श्रीमद्वाल्मीकिरामायणम् (किष्किन्धाकाण्डम्)

[[श्रीमद्वाल्मीकिरामायणम् (किष्किन्धाकाण्डम्) Source: EB]]

[

[TABLE]

॥ श्रीः ॥
॥ विषयानुक्रमणिका ॥

सर्गः विषयः
1 पम्पादर्शिनो रामस्य विप्रलापः
2 सुग्रीवेण रामभावज्ञानाय हनुमत्प्रेषणम्
3 हनुमता श्रीरामलक्ष्मणावुपेत्य सुग्रीववृत्तान्तनिवेदनम्
4 श्रीरामलक्ष्मणयोः सुग्रीवसमीपगमनम्
5 श्रीरामसुग्रीवसख्यम्
6 सीताऽऽभरणदर्शनेन श्रीरामस्य परिदेवनम्
7 सुग्रीवेण श्रीरामसमाश्वासनम्
8 वालिवधप्रतिज्ञा

त्रयोदशेऽह्नि गीताः श्लोकाः

9 वैरकारणकथनम्
10 सुग्रीवस्य राज्यान्निर्वासनम्
11 वालिपराक्रमवर्णनम्
12 सुग्रीवप्रत्यायनम्
13 सप्तजनाश्रमदर्शनम्
14 युद्धाय वाल्याह्वानम्
15 तारोपदेशः
16 वालिवधः
17 वालिना रामगर्हणम्
सर्गः विषयः
18. वालिवधसमर्थनम्
19. रणाङ्गणे तारागमनम्
20. ताराविलापः
21. हनुमता तारासमाश्वासनम्
22. वालिनः प्राणवियोगः
23. पुनस्ताराविलापः
24. श्रीरामेण तारासमाश्वासनम्
25. वालिसंस्कारः
26. सुग्रीवाङ्गदयो राज्याभिषेकः
27. प्रस्रवणगुहायां निवासः
28. प्रावृड्वर्णनम्
29. हनुमता सुग्रीवप्रतिबोधनम्

चतुर्दशेऽह्नि गीताः श्लोकाः

30. शरद्वर्णनम्
31. अङ्गदेन लक्ष्मणागमनकथनम्
32. हनुमता लक्ष्मणप्रसादनचोदना
33. तारया लक्ष्मण सान्त्वनम्
34. सुग्रीवतर्जनम्
35. तारया पुनर्लक्ष्मणसान्त्वनम्
36. सुग्रीवेण लक्ष्मणप्रसादनम्
37. वानरसेनागमनम्
38. सुग्रीवस्य रामसन्निधौ गमनम्
39. वानरसेनासङ्ख्यानिवेदनम्
सर्गः विषयः
40. प्राच्यां विनतप्रेषणम्
41. दक्षिणस्यां हनुमत्प्रेषणम्
42. प्रतीच्यां सुषेणप्रेषणम्
43. उदीच्यां शतबलिप्रेषणम्
44. हनुमद्धस्तेऽङ्गुलीयकदानम्
45. सीतान्वेषणाय वानरसेनाप्रस्थानम्
46. भूवलयविज्ञानकारणकथनम्
47. पूर्वोत्तरपश्चिमदिग्भ्यो वानरसेनाप्रत्यागमनम्
48. विन्ध्यगुहासु सीतान्वेषणम्
49. अङ्कदाज्ञया रजतपर्वतादिष्वन्वेषणम्
50. ऋक्षबिलप्रवेशः स्वयंप्रभादर्शनं च

पञ्चदशेऽह्नि गीताः श्लोकाः

51. स्वयंप्रभाकृतमातिथ्यम्
52. बिलप्रवेशकारणकथनम्
53. प्रायोपवेशनिर्धारणम्
54. हनुमताऽङ्गदभीषणम्
55. वानराणां प्रायोपवेशः
56. अङ्गदसंपातिनोः संवादः
57. निखिलरामवृत्तान्तकथनम्
58. लङ्कायां सीतावस्थानप्रदर्शनम्
59. सुपार्श्ववचनानुवादः
60. संपातिना खस्य वृत्तान्तकथनम्
सर्गः विषयः
61. स्वपक्षदाहकारणकथनम्
62. निशाकरेण पक्षप्ररोहावधिनिरूपणम्
63. संपातिपक्षप्ररोहः वानरप्रस्थानं च
64. समुद्रलङ्घनालोचनम्
65. स्वस्वशक्त्याविष्करणम्
66. समुद्रतरणे जाम्बवता हनुमत्प्रेरणम्
67. समुद्रतरणाय हनुमता महेन्द्रशिखरारोहणम्

षोडशेऽह्नि किष्किन्धाकाण्डे गीताः श्लोकाः460/2538

॥ॐ॥

॥ अथ स्मार्तानां श्रीरामायणपठनोपक्रमेऽनुसन्धेयाः श्लोकाः ॥

शुक्लाम्बरधरं विष्णुं शशिवर्णं चतुर्भुजम्।
प्रसन्नवदनं ध्यायेत्सर्वविघ्नोपशान्तये ॥ १ ॥

वागीशाद्याः सुमनसः सर्वार्थानामुपक्रमे।
यं नत्वा कृतकृत्याः स्युस्तं नमामि गजाननम् ॥ २॥

दोर्भिर्युक्ता चतुर्भिः स्फटिकमणिमयीमक्षमालां दधाना
हस्तेनैकेन पद्मं सितमपि च शुकं पुस्तकं चापरेण।
भासा कुन्देन्दुशङ्खस्फटिकमणिनिभा भासमानाऽसमाना
सा मे वाग्देवतेयं निवसतु बदने सर्वदा सुप्रसन्ना ॥३॥

कूजन्तं राम रामेति मधुरं मधुराक्षरम्।
आरुह्य कविताशाखां वन्दे वाल्मीकिकोकिलम् ॥ ४ ॥

वाल्मीकेर्मुनिसिंहस्य कवितावनचारिणः।
शृण्वन् रामकथानादं को न याति परां गतिम् ॥ ५॥

यः पिबन् सततं रामचरितामृतसागरम्।
आतृप्तस्तं मुनि वन्दे प्राचेतसमकल्मषम्॥६॥

गोष्पदीकृतवाराशिं मशकीकृतराक्षसम्।
रामायणमहामालारत्नं वन्देऽनिलात्मजम्॥७॥

अञ्जनानन्दनं वीरं जानकीशोकनाशनम्।
कपीशमक्षहन्तारं वन्दे लङ्काभयङ्करम् ॥८॥

उल्लङ्घन्य सिन्धोः सलिलं सलीलं
यः शोकवह्निं जनकात्मजायाः।
आदाय तेनैव ददाह लङ्कां
नमामि तं प्राञ्जलिराञ्जनेयम् ॥९॥

आञ्जनेयमतिपाटलाननं काञ्चनाद्रिकमनीयविग्रहम्।
पारिजाततरुमूलवासिनं भावयामि पवमाननन्दनम् ॥१०॥

यत्र यत्र रघुनाथकीर्तनं तत्र तत्र कृतमस्तकाञ्जलिम्।
बाष्पवारिपरिपूर्णलोचनं मारुतिं नमत राक्षसान्तकम् ॥११॥

मनोजवं मारुततुल्यवेगं जितेन्द्रियं बुद्धिमतां वरिष्ठम्।
वातात्मजं वानरयूथमुख्यं श्रीरामदूतं शिरसा नमामि ॥१२॥

यः कर्णाञ्जलिसंपुटैरहरहः सम्यक् पिबत्यादरात्
वाल्मीकेवेदनारविन्दगलितं रामायणाख्यं मधु।
जन्मव्याधिजराविपत्तिमरणैरत्यन्तसोपद्रवं
संसारं स विहाय गच्छति पुमान्विष्णोः पदं शाश्वतम् ॥१३॥

तदुपगतसमाससन्धियोगं सममधुरोपनतार्थवाक्यबद्धम्।
रघुवरचरितं मुनिप्रणीतं दशशिरसश्चवधं निशामयध्वम् ॥१४॥

वाल्मीकिगिरिसंभूता रामसागरगामिनी।
पुनातु भुवनं पुण्या रामायणमहानदी॥१५॥

श्लोकसारजलाकीर्णेसर्गकल्लोलसङ्कुलम्।
काण्डग्राहमद्दामीनं वन्दे रामायणार्णवम्॥१६॥

वेदवेद्ये परे पुंसि जाते दशरथात्मजे।
वेदः प्राचेतसादासीत्साक्षाद्रामायणात्मना॥१७॥

वैदेहीसहितं सुरद्रुपतले हैमे महामण्डपे
मध्ये पुष्पकमासने मणिमये वीरासने सुस्थितम्।
अग्रे वाचयति प्रभञ्जनसुते तत्त्वंमुनिभ्यः परं
व्याख्यान्तं भरतादिभिः परिवृतं रामं भजे श्यामलम् ॥

वामे भूमिसुता पुरश्च हनुमान् पश्चात्सुमित्रासुतः
शत्रुघ्नो भरतश्च पार्श्वदलयोर्वाय्वादिकोणेषु च।
सुग्रीवश्च विभीषणश्च युवराट् तारासुतो जाम्बवान्
मध्ये नीलसरोजकोमलरुचिं रामं भजे श्यामलम् ॥

नमोऽस्तु रामाय सलक्ष्मणाय देव्यै च तस्यै जनकात्मजायै।
नमोऽस्तु रुद्रेन्द्रयमानिलेभ्यो नमोऽस्तु चन्द्रार्कमरुद्गणेभ्यः

<MISSING_FIG href="../books_images/U-IMG-1707811524Screenshot2024-02-13121118.png"/>

॥ पारायणसमापनसमये अनुसन्धेयश्लोकक्रमः ॥

स्वस्ति प्रजाभ्यः परिपालयन्तां
न्याय्येन मार्गेण महीं महीशाः।
गोब्राह्मणेभ्यः शुभमस्तु नित्यं
लोकाः समस्ताः सुखिनो भवन्तु ॥१॥

काले वर्षतु पर्जन्यः पृथिवी सस्यशालिनी।
देशोऽयं क्षोभरहितो ब्राह्मणास्सन्तु निर्भयाः ॥२॥

अपुत्राः पुत्रिणः सन्तु पुत्रिणः सन्तु पौत्रिणः।
अधनाः सधनाः सन्तु जीवन्तु शरदां शतम् ॥३॥

चरितं रघुनाथस्य शतकोटिप्रविस्तरम्।
एकैकमक्षरं प्रोक्तं महापातकनाशनम्॥४॥

शृण्वन् रामायणं भक्तत्यायः पादं पदमेववा।
स याति ब्रह्मणः स्थानं ब्रह्मणा पूज्यते सदा ॥५॥

रामाय रामभद्राय रामचन्द्राय वेधसे।
रघुनाथाय नाथाय सीतायाः पतये नमः ॥६॥

यन्मङ्गलं सहस्राक्षे सर्वदेवनमस्कृते।
वृत्रनाशे समभवत्तत्ते भवतु मङ्गलम्॥७॥

यन्मङ्गलं सुपर्णस्य विनताऽकल्पयत्पुरा।
अमृतं प्रार्थयानस्य तत्ते भवतु मङ्गलम्॥८॥

अमृतोत्पादने दैत्यान् घ्नतो वज्रधरस्य यत्।
अदितिर्मङ्गलं प्रादात्तत्ते भवतु मङ्गलम्॥९॥

त्रीन्विक्रमान् प्रक्रमतो विष्णोरमिततेजसः।
यदासीन्मङ्गलं राम तत्ते भवतु मङ्गलम्॥१०॥

ऋतवः सागरा द्वीपा वेदा लोका दिशश्च ते।
मङ्गलानि महाबाहो दिशन्तु तव सर्वदा ॥११॥

कायेन वाचा मनसेन्द्रियैर्वा
बुध्याऽऽत्मना वा प्रकृतेः स्वभावात्।
करोमि यद्यत्सकलं परस्मै
नारायणायेति समर्पयामि॥१२॥

<MISSING_FIG href="../books_images/U-IMG-1707812758Screenshot2024-02-13121118.png"/>

॥श्री वैष्णवानां श्रीरामायणपठनोपक्रमेऽनुसन्धेयाः श्लोकाः॥

कूजन्तं राम रामेति मधुरं मधुराक्षरम्।
आरुह्य कविताशाखां वन्दे वाल्मीकिकोकिलम् ॥ १ ॥

वाल्मीकेर्मुनिसिंहस्य कवितावनचारिणः।
शृण्वन् रामकथानादं को न याति परां गतिम् ॥ २ ॥

यः पिबन् सततं रामचरितामृतसागरम्।
अतृप्तस्तं मुनिं वन्दे प्राचेतसमकल्मषम्॥३॥

गोष्पदीकृतवाराशिं मशकीकृतराक्षसम्।
रामायणमहामालारत्नं वन्देऽनिलात्मजम्॥४॥

अञ्जनानन्दनं वीरं जानकीशोकनाशनम्।
कपीशमक्षहन्तारं वन्दे लङ्काभयङ्करम्॥५॥

मनोजवं मारुततुल्यवेगं जितेन्द्रियं बुद्धिमतां वरिष्ठम्।
वातात्मजं वानरयूथमुख्यं श्रीरामदूतं शिरसा नमामि ॥६॥

उल्लङ्घयसिन्धोः सलिलं सलीलं
यः शोकवह्निं जनकात्मजायाः।
आदाय तेनैव ददाह लङ्कां
नमामि तं प्राञ्जलिराञ्जनेयम् ॥ ७॥

आञ्जनेयमतिपाटलाननं काञ्जनाद्रिकमनीयविग्रहम्।
पारिजाततरुमूलवासिनं भावयामि पवमाननन्दनम् ॥८॥

यत्र यत्र रघुनाथकीर्तनं तत्र तत्र कृतमस्तकाञ्जलिम्।
बाष्पवारिपरिपूर्णलोचनं मारुतिं नमत राक्षसान्तकम् ॥९॥

वेदवेद्ये परे पुंसि जाते दशरथात्मजे।
वेदः प्राचेतसादासीत्साक्षाद्रामायणात्मना ॥१०॥

तदुपगतसमाससन्धियोगं सममधुरोपनतार्थवाक्यबद्धम्।
रघुवरचरितं मुनिप्रणीतं दशशिरसश्च वधं निशामयध्वम् ॥११॥

श्रीराघवं दशरथात्मजमप्रमेयं
सीतापतिं रघुकुलान्वयरत्नदीपम्।
आजानुबाहुमरविन्ददलायताक्षं
रामं निशाचरविनाशकरं नमामि ॥१२॥

वैदेहीसहितं सुरद्रुमतले हैमे महामण्डपे
मध्येपुष्पकमासने मणिमये वीरासने सुस्थितम्।
अग्रे वाचयति प्रभञ्जनसुते तत्त्वं मुनिभ्यः परं
व्याख्यान्तं भरतादिभिः परिवृतं रामं भजे श्यामलम् ॥१३॥

<MISSING_FIG href="../books_images/U-IMG-1707813476Screenshot2024-02-13121118.png"/>

॥ पारायणसमापनक्रमः ॥

एवमेतत्पुरावृत्तपाख्यानं भद्रमस्तु वः।
प्रव्याहरत विस्रब्धं बलं विष्णोः प्रवर्धताम्॥१॥

लाभस्तेषां जयस्तेषां कुतस्तेषां पराभवः।
येषामिन्दीवरश्थामो हृदये सुप्रतिष्ठितः॥२॥

काले वर्षतु पर्जन्यः पृथिवी सस्यशालिनी।
देशोऽयं क्षोभरहितो ब्राह्मणास्सन्तु निर्भयाः॥३॥

कावेरी वर्धतां काले काले वर्षतु वासवः।
श्रीरङ्गनाथोजयतु श्रीरङ्गश्रीश्च वर्धताम्॥४॥

स्वस्ति प्रजाभ्यः परिपालयन्तां
न्याय्येन मार्गेण महीं महीशाः।
गोब्राह्मणेभ्यः शुभमस्तु नित्यं
लोकाः समस्ताः सुखिनो भवन्तु ॥ ५ ॥

मङ्गलं कोसलेन्द्राय महनीयगुणाब्धये।
चक्रवर्तितनुजाय सार्वभौमाय मङ्गलम्॥६॥

वेदवेदान्तवेद्याय मेघश्यामलमूर्तये।
पुंसां मोहनरूपाय पुण्यश्लोकाय मङ्गलम्॥७॥

विश्वामित्रान्तरङ्गाय मिथिलानगरीपतेः।
भाग्यानां परिपाकाय भव्यरूपाय मङ्गलम्॥८॥

पितृभक्ताय सततं भ्रातृभिः सह सीतया।
नन्दिताखिललोकाय रामभद्राय मङ्गलम्॥९॥

त्यक्तसाकेतवासाय चित्रकूटविहारिणे।
सेव्याय सर्वयमिनां धीरोदाराय मङ्गलम् ॥१०॥

सौमित्रिणा च जानकयाचापबाणासिधारिणे।
संसेव्याय सदा भक्त्या स्वामिने मम मङ्गलम् ॥११॥

दण्डकारण्यवासाय खण्डितामरशत्रवे।
गृध्रराजाय भक्ताय मुक्तिदायास्तु मङ्गलम् ॥१२॥

सादरं शबरीदत्तफलमूलाभिलाषिणे।
सौलभ्यपरिपूर्णाय सत्त्वोद्रिक्ताय मङ्गलम्॥१३॥

हनुमत्समेताय हरिशाभीष्टदायिने।
वालिप्रमथनायास्तु महाधीराय मङ्गलम्॥१४॥

श्रीमते रघुवीराय सेतुलङ्घितसिन्धवे।
जितराक्षसराजाय रणधीराय मङ्गलम्॥१५॥

आसाद्य नगरीं दिव्यामभिषिक्ताय सीतया।
राजाधिराजराजाय रामभद्राय मङ्गलम्॥१६॥

मङ्गलाशासनपरैर्मदाचार्यपुरोगमैः।
सर्वैश्च पूर्वैराचार्यैः सत्कृतायास्तु मङ्गलम्॥१७॥

<MISSING_FIG href="../books_images/U-IMG-1707814653Screenshot2024-02-13142116.png"/>

॥ अथ माध्वानां रामायणपठनोपक्रमेऽनुसन्धेयाः श्लोकाः ॥

शुक्लांबरधरं विष्णुं शशिवर्णं चतुर्भुजम्।
प्रसन्नवदनं ध्यायेत्सर्वविघ्नोपशान्तये॥१॥

लक्ष्मीनारायणं वन्दे तद्भक्तप्रवरो हि यः।
श्रीमदानन्दतीर्थाख्यो गुरुस्तं च नमाम्यहम्॥२॥

वेदे रामायणे चैव पुराणे भारते तथा।
आदावन्ते च मध्ये च विष्णुः सर्वत्र गीयते॥३॥

सर्वविघ्नप्रशमनं सर्वसिद्धिकरं परम्।
सर्वजीवप्रणेतारं वन्दे विजयदं हरिम्॥४॥

सर्वाभीष्टप्रदं रामं सर्वारिष्टनिवारकम्।
जानकीजानिमनिशं वन्दे मद्गुरुवंन्दितम्॥५॥

अभ्रमं भङ्गरहितमजडं विमलं सदा।
आनन्दतीर्थमतुलं भजे तापत्रयापहम्॥६॥

भवति यदनुभावादेडमूकोऽपि वाग्मी
जडमतिरपि जन्तुर्जायते प्राज्ञमौलिः।
सकलवचनचेतोदेवता भारती सा
मम वचसि विधत्तां सन्निधिं मानसे च ॥७॥

मिथ्यासिद्धान्तदुर्ध्वान्तविध्वंसनविचक्षणः।
जयतीर्थाख्यतरणिर्भासतां नो हृदम्बरे ॥८॥

चित्रैः पदैश्च गम्भीरैर्वाक्यैर्मानैरखण्डितैः।
गुरुभावं व्यञ्जयन्ती भाति श्रीजयतीर्थवाक्॥९॥

कूजन्तं राम रामेति मधुरं मधुराक्षरम्।
आरुह्य कविताशाखां वन्दे वाल्मीकिकोकिलम् ॥१०॥

बाल्मीकेर्मुनिसिंहस्य कवितावनचारिणः।
शृण्वन् रामकथानादं को न याति परां गतिम् ॥११॥

यः पिबन् सततं रामचरितामृतसागरम्।
अतृप्तस्तं मुनिं वन्दे प्राचेतसमकल्मषम्॥१२॥

गोष्पदीकृतवाराशिं मशकीकृतराक्षसम्।
रामायणमहामालारत्नं वन्देऽनिलात्मजम् ॥१३॥

अञ्जनानन्दनं वीरं जानकीशोकनाशनम्।
कपोशमक्षहन्तारं वन्दे लङ्काभयङ्करम् ॥१४॥

मनोजवं मारुततुल्यवेगं जितेन्द्रियं बुद्धिमतां वरिष्ठम्।
चातात्मजं वानरयूथमुख्यं श्रीरामदूतं शिरसा नमामि ॥१५॥

उल्लङ्घयसिन्धोस्सलिलं सलीलं यः शोकवह्निंजनकात्मजायाः।
आदाय तेनैव ददाह लङ्कां नमामि तं प्राञ्जलिराञ्जनेयम्॥१६॥

आञ्जनेयमतिपाटलाननं काञ्चनाद्रिकमनीयविग्रहम्।
पारिजाततरुमूलवासिनं भावयामि पवमाननन्दनम् ॥१७॥

यत्र यत्र रघुनाथकीर्तनं तत्र तत्र कृतमस्तकाञ्जलिम्।
बाष्पवारिपरिपूर्णलोचनं मारुतिं नमत राक्षसान्तकम् ॥१८॥

वेदवेद्ये परे पुंसि जाते दशरथात्मजे।
वेदः प्राचेतसादासीत्साक्षाद्रामायणात्मना ॥१९॥

आपदामपहर्तारं दातारं सर्वसम्पदाम्।
लोकाभिरामं श्रीरामं भूयो भूयो नमाम्यहम् ॥२०॥

तदुपगतसमाससन्धियोगं सममधुरोपनतार्थवाक्यबद्धम्।
रघुवरचरितं मुनिप्रणीतं दशशिरसश्च वधं निशामयध्वम् ॥२१॥

वैदेहीसहितं सुरद्रुमतले हैमे महामण्डपे
मध्ये पुष्पकमासने मणिमये वीरासने सुस्थितम्।
अग्रे वाचयति प्रभञ्जनसुते तत्त्वं मुनिभ्यः परं
व्याख्यान्तं भरतादिभिः परिवृतं रामं भजे श्यामलम् ॥२२॥

वन्दे वन्द्यंविधिभवमहेन्द्रादिबृन्दारकेन्द्रैः
व्यक्तं व्याप्तं स्वगुणगणतो देशतः कालतश्च।
घृतावद्यं सुखजितिमयैर्मङ्गलैर्युक्तमङ्गैः
सानाथ्यंनो विदधदधिकं ब्रह्म नारायणाख्यम् ॥२३॥

भूषारत्नं भुवनवलयस्याखिलाश्चर्यरत्नं
लीलारत्नं जलधिदुहितुर्देवतामौलिरत्नम्।
चिन्तारत्नंजगति भजतां सत्सरोजद्युरत्नं
कौसल्याया लसतु मम हृन्मण्डले पुत्ररत्नम् ॥ २४ ॥

महाव्याकरणाम्भोधिमन्थमानसमन्दरम्।
कवयन्तं रामकीर्त्या हनुमन्तमुपास्महे॥२५॥

मुख्यप्राणाय भीमाय नमो यस्य भुजान्तरम्।
नानावीरसुवर्णानां निकषाश्मा यितं बभौ॥२६॥

स्वान्तस्थानन्तशय्याय पूर्णज्ञानमहार्णसे।
उत्तुङ्गवाक्तरङ्गाय मध्वदुग्धाब्धये नमः॥२७॥

वाल्मीकेर्गौंः पुनीयान्नां महीधरपदाश्रया।
यद्दुग्धमुपजीवन्ति कवयस्तर्णका इव॥२८॥

सूक्तिरत्नाकरे रम्ये मूलरामायणार्णवे।
विहरन्ती महीयांसः प्रीयन्तां गुरवो मम॥२९॥

हयग्रीव हयग्रीव हयग्रीवेति यो वदेत्।
तस्य निःसरते वाणी जह्रुकन्याप्रवाहवत्॥३०॥

<MISSING_FIG href="../books_images/U-IMG-1707817560Screenshot2024-02-13142116.png"/>

स्वस्ति प्रजाभ्यां परिपालयन्तां
न्याय्येन मार्गेण महीं महीशाः।
गोब्राह्मणेभ्यः शुभमस्तु नित्यं
लोकाः समस्ताः सुखिनो भवन्तु ॥ १ ॥

काले वर्षतु पर्जन्यः पृथिवी सस्यशालिनी।
देशोऽयं क्षोभरहितो ब्राह्मणास्सन्तु निर्भयाः ॥२॥

लाभस्तेषां जयस्तेषां कुतस्तेषां पराभवः।
येषामिन्दीवरश्यामो हृदये सुप्रतिष्ठितः॥३॥

मङ्गलं कोसलेन्द्राय महनीयगुणाब्धये।
चक्रवर्तितनुजाय सार्वभौमाय मङ्गलम्॥४॥

इत्यादिश्लोकाः श्रीवैष्णवपद्धतिवदनुसन्धेयाः ॥

<MISSING_FIG href="../books_images/U-IMG-1707817560Screenshot2024-02-13142116.png"/>

<MISSING_FIG href="../books_images/U-IMG-1707799955fds.png"/>

श्रीराम—दरबार

॥ श्रीगुरुभ्यो नमः ॥

श्रीसीतालक्ष्मणभरतशत्रुघ्नहनुमत्समेत-
श्रीरामचन्द्रस्वामिने नमः

॥श्रीमद्वाल्मीकिरामायणम्॥

किष्किन्धाकाण्डम् ॥

<MISSING_FIG href="../books_images/U-IMG-1707818181Screenshot2024-02-13152554.png"/>

[पुरा कुशलवाभ्यां श्रीरामसन्निधौ अश्वमेधयज्ञवाटे द्वात्रिंशति दिनेषु गीते श्रीमद्रामायणे त्रयोदशेऽह्नि आरण्यकाण्डे चतुःषष्टितमसर्गमारभ्य यावत्काण्डसमाप्ति किष्किन्धाकाण्डे

आदितः अष्टौ सर्गाः च गीताः। तस्मिन् दिने गीताः श्लोकाश्च ८२१। तत्र किष्किन्धाकाण्डे श्लोकाः ३८५ ]

प्रथमः सर्गः

पम्पादर्शिनो रामस्य विप्रलापः ॥

स तां पुष्करिणीं गत्वा पद्मोत्पलझषाकुलाम्।
रामः सौमित्रिसहितो विललापाकुलेन्द्रियः ॥१॥

तस्य दृष्ट्टैव तां हर्षादिन्द्रियाणि चकम्पिरे।
स कामवशमापन्नः सौमित्रिमिदमब्रवीत्॥२॥

सौमित्रे शोभते पम्पा वैडूर्यविमलोदका।
फुल्लपद्मोत्पलवती शोभिता विविधैर्द्रुमैः॥३॥

सौमित्रे पश्य पम्पायाः काननं शुभदर्शनम्।
यत्र राजन्ति शैलाभा द्रुमाः सशिखरा इव॥४॥

मां तु शोकाभिसंतप्तं माधवः पीडयन्निव।
भरतस्य च दुःखेन वैदेह्या हरणेन च॥५॥

शोकार्तस्यापि मे पम्पा शोभते चित्रकानना।
व्यवकीर्णा बहुविधैः पुष्पैः शीतोदका शिवा ॥६॥

वलिनैरपिसंछन्ना ह्यत्यर्थेशुभदर्शना।
सर्पव्यालानुचरिता मृगद्विजसमाकुला॥७॥

अधिकं प्रतिभात्येतन्नीलपीतं तु शाद्वलम्।
द्रुमाणां विविधैः पुष्पैः परिस्तोमैरिवार्पितम् ॥८॥

नानाप्रख्यातकुसुमैश्छन्ना भूर्भाति लक्ष्मण॥९॥

पुष्पभारसमृद्धानि शिखराणि समन्ततः।
लताभिः पुष्पिताग्राभिरुपगूढानि सर्वतः॥१०॥

सुखानिलोऽयं सौमित्रे कालः प्रचुरमन्मथः।
गन्धवान्सुरभिर्मासो जातपुष्पफलद्रुमः॥११॥

पश्य रूपाणि सौमित्रे वनानां पुष्पशालिनाम्।
सृजतां पुष्पवर्षाणि तोयं तोयमुचामिव॥१२॥

प्रस्तरेषु च रम्येषु विविधाः काननद्रुमाः।
वायुवेगप्रचलिताः पुष्पैरवकिरन्ति गाम्॥१३॥

पतितैः पतमानैश्च पादपस्यैश्च मारुतः।
कुसुमैः पश्य सौमित्रे क्रीडन्निव समन्ततः ॥ १४ ॥

विक्षिपन्विविधाः शाखा नगानां कुसुमोत्कचाः।
मारुतश्चलितस्थानैः षट्पदैरनुगीयते॥१५॥

मत्तकोकिलसंनादैर्नर्तयन्निव पादपान्।
शैलकन्दरनिष्क्रान्तः प्रगीत इव चानिलः॥१६॥

तेन विक्षिपताऽत्यर्थेपवनेन समन्ततः।
अमी संसक्तशाखाग्रा ग्रथिता इव पादपाः॥१७॥

स एष सुखसंस्पर्शो वाति चन्दनशीतलः।
गन्धमभ्यावहन्पुण्यं श्रमापनयनोऽनिलः॥१८॥

अमी पवनविक्षिप्ता विनदन्तीव पादपाः।
षट्पदैरनुकूजन्तो वनेषु मधुगन्धिषु॥१९॥

गिरिप्रस्थेषु संरूढैः पुष्पवद्भिर्मनोरमैः।
संसक्तशिखराः शैला विराजन्ति महाद्रुमैः॥२०॥

