेत यो न स्या त्त्यक्तजीवितः ॥२१

राक्षसीनां वच श्श्रुत्वा रावणो राक्षसेश्वरः ।

हुताग्नि रिव जज्वाल कोपसंवर्तितेक्षणः ॥२२

तस्य क्रुद्धस्य नेत्राभ्यां प्रापत न्नाश्रुबिंदवः ।

दीप्ताभ्यामिव दीपाभ्यां सार्चिष स्स्नेहबिंदवः ॥२३

आत्मन स्सदृशान् शूरान् किंकरान्नाम राक्षसान् ।

व्यादिदेश महातेजा निग्रहार्थं हनूमतः ॥२४

तेषा मशीतिसाहस्रं किंकराणां तरस्विनाम् ।

निर्ययु र्भवना त्तस्मा त्कूटमुद्गरपाणयः ॥२५

महोदरा महादंष्ट्रा घोररूपा महाबलाः ।

युद्धाभिमनस स्सर्वे हनुमद्रहणोद्यताः ॥२६

तेकपींद्रं समासाद्य तोरणस्थ मवस्थितम् ।

अभिपेतुर्महावेगाःपतंगाइव पावकम् ॥२७

तेगदाभि र्विचित्राभिः परिघैः काञ्चनांगदैः ।

आजध्नु र्वानरश्रेष्ठ शरै श्चादित्यसन्निभैः ॥२८

मुद्गरैः पट्टसै श्शूलैःप्रासतोमरशक्तिभिः ।

परिवार्य हनुमन्तं सहसा तस्थु रग्रतः ॥२९

हनुमानपि तेजस्वी श्रीमान्पर्वतसन्निभः ।

क्षिता वाविध्य लांगूलं ननाद च महास्वनम् ॥३०

सभूत्वा सुमहाकायो हनुमान्मारुतात्मजः ।

धृष्ट मास्फोटयामास लङ्कांशब्देन पूरयन् ॥३१

तस्यास्फोटितशब्देन महता चानुनादिना ।

पेतु र्विहंगा गगना दुच्चै श्चेद मघोषयत् ॥३२

जयत्यतिबलो रामो लक्ष्मणश्च महाबलः ।

राजा जयति सुग्रीवो राघवेणाभिपालितः ॥३३

दासोऽहं कोसलेन्द्रस्य रामस्याक्लिष्टकर्मणः ।

हनुमान्शत्रुसैन्यानां निहन्ता मारुतात्मजः ॥३४

न रावणसहस्रं मे युद्धे प्रतिबलं भवेत् ।

शिलाभिस्तु प्रहरतः पादपैश्च सहस्रशः ॥३५

अर्दयित्वा पुरीं लङ्का मभिवाद्यच मैथिलीम् ।

समृद्धार्थो गमिष्यामि मिषतां सर्वरक्षसाम् ॥३६

तस्यसन्नादशब्देन तेऽभवन्भयशंकिताः ।

ददृशुश्च हनूमन्तं सन्ध्यामेघ मिवोन्नतम् ॥३७

स्वामिसंदेशनिश्शङ्का स्ततस्ते राक्षसाः कपिम् ।

चित्रैः प्रहरणै र्भीमै रभिपेतुस्ततस्ततः ॥३८

सतैः परिवृत श्शूरै स्सर्वत स्सुमहाबलः ।

आससादाऽयसं भीमं परिघं तोरणाश्रितम् ॥३९

स तं परिघ मादाय जघान रजनीचरान् ।

सपन्नगमिवादाय स्फुरन्तं विनतासुतः ॥४०

विचचाराम्बरे वीरः परिगृह्यच मारुतिः ।

[ सूदयामास वज्रेण दैत्यानिव सहस्रदृक् ]

सहत्वा राक्षसा न्वीरान्किंकरा न्मारुतात्मजः ॥४१

युद्धकांक्षी पुन र्वीर स्तोरणं समुपाश्रितः ।

ततस्तस्माद्भयान्मुक्ताः कतिचि त्तत्रराक्षसाः ॥४२

निहतामकिंकरान्सर्वान्रावणाय न्यवेदयन् ।

स राक्षसानां निहतं महद्रलं निशम्य राजा परिवृत्तलोचनः ।

समादिदेशाप्रतिमं पराक्रमे प्रहस्तपुत्त्रं समरे सुदुर्जयम् ॥४३

इति श्रीमत्सुन्दरकाण्डे द्विचत्वारिंशस्सर्गः ॥
<MISSING_FIG href="../books_images/U-IMG-170447694316.png"/>

॥ त्रिचत्वारिंशस्सर्गः ॥

तत स्स किंकरा न्हत्वा हनुमान्ध्यान मास्थितः ।

वनं भग्नं मया चैत्यप्रासादो न विनाशितः ॥१

तस्मा त्प्रासाद मप्येव भीमं विध्वंसयाम्यहम् ।

इति संचिंत्य मनसा हनुमान् दर्शयन् बलम् ॥२

चैत्यप्रासाद माप्लुत्य मेरुश्गं मिवोन्नतम् ।

आरुरोह कपिश्रेष्ठो हनुमान्मरुतात्मजः ॥३

आरुह्य गिरिसंकाशं प्रासादं हरियूथपः ।

बभौ स सुमहातेजाः प्रतिसूर्य इवोदितः ॥४

संप्रधृष्य च दुर्धर्षं चैत्य प्रासाद मुत्तमम् ।

हनुमान् प्रज्वलन् लक्ष्म्या पारियात्रोपमोऽभवत् ॥५

स भूत्वा सुमहाकायःप्रभावा न्मारुतात्मजः ।

घृष्ट मास्फोटयामास लंकां शब्देन पूरयन् ॥६

तस्यास्फोटितशब्देन महता श्रोत्रघातिना ।

पेतु र्विहंगमा स्तत्र चैत्यपालाश्च मोहिताः ॥७

अस्त्रवि जयतां रामो लक्ष्मणश्च महाबलः ।

राजा जयति सुग्रीवो राघवेणाभिपालितः ॥८

दासोऽहं कोसलेंद्रस्य रामस्याक्लिष्टकर्मणः ।

हनुमान् शत्रुसैन्यानां निहंता मारुतात्मजः ॥९

न रावणसहस्रं मे युद्धे प्रतिबलं भवेत् ।

शिलाभिस्तु प्रहरतः पादपैश्च सहस्रशः ॥१०

अर्दयित्वा पुरीं लङ्का मभिवाद्यच मैथिलीम् ।

समृद्धार्थो गमिष्यामि मिषतां सर्वरक्षसाम् ॥११

एव मुक्त्वा विमानस्थ श्चैत्यस्थान् हरियूथपः ।

ननाद भीमनिर्ह्रादो रक्षसां जनयन्भयम् ॥१२

तेन शब्देन महता चैत्यपाला श्शतं ययुः ।

गृहीत्वा विविधा नस्त्रा न्प्रासा न्खड्गा न्परश्वधान् ॥१३

विसृजन्तो महाकाया मारुतिं पर्यवारयन् ।

ते गदाभि र्विचित्राभिः परिघैः काञ्चनाङ्गदैः ॥१४

आजघ्नु र्वानरश्रेष्टं बाणै श्चादित्यसन्निभैः ।

आवर्त इव गङ्गाया स्तोयस्य विपुलो महान् ॥१५

परिक्षिप्य हरिश्रेष्ठं स बभौ रक्षसां गणः ।

ततो वातात्मजः क्रुद्धो भीम रूपं समास्थितः ॥१६

प्रासादस्य महांस्तस्य स्तंभं हेमपरिष्कृतम् ।

उत्पाटयित्वा वेगेन हनुमान्यवनात्मजः ॥१७

ततस्तं भ्रामयामास शतधारं महाबलः ।

तत्र चाग्नि स्समभवत्प्रासाद श्चाप्यदह्यत ॥१८

दह्यमानं ततो दृष्ट्वाप्रासादं हरियूथपः ।

स राक्षसशतं हत्वा वज्रे णेंद्र इवासुरान् ॥१९

अन्तरिक्षेस्थित श्श्रीमा निदं वचन मब्रवीत् ।

मादृशानां सहस्राणि विसृष्टानि महात्मनाम् ॥२०

बलिनां वानरेन्द्राणां सुग्रीववशवर्तिनाम् ।

अटंति वसुधां कृत्स्नां वय मन्येच वानराः ॥२१

दशनागबलाः केचि त्केचिद्दशगुणोत्तराः ।

केचिन्नागसहस्रस्य बभूवु स्तुल्यविक्रमाः ॥२२

संति चौघबलाः केचित्केचि द्वायुबलोपमाः ।

अप्रमेयबलाश्चान्ये तत्रा सन्हरियूथपाः ॥२३

ईदृग्विधैस्तु हरिभिर्वृतो दन्तनखायुधैः ।

शतैश्शतसहस्त्रैश्च कोटीभि रयुतैरपि ॥२४

आगमिष्यति सुग्रीव स्सर्वेषांवो निषूदनः ।

नेय मस्ति पुरी लङ्का न यूयं न च रावणः ।

यस्मादिक्ष्वाकुनाथेन बद्धं वैरं महात्मना ॥२५

इति श्रीमत्सुन्दरकाण्डे त्रिचत्वारिंशस्सर्गः ॥
<MISSING_FIG href="../books_images/U-IMG-170447710416.png"/>

॥ चतुश्चत्वारिंशस्सर्गः ॥

संदिष्टो राक्षसेन्द्रेण प्रहस्तस्य सुतो बली ।

जम्बुमाली महादंष्ट्रो निर्जगाम धनुर्धरः ॥१

रक्तमाल्याम्बरधर स्स्त्रग्वी रुचिरकुंडलः ।

महा न्विवृत्तनयन श्चंड स्मरदुर्जयः ॥२

[दग्धत्रिकूटप्रतिमो महाजलदसन्निभः ।

महाभुजशिरस्कन्धो महादंष्ट्रो महाननः ॥

महाजवो महोत्साहो महासत्त्वोरुविक्रमः ।

आजगामातिवेगेन वज्राशनिसमस्वनः ॥ ]

धनुश्शक्रधनुःप्रख्यं महद्रुचिरसायकम् ।

विष्फारयानो वेगेन वज्राशनिसमस्वनम् ॥३

तस्यविष्फारघोषेण धनुषो महता दिशः ।

प्रदिश श्च नमश्चैव सहसा समपूर्यत ॥४

[उद्गच्छ न्निव चादित्यः प्रभामि रिव लोहितः ।

लोहिताङ्गेन महता कवचेनाभिसंवृतः ।

तिष्ठ तिष्ठेति सहसा हनूमन्तमथाब्रवीत् ॥ ]

रथेन खरयुक्तेन त मागत मुदीक्ष्य सः ।

हनुमान्वेगसंपन्नोजहर्ष चननाद च ॥५

तं तोरणविटंकस्थं हनुमन्तं महाकपिम् ।

जम्बुमाली महाबाहु र्विव्याध निशितैश्शरैः ॥६

अर्धचन्द्रेण वदने शिरस्ये केन कर्णिना ।

बाह्वोर्विव्याध नाराचै र्दशभिस्तं कपीश्वरम् ॥७

तस्य तच्छुशुभे ताम्रं शरेणाभिहतं मुखम् ।

शरदीवांबुजं फुल्लं विद्धं भास्कररश्मिना ॥८

तत्तस्य रक्तं रक्तेन रंजितं शुशुभे मुखम् ।

यथालोके महापद्मं सिक्तं चंदनबिंदुभिः ॥९

चुकोप बाणाभिहतो राक्षसस्य महाकपिः ।

ततः पार्श्वेऽतिविपुलां ददर्श महतीं शिलाम् ॥१०

तरसा तां समुत्पाट्य चिक्षेप बलवद्धली ।

तां शरैर्दशभिः क्रुद्ध स्ताडयामास राक्षसः ॥११

विपन्नं कर्म तद्दृष्ट्वा हनूमां श्चंडविक्रमः ।

सालं विपुल मुत्पाट्य भ्रामयामास वीर्यवान् ॥१२

भ्रामयंतं कपिं दृष्ट्वा सालवृक्षं महाबलम् ।

चिक्षेप सुबहून् बाणान् जंबुमाली महाबलः ॥१३

सालं चतुर्भि श्चिच्छेद वानरं पंचभि र्भुजे ।

उरस्येकेन बाणेन दशभि स्तु स्तनांतरे ॥१४

स शरैः पूरिततनुः क्रोधेन महता वृतः ।

त मेव परिघं गृह्य भ्रामयमास वेगितः ॥१५

अतिवेगोऽतिवेगेन भ्रामयित्वा बलोत्कटः ।

परिघं पातयामास जंबुमाले र्महोरसि ॥१६

तस्य चैव शिरो नास्ति न बाहू न च जानुनी ।

न धनुर्न रथो नाश्वास्तत्रादृश्यंत नेषवः ॥१७

स हत स्सहसा तेन जंबुमाली महाबलः ।

पपात निहतो भूमौ चूर्णितांगविभूषणः ॥१८

जंबुमालिं च निहतं किंकरां श्च महाबलान् ।

चुक्रोध रावण श्श्रुत्वा कोपसंरक्तलोचनः ॥१९

सरोषसंवर्तितताम्रलोचनः प्रहस्तपुत्त्रे निहते महाबले ।

अमात्यपुत्त्रा नतिवीर्यविक्रमान् समादिदेशानु निशाचरेश्वरः ॥ २०

इति श्रीमत्सुन्दरकाण्डे चतुश्चत्वारिंशस्सर्गः ॥
<MISSING_FIG href="../books_images/U-IMG-170447725416.png"/>

॥ पञ्चचत्वारिंशस्सर्गः ॥

ततस्ते राक्षसेंद्रेण चोदिता मंत्रिणस्सुताः ।

निर्ययु र्भवना त्तस्मा त्सप्तसप्तार्चिवर्चसः ॥१

महाबलपरीवारा धनुष्मंतो महाबलाः ।

कृतास्त्रास्त्रविदां श्रेष्ठाः परस्परजयैषिणः ॥२

हेमजालपरिक्षिप्तै र्ध्वजवद्भिः पताकिभिः ।

तोयदखननिर्घोषै र्वाजियुक्तैर्महारथैः ॥३

तप्तकांचनचित्राणि चापान्यमितविक्रमाः ।

विष्फारयंत स्संहृष्टा स्तटित्वंत इवांबुदाः ॥४

जनन्यस्तु ततस्तेषां विदित्वा किंकरा न्हतान् ।

बभूवुश्शोकसंभ्रांता स्सबांधवसुहृज्जनाः ॥५

ते परस्परसंघर्षा त्तप्तकांचनभूषणाः ।

अभिपेतु र्हनूमंतं तोरणस्थ मवस्थितम् ॥६

सृजंतो बाणवृष्टिं ते रथगर्जितनिस्स्वनाः ।

वृष्टिमंत इवांभोदा विचेरु नैर्ऋतांबुदाः ॥७

अवकीर्णस्ततस्ताभि र्हनुमान् शरवृष्टिभिः ।

अभवत्संवृताकार श्शैलराडिव वृष्टिभिः ॥८

स शरान्मोघयामास तेषा माशुचरः कपिः ।

रथवेगं च वीराणां विचर न्विमलेऽम्बरे ॥९

सतैः क्रीडन्धनुष्मद्भि र्व्येम्निवीरः प्रकाशते ।

धनुष्मद्भि र्यथा मेघैर्मारुतः प्रभु रंबरे ॥१०

स कृत्वा निनदं घोरं त्रासयं स्तां महाचमूम् ।

चकार हनुमान् वेगं तेषु रक्षस्सु वीर्यवान् ॥११

तलेनाभ्यहन त्कांश्चि त्पादैः कांश्चि त्परंतपः ।

मुष्टिनाऽभ्यहन त्कांश्चिन्नखैः कांश्चिद्व्यदारयत ॥१२

प्रममाथोरसा कांश्चि दूरुभ्या मपरान् कपिः ।

केचित्तस्य निनादेन तत्रैव पतिता भुवि ॥१३

ततस्तेष्ववसन्नेषु भूमौ निपतितेपुच ।

तत्सैन्य मगम त्सर्वं दिशो दश भयार्दितम् ॥१४

विनेदु र्विस्वरं नागा निपेतु र्भुविवाजिनः ।

भग्ननीडध्वजच्छत्रै र्भूश्च कीर्णाऽभव द्रथैः ॥१५

स्रवता रुधिरेणाथ स्रवन्त्यो दर्शिताः पथि ।

विविधैश्च स्वरैर्लङ्का ननाद विकृतं तदा ॥१६

सता न्प्रवृद्धा न्विनिहत्य राक्षसान् महाबल श्चण्डपराक्रमः कपिः ।

युयुत्सुरन्यैः पुनरेव राक्षसै स्तमेव वीरोऽभिजगामतोरणम् ॥१७

इति श्रीमत्सुन्दरकाण्डे पश्चत्वारिंशस्सर्गः ॥
<MISSING_FIG href="../books_images/U-IMG-170447738516.png"/>

॥ षट्चत्वारिंशस्सर्गः ॥

हतान्मन्त्रिसुतान्बुद्धा वानरेण महात्मना ।

रावण स्संवृताकारश्चकारमतिमुत्तमाम् ॥१

स विरूपाक्षयूपाक्षौ दुर्घरंचैव राक्षसम् ।

प्रघसं भासकर्णंच पञ्च सेनाग्रनायकान् ॥२

संदिदेश दशग्रीवो वीरान्नयविशारदान् ।

हनुमद्ग‌हणव्यग्रा न्वायु वेगसमान्युधि ॥३

यात सेनाग्रगा स्सर्वे महाबलपरिग्रहाः ।

सवाजिरथमातङ्गा स्सकपि श्शास्यतामिति ॥४

यत्नैश्च खलु भाव्यं स्यात्त मासाद्य वनालयम् ।

कर्मचापि समाधेयं देशकालाविरोधितम् ॥५

[ वानरोऽयमिति ज्ञात्वा नहि शुद्ध्यति मे मनः ।

नैवाहं तं कपिं मन्ये यथेयं प्रस्तुतकथा ॥ ]

नाह्यहं तं कपिं मन्ये कर्मणा प्रतितर्कयन् ।

सर्वधा तन्मह द्भूतं महाबलपरिग्रहम् ॥६

भवेदिन्द्रेण वा सृष्ट मस्मदर्थं तपोबलात् ।

सनागयक्षगन्धर्वा देवासुरमहर्षयः ॥७

युष्माभि स्सहितै स्सर्वैर्मयासह विनिर्जिताः ।

तै रवश्यं विधातव्यं व्यलीकं किंचिदेव नः ॥८

तदेव नात्रसंदेहः प्रसह्य परिगृह्यताम् ।

नावमान्यो भवद्भिश्च हरि र्धीरपराक्रमः ॥९

दृष्टाहि हरयः पूर्वं मया विपुलविक्रमाः ।

वालीच सह सुग्रीवो जांबवां च महाबलः ॥१०

नील स्सेनापतिश्चैव येचान्ये द्विविदादयः ।

नैवं तेषां गति र्भोमा नतेजो नपराक्रमः ॥११

नमति र्नबलोत्साहौ नरूपपरिकल्पनम् ।

महत्सत्त्व मिदं ज्ञेयं कपिरूपं व्यवस्थितम् ॥१२

प्रयत्नं महदास्थाय क्रियता मस्य निग्रहः ।

कामं लोकास्त्रय स्सेंद्रा स्ससुरासुरमानवाः ॥१३

भवता मग्रतः स्थातुं न पर्याप्ता रणाजिरे ‌।

तथापितु नयज्ञेन जय माकांक्षता रणे ॥१४

आत्मा रक्ष्यः प्रयत्नेन युद्धसिद्धिर्हि चंचला ।

ते स्वामिवचनं सर्वे प्रतिगृह्य महौजसः ॥१५

समुत्पेतु र्महावेगा हुताशसमतेजसः ।

रथै र्मत्तैश्च मातंगै र्वाजिभिश्च महाजवैः ॥१६

शस्त्रैश्च विविधै स्तीक्ष्णै स्सर्वै श्चोपचिता बलैः ।

तत स्तं ददृशु र्वीरा दीप्यमानं महाकपिम् ॥१७

रश्मिमंत मिवद्यंतं स्वतेजोरश्मिमालिनम् ।

तोरणस्थं महोत्साहं महासत्त्वं महाभुजम् ॥१८

महामतिं महावेगं महाकायं महावलम् ।

तं समीक्ष्यैव ते सर्वे दिक्षु सर्वास्ववस्थिताः ॥१९

तैस्तैः प्रहरणै र्भीमै रभिपेतु स्वत स्ततः ।

तस्य पंचायसा स्तीक्ष्णा श्शिताः पीतमुखा श्शराः ॥२०

शिरस्युत्पलपत्त्राभा दुर्धरेण निपातिताः ।

सतैः पंचभि राविद्ध श्शरै श्शिरसि वानरः ॥२१

उत्पपात नदन् व्योम्नि दिशो दश विनादयन् ।

तत स्तु दुर्धरो वीर स्सरथ स्सज्यकार्मुकः ॥२२

किरन् शरशतै स्तीक्ष्णै रभिपेदे महाबलः ।

स कपि र्वारयामास तं व्योम्निशरवर्षिणम् ॥२३

वृष्टिमंतं पयोदान्ते पयोद मिव मारुतः ।

अर्द्यमान स्तत स्तेन दुर्धरेणानिलात्मजः ॥२४

चकार कदनं भूयो व्यवर्धत च वेगवान् ।

स दूरं सहसोत्पत्य दुर्धरस्य रथे हरिः ॥२५

निपपात महावेगो विद्युद्राशिर्गिराविव ।

तत स्स मथिताष्टाश्वं रथं भग्नाक्षकूबरम् ॥२६

विहाय न्यपत द्भूमौ दुर्धर स्त्यक्तजीवितः ।

तं विरूपाक्ष यूपाक्षौ दृष्ट्वा निपतितं भुवि ॥२७

संजातरोषौ दुर्धर्षा वुत्पेततु ररिन्दमौ ।

स ताभ्यां सहसोत्पत्य विष्ठितो विमलेंडबरे ॥२८

मुद्गराभ्यां महाबाहु र्वक्षस्यभिहतः कपिः ।

तयो वेंगवतो वेंग विनिहत्य महाबलः ॥२९

निपपात पुन र्भूमौ सुपर्णसमविक्रमः ।

स सालवृक्ष मासाद्य त मुत्पाट्य च वानरः ॥३०

ता वुभौ राक्षसौ वीरौ जघान पवनात्मजः ।

तत स्तां स्त्रीन् हतान् ज्ञात्वा वानरेण तरस्विना ॥३१

अभिपेदे महावेगः प्रसह्य प्रघसो हरिम् ।

भासकर्णश्च संक्रुद्ध श्शूल मादाय वीर्यवान् ॥३२

एकतःकपिशार्दूलं यशखिन मवस्थितम् ।

पट्टसेन शिताग्रेण प्रघसः प्रत्यपोथयत् ॥३३

भासकर्णश्च शूलेन राक्षसः कपिसत्तमम् ।

स ताभ्यां विक्षतैर्गात्रै रसृग्दिग्धतनूरुहः ॥३४

अभव द्वानरः क्रुद्धो बालसूर्यसमप्रभः ।

समुत्पाट्य गिरेश्शृङ्गं समृगव्यालपादपम् ॥३५

जघान हनुमा न्वीरो राक्षसौ कपिकुञ्जरः ।

गिरिशृङ्गविनिष्पिष्टौ तिलशस्तौ बभूवतुः

तत स्तेष्ववसन्नेषु सेनापतिषु पञ्चसु ॥३६

बलं त दवशेषं च नाशयामास वानरः ।

अश्वैरश्वान्गजैर्नागान्योधैर्योधान्रथैरथान॥३७

स कपिर्नाशयामास सहस्राक्ष इवासुरान् ।

हतैर्नागैश्च तुरगै र्भग्नाक्षैश्च महारथैः ॥३८

हतैश्च राक्षसै र्भूमी रुद्धमार्गासमन्ततः ।

ततः कपिस्तान्ध्वजिनीपतीन्रणे निहत्य वीरान्सबलान्सवाहनान् ।

समीक्ष्य वीरः परिगृह्य तोरणं कृतक्षणः काल इव प्रजाक्षये ॥ ३९

॥ इति श्रीमत्सुन्दरकाण्डे षट् चत्वारिंशस्सर्गः ॥
<MISSING_FIG href="../books_images/U-IMG-170454608215.png"/>