पुष्पसंछन्नशिखरा मारुतोत्क्षेपचञ्चलाः।
अमी मधुकरोत्तंसाः प्रगीता इव पादपाः॥२१॥

सुपुष्पितांस्तु पश्येमान्कर्णिकारान्समन्ततः।
हाटकप्रतिसंछन्नान्नरान्पीताम्बरानिव॥२२॥

अयं वसन्तः सौमित्रे नानाविहगनादितः।
सीतया विप्रहीणस्य शोकसंदीपनो मम॥२३॥

मां हि शोकसमाक्रान्तं सन्तापयति मन्मथः।
हृष्टः प्रवदमानश्च मामाह्वयति कोकिलः॥२४॥

एष नत्यूहको हृष्टो रम्ये मां वननिर्झरे।
प्रणदन्मन्मथाविष्टं शोचयिष्यति लक्ष्मण॥२५॥

श्रुत्वैतस्य पुरा शब्दमाश्रमस्था मम प्रिया।
मामाहूय प्रमुदिता परमं प्रत्यनन्दत॥२६॥

एवं विचित्राः पतगा नानारावविराविणः।
वृक्षगुल्मलताः पश्य संपतन्ति समन्ततः॥२७॥

विमिश्रा बिहगाः पुंभिरात्मव्यूहाभिनन्दिताः।
भृङ्गराजप्रमुदिताः सौमित्रे मधुरस्वराः॥२८॥

अस्याः कूले प्रमुदिताः संघशः शकुनास्त्विह ॥ २९ ॥

नत्यूहरुतविक्रन्दैः पुंस्कोकिलरुतैरपि।
स्वनन्ति पादपाश्चेमे ममानङ्गप्रदीपकाः ॥३०॥

अशोकस्तबकाङ्गारः षट्पदस्वननिस्वनः।
मां हि पल्लवताम्रार्चिर्वसन्ताग्निः प्रधक्ष्यति ॥३१॥

न हि तां सूक्ष्मपक्ष्माक्षीं सुकेशीं मृदुभाषिणीम्।
अपश्यतो मे सौमित्रे जीवितेऽस्ति प्रयोजनम् ॥३२॥

अयं हि रुचिरस्तस्याः कालो रुचिरकाननः।
कोकिलाकुलसीमान्तो दयिताया ममानघ॥३३॥

मन्मथायाससंभूतो वसन्तगुणवर्धितः।
अयं मां धक्ष्यति क्षिप्रं शोकाग्निर्नचिरादिव ॥३४॥

अपश्यतस्तां दयितां पश्यतो रुचिरद्रुमान्।
ममायमात्मप्रभवो भूयस्त्वमुपयास्यति॥३५॥

अदृश्यमाना वैदेही शोकं वर्धयते मम।
दृश्यमानो वसन्तश्च स्वेदसंसर्गदूषकः॥३६॥

मां ह्यद्य मृगशाबाक्षी चिन्ताशोकबलात्कृतम्।
सन्तापयति सौमित्रे क्रूरश्चैत्रो वनानिलः॥३७॥

अमी मयूराः शोभन्ते प्रनृत्यन्तस्ततस्ततः।
स्वैः पक्षैः पवनोद्धूतैर्गवाक्षैः स्फाटिकैरिव॥३८॥

शिखिनीभिः परिवृतास्त एते मदमूर्छिताः।
मन्मथाभिपरीतस्य मम मन्मथवर्धनाः॥३९॥

पश्य लक्ष्मण नृत्यन्तं मयूरमुपनृत्यति।
शिखिनी मन्मथार्तैष भर्तारं गिरिसानुषु॥ ४०॥

तामेव मनसा रामां मयूरोऽप्युपधावति।
वितत्य रुचिरौ पक्षौ रुतैरुपहसन्निव॥४१॥

मयूरस्य बने नूनं रक्षसा न हृता प्रिया।
तस्मान्नृत्यति रम्येषु वनेषु सह कान्तया॥४२॥

मम त्वयं विनावासः पुष्पमासे सुदुःसहः॥४३॥

पश्य लक्ष्मण संयोगं तिर्यग्योनिगतेष्वपि।
यदेषा शिखिनी कामाद्भर्तारमभिवर्तते॥४४॥

मामप्येवं विशालाक्षी जानकी जातसंभ्रमा।
मदनेनाभिवर्तेत यदि नापहृता भवेत्॥४५॥

पश्य लक्ष्मण पुष्पाणि निष्फलानि भवन्ति मे।
पुष्पभारसमृद्धानां बनानां शिशिरात्यये॥४६॥

रुचिराण्यपि पुष्पाणि पादपानामतिश्रिया।
निष्फलानि महीं यान्ति समं मधुकरोत्करैः॥४७॥

बदन्ति रावं मुदिताः शकुनाः सङ्घशः कलम्।
आह्वयन्त इवान्योन्यं कामोन्मादकरा मम॥४८॥

वसन्तो यदि तत्रापि यत्र मे वसति प्रिया।
नूनं परवशा सीता साऽपि शोचत्यहं यथा॥४९॥

नूनं न तु वसन्तोऽयं देशं स्पृशति यत्र सा।
कथं ह्यसितपद्माक्षी वर्तयेत्सा मया विना ॥५०॥

अथ वा वर्तते तत्र वसन्तो यत्र मे प्रिया।
किं करिष्यति सुश्रोणी सा तु निर्भत्सिता परैः ॥५१॥

श्यामा पद्मपलाशाक्षी मृदुपूर्वाभिभाषिणी।
नूनं वसन्तमासाद्य परित्यक्ष्यति जीवितम् ॥५२॥

दृढं हि हृदये बुद्धिर्मम संप्रति वर्तते।
नालं वर्तयितुं सीता साध्वी मद्विरहं गता ॥५३॥

मयि भावोपि वैदेह्यास्तत्त्वतो विनिवेशितः।
ममापि भावः सीतायां सर्वथा विनिवेशितः ॥ ५४ ॥

एष पुष्पवहो वायुः सुखस्पर्शो हिमावहः।
तां विचिन्तयतः कान्तां पावकप्रतिमो मम॥५५॥

सदा सुखमहं मन्ये यं पुरा सह सीतया।
मारुतः स विना सीतां शोकं वर्धयते मम॥५६॥

तां विना स विहङ्गो यः पक्षी प्रणदितस्तदा।
वायसः पादपगतः प्रहृष्टमभिनर्दति॥५७॥

एष वै तत्र वैदेह्या विहगः प्रतिहारकः।
पक्षी मां तु विशालाक्ष्याः समीपमुपनेष्यति ॥५८॥

शृणु लक्ष्मण सन्नादं बने मदविवर्धनम्।
पुष्पिताग्रेषु वृक्षेषु द्विजानामुपकूजताम्॥५९॥

विक्षिप्तां पवनेनैतामसौ तिलकमञ्जरीम्।
षट्पदः सहसाऽभ्येति मदोद्धूतामिव प्रियाम् ॥६०॥

कामिनामयमत्यन्तमशोकः शोकवर्धनः।
स्तबकैः पवनोत्क्षिप्तैस्तर्जयन्निव मां स्थितः ॥६१॥

अमी लक्ष्मण दृश्यन्ते चूताः कुसुमशालिनः।
विभ्रमोत्सिक्तमनसः साङ्गरागा नरा इव॥६२॥

सौमित्रे पश्य पम्पायाश्चित्रासु वनराजिषु।
किन्नरा नरशार्दूल विचरन्ति समन्ततः॥६३॥

इमानि शुभगन्धीनि पश्य लक्ष्मण सर्वशः।
नलिनानि प्रकाशन्ते जले तरुणसूर्यवत्॥६४॥

एषा प्रसन्नसलिला पद्मनीलोत्पलायुता।
हंसकारण्डवाकीर्णा पम्पा सौगन्धिकायुता॥६५॥

जले तरुणसूर्याभैः षट्पदाहतकेसरैः।
पङ्कजैः शोभते पम्पा समन्तादभिसंवृता॥६६॥

चक्रवाकयुता नित्यं चित्रप्रस्थवनान्तरा।
मातङ्गमृगयूयैश्च शोभते सलिलार्थिभिः॥६७॥

पवनाहतवेगाभिरूर्मिभिर्विमलेऽम्भसि।
पङ्कजानि विराजन्ते ताड्यमानानि लक्ष्मण ॥ ६८ ॥

पद्मपत्रविशालाक्षीं सततं पङ्कजप्रियाम्।
अपश्यतो मे वैदेहीं जीवितं नाभिरोचते॥६९॥

अहो कामस्य वामत्वं यो गतामपि दुर्लभाम्।
स्मारयिष्यति कल्याणी कल्याणतरवादिनीम् ॥७०॥

शक्यो धारयितुं कामो भवेदद्यागतो मया।
यदि भूयो वसन्तो मां न हन्यात्पुष्पितद्रुमः ॥७१॥

यानि स्म रमणीयानि तया सह भवन्ति मे।
तान्येवारमणीयानि जायन्ते मे तया विना ॥७२॥

पद्मकोशपलाशानि दृष्ट्वादृष्टिर्विमन्यते।
सीताया नेत्रकोशाभ्यां सदृशानीति लक्ष्मण ॥७३॥

पद्मकेसरसंसृष्टो वृक्षान्तरविनिःसृतः।
निःश्वास इव सीताया वाति वायुर्मनोहरः॥७४॥

सौमित्रे पश्य पम्पाया दक्षिणे गिरिसानुनि।
पुष्पितां कर्णिकारस्य यष्टिं परमशोभिताम्॥७५॥

अधिकं शैलराजोऽयं धातुभिः सुविभूषितः।
विचित्रं सृजते रेणुं वायुवेग विघट्टितम्॥७६॥

गिरिप्रस्थास्तु सौमित्रे सर्वतः संप्रपुष्पितैः।
निष्पत्रैः सर्वतो रम्यैः प्रदीप्ता इव किंशुकैः ॥७७॥

पम्पातीररुहाश्चे मे संसक्ता मधुगन्धिनः।
मालतीमल्लिकाषण्डाः करवीराश्च पुष्पिताः॥७८॥

केतक्यः सिन्धुवाराश्च वासन्त्यश्च सुपुष्पिताः।
माधव्यो गन्धपूर्णाश्च कुन्दगुल्माश्च सर्वशः॥७९॥

चिरिबिल्वा मधूकाश्च वञ्जुला वकुलास्तथा।
चम्पकास्तिलकाश्चैव नागवृक्षाश्च पुष्पिताः॥८०॥

नीपाश्च वरणाश्चैव खर्जूराश्च सुपुष्पिताः।
पद्मकाथोपशोभन्ते नीलाशोकाञ्च पुष्पिताः॥८१॥

लोध्राश्च गिरिपृष्ठेषु सिंहकेसरपिञ्जराः।
अङ्कोलाश्च कुरण्टाश्च पूर्णकाः पारिभद्रकाः ॥८२॥

चूताः पाटलयश्चैव कोविदाराश्च पुष्पिताः।
मुचुलिन्दार्जुनाश्चैव दृश्यन्ते गिरिसानुषु॥८३॥

केतकोद्दालकाश्चैव शिरीषाः शिशुपा धवाः।

शाल्मल्यः किंशुकाश्चैव रक्ताः कुरवकास्तथा ॥
तिनिशा नक्तमालाश्च चन्दनाः स्पन्दनास्तथा ॥ ८४ ॥

पुष्पितान्पुष्पिताग्राभिर्लताभिः परिवेष्टितान्।
द्रुमान् पश्येह सौमित्रे पम्पाया रुचिरान्बहून् ॥८५॥

बातविक्षिप्तविटपान्यथासन्नान्द्रुमानिमान्।
लताः समनुवर्तन्ते मत्ता इव वरस्त्रियः॥८६॥

पादपात्पादपं गच्छञ्शैलाच्छैलं वनाद्वनम्।
वाति नैकरसास्वादः संमोदित इवानिलः॥८७॥

केचित्पर्याप्तकुसुमाः पादपा मधुगन्धिनः।
केचिन्मुकुलसंवीताः श्यामवर्णा इवाबभुः॥८८॥

इदं मृष्टमिदं स्वादु प्रफुल्लमिदमित्यपि।
रागमत्तो मधुकरः कुसुमेष्ववलीयते॥८९॥

निलीय पुनरुत्पत्य सहसाऽन्यत्रं गच्छति।
मधुलुब्धो मधुकरः पम्पातीरद्रुमेष्वसौ॥९०॥

इयं कुसुमसंघातैरुपस्तीर्णा सुखाकृता।
स्वयं निपतितैर्भूमिः शयनप्रस्तरैरिव॥९१॥

विविधा विविधैः पुष्पैस्तैरेव नगसानुषु।
विकीर्णैः पीतरक्ता हि सौमित्रे प्रस्तराः कृताः ॥९२॥

हिमान्ते पश्य सौमित्रे वृक्षाणां पुष्पसञ्चयम् ॥९३॥

पुष्पमासे हि तरवः संघर्षादिव पुष्पिताः।
आह्वयन्त इवान्योन्यं नगाः षट्पद निस्वनैः॥९४॥

कुसुमोत्तंसविटपाः शोभन्ते बहु लक्ष्मण॥९५॥

एष कारण्डवः पक्षी विगाह्य सलिलं शुभम्।
रमते कान्तया सार्धं काममुद्दीपयन्मम॥९६॥

मन्दाकिन्यास्तु यदिदं रूपमेतन्मनोहरम्।
स्थाने जगति विख्याता गुणास्तस्या मनोरमाः ॥९७॥

यदि दृश्येत सा साध्वी यदि चेह वसेमहि।
स्पृहयेयं न शक्राय नायोध्यायै रघूत्तम॥९८॥

न ह्येवं रमणीयेषु शाद्वलेषु तया सह।
रमतो मे भवेच्चिन्ता न स्पृहाऽन्येषु वा भवेत् ॥९९॥

अमी हि विविधैःपुष्पैस्तरवोरुचिरच्छदाः।
काननेऽस्मिन्विना कान्तां चित्तमुन्मादयन्ति मे ॥ १००॥

पश्य शीतजलां चेमां सौमित्रे पुष्करायुताम्।
चक्रवाकानुचरितां कारण्डवनिषेविताम्॥१०१॥

प्लवैःक्रौञ्चैश्च संपूर्णं वराहमृगसेविताम्
अधिकं शोभते पम्पा विक्रूजद्भिर्विहङ्गमैः॥१०२॥

दीपयन्तीव मे कामं विविधामुदिता द्विजाः।
श्यामां चन्द्रमुखीं स्मृत्वा प्रियां पद्मनिभेक्षणाम् ॥१०३॥

पश्य सानुषु चित्रेषु मृगीभिः सहितान्मृगान्।
मां पुनर्मृगशाबाक्ष्या वैदेह्या विरहीकृतम् ॥१०५॥

व्यथयन्तीव मे चित्तं संचरन्तस्ततस्ततः।
अस्मिन्सानुनि रम्ये हि मत्तद्विजगणायुते ॥१०६॥

पश्येयं यदि तां कान्तां ततः स्वस्ति भवेन्मम ॥१०७॥

जीवेयं खलु सौमित्रे मया सह सुमध्यमा।
सेवते यदि वैदेही पम्पायाः पवनं सुखम् ॥१०८॥

पद्मसौगन्धिकवहं शिवं शोकविनाशनम्।
धन्या लक्ष्मण सेवन्ते पम्पोपवनमारुतम् ॥१०९॥

श्यामा पद्मपलांशाक्षी प्रिया विरहिता मया।
कथं धारयति प्राणान् विवशा जनकात्मजा ॥११०॥

किं नु वक्ष्यामि राजानं धर्मज्ञं सत्यवादिनम्।
सीताया जनकं पृष्टः कुशलं जनसंसदि॥१११॥

या मामनुगता मन्दं पित्रा प्रव्राजितं वनम्।
सीता सत्पथमास्थाय क्व नु सा वर्तते प्रिया॥११२॥

तया विहीनः कृपणः कथं लक्ष्मण धारये।
या मामनुगता राज्याद्भ्रष्टं विगतचेतनम् ॥११३॥

तच्चार्वञ्चितपक्ष्माक्षं सुगन्धि शुभमव्रणम्।
अपश्यतो मुखं तस्याः सीदतीव मनो मम ॥११४॥

स्मितहास्यान्तरयुतं गुणवन्मधुरं हितम्।
वैदेह्या वाक्यमतुलं कदा श्रोष्यामि लक्ष्मण ॥११५॥

प्राप्य दुःखं बने श्यामा सा मां मन्मथकर्शितम्।
नष्टदुःखेव हृष्टेव साध्वी साध्वभ्यभाषत॥११६॥

किं नु वक्ष्यामि कौसल्यामयोध्यायां नृपात्मज।
क्व सा स्नुषेति पृच्छन्तीं कथं चातिमनस्विनीम् ॥११७॥

गच्छ लक्ष्मण पश्य त्वं भरतं भ्रातृवत्सलम्।
न ह्यहं जीवितुं शक्तस्तामृते जनकात्मजाम् ॥११८॥

इति रामस्तु विलपन् हतनौरिव सागरे।
न ददर्श तदा पारं शोकस्य पुरुषर्षभः॥११९॥

स शुभे शष्पशयने निश्वस्य निषसाद च।
सर्पपर्यायसम्पन्नो दशां तामनुदर्शयन्॥१२०॥

तं दाशरथिमासीनं भृशं संक्षुभितेन्द्रियम्।

निश्वसन्तं ततो वाग्मी प्रत्युवाच स लक्ष्मणः ॥१२१॥

दीनरूपेण काकुत्स्थ वैदेहीमनुतप्यसे।
वारिवेगेन मथितां किन्नरीमिव किन्नरः॥१२२॥

दुर्लभा हि तथारूपा मानुषी पुरुषर्षभ।
सर्वस्वमपि संत्यज्य पूज्यो धर्मो हि राघव ॥१२३॥

धर्मे प्रयतमानस्य न किञ्चिदिह दुर्लभम्।
धीरा ह्येव विवर्धन्ते धीरा ह्येवाधिरोहिणः ॥१२४॥

न नीचः सहते किञ्चिन्निस्सारोऽल्पतयाऽनघ।
त्वादृशस्त्वेव सहते कालपर्यायकोविदः॥१२५॥

दुःखमुच्चावचं प्राप्तो वायुवेगमिवाचलः।
राज्यं हि समभित्यज्य भोगांश्चाप्यतिमानुषान् ॥१२६॥

तप्यसे तमसा छन्नो नीचः कापुरुषो यथा।
स पूर्वभावाद्भूयिष्ठमात्मानं योक्तुमर्हसि ॥१२७॥

सुखदुःखेन भद्रं ते सदश्वानिव सारथिः।
वीर त्वं तु प्रमाद्येषु मा शोकेषु मनः कृथाः ॥१२८॥

दर्शयन्निव सङ्कल्पमुदधिर्वेगवानिव।
विनिस्तीर्य वने वासं वसुधां प्रतिपद्य च ॥१२९॥

लप्स्यसे परमां प्रीतिं कीर्तिं धर्म बलोद्धतः।
अपीदानीं स मृग्येत सीतामपि जहार यः ॥१३०॥

आत्मनो जीवितान्ताय मृत्योः कूटमिवास्पृशन्।
तं हत्वा मैथिलीं सीतामुपलभ्य सुखी भव ॥१३१॥

एतत्ते नरशार्दूल कृत्यमात्ययिकं परम् ॥१३२॥

संस्तम्भ राम भद्रं ते मा शुचः पुरुषर्षभ।
नेदृशानां मतिर्मन्दा भवत्यकलुषात्मनाम् ॥१३३॥

स्मृत्वा वियोगजं दुःखं त्यज स्नेहं प्रिये जने।
अतिस्नेहपरिष्वङ्गाद्वर्तिरार्द्रापि दह्यते॥१३४॥

यदि गच्छति पातालं ततो ह्यधिकमेव वा।
सर्वथा रावणस्तात न भविष्यति राघव ॥१३५॥

प्रवृत्तिर्लभ्यतां तावत्तस्य पापस्य रक्षसः।
ततो हास्यति वा सीतां निधनं वा गमिष्यति ॥१३६॥

यदि यात्यदितेर्गर्भ रावणः सह सीतया।
तत्राप्येनं हनिष्यामि न चेद्दास्यति मैथिलीम् ॥१३७॥

स्वास्थ्यं भद्रं भजस्वार्य त्यज्यतां कृपणा मतिः ॥१३८॥

अर्थो हि नष्टकार्यार्थैर्नायत्नेनाधिगम्यते॥ १३९ ॥

उत्साहो बलवानार्य नास्त्युत्साहात्परं बलम्।
सोत्साहस्यास्ति लोकेऽस्मिन्न किञ्चिदपि दुर्लभम् ॥१४०॥

उत्साहवन्तः पुरुषा नावसीदन्ति कर्मसु ॥१४१॥

उत्साहमात्रमाश्रित्य सीतां प्रतिलभेमहि॥१४२॥

त्यज्यतां कामवृत्तत्वं शोकं संन्यस्य पृष्ठतः।
महात्मानं कृतात्मानमात्मानं नावबुद्धयसे ॥१४३॥

एवं संबोधितस्तेन शोकोपहतचेतनः।
न्यस्य शोकं च मोहं च ततो धैर्यमुपागमत् ॥१४४॥

सोऽभ्यतिक्रामदव्यग्रस्तामचिन्त्यपराक्रमः।
रामः पम्पां सुरुचिरां रम्यपारिप्लवद्रुमाम्॥१४५॥

निरीक्षमाणः सहसा महात्मा सर्वे वनं निर्झरकन्दरांश्च।
उद्विग्नचेताः सह लक्ष्मणेन विचार्य दुःखोपहतः प्रतस्थे ॥१४६॥

तं मत्तमांतङ्गविलासगामी च्छन्तमव्यग्रमना महात्मा।
स लक्ष्मणो राघवमप्रमत्तो ररक्ष धर्मेण बलेन चैव ॥१४७॥

तादृश्यमूकस्य समीपचारी
चरन्ददर्शाद्भुतदर्शनीयौ।
शाखामृगाणामधिपस्तरस्वी
विभ्रान्तिमत्तस्य बभूव चित्तम् ॥१४८॥

स तौ महात्मा गजमन्दगामी
शाखामृगस्तत्र चरंश्चरन्तौ।
दृष्ट्वा विषादं परमं जगाम
चिन्तापरीतो भयभारमग्नः॥१४९॥

तमाश्रमं पुण्यसुखं शरण्यं
सदैव शाखामृगसेवितान्तम्।
त्रस्ताश्च दृष्ट्वा हरयोऽभिजग्मु-
महौजसौ राघवलक्ष्मणौ तौ॥१५०॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये
किष्किन्धाकाण्डे प्रथमः सर्गः ॥

आदितः श्लोकाः 9402
किष्किन्धाकाण्डे आदितः श्लोकाः 150

<MISSING_FIG href="../books_images/U-IMG-1709893100Screenshot2024-03-08154806.png"/>

द्वितीयः सर्गः॥२॥

सुग्रीवेण रामभावज्ञानाय हनुमत्प्रेषणम्॥

तौ तु दृष्ट्वा महात्मानौ भ्रातरौ रामलक्ष्मणौ।
बरायुधधरौ वीरौ सुग्रीवः शङ्कितोऽभवत्॥१॥

उद्विग्रहृदयः सर्वा दिशः समवलोकयन्।
न व्यतिष्ठत कस्मिंश्चिद्देशे वानरपुङ्गवः॥२॥

नैव चक्रे मनः स्थाने वीक्षमाणो महाबलौ।
कपेः परमभीतस्य चित्तं व्यवससाद ह॥३॥

चिन्तयित्वा स धर्मात्मा विमृश्य गुरुलाघवम्।
सुग्रीवः परमोद्विग्नः सर्वैरनुचरैः सह ॥४॥

ततः स सचिवेभ्यस्तु सुग्रीवः प्लवगाधिपः।
शशंस परमोद्विग्नः पश्यंस्तौ रामलक्ष्मणौ ॥५॥

एतौ वनमिदं दुर्गे वालिप्रणिहितौ ध्रुवम्।
छद्मना चीरवसनौ प्रचरन्ताविहागतौ॥६॥

ततः सुग्रीवसचिवा दृष्ट्वा परमधन्विनौ।
जम्मुर्गिरितटात्तस्मादन्यच्छिखरमुत्तमम्॥७॥

ते क्षिप्रमधिगम्याथ यूथपा यूथपर्षभम्।
हरयो वानरश्रेष्ठं परिवार्योपतस्थरे॥८॥

एकमेकायनगताः प्लवमाना गिरेर्गिरिम्।
प्रकम्पयन्तो वेगेन गिरीणां शिखराण्यपि॥९॥

ततः शाखामृगाः सर्वे प्लवमाना महाबलाः।
बभञ्जुश्च नगांस्तत्र पुष्पितान् दुर्गसंश्रितान् ॥१० ॥

आप्लवन्तो हरिवराः सर्वतस्तं महागिरिम्।
मृगमार्जारशार्दूलांस्त्रासयन्तो ययुस्तदा॥११॥

ततः सुग्रीवसचिवाः पर्वतेन्द्रं समाश्रिताः।
संगम्य कपिमुख्येन सर्वे प्राञ्जलयः स्थिताः॥१२॥

ततस्तं भयसंत्रस्तं वालिकिल्बिषशङ्कितम्।
उवाच हनुमान्वाक्यं सुग्रीवं वाक्यकोविदः॥१३॥

संभ्रमस्त्यज्यतामेष सर्वैर्वालिकृतो महान्।
मलयोऽयं गिरिवरो भयं नेहास्ति वालिनः॥१४॥

यस्मादु द्विग्नचेतास्त्वं प्रद्रुतो हरिपुङ्गव।
तं क्रूरदर्शनं क्रूरं नेह पश्यामि वालिनम्॥१५॥

यस्मात्तव भयं सौम्य पूर्वजात्पापकर्मणः।
स नेह वाली दुष्टात्मा न ते पश्याम्यहं भयम् ॥१६॥

अहो शाखामृगत्वं ते व्यक्तमेव प्लवङ्गम।
लघुचित्ततयाऽत्मानं न स्थापयसि यो मतौ ॥१७॥

बुद्धिविज्ञानसम्पन्न इङ्गितैः सर्वमाचर।
न ह्यबुद्धिं गतो राजा सर्वभूतानि शास्ति हि ॥१८॥

सुग्रीवस्तु शुभं वाक्यं श्रुत्वा सर्वे हनुमतः।
ततः शुभतरं वाक्यं हनुमन्तमुवाच ह॥१९॥

दीर्घबाहू विशालाक्षौ शरचापासिधारिणौ।
कस्य न स्याद्भयं दृष्ट्वा ह्येतौ सुरसुतोपमौ॥२०॥

वालिप्रणिहितावेत शङ्केऽहं पुरुषोत्तमौ।
राजानो बहुमित्राश्च विश्वासो नात्र हि क्षमः ॥२१॥

अरयश्च मनुष्येण विज्ञेयाश्छन्नचारिणः।
विश्वस्तानामविश्वस्ताश्छिद्वेषु महरन्ति हि॥२२॥

कृत्येषु वाली मेधावी राजानो बहुदर्शिनः।
भवन्ति परहन्तारस्ते ज्ञेयाः प्राकृर्तैर्नरैः॥२३॥

तौ त्वया प्राकृतेनैव गत्वा ज्ञेयौ प्लवङ्गम।
इङ्गितानां प्रकारैश्च रूपव्याभाषणेन च॥२४॥

लक्षयस्व तयोर्भावं प्रहृष्टमनसौ यदि।
विश्वासयन्प्रशंसाभिरिङ्गितैश्च पुनः पुनः॥२५॥

ममैवाभिमुखं स्थित्वा पृच्छ त्वं हरिपुङ्गव।
प्रयोजनं प्रवेशस्य वनस्यास्य धनुर्धरौ॥२६॥

शुद्धात्मानौ यदि त्वेतौ जानीहि त्वं प्लवङ्गम।
व्याभाषितैर्वा रूपैर्वा विज्ञेया दुष्टताऽनयोः॥२७॥

इत्येवं कपिराजेन संदिष्टो मारुतात्मजः।
चकार गमने बुद्धिं यत्र तौ रामलक्ष्मणौ॥२८॥

तथेति संपूज्य वचस्तु तस्य तत्
कपेः सुभीतस्य दुरासदस्य च।
महानुभावो हनुमान् ययौ तदा
स तत्र रामोऽतिबलश्च लक्ष्मणः ॥२९॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये

किष्किन्धाकाण्डे द्वितीयः सर्गः॥

आदित श्लोकाः 9431
किष्किन्धाकाण्डे आदित श्लोकाः 179

<MISSING_FIG href="../books_images/U-IMG-1707888177Screenshot2024-02-13151634.png"/>

तृतीयः सर्गः ॥३॥

हनुमता श्रीरामलक्ष्मणावुपेत्य सुग्रीववृत्तान्तनिवेदनम् ॥

वचो विज्ञाय हनुमान् सुग्रीवस्य महात्मनः।
पर्वतादृश्यमूकात्तु पुप्लुवे यत्र राघवो॥१॥

कपिरूपं परित्यज्य हनुमान् मारुतात्मजः।
भिक्षुरूपं ततो भेजे शठबुद्धितया कपिः॥२॥

ततः स हनुमान् वाचा श्लक्ष्णया सुमनोज्ञया।
विनीतवदुपागम्य राघवौ प्रणिपत्य च ॥
आबभाषे च तौ वीरौ यथावत्प्रशशंस च॥३॥

संपूज्य विधिवद्वीरो हनुमान् मारुतात्मजः।
उवाच कामतो वाग्भिर्मृद्वीभिः सत्यविक्रमौ ॥४॥

राजर्षिदेवप्रतिमौ तापसौ संशितव्रतौ।
देशं कथमिमं प्राप्तौ भवन्तौ वरवर्णिनौ॥५॥

त्रासयन्तौ मृगगणानन्यांश्च वनचारिणः
पम्पातीररुहान् वृक्षान वीक्षमाणौ समन्ततः ॥६॥

इमां नहीं शुभजलां शोभयन्तौ तरस्विनौ।
धैर्यवन्तौ सुवर्णाभौ कौयुवां चीरवाससौ॥७॥

निश्वसन्तौ वरभुजौ पीडयन्ताविमाः प्रजाः।
सिंहविप्रेक्षितौ वीरौ सिंहातिबलविक्रमौ॥८॥

चक्रचापनिभे चापे गृहीत्वा शत्रुसूदनौ।
श्रीमन्तौ रूपसम्पन्नौ वृषभश्रेष्ठविक्रमो॥९॥

हस्तिहस्तोपमभुजौ द्युतिमन्तौ नरर्षभौ॥१०॥

प्रभया पर्वतेन्द्रोयं युवयोरवभासितः॥११॥

राज्यार्हावमप्रख्यौकथं देशमिहागतौ।
पद्मपत्रेक्षणौ वीरौ जटामण्डलधारिणौ॥१२॥

अन्योन्यसदृशौ वीरौ देवलोकादिवागतौ।
यदृच्छयेव संप्राप्तौ चन्द्रसूर्यौवसुन्धराम्॥१३॥

विशालवक्षसौ वीरौ मानुषौ देवरूपिणौ।
सिंहस्कन्धौ महासत्त्वौसमदाविव गोवृषौ॥१४॥

आयताश्च सुवृत्ताश्च बाहवः परिघोपमाः।
सर्वभूषणभूषार्हाः किमर्थं न विभूषिताः॥१५॥

उभौ योग्यावहं मन्ये रक्षितुं पृथिवीमिमाम्।
ससागरवनां कृत्स्नां विन्ध्यमेरुविभूषिताम् ॥ १६ ॥

इमे च धनुषी चित्रे श्लक्ष्णे चित्रानुलेपने।
प्रकाशेते यथेन्द्रस्य वज्रे हेमविभूषिते॥१७॥

संपूर्णा निशितैर्वाणैस्तूण्यश्च शुभदर्शनाः।
जीवितान्तकरैर्घोरैर्ज्वलद्भिरिव पावकैः॥१८॥

महाप्रमाणौ विपुलौ तप्तहाटकभूषितौ।
खड्गावेतौ विराजेते निर्मुक्ताविव पन्नगौ॥१९॥

एवं मां परिभाषन्तं कस्माद्वै नाभिभाषतः॥२०॥

सुग्रीवो नाम धर्मात्मा कञ्चिद्वानरयूथपः।
वीरो विनिकुतो भ्रात्रा जगद्भृमति दुःखितः ॥२१॥

प्राप्तोऽहं प्रेषितस्तेन सुग्रीवेण महात्मना।
राज्ञा वानरमुख्यानां हनुमान्नाम वानरः ॥२२॥

युवाभ्यां सह धर्मात्मा सुग्रीवः सख्यमिच्छति।
तस्य मां सचिवं वित्तं वानरं पवनात्मजम् ॥२३॥

भिक्षुरूपप्रतिच्छन्नं सुग्रीवप्रियकाम्यया।
ऋश्यमूकादिह प्राप्तं कामगं कामरूपिणम् ॥२४॥

एवमुक्त्वा तु हनुमांस्तौ वीरौ रामलक्ष्मणौ।
वाक्यज्ञौ वाक्यकुशलः पुनर्नोवाच किश्चन ॥२५॥

एतच्छ्रुत्वा वचस्तस्य रामो लक्ष्मणमब्रवीत्।
प्रहृष्टवदनः श्रीमान् भ्रातरं पार्श्वतः स्थितम् ॥२६॥

सचिवोऽयं कपीन्द्रस्य सुग्रीवस्य महात्मनः।
तमेव काङ्क्षमाणस्य ममान्तिकमुपागतः॥२७॥

अभिभाषस्व सौमित्रे सुग्रीवसचिवं कपिम्।
वाक्यज्ञं मधुरैर्वाक्यैः स्नेहयुक्तमरिन्दम॥२८॥

नानृग्वेदविनीतस्य नायजुर्वेदधारिणः।
नासामवेदविदुषः शक्यमेवं प्रभाषितुम्॥२९॥

नूनं व्याकरणं कृत्स्नमनेन बहुधा श्रुतम्।
बहु व्याहरताऽनेन न किञ्चिदपशब्दितम्॥३०॥

न मुखे नेत्रयोर्वाऽपि ललाटे च भ्रुवोस्तथा।
अन्येष्वपि च गात्रेषु दोषः संविदितः क्वचित् ॥३१॥

अविस्तरमसंदिग्धमविलम्बितमव्यथम्।
उरःस्थं कण्ठगं वाक्यं वर्तते मध्यमे स्वरे॥३२॥

संस्कारक्रमसम्पन्नामद्रुतामविलम्बिताम्।
उच्चारयति कल्याणीं वाचं हृदयहर्षिणीम् ॥३३॥

अनया चित्रया वाचा त्रिस्थानव्यञ्जनस्थया।
कस्य नाराध्यते चित्तमुद्यतासेररेरपि॥३४॥

एवंविधो यस्य दूतो न भवेत्यार्थिवस्य तु।
सिध्यन्ति हि कथं तस्य कार्याणां गतयोऽनघ ॥३५॥

एवं गुणगणैर्युक्ता यस्य स्युः कार्यसाधकाः।
तस्य सिध्यन्ति सर्वार्था दूतवाक्यप्रचोदिताः ॥३६॥

एवमुक्तस्तु सौमित्रिः सुग्रीवसचिवं कपिम्।
अभ्यभाषत वाक्यज्ञो वाक्यज्ञं पवनात्मजम् ॥३७॥

विदिता नौ गुणा विद्वन्सुग्रीवस्य महात्मनः।
तमेव चावां मार्गावः सुग्रीवं प्लवगेश्वरम्॥३८॥

यथा ब्रवीषि हनुमन् सुग्रीववचनादिह।
तत्तथा हि करिष्यावो वचनात्तव सत्तम॥३९॥

तत्तस्य वाक्यं निपुणं निशम्य
प्रहृष्टरूपः पवनात्मजः कपिः।
मनः समाधाय जयोपपत्तौ
सख्यं तदा कर्तुमियेष ताभ्याम् ॥४०॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये
किष्किन्धाकाण्डे तृतीयः सर्गः ॥

आदित श्लोकाः 9471
किष्किन्धाकाण्डे आदितः श्लोकाः 219

<MISSING_FIG href="../books_images/U-IMG-1707883038Screenshot2024-02-13121118.png"/>

चतुर्थः सर्गः ॥४॥

श्रीरामलक्ष्मणयोः सुग्रीवसमीपगमनम् ॥

ततः प्रहृष्टो हनुमान् कृत्यवानिति तद्वचः।
श्रुत्वा मधुरभावं च सुग्रीवं मनसा गतः॥१॥

भव्यो राज्यागमस्तस्य सुग्रीवस्य महात्मनः।
यदयं कृत्यवान् प्राप्तः कृत्यं चैतदुपागतम्॥२॥

ततः परमसंहृष्टो हनुमान् प्लवगर्षभः।
प्रत्युवाच ततो वाक्यं रामं वाक्यविशारदः॥३॥

किमर्थं च वनं दुर्गे पम्पाकाननमण्डितम्।
आगतः सानुजो घोरं नानाव्यालमृगायुतम् ॥४॥

तस्य तद्वचनं श्रुत्वा लक्ष्मणो रामचोदितः।
आचचक्षे महात्मानं रामं दशरथात्मजम्॥५॥

राजा दशरथो नाम द्युतिमान् धर्मवत्सलः।
चातुर्वर्ण्यं स्वधर्मेण नित्यमेवाभ्यपालयत्॥६॥

न द्वेष्टा विद्यते तस्य न च स द्वेष्टि कञ्चन।
स च सर्वेषु भूतेषु पितामह इवापरः ॥७॥

अग्निष्टोमादिभिर्यज्ञैरिष्टवानाप्तदक्षिणैः॥७॥

तस्यायं पूर्वजः पुत्रो रामों नाम जनैः श्रुतः।
शरण्यः सर्वभूतानां पितुर्निर्देशपारगः॥८॥

वीरो दशरथस्यायं पुत्राणां गुणवत्तमः।
राजलक्षणसम्पन्नः संयुक्तो राजसम्पदा॥९॥

राज्याद्भ्रष्टो वने वस्तुं मया सार्धमिहागतः।
भार्यया च महातेजाः सीतयानुगतो वशी ॥
दिनक्षये महातेजाः प्रभयेव दिवाकरः॥१०॥

अहमस्यावरो भ्राता गुणैर्दास्यप्नुपागतः।
कृतज्ञस्य बहुज्ञस्य लक्ष्मणो नाम नामतः॥११॥

सुखार्हस्य महार्हस्य सर्वभूतहितात्मनः।
ऐश्वर्येण च हीनस्य वनवासाश्रितस्य च॥१२॥

रक्षसाऽपहृता भार्या रहिते कामरूपिणा।
तच्च न ज्ञायते रक्षः पत्नी येनास्य सा हता॥१३॥

दनुर्नाम दितेः पुत्रः शापाद्राक्षसतां गतः।
आख्यातस्तेन सुग्रीवः समर्थो वानराधिपः॥१४॥

स ज्ञास्यति महावीर्यस्तव भार्यापहारिणम्।
एवमुक्त्वा दनुः स्वर्ग भ्राजमानो गतः सुखम् ॥१५॥

एतत्ते सर्वमाख्यातं याथातथ्येन पृच्छतः॥१६॥

अहं चैव हि रामश्च सुग्रीवं शरणं गतौ॥१७॥

एष दत्त्वाच वित्तानि प्राप्य चानुत्तमं यशः।
लोकनाथः पुरा भूत्वा सुग्रीवं नाथमिच्छति ॥१८॥

पिता यस्य पुरा ह्यासीच्छरण्यो धर्मवत्सलः।
तस्य पुत्रः शरण्यः सन् सुग्रीवं शरणं गतः॥१९॥

सर्वलोकस्य धर्मात्मा शरण्यः शरणं पुरा।
गुरुर्मेराघवः सोऽयं सुग्रीवं शरणं गतः॥२०॥

यस्य प्रसादे सततं प्रसीदेयुरिमाः प्रजाः।
स रामो वानरेन्द्रस्य प्रसादमभिकाङ्क्षते॥२१॥

येन सर्वगुणोपेताः पृथिव्यां सर्वपार्थिवाः।
मानिताः सततं राज्ञा सदा दशरथेन वै॥२२॥

तस्यायं पूर्वजः पुत्रस्त्रिषु लोकेषु विश्रुतः।
सुग्रीवं वानरेन्द्रं तु रामः शरणमागतः॥२३॥

शोकाभिभूते रामे तु शोकार्ते शरणं गते।
कर्तुमर्हति सुग्रीवः प्रसादं हरियूथपः॥२४॥

एवं ब्रुवाणं सौमित्रिं करुणं साश्रुपातनम्।
हनुमान् प्रत्युवाचेदं वाक्यं वाक्यविशारदः॥२५॥

ईदृशा बुद्धिसम्पन्ना जितक्रोधा जितेन्द्रियाः।
द्रष्टव्या वानरेन्द्रेण दिष्ट्या दर्शनमागताः॥२६॥

इत्येवमुक्त्वा हनुमाञ्श्लक्ष्णं मधुरया गिरा।
बभाषे सोऽभिगच्छेम सुग्रीवमिति राघवम्॥२७॥

स हि राज्यात्परिभ्रष्टः कृतवैरश्चवालिना।
हृतदारो बने त्यक्तो भ्रात्रा विनिकृतो भृशम्॥२८॥

करिष्यति स साहाय्यं युवयोर्भास्करात्मजः।
सुग्रीवः सह चास्माभिः सीतायाः परिमार्गणे ॥ २९ ॥

एवं ब्रुवाणं धर्मात्मा हनुमन्तं स लक्ष्मणः।
प्रतिपूज्य यथान्यायमिदं प्रोवाच राघवम्॥३०॥

कपिः कथयते हृष्टो यथाऽयं मारुतात्मजः।
कृत्यवान् सोऽपि संप्राप्तः कृतकृत्योऽसि राघव ॥ ३१ ॥

प्रसन्नमुखवर्णश्च व्यक्तं हृष्टश्चभाषते।
नानृतं वक्ष्यते वीरो हनुमान् मारुतात्मजः॥३२॥

ततः स तु महाप्राज्ञो हनुमान् मारुतात्मजः।
जगामादाय तौ वीरौ हरिराजाय राघवौ॥३३॥

भिक्षुरूपं परित्यज्य वानरं रूपमास्थितः।
पृष्ठमारोप्य तौ वीरौ जगाम कपिकुञ्जरः॥३४॥

स तु विपुलयशाः कपिप्रवीरः
पवनसुतः कृतकृत्यवान् प्रहृष्टः।
गिरिवरमुरुविक्रमः प्रयातः
स शुभमतिः सह रामलक्ष्मणाभ्याम् ॥ ३५ ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये
किष्किन्धाकाण्डे चतुर्थः सर्गः॥

आदितः श्लोकाः 9506
किष्किन्धाकाण्डे आदितः श्लोकाः 254

<MISSING_FIG href="../books_images/U-IMG-1707885031Screenshot2024-02-13121118.png"/>

पञ्चमः सर्गः ॥५॥

श्रीरामसुग्रीवसख्यम् ॥

ऋश्यमूकात्तु हनुमान् गत्वा तु मलयं गिरिम्।
आचचक्षे तदा वीरौ हरिराजाय राघवौ॥१॥

अयं रामो महाप्राज्ञः संप्राप्तो दृढविक्रमः।
लक्ष्मणेन सह भ्रात्रा रामोऽयं सत्यविक्रमः॥२॥

इक्ष्वाकूणां कुले जातो रामो दशरथात्मजः।
धर्मे निगदितश्चैव पितुर्निर्देशपारगः॥३॥

तस्यास्य वसतोऽरण्ये नियतस्य महात्मनः।
रावणेन हृता भार्या स त्वां शरणमागतः॥४॥

राजम्याश्वमेधैश्च वह्निर्येनाभितर्पितः।
दक्षिणाश्चतथोत्सृष्टा गावः शतसहस्रशः॥५॥

तपसा सत्यवाक्येन वसुधा येन पालिता।
स्त्रीहेतोस्तस्य पुत्रोऽयं रामस्त्वां शरणं गतः॥६॥

भवता सख्यकामौ तौ भ्रातरौ रामलक्ष्मणौ।
प्रतिगृह्यार्चियस्वैतौपूजनीयतमावुभौ॥७॥

श्रुत्वा हनुमतो वाक्यं सुग्रीवो हृष्टमानसः।
भयं च राघवाद्धोरं प्रजहौ विगतज्वरः॥८॥

स कृत्वा मानुषं रूपं सुग्रीवः प्लवगाधिपः।
दर्शनीयतमो भूत्वा प्रीत्या प्रोवाच राघवम्॥९॥

भवान् धर्मविनीतश्च विक्रान्तः सर्ववत्सलः।
आख्याता वायुपुत्रेण तत्त्वतो मे भवद्गुणाः ॥१०॥

तन्ममैवैष सत्कारो लाभश्चैवोत्तमः प्रभो।
यत्त्वमिच्छसि सौहार्दं वानरेण मया सह॥११॥

रोचते यदि वा सख्यं बाहुरेष प्रसारितः।
गृह्यतां पाणिना पाणिर्मर्यादा बध्यतां ध्रुवा॥१२॥

एतत्तु वचनं श्रुत्वा सुग्रीवेण सुभाषितम्।
संग्रहृष्टमना हस्तं पीडयामास पाणिना॥१३॥

हृद्यं सौहदमालम्ब्य पर्यष्वजत पीडितम्॥१४॥

ततो हनूमान् संत्यज्य भिक्षुरूपमरिन्दमः।
काष्ठयोः स्वेन रूपेण जनयामास पावकम्॥१५॥

दीप्यमानं ततो वह्निं पुष्पैरभ्यर्च्य पूजितम्।
तयोर्मध्येऽथ सुप्रीतो निदधे सुसमाहितः॥१६॥

ततोऽग्निं दीप्यमानं तौ चक्रतुश्च प्रदक्षिणम्।
सुग्रीवो राघवश्चैव वयस्यत्वमुपागतौ॥१७॥

ततः सुप्रीतमनसौ तावुभौ हरिराघवौ।
अन्योन्यमभिवीक्षन्तौ न तृप्तिमुपजग्मतुः॥१८॥

त्वं वयस्योऽसि हृद्यो मे ह्येकं दुःखं सुखं च नौ।
सुग्रीवो राघवश्चैवमूचतुस्तौ प्रहृष्टवत् ॥१९॥

ततः सुपर्णबहुलां भङ्क्त्वा शाखां सुपुष्पिताम्।
सालस्यास्तीर्य सुग्रीवो निषसाद सराघवः ॥२०॥

लक्ष्मणायाथ संहृष्टो हनुमान् प्लवगर्षभः।
शाखां चन्दनवृक्षस्य ददौ परमपुष्पिताम्॥२१॥

ततः प्रहृष्टः सुग्रीवः श्लक्ष्णं मधुरया गिरा।
प्रत्युवाच तदा रामं हर्षव्याकुललोचनः॥२२॥

अहं विनिकृतो राम चरामीह भयार्दितः।
हृतभार्यो वने त्रस्तो दुर्गमेतदुपाश्रितः॥२३॥

सोऽहं त्रस्तो बने भीतो वसाम्युद्भ्रान्तचेतनः।
वालिना निकृतो भ्रात्रा कृतवैरश्च राघव॥२४॥

वालिनो मे महाभाग भयार्तस्याभयं कुरु।
कर्तुमर्हसि काकुत्स्थ भयं मे न भवेद्यथा॥२५॥

एवमुक्तस्तु तेजस्वी धर्मज्ञो धर्मवत्सलः।
प्रत्यभाषत काकुत्स्थः सुग्रीवं प्रहसन्निव॥२६॥

उपकारफलं मित्रं विदितं मे महाकपे।
वालिनं तं वधिष्यामि तव भार्यापहारिणम्॥२७॥

अमोघाः सूर्यसङ्काशा ममैते निशिताः शराः।
तस्मिन् वालिनि दुर्वृत्ते निपतिष्यन्ति वेगिताः ॥२८॥

कङ्कपत्रप्रतिच्छन्ना महेन्द्राशनिसन्निभाः।
तीक्ष्णाग्रा ऋजुपर्वाणः सरोषा भुजगा इव॥ २९ ॥

तमद्य वालिनं पश्य क्रूरैराशींविषोपमैः।
शरैर्विनिहतं भूमौ विकीर्णमिव पर्वतम्॥३०॥

स तु तद्वचनं श्रुत्वा राघवस्यात्मनो हितम्।
सुग्रीवः परमप्रीतः सुमहद्वाक्यमब्रवीत्॥३१॥

तव प्रसादेन नृसिंह राघव
प्रियां च राज्यं च समाप्नुयामहम्।
तथा कुरु त्वं नरदेव वैरिणं
यथा निहंस्यद्य रिपुं ममाग्रजम् ॥ ३२ ॥

सीताकपीन्द्रक्षणदाचराणां
राजीवहेमज्वलनोपमानि।
सुग्रीवरामप्रणयप्रसङ्गे
वामानि नेत्राणि समं स्फुरन्ति ॥ ३३ ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये
किष्किन्धाकाण्डे पञ्चमः सर्गः ॥

आदितः श्लोकाः 9539
किष्किन्धाकाण्डे आदितः श्लोकाः 287

<MISSING_FIG href="../books_images/U-IMG-1707886199Screenshot2024-02-13121118.png"/>

षष्ठः सर्गः ॥ ६॥

सीताभरणदर्शनेन श्रीरामस्य परिदेवनम् ॥

पुनरेवाब्रवीप्रीतो राघवं रघुनन्दनम्॥१॥

अयमाख्याति मे राम सचिवो मन्त्रिसत्तमः।
हनुमान्यन्निमित्तं त्वं निर्जनं वनमागतः॥२॥

लक्ष्मणेन सह भ्रात्रा वसतश्च वने तव।
रक्षसाऽपहृता भार्या मैथिली जनकात्मजा॥३॥

त्वया वियुक्ता रुदती लक्ष्मणेन च धीमता।
अन्तरप्रेप्सुना तेन हत्वा गृध्रंजटायुषम्॥४॥

भार्यावियोगजं दुःखमचिरात्वं विमोक्ष्यसे।
अहं तामानयिष्यामि नष्टां वेदश्रुतीमिव॥५॥

रसातले वा वर्तन्तींवर्तन्तीं वा नभःस्थले।
अहमानीय दास्यामि तव भार्यामरिन्दम॥६॥

इदं तथ्यं मम वचस्त्वमवेहि च राघव।
न शक्या सा जरयितुमपि सेन्द्रैः सुरासुरैः॥७॥

तव भार्या महाबाहो भक्ष्यं विषकृतं यथा॥८॥

त्यज शोकं महाबाहो तां कान्तामानयामि ते।
अनुमानात्तु जानामि मैथिली सा न संशयः॥९॥

ह्रियमाणा मया दृष्टा रक्षसा क्रूरकर्मणा।
क्रोशन्ती राम रामेति लक्ष्मणेति च विस्वरम् ॥

स्फुरन्ती रावणस्याङ्के पन्नगेन्द्रवधूर्यथा॥१०॥

आत्मना पञ्चमं मां हि दृष्ट्वा शैलतटे स्थितम्।
उत्तरीयं तथा त्यक्तं शुभान्याभरणानि च॥११॥

तान्यस्माभिर्गृहीतानि निहितानि च राघव।
आनयिष्याम्यहं तानि प्रत्यभिज्ञातुमर्हसि॥१२॥

तमब्रवीत्ततो रामः सुग्रीवं प्रियवादिनम्।
आनयस्व सखे शीघ्रं किमर्थं त्वं विलम्बसे ॥१३॥

एवमुक्तस्तु सुग्रीवः शैलस्य गहनां गुहाम्।
प्रविवेश ततः शीघ्रं राघवप्रियकाम्यया॥१४॥

उत्तरीयं गृहीत्वा तु स तान्याभरणानि च।
इदं पश्येति रामाय दर्शयामास वानरः॥१५॥

ततो गृहीत्वा तद्वासः शुभान्याभरणानि च।
अभवद्वाष्पसंरुद्धो नीहारेणेव चन्द्रमाः॥१६॥

सीतास्नेहप्रवृत्तेन स तु बाष्पेण दूषितः।
हा प्रियेति रुदन्धैर्यमुत्सृज्य न्यपतत् क्षितौ॥१७॥

हृदि कृत्वा तु बहुशस्तमलङ्कारमुत्तमम्।
निशश्वास भृशं सर्पो बिलस्थ इव रोषितः॥१८॥

अविच्छिन्नाश्रुवेगस्तु सौमित्रिं वीक्ष्य पार्श्वतः।
परिदेवयितुं दीनं रामः समुपचक्रमे॥१९॥

पश्य लक्ष्मण वैदेह्या संत्यक्तं ह्रियमाणया।
उत्तरीयमिदं भूमौ शरीराद्भूषणानि च॥२०॥

शाद्वलिन्यां ध्रुवं भूम्यां सीतया ह्रियमाणया।
उत्सृष्टं भूषणमिदं तथारूपं हि दृश्यते॥२१॥

एवमुक्तस्तु रामेण लक्ष्मणो वाक्यमब्रवीत।
नाहं जानामि केयूरे नाहं जानामि कुण्डले ॥
नूपुरे त्वभिजानामि नित्यं पादाभिवन्दनात् ॥२२॥

ततः स राघवो दीनः सुग्रीवमिदमब्रवीत्॥२३॥

ब्रूहि सुग्रीव कं देशं ह्रियन्ती लक्षिता त्वया।
रक्षसा रौद्ररूपेण मम प्राणप्रिया हृता॥२४॥

क्व वा वसति तद्रक्षो महद्वयसनदं मम।
यन्निमित्तमहं सर्वान्नाशयिष्यामि राक्षसान्॥२५॥

हरता मैथिलीं येन मां च रोषयता भृशम्।
आत्मनो जीवितान्ताय मृत्युद्वारमपावृतम्॥२६॥

मम दयिततरा हृता वनान्ता-
द्रज़निचरेण विमथ्य येन सा।
कथय मम रिपुं त्वमद्य वै
प्लवगपते यमसादनं नयामि॥२७॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये
किष्किन्धाकाण्डे षष्ठः सर्गः॥

आदितः श्लोकाः 9566
किष्किन्धाकाण्डे आदितः श्लोकाः 314

<MISSING_FIG href="../books_images/U-IMG-1707887212Screenshot2024-02-13121118.png"/>

सप्तमः सर्गः ॥७॥

सुग्रीवेण श्रीरामसमाश्वासनम् ॥

एवमुक्तस्तु सुग्रीवो रामेणार्तेन वानरः।
अब्रवीत्प्राञ्जलिर्वाक्यं सबाष्पं बाष्पगद्गदम्॥१॥

न जाने निलयं तस्य सर्वथा पापरक्षसः।
सामर्थ्य विक्रमं वाऽपि दौष्कुलेयस्य वा कुलम् ॥२॥

सत्यं ते प्रतिजानामि त्यज शोकमरिन्दम।
करिष्यामि तथा यत्नं यथा प्राप्स्यसि मैथिलीम् ॥ ३ ॥

रावणं सगणं हत्वा परितोष्यात्मपौरुषम्।
तथाऽस्मि कर्ता न चिराद्यथा प्रीतो भविष्यसि॥४॥

अलं वैक्लब्यमालम्ब्य धैर्यमात्मगतं स्मर।
त्वद्विधानामसदृशमीदृशं बुद्धिलाघवम्॥५॥

मयाऽपि व्यसनं प्राप्तं भार्याहरणजं महत्।
न चाहमेवं शोचामि न च धैर्यं परित्यजे॥६॥

नाहं तामनुशोचामि प्राकृतो वानरोऽपि सन्।
महात्मा च विनीतश्च किं पुनर्घृतिमान्भवान् ॥७॥

बाष्पमापतितं धैर्यान्निग्रहीतुं त्वमर्हसि।
मर्यादां सत्वयुक्तानां धृतिं नोत्सृष्टुमर्हसि॥८॥

व्यसने वाऽर्थकृच्छ्रे वा भये वा जीवितान्तके।
विमृशन्वैस्वया बुद्धया धृतिमान्नावसीदति॥९॥

बालिशस्तु नरो नित्यं वैक्लब्यंयोऽनुवर्तते।
स मज्जत्यवशः शोके भाराक्रान्तेव नौर्जले ॥१०॥

एषोऽञ्जलिर्मया बद्धः प्रणयात्त्वां प्रसादये।
पौरुषं श्रय शोकस्य नान्तरं दातुमर्हसि॥११॥

ये शोकमनुवर्तन्ते न तेषां विद्यते सुखम्।
तेजश्च क्षीयते तेषां न त्वं शोचितुमर्हसि॥१२॥

शोकेनाभिप्रपन्नस्य जीविते चापि संशयः।
स शोकं त्यज राजेन्द्र धैर्यमाश्रय केवलम्॥१३॥

हितं वयस्यभावेन ब्रूमि नोपदिशामि ते।
वयस्यतां पूजयन्मे न त्वं शोचितुमर्हसि॥१४॥

मधुरं सान्त्वितस्तेन सुग्रीवेण स राघवः।
मुखमश्रुपरिक्लिन्नं वस्त्रान्तेन ममार्ज तत्॥१५॥

प्रकृतिस्थस्तु काकुत्स्थः सुग्रीववचनात्प्रभुः।
संपरिष्वज्य सुग्रीवमिदं वचनमब्रवीत्॥१६॥

कर्तव्यं यद्वयस्येन स्निग्धेन च हितेन च।
अनुरूपं च युक्तं च कृतं सुग्रीव तत्त्वया॥१७॥

एष च प्रकृतिस्थोऽहमनुनीतस्त्वया सखे।
दुर्लभो हीदृशो बन्धुरस्मिन्काले विशेषतः॥१८॥

किंतु यत्नस्त्वया कार्यो मैथिल्याः परिमार्गणे।
राक्षसस्य च रौद्रस्य रावणस्य दुरात्मनः॥१९॥

मया च यदनुष्ठेयं विस्रब्धेन तदुच्यताम्।
वर्षास्विव च सुक्षेत्रे सर्वं संपद्यते तव॥२०॥

मया च यदिदं वाक्यमभिमानात्समीरितम्।
तत्त्वया हरिशार्दूल तत्त्वमित्युपधार्यताम्॥२१॥

अनृतं नोक्तपूर्वे मे न च वक्ष्ये कदाचन।
एतत्ते प्रतिजानामि सत्येनैव शपामि ते॥२२॥

ततः प्रहृष्टः सुग्रीवो वानरैः सचिवैः सह।
राघवस्य वचः श्रुत्वा प्रतिज्ञातं विशेषतः॥२३॥

एवमेकान्तसंपृक्तौ ततस्तौ नरवानरौ।
उभावन्योन्यसदृशं सुखं दुःखं प्रभाषताम्॥२४॥

महानुभावस्य वचो निशम्य
हरिर्नराणामृषभस्य तस्य।
कृतं स मेने हरिवीरमुख्य-
स्तदा स्वकार्यं हृदयेन विद्वान्॥२५॥