॥ सप्तचत्वारिंशस्सर्गः ॥

सेनापतीन् पंच स तु प्रमापितान् हनूमता सानुचरान् सवाहनान् ।

समीक्ष्य राजा समरोद्धतोन्मुखं कुमार मक्षं प्रसमैक्षताग्रतः ॥ १

स तस्य दृष्टचर्पणसंप्रचोदितः प्रतापवान् कांचनचित्रकार्मुकः ।

समुत्पपाताथ सदस्युदीरितो द्विजातिमुख्यै र्हविषेव पावकः ॥ २

ततो महद्बालदिवाकरप्रभं प्रतप्तजांबूनदजालसंततम् ।

रथं समास्थाय ययौ स वीर्यवान् महाहरिं तं प्रति नैर्ऋतर्षभः ॥ ३

तत स्तपस्संग्रहसंचयार्जितं प्रतप्तजांबूनदजालशोभितम् ।

पताकिनं रत्नविभूषितध्वजं मनोजवाष्टाश्ववरै स्सुयोजितम् ॥४

सुरासुराधृष्य मसंगचारिणं रविप्रभं व्योमचरं समाहितम् ।

सतूणमष्टासिनिबद्धंबधुरं यथाक्रमावेशितशक्तितोमरम् ॥५

विराजमानं प्रतिपूर्णवस्तुना स हेमदाम्ना शशिसूर्यवर्चसा ।

दिवाकराभं रथ मास्थित स्तत स्स निर्जगामामरतुल्यविक्रमः ॥ ६

स पूरयन् खंच महीं च साचलां तुरंगमातंगमहारथस्वनैः ।

बलै स्समेतै स्सहि तोरणस्थितं समर्थ मासीन मुपागमत्कपिम् ॥ ७

स तं समासाद्य हरिं हरीक्षणो युगांतकालाग्निमिव प्रजाक्षये ।

अवस्थितं विस्मितजातसंभ्रम स्समैक्षताक्षो बहुमानचक्षुषा ॥८

स तस्य वेगं च कपे र्महात्मनः पराक्रमं चारिषु पार्थिवात्मजः ।

विचारयन् स्वंच बलं महाबलो हिमक्षये सूर्य इवाभिवर्धते ॥ ९

स जातमन्युःप्रसमीक्ष्य विक्रमं स्थिरं स्थित स्संयति दुर्निवारणम् ।

समाहितात्मा हनुमंत माहवे प्रचोदयामास शरैस्त्रिभि श्शितैः ॥ १०

ततः कपिं तं प्रसमीक्ष्य गर्वितं जितश्रमं शत्रुपराजयोर्जितम् ।

अवैक्षताक्ष स्समुदीर्णमानस स्सबाणपाणिःप्रगृहीतकार्मुकः ॥ ११

स हेमनिष्कांगदचारुकुंडल स्समाससादाऽशु पराक्रमः कपिम् ।

तयो र्बभूवा प्रतिम स्समागम स्सुरासुराणा मपि संभ्रमप्रदः ॥१२

ररास भूमिर्नतताप भानुमान्ववौ न वायुः प्रचचाल चाचलः ।

कपेः कुमारस्यच वीक्ष्य संयुगं ननादच द्यौ रुदधिश्च चुक्षुभे ॥ १३

तत स्स वीर स्सुमुखान्पतत्रिण स्सुवर्णपुङ्खान्सविषा निवोरगान् ।

समाधिसंयोगविमोक्षतत्त्वविच्छरा नथ त्रीन्कपिमूध्नर्चपातयत् ॥१४

स तै श्शरैर्मूर्ध्नि समं निपातितैः क्षरन्नसृग्दिग्धविवृत्तलोचनः ।

नवोदितादित्यनिभ श्शरांशुमा न्व्यराजतादित्य इवांशुमालिकः ॥१५

तत स्स पिङ्गाधिपमन्त्रिसत्तम स्समीक्ष्य तं राजवरात्मजं रणे ।

उदग्रचित्रायुधचित्रकार्मुकं जहर्ष चापूर्यत चाहवोन्मुखः ॥१६

स मन्दराग्रस्य इवांशुमालिको विवृद्धकोपो बलवीर्यसंयुतः ।

कुमार मक्षं सबलं सवाहनं ददाह नेत्राग्निमरीचिभिस्तदा ॥१७

तत स्स बाणासनचित्रकार्मुक श्शरप्रवर्षो युधि राक्षसाम्बुदः ।

शरान्मुमोचाऽशु हरीश्वराचले वलाहको वृष्टि मिवाचलोत्तमे ॥१८

ततः कपिस्तं रणचण्डविक्रमं विवृद्धतेजोबलवीर्यसंयुतम् ।

कुमार मक्षं प्रसमीक्ष्य संयुगे ननाद हर्षा द्धनतुल्यविक्रम् ॥१९

स बालभावा द्युधि वीर्यदर्पितः प्रवृद्धमन्युः क्षतजोपमेक्षणः ।

समाससादगतिमं कपिं रणे गजो महाकूप सिवावृतं तृणैः ॥२०

स तेन बाणैः प्रसभं निपातितै श्चकार नादं घननादनिरस्स्वनः ।

समुत्पपा ताजु नभ स्स मारुति र्भुजोरुविक्षेपणघोरदर्शनः ॥२१

समुत्पतंतं समभिद्रवद्रली स राक्षसानां प्रवरः प्रतापवान् ।

रथी रथिश्रेष्ठतमः किरन्शरैः पयोधरश्शैल मिवाश्मवृष्टिभिः ॥२२

सतान्शरां स्तस्य हरिर्विमोक्षयञ्चचार वीरः पथि वायुसेविते ।

शरान्तरे मारुतव द्विनिष्पत न्मनोजव स्संयति चण्डविक्रमः ॥२३

त मात्तबाणासन माहवोन्मुखं ख मास्तृणन्तं विशिखै श्शरोत्तमैः ।

अवैक्षताक्षं बहुमानचक्षुषा जगाम चिंतां च स मारुतात्मजः ॥२४

तत श्शरै र्भिन्नभुजांतरःकपिः कुमारवीरेण महात्मना नदन् ।

महाभुजः कर्म विशेषतत्त्वविद्विचिंतयामास रणे पराक्रमम् ॥२५

अबालव द्बालदिवाकरप्रभः करोत्ययं कर्म महन्महाबलः ।

न चास्य सर्वाहवकर्मशोभिनः प्रमापणे मे मति रत्न जायते ॥ २६

अयं महात्मा च महांश्च वीर्यत स्समाहित श्चातिसहश्च संयुगे ।

असंशयं कर्मगुणोदयादयं सनागयक्षै र्मुनिभिश्च पूजितः ॥२७

पराक्रमोत्साहविवृद्धमानस स्समीक्षते मां प्रमुखोग्रत स्स्थितः ।

पराक्रमो ह्यस्य मनांसि कंपये त्सुरासुराणामपि शीघ्रगामिनः ॥ २८

न खल्वयं नाभिभवे दुपेक्षितः पराक्रमो ह्यस्य रणे विवर्धते ।

प्रमापणं त्वेव समाद्य रोचते न वर्धमानोऽग्निरुपेक्षितुं क्षमः ॥२९

इति प्रवेगंतु परस्य तर्कयन् स्वकर्मयोगं च विधाय वीर्यवान् ।

चकार वेगं तु महाबल स्तदा मतिं च चक्रेऽस्य वधे महाकपिः ॥३०

स तस्य ता नष्टहया न्महाजवान् समाहितान् भारसहा न्विवर्तने ।

जधान वीरः पथि वायुसेविते तलप्रहारैः पवनात्मजः कपिः ॥ ३१

तत स्तलेनाभिहतो महारथ स्स तस्य पिंगाधिपमंत्रिनिर्जितः ।

प्रभग्ननीडःपरिमुक्तकूबरः पपात भूमौ हतवाजि रंबरात् ॥ ३२

स तं परित्यज्य महारथो रथं स कार्मुकः खङ्गधरः ख मुत्पतन् ।

तपोऽभियोगा दृटि रुग्रवीर्यवान् विहाय देहं मरुता मिवालयम् ॥३३

ततः कपि स्तं विचरंत मंबरे पतत्रिराजानिलसिद्धसेविते ।

समेत्य तं मारुततुल्यविक्रमः क्रमेण जग्राह सपादयो र्दृढम् ॥३४

स तं समाविध्य सहस्रशः कपि र्महोरगं गृह्य इवांडजेश्वरः ।

मुमोच वेगा त्पितृतुल्यविक्रमो महीतले संयति वानरोत्तमः ॥ ३५

स भग्नबाहूरुकटीशिरोधरः क्षरन्नसृङ्निर्मथितास्थिलोचनः ।

स भग्नसन्धिः प्रविकीर्णबन्धनो हतः क्षितौ वायुसुतेन राक्षसः ॥३६

महाकपि र्भूमितले निपीड्य तं चकार रक्षोधिपनेर्मह द्भयम् ।

महर्षिभिश्चक्रचरै र्महाव्रतै स्समेत्य भूतैश्च सयक्षपन्नगैः ॥३७

सुरैश्च सेन्द्रैर्भृशजातविस्मयै र्हते कुमारे स कपिर्निरीक्षितः ।

निहत्य तं वज्रीसुतोपमप्रभं कुमार मक्षं क्षतजोपमेक्षणम् ॥३८

तमेव वीरोऽभिजगाम तोरणं कृतक्षणः काल इव प्रजाक्षये ।

इति श्रीमत्सुन्दरकाण्डे सप्तचत्वारिंशस्सर्गः ॥
<MISSING_FIG href="../books_images/U-IMG-170454639416.png"/>

॥ अष्टचत्वारिंशस्सर्गः ॥

तत स्स रक्षोधिपति र्महात्मा हनूमताऽक्षे निहते कुमारे ।

मनस्समाधाय तदेन्द्रकल्पं समादिदेशेन्द्रजितं सरोषम् ॥१

त्व मस्त्रवि च्छस्त्रविदां वरिष्ठ स्सुरासुराणामपि शोकदाता ।

सुरेषु सेंद्रेषु च दृष्टकर्मा पितामहाराधनसंचितास्त्रः ॥२

तवास्त्रवल मासाद्य ससुराः समरुद्गणाः ।

नशेकु स्समरे स्थातुं सुरेश्वरसमाश्रिताः ॥३

न कश्चि त्त्रिषु लोकेषु संयुगे न गतश्रमः ।

भुजवीर्याभिगुप्त श्च तपसा चाभिरक्षितः ॥४

देशकालविभागज्ञस्त्वमेव मतिसत्तमः ।

न तेऽस्त्यशक्यं समरेषु कर्मणा न तेऽस्त्यकार्यं मतिपूर्वमंत्रणे ॥५

न सोऽस्ति कश्चि त्त्रिषु संग्रहेषु वै न वेद यस्तेऽस्त्रबलं बलं च ते ।

ममानुरूपं तपसो बलं च पराक्रम श्चास्त्रवलं च संयुगे ॥६

न त्वां समासाद्य रणावमर्दे मन श्श्रमं गच्छति निश्चितार्थम् ।

निहताः किंकरा स्सर्वे जंबुमाली च राक्षसः ॥७

अमात्यपुत्त्रा वीराश्च पंचसेनाग्रयायिनः ।

बलानि सुसमृद्धानि साश्वनागरथानि च ॥८

सहोदर स्ते दयितःकुमारोऽक्षश्च सूदितः ।

नहि तेष्वेव मे सारो यस्त्वय्यरिनिषूदन ॥९

इदं हि दृष्ट्वा मतिमन्महद्बलं कपेःप्रभावंच पराक्रमं च ।

त्व मात्मनश्चापि समीक्ष्य सारं कुरुष्व वेगं स्वबलानुरूपम् ॥१०

बलावमर्दस्त्वयि सन्निकृष्टे यथागते शाम्यति शान्तशत्रौ ।

तथा समीक्ष्यात्मबलं परञ्च समारभस्वास्त्रविदां वरिष्ठ ॥११

न वीर सेना गणशो च्यवन्ति न वज्र मादाय विशालसारम् ।

न मारुतस्या स्यगतेः प्रमाणं न चाग्निकल्पः करणेन हंतुम् ॥१२

तमेव मर्थं प्रसमीक्ष्य सम्यक् स्वकर्मसाम्याद्धि समाहितात्मा ।

स्मरंश्च दिव्यं धनुषोऽस्त्रवीर्यं ब्रजाक्षतं कर्म समारभस्व ॥१३

नखल्वियं मति श्श्रेष्ठा यत्त्वां संप्रेषयाम्यहम् ।

इयञ्च राजधर्माणां क्षत्रस्यच मतिर्मता ॥१४

नानाशस्त्रै श्च संग्रामे वैशारद्य मरिन्दम ।

अवश्यमेव योद्धव्यं काम्यश्च विजयोरणे ॥१५

ततः पितु स्तद्वचनं निशम्य प्रदक्षिणं दक्षसुतप्रभावः ।

चकार भर्तार मदीनसत्त्वो रणाय वीरः प्रतिपन्नबुद्धिः ॥१६

तत स्तै स्वगणै रिष्टै रिंद्रजित्प्रतिपूजितः ।

युद्धोद्धवः कृतोत्साह स्संग्रामं प्रत्यपद्यत ॥१७

श्रीमान्पद्मपलाशाक्षो राक्षसाधिपते स्सुतः ।

निर्जगाम महातेजा स्समुद्र इव पर्वसु ॥१८

सपक्षिराजोपमतुल्यवेगैर्च्यालै श्चतुर्भि स्सिततीक्ष्णदंष्ट्रैः ।

रथसमायुक्त मसंगवेगं समारुरोहेंद्रजिदिंद्रकल्पः ॥१९

स रथी धन्विनां श्रेष्ठ श्शस्त्रज्ञोऽस्त्रविदां वरः ।

रथे नाभिययौ क्षिप्रं हनुमान्यत्र सोऽभवत् ॥२०

स तस्य रथ निर्घोष्रं ज्यास्वनं कार्मुकस्य च ।

निशम्य हरिवीरोऽसौ संप्रहृष्टतरोऽभवत् ॥२१

सुमहच्चाप मादाय शितशल्यांश्च सायकान् ।

हनुमंत मभिप्रेत्य जगाम रणपंडितः ॥२२

तस्मिं स्तत स्संयति जातहर्षे रणाय निर्गच्छति बाणपाणौ ।

दिशश्च सर्वाः कलुषा बभूवु र्मृगाश्च रौद्रा बहुधा विनेदुः ॥२३

समागता स्तत्र तु नागयक्षा महर्षय श्चक्रचरा श्च सिद्धाः ।

नभ स्समावृत्य च पक्षिसंघा विनेदु रुच्चैः परमप्रहृष्टाः ॥२४

आयान्तं स रथं दृष्ट्वा तूर्ण मिन्द्रजितं कपिः ।

विननाद महानादं व्यवर्धत च वेगवान् ॥२५

इन्द्रजित्तु रथं दिव्य मास्थित श्चित्रकार्मुकः ।

धनु र्विष्फारयामास तटि दूर्जितनिस्स्वनम् ॥२६

तत स्समेता वतितीक्ष्णवेगौ महाबलौ तौ रणनिर्विशङ्कौ ।

कपि श्च रक्षोधिपतेश्च पुत्त्र स्सुरासुरेन्द्रा विव बद्धवैरौ ॥२७

स तस्य वीरस्य महारथस्य धनुष्मत स्संयति सम्मतस्य ।

शरप्रवेगं व्यहन त्प्रवृद्धश्चचार मार्गे पितु रप्रमेये ॥२८

तत श्शरा नायततीक्ष्णशल्यान्सुपत्रिणः काञ्चनचित्रपुङ्खान् ।

मुमोच वीरः परवीरहंता सुसन्नतान्वज्रनिपातवेगान् ॥२९

ततस्तु तत्स्यन्दननिस्स्वनञ्च मृदङ्गभेरीपटहस्वनञ्च ।

विकृष्यमाणस्य च कार्मुकस्य निशम्यघोषं पुनरुत्पपात ॥३०

शराणा मन्तरेष्वाशु व्यवर्तत महाकपिः ।

हरिस्तस्याभिलक्ष्यस्य मोघयन्लक्ष्यसंग्रहम् ॥३१

शराणा मग्रत स्तस्य पुन स्समभिवर्तत ।

प्रसार्य हस्तौ हनुमा नुत्पपाताचिलात्मजः ॥३२

ता वुभौ वेगसंपन्नौ रणकर्मविशारदौ ।

सर्वभूतमनोग्राहि चक्रतु र्युद्ध मुत्तमम् ॥३३

हनुमतो वेद न राक्षसोंऽतरं न मारुति स्तस्य महात्मनोंऽतरम् ॥

परस्परं निर्विषहौ बभूवतु स्समेत्य तौ देवसमानविक्रमौ ॥३४

ततस्तु लक्ष्ये सविहन्यमाने शरेष्वमोघेषु च संपतत्सु ।

जगाम चिन्तां महतीं महात्मा समाधिसंयोगसमाहितात्मा ॥३५

ततो मतिं राक्षसराजसूनु श्चकार तस्मिन्हरिवरिमुख्ये ।

अवध्यतां तस्य कपे स्समीक्ष्य कथं निगच्छे दिति निग्रहार्थम् ॥३६

ततः पैतामहं वीर स्सोऽस्त्र मस्त्रविदां वरः ।

संदघे सुमहातेजा स्तं हरिप्रवरं प्रति ॥३७

अवध्योऽय मिति ज्ञात्वा तमस्त्रेणास्त्रतत्त्ववित् ।

निजग्राह महाबाहु र्मरुतात्मज मिंद्रजित् ॥३८

तेन बद्धस्ततोऽस्त्रेण राक्षसेन स वानरः ।

अभव न्निर्विचेष्टश्च पपात स महीतले ॥३९

ततोऽथ बुध्वा स तदास्त्रबंधं प्रभोः प्रभावा द्विगतात्मवेगः ।

पितामहानुग्रह मात्मन श्च विचिंतयामास हरिप्रवीरः ॥४०

तत स्स्वायंभुवै र्मंत्रै र्ब्रह्मास्त्र मभिमंत्रितम् ।

हनुमां श्चिंतयामास वरदानं पितामहात् ॥४१

नमेऽस्य बंधस्य च शक्ति रस्ति विमोक्षणे लोकगुरोः प्रभावात् ।

इत्येव मुक्त्वा विहितोऽस्त्रबंधो मयात्मयोने रनुवर्तितव्यः ॥४२

स वीर्य मत्रस्य कपि र्विचार्य पितामहानुग्रह मात्मनश्च ।

विमोक्षशक्तिं परिचिंतयित्वा पितामहाज्ञा मनुवर्तते स्म ॥४३

अस्त्रेणापि हि बद्धस्य भयं मम न जायते ।

पितामह महेन्द्राभ्यां रक्षितस्यानिलेन च ॥४४

ग्रहणेचापि रक्षोभिर्महान्मेगुणदर्शनम्।

राक्षसेन्द्रेण संवाद स्तस्माद्गृह्णंतु मां परे ॥४५

स निश्चितार्थः परवीरहंता समीक्ष्यकारी विनिवृत्तचेष्टः ।

परैः प्रसह्याभिगतै र्निगृह्य ननाद तैस्तैः परिभर्त्स्यमानः ॥४६

ततस्तं राक्षसा दृष्ट्वा निर्विचेष्ट मरिन्दमम् ।

बबन्धु श्शणवल्कै श्च दुमचीरै श्च संहतैः ॥४७

स रोचयामास परैश्च बन्धनं प्रसह्य वीरै रभिनिग्रहं च ।

कौतूहला न्मां गदि राक्षसेन्द्रो द्रष्टुं व्यवस्ये दिति निश्चितार्थः ॥४८

सबद्धस्तेन वल्केन विमुक्तोऽस्त्रेण वीर्यवान् ।

अस्त्रबन्ध स्सचान्यं हि न बन्ध मनुवर्तते ॥४९

अथेन्द्रजित्तु द्रुमचीरबद्धं विचार्य वीरः कपिसत्तमं तम् ।

विमुक्त मस्त्रेण जगाम चिन्तां नान्येन बद्धो ह्यनुवर्ततेऽस्त्रम् ॥५०

अहो मह त्कर्मकृतं निरर्थकं न राक्षसै र्मंत्रगति र्विमृष्टा ।

पुनश्च नास्त्रे विहतेऽस्त्रमन्यत्प्रवर्तते संशयितास्स्मसर्वे ॥५१

अस्त्रेण हनुमान्मुक्तो नात्मान मवबुध्यत ।

कृष्यमाणस्तु रक्षोभि स्तैश्च बन्धै र्निपीडितः ॥५२

हन्यमान स्ततः क्रूरै राक्षसैः काष्टमुष्टिभिः ।

समीपं राक्षसेन्द्रस्य प्राकृष्यत स वानरः ॥५३

अथेंद्रजित्तं प्रसमीक्ष्य मुक्त मस्त्रेण बद्धं द्रुमचीरसूत्रैः ।

व्यदर्शय त्तत्र महाबलं तं हरिप्रवीरं सगणाय राज्ञे ॥५४

तं मत्त मिव मातंगं बद्धं कपिवरोत्तमम् ।

राक्षसा राक्षसेंद्राय रावणाय न्यवेदयन् ॥५५

कोऽयं कस्य कुतो वाऽत्र किंकार्यं कोव्यपाश्रयः? ।

इति राक्षसवीराणां तत्र संजज्ञिरे कथाः ॥५६

हन्यतां दह्यतां वाऽपि भक्ष्यता मिति चापरे ।

राक्षसा स्तत्र संक्रुद्धाःपरस्पर मथाब्रुवन् ॥५७

अतीत्य मार्गं सहसा महात्मा स तत्र रक्षोऽधिपपादमूले ।

ददर्श राज्ञः परिचारवृद्धान् गृहं महारत्नविभूषितं च ॥५८

स ददर्श महातेजा रावणः कपिसत्तमम् ।

रक्षोभि र्विकृताकारैः कृष्यमाण मितस्ततः ॥५९

राक्षसाधिपतिं चापि ददर्श कपिसत्तमः ।

तेजोबलसमायुक्तं तपंत मिव भास्करम् ॥६०

स रोषसंवर्तितताम्रदृष्टि र्दशानन स्तं कपि मन्ववेक्ष्य ।

अथोपविष्टान कुलशीलवृद्धान् समादिशत्तं प्रति मंत्रिमुख्यान् ॥६१

यथाक्रमंतैस्स कपि र्विपृष्टः कार्यार्थ मर्थस्य च मूल मादौ ।

निवेदयामास हरीश्वरस्य दूत रसकाशा दह मागतोऽस्मि ॥६२

इति श्रीमत्सुन्दरकाण्डे अष्टचत्वारिंशस्सर्गः ॥
<MISSING_FIG href="../books_images/U-IMG-170454678616.png"/>

॥ एकोनपञ्चाशस्सर्गः ॥

तत स्स कर्मणा तस्य विस्मितो भीमविक्रमः ।

हनुमा न्रोषताम्नाक्षो रक्षोधिप मवैक्षत ॥१

भ्राजमानं महार्हेण काञ्चनेन विराजितम् ।

मुक्ताजालावृतेनाथ मकुटेन महाद्युतिम् ॥२

वज्रसंयोगसंयुक्तै र्महार्हमणिविग्रहैः ।

हैमै राभरणै श्चित्रैर्मनसेव प्रकल्पितैः ॥३

महार्हक्षौमसंवीतं रक्तचन्दनरूषितम् ।

स्वनुलिप्तं विधित्राभि र्विविधाभि श्च भक्तिभिः ॥४

बिवृतै र्दर्शनीयैश्च रक्ताक्षै र्भीमविक्रमैः ।

दीप्ततीक्ष्णमहादंष्ट्रैःप्रलम्वदशनच्छदैः ॥५

शिरोभि र्दशभि र्वेरं भ्राजमानं महौजसम् ।

नानाव्यालसमाकीर्णे श्शिखरै रिव मन्दरम् ॥६

नीलाञ्जनचयप्रख्यं हारेणोरसि राजता ।

पूर्णचन्द्राभवक्रेण सबलाक मिवांबुदम् ॥७

बाहुभिर्बद्धकेयूरै श्चन्दनोत्तमरूषितैः ।

भ्राजमानांगदैःपीनैः पंचशीषैरिवोरगैः ॥८

महति स्फाटिके चित्रे रत्नसंयोगसंस्कृते ।

उत्तमास्तरणास्तीर्णे सूपविष्टं वरासने ॥९

अलंकृताभि रत्यर्थं प्रमदाभि स्समंततः ।

वालव्यजनहस्ताभि रारात्समुपसेवितम् ॥१०

दुर्धरेण प्रहस्तेन महापार्श्वेन रक्षसा ।

मंत्रिभिर्मंत्रतत्त्वज्ञै र्निकुंभेन च मंत्रिणा ॥११

सुखोपविष्टं रक्षोभि श्चतुर्भि र्बलदर्पितैः ।

कृत्स्नः परिवृतो लोक श्चतुर्भि रिव सागरैः ॥१२

मंत्रिभिर्मंत्रतत्त्वज्ञै रन्यैश्च शुभबुद्धिभिः ।

अन्वास्यमानं रक्षोभि स्सुरै रिव सुरेश्वरम् ॥१३

अपश्य द्राक्षसपतिं हनुमा नतितेजसम् ।

विष्टितं मेरुशिखरे स तोय मिव तोयदम् ॥१४

सतै स्संपीड्यमानोऽपि रक्षोभि र्भीमविक्रमैः ।

विस्मयं परमं गत्वा रक्षोधिप मवैक्षत ॥१५

भ्राजमानं ततो दृष्ट्वा हनुमा त्राक्षसेश्वरम् ।

मनसा चिंतयामास तेजसा तस्य मोहितः ॥१६

अहो रूपमहो धैर्यमहो सत्त्व महोद्युतिः ।

अहो राक्षसराजस्य सर्वलक्षणयुक्तता ॥१७

यद्यधर्मो न बलवान् स्या दयं राक्षसेश्वरः ।

स्या दयं सुरलोकस्य सशक्रस्यापि रक्षिता ॥१८

अस्य क्रूरै र्नृशंसै श्च कर्मभि र्लोककुत्सितैः ।

तेन बिभ्यति खल्वस्माल्लोका स्सामरदानवाः ॥१९

अयं ह्यत्सहते क्रुद्धः कर्तु मेकार्णवं जगत् ।

इति चिन्तां बहुविधा मकरोन्मतिमान्हरिः ।

दृष्ट्वा राक्षसराजस्य प्रभाव ममितौजसः ॥२०

इति श्रीमत्सुन्दरकाण्डे एकोनपञ्चाशस्सर्गः ॥
<MISSING_FIG href="../books_images/U-IMG-170454694516.png"/>