इत्यार्षे श्रीमद्रामायणे बाल्मीकीये आदिकाव्ये
किष्किन्धाकाण्डे सप्तमः सर्गः ॥

आदितः श्लोकाः9591
किष्किन्धाकाण्डे आदितः श्लोकाः 339

<MISSING_FIG href="../books_images/U-IMG-1707888635Screenshot2024-02-13142116.png"/>

अष्टमः सर्गः ॥८॥

वालिवर्धप्रतिज्ञा ॥

परितुष्टस्तु सुग्रीवस्तेन वाक्येन वानरः।
लक्ष्मणस्याग्रतो राममिदं वचनमब्रवीत्॥१॥

सर्वथाहमनुग्राह्यो देवतानामसंशयः।
उपपन्नगुणोपेतः सखा यस्य भवान्मम॥२॥

शक्यं खलु भवेद्राम सहायेन त्वयाऽनघ।
सुरराज्यमपि प्राप्तं स्वराज्यं किं पुनः प्रभो॥३॥

सोऽहं सभाज्यो बन्धूनां सुहृदां चैव राघव।
यस्याग्निसाक्षिकं मित्रं लब्धं राघववंशजम्॥४॥

अहमप्यनुरूपस्ते वयस्यो ज्ञास्यसे शनैः।
न तु वक्तुं समर्थोऽहं स्वयमात्मगतान् गुणान् ॥५॥

महात्मनां तु भूयिष्ठं त्वद्विधानां कृतात्मनाम्।
निश्चला भवति प्रीतिर्धैर्यमात्मवतामिव॥६॥

रजतं वा सुवर्णं वा वस्त्राण्याभरणानि च।
अविभक्तानि साधूनामवगच्छन्ति साधवः॥७॥

आढ्यो वापि दरिद्रो वा दुःखितः सुखितोऽपि वा।
निर्दोषो वा सदोषो वा वयस्यः परमा गतिः॥८॥

धनत्यागः सुखत्यागो देहत्यागोऽपि वा पुनः।
वयस्यार्थे प्रवर्तन्ते स्नेहं दृष्ट्वा तथाविधम्॥९॥

तत्तथेत्यब्रवीद्रामः सुग्रीवं प्रियवादिनम्।
लक्ष्मणस्याग्रतो लक्ष्म्या वासवस्येव धीमतः ॥१०॥

ततो रामं स्थितं दृष्ट्वालक्ष्मणं च महाबलम्।
सुग्रीवः सर्वतश्चक्षुर्वने लोलमपातयत्॥११॥

स ददर्श ततः सालमविदूरे हरीश्वरः।
सुपुष्पमीषत्पत्राढ्यं भ्रमरैरुपशोभितम्॥१२॥

तस्यैकां पर्णबहुलां भङ्क्त्वा शाखां सुपुष्पिताम्।
सालस्यास्तीर्य सुग्रीवो निषसाद सराघवः॥१३॥

तावासीनौ ततो दृष्ट्वा हनूमानपि लक्ष्मणम्।
सालशाखां समुत्पाठ्य विनीतमुपवेशयत्॥१४॥

सुखोपविष्टं रामं तु प्रसन्नमुधिं यथा।
फलपुष्पसमाकीर्णे तस्मिन् गिरिवरोत्तमे॥१५॥

ततः प्रहृष्टः सुग्रीवः श्लक्ष्णया शुभया गिरा।
उवाच प्रणयाद्रामं हर्षव्याकुलिताक्षरम्॥१६॥

अहं विनिकृतो भ्रात्रा चराम्येष भयार्दितः।
ऋश्यमूकं गिरिवरं हृतभार्यः सुदुःखितः॥१७॥

सोऽहं त्रस्तो भये मग्नो वसाम्युद्भ्रान्तचेतनः।
वालिना निकृतो भ्रात्रा कृतवैरश्च राघव॥१८॥

वालिनो मे भयार्तस्य सर्वलोकाभयङ्कर।
ममापि त्वमनाथस्य प्रसादं कर्तुमर्हसि॥१९॥

एवमुक्तस्तु तेजस्वी धर्मज्ञो धर्मवत्सलः।
प्रत्युवाच स काकुत्स्थः सुग्रीवं प्रहसन्निव ॥२०॥

उपकारफलं मित्रमपकारोऽरिलक्षणम्।
अद्यैव तं हनिष्यामि तव भार्यापहारिणम्॥२१॥

इमे हि मे महाभाग पत्निणस्तिग्मतेजसः।
कार्तिकेयवनोद्भूताः शरा हेमविभूषिताः॥२२॥

कङ्कपत्रप्रतिच्छन्ना महेन्द्राश निसन्निभाः।
सुपर्वाणः सुतीक्ष्णाग्राः सरोषा भुजगा इव ॥२३॥

भ्रातृसंज्ञममित्रं ते वालिनं कृतकिल्बिषम्।
शरैर्विनिहतं पश्य विकीर्णमिव पर्वतम्॥२४॥

राघवस्य वचः श्रुत्वा सुग्रीवो वाहिनीपतिः।
महर्षमतुलं लेभे साधु साध्विति चाब्रवीत्॥२५॥

राम शोकाभिभूतोऽहं शोकार्तानां भवान् गतिः।
वयस्य इति कृत्वा हि त्वय्यहं परिदेवये॥२६॥

त्वं हि पाणिप्रदानेन वयस्यो मेऽग्निसाक्षिकम्।
कृतः प्राणैर्बहुमतः सत्येनापि शपाम्यहम्॥२७॥

वयस्य इति कृत्वा च विस्रब्धः प्रवदाम्यहम्।
दुःखमन्तर्गतं यन्मे मनो दहति नित्यशः॥२८॥

एतावदुक्त्वा वचनं बाष्पदूषितलोचनः।
बाष्पोपहतया वाचा नोच्चैः शक्नोति भाषितुम् ॥२९॥

बाष्पवेगं तु सहसा नदीवेगमिवागतम्।
धारयामास धैर्येण सुग्रीवो रामसन्निधौ॥३०॥

संनिगृह्य तु तं बाष्पं प्रमृज्य नयने शुभे।
विनिश्वस्य च तेजस्वी राघवं पुनरब्रवीत् ॥३१॥

पुराऽहं वालिना राम राज्यात्स्वादवरोपितः।
परुषाणि च संश्राव्य निर्धूतोऽस्मि बलीयसा ॥३२॥

हृता भार्या च मे तेन प्राणेभ्योऽपि गरीयसी।
सुहृदश्व मदीया ये संयता बन्धनेषु ते॥३३॥

यत्नवांश्च सुदुष्टात्मा मद्विनाशाय राघव।
बहुशस्तत्प्रयुक्ताश्च वानरा निहता मया॥३४॥

शङ्कया त्वेतया चेह दृष्ट्वा त्वामपि राघव।
नोपसर्पाम्यहं भीतो भये सर्वे हि बिभ्यति॥३५॥

केवलं हि सहाया मे हनुमत्प्रमुखास्त्विमे।
अतोऽहं धारयाम्यद्य प्राणान्कृच्छ्रगतोऽपि सन् ॥३६॥

एते हि कपयः स्निग्धा मां रक्षन्ति समन्ततः।
सह गच्छन्ति गन्तव्ये नित्यं तिष्ठन्ति च स्थिते ॥३७॥

संक्षेपस्त्वेष मे राम किमुक्त्वा विस्तरं हि ते।
स मे ज्येष्ठो रिपुर्भ्राता वाली विश्रुतपौरुषः ॥३८॥

तद्विनाशाद्धि मे दुःखं मनष्टं स्यादनन्तकम्।
सुखं मे जीवितं चैव तद्विनाशनिबन्धनम्॥३९॥

एष मे राम शोकान्तः शोकार्तेन निवेदितः।
दुःखितोऽदुःखितो वाऽपि सख्युर्नित्यं सखा गतिः॥४०॥

श्रुत्वैतच्चवचो रामः सुग्रीवमिदमब्रवीत्।
किंनिमित्तमभूद्वैरं श्रोतुमिच्छामि तत्त्वतः॥४१॥

सुखं हि कारणं श्रुत्वा वैरस्य तव वानर।
आनन्तर्य विधास्यामि संप्रधार्य बलाबलम्॥४२॥

बलवान्हि ममामर्षः श्रुत्वा त्वामवमानितम्।
वर्धते हृदयोत्कम्पी प्रावृड्वेग इवाम्भसः॥४३॥

हृष्टः कथय विस्रब्धों यावदारोप्यते धनुः।
सृष्टश्च हि मया बाणो निरस्तश्च रिपुस्तव॥४४॥

एवमुक्तस्तु सुग्रीवः काकुत्स्थेन महात्मना।
प्रहर्षमतुलं लेभे चतुर्भिः सह वानरैः॥४५॥

ततः प्रहृष्टवदनः सुग्रीवो लक्ष्मणाग्रजे।
वैरस्य कारणं तत्त्वमाख्यातुमुपचक्रमे॥४६॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये
किष्किन्धाकाण्डे अष्टमः सर्गः ॥

आदितः श्लोकाः 9637
किष्किन्धाकाण्डे आदितः श्लोकाः 385

इति पुरा कुशलवाभ्यां श्रीरामसन्निधावश्वमेधयज्ञवाटे गीते
श्रीमद्रामायणे त्रयोदशेऽह्नि वर्तमानकथाप्रसङ्गः

<MISSING_FIG href="../books_images/U-IMG-1707891563Screenshot2024-02-13142116.png"/>

[पुरा कुशलवाभ्यां श्रीरामसन्निधौ अश्वमेधयज्ञवाटे
चतुर्दशेऽह्नि किष्किन्धाकाण्डे नवमसर्गादारभ्य
एकोनत्रिंशसर्ग पर्यन्तं (9638 –10513 श्लोकाः)
गीतम्। तस्मिन् दिने गीताः श्लोकाः 876.]

नवमः सर्गः ॥९॥

वैरकारणकथनम् ॥

श्रूयतां राम यद्वृत्तमादितः प्रभृति त्वया।
यथा वैरं समुद्भूतं यथा चाहं निराकृतः॥१॥

वाली नाम मम भ्राता ज्येष्ठः शत्रुनिषूदनः।
पितुर्बहुमतो नित्यं मम चापि तथा पुरा॥२॥

पितर्युपरतेऽस्माकं ज्येष्ठोऽयमिति मन्त्रिभिः।
कपीनामीश्वरो राज्ये कृतः परमसंमतः॥३॥

राज्यं प्रशासतस्तस्य पितृपैतामहं महत्।
अहं सर्वेषु कालेषु प्रणतः प्रेष्यवस्थितः॥४॥

मायावी नाम तेजस्वी पूर्वजो दुन्दुभेः सुतः।
तेन तस्य महद्वैरं स्त्रीकृतं विश्रुतं पुरा॥५॥

स तु सुप्तजने रात्रौ किष्किन्धाद्वारमागतः।
नर्दति स्म सुसंरब्धो वालिनं चाह्वयद्रणे॥६॥

प्रसुप्तस्तु मम भ्राता नर्दितं भैरवस्वनम्।
श्रुत्वा न ममृषे वाली निष्पपात जवात्तदा॥७॥

स तु वै निःसृतः क्रोधात्तं हन्तुमसुरोत्तमम्।
वार्यमाणस्ततः स्त्रीभिर्मया च प्रणतात्मना॥८॥

स तु निर्धूय सर्वान्नो निर्जगाम महाबलः।
ततोऽहमपि सौहार्दानिःसृतो वालिना सह॥९॥

स तु मे भ्रातरं दृष्ट्वा मां च दूरादवस्थितम्।
असुरो जातसंत्रासः प्रदुद्राव ततो भृशम्॥१०॥

तस्मिन्द्रवति सन्त्रस्ते ह्यावां द्रुततरं गतौ।
प्रकाशो हि कृतो मार्गचन्द्रेणोद्गच्छता तदा ॥११॥

स तृणैरावृतं दुर्ग धरण्या विवरं महत्।
प्रविवेशासुरो वेगादावामासाद्य विष्ठितौ॥१२॥

तं भविष्टं रिपुं दृष्ट्वा बिलं रोषवशं गतः।
मामुवाच तदा वाली वचनं क्षुभितेन्द्रियः॥१३॥

इह तिष्ठाद्य सुग्रीव बिलद्वारि समाहितः।
यावदत्र प्रविश्याहं निहन्मि समरे रिपुम्॥१४॥

मया त्वेतद्वचः श्रुत्वा याचितः स परन्तपः।
शापयित्वा तु मां पद्भ्यां प्रविवेश बिलं ततः ॥१५॥

तस्य प्रविष्टस्य बिलं साग्रः संवत्सरो गतः।
स्थितस्य च मम द्वारि स कालो व्यत्यवर्तत ॥१६॥

अहं तु नष्टं तं ज्ञात्वा स्नेहादागतसंभ्रमः।
भ्रातरं हि न पश्यामि पापाशङ्कि च मे मनः ॥१७॥

अथ दीर्घस्य कालस्य बिलात्तस्माद्विनिःसृतम्।
सफेनं रुधिरं रक्तमहं दृष्ट्वा सुदुःखितः॥१८॥

नदेतामसुराणां च ध्वनिमें श्रोत्रमागतः।
निरस्तस्य च संग्रामे क्रोशतो निःस्वनो गुरोः ॥१९॥

अहं त्ववगतो बुद्धया चिह्नैस्तैर्भ्रातरं हतम्।
पिधाय च बिलद्वारं शिलया गिरिमात्रया ॥
शोकार्तश्वोदकं कृत्वा किष्किन्धामागतः सखे ॥२०॥

गूहमानस्य मे तत्त्वं यत्नतो मन्त्रिभिः श्रुतम्।
ततोऽहं तैः समागम्य संमतैरभिषेचितः॥२१॥

राज्यं प्रशासतस्तस्य न्यायतो मम राघव।
आजगाम रिपुं हत्वा दानवं स तु वानरः॥२२॥

अभिषिक्तं तु मां दृष्ट्वा वाली संरक्तलोचनः।
मदीयान् मन्त्रिणो बद्ध्वा परुषं वाक्यमब्रवीत् ॥२३॥

निग्रहे च समर्थस्य तं पापं प्रति राघव।
न प्रावर्तत मे बुद्धितर्गौरवयन्त्रिता॥२४॥

हत्वा शत्रुं स मे भ्राता प्रविवेश पुरं तदा।
मानयंस्तं महात्मानं यथावच्चाभ्यवादयम्॥२५॥

उक्ताश्चनाशिषस्तेन सन्तुष्टेनान्तरात्मना॥२६॥

नत्वा पादावहं तस्य मकुटेनास्पृशं प्रभो।
अपि वाली मम क्रोधान्नप्रसादं चकार सः ॥२७॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये
किष्किन्धाकाण्डे नवमः सर्गः ॥

आदितः श्लोकाः 9664
किष्किन्धाकाण्डे आदितः श्लोकाः 412

<MISSING_FIG href="../books_images/U-IMG-1707897694Screenshot2024-02-13142116.png"/>

दशमः सर्गः ॥१०॥

सुग्रीवस्य राज्यान्निर्वासनम् ॥

ततः क्रोधसमाविष्टं संरब्धं तमुपागतम्।
अहं प्रसादयांचक्रे भ्रातरं प्रियकाम्यया॥१॥

दिष्ट्याऽसि कुशली प्राप्तो निहतश्च त्वया रिपुः।
अनाथस्य हि मे नाथस्त्वमेकोऽनाथनन्दनः॥२॥

इदं बहुशलाकं ते पूर्णचन्द्रमिवोदितम्।
छत्रं सवालव्यजनं प्रतीच्छस्व मयोद्यतम्॥३॥

आर्तश्चाथ बिलद्वारि स्थितः संवत्सरं नृप।
दृष्ट्वाऽहं शोणितं द्वारि बिलाच्चापि समुत्थितम् ॥४॥

शोकसंरक्तनयनो भृशं व्याकुलितेन्द्रियः।
अपिघाय बिलद्वारं शैलशृङ्गेण तत्तथा ॥
तस्माद्देशादपाक्रम्य किष्किन्धां प्राविशं पुनः॥५॥

विषादात्त्विह मां दृष्ट्वा पौरैर्मन्त्रिभिरेव च।
अभिषिक्तो न कामेन तन्मे त्वं क्षन्तुमर्हसि ॥६॥

त्वमेव राजा मानार्हः सदा चाहं यथापुरम्।
राजभावनियोगोऽयं मया त्वद्विरहात्कृतः॥७॥

सामात्यपौरनगरं स्थितं निहतकण्टकम्।
न्यासभूतमिदं राज्यं तव निर्यातयाम्यहम्॥८॥

मा च रोषं कृथाः सौम्य मयि शत्रुनिबर्हण ॥९॥

याचे त्वां शिरसा राजन्मया बद्धोऽयमञ्जलिः ॥१०॥

बलादस्मि समागम्य मन्त्रिभिः पुरवासिभिः।
राजभावे नियुक्तोऽहं शून्यदेशजिगीषया॥११॥

स्निग्धमेवं ब्रुवाणं मां स तु निर्भर्त्स्य वानरः।
धिक्त्वामिति च मामुक्त्वा बहु तत्तदुवाच ह॥१२॥

प्रकृतीश्च समानीय मन्त्रिणश्चैव सम्मतान्।
मामाह सुहृदां मध्ये वाक्यं परमगर्हितम्॥१३॥

विदितं वो यथा रात्रौ मायावी स महासुरः।
मां समाह्वयत क्रूरो युद्धकाङ्क्षी सुदुर्मतिः॥१४॥

तस्य तद्भाषितं श्रुत्वा निःसृतोऽहं नृपालयात्।
अनुयातश्च मां तूर्णमयं भ्राता सुदारुणः॥१५॥

स तु दृष्ट्वैव मां रात्रौ सद्वितीयं महाबलः।
प्राद्रवद्भ्यसंत्रस्तो वीक्ष्यावां समनु॒द्रुतौ॥१६॥

अनुद्रुतश्च वेगेन प्रविवेश महाबिलम् ॥१७॥

तं प्रविष्टं विदित्वा तु सुघोरं सुमहद्बिलम्।
अयमुक्तोऽथ मे भ्राता मया तु क्रूरदर्शनः ॥१८॥

अहत्वा नास्ति मे शक्तिः प्रतिगन्तुमितः पुरीम्।
बिलद्वारि प्रतीक्षस्व यावदेनं निहन्म्यहम्॥१९॥

स्थितोऽयमिति मत्वा तु प्रविष्टोऽहं दुरासदम्।
तं मे मार्गयतस्तत्र गतः संवत्सरस्तदा॥२०॥

स तु दृष्टो मया शत्रुरनिर्वेदाद्भयावहः।
निहतश्च मया तत्र सोऽसुरो बन्धुभिः सह॥२१॥

तस्यैव च प्रवृत्तेन रुधिरौघेण तद्बिलम्।
पूर्णमासीद्दुराक्रामं स्तनतस्तस्य भूतले॥२२॥

सूदयित्वा तु तं शत्रुं बलिनं दुन्दुभेः सुतम्।
निष्क्रामन्नैव पश्यामि बिलस्य पिहितं मुखम् ॥२३॥

विक्रोशमानस्य तु मे सुग्रीवेति पुनः पुनः।
यतः प्रतिवचो नास्ति ततोऽहं भृशदुःखितः ॥२४॥

पादप्रहारैस्तु मया बहुभिः स विदारितः।
ततोऽहं तेन निष्क्रम्य यत्नात्पुनरुपागतः॥२५॥

तत्रानेनास्मि संरुद्धो राज्यं प्रार्थयताऽऽत्मनः।
सुग्रीवेण नृशंसेन विस्मृत्य भ्रातृसौहृदम्॥२६॥

एवमुक्त्वा तु मां तत्र वस्त्रेणैकेन वानरः।
तदा निर्वासयामास वाली विगतसाध्वसः ॥२७॥

तेनाहमपविद्धश्च हृतदारश्चराघव।
तद्भयाच्च मही कृत्स्ना क्रान्तेयं सवनार्णवा॥२८॥

ऋश्यमूकं गिरिवरं भार्याहरणदुःखितः।
प्रविष्टोऽस्मि दुराधर्ष वालिनः कारणान्तरे॥२९॥

एतत्ते सर्वमाख्यातं वैरानुकथनं महत्।
अनागसा मया प्राप्तं व्यसनं पश्य राघव॥३०॥

वालिनस्तु भयार्तस्य सर्वभूतभयापह।
कर्तुमर्हसि मे वीर प्रसादं तस्य निग्रहात्॥३१॥

एवमुक्तस्तु तेजस्वी धर्मज्ञो धर्मसंहितम्।
वचनं वक्तुमारेभे सुग्रीवं प्रहसन्निव॥ ३२ ॥

अमोघाः सूर्यसंकाशा ममैते निशिताः शराः।
तस्मिन्वालिनि दुर्वृत्ते निपतिष्यन्ति वेगिताः ॥३३॥

यावत्तं नहि पश्यामि तब भार्यापहारिणम्।
तावत्स जीवेत्पापात्मा वाली चारित्रदूषकः ॥३४॥

आत्मानमानात्पश्यामि मग्नस्त्वं शोकसागरे।
त्वामहं तारयिष्यामि सुखं प्राप्स्यसि पुष्कलम् ॥ ३५ ॥

तस्य तद्वचनं श्रुत्वा हर्षपौरुषवर्द्धनम्।
सुग्रीवः परमप्रीतः सुमहद्वाक्यमब्रवीत् ॥ ३६॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये
किष्किन्धाकाण्डे दशमः सर्गः॥

आदितः श्लोकाः 9700
किष्किन्धाकाण्डे आदितःश्लोकाः 448

<MISSING_FIG href="../books_images/U-IMG-1707890260Screenshot2024-02-13142116.png"/>

एकादशः सर्गः ॥११॥

वालिपराक्रमवर्णनम् ॥

रामस्य वचनं श्रुत्वा हर्षपौरुषवर्धनम्।
सुग्रीवः पूजयांचक्रे राघवं प्रशशंस च॥१॥

असंशयं प्रज्वलितैस्तीक्ष्णैर्मर्मातिगैः शरैः।
त्वं देहेः कुपितो लोकान्युगान्त इव भास्करः॥२॥

वालिनः पौरुषं यत्तद्यच्च वीर्यं धृतिश्च या।
तन्ममैकमनाः श्रुत्वा विधत्स्व यदनन्तरम्॥३॥

समुद्रात्पश्चिमात्पूर्वं दक्षिणादपि चोत्तरम्।
क्रामत्यनुदिते सूर्ये वाली व्यपगतक्लमः॥४॥

अग्राण्यारुह्य शैलानां शिखराणि महान्त्यपि।
ऊर्ध्वमुत्क्षिप्य तरसा प्रतिगृह्णाति वीर्यवान्॥५॥

बहवः सारवन्तश्च वनेषु विविधा द्रुमाः।
चालिना तरसा भग्ना बलं प्रथयताऽऽत्मनः॥६॥

महिषो दुन्दुभिर्नाम कैलासशिखरप्रभः।
बलं नागसहस्रस्य धारयामास वीर्यवान्॥७॥

स वीर्योत्सेकदुष्टात्मा वरदानाच्च मोहितः।
जगाम सुमहाकायः समुद्रं सरितां पतिम्॥८॥

ऊर्मिमन्तमतिक्रम्य सागरं रत्नसञ्चयम्।
मह्यं युद्धं प्रयच्छेति तमुवाच महार्णवम्॥९॥

ततः समुद्रो धर्मात्मा समुत्थाय महाबलः।
अब्रवीद्वचनं राजन्नसुरं कालचोदितम्॥१०॥

समर्थो नास्मि ते दातुं युद्धं युद्धविशारद।
श्रूयतां त्वभिधास्यामि यस्ते युद्धं प्रदास्यति ॥११॥

शैलराजो महारण्ये तपस्विशरणं परम्।
शङ्करश्वशुरो नाम्ना हिमवानिति विश्रुतः॥१२॥

गुहामस्रवणोपेतो बहुकन्दरनिर्झरः।
स समर्थस्तव प्रीतिमतुलां कर्तुमाहवे॥१३॥

तं भीत इति विज्ञाय समुद्रमसुरोत्तमः।
हिमवद्वनमागच्छच्छरथापादिव च्युतः॥१४॥

ततस्तस्य गिरे : श्वेता गजेन्द्रविपुलाः शिलाः।
चिक्षेप बहुधा भूमौ दुन्दुभिर्विननाद च॥१५॥

ततः श्वेताम्बुदाकारः सौम्यः प्रीतिकराकृतिः।
हिमवानब्रवीद्वाक्यं स्व एव शिखरे स्थितः॥१६॥

क्लेष्टुमर्हसि मां न त्वं दुन्दुभे धर्मवत्सल।
रणकर्मस्वकुशलस्तपस्वी शरणो ह्यहम्॥१७॥

तस्य तद्वचनं श्रुत्वा गिरिराजस्य धीमतः।
उवाच दुन्दुभिर्वाक्यं क्रोधात्संरक्तलोचनः॥१८॥

यदि युद्धेऽसमर्थस्त्वं मद्भयाद्वा निरुद्यमः।
तमाचक्ष्व प्रदद्यान्मे योऽद्य युद्धं युयुत्सतः॥१९॥

हिमवानब्रवीद्वाक्यं श्रुत्वा वाक्यविशारदः।
अनुक्तपूर्वं धर्मात्मा क्रोधात्तमसुरोत्तमम्॥२०॥

वाली नाम महाप्राज्ञः शक्रपुत्रः प्रतापवान्।
अध्यास्ते वानरः श्रीमान्किष्किन्धामतुलप्रभाम् ॥२१॥

स समर्थो महाप्राज्ञस्तव युद्धविशारदः।
द्वन्द्वयुद्धं महद्दातुं नमुचेरिव वासवः॥२२॥

तं शीघ्रमभिगच्छ त्वं यदि युद्धमिहेच्छसि।
स हि दुर्मर्षणो नित्यं शुरः समरकर्मणि ॥२३॥

श्रुत्वा हिमवतो वाक्यं क्रोधाविष्टः स दुन्दुभिः।
जगाम तां पुरीं तस्य किष्किन्धां वालिनस्तदा ॥२४॥

धारयन्माहिषं रूपं तीक्ष्णशृङ्गो भयावहः।
प्रावृषीव महामेघस्तोयपूर्णो नभस्तले॥२५॥

ततस्तद्द्वारमागम्य किष्किन्धाया महाबलः।
ननर्द कम्पयन्भूमिं दुन्दुभिर्दुन्दुभिर्यथा॥२६॥

समीपजान्द्रुमान्भञ्जन्वसुधां दारयन्खुरैः।
विषाणेनोल्लिखन्दर्पात्तद्द्वारं द्विरदो यथा॥२७॥

अन्तःपुरगतो वाली श्रुत्वा शब्दममर्षणः।
निष्पपात सह स्त्रीभिस्ताराभिरिव चन्द्रमाः॥२८॥

मितं व्यक्ताक्षरपदं तमुवाचाथ दुन्दुभिम्।
हरीणामीश्वरो वाली सर्वेषां वनचारिणाम्॥२९॥

किमर्थं नगरद्वारमिदं रुद्ध्वा विनर्दसि।
दुन्दुभे विदितो मेऽसि रक्ष प्राणान्महाबल ॥३०॥

तस्य तद्वचनं श्रुत्वा वानरेन्द्रस्य धीमतः।
उवाच दुन्दुभिर्वाक्यं क्रोधात्संरक्तलोचनः ॥३१॥

न त्वं स्त्रीसन्निधौ वीर वचनं वक्तुमर्हसि।
मम युद्धं प्रयच्छाद्य ततो ज्ञास्यामि ते बलम् ॥३२॥

अथवा धारयिष्यामि क्रोधमद्य निशामिमाम्।
गृह्यतामुदयः स्वैरं कामभोगेषु वानर॥३३॥

दीयतां संप्रदानं च परिष्वज्य च वानरान्।
सर्वशाखामृगेन्द्रस्त्वं संसादय सुहृज्जनान्॥३४॥

सुदृष्टां कुरु किष्किन्धां कुरुष्वात्मसमं पुरे।
क्रीडस्व च सह स्त्रीभिरहं ते दर्पनाशनः॥३५॥

यो हि मत्तं प्रमत्तं वा सुप्तं वा व्यथितं भृशम्।
हन्यात्स भ्रूणहा लोंके त्वद्विधं मदमोहितम् ॥३६॥

स प्रहस्याब्रवीन्मन्दं क्रोधात्तमसुरोत्तमम्।
विसृज्य ताः स्त्रियः सर्वास्ताराप्रभृतिकास्तदा ॥३७॥

मत्तोऽयमिति मा संस्था यद्यभीतोऽसि संयुगे।
मदोऽयं संप्रहारेऽस्मिन्बीरपानं समर्थ्यताम्॥३८॥

तमेवमुक्त्वा संक्रुद्धो मालामुत्क्षिप्य काञ्चनीम्।
पित्रा दत्तां महेन्द्रेण युद्धाय व्यवतिष्ठत॥३९॥

विषाणयोर्गृहीत्वा तं दुन्दुभींगिरिसन्निभम्।
आविध्यत तदा वाली विनदन् कपिकुञ्जरः ॥४०॥

वाली व्यापादयाञ्चक्रे ननर्द च महास्वनम् ॥४१॥

तयोस्तु क्रोधसंरम्भात्परस्परजयैषिणोः।
युद्धं समभवद् घोरं दुन्दुभेर्वानरस्य च॥४२॥

अयुध्यत तदा वाली शक्रतुल्यपराक्रमः।
मुष्टिभिर्जानुभिश्चैव शिलाभिः पादपैस्तथा॥४३॥

परस्परं घ्नतोस्तत्रवानरासुरयोस्तदा।
आसीद्दीनोऽसुरो युद्धे शक्रसूनुर्व्यवर्धत॥४४॥

व्यापारवीर्यधैर्यैश्च परिक्षीणं पराक्रमैः।
तं तु दुन्दुभिमुत्पाट्यधरण्यामभ्यपातयत्॥४५॥

युद्धे प्राणहरे तस्मिन्निष्पिष्टो दुन्दुभिस्तदा।
स्रोतोभ्यो बहु रक्तं तु तस्य सुस्राव पात्यतः॥
पपात च महाकायः क्षितौ पञ्चत्वमागतः॥४६॥

तस्मिन्पञ्चत्वमापन्ने वाली क्रोधेन चान्वितः।
तत्कायं लोष्टवत्क्षेप्तुमारब्धो वीर्यवांस्त॥४७॥

तं तोलयित्वा बाहुभ्यां गतसत्त्वमचेतनम्।
चिक्षेप वेगवान्वाली वेगेनैकेन योजनम्॥४८॥

तस्य वेगमविद्धस्य वक्त्रात्क्षतजबिन्दवः।
प्रपेतुर्मारुतोत्क्षिप्ता मतङ्गस्याश्रमं प्रति ॥४९॥

तान्दृष्ट्वा पतितांस्तत्र मुनिः शोणितविप्रुषः।
क्रुद्धस्तत्र महाभागश्चिन्तयामास को न्वयम् ॥५०॥

येनाहं सहसा स्पृष्टः शोणितेन दुरात्मना।
कोऽयं दुरात्मा दुर्बुद्धिकृतात्मा च बालिशः ॥५१ ॥

इत्युक्त्वाऽथ विनिष्क्रम्य ददर्श मुनिपुङ्गवः।
महिषं पर्वताकारं गतासुं पतितं भुवि॥५२॥

स तु विज्ञाय तपसा वानरेण कृतं हि तत्।
उत्ससर्ज तदा शापं क्षेप्तारं वालिनं प्रति॥५३॥

इह तेनाप्रवेष्टव्यं प्रविष्टस्य वधो भवेत्।
वनं मत्संश्रयं येन दूषितं रुधिरस्रवैः॥
सम्भग्नाः पादपाश्चेमे क्षिपतेहासुरीं तनुम्॥५४॥

समन्ताद्योजनं पूर्णमाश्रमं मामकं यदि।
आक्रमिष्यति दुर्बुद्धिर्व्यक्तं स न भविष्यति ॥५५॥

ये चास्य सचिवाः केचित् संश्रिता मामकं वनम्।
न च तैरिह वस्तव्यं श्रुत्वा यान्तु यथासुखम् ॥५६॥

यदि तेऽपीह तिष्ठन्ति शपिष्ये तानपि ध्रुवम्।
वनेऽस्मिन्मामके नित्यं पुत्रवत्परिरक्षिते॥
पत्राङ्कुरविनाशाय फलमूलाभवाय च॥५७॥

दिवसश्चाद्य मर्यादा यं द्रष्टा श्वोऽस्मि वानरम्।
हुवर्षसहस्राणि स वै शैलो भविष्यति॥५८॥

ततस्ते वानराः श्रुत्वा गिरं मुनिसमीरिताम्।
निश्चक्रमुर्वनात्तस्मात्तान्दृष्ट्ववालिरब्रवीत् ॥५९॥

किं भवन्तः समस्ताश्चमतङ्गवनवासिनः।
मत्समीपमनुप्राप्ता अपि स्वस्ति वनौकसाम्॥६०॥

ततस्ते कारणं सर्वं तदा शापं च वालिनः।
शशंसुर्वानराः सर्वे वालिने हेममालिने॥६१॥

एतच्छ्रुत्वा तदा वाली वचनं वानरेरितम्।
तं महर्षि समासाद्य याचते स्म कृताञ्जलिः॥६२॥

महर्षिस्तमनादृत्य प्रविवेश स्वमाश्रमम्॥६४॥

शापकारणभीतस्तु वाली विह्वलतां गतः॥६३॥

ततः शापभयाद्भीत ऋश्यमूकं महागिरिम्।
प्रवेष्टुं नेच्छति हरिर्द्रष्टुं वाऽपि नरेश्वर॥६५॥

तस्याप्रवेशं ज्ञात्वाऽहमिदं राम महावनम्।
विचरामि सहामात्यो विषादेन च वर्जितः॥६६॥

एषोऽस्थिनिचयस्तस्य दुन्दुभेः संप्रकाशते।
वीर्योत्सेकान्निरस्तस्य गिरिकूटनिभो महान् ॥६७॥

इमे च विपुलाः सालाः सप्त शाखावलम्बिनः।
यत्रैकं घटते वाली निष्पत्रयितुमोजसा॥६८॥

एतदस्यासमं वीर्य मया राम प्रकीर्तितम्॥६९॥

कथं तं वालिनं हन्तुं समरे शक्ष्यसे नृप॥७०॥

तथा ब्रुवाणं सुग्रीवं प्रहसंलक्ष्मणोऽब्रवीत्।
कस्मिन्कर्मणि निर्वृत्ते श्रद्दध्या वालिनो वधम् ॥७१॥

तमुवाचाथ सुग्रीवः सप्त सालानिमान्पुरा।
एवमेकैकशो वाली विव्याथाथ स चासकृत् ॥७२॥

रामो निर्दारयेदेषां बाणेनैकेन च मम् द्रुमम्।
वालिनं निहतं मन्ये दृष्ट्वा रामस्य विक्रमम्॥७३॥

हतस्य महिषस्यास्थि पादेनैकेन लक्ष्मण।
उद्यम्य प्रक्षिपेच्चापि तरसा द्वे धनुःशते॥७४॥

एवमुक्त्वा तु सुग्रीवो रामं रक्तान्तलोचनम्।
ध्यात्वा मुहूर्तं काकुत्स्थं पुनरेव वचोऽब्रवीत् ॥७५॥

शूरश्चासुरघाती च प्रख्यातबलपौरुषः।
बलवान्वानरो वाली संयुगेष्वपराजितः॥७६॥

दृश्यन्ते चास्य कर्माणि दुष्कराणि सुरैरपि।
यानि संचिन्त्य भीतोऽहमृश्यमूकं समाश्रितः ॥७७॥

तमजय्यमवृष्यं च वानरेन्द्रममर्षणम्।
विचिन्तयन्न मुञ्चामि ऋश्यमूकमहं त्विमम् ॥७८॥

उद्विग्नःशङ्कितश्चापि विचरामि महावने।
अनुरक्तैः सहामात्यैर्हनुमत्प्रमुखैर्वरैः॥७९॥

उपलब्धं च मे श्लाघ्यं सन्मित्रं मित्रवत्सल।
त्वामहं पुरुषव्याघ्र हिमवन्तमिवाश्रितः॥८०॥

किं तु तस्य बलज्ञोऽहं दुर्भ्रातुर्बलशालिनः।
अप्रत्यक्षं तु मे वीर्यं सप्ररे तव राघव॥८१॥

न खल्वहं त्वां तुलये नावमन्ये न भीषये।
कर्मभिस्तस्य भीमैस्तु कातर्य जनितं मम॥८२॥

कामं राम भवद्वाणी प्रमाणं धैर्यमाकृतिः।
सूचयन्ति परं तेजो भस्मच्छन्नमिवानलम् ॥८३॥

तस्य तद्वचनं श्रुत्वा सुग्रीवस्य महात्मनः।
स्मितपूर्वमथो रामः प्रत्युवाच हरिं प्रभुः॥८४॥

यदि न प्रत्ययोऽस्मासु विक्रमे तव वानर।
प्रत्ययं समरे श्लाघ्यमहमुत्पादयामि ते॥८५॥

एवमुक्त्वा तु सुग्रीवं सान्त्वं लक्ष्मणपूर्वजः।
राघवो दुन्दुभेः कार्य पादाङ्गुष्ठेन तोलयन् ॥

पुनश्च लीलया रामश्चिक्षेप दशयोजनम्॥८६॥

असुरस्य तनुं शुष्कां पादाङ्गुष्टेन वीर्यवान्।
क्षिप्तं दृष्ट्वा ततः कार्य सुग्रीवः पुनरब्रवीत्॥८७॥

लक्ष्मणस्याग्रतो राममिदं वचनमब्रवीत् ॥८८॥

आर्द्रः समांसः प्रत्यग्रःक्षिप्तः कायः पुरा सखे।
लघुः संप्रति निर्मोसस्तृणभूतश्च राघव ॥८९॥

परिश्रान्तेन मत्तेन भ्रात्रा मे वालिना तदा।
क्षिप्तमेवं प्रहर्षेण भवता रघुनन्दन॥
नात्र शक्यं बलं ज्ञातुं तव वा तस्य वाऽधिकम् ॥९०॥

आर्द्रं शुष्कमिति ह्येतत्सुमहद्राघवान्तरम्।
स एव संशयस्तात तव तस्य च यद्धले॥९१॥

सालमेकं तु निर्भिन्द्या भवेद्वयक्तिर्बलावले॥९२॥

कृत्वेदं कार्मुकं सज्यं हस्तिहस्तमिवाततम्।
आकर्णपूर्णमायम्य विसृजस्व महाशरम्॥९३॥

इमं हि सालं प्रहितस्त्वया शरो
न संशयोऽत्रास्ति विदारयिष्यति।
अलं विमर्शेन मम प्रियं ध्रुवं
कुरुष्व राजात्मज शापितो मया॥९४॥

यथा हि तेजःसु वरः सदारवि-
र्यथा हि शैलो हिमवान्महाद्रिषु।
यथा चतुष्पात्सु च केसरीवर-
स्तथा नराणामसि विक्रमे वरः॥९५॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये
किष्किन्धाकाण्डे एकादशः सर्गः॥

आदितः श्लोकाः 9795
किष्किन्धाकाण्डे आदितः श्लोकाः 543

<MISSING_FIG href="../books_images/U-IMG-1707912608Screenshot2024-02-13142116.png"/>

द्वादशः सर्गः ॥१२॥

सुग्रीवप्रत्यायनम् ॥

एतच्च वचनं श्रुत्वा सुग्रीवेण सुभाषितम्।
प्रत्ययार्थ महातेजा रामो जग्राह कार्मुकम्॥१॥

स गृहीत्वा धनुर्घोरं शरमेकं च मानदः।
सालमुद्दिश्य चिक्षेप ज्यास्वनैः पूरयन्दिशः॥२॥

स विसृष्टो बलवता बाणः स्वर्णपरिष्कृतः।
भित्त्वा सालान्गिरिप्रस्थे सप्त भूमि विवेश ह॥३॥

प्रविष्टस्तु मुहूर्तेन धरां भित्त्वा महाजवः।
निष्पत्य च पुनस्तूर्णं स्वतूणीं पुनराविशत्॥४॥

तान्दृष्ट्वा सप्त निर्भिन्नान्सालान्वानरपुङ्गवः।
रामस्य शरवेगेन विस्मयं परमं गतः॥५॥

अहो शरनिपातेन रामस्याक्लिष्टकर्मणः।
यदगण्यापदो ह्येष मृत्युपाशवशं गतः॥६॥

विस्मयन्ते च ते सर्वे हनुमत्प्रमुखास्तदा।
सुग्रीवो राघवं भूयः प्रशशंस कृताञ्जलिः॥७॥

अद्य मे सफलं जन्म अद्य मे सफलं श्रमः।
अद्य मे निहतः शत्रुः स्वराज्येऽवस्थितो ह्यहम् ॥८॥

सेन्द्रानपि सुरान्सर्वोस्त्वं बाणैः पुरुषर्षभ।
समर्थः समरे हन्तुं किं पुनर्वालिनं प्रभो॥९॥

येन सप्त महासाला गिरिर्भूमिश्च दारिताः।
बाणेनैकेन काकुत्स्थ स्थाता ते को रणाग्रतः ॥१०॥

अद्य मे विगतः शोकः प्रीतिरद्य परा मम।
सुहृदं त्वां समासाद्य महेन्द्रवरुणोपमम्॥११ ॥

तमद्यैव प्रियार्थं मे वैरिणं भ्रातृरूपिणम्।
वालिनं जहि काकुत्स्थ मया बद्धोऽयमञ्जलिः ॥१२॥

ततो रामः परिष्वज्य सुग्रीवं प्रियदर्शनम्।
प्रत्युवाच महाप्राज्ञो लक्ष्मणानुमतं वचः ॥१३॥

अस्माद्गच्छाम किष्किन्धां क्षिप्रं गच्छ त्वमग्रतः।
गत्वा चाह्वय सुग्रीव वालिनं भ्रातृगन्धिनम् ॥१४॥

सर्वे ते त्वरितं गत्वा किष्किन्धां वालिनः पुरीम्।
वृक्षैरात्मानमावृत्य व्यतिष्ठन् गहने बने ॥१५॥

सुग्रीवो व्यनदद्धोरं वालिनो ह्वानकारणात्।
गाढं परिहितो वेगान्नादैर्भिन्दन्निवाम्बरम् ॥१६॥

तं श्रुत्वा निनदं भ्रातुः क्रुद्धो वाली महाबलः।
निष्पपात सुसंरब्धो भास्करोऽस्ततटादिव ॥१७॥

ततः सुतुमुलं युद्धं वालिसुग्रीवयोरभूत्।
गगने ग्रहयोघरं बुधाङ्गारकयोरिव ॥१८॥

तलैरशनिकल्पैश्च वज्रकल्पैश्च मुष्टिभिः।
जघ्नतुः समरेऽन्योन्यं भ्रातरौ क्रोधमूर्छितौ ॥१९॥

ततो धनुषि सन्धाय सायकं वज्रसन्निभम्।
वालिसुग्रीवयोर्भ्रात्रोः न व्यक्तमुपधारयत्॥२०॥

ततो रामो धनुष्पाणिस्तावुभौ समुदैक्षत।
अन्योन्यसदृशौ वीरावुभौ देवाविवाश्विनौ ॥२१॥

यन्नावगच्छत्सुग्रीवं वालिनं वाऽपि राघवः।
ततो न कृतवान् बुद्धिं मोक्तुमन्तकरं शरम्॥२२॥

एतस्मिन्नन्तरे भग्नःसुग्रीवस्तेन वालिना।
अपश्यत्राघवं नाथमृश्यमूकं प्रदुद्रुवे॥२३॥

क्लान्तो रुधिरसिक्ताङ्गः प्रहारैर्जर्झरीकृतः।
वालिनाभिद्रुतः क्रोधात्प्रविवेश महद्वनम्॥२४॥

तं प्रविष्टं वनं दृष्ट्वा वाली शापभयात्ततः।
मुक्तो ह्यसि त्वमित्युक्त्वा संनिवृत्ती महाबलः॥२५॥

राघवोऽपि सह भ्रात्रा सह चैव हनूमता।
तदेव वनमागच्छत्सुग्रीवो यत्र वानरः॥२६॥

तं समीक्ष्यागतं रामं सुग्रीवः सहलक्ष्मणम्।
ह्नीमान्दीनमुवाचेदं वसुधामवलोकयन्॥२७॥

आह्वयस्वेति मामुक्त्वा दर्शयित्वा च विक्रमम्।
वैरिणा घातयित्वा च किमिदानीं त्वया कृतम् ॥२८॥

तामेव वेलां वक्तव्यं त्वया राघव तत्वतः।
वालिनं तं न हन्मीति ततो नाहमितो व्रजे॥२९॥

तस्य चैवं ब्रुवाणस्य सुग्रीवस्य महात्मनः।
करुणं दीनया वाचा राघवः पुनरब्रवीत् ॥३०॥

सुग्रीव श्रूयतां तात क्रोधश्च व्यपनीयताम्।
कारणं येन बाणोऽयं न मया स विसर्जितः ॥३१॥

अलङ्कारेण वेषेण प्रमाणेन गतेन च।
त्वं च सुग्रीव वाली च सदृशौ स्थः परस्परम् ॥३२॥

स्वरेण वर्चसा चैव प्रेक्षितेन च वानर।
विक्रमेण च वाक्यैश्च व्यक्तिं वां नोपलक्षये ॥३३॥

ततोऽहं रूपसादृश्यान्मोहितो वानरोत्तम॥३४॥

नोत्सृजामि महावेगं शरं शत्रुनिबर्हणम्।
जीवितान्तकरं घोरं सादृश्यात्तु विशङ्कितः
मूलघातो न नौ स्याद्धि द्वयोरपि कृतो मया ॥३५॥

त्वयि वीरे विपन्ने हि अज्ञानाल्लाघवान्मया।
मौढ्यंच मम बाल्यं च ख्यापितं स्यात् कपीश्वर॥
दत्ताभयवधो नाम पातकं महदुच्यते ॥३७॥

अहं च लक्ष्मणश्चैवसीता च वरवर्णिनी।
त्वदधीना वयं सर्वे वनेऽस्मिञ्शरणं भवान् ॥३८॥

तस्माद्युद्ध्यस्वभूयस्त्वं मा शङ्कां गन्तुमर्हसि।
एतन्मुहूर्ते सुग्रीव पश्य वालिनमाहवे ॥
निरस्तमिषुणैकेन वेष्टमानं महीतले॥३९॥

अभिज्ञानं कुरुष्व त्वमात्मनो वानरोत्तम।
येन त्वामभिजानीयां द्वन्द्वयुद्धमुपागतम् ॥४०॥

गजपुष्पीमिमां फुल्लामुत्पाट्यशुभलक्षणाम्।
कुरु लक्ष्मण कण्ठेऽस्य सुग्रीवस्य महात्मनः ॥४१॥

ततो गिरितटे जातामुत्पाट्य कुसुमाकुलाम्।
लक्ष्मणो गजपुष्पींतां तस्य कण्ठे न्यसर्जयत् ॥४२॥

स तया शुशुभे श्रीमांल्लतया कण्ठसक्तया ॥४३॥

मालयेव बलाकानां ससन्ध्य इव तोयदः।
विभ्राजमानो वपुषा रामवाक्यसमाहितः ॥
जगाम सह रामेण किष्किन्धां वालिपालिताम् ॥ ४४ ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये
किष्किन्धाकाण्डे द्वादशः सर्गः ॥

आदितः श्लोकाः 9839
किष्किन्धाकाण्डे आदितः श्लोकाः 587

<MISSING_FIG href="../books_images/U-IMG-1707914904Screenshot2024-02-13121118.png"/>

त्रयोदशः सर्गः ॥१३॥

सप्तजनाश्रमदर्शनम् ॥

ऋश्यमूकात्स धर्मात्मा किष्किन्धां लक्ष्मणाग्रजः।
जगाम सहसुग्रीवो वालिविक्रमपालिताम्॥१॥

समुद्यम्य महच्चापं रामः काञ्चनभूषितम्।
शरांश्चादित्यसंकाशान्गृहीत्वा रणसाधकान्॥२॥

अग्रतस्तु ययौ तस्य राघवस्य महात्मनः।
सुग्रीवः संहतग्रीवो लक्ष्मणश्च महाबलः॥३॥

पृष्ठतो हनुमान्वीरो नलो नीलश्च वानरः।
तारश्चैव महातेजा हरियूथपयूथपः॥४॥

ते वीक्षमाणा वृक्षांश्च पुष्पभारावलम्बिनः।
प्रसन्नाम्बुवहाश्चैव सरितः सागरंगमाः॥५॥

कन्दराणि च शैलांश्च निर्दराणि गुहास्तथा।
शिखराणि च मुख्यानि दरीश्च प्रियदर्शनाः ॥६॥

वैडूर्यविमलैस्तोयैः पद्मैश्चाशोककुड्मलैः।
शोभितान्सजलान्मार्गे तटाकांश्च व्यलोकयन्॥७॥

कारण्डैः सारसैर्हसैर्वञ्जुलैर्जलकुक्कुटैः।
चक्रवाकैस्तथा चान्यैः शकुनैः प्रतिनादितान् ॥८॥

मृदुशष्पाङ्कुराहारान्मृगपोतांश्च निर्भयान्।
चरतः सर्वतोऽपश्यन्स्थलीषु हरिणान्स्थितान् ॥९॥

तटाकवैरिणश्चापि शुक्लदन्तविभूषितान्।
घोरानेकचरान्वन्यान्द्विरदन्कूल्यातिनः॥१०॥

मत्तान्गिरितटोत्कृष्टान्पर्वतानिव जङ्गमान्।
वारणान्वारिदप्रख्यान्मही रेणुसमुक्षितान्॥११॥

वने वनचरांश्चान्यान्खेचरांश्च विहङ्गमान्।
पश्यन्तस्त्वरिता जग्मुः सुग्रीववशवर्तिनः॥१२॥

तेषां तु गच्छतां तत्र त्वरितं रघुनन्दनः।
द्रुमषण्डं वनं दृष्ट्वा रामः सुग्रीवमब्रवीत्॥१३॥

एष मेघ इवाकाशे वृक्षषण्डः प्रकाशते।
मेघसंघातविपुलः पर्यन्तकदलीवृतः॥१४॥

किमेतज्ज्ञातुमिच्छामि सखे कौतूहलं महत्।
कौतूहलापनयनं कर्तुमिच्छाम्यहं त्वया॥१५॥

तस्य तद्वचनं श्रुत्वा राघवस्य महात्मनः।
गच्छन्नेवाचचक्षेऽथ सुग्रीवस्तन्महद्वनम्॥१६॥

एतद्राघव विस्तीर्णमाश्रमं श्रमनाशनम्।
उद्यानवनसम्पन्नं स्वादुमूलफलोदकम्॥१७॥

अत्र सप्तजना नाम मुनयः संशितव्रताः।
सप्तैवासन्नधः शीर्षा नियता जलशायिनः॥१८॥

सप्तरात्रकृताहारा वायुना वनवासिनः।
दिवं वर्षशतैर्याताः सप्तभिः सकलेबराः॥१९॥

तेषामेवंप्रभावानां द्रुमप्राकारसंवृतम्।
आश्रमं सुदुराधर्षमपि सेन्द्रैः सुरासुरैः॥२०॥

पक्षिणो वर्जयन्त्येतत्तथान्ये वनचारिणः।
विशन्ति मोहाद्ये तत्र निवर्तन्ते न ते पुनः॥२१॥

विभूषणरवास्तत्र श्रूयन्ते सकलाक्षराः।
तूर्यगीतस्वनाश्चात्र गन्धो दिव्यश्च राघव॥२२॥

त्रेताग्नयोऽपि दीप्यन्ते धूमो ह्यत्र प्रकाशते।
वेष्टयन्निव वृक्षाग्रान्कपोताङ्गारुणो घनः॥२३॥

एते वृक्षाः प्रकाशन्ते धूमसंसक्तमस्तकाः।
मेघजालप्रतिच्छन्ना वैडूर्यगिरयो यथा॥२४॥

कुरु प्रणामं धर्मात्मंस्तान्समुद्दिश्य राघव।
लक्ष्मणेन सह भ्रात्रा प्रयतः संयताञ्जलिः॥२५॥

प्रणमन्ति हि ये तेषां मुनीनां भावितात्मनाम्।
न तेषामशुभं किंचिच्छरीरे राम विद्यते ॥२६॥

ततो रामः सह भ्रात्रा लक्ष्मणेन कृताञ्जलिः
समुद्दिश्य महात्मानस्तानृषीनभ्यवादयत्॥२७॥

अभिवाद्य च धर्मात्मा रामो भ्राता च लक्ष्मणः।
सुग्रीवो वानराश्चैव जग्मुः संहृष्टमानसाः॥२८॥

ते गत्वा दूरमध्वानं तस्मात्सप्तजनाश्रमात्।
ददृशुस्तां दुराधर्षो किष्किन्धां वालिपालिताम् ॥२९॥

ततस्तु रामानुजरामवानराः
प्रगृह्य शस्त्राण्युदिताग्र्यतेजसः।
पुरीं सुरेशात्मजवीर्यपालितां
वधाय शत्रोः पुनरागताः सह ॥३०॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये
किष्किन्धाकाण्डे त्रयोदशः सर्गः॥

आदितः श्लोकाः 9869
किष्किन्धाकाण्डे आदितः श्लोकाः 617

<MISSING_FIG href="../books_images/U-IMG-1707921488Screenshot2024-02-13142116.png"/>

चतुर्दशः सर्गः ॥१४॥

युद्धाय वाल्याह्वानम् ॥

सर्वे ते त्वरितं गत्वा किष्किन्धां वालिनः पुरीं।
वृक्षैरात्मानमावृत्य व्यतिष्ठन् गहने वने॥१॥

विसार्य सर्वतो दृष्टिं कानने काननप्रियः।
सुग्रीवो विपुलग्रीवः क्रोधमाहारयद्भृशम्॥२॥

ततः स निनदं घोरं कृत्वा युद्धाय चाह्वयत्।
परिवारैः परिवृतो नादैर्भिन्दभिवाम्बरम् ॥३॥

गर्जन्निव महामेघो वायुवेगपुरःसरः॥४॥

अथ बालार्कसदृशो दृप्तसिंहगतिस्तदा।
दृष्ट्वा रामं क्रियादक्षं सुग्रीवो वाक्यमब्रवीत्॥५॥

हरिवागुरया व्याप्तां तप्तकाञ्चनतोरणाम्।
प्राप्ताः स्म ध्वजयन्त्राढ्यां किष्किन्धां वालिनः पुरीम् ॥६॥

प्रतिज्ञा या त्वया वीर कृता वालिवधे पुरा।
सफलां तां कुरु क्षिप्रं लतां काल इवागतः॥७॥

एवमुक्तस्तु धर्मात्मा सुग्रीवेण स राघवः।
तमथोवाच सुग्रीवं वचनं शत्रुसूदनः॥८॥

कृताभिज्ञानचिह्नस्त्वमनया गजसाह्वया।
लक्ष्मणेन समुत्पाठ्य यैषा कण्ठे कृता तव॥९॥

शोभसे ह्यधिकं वीर लतया कण्ठसक्तया।
विपरीत इवाकाशे सूर्यो नक्षत्रमालया॥१०॥

अद्य वालिसमुत्थं ते भयं वैरं च वानर।
एकेनाहं प्रमोक्ष्यामि बाणमोक्षेण संयुगे॥११॥

मम दर्शय सुग्रीव वैरिणं भ्रातृरूपिणम्।
वाली विनिहतो यावद्वने पांसुषु वेष्टते॥१२॥

यदि दृष्टिपथं प्राप्तो जीवन्स विनिवर्तते।
ततो दोषेण माऽऽगच्छेत्सद्यो गर्हेच्च मा भवान् ॥१३॥

प्रत्यक्षं सप्त ते साला मया बाणेन दारिताः।
तेनावेहि बलेनाद्य वालिनं निहतं मया॥१४॥

अनृतं नोक्तपूर्वं मे कृच्छ्रे महति तिष्ठता।
धर्मलोभपरीतेन न च वक्ष्ये कथंचन॥१५॥

सफलां च करिष्यामि प्रतिज्ञां जहि संभ्रमम्।
प्रसूतं कलमं क्षेत्रे वर्षेणेव शतक्रतुः॥१६॥

तदाह्वाननिमित्तं त्वं वालिनो हेममालिनः।
सुग्रीव कुरु तं शब्दं निष्पतेथेन वानरः॥१७॥

जितकाशी बलश्लाघी त्वया चाघर्षितः पुरा।
निष्पतिष्यत्यसङ्गेन वाली स प्रियसंयुगः॥१८॥

रिपूणां घर्षणं शूरा मर्षयन्ति न संयुगे।
जानन्तस्तु स्वकं वीर्य स्त्रीसमक्षं विशेषतः॥१९॥

स तु रामवचः श्रुत्वा सुग्रीवो हेमपिङ्गलः।
ननर्दक्रूरनादेन विनिर्भिन्दन्निवाम्बरम्॥२०॥

तस्य शब्देन विस्ता गावो यान्ति हतप्रभाः।
राजदोषपरामृष्टाः कुलस्त्रिय इवाकुलाः॥२१॥

द्रवन्ति च मृगाः शीघ्रं भग्ना इव रणे हयाः।
पतन्ति च खगा भूमौ क्षीणपुण्या इव ग्रहाः ॥२२॥

ततः स जीमूतगणप्रणादो
नादं विमुञ्चंस्त्वरया प्रतीतः।
सूर्यात्मजः शौर्यविवृद्धतेजाः
सरित्पतिर्वाऽनिलचञ्चलोर्मिः॥२३॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये
किष्किन्धाकाण्डे चतुर्दशः सर्गः ॥

आदितः श्लोकाः 9892
किष्किन्धाकाण्डे आदितः श्लोकाः 640

<MISSING_FIG href="../books_images/U-IMG-1707965732Screenshot2024-02-13142116.png"/>

पञ्चदशः सर्गः ॥१५॥

तारोपदेशः ॥

अथ तस्य निनादं तं सुग्रीवस्य महात्मनः।
शुभावान्तःपुरगतो वाली भ्रातुरमर्षणः॥१॥

श्रुत्वा तु तस्य निनदं सर्वभूतप्रकम्पनम्।
मदश्चैकपदे नष्टः क्रोधश्चापतितो महान्॥२॥

स तु रोषपरीताङ्गों वाली सन्ध्यातपप्रभः।
उपरक्त इवादित्यः सद्यो निष्प्रभतां गतः॥३॥

वाली दंष्ट्राकरालस्तु क्रोधाद्दीप्ताग्निसंनिभः।
भात्युत्पतितपद्माभः समृणाल इवह्रदः॥४॥

शब्दं दुर्मर्षणं श्रुत्वा निष्पपात ततो हरिः।
वेगेन चरणन्यासैर्दारयन्निव मेदिनीम्॥५॥

तं तु तारा परिष्वज्य स्नेहाद्दर्शितसौहृदा।
उवाच त्रस्तसंभ्रान्ता हितोदर्कमिदं वचः॥६॥

साधु क्रोधमिमं वीर नदीवेगमिवागतम्।
शयनादुत्थितः काल्यं त्यज भुक्तामिव स्रजम्॥७॥

काल्यमेतेन सङ्ग्रामं करिष्यसि च वानर।
वीर ते शत्रुबाहुल्यं फल्गुता वा न विद्यते॥८॥