॥ पञ्चाशस्सर्गः ॥

तमुद्वीक्ष्य महाबाहुः पिंगाक्षं पुरतस्स्थितम् ।

कोपेन महताऽऽविष्टो रावणो लोकरावणः ॥१

शङ्काहतात्मा दध्यौ स कपींद्रं तेजसा वृतम् ।

कि मेष भगवान्नन्दी भवे त्साक्षादिहागतः ॥२

येन शप्तोऽस्मि कैलासे मया सञ्चालिते पुरा ।

सोऽयंवानरमूर्तिस्स्यात्किंस्विद्वाणोऽपिवाऽसुरः ॥३

स राजा रोषताम्राक्षः प्रहस्तं मंत्रिसत्तमम् ।

कालयुक्त मुवाचेदं वचो विपुल मर्थवत् ॥४

दुरात्मा पृछ्यता मेष कुतः किं वाऽस्य कारणम् ।

वनभङ्गे च कोऽस्यार्थी राक्षसीनां च तर्जने ॥५

मत्पुरी मप्रधृष्यां वाऽऽगमने किं प्रयोजनम् ।

आयोधने वा किं कार्यं पृछ्यता मेष दुर्मतिः ॥६

रावणस्य वच श्श्रुत्वा प्रहस्तो वाक्य मब्रवीत् ।

समाश्वसिहि भद्रंते न भीः कार्या त्वया कपे ॥७

यदि तावत्त्व मिंद्रेण प्रेषितो रावणालयम् ।

तत्त्व माख्याहि माभूत्ते भयं वानर मोक्ष्यसे ॥८

यदि वैश्रवणस्य त्वं यमस्य वरुणस्य च ।

चाररूप मिदं कृत्वा प्रविष्टो नः पुरी मिमाम् ॥९

विष्णुना प्रेषितो वाऽपि दूतो विजयकांक्षिणा ।

न हि ते वानरं तेजो रूपमात्रं तु वानरम् ॥१०

तत्त्वतः कथयस्वाद्य ततो वानरमोक्ष्यसे ।

अनृतं वदत श्चापि दुर्लभं तव जीवितम् ॥११

अथवा यन्निमित्तं ते प्रवेशो रावणालये ।

एव मुक्तो हरिश्रेष्ठ स्तदा रक्षो गणेश्वरम् ॥१२

अब्रवी न्नास्मि शक्रस्य यमस्य वरुणस्य वा ।

धनदेन न मे सख्यं विष्णुना नास्मि चोदितः ॥१३

जाति रेव मम त्वेषा वानरोऽह मिहाऽगतः ।

दर्शने राक्षसेंद्रस्य दुर्लभे तदिदं मया ॥१४

वनं राक्षसराजस्य दर्शनार्थे विनाशितम् ।

तत स्ते राक्षसाः प्राप्ता बलिनो युद्धकांक्षिणः ॥१५

रक्षणार्थं तु देहस्य प्रतियुद्धा मया रणे ।

अस्त्रपाशैर्न शक्योऽहं बद्धुं देवासुरैरपि ॥१६

पितामहादेव वरो ममा प्येषोऽभ्युपागतः ।

राजानं द्रष्टुकामेन मयाऽस्त्रमनुवर्तितम् ॥१७

विमुक्तो ह्यह मस्त्रेण राक्षसै स्त्वभिपीडितः ।

केनचि द्वाजकार्येण संप्राप्तोऽस्मि तवान्तिकम् ॥१८

दूतोऽह मिति विज्ञेयो राघवस्यामितौजसः ।

श्रूयतां चापि वचनं मम पथ्य मिदं प्रभो ॥१९

इति श्रीमत्सुन्दरकाण्डे पश्चाशस्सर्गः ॥

॥ एकपञ्चाशस्सर्गः ॥

तं समीक्ष्य महासत्त्वं सत्त्ववान्हरिसत्तमः ।

वाक्य मर्थव दव्यग्रस्त मुवाच दशाननम् ॥१

अहं सुग्रीवसन्देश दिन प्राप्तस्तवालयम् ।

राक्षसेन्द्र हरीशस्त्वां भ्राता कुशल मव्रवीत् ॥२

भ्रातु श्शृणु समादेशं सुग्रीवस्य महात्मनः ।

धर्मार्थोपहितं वाक्य मिह चामुत्र च क्षमम् ॥३

राजा दशरथोनाम रथकुञ्जरवाजिमाम् ।

पित्रेव बन्धुर्लोकस्य सुरेश्वरसमद्युतिः ॥४

ज्येष्ठ स्तस्य महाबाहुः पुत्त्रः प्रियकरः प्रभुः ।

पितु र्निदेशा न्निष्क्रान्तः प्रविष्टो दण्डकावनम् ॥५

लक्ष्मणेन सह भ्रात्रा सीतयाचापि भार्यया ।

रामोनाम महातेजा धर्म्यं पन्थान माश्रितः ॥६

तस्य भार्या वने नष्टा सीता पति मनुव्रता ।

वैदेहस्य सुता राज्ञो जनकस्य महात्मनः ॥७

स मार्गमाण स्तां देवीं राजपुत्त्र स्सहानुजः ।

ऋश्यमूक मनुप्राप्त स्सुग्रीवेण समागतः ॥८

तस्य तेन प्रतिज्ञातं सीतायाः परिमार्गणम् ।

सुग्रीवस्यापि रामेण हरिराज्यं निवेदितम् ॥९

तत स्तेन मृधे हत्वा राजपुत्त्रेण वालिनम् ।

सुग्रीवः स्थापितो राज्ये हर्यृक्षाणां गणेश्वरः ॥१०

त्वया विज्ञापूर्व श्च वाली वानरपुङ्गवः ।

रामेण निहत स्संख्ये शरेणैकेन वानरः ॥११

स सीतामार्गणे व्यग्र स्सुग्रीव स्सत्यसङ्गरः ।

हरीन् संप्रेषयामास दिश स्सर्वाहरीश्वरः ॥१२

तां हरीणां सहस्राणि शतानि नियुतानि च ।

दिक्षु सर्वासु मार्गन्ते ह्यधो श्चोपरि चाम्बरे ॥१३

वैनतेयसमाः केचि त्केचि त्तत्रानिलोपसाः ।

असङ्गगतयश्शीघ्रा हरिवीरा महाबलाः ॥१४

अहं तु हनुपान्नाम मारुत स्यौरस न्सुतः ।

सीताया स्तु कृते तूर्णं शतयोजन नायतम् ॥१५

समुद्रं लङ्घयित्वैव तां दिदृक्षु रिहाऽगतः ।

भ्रमता च मयादृष्टा गृहे ते जनकात्मजा ॥१६

त द्भवान्दृष्टधर्मार्थस्तपः कृतपरिग्रहः ।

परदारान्महाप्राज्ञ नोपरोद्ध्वं त्व मर्हसि ॥१७

न हि धर्मविरुद्वेषु बह्वपायेषु कर्मसु ।

मूलघातिषुसज्जन्ते बुद्धिमन्तो भवद्विधाः ॥१८

कश्च लक्ष्मणमुक्तानां रामकोपानुवर्तिनाम् ।

शराणा मग्रतः स्थातुं शक्तो देवासुरेष्वपि ॥१९

न चापि त्रिषु लोकेषु राजन्विद्येत कश्चन ।

राघवस्य व्यलीकं यः कृत्वा सुख मवाप्नुयात् ॥२०

तस्त्रिकालहितं वाक्यं धर्म्य मर्थानुवन्धिच ।

बुध्यस्व नरदेवाय जानकी प्रतिदीयताम् ॥२१

दृष्टा हीयं मया देवी लब्धं यदिह दुर्लभम् ।

उत्तरं कर्म यच्छेषं निमितं तत्र राघवः ॥२२

लक्षितेयं मया सीता तथा शोकपरायणा ।

गृहे यां नाभिजानासि पञ्चास्या मिव पन्नगीम् ॥२३

नेयं जरयितुं शक्या सासुरै रमरै रपि ।

विषसंसृष्ट मत्यर्थं भुक्त मन्नमिवौजसा ॥२४

तप स्सन्तापलब्धस्ते योऽयं धर्मपरिग्रहः ।

न स नाशयितुं न्याय्य आत्मप्राणपरिग्रहः ॥२५

अवध्यतां तपोभि र्यां भवान् समनुपश्यति ।

आत्मन रसासुरैर्देवैर्हेतु स्तत्राप्ययं महान् ॥२६

सुग्रीवो नहि देवोऽयं नासुरो न च राक्षसः ।

न दानवो न गन्धर्वो न यक्षो न च पन्नगः ॥२७

मानुषो राघवो राजन् सुग्रीवश्च हरीश्वरः ।

तस्मा त्प्राणपरित्राणं कथं राज न्करिष्यसि ।

न तु धर्मोपसंहार मधर्मफलसंहितम् ॥२८

तदेव फल मन्वेति धर्म श्चाधर्मनाशनः ।

प्राप्तं धर्मफलं तावद्भवता नात्र संशयः ॥२९

फल मस्याप्यधर्मस्य क्षिप्रमेव प्रपत्स्यसे ।

जनस्थानवधं बुध्वा बुध्वा वालिवधं तथा ॥३०

रामसुग्रीवसख्यं च बुध्यस्व हित मात्मनः ।

कामं खल्वह मप्येक स्सवाजिरथकुञ्जराम् ॥३१

लङ्कां नाशयितुं शक्त स्तस्यैषतु विनिश्चयः ।

रामेण हि प्रतिज्ञातं हर्यृक्षगणसन्निधौ ॥३२

उत्सादन ममित्राणां सीतायैस्तु प्रधर्षिता ।

अपकुर्वन्हि रामस्य साक्षादपि पुरन्दरः ॥३३

न सुखं प्राप्नुया दन्यः किं पुन स्वंद्विधोजनः ।

यां सीते त्यभिजानासि येयं तिष्टति ते वशे ॥३४

कालरात्रीति तां विद्धि सर्वलङ्काविनाशिनीम् ।

तदलं कालपाशेन सीताविग्रहरूपिणा ॥३५

स्वयं स्कन्धावसक्तेन क्षम मात्मनि चिन्त्यताम् ।

सीतायास्तेजसा दग्धां रामकोपप्रपीडिताम् ॥३६

दह्यमाना मिमां पश्य पुरीं सादृप्रतोलिकाम् ।

स्वानि मित्राणि मन्त्रींश्च ज्ञातीन्भ्रातॄन्सुतान्हितान् ॥३७

भोगा न्दारांश्च लङ्कांच मा विनाश मुपानय ।

सत्यं राक्षसराजेन्द्र शृणुष्व वचनं मम ॥३८

रामदासस्य दूतस्य वानरस्य विशेषतः ।

सर्वान्लोकान्सुसंहृत्य सभूतान्सचराचरान् ॥३९

पुन रेव तथा स्रष्टुं शक्तो रामो महायशाः ।

देवासुरनरेन्द्रेषु यक्षरक्षोगणेषु च ॥४०

विद्याधरेषु सर्वेषु गन्धर्वेधूरगेषु च ।

सिद्धेषु किन्नरेन्द्रेषु पतत्रिषु च सर्वतः ॥४१

सर्वभूतेषु सर्वत्र सर्वकालेषु नास्तिसः ।

यो रामं प्रतियुध्येत विष्णुतुल्यपराक्रमम् ॥४२

सर्वलोकेश्वरस्यैवं कृत्वा विप्रिय मुत्तमम् ।

रामस्य राजसिंहस्य दुर्लभं तव जीवितम् ॥४३

देवाश्च दैत्याश्च निशाचरेन्द्र गन्धर्वविद्याधरनागयक्षाः ।

रामस्य लोकत्रयनायकस्य स्थातुं न शक्ता स्समरेषु सर्वे ॥४४

ब्रह्मा स्वयम्भू श्चतुराननोवा रुद्रस्त्रिणेत्र स्त्रिपुरान्तकोवा ।

इन्द्रो महेन्द्र स्सुरनायकोवा त्रातुं न शक्ता युधि रामवध्यम् ॥४५

स सौष्ठवोपेत मदीनवादिनः कपे र्निशम्याप्रतिमोऽप्रियं वचः ।

दशाननः कोपविवृत्तलोचन स्समादिशतस्य वधं महाकपेः ॥४६

इति श्रीमत्सुन्दरकाण्डे एकपञ्चाशस्सर्गः ॥
<MISSING_FIG href="../books_images/U-IMG-170454738216.png"/>

॥ द्विपञ्चाशस्सर्गः ॥

तस्य तद्वचनं श्रुत्वा वानरस्य महात्मनः ।

आज्ञापय द्वधं तस्य रावणः क्रोधमूर्च्छितः ॥१

वधे तस्य समाज्ञप्ते रावणेन दुरात्मना ।

निवेदितवतो दौत्यं नानुमेने विभीषणः ॥२

तं रक्षोधिपतिं क्रुद्धं तच्च कार्यं मुपस्थितम् ।

विदित्वा चिन्तयामास कार्यं कार्यविधौ स्थितः ॥३

निश्चितार्थस्तत स्साम्ना पूज्यं शत्रुजि दग्रजम् ।

उवाच हित मत्यर्थं वाक्यं वाक्यविशारदः ॥४

क्षमस्व रोषं त्यज राक्षसेन्द्र प्रसीद मद्वाक्यमिदं श्रुणुष्व ।

वधं न कुर्वन्ति परावरज्ञाः दूतस्य सन्तो वसुधाधिपेन्द्राः ॥५

राजधर्मविरुद्धं च लोकवृत्तैश्च गर्हितम् ।

तव चासदृशं वीर कपे रस्य प्रमापणम् ॥६

धर्मज्ञ श्च कृतज्ञ श्च राजधर्मविशारदः ।

परावरज्ञो भूतानां त्व मेव परमार्थवित् ॥७

गृह्यन्ते यदि रोषेण त्वादृशोऽपि विपश्चितः ।

तत श्शास्त्रविपश्चित्त्वं श्रम एव हि केवलम् ॥८

तस्मात्प्रसदि शत्रुघ्न राक्षसेन्द्र दुरासद ।

युक्तायुक्तं विनिश्चित्य दूतदण्डोविधीयताम् ॥९

विभीषणवच श्श्रुत्वा रावणो राक्षसेश्वरः ।

रोषेण महताऽऽविष्टो वाक्य मुत्तर मब्रवीत् ॥१०

न पापानां वधे पापं विद्यते शत्रुसूदन ।

तस्मा देनं वधिष्यामि वानरं पापचारिणम् ॥११

अधर्ममूलं बहुदोषयुक्त मनार्यजुष्टं वचनं निशम्य ।

उवाच वाक्यं परमार्थतत्त्वं विभीषणो बुद्धिमतां वरिष्ठः ॥१२

प्रसीद लङ्केश्वर राक्षसेन्द्र धर्मार्थयुक्तं वचनं शृणुष्व ।

दूता नवध्यान्समयेषु राजन्सर्वेषु सर्वत्र वदन्ति सन्तः ॥१३

असंशयं शत्रु रयं प्रवृद्धः कृतं ह्यनेनाप्रिय मप्रमेयम् ।

न दूतवध्यां प्रवदन्ति सन्तो दूतस्य दृष्टा बहवो हि दण्डाः ॥१४

वैरूप्य मङ्गेषु कशाभिघातो मौण्ड्यं तथा लक्षणसन्निपातः ।

एतान्हि दूते प्रवदन्ति दण्डान्वधस्तु दूतस्य न न श्श्रुतोऽस्ति ॥१५

कथं च धर्मार्थविनीतबुद्धिः पराबरप्रत्ययनिश्चितार्थः ।

भवद्विधः कोपवशे हि तिष्ठेत् कोपं नियच्छन्तिहिसत्त्ववन्तः ॥१६

न धर्मवादे न च लोकवृत्ते न शास्त्रबुद्धिग्रहणेषु चापि ।

विद्येत कश्चित्तव वीरतुल्य स्त्वं ह्युत्तम स्सर्व सुरासुराणाम् ॥१७

[पराक्रमोत्साह मनस्विनाञ्च सुरासुराणा मपि दुर्जयेन ।

त्वयाऽप्रमेयेन सुरेन्द्रसंघाः जिताश्च युद्धेष्वसकृन्नरेन्द्राः ॥

इत्थं विधास्यामरदैत्यशत्रो श्शूरस्य वीरस्य तवाजितस्य ।

कुर्वन्ति वीरा मनसा प्यलीकं प्राणै र्विमुक्ता न तु भोः पुरा ते ॥ ]

न चाप्यस्य कपे र्घाते कंचि त्पश्याम्यहं गुणम् ।

तेष्वयं पात्यतां दण्डो यै रयं प्रेषितः कपिः ॥१८

साधु र्वा यदि वाऽसाधुः परै रेष समर्पितः ।

ब्रुवन्परार्थं परवान्नदूतो वध मर्हति ॥१९

अपि चास्मिन्हते राज न्नान्यं पश्यामि खेचरम् ।

इह यः पुन रागच्छे त्परं पारं महोदधेः ॥२०

तस्मान्नास्य ववे यत्नः कार्यः परपुरञ्जय ।

भवान्सेन्द्रेषु देवेषु यत्न मास्थातु मर्हति ॥२१

अस्मिन्विनष्टे नहि दूत मन्यं पश्यामि यस्तौ नरराजपुत्रौ ।

युद्धाय युद्धप्रिय दुर्विनीता वुद्योजयेद्वैभवताविरुद्धौ ॥२२

[अस्मिन्हते वानरयूथमुख्ये सर्वापदं संप्रवदन्ति सन्तः ।

नहि प्रपश्यामि गुणं यशोवा लोकापवादो भवतिप्रसिद्धः ॥

मूढैः प्रगल्भैरपि दुर्विनीतैर्यै र्वानरोऽयं पुरुषैर्विसृष्टः ।

तेषां वधार्थं कुरुवीरयत्नं शीघ्रं विनाशाय निशाचरेन्द्र ॥

कुरुष्व ताव त्परमप्रयत्नं धर्मं समास्थाय सुरेन्द्र शत्रो ।

देवेषु सर्वेषु सवासवेषु दैत्येषु सर्वेषु सदानवेषु ॥

कृत्वा प्रयत्नं सुदृढं सुशीघ्रं मद्वाक्य मेवं मनसा प्रगृह्य ।

तौराजपुत्त्रौ विनिगृह्य वीरौ जयंपरं प्राप्स्यसि राक्षसेन्द्र ॥]

पराक्रमोत्साहमनस्विनां च सुरासुराणा मपि दुर्जयेन ।

त्वया मनो नन्दन नैर्ऋतानां युद्धायति र्नाशयितुं न युक्ता ॥

हिता श्च शूरा श्च समाहिता श्च कुलेषु जाता श्च महागुणेषु ।

मनस्विन श्शस्त्रभृतां वरिष्ठाः कोट्यग्रतस्ते सुभृता श्च योधाः ॥२४

तदेकदेशेन बलस्य ताव त्केचित्तवाऽदेशकृतोऽभियान्तु ।

तौ राजपुत्रौ विनिगृह्य मूढौ परेषु ते भावयितुं प्रभावम् ॥२५

निशाचराणामधिपोऽनुजस्य विभीषणस्योत्तमवाक्य भिष्टम् ।

जग्राह बुद्ध्या सुरलोकशत्रुर्महाबलोराक्षसराजमुख्यः ॥२६

[किं वानरं ब्रह्म परं चसत्यंसर्वस्यबीजं जगतोऽस्य विष्णोः ।

यद्देवदेवस्य परञ्चतेजः तदेव तेजःकपिरेष वीरः ॥

वधायमेवैष्णवतेज एव निस्संशयोऽयं कपिरूपधारी ।

इत्येव मेतद्वहुधा विचिन्त्य रक्षोधिपः क्रोधवशं जगाम ॥

क्रोधञ्चजातंहृदयेनिरुध्यविभीषणोक्तं वचनं सुपूज्य ।

ज्वाच रक्षोधिपतिर्महात्मा विभीषणं शस्त्रभृतांवरिष्ठम् ॥ ]

इति श्रीमत्सुन्दरकाण्डे द्विपञ्चाशस्सर्गः ॥
<MISSING_FIG href="../books_images/U-IMG-170447559316.png"/>

॥ त्रिपञ्चाशस्सर्गः ॥

तस्य तद्वचनं श्रुत्वा दशग्रीवो महाबलः ।

देशकालहितं वाक्यं भ्रातु रुत्तर मब्रवीत् ॥१

सम्य गुक्तं हि भवता दूतवध्या विगर्हिता ।

अवश्यं तु वधा दन्यः क्रियता मस्य निग्रहः ॥२

कपीनां किल लांगूल भिष्टं भवति भूषणम् ।

तदस्य दीप्यतां शीघ्रं तेन दग्धेन गच्छतु ॥३

ततः पश्यन्त्विमं दीन मङ्गवैरूप्यकर्शितम् ।

समित्तज्ञातय स्सर्वे बान्धवा स्ससुहृज्जनाः ॥४

आज्ञापय द्राक्षसेन्द्रःपुरं सर्वं सचत्वरम् ।

लांगूलेन प्रदीप्तेन रक्षोभिः परिणीयताम् ॥५

तस्य तद्वचनं श्रुत्वा राक्षसाः कोपकर्शिताः ।

वेष्टयन्ति स्म लांगूलं जीर्णैः कार्पासकैः पटैः ॥६

संवेष्ट्यमाने लांगूले व्यवर्धत महाकपिः ।

शुष्क मिन्धन मासाद्य वनेष्विव हुताशनः ॥७

तैलेन परिषिच्याथ तेऽग्निं तत्त्राभ्यपातयन् ।

लांगूलेन प्रदीप्तेन राक्षसां स्ता नपातयत् ॥८

रोषामर्षपरीतात्मा बालसूर्यसमाननः ।

लांगूलं संप्रदीप्तं तु द्रष्टुं तस्य हनूमतः ॥९

सहस्त्री बालवृद्धाश्च जग्मुः प्रीता निशाचराः ।

स भूय स्सङ्गतैः क्रूरै राक्षसै र्हरिसत्तमः ॥१०

निबद्धः कृतवा न्वीर स्तत्कालसदृशीं मतिम् ।

कामं खलु न मे शक्ता निवद्धस्यापि राक्षसाः ॥११

छित्त्वा पाशान्समुत्पत्य हन्या मह मिमा न्पुनः ।

यदि भर्तुर्हितार्थाय चरन्तं भर्तृशासनात् ॥१२

बध्नन्त्येते दुरात्मनो नतु मे निष्कृतिः कृता ।

सर्वेषा मेव पर्याप्तो राक्षसाना महं युधि ॥१३

किंतु रामस्य प्रीत्यर्थं विषहिष्येऽह मीदृशम् ।

लङ्का चारयितव्या वै पुन रेव भवेदिति ॥१४

रात्रौ न हि सुदृष्टा मे दुर्गकर्मविधानतः ।

अवश्य मेव द्रष्टव्या मया लङ्कानिशाक्षये ॥१५

कामं बद्धस्य मे भूयः पुच्छस्योद्दीपनेन च ।

पीडां कुर्वन्तु रक्षांसि न मेऽस्ति मनसश्श्रमः ॥१६

ततस्ते संवृताकारं सत्त्ववन्तं महाकपिम् ।

परिगृह्यययुर्हृष्टा राक्षसाः कपिकुञ्जरम् ॥१७

शङ्खभेरीनिनादैस्तं घोषयन्त स्स्वकर्मभिः ।

राक्षसाः क्रूरकर्माण श्चारयन्ति स्म तां पुरीम् ॥१८

अन्वीयमानो रक्षोभि र्ययौ सुख मरिन्दमः ।

हनुमां श्चारयामास राक्षसानां महापुरीम् ॥१९

अथापश्य द्विमानानि विचित्राणि महाकपिः ।

संवृतान्भूमिभागांश्च सुविभक्तांश्च चत्वरान् ॥२०

वीथीश्च गृहसंबाधाःकपिश्शृङ्गाटकानि च ।

तथा रथ्योपरथ्या श्च तथैव गृहकान्तरान् ॥२१

गृहां श्च मेघसंकाशान्ददर्श पवनात्मजः ।

चत्वरेषु चतुष्केषु राजमार्गे तथैव च ॥२२

घोषयन्ति का सर्वे चार त्येव राक्षसाः ।

स्त्रीबालवृद्धा निर्जग्मु स्तत्त्र तत्त्र कुतूहलात् ॥२३

तं प्रदीपितलाङ्गूलं हनुमन्तं दिदृक्षवः ।

दीप्यमाने तत स्तस्य लाङ्गूलाग्रे हनूमतः ॥२४

राक्षस्य स्ता विरूपाक्ष्य श्शंसु र्देव्यास्तदप्रियम् ।

यस्त्वया कृतसंवाद स्सीते ताम्रमुखः कपिः ॥२५

लाङ्गूलेन प्रदीप्तेन स एष परिणीयते ।

श्रुत्वा तद्वचनं क्रूरमात्मापहरणोपमम् ॥२६

वैदेही शोकसन्तप्ता हुताशन मुपागमत् ।

मङ्गलाभिमुखी तस्य सा तदाऽऽसीन्महाकपेः ॥२७

उपतस्थे विशालाक्षी प्रयता हव्यवाहनम् ।

यद्यस्ति पतिशुश्रूषा यद्यस्तिचरितं तपः ॥२८

यदि चास्त्येकपत्नी त्वं शीतो भव हनूमतः ।

यदि किंचि दनुक्रोशस्तस्य मय्यस्ति धीमतः ॥२९

यदि वा भाग्यशेषो मे शीतो भव हनुमतः ।

यदि मां वृत्तसंपन्नां तत्समागमलालसाम् ॥३०

स विजानाति धर्मात्मा शीतो भव हनुमतः ।

यदि मां तारये दार्य स्सुग्रीव स्सत्यसङ्गरः ॥३१

अस्माद्दुःखाम्बुसंरोधा च्छीतो भव हनूमतः ।

तत स्तीक्ष्णार्चि रव्यग्रः प्रदक्षिणशिखोऽनलः ॥३२

जज्वाल मृगशाबाक्ष्या श्शंसन्निव शिवं कपेः ।

हनुमज्जनक श्चापि पुच्छानलयुतोऽनिलः ॥३३

ववौ स्वास्थ्यकरो देव्याः प्रालेयानिलशीतलः ।

[ तां तदा परमोद्विग्नां सीतां शोकाभिकर्शिताम् ।

हनुमति गृहीते तु रक्षोभि र्भीमविक्रमैः ॥

उवाच सरमा वाक्यं ता माश्वासयितुं तदा ।

माशुचो देवि वैदेहि हनूमन्तं महाकपिम् ॥

हत्वा तु रक्षिण स्सर्वान्राक्षसां स्ततएव सः ।

पुरीं लङ्कां दहति स साक्षा दिव हुताशनः ॥

भवना द्भवनं गच्छ न्नसावत्यन्तवीर्यवान् ।

प्रासादवरसंस्था श्वगवाक्षस्थाश्च योषितः ॥

वह्निप्रदीप्तनयनाः तथा क्रन्दंति दुःखिताः ।

एता वरविशालाक्ष्यो वह्निज्वालासमावृताः ॥

अपश्यन्त्यः क्वचित् स्थातुं सर्वतोऽग्निसमावृताः ।

वह्ना वभ्युत्पतन्त्याशु कर्तव्यं नैव जज्ञिरे ॥

अभिधावन्ति सहसा क्रोशन्त्य स्सह बालकैः ।

अवकुण्ठानि कृत्वा स्म वासोभि र्वेष्टिता स्तदा ॥

स्तंभै राजतसौवर्णैःप्रवालमणिचारुभिः ।

दृश्यन्तेऽग्निसमासक्ता वह्नौ वह्नौ रिवोद्यताः ॥

प्रासादमाला बहुधा अग्निदग्धाः पतन्तिवा ।

अर्चिषेव हिरण्यानां प्रभाभिः कृष्णवर्त्मनः ॥

दीप्यमाना इबाभाति लङ्गेयं कालपर्यये ।

क्वचिद्दग्धाः प्रदेशास्तु क्वचिद्दग्धा विनाशिताः ॥

बहुभौमा विभान्ति स्म गृहाणां भूमय श्शुभाः ।

कान्ताभि स्सह वित्रस्ता दृश्यन्ते राक्षसा स्तदा ॥

हाहे त्युच्चै र्वदन्ति स्म त्रातारं नाभिजज्ञिरे ।

संप्रदीप्तां पुरीं लङ्काहनुमद्वीर्यधर्षिताम् ॥

अन्तःपुराणि सर्वाणि दृष्ट्वा दुद्रुविरे तदा ।

क्वचि त्कुंकुमवर्णाभाः क्वचित्किशुकसंनिभाः ॥

क्वचि न्मलिनसंकाशाः शिखा वह्ने श्चकाशिरे ।

धूमेन संवृताः केचि द्गृहोद्देशा स्सुशोभनाः ॥

वर्षाकालेतु संप्राप्ते घनैरिव नभस्तलम् ।

देवि व्यपैतु ते त्रासो हनूमन्तं प्रतिप्रिये ॥

दग्ध्वैव लङ्कां सुमहान्व्योम्नि वीरः प्रकाशते ।

दीर्घैर्घनाम्बुसंरोधैः मुक्तचन्द्र इवामलः ॥

एतच्छ्रुत्वाऽभवत्प्रीता सीता शशिनिभानना ।

निर्वृतिं परमां प्राप्ता बाला स्वस्थाऽभवत्तदा ॥ ]

दह्यमाने च लांगूले चिन्तयामास वानरः ॥३४

प्रदीप्तोऽग्निरयं कस्मान्न मां दहति सर्वतः ।

दृश्यते च महाज्वालः करोति न च मे रुजम् ॥३५

शिशिरस्येव सम्पातो लांगूलाग्रे प्रतिष्ठितः ।

अथवा तदिदं व्यक्तं यद्दृष्टं प्लवता मया ॥३६

रामप्रभावा दाश्चर्यं पर्वत स्सरितां पतौ ।

यदि ताव त्समुद्रस्य मैनाकस्यच धीमतः ॥३७

रामार्थं संभ्रम स्तादृक्कि मग्निर्न किरिष्यति ।

सीताया श्चानृंशस्येन तेजसा राघवस्य च ॥३८

पितु श्च मम सख्येन न मां दहति पावकः ।

भूय स्सचिन्तयामास मूहूर्तं कपिकुञ्चरः ॥३९

[ कथ मस्मद्विध स्येह बन्धनं राक्षसाधमैः ॥

प्रतिक्रियास्य युक्ता स्या त्सति मह्यं पराक्रमे ।

तत श्छित्वा च तान्पाशा न्वेगवा न्वै महाकपिः ॥]

उत्पपाताथ वेगेन ननाद च महाकपिः ।

पुरद्वारं तत श्श्रीमान्शैलशृङ्गमिवोन्नतम् ॥४०

विभक्तरक्ष स्संबाध माससादानिलात्मजः ।

सभूत्वा शैलसङ्काशः क्षणेन पुनरात्मवान् ॥४१

ह्रस्वतां परमां प्राप्तो बन्धनान्यवशातयत् ।

विमुक्त श्चाभव च्छ्रीमान्पुनः पर्वतसन्निभः ॥४२

वीक्षमाण श्च ददृशे परिघं तोरणाश्रितम् ।

स तं गृह्य महाबाहुः कालायसपरिष्कृतम् ॥४३

रक्षिण स्तान्पुन स्सर्वान्सूदयामास मारुतिः ।

स ता न्निहत्वा रणचण्डविक्रम स्समीक्षमाणः पुनरेव लङ्काम् ।

प्रदीप्तलांगूलकृतार्चिमाली प्रकाशताऽऽदित्य इवार्चिमाली ॥४४

इति श्रीमत्सुन्दरकाण्डे त्रिपञ्चाशस्सर्गः ॥
<MISSING_FIG href="../books_images/U-IMG-170447604416.png"/>

॥ चतुःपञ्चाशस्सर्गः ॥

वीक्षमाणस्ततो लङ्कां कपिः कृतमनोरथः ।

वर्धमानसमुत्साहः कार्यशेष मचिन्तयत् ॥१

किन्नु खल्ववशिष्टं मे कर्तव्य मिह साम्प्रतम् ।

यदेषां रक्षसां भूय स्सन्तापजननं भवेत् ॥२

वनं ताव त्प्रमथितं प्रकृष्टा राक्षसा हताः ।

बलैकदेशःक्षपित श्शेषं दुर्गविनाशनम् ॥३

दुर्गेविनाशिते कर्म भवे त्सुखपरिश्रमम् ।

अल्पयत्नेन कार्येऽस्मिन् मम स्यात्सफलश्श्रमः ॥४

यो ह्ययं मम लांगूले दीप्यते हव्यवाहनः ।

अस्य सन्तर्पणं न्याय्यं कर्तु मेभि र्गृहोत्तमैः ॥५

ततः प्रदीप्तलांगूल स्सविद्यु दिव तोयदः ।

भवनाग्रेषु लङ्काया विचचार महाकपिः ॥६

गृहा द्गृहं राक्षसाना मुद्यानानि च वानरः ।

वीक्षमाणो ह्यसंत्रस्तः प्रासादां श्च चचार सः ॥७

अवप्लुत्य महावेगः प्रहस्तस्य निवेशनम् ।

अग्निं तत्त्र स निक्षिप्य श्वसनेन समो बली ॥८

ततोऽन्य त्पुप्लुवे वेश्म महापार्श्वस्य वीर्यवान् ।

मुमोचहनुमा नग्निं कालानिलशिखोपमम् ॥९

वज्रदंष्ट्रस्य च तदा पुप्लुवे स महाकपिः ।

शुकस्य च महातेजाः सारणस्य च धीमतः ॥१०

तथा चेन्द्रजितो वेश्म ददाह हरियूथपः ।

जम्बुमाले स्सुमाले श्च ददाह भवनं ततः ॥११

रश्मिकेतोश्च भवनं सूर्यशात्रेस्तथैव च ।

ह्रस्वकर्णस्य दंष्ट्रस्य रोमशस्य च रक्षसः ॥१२

युद्धोन्मत्तस्य मत्तस्य ध्वजग्रीवस्य रक्षसः ।

विद्युज्जिह्वस्य घोरस्य तथा हस्तिमुखस्य च ॥१३

करालस्य पिशाचस्य शोणिताक्षस्य चैवहि ।

कुम्भकर्णस्य भवनं मकराक्षस्य चैव हि ॥१४

यज्ञरात्रोश्च भवनं ब्रह्मशत्रो स्तथैव च ।

नरान्तकस्य कुम्भस्य निकुम्भस्य दुरात्मनः ॥१५

वर्जयित्वा महातेजा विभीषणगृहं प्रति ।

क्रममाणःक्रमेणैव ददाह हरिपुङ्गवः ॥१६

तेषु तेषु महार्हेषु भवनेषु महायशाः ।

गृहे ष्वृद्धिमता मृद्धिं ददाह स महाकपिः ॥१७

सर्वेषां समतिक्रम्य राक्षसेन्द्रस्य वीर्यवान् ।

आससादाथ लक्ष्मीवान्रावणस्य निवेशनम् ॥१८

तत स्तस्मिन्गृहे मुख्ये नानारत्नविभूषिते ।

मेरुमन्दरसङ्काशे सर्वमङ्गलशोभिते ॥१९

प्रदीप्त मग्नि मुत्सृज्य लांगूलाग्रे प्रतिष्ठितम् ।

ननाद हनुमा न्वीरो युगान्तजलदो यथा ॥२०

श्वसनेन च संयोगा दतिवेगो महाबलः ।

कालाग्नि रिव जज्वाल प्रावर्धत हुताशनः ॥२१

प्रदीप्तमग्निं पवन स्तेषु वेश्मस्वचारयत् ।

अभू च्छ्वसनसंयोगा दतिवेगो हुताशनः ॥२२

तानि काञ्चनजालानि मुक्तामणिमयानि च ।

भवना न्यवशीर्यंन्त रत्नवन्ति महान्ति च ॥२३

तानि भग्नविमानानि निपेतु र्वसुधातले ।

भवनानीवसिद्धाना मम्बरा त्पुण्यसङ्क्षये ॥२४

संजज्ञे तुमुल श्शब्दो राक्षसानां प्रधावताम् ।

स्वगृहस्य परित्राणे भन्नो त्साहोर्जितश्रियाम् ॥२५

नून मेषोऽग्नि रायातः कपिरूपेण हा इति ।

क्रन्दन्त्यस्सहसापेतु स्स्तनन्धयधराः स्त्रियः ॥२६

काश्चिदग्निपरीतेभ्यो हर्म्येभ्यो मुक्तमूर्धजाः ।

पतन्त्यो रेजिरेऽभ्रेभ्य स्सौदमिन्य इवाम्बरात् ॥२७

वज्र विद्रुम वैडूर्य मुक्ता रजत संहितान् ।

विचित्रा न्भवना न्धातून्स्यन्दमाना न्ददर्श सः ॥२८

नाग्नि स्तृप्यति काष्ठानां तृणानां हरियूथपः ।

नाग्ने र्नापि विशस्तानां राक्षसानां वसुन्धरा ॥२९

क्वचि त्किंशुकसङ्काशाः क्वचिच्छाल्मलिसन्निभाः ।

क्वचि त्कुङ्कमसङ्काशाश्शिखा वह्नेश्चकाशिरे ॥३०

हनूमता वेगवता वानरेण महात्मना ।

लङ्कापुरं प्रदग्धं त द्रुद्रेण त्रिपुरं यथा ॥३१

ततस्तु लङ्कापुरपर्वताग्रे समुत्थितोभीमपराक्रमोऽग्निः ।

प्रसार्यचूडावलयं प्रदीप्तो हनूमता वेगवताविसृष्टः ॥३२

युगान्तकालानलतुल्यवेग स्मारुतोऽग्नि र्ववृधे दिवे स्पृक् ।

विधूमरश्मि र्भवनेषु सक्तो रक्ष श्शरीराज्यसमर्पितार्चिः ॥३३

[सता मत्यर्थतो वह्नि र्लङ्का राक्षससङ्कुलाम् ।

ज्वालामालापरिक्षेपै रदहन्मारुतात्मजः ॥

तेन शब्देन वित्रस्ता धर्षितास्तेन चाग्निना ।

अभिपेतु स्तदा घोरा हनूमन्तं निशाचराः ॥

तंप्रदीप्तै श्च शूलाग्रैः प्रासैः खड्गैः परश्वधैः ।

हनूमन्तं महावेगै रक्षिपन्नैर्रतर्षभाः ॥

ते राक्षसा भीमबला नानाप्रहरणान्विताः ।

निहत्य च सतांस्तत्र दिवमेवोत्पपात ह ॥

सच विक्रम्य सहसा संक्रामं श्च गृहाद्गृहम् ।

लङ्कामादीपयामास वायुपुत्त्रः प्रतापवान् ॥

सलांगूलोपसत्ताग्निः मुक्तो मृत्युगृहादिव ।

लङ्कां पर्यदह त्कृत्स्त्रां खे ग्रहस्संपतन्निव ॥

तोरणेषु गवाक्षेषु रम्येषु शिखरेषु च ।

तिष्ठन्ति स्म प्रपश्यंति राक्षसाः प्लवगोत्तमम् ॥

हुताशनज्वालसमावृतासाहतप्रवीराहतसर्वशोभना ।

हनूमतः क्रोधबलाभिभूता बभूवकालोपहतेवलङ्का ॥

स संभ्रमत्रस्तविषण्णराक्षसां समुज्ज्वलज्ज्यालहुताशनाङ्किताम् ।

ददर्श लंकांहनुमान्महामनाः स्वयं भुवः कोपहताभिवावनिम् ॥

गृहाग्र्यशृंगाग्र्यतलेविचित्रेप्रतिष्ठितो वानरराजसिंहः ।

प्रदीप्तलाङ्गूलकृतार्चिमालीव्यराजतादित्य इवार्चिमाली ॥ ]

आदित्यकोटीसदृश स्सुतेजालंकांसमस्तांपरिवार्य तिष्ठन् ।

शब्दैरनेकै रशनिप्ररूढै र्भिन्दन्नि वाण्डं प्रबभौमहाऽग्निः ॥३४

तत्त्राम्बरा दग्नि रतिप्रवृद्धो रूक्षप्रभः किंशुकपुष्पचूडः ।

निर्वाणधूमाकुलराजय श्च नीलोत्पलाभाः प्रचकाशिरेऽभ्राः ॥३५

वज्री महेन्द्र स्त्रिदशेश्वरो वा साक्षा द्यमो वा वरुणोऽनिलोवा ।

रुद्रोऽग्नि रर्को धनश्च सोमो न वानरोऽयं स्वय मेव कालः ॥३६

किं ब्रह्मण स्सर्वपितामहस्य सर्वस्य धातुश्चतुराननस्य ।

इहाऽगतो वानररूपधारी रक्षोपसंहारकरः प्रकोपः ॥

किं वैष्णवं वा कपिरूप मेत्य रक्षो विनाशाय परं सुतेजः ।

अनन्त मव्यक्त मचिन्त्यमेकं स्वमायया साम्प्रत मागतं वा ॥३८

इत्येव मूचु र्बहवो विशिष्टा रक्षोगणास्तत्त्र समेत्य सर्वे ।

सप्राणिसंघां सगृहां सवृक्षां दग्धां पुरीं तां सहसा समीक्ष्य ॥३९

ततस्तु लङ्कासहसा प्रदग्धा सराक्षसासाश्वरथासनागा ।

सपक्षिसंघासमृगा सवृक्षा रुरोद दीना तुमुलं सशब्दम् ॥४०

हा तात हा पुत्त्रक कान्त मित्त्र हा जीवितं भोगयुतं सुपुण्यम् ।

रक्षोभि रेवं बहुधा ब्रुवद्भि श्शब्दः कृतो घोरतर स्सुभीमः ॥४१

हुताशनज्वालसमावृता सा हतप्रवीरा परिवृत्तयोधा ।

हनूमतः क्रोधबलाभिभूता बभूव शापोपहतेव लङ्का ॥४२

स सम्भ्रमत्रस्तविषण्णराक्षसां समुज्ज्वलज्ज्वालहुताशनाङ्किताम् ।

ददर्श लङ्कां हनुमान्महामनाः स्वयंभुकोपोपहतामिवावनिम् ॥४३

भङ्क्तवा वनं पादपरत्नसङ्कुलं हत्वातु रक्षांसि महान्तिसंयुगे ।

दुग्ध्वा पुरीं तां गृहरत्नमालिनीं तस्थौ हनूमान्पवनात्मजः कपिः ॥

त्रिकूटशृङ्गाग्रतले विचित्रेप्रतिष्ठितोवानरराजसिंहः ।

प्रदीप्तलांगूलकृतार्चिमाली व्यराजताऽऽदित्य इवांशुमाली ॥४५

स राक्षसां स्तान्सुबहूं श्च हत्वा वनंच भङ्क्त्वा बहुपादपं तत् ।

विसृज्य रक्षो भवनेषु चाग्निं जगाम रामं मनसा महात्मा ॥४६

[ततो महात्मा हनुमान्मनस्वी निशाचराणां क्षतकृत्कृतार्थः ।

रामस्य नाथस्य जगत्त्रयाणां श्रीपादमूलं मनसा जगाम ॥]

तत स्तु तं वानरवीरमुख्यं महाबलं मारुततुल्यवेगम् ।

महामतिं वायुसुतं वरिष्ठं प्रतुष्ठवु र्देवगणाश्च सर्वे ॥४७

भङ्क्त्वा वनं महातेजा हत्वा रक्षांसि संयुगे ।

दग्ध्वा लङ्कापुरीं रम्यां रराज स महाकपिः ॥४८

तत्त्र देवा स्सगन्धर्वाः सिद्धा श्च परमर्षयः ।

दृष्ट्वा लंकां प्रदग्धां तां विस्मयं परमंगताः ॥४९

तं दृष्ट्वा वानरश्रेष्ठं हनुमन्तं महाकपिम् ।

कालाग्नि रिति सञ्चिन्त्य सर्वभूतानि तत्रसुः ॥५०

देवा श्च सर्वे मुनिपुङ्गवाश्च गन्धर्वविद्याधरनाग यक्षाः ।

भूतानि सर्वाणि महान्ति तत्त्र जग्मुः परां प्रीति मतुल्यरूपाम् ॥

॥ इति श्रीमत्सुन्दरकाण्डे चतुःपञ्चाशस्सर्गः ॥
<MISSING_FIG href="../books_images/U-IMG-170447645116.png"/>

॥ पञ्चपञ्चाशस्सर्गः ॥

लंकां समस्तां संदीप्य लांगूलाग्निं महाबलः ।

निर्वापयामास तदा समुद्रे हरिसत्तमः ॥१

संदीप्यमानां विध्वस्तां त्रस्तरक्षोगणां पुरीम् ।

अवेक्ष्य हनुमा न्लंकां चिन्तयामास वानरः ॥२

तस्याभूत्सुमहां स्त्रासः कुत्सा चाऽत्मन्यजायत ।

लंकां प्रदहता कर्म किंस्वि त्कृत मिदं मया ॥३

धन्यास्ते पुरुषश्रेष्ठा ये बुद्ध्याकोप मुत्थितम् ।

निरुन्धन्ति महात्मानो दीप्त मग्निमिवाम्भसा ॥४

क्रुद्धः पापं न कुर्या त्कःक्रुद्धो हन्या द्गुरूनपि ।

क्रुद्धः परुषया वाचा नर स्साधू नधिक्षिपेत् ॥५

वाच्यावाच्यं प्रकुपितो न विजानाति कर्हिचित् ।

नाकार्य मस्ति क्रुद्धस्य नावाच्यं विद्यते क्वचित् ॥६

य स्समुत्पतितं क्रोधं क्षमयैव निरस्यति ।

यथोरग स्त्वचं जीर्णां सवै पुरुष उच्यते ॥७

धिगस्तु मां सुदुर्बुद्धिं निर्लज्जं पापकृत्तमम् ।

अचिन्तयित्वा तां सीता मग्निदं स्वामिधातुकम् ॥८

यदि दग्धा त्वियं लंका नून मार्याऽपि जानकी ।

दुग्धा तेन मया भर्तुर्हतंकार्य मजानता ॥९

यदर्थ मय मारम्भस्तत्कार्य मवसादितम् ।

मया हि दहता लंकां न सीता परिरक्षिता ॥१०

ईष त्कार्य मिदं कार्यं कृत मासी न्न संशयः ।

तस्यक्रोधाभिभूतेन मया मूलक्षयः कृतः ॥११

विनष्टा जानकी नूनं न ह्यदग्धः प्रदृश्यते ।

लंकायां कश्चि दुद्देश स्सर्वा भस्मीकृता पुरी ॥१२

यदि तद्विहतं कार्यं ममप्रज्ञा विपर्ययात् ।

इहैव प्राणसन्नचासो ममापि ह्यद्य रोचते ॥१३

कि मग्नौ निपताम्यद्य आहोस्वि द्वडबामुखे ।

शरीर माहो सत्त्वानां दद्मि सागरवासिनाम् ॥१४

कथं हि जीवता शक्यो मया द्रष्टुं हरीश्वरः ।

तौ वा पुरुषशार्दूलौ कार्यसर्वस्वघातिना ॥१५

मया खलु तदेवेदं रोषदोषा त्प्रदर्शितम् ।

प्रथितं त्रिषुलोकेषु कपित्व मनवस्थितम् ॥१६

धिगस्तु राजसं भाव मनीश मनवस्थितम् ।

ईश्वरेणापि यद्रागा न्मया सीता न रक्षिता ॥१७

विनष्टायां तु सीतायां ता वुभौ विनशिष्यतः ।

तयोर्विनाशे सुग्रीव स्सबन्धु र्विनशिष्यति ॥१८

एतदेव वच श्श्रुत्वा भरतो भ्रातृवत्सलः ।

धर्मात्मा सहशत्रुघ्नः कथं शक्ष्यति जीवतुम् ॥१९

इक्ष्वाकुवंशे धर्मिष्ठे गते नाश मसंशयम् ।

भविष्यन्ति प्रजा स्सर्वा श्शोकसन्तापपीडिताः ॥२०

तदहं भाग्यरहितो लुप्तधर्मार्थसंग्रहः ।

रोषदोषपरीतात्मा व्यक्तं लोकविनाशनः ॥२१

इति चिन्तयत स्तस्य निमित्तान्युपपेदिरे ।

पूर्वमप्युपलब्धानि साक्षा त्पुनरचिन्तयत् ॥२२

अथवा चारुसर्वाङ्गी रक्षिता स्वेन तेजसा ।

न नशिष्यति कल्याणी नाग्नि रग्नौ प्रवर्तते ॥२३

नहि धर्मात्मन स्तस्य भार्या ममिततेजसः ।

स्वचारित्राभिगुप्तां तां स्प्रष्टु मर्हति पावकः ॥२४

नूनं रामप्रभावेन वैदेह्या स्सुकृतेन च ।

यन्मां दहनकर्माऽयं नादह द्धव्यवाहनः ॥२५

त्रयाणां भरतादीनां भ्रातॄणां देवता च या ।

रामस्य च मनःकान्ता सा कथं विनशिष्यति ॥२६

यद्वा दहनकर्माऽयं सर्वत्र प्रभु रव्ययः ।

न मे दहति लाङ्गूलं कथ मार्यां प्रधक्ष्यति ॥२७

पुन श्चाचिन्तय त्तत्त्रहनुमान्विस्मित स्तदा ।

हिरण्यनाभस्य गिरे र्जलमध्ये प्रदर्शनम् ॥२८

तपसा सत्यवाक्येन अनन्यत्वा च्च भर्तरि ।

अपिसा निर्दहे दग्निं न ता मग्निः प्रधक्ष्यति ॥२९

स तथा चिन्तयं स्तत्र देव्या धर्मपरिग्रहम् ।

श्रुश्राव हनुमान्वाक्यं चारणानां महात्मनाम् ॥३०

अहो खलु कृतं कर्म दुष्करं हि हनूमता ।

अग्निं विसृजताऽभीक्ष्णं भीमं राक्षसवेश्मनि ॥३१

प्रपलायितरक्षःस्त्री बालवृद्धसमाकुला ।

जनकोलाहलाध्माता क्रन्दन्तीवाद्रिकन्दरे ॥३२

दग्धेयं नगरी सर्वा साट्टप्राकारतोरणा ।

जानकी नच दुग्धेति विस्मयोऽद्भुत एव नः ॥३३

इति शुश्राव हनुमान्वाचं ता ममृतोपमाम् ।

बभूव चास्य मनसो हर्ष स्तत्कालसम्भवः ॥

स निमित्तैच दृष्टार्थैः कारणैश्च महागुणैः ।

ऋषिवाक्यैश्च हनुमा नभव त्प्रीतमानसः ॥३४

ततः कपिः प्राप्तमनोरथार्थ स्ता मक्षतांराजसुतां विदित्वा ।

प्रत्यक्षत स्तां पुनरेव दृष्ट्वा प्रतिप्रयाणाय मतिं चकार ॥३५

इति श्रीमत्सुन्दरकाण्डे पञ्चपञ्चाशस्सर्गः ॥
<MISSING_FIG href="../books_images/U-IMG-170447669716.png"/>

॥ षट्पञ्चाशस्सर्गः ॥

ततस्तु शिंशुपामूले जानकों पर्युपस्थिताम् ।

अभिवाद्याब्रवी द्दिष्ट्या पश्यामि त्वामिहाक्षताम् ॥

तत स्तं प्रस्थितं सीता वक्षिमाणा पुनःपुनः ।

भर्तृस्नेहान्वितं वाक्यं हनुमन्त मभाषत ॥

यदि त्वं मन्यसे तात वसैकाह मिहानघ ।

क्वचि त्सुसंवृते देशे विश्रान्त श्श्वोगमिष्यसि ॥

ममचै वाल्पभाग्यायाः सान्निध्या त्तव वानर ।

शोकस्यास्याप्रमेयस्य मुहूर्तं स्या दपि क्षयः ॥

गते हि हरिशार्दूल पुन स्संप्राप्तये त्वयि ।

प्राणेष्वपि न विश्वासो मम वानरपुंगव ॥

अदर्शनं च ते वीर भूयो मां दारयिष्यति ।

दुःखा दुःखतरं प्राप्तां दुर्मन श्शोककर्शिताम् ॥

अयंच वीर संदेहस्तिष्ठतीव ममाग्रतः ।

सुमहत्सु सहायेषु हर्यृक्षेषु महाबलः ॥

कथं नु कलु दुष्पारं संतरिष्यन्ति सागरम् ।

तानि हर्यृक्षसैन्यानि तौ वा नरवरात्मजौ ॥

त्रयाणा मेव भूतानां सागर स्यातिलङ्घने ।

शक्तिस्स्या द्वैनतेयस्य तव वा मारुतस्यवा ॥

तदत्र कार्य निर्बन्धे समुत्पन्ने दुरासदे ।

किं पश्यसि समाधानं त्वं हि कार्यविशारदः ॥

काम मस्य त्वमेवैकः कार्यस्य परिसाधने ।

पर्याप्तः परवरिघ्न यशस्यस्ते बलोदयः ॥३

शरैस्तु सङ्कलां कृत्वा लङ्कां परबलार्दनः ।

मां नये द्यदि काकुत्स्थस्तत्तस्य सदृशं भवेत् ॥४

तद्यथा तस्य विक्रान्त मनुरूपं महात्मनः ।

भवत्याहवशूरस्य तथा त्व मुपपादय ॥५

तदर्थोपहितं वाक्यं प्रश्रितं हेतुसंहितम् ।

निशम्य हनुमां स्तस्य वाक्यमुत्तर मब्रवीत् ॥६

देवि हर्यृक्षसैन्याना मीश्वरः प्लवतां वरः ।

सुग्रीव स्सत्त्वसंपन्न स्तवार्थे कृतनिश्चयः ॥

स वानरसहस्राणां कोटीभि रभिसंवृतः ।

क्षिप्र मेष्यति वैदेहि सुग्रीवः प्लवगाधिपः ॥

तौ च वीरौ नरवरौ सहितौ रामलक्ष्मणौ ।

आगम्य नगरीं लङ्कां सायकै र्विधमिष्यतः ॥

सगणं राक्षसं हत्वा न चिरा द्रघुनन्दनः ।

त्वा मादाय वरारोहे स्वां पुरीं प्रतियास्यति ॥

समाश्वसिहि भद्रं ते भव त्वं कालकांक्षिणी ।

क्षिप्रं द्रक्ष्यसि रामेण निहतं रावणं रणे ॥

निहते राक्षसेन्द्रेच सपुत्त्रामात्यबान्धवे ।

त्वं समेष्यसि रामेण शशाङ्केनेत्र रोहिणी ॥

क्षिप्र मेष्यति काकुत्स्थो हर्यृक्षप्रवरैर्वृतः ।

यस्ते युधि विजित्यारीन् शोकं व्यपनयिष्यति ॥७

एव माश्वास्य वैदेहीं हनुमान्मारुतात्मजः ।

गमनाय मतिं कृत्वा वैदेही मभ्यवादयत् ॥८

[ राक्षसान्प्रवरान्हत्वा नाम विश्राव्य चात्मनः ।

समाश्वास्य च वैदेहीं दर्शयित्वा परं बलम् ॥

नगरी माकुलां कृत्वा वंचयित्वा च रावणम् ।

दर्शयित्वा बलं घोरं वैदेही मभिवाद्य च ॥

प्रतिगन्तुं मनश्चक्रे पुनर्मध्येन सागरम् ॥ ]