सहसा तव निष्क्रामो मम तावन्न रोचते।
श्रूयतां चाभिधास्यामि यन्निमित्तं निवार्यसे॥९॥

पूर्वमापतितः क्रोधात्स त्वामाह्वयते युधि।
निष्पत्य च निरस्तस्ते हन्यमानो दिशो गतः ॥१०॥

त्वया तस्य निरस्तस्य पीडितस्य विशेषतः।
इहैत्य पुनराह्वानं शङ्कां जनयतीव मे॥११॥

दर्पश्च व्यवसायश्च यादृशस्तस्य नर्दतः।
निनादस्य च संरम्भो नैतदल्पं हि कारणम् ॥१२॥

नासहायमहं मन्ये सुग्रीवंतमिहागतम्।
अवष्टब्धसहायश्च यमाश्रित्यैष गर्जति॥१३॥

प्रकृत्या निपुणश्चैव बुद्धिमांश्चैव वानरः।
अपरीक्षितवीर्येण सुग्रीवः सह नैष्यति॥१४॥

पूर्वमेव मया वीर श्रुतं कथयतो वचः।
अङ्गदस्य कुमारस्य वक्ष्यामि त्वा हितंवचः ॥१५॥

अङ्गदस्तु कुमारोऽयं वनान्तमुपनिर्गतः
प्रवृत्तिस्तेन कथिता चारैराप्तैर्निवेदिता॥१६॥

अयोध्याधिपतेः पुत्रौ शुरौ समरदुर्जयो।
इक्ष्वाकूणां कुले जातौ प्रथितौ रामलक्ष्मणौ॥
सुग्रीवप्रियकामार्थं प्राप्तौ तत्र दुरासदौ॥१७॥

तव भ्रातुर्हि विख्यातः सहायो रणकर्कशः।
रामः परबलामर्दी युगान्ताग्निरिवोत्थितः॥१८॥

निवासवृक्षः साधूनामापन्नानां परा गतिः।
आर्तानां संश्रयश्चैव यशसञ्चैकभाजनम्॥१९॥

ज्ञानविज्ञानसंपन्नो निदेशे निरतः पितुः।
धातुनामिव शैलेन्द्रो गुणानामाकरो महान्॥२०॥

तत्क्षमं न विरोधस्ते सह तेन महात्मना।
दुर्जयेनाप्रमेयेन रामेण रणकर्मसु॥२१॥

शुर वक्ष्यामि ते किंचिन्न चेच्छाम्यभ्यसूयितुम्।
श्रूयतां क्रियतां चैव तव वक्ष्यामि यद्धितम् ॥२२॥

यौवराज्ये तु सुग्रीवं तूर्णं साध्वभिषेचय।
विग्रहं मा कथा वीर भ्रात्रा राजन्बलीयसा ॥२३॥

अहं हि ते क्षमं मन्ये तेन रामेण सौहृदम्।
सुग्रीवेण च संप्रीति बैरमुत्सृज्य दूरतः ॥२४॥

लालनीयो हि ते भ्राता यवीयानेष वानरः।
तत्र वा सन्निहस्थो वा सर्वथा बन्धुरेव ते॥ २५ ॥

न हि तेन समं बन्धुं भुवि पश्यामि कंचन।
दानमानादिसत्कारैः कुरुष्व प्रत्यनन्तरम्॥२६॥

वैरमेतत्समुत्सृज्य तव पार्श्वे सतिष्ठतु।
सुग्रीवो विपुलग्रीवस्तव बन्धुः सदा मतः॥२७॥

भ्रातुः सौहृदमालम्ब नान्या गतिरिहास्ति ते ॥ २८ ॥

यदि ते मत्प्रियं कार्यं यदि चावैषि मां हिताम्।
याच्यमानः प्रयत्नेन साधु वाक्यं कुरुष्व मे ॥२९॥

प्रसीद पथ्यं शृणु जल्पितं हि मे
न रोषमेवानुविधातुमर्हसि।
क्षमो हि ते कोसलराजसूनुना
न विग्रहः शक्रसमानतेजसा ॥३०॥

तदा हि तारा हितमेव वाक्यं
तं वालिनं पथ्यमिदं बभाषे।
न रोचते तद्वचनं हि तस्य
कालाभिपन्नस्य विनाशकाले ॥३१॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये
किष्किन्धाकाण्डे पञ्चदशः सर्गः ॥

आदितः श्लोकाः 9923
किष्किन्धाकाण्डे आदितः श्लोकाः 671

<MISSING_FIG href="../books_images/U-IMG-1707967585Screenshot2024-02-13142116.png"/>

षोडशः सर्गः ॥१६॥

वालिवधः ॥

तामेवं ब्रवतीं तारां ताराधिपनिभाननाम्।
वाली निर्भर्त्सयामास वचनं चेदमब्रवीत्॥१॥

गर्जतोऽस्य सुसंरब्धं भ्रातुः शत्रोर्विशेषतः।
मर्षयिष्याम्यहं केन कारणेन वरानने॥२॥

अधर्षितानां शूराणां समरेष्वनिवर्तिनाम्।
घर्षणामर्षणं भीरु मरणादतिरिच्यते॥३॥

सोढुं न च समर्थोऽहं युद्धकामस्य संयुगे।
सुग्रीवस्य च संरम्भं हीनग्रीवस्य गर्जतः॥४॥

न च कार्यो विषादस्ते राघवं प्रति मत्कृते।
धर्मज्ञश्च कृतज्ञश्च कथं पापं करिष्यति॥५॥

निवर्तस्व सह स्त्रीभिः कथं भूयोऽनुगच्छसि।
सौहृदं दर्शितं तारे मयि भक्तिः कृता त्वया॥६॥

प्रतियोत्स्याम्यहं गत्वा सुग्रीवं जहि संभ्रमम्।
दर्पं चास्य विनेष्यामि न च प्राणैर्विमोक्ष्यते ॥ ७ ॥

अहं ह्याजिस्थितस्यास्य करिष्यामि यथेप्सितम्।
वृक्षैर्मुष्टिप्रहारैश्च पीडितः प्रतियास्यति॥ ८॥

न मे गर्वितमायस्तं सहिष्यति दुरात्मवान्।
कृतं तारे सहायत्त्रं सौहृदं दर्शितं मयि ॥९॥

शापिताऽसि मम प्राणैर्निवर्तस्व जयेन च।
अहं जित्वा निवर्तिष्येतमहं भ्रातरं रणे॥१०॥

तं तु तारा परिष्वज्य वालिनं प्रियवादिनी।
चकार रुदती मन्दं दक्षिणा सा प्रदक्षिणम् ॥११॥

ततः स्वस्त्ययनं कृत्वा मन्त्रवद्विजयैषिणी।
अन्तःपुरं सह स्त्रीभिः प्रविष्टा शोकमोहिता ॥१२॥

प्रविष्टायां तु तारायां सहस्त्रीभिः स्वमालयम्।
नगरान्निर्ययौ क्रुद्धो महासर्प इव श्वसन्॥१३॥

स निश्वस्य महावेगो वाली परमरोषणः।
सर्वतश्चारयन् दृष्टिं शत्रुदर्शनकाङ्क्षया॥१४॥

स ददर्श ततः श्रीमान्सुग्रीवं हेमपिङ्गलम्।
सुसंवीतमवष्टब्धं दीप्यमानमिवानलम्॥१५॥

तं स दृष्ट्वा महावीर्यः सुग्रीवं पर्यवस्थितम्।
गाढं परिदधे वासो वाली परमरोषणः॥१६॥

स वाली गाढसंवीतो मुष्टिमुद्यम्य वीर्यवान्।
सुग्रीवमेवाभिमुखो ययौ योद्धुं कृतक्षणः ॥१७॥

श्लिष्टमुष्टिं समुद्यम्य संरब्धतरमागतः।
सुग्रीवोऽपि समुद्दिश्य वालिनं हेममालिनम् ॥१८॥

तं वाली क्रोधताम्राक्ष : सुग्रीवं रणपण्डितम्।
आपतन्तं महावेगमिदं वचनमब्रवीत्॥१९॥

एष मुष्टिर्मया बद्धो गाढः संनिहिताङ्गलिः।
मया वेगविमुक्तस्ते प्राणानादाय यास्यति॥२०॥

एवमुक्तस्तु सुग्रीवः क्रुद्धो वालिनमब्रवीत्।
तवैव चाहरन्प्राणान्मुष्टिः पततु मूर्धनि॥२१॥

ताडितस्तेन संक्रुद्धः समभिक्रम्य वेगितः।
अभवच्छोणितोंद्गारी सोत्पीड इव पर्वतः॥२२॥

सुग्रीवेण तु निःसङ्गं सालमुत्पाटय तेजसा।
गात्रेष्वभिहतो वाली वज्रेणेव महागिरिः॥२३॥

स तु वाली प्रचलितः सालताडनविह्वलः।
गुरुभारसमाक्रान्तोनौसार्थ इव सागरे॥२४॥

तौ भीमबलविक्रान्तौ सुपर्णानिलवेगितौ।
प्रवृद्धौघोरवपुषौचन्द्रसूर्या विवाम्बरे॥२५॥

परस्परममित्रघ्नौ छिद्रान्वेषणतत्परौ॥२६॥

ततोऽवर्धत वाली तु बलवीर्थसमन्वितः॥२७॥

सूर्यपुत्रोमहावीर्य : सुग्रीवः परिहीयत॥२८॥

वालिना भग्नदर्पस्तु सुग्रीवो मन्दविक्रमः।
वालिनं प्रति सामर्षो दर्शयामास लाघवम्॥२९॥

वृक्षैः सशाखैः सशिखैर्वज्रकोटिनिभैर्नखैः।
मुष्टिभिर्जानुभिः पद्भिर्बाहुभिश्चपुनः पुनः॥
तयोर्युद्धमभूद्धोरं वृत्रवासवयोरिव॥३०॥

तौ शोणिताक्तौ युध्येतां वानरौ वनचारिणौ।
मेघाविव महाशब्देस्तर्जयानौ परस्परम्॥३१॥

हीयमानमथोऽपश्यत्सुग्रीवं वानरेश्वरम्।
वीक्षमाणं दिशश्चैव राघवः स मुहुर्मुहुः॥३२॥

ततो रामो महातेजा आर्तं दृष्ट्वा हरीश्वरम्।
शरं च वीक्षते वीरो वालिनो वधकारणात्॥३३॥

ततो धनुषि सन्धाय शरमाशीविषोपमम्।
पूरयामास तच्चापं कालचक्रमिवान्तकः॥३४॥

तस्य ज्यातलघोंषेण त्रस्ताः पत्ररथेश्वराः।
प्रदुद्रुवुर्मृगाश्चैव युगान्त इव मोहिताः॥३५॥

मुक्तस्तु वज्रनिर्घोषो प्रदीप्ताशनिसन्निभः।
राघवेण महाबाणो वालिवक्षसि पातितः॥ ३६॥

ततस्तेन महातेजा वीर्योत्सितः कपीश्वरः।
वेगेनाभिहतो वाली निपपात महीतले॥३७॥

इन्द्रध्वज इवोद्धूतः पौर्णमास्यां महीतले।
आश्वयुक्समये मासि गतश्रीको विचेतनः॥३८॥

नरोत्तमः कालंयुगान्तकोपमं
शरोत्तमं काञ्चनरूप्यभूषितम्।
ससर्ज दीप्तं तममित्रमर्दनं
सधूममग्निं मुखतो यथा हरः॥३९॥

अथोक्षितः शोणिततोयविस्त्रवैः
सुपुष्पिताशोक इवानिलोद्धतः।
विचेतनो वासवसूनुराहवे
विभ्रंशितेन्द्रध्वजवत् क्षितिं गतः ॥४०॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये
किष्किन्धाकाण्डे षोडशः सर्गः॥

आदितः श्लोकाः 9963
किष्किन्धाकाण्डे आदितः श्लोकाः 711

<MISSING_FIG href="../books_images/U-IMG-1707982466Screenshot2024-02-13142116.png"/>

सप्तदशः सर्गः ॥१७॥

वालिना रामगर्हणम् ॥

ततः शरेणाभिहतो रामेण रणकर्कशः।
पपात सहसा वाली निकृत्त इव पादपः॥१॥

स भूमौ न्यस्तसर्वाङ्गस्तप्तकाञ्चनभूषणः।
अपतद्देवराजस्य मुक्तरश्मिरिव ध्वजः॥२॥

तस्मिन्निपतिते भूमौ हर्यृक्षाणां गणेश्वरे।
नष्टचन्द्रमिव व्योम न व्यराजत भूतलम् ॥३॥

भूमौ निपतितस्यापि तस्य देहं महात्मनः।
न श्रीर्जहाति न प्राणा न तेजो न पराक्रमः ॥४॥

शक्रदत्ता वरा माला काञ्चना वज्रभूषिता।
दधार हरिराजस्य प्राणांस्तेजः श्रियं च सा ॥५॥

स तया मालयावीरो हैमया हरियूथपः।
सन्ध्यानुगतपर्यन्तः पयोधर इवाभवत् ॥६॥

तस्य माला च देहश्च मर्मघाती च यः शरः।
त्रिधेव रचिता लक्ष्मीः पतितस्यापि शोभते॥७॥

तदस्त्रं तस्य वीरस्य स्वर्गमार्गप्रभावनम्।
रामबाणासनक्षिप्तमावहत्परमां गतिम्॥८॥

तं तदा पतितं संख्ये गतार्चिषमिवानलम्॥९॥

ययातिमिव पुण्यान्ते देवलोकात्परिच्युतम्।
आदित्यमिव कालेन युगान्ते भुवि पातितम् ॥१०॥

महेन्द्रमिव दुर्धर्ष महेन्द्र मिव दुःसहम्।
महेन्द्रपुत्रं पतितं वालिनं हेममालिनम्॥११॥

सिंहोरस्कं महाबाहुं दीप्तास्यं हरिलोचनम्।
लक्ष्मणानुचरो रामो ददर्श गतचेतनम्॥१२॥

बहुमान्य च तं वीरं वीक्षमाणं शनैरिव।
उपयातौ महावीर्यौभ्रातरौ रामलक्ष्मणौ॥१३॥

स भुभावल्पतेजोऽसुर्निहतो नष्टचेतनः॥१४॥

अर्थसंहितया वाचा गर्वितं रणगर्वितः।
तं दृष्ट्वाराघवं वाली लक्ष्मणं च महाबलम्॥
अब्रवीत् प्रश्रितं वाक्यं परुषं धर्मसंहितम्॥१५ ॥

पराङ्मुखवधं कृत्वा को नु प्राप्तस्त्वया गुणः।
यदहं युद्धसंरब्धः शरेणोरसि ताड़ितः॥१६॥

त्वं नराधिपतेः पुत्रः प्रथितः प्रियदर्शनः।
कुलीनः सवसम्पन्नस्तेजस्वी चरितव्रतः॥१७॥

रामः करुणवेदी च प्रजानां च हिते रतः।
सानुक्रोशो महोत्साहः समयज्ञों दृढव्रतः॥
इति ते सर्वभूतानि कथयन्ति यशो भुवि॥१८॥

दमः शमः क्षमा धर्मो धृतिः सत्यं पराक्रमः।
पार्थिवानां गुणा राजन् दण्डश्चाप्यपकारिषु ॥१९॥

तान् गुणान् संप्रधार्याहमग्र्यं चाभिजनं तव।
तारया प्रतिषिद्धःसन् सुग्रीवेण समागतः॥२०॥

न मामन्येन संरब्धं प्रमत्तं योद्धुमर्हति।
इति मे बुद्धिरुत्पन्ना बभूवादर्शने तव॥२१॥

न त्वां विनिहतात्मानं धर्मध्वजमधार्मिकम्।
जाने पापसमाचारं तृणैः कूपमिवावृतम्॥२२॥

सतां वेषधरं पापं प्रच्छन्नमिव पावकम्।
नाहं त्वामभिजानामि धर्मच्छद्माभिसंवृतम् ॥२३॥

विषये वा पुरे वा ते यदा नापकरोम्यहम्।
न च त्वामवजाने च कस्मात्त्वं हंस्यकिल्बिषम् ॥२४॥

फलमूलाशनं नित्यं वानरं वनगोचरम्।
मामिहाप्रतियुद्धयन्तमन्येन च समागतम्॥२५॥

कः क्षत्रियकुले जातः श्रुतवान्नष्टसंशयः।
धर्मलिङ्गमतिच्छन्नः क्रूरं कर्म समाचरेत्॥२६॥

राम राजकुले जातो धर्मवानिति विश्रुतः।
अभव्यो भव्यरूपेण किमर्थं परिधावसि॥२७॥

साम दानं क्षमा धर्मः सत्यं धृतिपराक्रमौ।
पार्थिवानां गुणा राजन्दण्डश्चाप्यपकारिषु॥२८॥

वयं वनचरा राम मृगा मूलफलाशनाः॥२९॥

एषा प्रकृतिरस्माकं पुरुषस्त्वं नरेश्वर॥३०॥

भूमिर्हिरण्यं रूप्यं च विग्रहे कारणानि च।
तत्र कस्ते वने लाभो मदीयेषु फलेषु वा॥३१॥

नयश्च विनयश्चोभौ निग्रहानुग्रहावपि।
राजवृत्तिरसंकीर्णा न नृपाः कामवृत्तयः॥३२॥

त्वं तु कामप्रधानश्चकोपनश्चानव स्थितः।
राजवृत्तैश्च सङ्कीर्णः शरासनपरायणः॥३३॥

न तेऽस्त्यपचितिधर्मे नायें बु द्धरव स्थता।
इन्द्रियैः कामवृत्तः सन्कृष्यसे मनुजेश्वर ॥३४॥

हत्वा बाणेन काकुत्स्थ मामिहानपराधिनम्।
किं वक्ष्यसिसतां मध्ये कर्म कृत्वा सुदुष्करम् ॥३५॥

राजहा ब्रह्महा गोन्नश्चोरः प्राणिवधे रतः।
नास्तिकः परिवेत्ता च सर्वे निरयगामिनः ॥३६॥

सूचकश्चकदर्यश्च मित्रघ्नो गुरुतल्पगः।
लोकं पापात्मनामेते गच्छन्ते नात्र संशयः ॥३७॥

अधार्यं चर्म मे सद्भी रोमाण्यस्थि च वर्जितम्।
अभक्ष्याणि च मांसानि त्वद्विधैर्धर्मचारिभिः ॥३८॥

पञ्च पञ्चनखा भक्ष्या ब्रह्मक्षत्रेण राघव।
शल्यकः श्वाविडो गोधा शशः कूर्मश्च पञ्चमः ॥३९॥

चर्म चास्थि च मे राजन्न स्पृशन्ति मनीषिणः।
अभक्ष्याणि च मांसानि सोऽहं पञ्चनखो हतः ॥४०॥

तारया वाक्यमुक्तोऽहं सत्यं सर्वज्ञया हितम्।
तदतिक्रम्य मोहेन कालस्य वशमागतः॥४१॥

त्वया नाथेन काकुत्स्थ न सनाथा वसुन्धरा
प्रमदा शीलसंपन्ना धूर्तेन पतिना यथा ॥४२॥

शठा नैकृतिकः क्षुद्रोमिथ्याप्रश्रितमानसः।
कथं दशरथेन त्वं जावः पापो महात्मना॥४३॥

छिन्नचारित्रकक्ष्येण सतां धर्मातिवर्तिना।
त्यक्तवर्माङ्कुशेनाहं निहता रामहस्तिना॥४४॥

अशुभं चाप्ययुक्तं च सतां चैव विगर्हितम्।
वक्ष्यसे चेदृशं कृत्वा सद्भिः सह समागतः॥४५॥

उदासीनेषु योऽस्मासु विक्रमोऽयं प्रकाशितः।
अपकारिषु ते राम नैव पश्यामि विक्रमम्॥४६॥

दृश्यमानस्तु युध्येथा मया यदि नृपात्मज।
अद्य वैवस्वतं देवं पश्येस्त्वं निहतो मया॥४७॥

त्वयाऽदृश्येन तु रणे निहतोऽहं दुरासदः।
प्रसुप्तः पन्नगेनेव नरः पानवशं गतः॥४८॥

सुग्रीवप्रियकामेन यत्कृतेऽस्मि हतस्त्वया।
मामेव यदि पूर्वं त्वमेतदर्थमचोदयः।
मैथिलीमहमेकाह्नात्वानयिष्याम्यसंशयम्॥४९॥

राक्षसं च दुरात्मानं तव भार्यापहारिणम्।
ग्रीवायां तु दशग्रीवं बद्धवा संप्रददे तव॥५०॥

न्यस्तां सागरतोये वा पाताले वापि मैथिलीम्।
आनयेयं तवादेशाच्छ्वेतामश्वतरीमिव॥५१॥

युक्तं यत्प्राप्नुयाद्राज्यं सुग्रीवः स्वर्गते मयि।
अयुक्तं यदधर्मेण त्वयाऽहं निहतो रणे॥ ५२ ॥

काममेवंविधे लोकः कालेन विनियुज्यते।
क्षमं चेद्भवता प्राप्तमुत्तरं साधु चिन्त्यताम् ॥५३॥

इत्येवमुक्त्वा परिशुष्कवक्त्रः
शराभिघाताद्वयथितो महात्मा।
समीक्ष्य रामं रविसन्निकाशं
तूष्णीं बभूवामरराजसूनुः॥५४॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये
किष्किन्धाकाण्डे सप्तदशः सर्गः॥

आदितः श्लोकाः 10017
किष्किन्धाकाण्डे आदितः श्लोकाः 765

<MISSING_FIG href="../books_images/U-IMG-1707984258Screenshot2024-02-13151634.png"/>

अष्टादशः सर्गः ॥१८॥

वालिवधसमर्थनम् ॥

इत्युक्तः प्रश्रितं वाक्यं धर्मार्थसहितं हितम्।
परुषं वालिना रामो निहतेन विचेतसा॥१॥

तं निष्प्रभमिवादित्यं मुक्ततोयमिवाम्बुदम्।
उक्तवाक्यं हरिश्रेष्ठमुपशान्तमिवानलम्॥२॥

धर्मार्थगुणसंपन्नं हरीश्वरमनुत्तमम्।
अधिक्षिप्तस्तदा रामः पश्चाद्वालिनमब्रवीत्॥३॥

धर्ममर्थं च कामं च समयं चापि लौकिक्रम्।
अविज्ञाय कथं बाल्यान्मामिहाद्य विगर्हसे॥४॥

अपृष्ट्वा बुद्धिसंपन्नान् वृद्धानाचार्यसम्मतान्।
सौम्य वानरचापल्यात्किंमां वक्तुमिहेच्छसि ॥५॥

इक्ष्वाकूणामियं भूमिः सशैलवनकानना।
मृगपक्षिमनुष्याणां निग्रहानुग्रहेष्वपि॥६॥

तां पालयति धर्मात्मा भरतः सत्यवागृजुः।
धर्मकामार्थतत्त्वज्ञो निग्रहानुग्रहे रतः॥७॥

नयश्च विनयश्चोभौ यस्मिन् सत्यं च सुस्थितम्।
विक्रमश्चयथादृष्टः स राजा देशकालवित्॥८॥

तस्य धर्मकृतादेशा वयमन्ये च पार्थिवाः।
चरामो वसुधां कृत्स्त्रां धर्मसन्तान मिच्छवः॥९॥

तस्मिन्नृपतिशार्दूले भरते धर्मवत्सले।
पालयत्यखिलां भूमिं कश्चरेद्धर्मनिग्रहम्॥१०॥

ते वयं धर्मविभ्रष्टं स्वधर्मे परमे स्थिताः।
भरताज्ञां पुरस्कृत्य निगृह्णीमो यथाविधि॥११॥

त्वं तु संक्लिष्टधर्मा च कर्मणा च विगर्हितः।

ज्येष्ठो भ्राता पिंता वापि यश्च विद्यां प्रयच्छति।
त्रयस्ते पितरो ज्ञेया धर्मे पथि हि वर्तिनः॥१३॥

यवीयान् सोदरः पुत्रः शिष्यश्चापि गुणान्वितः।
पुत्रवत्ते त्रयश्चिन्त्या धर्मश्चेदत्र कारणम् ॥१४॥

सूक्ष्मः परमदुर्ज्ञेयः सतां धर्मः प्लवङ्गम।
हृदिस्थः सर्वभूतानामात्मा वेद शुभाशुभम् ॥१५ ॥

चपलश्चपलैः सार्धं वानरैरकृतात्मभिः।
जात्यन्ध इव जात्यन्धैर्मन्त्रयन्द्रक्ष्यसे नु किम् ॥१६॥

अहं तु व्यक्ततामस्य वचनस्य ब्रवीमि ते।
न हि मां केवलं रोषान्त्वं विगर्हितुमर्हसि॥१७॥

तदेतत्कारणं पश्य यदर्थं त्वं मया हतः।
भ्रातुर्वर्तसि भार्यायां त्यक्त्वा धर्मं सनातनम् ॥१८ ॥

अस्य त्वं धरमाणस्य सुग्रीवस्य महात्मनः।
रुमायां वर्तसे कामात्स्नुषायां पापकर्मकृत् ॥१९॥

तद्वयतीतस्य ते धर्मात्कामवृत्तस्य वानर।
भ्रातृभार्यावमर्शेऽस्मिन् दण्डोऽयं प्रतिपादितः ॥२०॥

न हि धर्मविरुद्धस्य लोकवृत्तादपेयुषः।
दण्डादन्यत्र पश्यामि निग्रहं हरियूथप ॥२१॥

न च ते मर्षये पापं क्षत्रियोऽहं कुलोद्भवः ॥२२॥

औरसीं भगिनीं चापि भार्यां वाऽप्यनुजस्य यः।
प्रचरेत नरः कामात्तस्य दण्डो वधः स्मृतः ॥२३॥

भरतस्तु महीपालो वयं त्वादेशवर्तिनः।
त्वं च धर्मादतिक्रान्तः कथं शक्यमुपेक्षितुम्॥२४॥

गुरुर्धर्मव्यतिक्रान्तं प्राज्ञो धर्मेण पालयन्।
भरतः कामवृत्तानां निग्रहे पर्यवस्थितः॥२५ ॥

वयं तु भरतादेशं विधिं कृत्वा हरीश्वर।
त्वद्विधान् भिन्नमर्यादान्निहन्तुं पर्यवस्थिताः॥२६॥

सुग्रीवेण च मे सख्यं लक्ष्मणेन यथा तथा।
दारराज्यनिमित्तं च निःश्रेयसकरः स मे॥ २७॥

प्रतिज्ञा च मया दत्ता तदा वानरसन्निधौ।
प्रतिज्ञा च कथं शक्या मद्विधेनानवेक्षितुम्॥ २८॥

तदेभिः कारणैः सर्वैर्महद्भिर्धर्मसंहितैः।
शासनं तव यद्युक्तं तद्भवाननुमन्यताम्॥ २९॥

सर्वथा धर्म इत्येव द्रष्टव्यस्तव निग्रहः॥३०॥

वयस्यस्यापि कर्तव्यं धर्ममेवानुपश्यतः।
शक्यं त्वयापि तत्कार्यं धर्ममेवानुपश्यता॥३१॥

श्रूयते मनुना गीतौ श्लोकौ चारित्रवत्सलौ।
गृहीतौ धर्मकुशलैस्तत्तथा चरितं हरे॥३२॥

राजभिर्घृतदण्डास्तु कृत्वा पापानि मानवाः।
निर्मलाः स्वर्गमायान्ति सन्तः सुकृतिनो यथा ॥३३॥

शासनाद्वा विमोक्षाद्वा स्तेनः स्तेयाद्विमुच्यते।
राजा त्वशासन् पापस्य तदवाप्नोति किल्बिषम् ॥३४॥

आर्येण मम मान्धात्रा व्यसनं घोरमीप्सितम्।
श्रमणेन कृते पापे यथा पापं कृतं त्वया॥३५॥

अन्यैरपि कृतं पापं प्रमत्तैर्वसुधाधिपैः।
प्रायश्चित्तं च कुर्वन्ति तेन तच्छाम्यते रजः॥३६॥

तदलं परितापेन धर्मतः परिकल्पितः।
वधो वानरशार्दूल न वयं स्ववशे स्थिताः॥३७॥

शृणु चाप्यपरं भूयः कारणं हरिपुङ्गव।
तच्छ्रुत्वा हेतुमद्वीर न मन्युं कर्तुमर्हसि॥३८॥

न मे तत्र मनस्तापो न मन्युहरियूथप।
वागुराभिश्च पाशैश्च कूटैश्च विविधैर्नराः॥३९॥

प्रतिच्छन्नाश्चदृश्याश्च गृह्णन्ति सुबहून्मृगान्।
प्रधावितान्वावित्रस्तान्विस्त्रब्धांश्चापि निष्ठितान् ॥४०॥

प्रमत्तानप्रमत्तान्वा नरा मांसार्थिनो भृशम्।
विध्यन्ति विमुखांश्चापि न च दोषोऽत्र विद्यते ॥४१॥

यान्ति राजर्षयश्चात्र मृगयां धर्मकोविदाः।
तस्मात्त्वं निहतों युद्धे मया बाणेन वानर।
अयुध्यन् प्रतियुध्यन्वा यस्माच्छाखामृगो ह्यसि ॥४२ ॥

दुर्लभस्य च धर्मस्य जीवितस्य शुभस्य च।
राजानो वानरश्रेष्ठ प्रदातारो न संशयः॥४३॥

तान्न हिंस्यान्न चाक्रोशेन्नाक्षिपेन्नाप्रियं वदेत्।
देवा मनुष्यरूपेणचरन्त्येते महीतले॥४४॥