तत स्स कपिशार्दूल स्स्वामिसन्दर्शनोत्सुकः ।

आरुरोह गिरिश्रेष्ठमरिष्टमरिमर्दनः ॥९

तुङ्गपद्मकजुष्टाभि र्नेलाभि र्वनराजिभिः ।

सोत्तरीय मिवाम्भोदै श्शृङ्गान्तरविलम्बिभिः ॥१०

बोध्यमान मिव प्रीत्या दिवाकरकरै श्शुभैः ।

उन्मिषन्त मिवोद्धूतै र्लोचनै रिव धातुभिः ॥११

तोयौघनिस्स्वनै र्मन्द्रैः प्राधीत मिव पर्वतम् ।

प्रगीतमिव विस्पष्टै र्नानाप्रस्त्रवणस्वनैः ॥१२

देवदारुभि रत्युच्चै रुर्ध्व बाहु मिव स्थितम् ।

प्रपातजलनिर्घोषैः प्राक्रुष्ट मिव सर्वतः ॥१३

वेपमान मिव श्यामैःकम्पमानै श्शरद्वनैः ।

वेणुभिर्मारुतोद्धूतैः कूजन्तमिव कीचकैः ॥१४

निश्श्वसन्त मिवामर्षा द्धोरै राशीविषोत्तमैः ।

मीहारकृतगम्भीरै र्ध्यायन्त मिव गह्वरैः ॥१५

मेघपादनिभैः पादै प्रक्रान्त मिव सर्वतः ।

जृम्भमाण मिवाऽकाशे शिखरै रभ्रमालिभिः ॥१६

कूटैश्च बहुधा कीर्णैश्शोभितं बहुकन्दरैः ।

सालतालाश्वकर्णौ श्च वंशैश्च बहुभि र्वृतम् ॥१७

लतावितानै र्विततैः पुष्पवद्भि रलङ्कृतम् ।

नानामृगगणाकीर्णं धातुनिष्यन्दभूषितम् ॥१८

बहुप्रस्रवणोपेतं शिलासञ्चयसङ्कटम् ।

महर्षि यक्षगन्धर्वकिन्नरोरंगसेवितम् ॥१९

लतापादपसङ्घातं सिंहाध्युषितकन्दरम् ।

व्याघ्रसङ्घ समाकीर्णं स्वादुमूलफलद्रुमम् ॥२०

तमारुरोह हनुमान्पर्वतं पवनात्मजः ।

रामदर्शनशीघ्रेण प्रहर्षेणाभिचोदितः ॥२१

तेन पादतलाक्रान्ता रम्येषु गिरिसानुषु ।

सघोषा स्समशीर्यन्त शिला श्चूर्णी कृतास्ततः ॥२२

स त मारुह्य शैलेन्द्रं व्यवर्धत महाकपिः ।

दक्षिणा दुत्तरं पारं प्रार्थयन्लवणाम्भसः ॥२३

अधिरुह्य ततो वीरः पर्वतं पवनात्मजः ।

ददर्श सागरं भीमं मीनोरगनिषेवितम् ॥२४

स मारुत इवाऽकाशं मारुतस्याऽत्मसम्भवः ।

प्रपेदे हरिशार्दूलो दक्षिणा दुत्तरां दिशम् ॥२५

स तदा पीडित स्तेन कपिना पर्वतोत्तमः ।

ररास सहतै र्भूतैः प्रविशन्वसुधातलम् ॥२६

कम्पमानै श्च शिखरैः पतद्भि रपि च द्रुमैः ।

तस्योरुवेगोन्मथिताः पादपाः पुष्पशालिनः ॥२७

निपेतु र्भूतले (रुग्ना) श्शक्रायुधहता इव ।

कन्दरान्तरसंस्थानां पीडितानां महौजसाम् ॥२८

सिंहानां निनदो भीमो नभो भिन्दन्स शुश्रुवे ।

त्रस्तव्यावृत्तवसना व्याकुलीकृतभूषणाः ॥२९

विद्याधर्य स्समुत्पेतुः सहसा धरणीधरात् ।

अतिप्रमाणा बलिनो दीप्तजिह्वा महाविषाः ॥३०

निपीडितशिरोग्रीवा व्यवेष्टन्त महाहयः ।

किन्नरोरगगन्धर्वयक्षविद्याधरा स्तदा ॥३१

पीडितं तं नगवरं त्यक्त्वा गगन मास्थिताः ।

स च भूमिधर श्श्रीमान्बलिना तेन पीडितः ॥३२

स वृक्षशिखरोदग्रः प्रविवेश रसातलम् ।

दशयोजनविस्तार स्त्रिंशद्योजन मुच्छ्रितः ॥३३

धरण्यां समतां यातः स बभूव धराधरः ।

सलिलङ्घयिषुर्भीमं सलिलं लवणार्णवम् ॥३४

कल्लोलास्फालवेलान्त मुत्पपात नभोहरिः ।

इति श्रीमत्सुन्दरकाण्डे षट्पञ्चाशस्सर्गः ॥
<MISSING_FIG href="../books_images/U-IMG-170456380416.png"/>

॥ सप्तपञ्चाशस्सर्गः ॥

[आप्लुत्य च महावेगःपक्षवानिव पर्वतः ।

स चन्द्रकुमुदं रम्यं सार्ककारण्डवं शुभम् ।

तिष्यश्रवणकादम्ब मभ्रशैवालशाद्बलम् ॥१

पुनर्वसुमहामीनं लोहिताङ्गमहाग्रहम् ।

ऐरावतमहाद्वीपं स्वातीहंसविलोलितम् ॥२

वातसङ्घातजातोर्मि चन्द्रांशुशिशिराम्बुमत् ।

भुजङ्गयक्षगन्धर्व प्रबुद्धकमलोत्पलम् ॥३

हनुमान्मारुतगति र्महानौ रिव सागरम् ।

अपार मपरिश्रान्तः पुप्लुवे गगनार्णवम् ॥४

ग्रसमान इवाऽकाशं ताराधिप मिवोल्लिखन् ।

हरन्निवस नक्षत्रं गगनं सार्कमण्डलम् ॥५

मारुतस्याऽत्मज श्श्रीमान्कपिर्व्योमचरो महान् ।

[ अपार मपरिश्रान्त श्चाम्बुधिं समगाहत ॥ ]

हनुमान्मेघजालानि विकर्षन्निवगच्छति ॥६

पाण्डरारुणवर्णानि नीलमाञ्जिष्ठकानि च ।

हरितारुणवर्णानि महाभ्राणि चकाशिरे ॥७

प्रविशन्नभ्रजालानि निष्पतं श्च पुनःपुनः ।

प्रच्छन्न श्च प्रकाश श्च चन्द्रमा इव लक्ष्यते ॥८

विविधाभ्रघनापत्र गोचरो धवलाम्बरः ।

दृश्यादृश्यतनुर्वीर स्तदा चन्द्रायतेऽम्बरे ॥९

तार्क्ष्यायमाणो गगने बभासे वायुनन्दनः ।

दारयन्मेघवृन्दानि निष्पतं श्च पुनःपुनः ॥१०

नदन्नादेन महता मेघस्वनमहास्वनः ।

प्रवरान्राक्षसान् हत्वा नाम विश्राव्य चाऽत्मनः ॥११

आकुलां नगरीं कृत्वा व्यथयित्वा च रावणम् ।

अर्दयित्वा बलं घोरं वैदेही मभिवाद्य च ॥१२

आजगाम महातेजाः पुन र्मध्येन सागरम् ।

पर्वतेन्द्र सुनाभं च समुपस्पृश्य वीर्यवान् ॥१३

ज्यामुक्त इव नाराचो महावेगोऽभ्युपागतः ।

स किंचि दनुसंप्राप्तः समालोक्य महागिरिम् ॥१४

महेन्द्रं मेघसङ्काशं ननाद हरिपुङ्गवः ।

स पूरयामास कपि र्दिशो दश समन्ततः ॥१५

नदन्नादेन महता मेघस्वनमहास्वनः ।

स तं देश मनुप्राप्तः सुहृद्दर्शनलालसः ॥१६

ननाद हरिशर्दूलो लांगूलं चाप्यकम्पयत् ।

तस्य नानद्यमानस्य सुपर्णचरिते पथि ॥१७

फलतीवास्य घोषण गगनं सार्कमण्डलम् ।

ये तु तत्त्रोत्तरे तीरे समुद्रस्य महाबलाः ॥१८

पूर्वं संविष्ठिता श्शूरा वायुपुत्त्रदिदृक्षवः ।

महतो वातनुन्नस्यतोयदस्येव गर्जितम् ॥१९

शश्रुवु स्ते तदा घोष मूरुवेगं हनूमतः ।

ते दीनमनस स्सर्वे शुश्रुवुः काननौकसः ॥२०

वानरेन्द्रस्यनिर्घोषं पर्जन्यनिनदोपमम् ।

निशम्य नदतो नादं वानरास्ते समन्ततः ॥२१

बभूवु रुत्सुकास्सर्वे सुहृद्दर्शनकाङ्क्षिणः ।

जाम्बवान्स हरिश्रेष्टः प्रीतिसंहृष्टमानसः ॥२२

उपामन्त्र्य हरीन्सर्वा निदं वचन मब्रवीत् ।

सर्वथा कृतकार्योऽसौ हनुमान्नात्र संशयः ॥२३

नह्यस्याकृतकार्यस्य नाद एवं विधो भवेत् ।

तस्य बाहूरुवेगं च निनादं च महात्मनः ॥२४

निशम्य हरयो हृष्टाः समुत्पेतु स्तत स्ततः ।

ते नगाग्रान्नगाग्राणि शिखरा च्छिखराणि च ॥ २५

प्रहृष्टा स्समपद्यन्त हनूमन्तं दिदृक्षवः ।

ते प्रीताः पादपाग्रेषु गृह्यशाखा स्सुविष्टिताः ॥२६

वासांसीव प्रशाखाश्च समाविध्यन्त वानराः ।

गिरिगह्वरसंलीनो यथा गर्जति मारुतः ॥२७

एवं जगर्ज बलवान् हनुमान्मारुतात्मजः ।

तमभ्रघनसङ्काश मापतन्तं महाकपिम् ॥२८

दृष्ट्वा ते वानरा स्सर्वे तस्थुः प्राञ्जलय स्तदा ।

तत स्तु वेगवां स्तस्य गिरे र्गिरिनिभिः कपिः ॥२९

निपपात महेन्द्रस्य शिखरे पादपाकुले ।

हर्षेणाऽपूर्यमाणोऽसौ रम्ये पर्वतनिर्झरे ॥३०

छिन्त्रपक्ष इवाऽकाशात्पपात धरणीधरः ।

ततस्ते प्रीतमनसः सर्वे वानरपुङ्गवाः ॥३१

हनुमन्तं महात्मानं परिवार्योपतस्थिरे ।

परिवार्य च ते सर्वे परां प्रीति मुपागताः ॥३२

प्रहृष्टवदना स्सर्वे तमरोग मुपागतम् ।

उपायनानि चाऽदाय मूलानि च फलानि च ॥३३

प्रत्यर्पयन्हरिश्रेष्ठं हरयो मारुतात्मजम् ।

[विनेदुर्मुदिताः केचित्केचित्किलिकिला स्तथा ।

हृष्टाः पादपशाखाश्च आनिन्यु र्वानरर्षभाः ॥]

हनुमांस्तु गुरुन्वृद्धा ञ्जाम्बवत्प्रमुखांस्तदा ॥३४

कुमार मङ्गदं चैव सोऽवन्दत महाकपिः ।

स ताभ्यां पूजितः पूज्यःकपिभि श्च प्रसादितः ॥३५

दृष्टा सीतेति विक्रान्त स्संक्षेपेण न्यवेदयत् ।

निषसाद च हस्तेन गृहीत्वा वालिन स्सुतम् ॥३६

रमणीये वनोद्देशे महेन्द्रस्य गिरे स्तदा ।

हनुमा नब्रवी दृष्टस्तदा ता न्वानरर्षभान् ॥३७

अशोकवनिकासंस्था दृष्टा सा जनकात्मजा ।

रक्ष्यमाणा सुघोराभी राक्षसीभि रनिन्दिता ॥३८

एकवेणधिरा बाला रामदर्शनलालसा ।

उपवासपरिश्रान्ता जटिला मलिना कृशा ॥३९

ततो दृष्टेति वचनं महार्थ ममृतोपमम् ।

निशम्य मारुते स्सर्वे मुदिता वानरा भवन् ॥४०

क्ष्वेलन्त्यन्ये नदन्त्यन्ये गर्जन्त्यन्ये महाबलाः ।

चक्रुः किलकिला मन्ये प्रतिगर्जन्ति चापरे ॥४१

केचि दुच्छ्रितलांगूलाः प्रहृष्टाः कपिकुञ्जराः ।

अञ्चिायतदीर्घाणि लांगूलानि प्रविव्यधुः ॥४२

अपरे च हनुमन्तं वानरा वारणोपमम् ।

आप्लुत्य गिरिशृङ्गेभ्यःसंस्पृशन्ति स्म हर्षिताः ॥४३

उक्तवाक्यं हनुमन्त मङ्गद स्तमथाब्रवीत् ।

सर्वेषां हरिवीराणां मध्ये वचन मुत्तमम् ॥४४

सत्त्वे वीर्ये न ते कश्चित्समो वानर विद्यते ।

यदवप्लुत्य विस्तीर्णं सागरं पुनरागतः ॥४५

[ जीवितस्य प्रदाता नस्त्व मेको वानरोत्तम ।

त्वत्प्रसादा त्समेष्याम स्सिद्धार्था राघवेण ह ॥ ]

अहो स्वामिनि ते भक्ति रहो वीर्य महोधृतिः ।

दिष्टया दृष्टा त्वया देवी रामपत्नी यशस्विनी ॥४६

दिष्ट्या त्यक्ष्यति काकुत्स्थश्शोकं सीतावियोगजम् ।

ततोऽङ्गदंहनूमन्तं जाम्बवन्तं च वानराः ॥४७

परिवार्य प्रमुदिता भेजिरे विपुला श्शिलाः ।

[ उपविष्टा गिरे स्तस्य शिलासु विपुलासु च ॥ ]

श्रोतुकामा स्समुद्रस्य लङ्घनं वानरोत्तमाः ॥४८

दर्शनं चापि लङ्काया स्सीतायारावणस्य च ।

तस्थुः प्राञ्जलय स्सर्वे हनुमद्वदनोन्मुखाः ॥४९

तस्थौ तत्त्राङ्गद श्श्रीमान्वानरै र्बहुभिर्वृतः ।

उपास्यमानो विबुधै र्दिवि देवपति र्यथा ॥५०

हनूमता कीर्तिमता यशस्विना तथाङ्गदेनाङ्गदबद्धबाहुना ।

मुदा तदाऽध्यासित मुन्नतम्महन्महीधराग्रं ज्वलितं श्रियाऽभवत् ॥५१

इति श्रीमत्सुन्दरकाण्डे सप्तपञ्चाशस्सर्गः ॥
<MISSING_FIG href="../books_images/U-IMG-170456438216.png"/>

॥ अष्टपञ्चाशस्सर्गः ॥

तत स्तस्य गिरे श्शृङ्गे महेन्द्रस्य महाबलाः ।

हनुमत्प्रमुखाः प्रीतिं हरयो जग्मुरुत्तमाम् ॥१

तं ततः प्रीतिसंहृष्टः प्रीतिमन्तं महाकपिम् ।

जाम्बवा न्कार्यवृत्तान्त मपृच्छ दनिलात्मजम् ॥२

कथं दृष्टा त्वया देवी कथं वा तत्र वर्तते ।

तस्यां वा स कथं वृत्तः क्रूरकर्मा दशाननः ॥३

तत्त्वत स्सर्वमेतन्नः प्रब्रूहि त्वं महाकपे ।

[ संमार्गिता कथं देवी किंच सा प्रत्यभाषत]

श्रुतार्था श्चिन्तयिष्यामो भूयः कार्यविनिश्चयम् ॥४

य श्चार्थ स्तत्त्र वक्तव्यो गतै रस्माभि रात्मवान् ।

रक्षितव्यं च यत्तत्त्र तद्भवा न्व्याकरोतु नः ॥५

स नियुक्त स्तत स्तेन संप्रहृष्टतनूरुहः ।

प्रणम्य शिरसा देव्यै सीतायै प्रत्यभषत ॥६

प्रत्यक्ष मेव भवतां महेन्द्राग्रा त्खमाप्लुतः ।

उदधे र्दक्षिणं पारं काङ्क्षमाण स्समाहितः ॥७

गच्छत श्च हि मे घोरं विघ्नरूप मिवाभवत् ।

काञ्चनं शिखरं दिव्यं पश्यामि सुमनोहरम् ॥८

स्थितं पन्थान मावृत्य मेने विघ्नं च तं नगम् ।

उपसंगम्य तं दिव्यं काश्चनं नगसत्तमम् ॥९

कृता मे मनसा बुद्धि र्भेत्तव्योऽयं मयेति च ।

प्रहतं च मया तस्य लांगूलेन महागिरेः ॥१०

शिखरं सूर्यसङ्काशं व्यशीर्यत सहस्रधा ।

व्यवसायं च तं बुद्ध्वा सहोवाच महागिरिः ॥११

पुत्त्रेति मधुरां वाणीं मनः प्रह्लादयन्निव ।

पितृव्यं चापि मां विद्धि सखायं मातरिश्वनः ॥१२

मैनाक मिति विख्यातं निवसन्तं महोदधौ ।

पक्षवन्तः पुरा पुत्त्र बभूवुः पर्वतोत्तमाः ॥१३

छन्दतः पृथिवीं चेरु र्बाधमाना स्समन्ततः ।

श्रुत्वा नगानां चरितं महेन्द्रः पाकशासनः ॥१४

चिच्छेद भगवान्पक्षा न्वज्रेणैषां सहस्रशः ।

अहं तु मोक्षित स्तस्मात्तव पित्रा महात्मना ॥१५

मारुतेन तदा वत्स प्रक्षिप्तोऽस्मि महार्णवे ।

रामस्य च मया साह्ये वर्तितव्य मरिन्दम ॥१६

रामो धर्मभृतां श्रेष्ठो महेन्द्रसमविक्रमः ।

एतच्छ्रुत्वा वचस्तस्य मैनाकस्य महात्मनः ॥१७

कार्यमावेद्य तु गिरे रुद्यतं च मनो मम ।

तेन चाह मनुज्ञातो मैनाकेन महात्मना ॥१८

स चा प्यन्तर्हित श्शैलो मानुषेण वपुष्मता ।

शरीरेण महाशैलः शैलेन च महोदधौ ॥१९

उत्तमं जव मास्थाय शेषं पन्थान मास्थितः ।

ततोऽहं सुचिरं कालं वेगेनाभ्यगमं पथि ॥२०

ततः पश्या म्यहं देवीं सुरसां नागमातरम् ।

समुद्रमध्ये सा देवी वचनं मा मभाषत ॥२१

मम भक्षः प्रदिष्ट स्त्व ममरै र्हरिसत्तम ।

अत स्त्वां भक्षयिष्यामि विहित स्त्वं चिरस्य मे ॥२२

एव मुक्त स्सुरसया प्राञ्जलिः प्रणतः स्थितः ।

विवर्णवदनो भूंत्वा वाक्यं चेद मुदीरयम् ॥२३

रामो दाशरथि श्श्रीमान्प्रविष्टो दण्डकावनम् ।

लक्ष्मणेन सह भ्रात्रा सीतया च परन्तपः ॥२४

तस्य सीता हृता भार्या रावणेन दुरात्मना ।

तस्या स्सकाशं दूतोऽहं गमिष्ये रामशासनात् ॥२५

कर्तु मर्हसि रामस्य साहाय्यं विषये सती ।

अथवा मैथिलीं दृष्ट्वा रामं चाक्लिष्टकारिणम् ॥२६

आगमिष्यामि ते वक्रं सत्यं प्रतिशृणोमि ते ।

एव मुक्ता मया सा तु सुरसा कामरूपिणी ॥२७

अब्रवी न्नातिवर्तेत कश्चि देष वरो मम ।

एव मुक्त स्सुरसया दशयोजन मायतः ॥२८

ततोऽर्धगुणविस्तारो बभूवाहं क्षणेन तु ।

मत्प्रमाणानुरूपं च व्यादितं च मुखं तथा ॥२९

त दृष्ट्वा व्यादितं चाऽस्यं ह्रस्वं ह्यकरवं वपुः ।

तस्मिन्मुहूर्ते च पुनर्बभूवाङ्गुष्ठमात्रकः ॥३०

अभिपत्याऽशु तद्वक्रं निर्गतोऽहं ततः क्षणात् ।

अब्रवीत्सुरसादेवी स्वेन रूपेण मां पुनः ॥३१

अर्थसिद्ध्यै हरिश्रेष्ठ गच्छ सौम्य यथासुखम् ।

समानय च वैदेहीं राघवेण महात्मना ॥३२

सुखी भव महाबाहो प्रीताऽस्मि तव वानर ।

ततोऽहं साधु साध्वीति सर्वभूतैः प्रशंसितः ॥३३

ततोऽन्तरिक्षं विपुलं प्लुतोऽहं गरुडो यथा ।

छाया मे निगृहीता च न च पश्यामि किंचन ॥३४

सोऽहं विगतवेगस्तु दिशो दश विलोकयन् ।

नकिंचि त्तत्त्र पश्यामि येन मेऽपहृता गतिः ॥३५

ततो मे बुद्धि रुत्पन्ना किन्नाम गगने मम ।

ईदृशो विघ्न उत्पन्नो रूपं यत्र न दृश्यते ॥३६

अधोभागेन मे दृष्टि श्शोचता पातिता मया ।

ततोऽद्राक्ष महं भीमां राक्षसीं सलिलेशयाम् ॥३७

प्रहस्य च महानाद मुक्तोऽहं भीमया तया ।

अवस्थित मसंभ्रान्त मिदं वाक्य मशोभनम् ॥३८

क्वासि गन्ता महाकाय क्षुधिताया ममेप्सितः ।

भक्षः प्रीणय मे देहं चिर माहारवर्जितम् ॥३९

बाढ मित्येव तां वाणीं प्रत्यगृह्णा महं ततः ।

आस्यप्रमाणा दधिकं तस्याः काय मपूरयम् ॥४९

तस्या श्चाऽस्यं महद्भीमं वर्धते मम भक्षणे ।

नव मां साधु बुबुधे मम वा निकृतं कृतम् ॥४१

ततोऽहं विपुलं रूपं संक्षिप्य निमिषान्तरात् ।

तस्या हृदय मादाय प्रपतामि नमस्स्थलम् ॥४२

सा विसृष्टभुजा भीमा पपात लवणाम्भसि ।

मया पर्वतसङ्काशा निकृत्तहृदया सती ॥४३

शृणोमि खगतानां च सिद्धानां चारणै स्सह ।

राक्षसी सिंहिका भीमा क्षिप्रं हनुमता हता ॥४४

तां हत्वा पुनरे वाहं कृत्य मात्ययिकं स्मरन् ।

गत्वा चाहं महाध्वानं पश्यामि नगमण्डितम् ॥४५

दक्षिणं तीर मुदधे र्लङ्का यत्रच सा पुरी ।

अस्तं दिनकरे याते रक्षसां निलयं पुरम् ॥४६

प्रविष्टोऽह मविज्ञातो रक्षोभिर्भीमविक्रमैः ।

तत्र प्रविशत श्चापि कल्पान्तघनसन्निभा ॥४७

अट्टहासं विमुञ्चन्ती नारी काप्युत्थिता पुरः ।

जिघांसन्तीं तत स्तां तु ज्वलदग्निशिरोरुहाम् ॥४८

सव्यमुष्टिप्रहारेण पराजित्य सुभैरवाम् ।

प्रदोषकाले प्रविशं भीतयाऽहं तयोदितः ॥४९

अहं लङ्कापुरी वीरनिर्जिता विक्रमेण ते ।

यस्मा त्तस्मा द्विजेतासि सर्वरक्षांस्यशेषतः ॥५०

तत्राहं सर्वरात्रं तु विचिन्वञ्जनकात्मजाम् ।

रावणान्तःपुरगतो न चापश्यं सुमध्यमाम् ॥५१

तत स्सीता मपश्यंस्तु रावणस्य निवेशने ।

शोकसागर मासाद्य न पार मुपलक्षये ॥५२

शोचता च मया दृष्टं प्राकारेण समावृतम् ।

काञ्चनेन विकृष्टेन गृहोपवन मुत्तमम् ॥५३

स प्राकार मवप्लुत्य पश्यामि बहुपादपम् ।

अशोकवनिकामध्ये शिंशुपापादपो महान् ॥५४

त मारुह्य च पश्यामि काञ्चनं कदलीवनम् ।

अदूरे शिंशुपावृक्षा त्पश्यामि वरवर्णिनीम् ॥५५

श्यामां कमलपत्त्राक्षी मुपवासकृशाननाम् ।

तदेकवास स्संवीतां रजोध्वस्तशिरोरुहाम् ॥५६

शोकसन्तापदीनाङ्गींसीतां भर्गृहिते स्थिताम् ।

राक्षसीभिर्विरूपाभिः क्रूराभि रभिसंवृताम् ॥५७

मांसशोणितभक्षाभि र्व्याध्रीभि र्हरिणी मिव ।

सा मया राक्षसीमध्ये तर्ज्यमाना मुहुर्मुहुः ॥५८

एकवेणीधरा दीना भर्तृचिन्तापरायणा ।

भूमिशय्या विवर्णाङ्गी पद्मिनवि हिमागमे ॥५९

रावणा द्विनिवृत्तार्था मर्तव्यकृतनिश्चया ।

कथंचिन्मृगशाबाक्षी तूर्ण मासादिता मया ॥६०

तां दृष्ट्वा तादृशींनारीं रामपत्नीं यशस्विनीम् ।

तत्त्रैव शिंशुपावृक्षे पश्यन्नह मवस्थितः ॥६१

ततो हलहलाशदं काञ्चीनूपुरमिश्रितम् ।

शृणोम्यधिकगम्भीरं रावणस्य निवेशने ॥६२

ततोऽहं परमोद्विग्नः स्वरूपं प्रतिसंहरन् ।

अहं तु शिंशुपावृक्षे पक्षीव गहनेस्थितः ॥६३

ततो रावणदाराश्च रावणश्च महाबलः ।

तं देशं समनुप्राप्ता यत्रसीताऽभवस्थिता ॥६४

तं दृष्ट्वाऽथ वरारोहा सीता रक्षोगणेश्वरम् ।

सङ्कुच्योरू स्तनो पीनौ बाहुभ्यां परिरभ्य च ॥६५

वित्रस्तां परमोद्विग्नां वीक्षमाणां ततस्ततः ।

त्राणं किंचि दपश्यन्तीं वेपमानां तपस्विनीम् ॥६६

ता मुवाच दशग्रीव स्सीतां परमदुःखिताम् ।

अवाक्छिराः प्रपतितो बहुमन्यस्व मा मिति ॥६७

यदि चेत्त्वं तु दर्पा न्मां नाभिनन्दासि गर्विते ।

द्वौ मासा वन्तरं सीते पास्यामि रुधिरं तव ॥६८

एत च्छ्रुत्वा वच स्तस्य रावणस्य दुरात्मनः ।

उवाच परमक्रुद्धा सीता वचन मुत्तमम् ॥६९

राक्षसाधम रामस्य भार्या मभिततेजसः ।

इक्ष्वाकुकुलनाथस्य स्नुषां दशरथस्य च ॥७०

अवाच्यं वदतो जिह्वा कथं न पतिता तव ।

किंस्वि द्वीर्यं तवानार्य यो मां भर्तु रसन्निधौ ॥७१

अपहृत्याऽऽगतः पाप तेनादृष्टो महात्मना ।

न त्वं रामस्य सदृशो दास्येऽप्यस्य न युज्यसे ॥७२

अजे स्सत्यवादी च रणश्लाघी च राघवः।

जानक्या परुषं वाक्य मेवमुक्तो दशाननः ॥७३

जज्वाल सहसा कोपा च्चितास्थ इव पावकः ।

विवृत्य नयने क्रूरे मुष्टि मुद्यम्य दक्षिणम् ॥७४

मैथिलीं हन्तु मारब्धः स्त्रीभि र्हाहाकृतं तदा ।

स्त्रीणां मध्या त्समुत्पत्य तस्य भार्या दुरात्मनः ॥७५

वरा मन्दोदरी नाम तया सप्रतिषेधितः ।

उक्तश्च मधुरां वाणीं तया स मदनार्दितः ॥७६

सीतया तव किं कार्यं महेन्द्रसमविक्रम ।

मया सह रमस्वाद्य मद्विशिष्टा न जानकी

देवगन्धर्वकन्याभि र्यक्षकन्याभि रेवच ॥७७

सार्धप्रभो रमस्वेह सीतया किं करिष्यसि ।

तत स्ताभि स्समेताभि र्नारीभि स्स महाबलः ॥७८

प्रसाद्य सहसा नीतो भवनं स्वं निशाधरः ।

याते तस्मिन्दशमीचे राक्षस्यो विकृताननाः ॥७९

सीतां निर्भर्त्सयामासु र्वाक्यैः क्रूरै स्सुदारुणैः ।

तृणव द्भाषितं तासां गणयामास जानकीम् ॥८०

गर्जितं च तदा तासां सीतां प्राप्य निरर्थकम् ।

वृथागर्जितनिश्चेष्टा राक्षस्यः पिशिताशनाः ॥८१

रावणाय शरांसु स्ता स्सीताध्यवसितं महत् ।

तत स्ता स्सहिता स्सर्वा निहताशा निरुद्यमाः ॥८२

परिक्षिप्य समन्ता त्तां निद्रावश मुपागताः ।

तासु चैव प्रसुप्तासु सीता भर्तृहिते रता ॥८३

विलप्य करुणं दीना प्रशुशोध सुदुःखिता ।

तासां मध्या त्समुत्थाय त्रिजटा वाक्य मत्रवीत् ॥८४

आत्मानं खादत क्षिप्रं नसीता विनशिष्यति ।

जनकस्याऽत्मजा साध्वी स्नुषा दशरथस्यच ॥८५

सप्नो ह्यद्य मया दृष्टो दारुणो रोमहर्षणः ।

रक्षसां च विनाशाय भर्तु रस्या जयाय च ॥८६

अल मस्मा त्परित्रातुं राघवा द्राक्षसीगणम् ।

अभियाचाम वैदेही मेताद्ध मम रोचते ॥८७

यस्या ह्येवंविध स्स्वप्नो दुःखितायाः प्रदृश्यते ।

सा दुःखै र्विविधै र्मुक्ता सुख माप्नोत्यनुत्तमम् ॥८८

प्रणिपातप्रसन्ना हि मैथिली जनकात्मजा ।

अल मेषा परित्रातुं राक्षस्यो महतो भयात्

तत स्साह्रीमती बाला भर्तु र्विजयहर्षिता ॥८९

अवोच द्यदि तत्तथ्यं भवेयं शरणं हि वः ।

तां चाहं तादृशीं दृष्ट्वा सीतायादारुणांदशाम् ॥९०

चिंतयामास विक्रान्तो नच मे निर्वृतं मनः ।

संभाषणार्थं च मया जानक्याश्चिन्तितो विधिः ॥९१

इक्ष्वाकूणां हि वंशस्तु ततो मम पुरस्कृतः ।

श्रुत्वातु गदितां वाचं राजर्षिगणपूजिताम् ॥९२

प्रत्यभाषत मां देवी बाष्पैः पिहितलोचना ।

कस्त्वं केन कथं चेह प्राप्तो वानरपुङ्गव ॥९३

का च रामेण ते प्रीति स्त न्मे शंसितुमर्हसि ।

तस्या स्तद्वचनं श्रुत्वा ह्यह मप्यब्रुवं वचः ॥९४

देवि रामस्य भर्तुस्ते सहायो भीमविक्रमः ।

सुग्रीवो नाम विक्रान्तो वानरेन्द्रो महाबलः ॥९५

तस्य मां विद्धिभृत्यं त्वं हनुमन्त मिहाऽगतम् ।

भर्त्राऽहं प्रेषित स्तुभ्यं रामेणाक्लिष्टकर्मणा ॥९६

इदं च पुरुषव्याघ्रः श्रीमान्दाशरथि स्स्वयम् ।

अङ्गुलीय मभिज्ञान मदात्तुभ्यं यशस्विनि ॥९७

त दिच्छामित्वयाऽऽज्ञप्तं देवि किंकरवाण्यहम् ।

रामलक्ष्मणयोः पार्श्वं नयामि त्वां किमुत्तरम् ॥९८

एत च्छ्रुत्वा विदित्वा च सीता जनकनन्दिनी ।

आह रावण मुत्साद्य राघवो मां नयत्विति ॥९९

प्रणम्य शिरसा देवी मह मार्या मनिन्दिताम् ।

राघवस्य मनोह्लाद मभिज्ञान मयाचिषम् ॥१००

अथ मा मब्रवी त्सीता गृह्यता मय मुत्तमः ।

मणि र्येन महाबाहू राम स्त्वां बहुमन्यते ॥१०१

इत्युक्त्वातु वरारोहा मणिप्रवर मद्भुतम् ।

प्रायच्छ त्परमोद्विग्ना वाचा मां संदिदेशह ॥१०२

ततस्तस्यै प्रणम्याहं राजपुत्र्यै समाहितः ।

प्रदक्षिणं परिक्राम मिहाभ्युद्गतमानसः ॥१०३

उक्तोऽहं पुन रेवेदं निश्चित्य मनसा तथा ।

[ ज्ञात्वा संप्रस्थितं सीता मा मुवाच तपस्विनी]

हनुमन्मम वृत्तान्तं वक्तु मर्हसि राघवे ॥१०४

यथा श्रुत्त्वैव न चिरा त्ता वुभौ रामलक्ष्मणौ ।

सुग्रीवसहितौ वीरा वुपेयातां तथा कुरु ॥१०५

यद्यन्यथा भवे देत द्द्वौ मासौ जीवितं मम ।

न मां द्रक्ष्यति काकुत्स्थो म्रिये साऽह मनाथवत् ॥१०६

तच्छ्रुत्वा करुणं वाक्यं क्रोधो मा मभ्यवर्तत ।

उत्तरं च मया दृष्टं कार्यशेष मनन्तरम् ॥१०७

ततोऽवर्धत मे काय स्तदा पर्वतसन्निभः ।

युद्धकाङ्क्षी वनं तच्च विनाशयितु मारभे ॥१०८

त द्भग्नं वनषण्डं तु भ्रान्तत्रस्तमृगद्विजम् ।

प्रतिबुद्धा निरीक्षन्ते राक्षस्यो विकृताननाः ॥१०९

मां च दृष्ट्वा वने तस्मिन् समागम्य तत स्ततः ।

ता स्समभ्यागताः क्षिप्रं रावणायाऽऽचचक्षिरे ॥११०

राज न्वन मिदं दुर्गं तव भग्नं दुरात्मना ।

वानरेण ह्यविज्ञाय तव वीर्यं महाबल ॥१११

दुर्बुद्धे स्तस्य राजेन्द्र तत्र विप्रियकारिणः ।

वध माज्ञापय क्षिप्रं यथाऽसौ विलयं व्रजेत् ॥११२

तच्छ्रुत्वा राक्षसेन्द्रेण विसृष्टा भृशदुर्जयाः ।

राक्षसाः किङ्करा नाम रावणस्य मनोनुगाः ॥११३

तेषा मशीतिसाहस्रं शूलमुद्गरपाणिनाम् ।

मया तस्मि न्वनोद्देशे परिघेण निषूदितम् ॥११४

तेषां तु हतशेषा ये ते गत्वा लघुविक्रमाः ।

निहतं च महत्सैन्यं रावणायाऽऽचचक्षिरे ॥११५

ततो मे बुद्धि रुत्पन्ना चैत्यप्रासादमुतक्रमम् ।

तत्त्रस्था त्राक्षसा न्हत्वा शतं स्तम्भेन वै पुतः ॥११६

ललामभूतो लङ्काया स्म वै विध्वंसितो मया ।

ततः प्रहस्तस्य सुतं जंबुमालिन मादिशत् ॥११७

राक्षसै र्बहुभिस्सार्धं घोररूपै र्भयानकैः ।

त महं बलसंपन्नं राक्षसं रणकोविदम् ॥११८

परिघेणातिघोरेण सूदयामि सहानुगम् ।

तच्छ्रुत्वा राक्षसेन्द्रस्तु मन्त्रिपुत्रान्महाबलान् ॥११९

पदातिबलसम्पन्नान्प्रेषयामास रावणः ।

परिघेणैवतान्सर्वान्नयामि यमसादनम् ॥१२०

मन्त्रिपुत्रान्हतां च्छ्रुत्वासमरेऽलघुविक्रमान् ।

पञ्च सेनाग्रगां च्छूरान्प्रेषयामास रावणः ॥१२१

ता नहं सहसैन्यान्वै सर्वानेवाभ्यसूदयम् ।

ततः पुन र्दशग्रीवः पुत्र मक्षं महाबलम् ॥१२२

बहुभी राक्षसै स्सार्धं प्रेषयामास रावणः ।

तं तु मन्दोदरीपुत्त्रं कुमारं रणपण्डितम् ॥१२३

सहसा खं समुत्क्रान्तं पादयो श्च गृहीतवान् ।

चर्मासिनं शतगुणं भ्रामयित्वा व्यपेषयम् ॥१२४

त मक्ष मागतं भग्नं निशम्य स दशाननः ।

तत इन्द्रजितं नाम द्वितीयं रावण स्सुतम् ॥१२५

व्यादिदेश सुसंक्रुद्धो बलिनं युद्धदुर्मदम् ।

तच्चाप्यहं बलं सर्वं तं च राक्षसपुङ्गवम् ॥१२६

नष्टौजसं रणे कृत्वा परं हर्ष मुषागमम् ।

महताऽपि महाबाहुः प्रत्ययेन महाबलः ॥१२७

प्रेषितो रावणेनैव सहवीरैर्मदोत्कटैः ।

सोऽविषह्यं हि मां बुद्ध्वा स्व बलं चावमर्दितम्॥१२८

ब्राह्मेणास्त्रेण सतु मां प्राबन्धाच्चातिवेगितः ।

रज्जुभि श्चापिन्धन्ति ततो मां तत्र राक्षसाः ॥१२९

रावणस्य समीपं च गृहीत्वा मा मुपानयन् ।

दृष्ट्वा संभाषित श्चाहं रावणेन दुरात्मना ॥१३०

पृष्टश्च लङ्कागमनं राक्षसानां च तं वधम् ।

त त्सर्वं च मया तत्र सीतार्थ मिति जल्पितम् ॥१३१

स्यास्तु दर्शनाकाङ्क्षी प्राप्त स्त्वद्भवनं विभो ।

मारुतस्यौरसः पुत्रो वानरो हनुमानहम् ॥१३२

रामदूतं च मां विद्धि सुग्रीवसचिवं कपिम् ।

सोऽहं दूत्येन रामस्य त्वत्सकाश मिहाऽगतः ॥१३३

सुग्रीवश्च महातेजा स्स त्वां कुशल मब्रवीत् ।

[ श्रुणुतोपि समादेशं यदहंप्रब्रवीमिते ।

राक्षसेश हरीश स्त्वां वाक्य माहसमाहितम् ॥]

धर्मार्थकामसहितं हितं पथ्य मुवाच च ॥१३४

वसतो ऋश्यमूके मे पर्वते विपुलद्रुमे ।

राघवो रणविक्रान्तो मित्रत्वं समुपागतः ॥१३५

तेन मे कथितं राज्ञा भार्या भे रक्षसा हृता ।

तत्र साहाय्य मस्माकं कार्यं सर्वात्मना त्वया ॥१३६

मया च कथितं तस्मै वालिनश्च वधं प्रति ।

तत्रसाहाय्य हेतोर्मेसमयं कर्तु महंसि ॥१३७

वालिना हृतराज्येन सुग्रीवेण महाप्रभुः ।

चक्रेऽग्निसाक्षिकं सख्यं राघव स्सह लक्ष्मणः ॥१३८

तेन वालिन मुत्पाट्य शरेणै केन संयुगे ।

वानराणां महाराजः कृत स्स प्लवतां प्रभुः ॥१३९

तस्य साहाय्य मस्माभिः कार्यं सर्वात्मना त्विह ।

तेन प्रस्थापित स्तुभ्यं समीप मिह धर्मतः ॥१४०

क्षिप्र मानीयतां सीता दीयतां राघवाय च ।

यावत्र हरयो वीरा विधमन्ति बलं तव ॥१४१

वानराणां प्रभावो हिन केन विदितः पुरा ।

देवतानां सकाशं च ये गच्छन्ति निमन्त्रिताः ॥१४२

इति वानरराजस्त्वामाहे त्यभिहितो मया ।

मा मैक्षत ततः क्रुद्ध श्चक्षुषा प्रदहन्निव ॥१४३

तेन वध्योऽह माज्ञप्तो रक्षसा रौद्रकर्मणा ।

मत्प्रभाव मविज्ञाय रावणेन दुरात्मना ॥१४४

ततो विभीषणो नाम तस्य भ्राता महामतिः ।

तेन राक्षसराजोऽसौ याचितो मम कारणात् ॥१४५

नैवं राक्षसशार्दूल त्यज्यता मेष निश्चयः ।

राजशास्त्रव्यपेतो हि मार्ग स्संसेव्यते त्वया ॥१४६

दूतवध्या न दृष्टा हि राजशास्त्रेषु राक्षस ।

दूतेन वेदितव्यं च यथार्थं हितवादिना ॥१४७

सुमहत्यपराधेऽपि दूतस्यातुलविक्रम ।

विरूपकरणं दृष्टं नवधोऽस्तीति शास्त्रतः ॥१४८

विभीषणेनैवमुक्तो रावण स्संदिदेश तान् ।

राक्षसा नेत देवास्य लाङ्गूलं दह्यतामिति ॥१४९

तत स्तस्य वचश्श्रुत्वा मम पुच्छं समन्ततः ।

वेष्टितं शणवल्कैश्च जीर्णैः कार्पासजैः पटैः ॥१५०

राक्षसा स्सिद्धसन्नाहा स्ततस्ते चण्डक्रिमाः ।

तदाऽदहन्त मे पुच्छं निघ्नन्तः काष्ठमुष्टिभिः ॥१५१

बद्धस्य बहुभिः पाशै र्यन्त्रितस्य च राक्षसैः ।

[ नमे पीडाऽभव त्किचि द्दिदृक्षो र्नगरीं दिवा ]

ततस्ते राक्षसा श्शूरा बद्धं मा मग्निसंवृतम् ॥१५२

अघोषयन्नजमार्गे नगरद्वार मागताः ।

ततोऽहं सुमह द्रूपं संक्षिप्य पुनरात्मनः ॥१५३

विमोचयित्वा तं बन्धं प्रकृतिस्थः स्थितः पुनः ।

आयसं परिघं गृह्य तानि रक्षांस्यसूदयम् ॥१५४

तत स्तन्नगरद्वारं वेगेनाऽप्लुतवा नहम् ।

पुच्छेन च प्रदीप्तेन तां पुरीं सादृगोपुराम् ॥१५५

दहाम्यहमसंभ्रान्तो युगान्ताग्नि रिव प्रजाः ।

[ ततो मे ह्यभवत्त्रासो लङ्कां दग्धां समीक्ष्य तु ]

विनाष्टा जानकी व्यक्तं नाह्यदग्धः प्रदृश्यते ॥१५६

लङ्कायां कश्चि दुद्देश स्सर्वा भस्मीकृता पुरी ।

दहता च मया लङ्कां दग्धा सीता न संशयः ॥१५७

रामस्य हि महत्कार्यं मयेदं वितथीकृतम् ।

इति शोकसमाविष्ट श्चिन्ता मह मुपागतः ॥१५८

अथाहं वाच मश्रौषं चारणानां शुभाक्षराम् ।

जानकी नचदुग्धेति विस्मयोदन्तभाषिणाम् ॥१५९

ततो मे बुद्धि रुपान्ना श्रुत्वा ता मद्भुतां गिरम् ।

अदग्धा जानकी त्येवं निमित्तैश्चोपलक्षिता ॥१६०

दीप्यमानेतु लाङ्गूले न मां दहति पावकः ।

हृदयं च प्रहृष्टं में वाता स्सुरभिगन्धिनः ॥१६१

तै र्निमित्तै श्च दृष्टार्थैःकारणै श्च महागुणैः ।

ऋषिवाक्यै श्च सिद्धार्थै रभवं हृष्टमानसः ॥१६२

पुन र्दृष्ट्वा च वैदेहीं विसृष्टश्च तथा पुनः ।

ततः पर्वत मासाद्य तत्रारिष्ट महं पुनः ॥१६३

प्रति प्लवन मारेभे युष्मद्दर्शनकाङ्क्षया ।

ततः पवनचन्द्रार्कसिद्धगन्धर्वसेवितम् ॥१६४

पन्थान मह माक्रम्य भवतो दृष्टवानिहि ।

राघवस्य प्रभावेण भवतां चैव तेजसा ॥१६५

सुग्रीवस्य च कार्यार्थं मया सर्व मनुष्ठितम् ।

एत त्सर्वं मया तत्र यथाव दुपपादितम् ॥१६६

अत्र यन्न कृतं शेषं त त्सर्वं क्रियता मिति ॥

इति श्रीमत्सुन्दरकाण्डे अष्टपञ्चाशस्सर्गः ॥
<MISSING_FIG href="../books_images/U-IMG-170455621816.png"/>

॥ एकोनषष्टितमस्सर्गः ॥

एत दाख्याय तत्सर्वं हनुमान्मारुतात्मजः ।

भूय स्समुपचक्राम वचनं वक्तु मुत्तरम् ॥१

सफलो राघवोद्योग स्सुग्रीवस्य च संभ्रमः ।

शील मासाद्य सीताया मम च प्रवणं मनः ॥२

आर्यया स्सदृशं शीलं सीतायाः प्लवगर्षभाः

तपसा निर्दहेल्लोकान्क्रुद्धोवा निर्दहेदपि ।

सर्वथाऽतिप्रवृद्धोऽसौ रावणो राक्षसाधिपः ॥३

तस्य तां स्पृशतो गात्रं तपसा न विनाशितम् ।

न तदग्निशिखा कुर्या त्संस्पृष्टा पाणिना सती ॥४

जनकस्याऽत्मजा कुर्या द्यत्क्रोधकलुषीकृता ।

जाम्बवत्प्रमुखान् सर्वा ननुज्ञाप्य महाहरीन् ॥५

अस्मि न्नेवंगते कार्ये भवतां च निवेदिते ।

न्याय्यं स्म सह वैदेह्या द्रष्टुं तौ पार्थिवात्मजौ ॥६

अह मेकोऽपि पर्याप्त स्सराक्षसगणां पुरीम् ।

तां लङ्कां तरसा हन्तुं रावणं च महाबलम् ॥७

किं पुन स्सहितो वीरै र्बलवद्भिः कृतात्मभिः ।

कृताऽस्त्रैः प्लवगै श्शूरै र्भवद्भि र्विजयैषिभिः ॥८

अहं तु रावणं युद्धे ससैन्यं सपुरस्सरम् ।

सहपुत्रं वधिष्यामि सहोदरयुतं युधि ॥९

ब्राह्ममैन्द्रञ्च रौद्रञ्च वायव्यं वारुणं तथा ।

यदि शक्रजितोऽस्त्राणि दुर्निरीक्षाणिसंयुगे ॥१०

ता न्यहं विधमिष्यामि हनिष्यामि च राक्षसान् ।

भवता मननुज्ञातो विक्रमो मे रुणद्धि तम् ॥११

मयातुला विसृष्टाहि शैलवृष्टि र्निरन्तरा ।

देवानपि रणे हन्या त्किंपुन स्ता न्निशाचरान् ॥१२

[ भवता मननुज्ञातो विक्रमो मे रुणद्धि माम् ॥ ]

सागरोऽप्यतिया द्वेलां मन्दरः प्रचले दपि ।

न जाम्बवन्तं समरे कम्पये दरिवाहिनी ॥१३

सर्वराक्षससङ्घानां राक्षसा ये च पूर्वजाः ।

अल मेको विनाशाय वीरो वालिसुतः कपिः ॥१४

पनसस्योरुवेगेन नीलस्य च महात्मनः ।

मन्दरोऽप्यवशीर्येत किं पुन र्युधि राक्षसाः ॥१५

देवासुरयक्षेषु गन्धर्वोरगपक्षिषु।

मैन्दस्य प्रतियोद्धारं शंसत द्विविदस्य वा ॥१६

अश्विपुत्रौ महाभागा वेतौ प्लवगसत्तमौ ।

एतयोः प्रतियोद्धारं न पश्यामि रणाजिरे ॥१७

पितामहवरोत्सेकात्परमं दर्प मास्थितौ ।

अमृतप्राशना वेतौ सर्ववानरसत्तमौ ॥१८

अश्विनो र्माननार्थं हि सर्वलोकपितामहः ।

सर्वावध्यत्व मतुल मनयो र्दत्तवान्पुरा ॥१९

वरोत्सेकेन सतौच प्रमथ्य महतीं चमूम् ।

सुराणा ममृतं वीरौ पीतवन्तौ प्लवङ्गमौ ॥२०

एता वेव हि संक्रुद्धौ सवाजिरथकुञ्जराम् ।

लङ्कां नाशयितुं शक्तौ सर्वे तिष्ठन्तु वानराः ॥२१

मयैव निहता लङ्का दुग्धा भस्मीकृता पुनः ।

राजमार्गेषु सर्वत्र नाम विश्रावितं मया ॥२२

जयत्यतिबलो रामो लक्ष्मणश्च महाबलः ।

राजा जयतिसुग्रीवो राघवेणाभिपालितः ॥२३

अहं कोसलराजस्य दासः पवनसम्भवः ।

हनुमानिति सर्वत्र नाम विश्रावितं मया ॥२४

अशोकवनिकामध्ये रावणस्य दुरात्मनः ।

अधस्ता च्छिंशुपावृक्षे साध्वी करुण मास्थिता ॥२५

राक्षसीभिः परिवृता शोकसन्तापकर्शिता ।

मेघलेखापरिवृता चन्द्रलेखेव निष्प्रभा ॥२६

अचिन्तयन्ती वैदेही रावणं बलदर्पितम् ।

पतिव्रता च सुश्रोणी अवष्टब्धा व जानको ॥२७

अनुरक्ता हि वैदेही रामं सर्वात्मना शुभा ।

अनन्यचित्ता रामे च पौलोमीव पुरन्दरे ॥२८

तदेकवास स्संवीता रजोध्वस्ता तथैव च ।

शोकसन्तापदीनाङ्गी सीता भर्तृहिते रता ॥२९

सा मया राक्षसीमध्ये तर्ज्यमाना मुहुर्मुहुः ।

राक्षसीभि र्विरूपाभि र्द्दष्टाहि प्रमदावने ॥३०

एकवेणीधरा दीना भर्तृचिन्तापरायणा ।

अधश्शय्या विवर्णाङ्गी पद्मिनीव हिमागमे ॥३१

रावणा द्विनिवृत्तार्था मर्तव्यकृतनिश्चया ।

कथंचि न्मृगशाबाक्षी विश्वास मुपपादिता ॥३२

तत स्संभाषिता चैव सर्व मर्थं च दर्शिता ।

रामसुग्रीवसख्यं च श्रुत्वा प्रीति मुपागता ॥३३

नियत स्समुदाचारो भक्तिर्भर्तरि चोत्तमा ।

यन्न हन्ति दशग्रीवं स महात्मा कृतागसम् ॥३४

निमित्तमात्रं रामस्तु वधे तस्य भविष्यति ।

सा प्रकृत्यैव तन्वङ्गी तद्वियोगा श्च कर्शिता ॥३५

प्रतिपत्पाठशीलस्य विद्येव तनुतां गता ।

एव मास्ते महाभागा सीता शोकपरायणा ॥३६

यदत्र प्रतिकर्तव्यं तत्सर्व मुपपद्यताम् ॥

इति श्रीमत्सुन्दरकाण्डे एकोनषष्टितमस्सर्गः ॥
<MISSING_FIG href="../books_images/U-IMG-170455658215.png"/>