त्वं तु धर्ममविज्ञाय केवलं रोषमास्थितः।
प्रदूषयसि मां धर्मे पितृपैतामहे स्थितम्॥४५॥

एवमुक्तस्तु रामेण वाली प्रव्यथितो भृशम्।
न दोषं राघवे दध्यौ धर्मेऽधिगतनिश्चयः।
प्रत्युवाच ततो रामं प्राञ्जलिर्वानरेश्वरः॥४६॥

यत्त्वमात्थ नरश्रेष्ठ तदेवं नात्र संशयः।
प्रतिवक्तुं प्रकृष्टे हि नाप्रकृष्टस्तु शक्नुयात्॥४७॥

तदयुक्तं मया पूर्वं प्रमादादुक्तमप्रियम्।
तत्रापि खलु मे दोषं कर्तुं नार्हसि राघव॥४८॥

त्वं हि दृष्टार्थतत्त्वज्ञः प्रजानां च हिते रतः।
कार्यकारणसिद्धौ ते प्रसन्ना बुद्धिरव्यया॥४९॥

मामप्यगतधर्माणं व्यतिक्रान्तपुरस्कृतम्।
धर्मसंहितया वाचा धर्मज्ञ परिपालय॥५०॥

वाष्पसंरुद्धकण्ठस्तु वाली सार्तस्वरं शनैः।
उवाच रामं सम्प्रेक्ष्य पङ्कलग्न इव द्विपः॥५१॥

न त्वात्मानमहं शोचे न तारां न च बान्धवान्।
यथा पुत्रं गुणश्रेष्ठमङ्गदंकनकाङ्गदम्॥५२॥

सममादर्शनाद्दीनो बाल्यात्प्रभृति लालितः।
तटाक इव पीताम्बुरुपशोषं गमिष्यति॥५३ ॥

बालश्वाकृतबुद्धिश्च एकपुत्रश्च मे प्रियः।
तारेयो राम भवता रक्षणीयो महाबलः॥५४॥

सुग्रीवे चाङ्गदे चैव विधत्स्व मतिमुत्तमाम्।
त्वं हि शास्ता च गोप्ता च कार्याकार्यविधौ स्थितः ॥५५॥

या ते नरपते वृत्तिर्भरते लक्ष्मणे च या।
सुग्रीवे चाङ्गदे राजंस्तां त्वमाधातुमर्हसि॥५६॥

मद्दोषकृतदोषां तांयथा तारां तपस्विनीम्।
सुग्रीवो नावमन्येत तथाऽवस्थातुमर्हसि॥५७॥

त्वया ह्यनुगृहीतेन राज्यं शक्यमुपासितुम्।
त्वद्वशे वर्तमानेन तव चित्तानुवर्तिना ॥५८॥

शक्यं दिवं चार्जयितुं वसुधां चापि शासितुम् ॥५९॥

त्वत्तोऽहं वधमाकाङ्क्षन्वार्यमाणोऽपि तारया।
सुग्रीवेण सह भ्रात्रा द्वन्द्वयुद्धमुपागतः ॥
इत्युक्त्वा सन्नतो रामं विरराम हरीश्वरः॥६०॥

स तमाश्वासयद्रामो वालिनं व्यक्तदर्शनम्।
सामसंपन्नया वाचा धर्मतत्वार्थयुक्तया॥६१॥

न सन्तापस्त्वया कार्य एतदर्थं प्लवङ्गम॥६२॥

न वयं भवता चिन्त्या नाप्यात्मा हरिसत्तम।
वयं भवद्विशेषेण धर्मतः कृतनिश्चयाः॥६३॥

दण्ड्ये यः पातयेद्दण्डं दण्ड्यो यश्चापि दण्ड्यते।
कार्यकारणसिद्धार्थावुभौ तौ नावसीदतः ॥ ६४ ॥

तद्भवान्दण्डसंयोगादस्माद्विगतकल्मषः।
गतः स्वां प्रकृतिं धर्म्यांधर्मदृष्टेन वर्त्मना ॥६५॥

त्यज शोकं च मोहं च भयं च हृदये स्थितम्।
त्वया विधानं हर्यग्र्य न शक्यमतिवर्तितुम्॥६६॥

यथा त्वय्यङ्गदो नित्यं वर्तते वानरेश्वर।
तथा वर्तेत सुग्रीवे मयि चापि न संशयः ॥६७॥

स तस्य वाक्यं मधुरं महात्मनः
समाहितं धर्मपथानुवर्तिनः।
निशम्य रामस्य रणावमर्दिनो
वचः सुयुक्तं निजगाद वानरः॥६८॥

शराभितप्तेन विचेतसा मया
प्रदूषितस्त्वं यदजानता प्रभो।
इदं महेन्द्रोपमभीमविक्रम
प्रसादितस्त्वं क्षम मे नरेश्वर॥६९॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये
किष्किन्धाकाण्डे अष्टादशः सर्गः ॥

आदितः श्लोकाः 10086
किष्किन्धाकाण्डे आदितः श्लोकाः 834

<MISSING_FIG href="../books_images/U-IMG-1707987356Screenshot2024-02-13121118.png"/>

एकोनविंशः सर्गः ॥१९॥

रणाङ्कणे तारागमनम् ॥

स वानरमहाराजः शयानः शरविक्षतः।
प्रत्युक्तो हेतुमद्वाक्यैर्नोत्तरं प्रत्यपद्यत॥१॥

अश्मभिः प्रविभिन्नाङ्गः पादपैराहतो भृशम्।
रामबाणेन च क्रान्तो जीवितान्ते मुमोह सः ॥२॥

तं भार्या बाणमोक्षेण रामदत्तेन संयुगे।
हतं प्लवगशार्दूलं तारा शुश्राव वालिनम् ॥३॥

सा सपुत्राऽप्रियं श्रुत्वा वधं भर्तुः सुदारुणम्।
निष्पपात भृशं त्रस्ता विविधाद्गिरिगह्वरात्॥४॥

ये त्वङ्गदपरीवारा वानरा भीमविक्रमाः।
ते सकार्मुकमालोक्य रामं त्रस्ताः प्रदुद्रुवुः॥५॥

सा ददर्श ततस्त्रस्तान्हरीनापततो भृशम्।
यूथादिव परिभ्रष्टान्मृगान्निहतयूथपान्॥६॥

तानुवाच समासाद्य दुःखितान्दुःखिता सती।
रामवित्रासितान्सर्वाननुबद्धानिवेषुभिः॥७॥

वानरा राजसिंहस्य यस्य यूयं पुरःसराः।
तं विहाय सुसंत्रस्ताः कस्माद्रवथ दुर्गताः॥८॥

राज्यहेतोः स चेद्भ्राता भ्रात्रारौद्रेण पातितः।
रामेण प्रहितै रौद्रैर्मार्गणैर्दूरपातिभिः॥९॥

कपिपत्न्यावचः श्रुत्वा कपयः कामरूपिणः।
प्राप्तकालमविक्लिष्टमूचुर्वचनमङ्गनाम्॥१०॥

जीवपुत्रे निवर्तस्व पुत्रं रक्षस्व चाङ्गदम्।
अन्तको रामरूपेण हत्वा नयति वालिनम् ॥११॥

क्षिप्तान्वृक्षान्समाविध्य विपुलाश्च शिलास्तथा।
वाली वज्रसमैर्वाणैरामेण विनिपातितः॥१२॥

अभिद्रुतमिदं सर्वे विद्रुतं प्रसृतं बलम्।
अस्मिन्प्लवगशार्दूले हते शक्रसमप्रभे॥१३॥

रक्ष्यतां नगरद्वारमङ्गदश्चाभिषिच्यताम्।
पदस्थं वालिनः पुत्रं भजिष्यन्ति प्लवङ्गमाः ॥१४॥

अथवाऽरुचितं स्थानमिह ते रुचिरानने।
आविशन्ति हि दुर्गाणि क्षिप्रमद्यैव वानराः ॥१५॥

अभार्याश्च सभार्याश्च सन्त्यत्र वनचारिणः।
लुब्धेभ्यो विप्रयुक्तेभ्यस्तेभ्यो नस्तुमुलं भयम् ॥१६॥

अल्पान्तरगतानां तु श्रुत्वा वचनमङ्गना।
आत्मनः प्रतिरूपं सा बभाषे चारुहासिनी ॥१७॥

पुत्रेण मम किं कार्यं किं राज्येन किमात्मना।
कपिसिंहे महाभागे तस्मिन्भर्तरि नश्यति॥१८॥

पादमूलं गमिष्यामि तस्यैवाहं महात्मनः।
योऽसौ रामप्रयुक्तेन शरेण विनिपातितः॥१९॥

एवमुक्त्वा प्रदुद्राव रुदन्ती शोककर्शिता।
शिरश्चोरश्चबाहुभ्यां दुःखेन समभिघ्नती॥२०॥

आव्रजन्ती ददर्शाथ पतिं निपतितं भुवि।
हन्तारं दानवेन्द्राणां समरेष्वनिवर्तिनाम् ॥२१॥

क्षेप्तारं पर्वतेन्द्राणां वज्राणामिव वासवम्।
महाबलसमाविष्टं महामेघौघनिःस्वनम्॥२२॥

शक्रतुल्यपराक्रान्तं दृष्ट्वेवोपरतं धनम्।
नर्दन्तं नर्दतां भीमं शूरं शुरेण पातितम्॥२३॥

शार्दूलेनामिषस्यार्थे मृगराजं यथा हतम्॥२४॥

अर्चितं सर्वलोकस्य सपताकं सवेदिकम्।
नागहेतोः सुपर्णेन चैत्यमुन्मथितं यथा॥२५॥

अवष्टभ्य च तिष्टन्तं ददर्श धनुरूर्जितम्।
रामं रामानुजं चैव भर्तुश्चैवानुजं शुभा॥२६॥

तानतीत्य समासाद्य भर्तारं निहतं रणे।
समीक्ष्य व्यथिता भूमौ संभ्रान्ता निपपात ह ॥२७॥

सुप्त्वैव पुनरुत्थाय ह्यार्यपुत्रेति शोचती।
रुरोद सा पतिं दृष्ट्वा संदितं मृत्युदामभिः॥२८॥

तामवेक्ष्य तु सुग्रीवः क्रोशन्तीं कुररीमिव।
विषादमगमत्कष्टं दृष्ट्वा चाङ्गदमागतम्॥२९॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये
किष्किन्धाकाण्डे एकोनविंशः सर्गः ॥

आदितः श्लोकाः 10115
किष्किन्धाकाण्डे आदितः श्लोकाः 863

<MISSING_FIG href="../books_images/U-IMG-1707986298Screenshot2024-02-13121118.png"/>

विंशः सर्गः ॥२०॥

ताराविलापः ॥

रामचापविसृष्टेन शरेणान्तकरेण तम्।
दृष्ट्वा विनिहतं भूमौ तारा ताराधिपानना॥१॥

वानरेन्द्रं महेन्द्राभं शोकसंतप्तमानसा।
तारा तरुमिवोन्मूलं पर्यदेवयदातुरा॥२॥

सा समासाद्य भर्तारं पर्यष्वजत भामिनी।
इषुणाभिहतं दृष्ट्वा वालिनं कुञ्जरोपमम्॥३॥

रणे दारुणविक्रान्त प्रवीर प्लवतां वर।
किं दीनामपुरोभागामद्य त्वं नाभिभाषसे॥४॥

उत्तिष्ठ हरिशार्दूल भजस्व शयनोत्तमम्।
नैवंविधाः शेरते हि भूमौ नृपतिसत्तमाः॥५॥

अतीव खलु ते कान्ता वसुधा वसुधाधिप।
गतासुरपि यां गात्रैर्मांविहाय निषेवसे॥६॥

व्यक्तमन्या त्वया वीर धर्मतः संप्रवर्तिता।
किष्किन्धेव पुरी रम्या स्वर्गमार्गे विनिर्प्रिता॥७॥

यान्यस्माभिस्त्वया सार्धं वनेषु मधुगन्धिषु।
विहृतानि त्वया काले तेषामुपरमः कृतः॥८॥

निरानन्दा निराशाऽहं निमग्ना शोकसागरे।
त्वयि पञ्चत्वमापन्नेमहायूथपयूथपे॥९॥

हृदयं सुस्थिरं मह्यं दृष्ट्वा विनिहतं पतिम्।
यन्नशोकाभिसंतप्तं स्फुटतेऽद्य सहस्रधा॥१०॥

सुग्रीवस्य त्वया भार्या हृता स च विवासितः।
यत्तत्तस्य त्वया व्युष्टिः प्राप्तेयं प्लवगाधिप॥११॥

निःश्रेयसपरा मोहात्त्वयाचाहं विगर्हिता।
यैषाऽब्रवं हितं वाक्यं वानरेन्द्र हितैषिणी॥१२॥

रूपयौवनदृतानां दक्षिणानां च मानद।
नूनमप्सरसामार्यचित्तानि प्रमथिष्यसि॥१३॥

कालो निःसंशयोनूनं जीवितान्तकरस्तव।
वलाद्येनावपन्नोऽसि सुग्रीवस्यावशो वशम् ॥१४॥

वैधव्यं शोकसन्तापं कृपणं कृपणा सती।
अदुःखोपचिता पूर्वं वर्तयिष्याम्यनाथवत्॥१५॥

लालितश्चाङ्गदो वीरः सुकुमारः सुखोचितः।
वत्स्यते कामवस्थां मे पितृव्ये क्रोधमूर्छिते॥१६॥

कुरुष्व पितरं पुत्र सुदृष्टं धर्मवत्सलम्।
दुर्लभं दर्शनं वत्स तवतस्य भविष्यति॥१७॥

समाश्वासय पुत्रंत्वं संदेशं संदिशस्वच ॥१८॥

मूर्ध्नि चैनं समाघ्राय प्रवासं प्रस्थितो ह्यसि ॥१९॥

रामेण हि महत्कर्म कृतं त्वामभिनिघ्नता।
आनृण्यंच गतं तस्य सुग्रीवस्य प्रतिश्रवे ॥२०॥

सकामो भव सुग्रीव रुमां त्वं प्रतिपत्स्यसे।
भुङ्क्ष्व राज्यमनुद्विग्नः शस्तो भ्राता रिपुस्तव ॥२१॥

किं मामेवं विलपतीं प्रेम्णा त्वं नाभिभाषसे।
इमाः पश्य वरा बह्वीर्भार्यास्ते वानरेश्वर॥२२॥

तस्या विलपितं श्रुत्वा वानर्यः सर्वतश्च ताः।
परिगृह्याङ्गदं दीनं दुःखार्ताः परिचुक्रुशुः॥२३॥

किमङ्गदंसाङ्गदवीरबाहो
विहाय यास्यद्य चिरप्रवासम्।
न युक्तमेवं गुणसन्निकृष्टं
विहाय पुत्रं प्रियपुत्र गन्तुम्॥२४॥

किमप्रियं ते मियचारुवेष
मया कृतं नाथ सुतेन वा ते।
सहाङ्गदां मां स विहाय वीर
यत्प्रस्थितो दीर्घमितः प्रवासम्॥२५॥

यद्यप्रियं किंचिदसंप्रधार्य
कृतं मया स्यात्तव दीर्घबाहो।
क्षमस्व मे तद्धरिवंशनाथ
व्रजामि मूर्ध्ना तब वीर पादों॥२६॥

तथा तु तारा करुणं रुदन्ती
भर्तः समीपे सह वानरीभि।
व्यवस्यत प्रायमुपोपवेष्टु-
मनिन्द्यवर्णा भुवि यत्र वाली॥२७॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये
किष्किन्धाकाण्डे विंशः सर्गः ॥

आदितः श्लोकाः 10142
किष्किन्धाकाण्डे आदितः श्लोकाः 890

<MISSING_FIG href="../books_images/U-IMG-1707989222Screenshot2024-02-13151634.png"/>

एकविंशः सर्गः ॥ २१ ॥

हनूमता तारासमाश्वासनम् ॥

ततो निपतितां तारां च्युतां तारामिवाम्बरात्।
शनैराश्वासयामास हनुमान्हरियूथपः॥१॥

गुणदोषकृतं जन्तुः स्वकर्मफलहेतुकम्।
अव्यग्रस्तदवाप्नोति सर्वं प्रेत्य शुभाशुभम्॥२॥

शोच्या शोचसि कं शोच्यं दीनं दीनाऽनुकम्पसे।
कश्च कस्यानुशोच्योऽस्ति देहेऽस्मिन् बुद्बुदोपमे॥३॥

अङ्गदस्तु कुमारोऽयं द्रष्टव्यो जीवपुत्रया।
आयत्यां च विधेयानि समर्थान्यस्य चिन्तय ॥४॥

जानास्यनियतामेवं भूतानामागतिं गतिम्।
तस्माच्छुभं हि कर्तव्यं पण्डितेनैहलौकिकम्॥५॥

यस्मिन् हरिसहस्राणि शतानि नियुतानि च।
वर्तयन्ति कृतांशानि सोऽयं दिष्टान्तमागतः॥६॥

यदयं न्यायदृष्टार्थः सामदानक्षमापरः।
गतो धर्मजितां भूमि नैनं शोचितुमर्हसि॥७॥

सर्वे हि हरिशार्दूलाः पुत्रश्चायंतवाङ्गदः।
हर्यृक्षपतिराज्यं च त्वत्सनाथमनिन्दिते॥८॥

ताविमौ शोकसंतप्तौशनैः प्रेरय भामिनि।
त्वया परिगृहीतोऽयमङ्गदः शास्तु मेदिनीम्॥९॥

संततिश्च यथा दृष्टा कृत्यं यच्चापि सांप्रतम्।
राज्ञस्तत्क्रियतां सर्वमेष कालस्य निश्चयः॥१०॥

संस्कार्यो हरिराजश्व अङ्गदाभिषिच्यताम्।
सिंहासनगतं पुत्रं पश्यन्ती शान्तिमेष्यसि॥११॥

सा तस्य वचनं श्रुत्वा भर्तृव्यसनपीडिता।
अब्रवीदुत्तरं तारा हनुमन्तमवस्थितम्॥१२॥

अङ्गदप्रतिरूपाणां पुत्राणामेकतः शतम्।
हतस्यास्य प्रवीरस्य गात्रसंश्लेषणं वरम्॥१३॥

न चाहं हरिराजस्य प्रभवाम्यङ्गदस्य वा।
पितृव्यस्तस्य सुग्रीवः सर्वकार्येष्वनन्तरः॥१४॥

न ह्येषा बुद्धिरास्थेया हनुमन्नङ्गदं प्रति।
पिता हि बन्धुः पुत्रस्य न माता हरिसत्तम ॥ १५ ॥

न हि मम हरिराजसंश्रया-
त्क्षमतरमस्ति परत्र चेह वा।
अभिमुखहतवीरसेवितं
शयनमिदं मम से वितुं क्षमम्॥१६॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये
किष्किन्धाकाण्डे एकविंशः सर्गः ॥

आदितः श्लोकाः 10158
किष्किन्धाकाण्डे आदितः श्लोकाः 906

<MISSING_FIG href="../books_images/U-IMG-1707990230Screenshot2024-02-13121118.png"/>

द्वाविंशः सर्गः ॥ २२ ॥

वालिनः प्राणवियोगः ॥

वीक्षमाणस्तु मन्दासुः सर्वतो मन्दमुच्छ्वसन्।
आदावेव तु सुग्रीवं ददर्शानुजमग्रतः॥१॥

तं प्राप्तविजयं वाली सुग्रीवं प्लवगेश्वरम्।
आभाष्य व्यक्तया वाचा सस्नेहमिदमब्रवीत्॥२॥

सुग्रीव दोषेण न मां गन्तुमर्हसि किल्बिषात्।
कृष्यमाणं भविष्येण बुद्धिमोहेन मां बलात्॥३॥

युगपद्विहितं तात न मन्ये सुखमावयोः।
सौहार्देभ्रातृयुक्तं हि तदिदं तात नान्यथा ॥४॥

प्रतिपद्य त्वमद्यैव राज्यमेषां वनौकसाम्।
मामप्यद्यैव गच्छन्तं विद्धिं वैवस्वतक्षयम्॥५॥

जीवितं च हि राज्यं च श्रियं च विपुलामिमाम्।
प्रजहाम्येष वै तूर्णं महच्चागर्हितं यशः॥६॥

अस्यां त्वहमवस्थायां वीर वक्ष्यामि यद्वचः।
यद्यप्यसुकरं राजन् कर्तुमेव तदर्हसि॥७॥

सुखार्हंसुखसंवृद्धं बालमेनमबालिशम्।
बाष्पपूर्णमुखं पश्य भूमौ पतितमङ्गदम्॥८॥

मम प्राणैः प्रियतरं पुत्रं पुत्रमिवौरसम्।
मया हीनमहीनार्थं सर्वतः परिपालय॥९॥

त्वमेवास्य हि दाता च परित्राता च सर्वतः।
भयेष्वभयदश्चैव यथाहं प्लवगेश्वर॥१०॥

एष तारात्मजः श्रीमांस्त्वया तुल्यपराक्रमः।
रक्षसां तु वधे तेषामग्रतस्ते भविष्यति॥११॥

अनुरूपाणि कर्माणि विक्रम्य बलवात्रणे।
करिष्यत्येष तारेयस्तरस्वी तरुणोऽङ्गदः॥१२॥

सुषेणदुहिता चेयमर्थसूक्ष्मविनिश्चये।
औत्पादिके च विविधे सर्वतः परिनिष्ठिता॥१३॥

यदेषा साध्विति ब्रूयात्कार्यं तन्मुक्तसंशयम्।
न हि तारामतं किञ्चिदन्यथा परिवर्तते॥१४॥

राघवस्य च ते कार्यं कर्तव्यमविशङ्कया।
स्यादधर्मो ह्यकरणे त्वां च हिंस्याद्विमानितः ॥१५॥

इमां च मालामाधत्स्व दिव्यां सुग्रीव काञ्चनीम्।
उदारा श्रीः स्थिता ह्यस्यां संप्रजह्यान्मृते मयि ॥१६॥

इत्येवमुक्तः सुग्रीवो वालिना भ्रातृसौहृदात्।
हर्षं त्यक्त्वा पुनर्दीनो ग्रहग्रस्त इवोडुराट्॥१७॥

तद्वालिवचनाच्छान्तः कुर्वन्युक्तमतन्द्रितः।
जग्राह सोभ्यनुज्ञातो मालां तां चैव काञ्चनीम् ॥१८॥

तां मालां काञ्चनीं दत्त्वावाली दृष्ट्वाऽऽत्मजं स्थितम्।
संसिद्धः प्रेत्यभावाय स्नेहादङ्गदमब्रवीत्॥१९॥

देशकालौ भजस्वाद्य क्षममाणः प्रियाप्रिये।
सुखदुःखसहः काले सुग्रीववशगो भव॥२०॥

यथा हि त्वं महाबाहो लालितः सततं मया।
न तथा वर्तमानं त्वां सुग्रीवो बहुमन्यते॥२१॥

मास्यामित्रैर्गतं गच्छेर्मा शत्रुभिररिन्दम।
भर्तुरर्थपरो दान्तः सुग्रीववशगो भव॥२२॥

न चातिप्रणयः कार्यः कर्तव्योऽप्रणयश्च ते।
उभयं हि महान् दोषस्तस्मादन्तरदृग्भव॥२३॥

इत्युक्त्वाऽथ विवृत्ताक्षः शरसंपीडितो भृशम्।
विवृतैर्दशनैर्भीमैर्बभूवोत्क्रान्तजीवितः॥२४॥

ततो विचुक्रुशुस्तत्र वानरा हरियूथपाः।
परिदेवयमानास्ते सर्वे प्लवगपुङ्गवाः॥२५॥

किष्किन्धा ह्यद्य शून्येयं स्वर्गते वानराधिपे।
उद्यानानि च शून्यानि पर्वताः काननानि च ॥२६॥

हते प्लवगशार्दूले निष्प्रभा वानराः कृताः॥२७॥

यस्य वेगेन महता काननानि वनानि च।
पुष्पौघेणानुबध्यन्ते करिष्यति तदद्य कः॥२८॥

येन दत्तं महद्युद्धं गन्धर्वस्य महात्मनः।
गोलभस्य महाबाहोर्दश वर्षाणि पञ्च च॥२९॥

नैव रात्रौ न दिवसे तद्युद्धमुपशाम्यति।
ततस्तु षोडशे वर्षे गोलभो विनिपातितः॥३०॥

हत्वा तं दुर्विनीतं तु वाली दंष्ट्राकरालवान्।
सर्वाभयकरोऽस्माकं कथमेष निपातितः॥३१॥

हते तु वीरे प्लवगाधिपे तदा
प्लवङ्गमास्तत्र न शर्म लेभिरे।
वनेचराः सिंहयुते महावने
यथा हि गावो निहते गवां पतौ ॥३२॥

ततस्तु तारा व्यसनार्णवाप्लुता
मृतस्य भर्तुर्वदनं समाश्रिता।
जगाम भूमिं परिरभ्य वालिनं
महाद्रुमं छिन्नमिवाश्रिता लता ॥३३॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये
किष्किन्धाकाण्डे द्वाविंशः सर्गः ॥

आदितः श्लोकाः 10191
किष्किन्धाकाण्डे आदितः श्लोकाः 939

<MISSING_FIG href="../books_images/U-IMG-1710135640Screenshot2024-03-08154806.png"/>

त्रयोविंशः सर्गः ॥ २३ ॥

पुनस्ताराविलापः ॥

ततः समुपजिघ्रन्ती कपिराजस्य तन्मुखम्।
पतिं लोकाच्च्युतं तारा मृतं वचनमब्रवीत्॥१॥

शेषे त्वं विषमे दुःखमकृत्वा वचनं मम।
उपलोपचिते वीर सुदुःखे वसुधातले॥२॥

मत्तः प्रियतरा नूनं वानरेन्द्र मही तव।
शेषे हि तां परिष्वज्य मां च न प्रतिभाषसे॥३॥

सुग्रीवस्य वशं प्राप्तो विधिरेष भवत्यहो।
सुग्रीव एव विक्रान्तो वीर साहसिकप्रिय॥४॥

ऋक्षवानरमुख्यास्त्वां बलिनः पर्युपासते॥५॥

एषां विलपितं कृच्छ्रमङ्गदस्य च शोचतः।
मम चेमां गिरं श्रुत्वा किं त्वं न प्रतिबुध्यसे ॥६॥

इदं तद्वीरशयनं यत्र शेषे हतो युधि।
शायिता निहता यत्र त्वयैव रिपवः पुरा॥७॥

विशुद्धसत्वाभिजन प्रिययुद्ध मम प्रिंय।
मामनाथां विहायैकां गतस्त्वमसि मानद ॥८॥

शूराय न प्रदातव्या कन्या खलु विपश्चिता।
शूरभार्यो हतां पश्य सद्यो मां विधवां कृताम् ॥९॥

अवभग्नश्च मे मानो भग्ना मे शाश्वती गतिः।
अगाधे च निमग्नास्मि विपुले शोकसागरे॥१०॥

अश्मसारमयं नूनमिदं मे हृदयं दृढम्।
भर्तारं निहतं दृष्ट्वा यन्नाद्य शतधा गतम्॥११॥

सुहृच्चैव हि भर्ता च प्रकृत्या मम च प्रियः
आहवे च पराक्रान्तः शूरः पञ्चत्वमागतः॥१२॥

पतिहीना तु या नारी कामं भवतु पुत्रिणी।
धनधान्यैः सुपूर्णापि विधवेत्युच्यते जनैः॥१३॥

स्वगात्रप्रभवे वीर शेषे रुधिरमण्डले।
कृमिरागपरिस्तोमे त्वमेव शयने यथा॥१४॥

रेणुशोणितसंवीतं गात्रं तव समन्ततः।
परिरब्धुंन शक्नोमि भुजाभ्यां प्लवगर्षभ॥१५॥

कृतकृत्योऽद्य सुग्रीवो वैरेऽस्मिन्नतिदारुणे।
यस्य रामविमुक्तेन हृतमेकेषुणा भयम्॥१६॥

शरेण हृदि लग्नेन गात्रसंस्पर्शने तव।
चार्यामि त्वां निरीक्षन्ती त्वयि पञ्चत्वमागते ॥१७॥

उद्भबर्हशरं नीलस्तस्य गात्रगतं तदा।
गिरिगह्वरसलीनं दीप्तमाशीविषं यथा॥१८॥

तस्य निष्कृष्यमाणस्य बाणस्य च बभौ द्युतिः।
अस्तमस्तकसंरुद्धो रश्मिर्दिनकरादिव॥१९॥

येतुः क्षतजधारास्तु व्रणेभ्यस्तस्य सर्वशः।
ताम्रगैरिकसंपृक्ता धारा इव धराधरात्॥२०॥

अवकीर्ण विमार्जन्ती भर्तारं रणरेणुना।
आस्रैर्नयनजैः शूरं सिषेचास्त्रसमाहतम्॥२१॥

रुधिरोक्षितसर्वाङ्ग दृष्ट्वा विनिहतं पतिम्।
उवाच तारा पिङ्गाक्षं पुत्रमङ्गदमङ्गन्॥२२॥

अवस्थां पश्चिमां पश्य पितुः पुत्र सुदारुणाम्।
संप्रसक्तस्य वैरस्य गतोऽन्तः पापकर्मणा॥२३॥

बालसूर्योदयतनुं प्रयान्तं यमसादनम्।
अभिवादय राजानं पितरं पुत्र मानदम्॥२४॥

एवमुक्तः समुत्थाय जग्राह चरणौ पितुः।
भुजाभ्यां पीनवृत्ताभ्यामङ्गदोऽहमिति ब्रुवन् ॥२५॥

अभिवादयमानं त्वामङ्गदं त्वं यथा पुरा।
दीर्घायुर्भव पुत्रेति किमर्थं नाभिभाषसे॥२६॥