॥ षष्टितमस्सर्गः ॥

तस्य तद्वचनं श्रुत्वा वालिसूनु रभाषत ।

[अह मेकोहि पर्याप्तः सराक्षसगणां पुरीम् ।

तां लंकां तरसा हन्तुं रावणंच महाबलम् ॥

किंपुन स्सहितै र्वीरै र्बलवद्भिः कृतात्मभिः ।

कृतास्त्रैः प्लवगै श्शक्तै र्भवद्भि र्विजयैषिभिः ।

वायुसूनो र्बलेनैव दग्धा लङ्केति न श्श्रुतम् ॥ ]

अयुक्तं तु विना देवी दृष्टवद्भिश्च वानराः ॥१

समीपं गन्तु मस्माभी राघवस्य महात्मनः ।

दृष्टा देवी न चाऽनीता इति तत्र निवेदनम् ॥२

अयुक्त मिवपश्यामि भवद्भिः ख्यातविक्रमैः ।

न हि नः प्लवने कश्चिन्नापि कश्चि त्पराक्रमे ॥३

तुल्य स्सामरदैत्येषु लोकेषु हरिसत्तमाः ।

[ जित्वा लङ्कां सरक्षौघां हत्वा तं रावणं रणे ।

सीता मादाय गच्छाम स्सिद्धार्था हृष्टमानसाः ॥ ]

तेष्वेवं हतवीरेषु राक्षसेषु हनूमता ॥४

कि मन्य दत्त कर्तव्यं गृहीत्वा याम जानकीम् ।

[ रामलक्ष्मणयो र्मध्ये न्यस्याम जनकात्मजाम् ।

किं व्यलीकैस्तु तान्सर्वान्वानरा न्वानरर्षभान् ॥

वयमेव हि गत्वा ता न्हत्वा राक्षसपुंगवान् ।

राघवं द्रष्टु मर्हामःसुग्रीवं सह लक्ष्मणम् ॥]

तमेवं कृतसङ्कल्पं जाम्बवा न्हरिसत्तमः ॥५

उवाच परमप्रीतो वाक्यमर्थव दर्थवित् ।

[ नैषा बुद्धि र्महाबुद्धे यद्ब्रवीषि महाकपे ।

विचेतुं वय माज्ञप्ता दक्षिणां दिशमुत्तमाम् ॥

नानेतुं कपिराजेन नैव रामेण धीमता ।

कथंचि र्निर्जितां सीता मस्माभि र्नाभिरोचयेत् ॥

प्रभवो नृपशार्दूलः कुलं व्यपदिशन्स्वकम् ।

प्रतिज्ञाय स्वयं राजा सीता विजय मग्रतः ॥

सर्वेषां कपिमुख्यानां कथं मिथ्या करिष्यति ।

विफलं कर्म च कृतं भवे त्तुष्टि र्नरस्य च ॥

वृथा च दर्शितं वीर्यं भवे द्वानरपुंगवाः ।

तस्मा द्गच्छामवै सर्वे यत्र राम स्सलक्ष्मणः ॥

सुग्रीवश्च महातेजाः कार्यस्यास्य निवेदने]

नतावदेषा मति रक्षमानो यथा भवा न्पश्यति राजपुत्त्र ।

यथा तु रामस्य मति र्निविष्टा तथा भवान्पश्यतु कार्यसिद्धिम् ॥ ७

इति श्रीमत्सुन्दरकाण्डे षष्टितमस्सर्गः ॥
<MISSING_FIG href="../books_images/U-IMG-170455672416.png"/>

॥ एकषष्टितमस्सर्गः ॥

ततो जाम्बवतो वाक्य मगृह्णन्त वनौकसः ।

अङ्गदप्रमुखा वीरा हनुमां श्च महाकपिः ॥१

प्रीतिमन्तस्तत स्सर्वे वायुपुत्त्र पुरस्सराः ।

महेंद्राद्रिं परित्यज्य पुप्लुवुः प्लवगर्षभाः ॥२

मेरुमंदरसंकाशा मत्ता इव महागजाः ।

छादयंत इवाकाशं महाकाया महाबलाः ॥३

सभाज्यमानं भूतै स्त मात्मवंतं महाबलम् ।

हनुमंत महावेगं वहंत इव दृष्टिभिः ॥४

राघवे चार्थनिर्वृत्तिं कर्तुं च परमं यशः ।

समाधाय समृद्धार्थाः कर्मसिद्धिभि रुन्नताः ॥५

प्रियाख्यानोन्मुखा स्सर्वे सर्वे युद्धाभिनंदिनः ।

सर्वे रामप्रतीकारे निश्चितार्था मनस्विनः ॥६

प्लवमानाःख माप्लुत्य ततस्ते काननौकसः ।

नंदनोपम मासेदु र्वनं द्रुमलतायुतम् ॥७

यत्तन्मधुवनं नाम सुग्रीवस्याभिरक्षितम् ।

अधृष्यं सर्वभूतानां सर्वभूतमनोहरम् ॥८

यद्रक्षति महावीर्य स्सदा दधिमुखः कपिः ।

मातुलः कपिमुख्यस्य सुग्रीवस्य महात्मनः ॥९

ते तद्वन मुपागम्य बभूवुः परमोत्कटाः ।

वानरा वानरेंद्रस्य मनःकांततमं महत् ॥१०

तत स्ते वानरा हृष्टा दृष्ट्वा मधुवनं महत् ।

कुमार मभ्ययाचंत मधूनि मधुपिङ्गलाः ॥११

ततः कुमारस्तान्वृद्धान्जांबवत्प्रमुखान्कपीन् ।

अनुमान्य ददौ तेषां निसर्गं मधुभक्षणे ॥१२

[ ते निसृष्टाः कुमारेण धीमता वालिसूनुना ।

हरय स्समपद्यन्त द्रुमा न्मधुकराकुलान् ॥

भक्षयंत स्सुगन्धीनि मूलानि च फलानि च ।

जग्मुः प्रहर्षं ते सर्वे बभूवु श्च मदोत्कटाः ॥]

तत श्चानुमता स्सर्वे संग्रहृष्टा वनौकसः ।

मुदिताः प्रेरिताश्चापि प्रनृत्यंतोऽभवं स्ततः ॥१३

गायंति केचि त्प्रणमंति केचिन्नृत्यंति केचित्प्रहसंतिकेचित् ।

पतंति केचिद्विधरंति केचित्प्लवंति केचित्प्रलपंतिकेचित् ॥१४

परस्परं केचि दुपाश्रयांते परस्परं केचिदुपाक्रमंते ।

परस्परं केचि दुपब्रुवंति परस्परं केचि दुपारमंते ॥१५

द्रुमाद्दूमं केचिदभिद्रवंते क्षितौ नगाग्रा न्निपतंति केचित् ।

महीतला त्केचि दुदीर्णवेगा महाद्रुमाग्राण्यभिसंपतंति ॥१६

[ धावन्ति केचित्सुपतन्ति केचिन्महाबलावानरयूथमुख्याः ।]

गायंत मन्यः प्रहसन्नुपैतिहसंत मन्यः प्ररुदन्नुपैति ।

रुदंत मन्यः प्रणुदन्नुपैति नुदंत मन्यः प्रणदन्नुपैति ॥१७

समाकुलं तत्कपिसैन्य मासीन्मधुप्रपानोत्कटसत्त्वचेष्टम् ।

न चात्र कश्चि न्न बभूव मत्तो न चात्र कश्चिन्न बभूव तृप्तः ॥ १८

ततो वनं तत्परिभक्ष्यमाणं द्रुमां श्च विध्वंसित पत्त्रपुष्पान् ।

समीक्ष्य कोपा द्दधिवक्रनामा निवारयामास कपिः कपीं स्तान् ॥

सतैः प्रवृद्धैः परिभर्त्स्यमानो वनस्यगोप्ताहरिवीरवृद्धः ।

चकारभूयोमतिमुग्रतेजावनस्यरक्षांप्रति वानरेभ्यः ॥२०

उवाच कांश्चि त्परुषाणि धृष्ट मसक्त मन्यांश्चतलैर्जघान ।

समेत्यकैश्चि त्कलहं चकार तथैव साम्नोपजगाम कांश्चित् ॥२१

सतैर्मदा त्संपरिवार्य वाक्यै र्बलाच्च तेन प्रतिवार्यमाणैः ।

प्रधर्षित स्त्यक्तमयै स्समेत्यप्रकृष्यतेचाप्यनवेक्ष्य दोषम् ॥२२

नखैस्तुदन्तो दशनैर्दशंत स्तलैश्च पादैश्च समापयंतः ।

मदात्कपिं तं कपय स्समग्रा महावनं निर्विषयं च चक्रुः ॥२३

इति श्रीमत्सुन्दरकाण्डे एकषष्ठितमस्सर्गः ॥
<MISSING_FIG href="../books_images/U-IMG-170455390516.png"/>

॥ द्विषष्टितमस्सर्गः ॥

ता नुवाच हरिश्रेष्ठो हनुमा न्वानरर्षभः ।

अव्यग्रमनसो यूयं मधु सेवत वानराः ॥१

अह मावारयिष्यामि युष्माकं परिपंथिनः ।

श्रुत्वा हनुमतो वाक्यं हरीणां प्रवरोंऽगदः ॥२

प्रत्युवाच प्रसन्नात्मा पिबंतु हरयो मधु ।

अवश्यं कृतकार्यस्य वाक्यं हनुमतो मया ॥३

अकार्य मपि कर्तव्यं किमंग पुनरीदृशम् ।

अंगदस्य मुखा च्छ्रुत्वा वचनं वानरर्षभाः ॥४

साधुसाध्विति संहृष्टा वानराः प्रत्यपूजयन् ।

पूजयित्वाऽङ्गदं सर्वे वानरा वानरर्षभम् ॥५

जग्मु र्मधुवनं यत्र नदीवेग इव द्रुमम् ।

ते प्रविष्टा मधुवनं पाला नाक्रम्य वीर्यतः ॥६

अतिसर्गाच्च पटवो दृष्ट्वा श्रुत्वा च मैथिलीम् ।

पपु स्सर्वे मधु तदा रसवत्फल माददुः ॥७

उत्पत्य च ततस्सर्वे वनपालान्समागतान् ।

ताडयंति स्म शतशस्सक्ता न्मधुवने तदा ॥८

मधूनि द्रोणमात्राणि बाहुभिः परिगृह्यते ।

पिबंति सहिता स्सर्वे निघ्नंति स्म तथापरे ॥९

कोच त्पीत्वाऽपविध्यंति मधूनि मधुपिंगलाः ।

मधूच्छिष्टेन केचि च्च जघ्नु रन्योन्य मुस्कटाः ॥१०

अपरे वृक्षमूलेतु शाखां गृह्य व्यवस्थिताः ।

अत्यर्थं च मदग्लानाः पर्णान्यास्तीर्य शेरते ॥११

उन्मत्तभूताः प्लवगा मधुमत्ताश्च हृष्टवत् ।

क्षिपंति च तदान्योन्यं स्खलंति च तथाऽपरे ॥१२

केचि त्क्ष्वेलां प्रकुर्वंति केचि त्कूजंति हृष्टवत् ।

हरयो मधुना मत्ताः केचि त्सुप्ता महीतले ॥१३

कृत्वा कोच द्धसंत्यन्ये कोच त्कुर्वंति चेतरत् ।

कृत्वा केचि द्वदं त्यन्ये केचि द्वुध्यंति चेतरत् ॥१४

येऽप्यत्र मधुपाला स्स्युः प्रेष्या दधिमुखस्य तु ।

तेऽपि तै र्वानरै र्भीमैः प्रतिषिद्धा दिशो गताः ॥१५

जानुभि स्तु प्रकृष्टा श्च देवमार्गं प्रदर्शिताः ।

अब्रुवन्परमोद्विग्ना गत्वा दधिमुखं वचः ॥१६

हनूमता दत्तवरै र्हतं मधुवनं बलात् ।

वयं च जानुभिः कृष्टा देवमार्गं च दर्शिताः ॥१७

ततो दधिमुखः क्रुद्धो वनपस्तत्र वानरः

हतं मधुवनं श्रुत्वा सांत्वयामास तान्हरीन् ॥१८

इहा गच्छतगच्छामो वानरान्बलदर्पितान् ।

बलेन वारयिष्यामो मधुभक्षयतो वयम् ॥१९

श्रुत्वा दधिमुखस्येदं वचनं वानरर्षभाः ।

पुनर्वीरा मधुवनं तेनैव सहसा ययुः ॥२०

मध्ये चैषां दधिमुखः प्रगृह्य तरसा तरुम् ।

समभ्यधाव द्वेगेन तेच सर्वे प्लवंगमाः ॥२१

ते शिलाःपादपांश्चापि पर्वतांश्चापि वानराः ।

गृहीत्वाऽभ्यगमन्क्रुद्धा यत्र ते कपिकुंजराः ॥२२

ते स्वामिवचनं वीरा हृदये ष्ववसज्य तत् ।

त्वरया ह्यभ्यधावंत सालतालशिलायुधाः ॥२३

वृक्षस्थांश्च तलस्थांश्च वानरान्बलदर्पितान् ।

अभ्यक्रामं स्ततो वीराः पालास्तत्र सहस्रशः ॥२४

[ बलान्निवारयन्तश्च आनेदुर्हरयो हरीन् ।

संदष्टोष्ठपुटक्रुद्धा भर्त्सयन्तो मुहुर्मुहुः ॥]

अथ दृष्ट्वा दधिमुखं क्रुद्धं वानरपुंगवाः ।

अभ्यधावंत वेगेन हनुमत्प्रमुखा स्तदा ॥२५

तं सवृक्षं महाबाहु रूपवंतं महाबलम् ।

आर्यकं प्राहर त्तत्र बाहुभ्यां कुपितोऽङ्गदः ॥२६

मदांधश्च नवेदैन मार्यकोऽयं ममेति सः ।

अथैनं निष्पिपेषाशु वेगव द्वसुधातले ॥२७

स भग्नबाहूरुभुजो विह्वल श्शोणितोक्षितः ।

मुमोह सहसा वीरो मुहूर्तं कपिकुञ्जरः ॥२८

स समाश्वास्य सहसा संक्रुद्धो राजमातुलः ।

वानरान्वारयामास दंडेन मधुमोहितान् ॥२९

स कथंचि द्विमुक्तस्तै र्वानरै र्वानिरर्षभः ।

उवाचै कांतमाश्रित्य भृत्यान्स्वान्समुपागतान् ॥३०

एते तिष्ठंतु गच्छामो भर्तानो यत्र वानरः ।

सुग्रीवो विपुलग्रीव स्सह रामेण तिष्ठति ॥३१

सर्वंचै वांगदे दोषं श्रावयिष्यामि पार्थिवे ।

अमर्षी वचनं श्रुत्वा धातयिष्यति वानरान् ॥३२

इष्टं मधुवनं ह्येत त्सुग्रीवस्य महात्मनः ।

पितृपैतामहं दिव्यं देवै रपि दुरासदम् ॥३३

स वानरा निमान्सर्वान्मधुलुब्धान्गतायुषः ।

घातयिष्यति दंडेन सुग्रीव स्ससुहृज्जनान् ॥३४

वध्या ह्येते दुरात्मनो नृपाज्ञा परिभाविनः ।

अमर्षप्रभवो रोष स्सफलो नो भविष्यति ॥३५

एव मुक्त्वा दधिमुखो वनपाला न्महाबलः ।

जगाम सहसोत्पत्य वनपालै स्समन्वितः ॥३६

निमेषांतरमात्रेण सहि प्राप्तो वनालयः ।

सहस्रांशुसुतो धीमान्सुग्रीवो यत्र वानरः ॥३७

रामंच लक्ष्मणं चैव दृष्ट्वा सुग्रीव मेव च ।

समप्रतिष्ठां जगती माकाशा न्निपपातह ॥३८

सन्निपत्य महावीर्य स्सर्वैस्तैः परिवारितः ।

हरिर्दधिमुखः पालैः पालानां परमेश्वरः ॥३९

स दीनवदनो भूत्वा कृत्वा शिरसि चांजलिम् ।

सुग्रीवस्य शुभौ मूर्ध्ना चरणौ प्रत्यपीडयत् ॥४०

इति श्रीमत्सुन्दरकाण्डे द्विषष्टितमस्सर्गः ॥
<MISSING_FIG href="../books_images/U-IMG-170455426216.png"/>

॥त्रिषष्टितमस्सर्गः ॥

ततो मूर्ध्ना निपतितं वानरं वानरर्षभः ।

दृष्ट्वै वोद्विग्रहृदयो वाक्य मेतदुवाचह ॥१

उत्तिष्टोत्तिष्ठ कस्मात्त्वं पादयोः पतितो मम ।

अभयं ते भवे द्वीर सर्व मेवाभिधीयताम् ॥२

[ किं संभ्रमाद्धितं कृत्स्नं ब्रूहि यद्वक्तु मर्हसि ।

कच्चिन्मधुवने स्वस्ति श्रोतु मिच्छामि वानर ॥ ]

स तु विश्वासित स्तेन सुग्रीवेण महात्मना ।

उत्थाय सुमहाप्राज्ञो वाक्यं दधिमुखोऽब्रवीत् ॥३

नैवर्क्षरजसा राज न्नत्वया नापि वालिना ।

वनं निसृष्टपूर्वं हि भक्षितं तच्च वानरैः ॥४

[ न्यवारय महं सर्वान्सहैभि र्वनचारिभिः ।

अचिन्तयित्वा मां हृष्टा भक्षयन्ति पिबन्तिच ॥]

एभिःप्रधर्षिताश्चैव वानरा वनरक्षिभिः ।

मधून्यचिंतयित्वेमान्भक्षयंति पिबंति च ॥५

शिष्टमत्रापविध्यंति भक्षयंति तथापरे ।

निवार्यमाणास्ते सर्वे भ्रुवौ वै दर्शयंति हि ॥६

इमे हि संरब्धतरा स्तथा तै स्संप्रधर्षिताः ।

वारयंतो वना त्तस्मा त्क्रुद्वैर्वानरपुङ्गवैः ॥७

तत स्तैर्बहुभि र्वीरै र्वानरै र्वानरर्षभाः ।

संरक्तनयनैः क्रोधा द्धरयः प्रविचालिताः ॥८

पाणिभि र्निहताः केचि त्केचि ज्जानुभि राहताः ।

प्रकृष्टा श्च यथाकामं देवमार्गं च दर्शिताः ॥९

एवमेते हताश्शूरा स्त्वयि तिष्ठति भर्तरि ।

कृत्स्नं मधुवनंचैव प्रकामं तैः प्रभक्ष्यते ॥१०

एवं विज्ञाप्यमानं तं सुग्रीवं वानरर्षभम् ।

अपृच्छत्तं महाप्राज्ञो लक्ष्मणः परवीरहा ॥११

किमयं वानरो राजन्वनपः प्रत्युपस्थितः ।

कंचार्थ मभिनिर्दिश्य दुःखितो वाक्य मब्रवीत् ॥१२

एव मुक्तस्तु सुग्रीवो लक्ष्मणेन महात्मना ।

लक्ष्मणं प्रत्युवाचेदं वाक्यं वाक्यविशारदः ॥१३

आर्य लक्ष्मण संग्राह वीरो दधिमुखः कपिः ।

अंगदप्रमुखै र्वीरै र्भक्षितं मधुवानरैः ॥१४

विचित्य दक्षिणा माशा मागतैर्हरिपुङ्गवैः ।

नैषा मकृतकृत्याना मीदृश स्स्या दुपक्रमः ॥१५

आगतश्चै प्रमथितं यथा मधुवनं हितैः ।

धर्षितंच वनं कृत्स्न मुपयुक्तं च वानरैः ।

वनं यदभिपन्नास्ते साधितं कर्म वानरैः ॥१६

[ वारयन्तो भृशं प्राप्ताः पाला जानुभि राहताः ।

तथा नगणित श्चायं कपि र्दधिमुखो बली ॥

कपिर्मंम वन स्याय मस्माभि स्स्थापित स्वयम् ॥ ]

दृष्टा देवी न संदेहो न चान्येन हनूमता ॥१७

न ह्यन्य स्साधने हेतुः कर्मणोऽस्य हनूमतः ।

कार्यसिद्धिर्मतिश्चैव तस्मि न्वानरपुंगवे ॥१८

व्यवसायश्च वीर्यंच श्रुतंचापि प्रतिष्ठितम् ।

जांबवान्यत्र नेता स्या दंगदश्च महाबलः ॥१९

हनुमां श्चाप्यधिष्ठाता न तस्य गति रन्यथा ।

अंगदप्रमुखै र्वीरै र्हंतं मधुवनं किल ॥२०

वारयंतश्च सहिता स्तथा जानुभि राहताः ।

एतदर्थ मयं प्राप्तो वक्तुं मधुरवागिह ॥२१

नाम्ना दधिमुखो नाम हरिः प्रख्यातविक्रमः ।

दृष्टा सीता महाबाहो सौमित्रे पश्यतत्त्वतः ॥२२

अभिगम्य तथा सर्वे पिबंति मधु वानराः ।

न चाप्यादृष्ट्वावै देहीं विश्रुताः पुरुषर्षभ ॥२३

वनं दत्तवरं दिव्यं धर्षयेयु र्वनौकसः ।

ततः प्रहृष्टो धर्मात्मा लक्ष्मण स्सह राघवः ॥२४

श्रुत्वा कर्णसुखां वाणीं सुग्रीववदना च्च्युताम् ।

प्राहृष्यत भृशं रामो लक्ष्मणश्च महाबलः ॥२५

श्रुत्वा दधिमुखस्येदं सुग्रीवस्तु प्रहृष्यच ।

वनपालं पुन र्वाक्यं सुग्रीवः प्रत्यभाषत ॥२६

प्रीतोऽस्मि सोऽहं यद्भुक्तं वनं तैः कृतकर्मभिः ।

मर्षितं मर्षणीयं च चेष्टितं कृतकर्मणाम् ॥२७

[ गच्छ शीघ्रं मधुवनं संरक्षस्व त्वमेव हि ।

शीघ्रं प्रेषय सर्वां स्तान्हनुमत्प्रमुखान्कपीन् ॥]

इच्छामि शीघ्रं हनुमत्प्रधानांन्शाखामृगांस्तान्मृगराजदर्पान् ।

द्रष्टुं कृतार्थांन्सहराघवाभ्यां श्रोतुं च सीताधिगमे प्रयत्नम् ॥२८

प्रीतिस्फीताक्षौ संप्रहृष्टौ कुमारौ दृष्ट्वा सिद्धार्थौ वानराणां च राजा ।

अंगैःस्सहृष्टैः कर्मसिद्धिंविदित्वा बाह्वो रासन्नांसोऽतिमात्रं ननंद ॥

॥ इति श्रीमत्सुन्दरकाण्डे त्रिषष्टितमस्सर्गः ॥
<MISSING_FIG href="../books_images/U-IMG-170455454915.png"/>

॥ चतुष्षष्टितमस्सर्गः ॥

सुग्रीवेणैव मुक्तस्तु हृष्टो दधिमुखः कपिः ।

राघवं लक्ष्मणं चैव सुग्रीवं चाभ्यवादयत् ॥१

स प्रणम्य च सुग्रीवं राघवौ च महाबलौ ।

वानरै स्सहितै श्शूरै र्दिवमेवोत्पपात ह ॥२

स यथै वाऽगतः पूर्वं तथैव त्वरितं गतः ।

निपत्य गगनाद्भूमौ तद्वनं प्रविवेश ह ॥३

स प्रविष्टो मधुवनं ददर्श हरियूथपान् ।

विमदा नुत्थितान्सर्वान्मेहमानान्मधूदकम् ॥४

स ता नुपागम द्वीरो बध्वा करपुटांजलिम् ।

उवाच वचनं श्लक्ष्ण मिदं हृष्टव दंगदम् ॥५

सौम्य रोषो न कर्तव्यो यदेभि रभिवारितः ।

अज्ञाना द्रक्षिभिः क्रोधा द्भवंतः प्रतिषेधिताः ॥६

[ श्रान्तो दूरा दनुप्राप्तो भक्षयस्व स्वकं मधु ]

युवराज स्त्व मीशश्च वनस्यास्य महाबलः ।

मौर्ख्या त्पूर्वं कृतो दोषस्तं भवान्क्षंतुमर्हति ॥७

[ यथैव हि पिता तेऽभू त्पूर्वं हरिगणेश्वरः ।

तथा त्वमपि सुग्रीवो नान्यस्तु हरिसत्तम ॥ ]

आख्यातं हि मया गत्वा पितृव्यस्य तवानघ ।

इहोपयातं सर्वेषा मेतेषां वनचारिणाम् ॥८

स त्वदागमनं श्रुत्वा सहैभि र्हरियूथपैः ।

प्रहृष्टो न तु रुष्टोऽसौ वनं श्रुत्वा प्रधर्षितम् ॥९

प्रहृष्टो मां पितृव्यस्ते सुग्रीवो वानरेश्वरः ।

शीघ्रं प्रेषय सर्वां स्तानिति होवाच पार्थिवः ॥१०

श्रुत्वा दधिमुखस्येदं वचनं श्लक्ष्ण मंगदः ।

अब्रवीत्तान्हरिश्रेष्ठो वाक्यं वाक्यविशारदः ॥११

शंके श्रुतोऽयं वृत्तांतो रामेण हरियूथपाः ।

[अयंच हर्षा दाख्याति तेन जानामि हेतुना ]

तत् क्षमं( णं) नेह न स्स्थातुं कृते कार्येपरंतपाः ॥१२

पीत्वा मधु यथाकामं विश्रांता वनचारिणः ।

किं शेषं गमनं तत्र सुग्रीवो यत्र मे गुरुः ॥१३

सर्वे यथा मां वक्ष्यंति समेत्य हरियूथपाः ।

तथाऽस्मि कर्ता कर्तव्ये भवद्भिः परवा नहम् ॥१४

नाज्ञापयितु मीशोऽहं युवराजोऽस्मि यद्यपि ।

अयुक्तं कृतकर्माणो यूयं धर्षयितुं मया ॥१५

ब्रुवत श्चांगदस्यैवं श्रुत्वा वचन मव्ययम् ।

प्रहृष्टमनसो वाक्य मिद मूचु र्वनौकसः ॥१६

एवं वक्ष्यति को राजन्प्रभुस्सन्वानरर्षभ ।

ऐश्वर्यमदमत्तोहि सर्वोऽह मिति मन्यते ॥१७

तव चेदं नु सदृशं वाक्यं नान्यस्य कस्यचित् ।

सन्नतिर्हि तवाख्याति भविष्य च्छुभयोग्यताम् ॥१८

सर्वे वयमपि प्राप्ता स्तत्र गंतुं कृतक्षणाः ।

स यत्र हरिवीराणां सुग्रीवः पति रव्ययः ॥१९

त्वया ह्यनुक्कै र्हरिभि र्नैव शक्यं पदात्पदम् ।

क्वाचि द्गंतुं हरिश्रेष्ठ ब्रूम स्सत्य मिदंतु ते ॥२०

एवं तु वदतां तेषा मंगदः प्रत्युवाच ह ।

बाढं गच्छाम इत्युक्त्वा ख मुत्पेतु र्महाबलाः ॥२१

उत्पतंत मनूत्पेतु स्सर्वे ते हरियूथपाः ।

कृत्वाऽऽकाशं निराकाशं यंत्रोत्क्षिप्ता इवाचलाः ॥२२

[अङ्गदं पुरतः कृत्वा हनूमन्तं च वानरम् ।]

तेऽम्बरं सहसोत्पत्य वेगवंतः प्लवंगमाः ।

विनदंतो महानादं घना वातेरिता यथा ॥२३

अंगदे समनुप्राप्ते सुग्रीवो वानराधिपः ।

उवाच शोकोपहतं रामं कमललोचनम् ॥२४

समाश्वसिहि भद्रं ते दृष्टा देवी नसंशयः ।

नागंतु मिह शक्यं तै रतीते समये हिनः ॥२५

[ अंगदस्य प्रहर्षा च जानामि शुभदर्शन । ]

न मत्सकाश मागच्छे त्कृत्ये हि विनिपातिते ।

युवराजो महाबाहुः प्लवतां प्रवरोऽङ्गदः ॥२६

यद्यप्यकृतकृत्याना मीदृशस्स्या दुपक्रमः ।

भवे त्स दीनवदनो भ्रांतविप्लुतमानसः ॥२७

पितृपैतामहं चैतत्पूर्वकै रभिरक्षितम् ।

न मे मधुवनं हन्या दहृष्टः प्लवगेश्वरः ॥२८

कौसल्या सुप्रजा राम समाश्वसिहि सुव्रत ।

दृष्टा देवी नसंदेहो नधान्येन हनूमता ॥२९

न ह्यन्यः कर्मणो हेतु स्साधनेऽस्यहनूमतः ।

हनुमति हि सिद्धिश्च मतिश्च मतिसत्तम ॥३०

व्यवसायश्च वीर्यंच सूर्ये तेज व ध्रुवम् ।

जांबवा न्यत्र नेता स्या दङ्गदश्च बलेश्वरः ॥३१

हनुमां श्चाप्यधिष्ठाता न तस्य गति रन्यथा ।

माभू श्चिंता समायुक्त स्संप्रत्यीमतविक्रम ॥३२

[ यथा हि दर्पितोदग्राः संगताः काननौकसः ।

नैषा मकृतकार्याणा मीदृश स्स्या दुपक्रमः ॥

वनभङ्गेन जानामि मधूनां भक्षणेन च । ]

ततः किलकिलाशव्दं शुश्रावासन्न मंबरे ।

हनुमत्कर्मदृप्तानां नर्दतां काननौकसाम् ॥३३

किष्किन्धा मुपयातानां सिद्धिं कथयता मिव ।

तत श्श्रुत्वा निनादं तं कपीनां कपिसत्तमः ॥३४

आयतांचितलांगूल स्सोऽभवद्धृष्टमानसः ।

आजग्मुस्तेऽपि हरयो रामदर्शनकांक्षिणः ॥३५

अंगदं पुरतः कृत्वा हनूमंतं च वानरम् ।

तेंऽगदप्रमुखा वीराः प्रहृष्टाश्च मुदान्विताः ॥३६

निपेतु र्हरिराजस्य समीपे राघवस्य च ।

हनुमांश्च महाबाहुः प्रणम्य शिरसा ततः ॥३७

नियता मक्षतां देवीं राघवाय न्यवेदयत् ।

[दृष्टा देवीति हनुमद्वदना दमृतोपमम् ।

आकर्ण्य वचनं रामो हर्ष मापसलक्ष्मणः ॥]

निश्चितार्थ स्तत स्तस्मिन्सुग्रीवः पवनात्मजे ॥३८

लक्ष्मणःप्रीतिमान्प्रीतं बहुमानादवैक्षत ।

प्रीत्या च रममाणोऽथ राघवः परवीरहा ॥३९

बहुमानेन महता हनुमंत मवैक्षत ।

इति श्रीमत्सुन्दरकाण्डे चतुष्षष्टितमस्सर्गः ॥
<MISSING_FIG href="../books_images/U-IMG-170455493516.png"/>

॥ पञ्चषष्टितमस्सर्गः ॥

ततः प्रस्रवणं शैलं ते गत्वा चित्रकाननम् ।

प्रणम्य शिरसा रामं लक्ष्मणं च महाबलम् ॥१

युवराजं पुरस्कृत्य सुग्रीव मभिवाद्य च ।

प्रवृत्ति मथ सीतायाः प्रवक्तु मुपचक्रमुः ॥२

रावणांतःपुरे रोधं राक्षसीभि श्च तर्जनम् ।

रामे समनुरागंच यश्चायं समयः कृतः ॥३

एत दाख्यांत ते सर्वे हरयो रामसन्निधौ ।

वैदेही मक्षतां श्रुत्वा राम स्तूत्तर मब्रवीत् ॥४

क्व सीता वर्तते देवी कथंच मयि वर्तते ।

एतन्मे सर्व माख्यात वैदेहीं प्रति वानराः ॥५

रामस्य गदितं श्रुत्वा हरयो रामसन्निधौ ।

चोदयंति हनूमंतं सीतावृत्तांतकोविदम् ॥६

श्रुत्वातु वचनं तेषां हनुमान्मारुतात्मजः ।

प्रणम्य शिरसा देव्यै सीतायै तां दिशं प्रति ॥७

उवाच वाक्यं वाक्यज्ञ स्सीताया दर्शनं यथा ।

[तं मणिं कांचनं दिव्यं दीप्यमानं स्वतेजसा ।

दत्वा रामाय हनुमां स्ततः प्राञ्जलि रब्रवीत् ॥ ]

समुद्रं लङ्घयित्वाऽहं शतयोजन मायतम् ॥८

अगच्छं जानकीं सीतां मार्गमाणो दिदृक्षया ।

तत्र लंकेति नगरी रावणस्य दुरात्मनः ॥९

दक्षिणस्य समुद्रस्य तीरे वसति दक्षिणे ।

तत्र दृष्टा मया सीता रावणांतःपुरे सती ॥१०

सन्नयस्य त्वयि जीवंती रामा राममनोरथम् ।

दृष्टा मे राक्षसीमध्ये तर्ज्यमामा मुहुर्मुहुः ॥११

राक्षसीभि र्विरूपाभी रक्षिता प्रमदावने ।

दुःख मासाद्यते देवी तथाऽदुःखोचिता सती ॥१२

रावणांतःपुरे रुद्धा राक्षसीभि स्सुरक्षिता ।

एकवेणीधरा दीना त्वयि चिंतापरायणा ॥१३

अधश्शय्या विवर्णांगी पद्मिनीव हिमागमे ।

रावणा द्विनिवृत्तार्था मर्तव्यकृतनिश्चया ॥१४

देवी कथंचि त्काकुत्स्थ त्वन्मना मार्गिता मया ।

इक्ष्वाकुवंशविख्यातिं शनैः कीर्तयताऽनंघ ॥१५

सा मया नरशार्मूल विश्वास मुपपांदिता ।

तत स्संभाषिता देवी सर्वमर्थंच दर्शिता ॥१६

रामसुग्रीवसख्यं च श्रुत्वा प्रीति मुपागता ।

नियत स्समुदाचारो भक्ति श्चास्यास्तथा त्वयि ॥१७

एवं मया महाभागा दृष्टा जनकनंदिनी ।

उग्रेण तपसा युक्ता त्वद्भक्त्या पुरुषर्षभ ॥१८

अभिज्ञानं च मे दत्तं यथा वृत्तं तवांतिके ।

चित्रकूटे महाप्राज्ञ वायसं प्रति राघव ॥१९

विज्ञाप्यश्च नरव्याघ्रो रामो बायुसुत त्वया ।

अखिलेनेह यद्दृष्ट मिति मा माह जानकी ॥२०

अयं चास्मै प्रदातव्यो यत्ना त्सुपरिरक्षितः ।

ब्रुवता वचनान्येवं सुग्रीव स्योपशृण्वतः ॥२१

एष चूडामणि श्श्रीमान्मयासुपरिरक्षितः ।

मनश्शिलाया स्तिलको गण्डपार्श्वे निवेशितः ॥२२

त्वया प्रणष्टे तिलके तं किल स्मर्तु मर्हसि ।

एष निर्यातित श्श्रीमा न्मया ते वारिसंभवः ॥२३

एतं दृष्ट्वा प्रमोदिष्ये व्यसने त्वा मिवानघ ।

जीवितं धारयिष्यामि मासं दशरथात्मज ॥२४

ऊर्ध्वं मासा न्न जीवेयं रक्षसां वश मागता ।

इति मा मब्रवी त्सीता कृशांगी धर्मचारिणी ॥२५

रावणांतःपुरे रुद्धा मृगीवोत्फुल्ललोचना ।

एतदेव मया ख्यातं सर्वं राघव यद्यथा ॥२६

सर्वथा सागरजले संतारः प्रविधीयताम् ।

तौ जाताश्वासौ राजपुत्रौ विदित्वा ताच्चाभिज्ञानं राघवाय प्रदाय ।

देव्या चाऽख्यातं सर्वमेवानुपूर्व्या द्वाचा संपूर्णं वायुपुत्त्र श्शशंस ॥

इति श्रीमत्सुन्दरकाण्डे पञ्चषष्टितमस्सर्गः ॥

॥ षट्षष्टितमस्सर्गः ॥
<MISSING_FIG href="../books_images/U-IMG-170455525616.png"/>

एव मुक्तो हनुमता रामो दशरथात्मजः ।

तं मणि हृदये कृत्वा प्ररुरोद सलक्ष्मणः ॥१

तं तु दृष्ट्वामणिश्रेष्ठं राघव श्शोककर्शितः ।

नेत्राभ्या मश्रुपूर्णाभ्यां सुग्रीव मिद मब्रवीत् ॥२

यथैव धेनु स्त्रवति स्नेहा द्वत्सस्य वत्सला ।

तथा ममापि हृदयं मणिरत्नस्य दर्शनात् ॥३

मणिरत्न मिदं दत्तं वैदेह्या श्श्वशुरेण मे ।

वधूकाले यथाबद्ध मधिकं मूर्ध्नि शोभते ॥४

अयं हि जलसंभूतो मणि स्सज्जनपूजितः ।

यज्ञे परमतुष्टेन दत्तश्शक्रेण धीमता ॥५

इमं दृष्ट्वा मणिश्रेष्ठं यथा तातस्य दर्शनम् ।

अद्या स्म्यवगत स्सौम्य वैदेहस्य तथा विभोः ॥६

अयं हि शोभते तस्याः प्रियाया मूर्ध्नि मे मणिः ।

अस्याद्य दर्शनेनाहं प्राप्तां ता मिव चिंतये ॥७

कि माह सीता वैदेही ब्रूहि सौम्य पुनःपुनः ।

पिपासु मिव तोयेन सिंचंती वाक्यवारिणा ॥८

इतस्तु किं दुःखतरं यदिमं वारिसंभवम् ।

मणिं पश्यामि सौमित्रे वैदेही मागतं विना ॥९

चिरंजीवति वैदेही यदि मासं धरिष्यति ।

क्षणं सौम्य नजीवेयं विना तामसितेक्षणाम् ॥१०

नय मा मपि तं देशं यत्र दृष्टा मम प्रिया ।

न तिष्ठेयं क्षणमपि प्रवृत्ति मुपलभ्य च ॥११

कथं सा मम सुश्रोणी भीरुभीरु स्सती सदा ।

भयावहानां घोराणां मध्ये तिष्ठति रक्षसाम् ॥१२

शारद स्तिमिरोन्मुक्तो नूनं चंद्र इवांबुदैः ।

आवृतं वदनं तस्या न विराजति राक्षसैः ॥१३

किमाह सीता हनुमं स्तत्त्वतः कथ याद्य मे ।

एतेन खलु जीविध्ये भेषजेनातुरो यथा ॥१४

मधुरामधुरालापा किमाह मम भामिनी ।

मद्विहिना वरारोहा हनुमन्कथयस्व मे ॥१५

[ दुःखाद्दुःखतरं प्राप्य कथं जीवति जानकी । ]

इति श्रीमत्सुन्दरकाण्डे षट्षष्टितमस्सर्गः ॥
<MISSING_FIG href="../books_images/U-IMG-170455540716.png"/>

॥ सप्तषष्टितमस्सर्गः ॥

एव मुक्तस्तु हनुमात्राघवेण महात्मना ।

सीताया भाषितं सर्वं न्यवेदयत राघवे ॥१

इद मुक्तवती देवी जानकी पुरुषर्षभ ।

पूर्ववृत्त मभिज्ञानं चित्रकूटे यथातथम् ॥२

सुखसुप्ता त्वया सार्थं जानकी पूर्व मुत्थिता ।

वायस स्सहसोत्पत्य विरराद स्तनांतरे ॥३

पर्यायेण च सुप्त स्त्वं देव्यं के भरताग्रज ।

पुनश्च किल पक्षी स देव्या जनयति व्यथाम् ॥४

पुनःपुन रुपागम्य विददार भृशं किल ।

तत स्त्वं बोधित स्तस्या श्शोणितेन समुक्षितः ॥५

वायसेनच तेनैव सततं बाध्यमानया ।

बोधितः किलदेव्या त्वं सुखसुप्तः परंतप ॥६

तां तु दृष्ट्वा महाबाहो दारितां च स्तनांतरे ।

आशीविषइव क्रुद्धो निश्वसन्नभ्यभाषथाः ॥७

नखाग्रैःकेन ते भीरु दारितंतु स्तनांतरम् ।

कः क्रीडति सरोषेण पंचवक्रेण भोगिना ॥८

निरीक्षमाण स्सहसा वायसं समवैक्षथाः ।

नखै स्सरुधिरै स्तीक्ष्णै स्ता मेवाभिमुखं स्थितम् ॥९

सुतः किल स शक्रस्य वायसः पततां वरः ।

धरांतरचर श्शीघ्र पवनस्य गतौ समः ॥१०

तत स्तस्मिन्महाबाहो कोपसंवर्तितेक्षणः ।

वायसे त्वं कृथाः क्रूरां मतिं मतिमतां वर ॥११

स दर्भं संस्तराद्गृह्य ब्रह्मास्त्रेण ह्ययोजयः ।

प्रदीप्त इव कालाग्नि र्जज्वालाभिमुखः खगम् ॥१२

क्षिप्तवां स्त्वं प्रदीप्तं हि दर्भं तं वायसं प्रति ।

ततस्तु वायसं दीप्त स्सदर्भोऽनुजगाम ह ॥१३

स पित्राच परित्यक्त स्सुरैश्च समहर्षिभिः ।

त्रीन्लोकान्संपरिक्रम्य त्रातारं नाधिगच्छति ॥१४

पुनरेवागतस्त्रस्त स्त्वत्सकाश मरिंदम ।

स तं निपतितं भूमौ शरण्य श्शरणागतम् ॥१५

वधार्हमपि काकुत्स्थ कृपया पर्यपालयः ।

मोघ मस्त्रं न शक्यं तु कर्तु मित्येव राघव ॥१६

भवां स्तस्याक्षि काकस्य हिनस्ति स्म स दक्षिणम् ।

राम त्वां स नमस्कृत्य राज्ञे दशरथाय च ॥१७

विसृष्टस्तु तदा काकः प्रतिपेदे स्वमालयम् ।

एव मस्त्रविदां श्रेष्ठ स्सत्त्ववान्शीलवानपि ॥१८

किमर्थ मस्त्रं रक्षस्सु न योजयति राघवः ।

न नागा नापि गंधर्वा नासुरा न मरुद्गणाः ॥१९

न च सर्वे रणे शक्ता रामं प्रति समासितुम् ।

तस्य वीर्यवतः कश्चि द्यद्यस्ति मयि संभ्रमः ॥२०

क्षिप्रं सुनिशितै र्बाणै र्हन्यतां युधि रावणः ।

भ्रातु रादेश माज्ञाय लक्ष्मणो वा परंतपः ॥२१

स किमर्थं नरवरो न मां रक्षति राघवः ।

शक्तौ तौ पुरुषव्याघ्रौ वाय्वग्निसमतेजसौ ॥२२

सुराणा मपि दुर्धर्षौ किमर्थं मामुपेक्षतः ।

ममैव दुष्कृतं किंचि न्महदस्ति न संशयः ॥२३

समर्थौ सहितौ यन्मां नावेक्षेते परंतपौ ।

वैदेह्या वचनं श्रुत्वा करुणं साश्रु भाषितम् ॥२४

पुन रप्यह मार्यां ता मिदं वचन मब्रुवम् ।

त्वच्छोकविमुखो रामो देवि सत्येन ते शपे ॥२५

रामे दुःखाभिभूतेतु लक्ष्मणः परितप्यते ।

कथंचि द्भवती दृष्टा न कालःपरिशोचितुम् ॥२६

अस्मि न्मुहूर्ते दुःखाना मंतं द्रक्ष्यसि भामिनि ।

ता वुभौ नरशार्दूलो राजपुत्त्रा वनिंदितौ ॥२७

त्वद्दर्शनकृतोत्साहौ लंकां भस्मीकरिष्यतः ।

हत्वा च समरे रौद्रं रावणं सहबान्धवम् ॥२८

राघव स्त्वां वरारोहे स्वां पुरीं नयते ध्रुवम् ।

यत्तु रामो विजानीया दभिज्ञान मनिंदिते ॥२९

प्रीतिसंजननं तस्य प्रदातुं त्व मिहार्हसि ।

साऽभिवीक्ष्य दिश स्सर्वा वेण्युद्गथित मुत्तमम् ॥३०

मुक्त्वा वस्त्राद्ददौ मह्यं मणि मेतं महाबल ।

प्रतिगृह्य मणिं दिव्यं तव हेतो रघूद्वह ॥३१

शिरसा तां प्रणम्यार्या मह मागमने त्वरे ।

गमने च कृतोत्साह मवेक्ष्य वरवर्णिनी ॥३२

विवर्धमानंच हि मा मुवाच जनकात्मजा ।

अश्रूपूर्णमुखी दीना बाष्पसंदिग्धभाषिणी ॥३३

ममोत्पतनसंभ्रांता शोकवेगसमाहता ।

[ मा मुवाच तत स्सीता सभाग्यो महाकपे । ]

यदद्रक्ष्यसि महाबाहुं रामं कमललोचनम् ॥

लक्ष्मणंच महाबाहुं देवरं मे यशस्विनम् ।

सीतयाप्येव मुक्तोऽह मब्रुवं मैथिलीं तथा ॥

पृष्ठ मारोह मे देवि क्षिप्रं जनकनन्दिनि ।

यावत्ते दर्शयाम्यद्य ससुग्रीवं सलक्ष्मणम् ॥

राघवंच महाभागे भर्तार मसितेक्षणे ।

साऽब्रवी न्मां ततो देवी नैषधर्मो महाकपे ॥

यत्ते पृष्ठं सिषेवेऽहं स्ववशा हरिपुंगवम् ।

पुराच यदहं वीर स्पृष्टा गात्रेषु रक्षसा ॥

तत्राहं किं करिष्यामि काले नोपनिपीडिता ।

गच्छत्वं कपिशार्दूल यत्र तौ नृपते स्सुतौ ॥

इत्येवं सा समाभाष्य भूय स्संदेष्टु मास्थिता ।

हनुमन्सिंहसंकाशा वुभौ तौ रामलक्ष्मणौ ॥३४

सुग्रीवंच सहामात्यं सर्वान्ब्रुया ह्यनामयम् ।

यथा च स महाबाहु र्मां तारयति राघवः ॥३५

अस्माद्दुःखांबुसंरोधात्त्वं समाधातु मर्हसि ।

इमंच तीव्रं ममशोकवेगं रक्षोभि रेभिः परिभर्त्सनंच ।

ब्रूयास्तु रामस्यगत स्समीपं शिवश्चतेऽध्वास्तुहरिप्रवीर ॥

एत त्तवार्या नृपराजसिंह सीता वचः प्राह विषाद पूर्वम् ।

एतच्च बुद्ध्वा गदितं मया त्वं श्रद्धत्स्व सीतां कुशलां समग्रम् ॥ ३८

इति श्रीमत्सुन्दरकाण्डे सप्तषष्टितमस्सर्गः ॥
<MISSING_FIG href="../books_images/U-IMG-170455579316.png"/>

॥ अष्टषष्टितमस्सर्गः ॥

अथाह मुत्तरं देव्या पुनरुक्त स्ससंभ्रमः ।

तव स्नेहा न्नरव्याघ्र सौहार्दा दनुमान्यवै ॥१

एवं बहुविधं वाच्यो रामो दाशरथिस्त्वया ।

यथा मा माप्नुया च्छघ्रिं हत्वा रावणमाहवे ॥२

यदि वा मन्यसे वीर वसैकाह मरिन्दम ।

कस्मिंश्चि त्संवृते देशे विश्रांत श्श्वो गमिष्यसि ॥३

मम चाप्यल्पभाग्याया स्सान्निध्या त्तव वीर्यवन् ।

अस्य शोकविपाकस्य मुहूर्तंस्या द्विमोक्षणम् ॥४

गते हि त्वयि विक्रांते पुनरागमनाय वै ।

प्राणानामपि संदेहो मम स्या न्नात्र संशयः ॥५

तवादर्शनज श्शोको भूयो मां परितापयेत् ।

दुःखाद्दुःखपराभूतां दुर्गतां दुःखभागिनीम् ॥६

अयं च वीरसंदेह स्तिष्ठतीव ममाग्रतः ।

सुमहां स्त्वत्सहायेषु हर्यृक्षेषु हरीश्वर ॥७

कथं नु खलु दुष्पारं तरिष्यंति महोदधिम् ।

तानि हर्यृक्षसैन्यानि तौ वानरवरात्मजौ ॥८

त्रयाणा मेव भूतानां सागरस्यास्य लंघने ।

शक्ति स्स्या द्वैनतेयस्य तव वा मारुतस्य वा ॥९

तदस्मिन्कार्यनिर्योगे वीरैवं दुरतिक्रमे ।

किं पश्यसि समाधानं ब्रूहि कार्यविदां वर ॥१०

काम मस्य त्वमे वैकः कार्यस्य परिसाधने ।

पर्याप्तः परवीरघ्न यशस्य स्ते बलोदयः ॥११

बलै स्समग्रै र्यदि मां हत्वा रावण माहवे ।

विजयी स्वां पुरीं रामो नयेत्तत्स्याद्यशस्करम् ॥१२

यथाऽहं तस्य वीरस्य वना दुपधिना हृता ।

रक्षसा तद्भया देव तथा नार्हति राघवः ॥१३

बलै स्तु संकुलां कृत्वा लंकां परबलार्दनः ।

मां नये द्यदि काकुत्स्थ स्तत्तस्य सदृशं भवेत् ॥१४

तद्यथा तस्य विक्रांत मनुरूपं महात्मनः ।

भवत्याहवशूरस्य तथा त्व मुपपादय ॥१५

तदर्थोपहितं वाक्यं प्रश्रितं हेतुसंहितम् ।

निशम्याहं तत श्शेषं वाक्य मुत्तर मब्रुवम् ॥१६

देवि हर्यृक्षसैन्याना मीश्वरः प्लवतां वरः ।

सुग्रीव स्सत्त्वसंपन्न स्तवार्थे कृतनिश्चयः ॥१७

तस्य विक्रमसंपन्ना स्सत्त्ववंतो महाबलाः ।

मनस्संकल्पसंपाता निदेशे हरय स्स्थिताः ॥१८

येषां नोपरि नाधस्ता न्नतिर्य क्सज्जते गतिः ।

नं च कर्मसु सीदंति महत्स्वमिततेजसः ॥१९

असकृत्तै र्महाभागै र्वानरै र्बलदर्पितैः ।

प्रदक्षिणीकृता भूमि र्वायुमार्गानुसारिभिः ॥२०

मद्विशिष्टाश्च तुल्याश्च संति तत्र वनौकसः ।

मत्तः प्रत्यवरः कश्चि न्नास्ति सुग्रीवसन्निधौ ॥२१

अहं ताव दिह प्राप्तः किं पुनस्ते महाबलाः ।

नहि प्रकृष्टाः प्रेष्यंते प्रेष्यन्ते हीतरे जनाः ॥२२

तदलं परितापेन देवि मन्यु र्व्यपैतु ते ।

एकोत्पातेन वै लंका मेष्यति हरियूथपाः ॥२३

मम पृष्ठगतौ तौ च चंद्रसूर्या विवोदितौ ।

त्वत्सकाशं महाभागे नृसिंहा वागमिष्यतः ॥२४

अरिघ्नं सिंहसंकाशं क्षिप्रं द्रक्ष्यसि राघवम् ।

लक्ष्मणं च धनुष्पाणि लंकाद्वार मुपस्थितम् ॥२५

नखदंष्ट्रायुधान्वीरानसिंहशार्दूलविक्रमान् ।

वानरान्वारणेंद्राभान्क्षिप्रं द्रक्ष्यसि संगतान् ॥२६

शैलांबुदनिकाशानां लंकामलयसानुषु ।

नर्दतां कपिमुख्याना मचिरा च्छ्रोष्यसि स्वनम् ॥२७

निवृत्तवनवासं च त्वया सार्ध मरिंदमम् ।

अभिषिक्त मयोध्यायां क्षिप्रं द्रक्ष्यसि राघवम् ॥२८

ततोमयावाग्भि रदीनभाषिणीशिवाभि रिष्टाभि रभिप्रसादिता ।

जगाम शांतिं मम मैथिलात्मजातवापिशोकेन सदाभिपीडिता ॥ २९

इत्यार्षे श्रीमद्रामायणे आदिकाव्ये सुन्दरकाण्डे अष्टषष्टितमस्सर्गः ।
समाप्तश्चायं सुन्दरकाण्डः ॥
श्रीरामार्पणमस्तु ॥
<MISSING_FIG href="../books_images/U-IMG-170421580016.png"/>

]