अहं पुत्रसहाया त्वामुपासे गतचेतसम्।
सिंहेन निहतं सद्यो गौः सवत्सेव गोवृषम्॥२७॥

इष्ट्वासंग्रामयज्ञेन रामबाणमहाम्भसि।
अस्मिन्नवभृथे स्नातः कथं पत्न्या मया विना॥२८॥

या दत्ता देवराजेन तव तुष्टेन संयुगे।
शातकुम्भमयीं मालां तां ते पश्यामि नेह किम् ॥२९॥

राजश्रीर्न जहाति त्वां गतासुमपि मानद।
सूर्यस्यावर्तमानस्य शैलराजमिव प्रभा॥३०॥

न मे वचः पथ्यमिदं त्वया कृतं
न चास्मि शक्ता विनिवारणे तव।
हता सपुत्रास्मि हतेन संयुगे
सह त्वया श्रीर्विजहाति मामिह ॥३१॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये
किष्किन्धाकाण्डे त्रयोविंशः सर्गः ॥

आदितः श्लोकाः 10222
किष्किन्धाकाण्डे आदितः श्लोकाः 970

<MISSING_FIG href="../books_images/U-IMG-1707993474Screenshot2024-02-13142116.png"/>

चतुर्विंशः सर्गः ॥ २४ ॥

श्रीरामेण तारासमाश्वासनम् ॥

तां चाश्रुवेगेन दुरासदेन त्वभिप्लूतां शोकमहार्णवेन।
पक्ष्यंस्तदा वाल्यनुजस्तरस्वी भ्रातुर्वधेनाप्रतिमेन तेपे॥१॥

स बाष्पपूर्णेन मुखेन वीक्ष्य क्षणेन निर्विण्णमना मनस्वी।
जगाम रामस्य शनैः समीपं भृत्यैर्वृतः संपरदूयमानः ॥२॥

स तं समासाद्य गृहीतचापमुदात्तमाशीविषतुल्यबाणम्।
यशस्विनं लक्षणलक्षिताङ्गमव स्थितं राघवमित्युवाच ॥३॥

यथाप्रतिज्ञातमिदं नरेन्द्र कृतं त्वया दृष्टफलं च कर्म।
ममाद्य भोगेषु नरेन्द्रपुत्र मनो निवृत्तं सह जीवितेन ॥४॥

अस्यां महिष्यां तु भृशं रुदन्त्यां पुरे च विक्रोशति दुःखतप्ते।
हतेऽग्रजे संशयितेऽङ्गदे च न राम राज्ये रमते मनो मे ॥ ५॥

क्रोधादमर्षादतिविप्रधर्षावातुर्वधो मेऽनुमतः पुरस्तात्।
हते त्विदानीं हरियूथपेऽस्मिन् सुतीव्रमिक्ष्वाकुकुमार तप्स्ये ॥६॥

श्रेयोऽद्य मन्ये मयशैलमुख्ये तस्मिन्निवासश्चिरमृश्यमूके।
यथा तथा वर्तयतः स्ववृत्त्या नेमं निहत्य त्रिदिवस्य लाभः ॥७॥

न त्वां जिघांसामि चरेति यन्मामयं महात्मा मतिमानुवाच।
तस्यैव तद्राम वचोऽनुरूपमिदं पुनः कर्म च मेऽनुरूपम् ॥८॥

भ्राता कथं नाम महागुणस्य
भ्रातुर्वधं राघव रोचयेत।
राज्यस्य दुःखस्य च वीर सारं
न चिन्तयन् कामपुरस्कृतः सन्॥९॥

वधो हि मे मतो नासीत् स्वाहात्म्यव्यतिक्रमात्।
ममासीद्बुद्धिदौरात्म्यात् प्राणहारी व्यतिक्रमः॥१०॥

द्रुमशाखावभग्नाऽहं मुहूर्तं परिनिष्टनन्।
सान्त्वयित्वा त्वनेनोक्तो न पुनः कर्तुमर्हसि॥११॥

भ्रातृत्वमार्यभावश्च धर्मश्चानेन रक्षितः ॥१२॥

मया क्रोधश्च कामश्च कपित्वं च प्रदर्शितम् ॥१३॥

अचिन्तनीयं परिवर्जनीयमनीप्सनीयं स्वनवेक्षणीयम्।
प्राप्तोऽस्मि पाप्मानमिमं नरेन्द्र भ्रातुर्वधाचाष्ट्रवधादिवेन्द्रः ॥१४॥

पाप्मानमिन्द्रस्य मही जलं च वृक्षाश्च कामं जगृहुः स्त्रियश्च।
को नाम पाप्मानमिमं क्षमेत शाखामृगस्य प्रतिपत्तुमिच्छन् ॥१५॥

नार्हामि संमानमिमं प्रजानां न यौवराज्यं कुत एव राज्यम्।
अधर्मयुक्तं कुलनाशयुक्तमेवंविधं राघव कर्म कृत्वा ॥ १६ ॥

पापस्य कर्ताऽस्मि विगर्हितस्य क्षुद्रस्य लोकापकृतस्य चैव।
शोको महान्मामभिवर्ततेऽयं वृष्टेर्यथा निम्नमिवाम्बुवेगः ॥१७॥

सोदर्यघातापरगात्रवालः सन्तापहस्ताक्षिशिरोविषाणः।
एनोमयों मामभिहन्ति हस्ती दृप्तो नदी कूलमिव प्रवृद्धः ॥१८॥

अंहो बतेदं नृवराविषह्य निवर्तते मे हृदि साधुवृत्तम्।
विवर्णमग्नौपरितप्यमानं किट्टं यथा राघव जातरूपम् ॥१९॥

महावलानां हरियूथपानामिदं कुलं राघव मन्निमित्तम्।
अस्याङ्गदस्यापि च शोकतापादर्धस्थितप्राणमतीव मन्ये ॥२०॥

सुतः सुलभ्यः सुजनः सुवश्यः कुतः सुपुत्रः सदृशोऽङ्गदेन।
न चापि विद्येत स वीर देशो यस्मिन्भवेत्सोदरसन्निकर्षः ॥२१॥

यद्यङ्गदो वीरवरार्हजीवेज्जीवेच्च माता परिपालनार्थम्।
विना तु पुत्रं परितापदीना तारा न जीवेदिति निश्चितं मे ॥२२॥

सोऽहं प्रवेक्ष्याम्यतिदीप्तमग्निं
भ्रात्रा च पुत्रेण च सख्यमिच्छन्।
इमे विचेष्यन्ति हरिप्रवीराः
सीतां निदेशे परिवर्तमानाः ॥२३॥

कृत्स्नं तु ते सेत्स्यति कार्यमेतन्मय्यप्रतीते मनुजेन्द्रपुत्र।
कुलस्य हन्तारमजीवनार्हंरामानुजानीहि कृतागसं माम् ॥२४॥

इत्येवमार्तस्य रघुप्रवीरः श्रुत्वा वचो वालिजघन्यजस्य।
सञ्जातवाष्पः परवीरहन्ता रामो मुहूर्तं विमना वभूव ॥२५॥

तस्मिन् क्षणेऽभीक्ष्णमवेक्ष्यमाणः
क्षितिक्षमावान् भुवनस्य गोप्ता।
रामो रुदन्तीं व्यसने निमग्नां
समुत्सुकः सोऽथ ददर्श ताराम् ॥२६॥

तां चारुनेत्रां कपिसिंहनाथां पतिं समाश्लिष्य तदा शयानाम्।
उत्थापयामासुरदीनसत्त्वां मन्त्रिप्रधानाः कपिराजपत्नीम् ॥२७॥

सा विस्फुरन्ती परिरभ्यमाणा भर्तुः सकाशादपनीयमाना।
ददर्श रामं शरचापपाणिं स्वतेजसा सूर्यमिव ज्वलन्तम् ॥२८॥

सुसंवृतं पार्थिवलक्षणैश्च तं चारुनेत्रं मृगशाबनेत्रा।
अदृष्टपूर्वं पुरुषप्रधानमयं स काकुत्स्थ इति प्रजज्ञे ॥२९॥

तस्येन्द्रकल्पस्य दुरासदस्य महानुभावस्य समीपमार्या।
आर्ताऽतितूर्णं व्यसनाभिपन्ना जगाम तारा परिविह्वलन्ती ॥३०॥

सा तं समासाद्य विशुद्धसत्त्वं शोकेन संभ्रान्तशरीरभावा।
मनस्विनी वाक्यमुवाच तारा रामं रणोत्कर्षणलब्धलक्ष्यम् ॥३१॥

त्वमप्रमेयश्च दुरासदश्च जितेन्द्रियश्चोत्तमधार्मिकञ्च।
अक्षय्यकीर्तिश्च विचक्षणश्च क्षितिक्षमावान् क्षतजोपमाक्षः ॥३२॥

त्वमात्तवाणासनबाणमणिर्महाबलः संहननोपपन्नः।
मनुष्यदेहाभ्युदयं विहाय दिव्येन देहाभ्युदयेन युक्तः ॥३३॥

येनैव बाणेन हतः प्रियो मे तेनैव मां त्वं जहि सायकेन।
हता गमिष्यामि समीपमस्य न मामृते राम रमेत वाली ॥३४॥

स्वर्गेऽपि पद्मामलपत्रनेत्रः समेत्य संप्रेक्ष्य च मामपश्यन्।
न ह्येष उच्चावचताम्रचूडा विचित्रवेषाप्सरसोऽभजिष्यत् ॥३५॥

स्वर्गेऽपि शोकं च विवणंतां च
मया विना प्राप्स्यति वीर वाली।
रम्ये नगेन्द्रस्य तटावकाशे
विदेहकन्यारहितो यथा त्वम् ॥ ३६॥

त्वं वेत्थ यावद्वनिताविहीनः प्राप्नोति दुःखं पुरुषः कुमारः।
तत्त्वं प्रजानञ्जहि मां न वाली दुःखं ममादर्शनजं भजेत ॥३७॥

यच्चापि मन्येत भवान्महात्मा स्त्रीघातदोषो न भवेत्तु मह्यम्।
आत्मेयमस्येति च मां जहि त्वं न स्त्रीवधः स्यान्मनुजेन्द्रपुत्र
शास्त्रमयोगाद्विविधाच्च वेदादात्मा ह्यनन्यः पुरुषस्य दाराः ॥३८॥

दारमदानाद्धि न दानमन्यत्प्रदृश्यते ज्ञानवतां हि लोके ॥३९॥

त्वं चापि मां तस्य मम प्रियस्य प्रदास्यसे धर्ममवेक्ष्य वीर।
अनेन दानेन न लप्स्यसे त्वमधर्मयोगं मम वीरघातात् ॥४०॥

आर्तामनाथामपनीयमानामेवंविधामर्हसि मां निहन्तुम्।
अहं हि मातङ्गविलासगामिना प्लवङ्गमानामृषभेण धीमता ॥
विना वरार्होत्तमहेममालिना चिरं न शक्ष्यामि नरेन्द्र जीवितुम् ॥४१॥

इत्येवमुक्तस्तु विभुर्महात्मा तारां समाश्वास्य हितं बभाषे ॥४२॥

मा वीरभार्ये विमतिं कुरुष्व लोको हि सर्वो विहितों विधात्रा।
तं चैव सर्वं सुखदुःखयोगं लोकोऽब्रवीत्तेन कृतं विधात्रा ॥४३॥

त्रयो हि लोका विहितं विधानं
नातिक्रमन्ते वशगा हि तस्य।
प्रीतिं परां प्राप्स्यसि तां तथैव
पुत्रस्तु ते प्राप्स्यति यौवराज्यम् ॥
धात्रा विधानं विहितं तथैव
न शूरपत्नयःपरिदेवयन्ति ॥४४॥

आश्वासिता तेन तु राघवेण प्रभावयुक्तेन परन्तपेन।
सा वीरपत्नी ध्वनता मुखेन सुवेषरूपा विरराम तारा ॥४५॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये
किष्किन्धाकाण्डे चतुर्विंशः सर्गः ॥

आदितःश्लोकाः 10267
किष्किन्धाकाण्डे आदितः श्लोकाः 1015

<MISSING_FIG href="../books_images/U-IMG-1708000349Screenshot2024-02-13142116.png"/>

पञ्चविंशः सर्गः ॥ २५ ॥

वालिसंस्कारः ॥

सुग्रीवं चैव तारां च सादं सहलक्ष्मणः।
समानशोकः काकुत्स्थः सान्त्वयन्निदमब्रवीत्॥१॥

न शोकपरितापेन श्रेयसा युज्यते मृतः।
यदत्रानन्तरं कार्यं तत्समाधातुमर्हथ॥२॥

लोकवृत्तमनुष्ठेयं कृतं वो बाष्पमोक्षणम्।
न कालादुत्तरं किञ्चित्कर्म शक्यमुपासितुम्॥३॥

नियतिः कारणं लोके नियतिः कर्मसाधनम्।
नियतिः सर्वभूतानां नियागेष्विह कारणम्॥४॥

न कर्ता कस्यचित्कचिन्नियोगे चापि नेश्वरः।
स्वभावे वर्तते लोकस्तस्य कालः परायणम् ॥५॥

न कालः कालमत्येति न कालः परिहीयते।
स्वभावं हि समासाद्य न कश्चिदतिवर्तते॥६॥

न कालस्यास्ति बन्धुत्वं न हेतुर्न पराक्रमः।
न मित्रज्ञातिसंबन्धः कारणं नात्मनो वशः॥७॥

किं तु कालपरीणामो द्रष्टव्यः साधु पश्यता।
धर्मश्चार्थश्च कामश्च कालक्रमसमाहिताः॥८॥

इतः स्वां प्रकृतिं वाली गतः प्राप्तः क्रियाफलम्।
दानमानार्थसंयोगैः पवित्रं प्लवगेश्वरः॥९॥

स्वधर्मस्य च संयोगाज्जितस्तेन महात्मना।
स्वर्गः परिगृहीतश्च प्राणानपरिरक्षता॥१०॥

एषा वै नियतिः श्रेष्ठा यां गतो हरियूथपः।
तदलं परितापेन गाप्तकालमुपास्यताम्॥११॥

वचनान्ते तु रामस्य लक्ष्मणः परवीरहा।
अवदत्प्रश्रितं वाक्यं सुग्रीवं गतचेतसम्॥१२॥

कुरु त्वमस्य सुग्रीव प्रेतकार्यमनन्तरम्॥१३॥

ताराङ्गदाभ्यां सहितो वालिनो दहनं प्रति।
समाज्ञापय काष्ठानि शुष्काणि च बहूनि च ॥
चन्दनादीनि दिव्यानि वालिसंस्कारकारणात् ॥१४॥

समाश्वासय चैनं त्वमङ्गदं दीनचेतसम्।
मा भूर्वालिशबुद्धिस्त्वं त्वदधीनमिदं पुरम् ॥१५॥

अङ्गदस्त्वानयेन्माल्यं वस्त्राणि विविधानि च।
घृतं तैलमयो गन्धान्यच्चात्र समनन्तरम् ॥१६॥

त्वं तार शिबिकां शीघ्रमादायागच्छ सम्भ्रमात्।
त्वरा गुणवती युक्ता ह्यस्मिन् काले विशेषतः ॥१७॥

सज्जीभवन्तु प्लवगाः शिबिकावहनोचिताः।
समर्था बलिनश्चैव निर्हरिष्यन्ति वालिनम्॥१८॥

एवमुक्त्वा तु सुग्रीवं सुमित्रानन्दवर्धनः।
तस्थौ भ्रातृसमीपस्थो लक्ष्मणः परवीरहा॥१९॥

लक्ष्मणस्य वचःश्रुत्वा तारः सम्भ्रान्तमानसः।
प्रविवेश गुहां शीघ्रं शिविकागतमानसः ॥२०॥

आदाय शिबिकां तारः स तु पर्यापतत्पुनः ॥२१॥

वानरैरुह्यमानां तां शुरैरुद्वहनोचितैः।
दिव्यां भद्रासनयुतां शिबिकां स्यन्दनोपमाम् ॥२२॥

पक्षिकर्मभिराचित्रां द्रुमकर्मभिरावृताम्।
आस्थितां चित्रपत्तीभिः सुनिविष्टां समन्ततः ॥२३॥

विमानमिव सिद्धानां जालवातायनावृताम्।
सुनियुक्तां विशालां च सुकृतां विश्वकर्मणा ॥२४॥

दारुपर्वतकोपेतां चारुकर्मपरिष्कृताम्।
वराभरणहारैश्च चित्रमाल्योपशोभिताम् ॥२५॥

गुहागहनसंछन्नांरक्तचन्दनरूषिताम्।
पुष्पौघैः समभिच्छन्नां पद्ममालाभिरेव च ॥
तरुणादित्यवर्णाभिर्भ्राजमानाभिरावृताम्॥२६॥

ईदृशीं शिबिकां दृष्ट्वा रामो लक्ष्मणमब्रवीत्।
क्षिप्रं विनीयतां वाली प्रेतकार्यं विधीयताम् ॥२७॥

ततो वालिनमुद्यम्य सुग्रीवः शिबिकां तदा।
आरोपयत विक्रोशन्नङ्गदेन सदैव तु॥२८॥

आरोप्यशिबिकां चैव वालिनं गतजीवितम्।
अलङ्कारैश्च विविधैर्माल्यैर्वस्त्रैश्च भूषितम् ॥२९॥

आज्ञापयत्तदाराजा सुग्रीवः प्लवगेश्वरः।
और्ध्वदैहिकमार्यस्य क्रियतामनुरूपतः॥३०॥

विश्राणयन्तो रत्नानि विविधानि बहून्यपि।
अग्रतः प्लवगा यान्तु शिबिकासमनन्तरम् ॥३१॥

राज्ञामृद्धिविशेषा हि दृश्यन्ते भुवि यादृशाः।
तादृशं वालिनः क्षिप्रं प्राकुर्वन्नोर्ध्वदैहिकम् ॥३२॥

अङ्गदं परिगृह्याशु तारप्रभृतयस्तदा।
क्रोशन्तः प्रययुः सर्वे वानरा हतबान्धवाः ॥३३॥

ततः प्रणिहिताः सर्वा वानर्योऽस्य वशानुगाः।
चुक्रुशुर्वीर वीरेति भूयः क्रोशन्ति ताः स्त्रियः ॥३४॥

ताराप्रभृतयः सर्वा वानर्यो हतयूथपाः।
अनुजग्मुर्हि भर्तारं क्रोशन्त्यः करुणस्वनाः॥३५॥

तासां रुदितशब्देन वानरीणां वनान्तरे।
वनानि गिरयः सर्वे विक्रोशन्तीव सर्वतः॥३६॥

पुलिने गरिनद्यास्तु विविक्ते जलसंवृते।
चितां चक्रुः सुबहवो वानरा वनचारिणः ॥३७॥

अवरोप्य ततः स्कन्धाच्छिबिकां वहनोचिताः।
तस्थुरेकान्तमाश्रित्य सर्वे शोकसमन्विताः ॥३८॥

ततस्तारा पतिं दृष्ट्वा शिबिकातलशायिनम्।
आरोप्याङ्गे शिरस्तस्यविललाप सुदुःखिता ॥३९॥

हा वानरमहाराज हा नाथ मम वत्सल।
हा महार्हमहाबाहो हा मम प्रिय पश्य माम् ॥४०॥

जनं न पश्यसीमं त्वं कस्माच्छोकाभिपीडितम् ॥४१॥

प्रहृष्टमिव ते वक्त्रंगतासोरपि मानद।
अस्तार्कसमवर्णं च लक्ष्यते जीवतो यथा॥४२॥

एष त्वां रामरूपेण कालः कर्षति वानर।
येन स्म विधवाः सर्वाः कृता एकेषुणा रणे ॥४३॥

इमास्तास्तव राजेन्द्र वानर्योवल्लभाः सदा।
पादैर्विकृष्टमध्वानमागताः किं न बुध्यसे॥४४॥

तवेष्टा ननु नामैता भार्याश्चन्द्रनिभाननाः॥४५॥

इदानीं नेक्षसे कस्मात्सुग्रीवं प्लवगेश्वरम्।
एते हि सचिवा राजन् तारप्रभृतयस्तव॥४६॥

पुरवासी जनश्चायं परिवार्याऽऽसतेऽनघ।
विसर्जयैतान् प्लवगान् यथोचितमरिन्दम ॥
ततः क्रीडामहे सर्वा वनेषु मदनोत्कटाः॥४७॥

एवं विलपतीं तारां पतिशोकपरिप्लुप्ताम्।
उत्थापयन्ति स्म तदा वानर्यः शोककर्शिताः ॥४८॥

सुग्रीवेण ततः सार्धमङ्गदः पितरं रुदन्।
चितामारोपयामास शोकेनाभिहतेन्द्रियः॥४९॥

ततोऽग्निं विधिवद्दत्त्वा सोपसव्यं चकार ह।
पितरं दीर्घमध्वानं प्रस्थितं व्याकुलेन्द्रियः॥५०॥

संस्कृत्य वालिनं ते तु विधिपूर्वं प्लवङ्गमाः।
आजग्मुरुदकं कर्तुं नदीं शीतजलां शुभाम्॥५१॥

ततस्ते सहितास्तत्र ह्यङ्गदं स्थाप्य चाग्रतः।
सुग्रीवतारासहिताः सिषिचुर्वालिने जलम्॥५२॥

सुग्रीवेणैव दीनेन दीनो भूत्वा महाबलः।
समानशोकः काकुत्स्थः प्रेतकार्याज्यकारयत् ॥५३॥

ततस्तु तं वालिनमग्र्यपौरुषं
प्रकाशमिक्ष्वाकुवरेषुणा हतम्।
प्रदीप्य दीप्ताग्निसमोजसं तदा
सलक्ष्मणं राममुपेयिवान् हरिः ॥५४॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये
किष्किन्धाकाण्डे पञ्चविंशः सर्गः ॥

आदितः श्लोकाः 10321
किष्किन्धाकाण्डे आदितः श्लोकाः 1069

<MISSING_FIG href="../books_images/U-IMG-1708062838Screenshot2024-02-13151634.png"/>

षड्विंशः सर्गः ॥ २६ ॥

सुग्रीवाङ्गदयो राज्याभिषेकः ॥

ततः शोकाभिसन्तप्तं सुग्रीवं क्लिन्नवाससम्।
शाखामृगमहामात्याः परिवार्योपत स्थिरे॥१॥

अभिगम्य महाबाहुं राममक्लिष्टकारिणम्।
स्थिताः प्राञ्जलयः सर्वे पितामहमिवर्षयः॥२॥

ततः काञ्चनशैलाभस्तरुणार्कनिभाननः।
अब्रवीत्प्राञ्जलिर्वाक्यं हनुमान् मारुतात्मजः॥३॥

भवत्प्रसादात्सुग्रीवः पितृपैतामहं महत्।
चानराणां सुदुष्प्रापं प्राप्तो राज्यमिदं प्रभो॥४॥

भवता समनुज्ञातः प्रविश्य नगरं शुभम्।
संविधास्यति कार्याणि सर्वाणि ससुहृज्जनः॥५॥

स्नातोऽयं विविधैर्गन्धैरौषधैश्च यथाविधि।
अर्चयिष्यति रत्नैश्च माल्यैश्च त्वां विशेषतः॥६॥

इमां गिरिगुहां रम्यामभिगन्तुमितोऽर्हसि।
कुरुष्व स्वामिसंबन्धं वानरान् संप्रहर्षयन्॥७॥

एवमुक्तो हनुमता राघवः परवीरहा।
प्रत्युवाच हनूमन्तं बुद्धिमान् वाक्यकोविदः॥८॥

चतुर्दश समाः सौम्य ग्रामं वा यदि वा पुरम्।
न प्रवेक्ष्यामि हनुमन् पितुर्निर्देशपालकः ॥९॥

सुसमृद्धां गुहां रम्यां सुग्रीवो वानरर्षभः।
प्रविष्टो विधिवद्वीरः क्षिप्रं राज्येऽभिषिच्यताम् ॥१०॥

एवमुक्त्वा हनूमन्तं रामः सुग्रीवमब्रवीत्।
वृत्तज्ञो वृत्तसम्पन्नमुदारबलविक्रमम्॥११॥

इममप्यन्दं वीर यौवराज्येऽभिषेचय।
ज्येष्ठस्य स सुतो ज्येष्ठः सदृशो विक्रमेण च ॥१२॥

अङ्गदोऽयमदीनात्मा यौवराज्यस्यभाजनम् ॥१३॥

पूर्वोऽयं वार्षिको मासः श्रावणःसलिलागमः।
प्रवृत्ताः सौम्य चत्वारो मासा वार्षिकसंज्ञिकाः ॥१४॥

नायमुद्योगसमयः प्रविश त्वं पुरीं शुभाम्।
अस्मिन्वत्स्याम्यहं सौम्य पर्वते सह लक्ष्मण ॥१५॥

इयं गिरिगुहा रम्या विशाला युक्तमारुता।
प्रभूतसलिला सौम्य प्रभूतकमलोत्पला॥१६॥

कार्तिके समनुप्राप्ते त्वं रावणवधे यत।
एष नः समयः सौम्य प्रविश त्वं स्वमालयम्॥१७॥

अभिषिञ्चस्व राज्ये च सुहृदः संप्रहर्षय ॥१८॥

इति रामाभ्यनुज्ञातः सुग्रीवो वानराधिपः।
प्रविवेश पुरीं रम्यां किष्किन्धां वालिपालिताम् ॥१९॥

तं वानरसहस्राणि प्रविष्टं वानरेश्वरम्।
अभिवाद्य प्रविष्टानि सर्वतः पर्यवारयन्॥२०॥

ततः प्रकृतयः सर्वा दृष्ट्वा हरिगणेश्वरम्।
प्रणम्य मूर्ध्ना पतिता वसुधायां समाहिताः ॥२१॥

सुग्रीवः प्रकृती : सर्वाः संभाष्योत्थाप्य वीर्यवान्।
भ्रातुरन्तःपुरं सौम्यं प्रविवेश महाबलः॥२२॥

प्रविश्य त्वभिनिष्क्रान्तं सुग्रीवं वानरर्षभम्।
अभ्यषिञ्चन्त सुहृदः सहस्राक्षमिवामराः॥२३॥

तस्य पाण्डुरमाजह्रुश्छत्रं हेमपरिष्कृतम्।
शुक्ले च वालव्यजने हेमदण्डे यशस्करे॥२४॥

तथा सर्वाणि रत्नानि सर्वबीजौषधानि च।
सक्षीराणां च वृक्षाणां प्ररोहान् कुसुमानि च ॥२५॥

शुक्लानि चैव वस्त्राणि श्वेतं चैवानुलेपनम्।
सुगन्धीनि च माल्यानि स्थलजान्यम्बुजानि च ॥२६॥

चन्दनानि च दिव्यानि गन्धांश्च विविधान् बहुन्।
अक्षतं जातरूपं च प्रियङ्ग मधुसर्पिषी ॥

दधि चर्म च वैयाघ्रं वाराही चाप्युपानहौ॥२७॥

समालम्भनमादाय रोचनां समनःशिलाम्।
आजग्मुस्तत्र मुदिता वराः कन्याश्च षोडश ॥२८॥

ततस्ते वानरश्रेष्ठं यथाकालं यथाविधि।
रत्नैर्वस्त्रैश्च भक्षैश्य तोषयित्वा द्विजर्षभान्॥२९॥

ततः कुशपरिस्तीर्णं समिद्धं जातवेदसम्।
मन्त्रपूतेन हविषा हुत्वा मन्त्रविदो जनाः॥३०॥

ततो हेमप्रतिष्ठाने वरास्तरणसंवृते।
प्रासादशिखरे रम्ये चित्रमाल्योपशोभिते॥३१॥

प्राङ्मुखं विविधैर्मन्त्रैः स्थापयित्वा वरासने।
नदीनदेभ्यः संहृत्य तीर्थेभ्यश्च समन्ततः॥३२॥

आहृत्य च समुद्रेभ्यः सर्वेभ्यो वानरर्षभाः।
अपः कनककुम्भेषु निधाय विमलाः शुभाः ॥३३॥

शुभैर्वृषभशृङ्गैश्चकलशैश्चापि काञ्चनैः।
शास्त्रदृष्टेन विधिना प्रहर्षिविहितेन च॥३४॥

गजो गवाक्षो गवयः शरभो गन्धमादनः।
मैन्दश्च द्विविदश्चैव हनुमाञ्जाम्बवान्नलः॥३५॥

अभ्यषिञ्चन्त सुग्रीवं प्रसन्नेन सुगन्धिना।
सलिलेन सहस्राक्षं वसवो वासवं यथा॥३६॥

अभिषिक्ते तु सुग्रीवे सर्वे वानरपुङ्गवाः।
प्रचुक्रुशुर्महात्मानो हृष्टास्तत्र सहस्रशः ॥३७॥

रामस्य तु वचः कुर्वन् सुग्रीवो हरिपुङ्गवः।
अङ्गदं संपरिष्वज्य यौवराज्येऽभ्यषेचयत्॥३८॥

अङ्गदे चाभिषिक्ते तु सानुक्रोशाः प्लवङ्गमाः।
साधु साध्विति सुग्रीवं महात्मानोऽभ्यपूजयन् ॥३९॥

रामं चैव महात्मानं लक्ष्मणं च पुनः पुनः।
प्रीताश्च तुष्टवुः सर्वे तादृशे तत्र वर्तिनि॥४०॥

हृष्टपुष्टजनाकीर्णा पताकाध्वजशोभिता।
बभूव नगरी रम्या किष्किन्धा गिरिगह्वरे ॥४१ ॥

निवेद्य रामाय तदा महात्मने
महाभिषेकं कपिवाहिनीपतिः।
रुमां च भार्यो प्रतिलभ्य वीर्यवा
नवाप राज्यं त्रिदशाधिपो यथा ॥४२॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये
किष्किन्धाकाण्डे षड्विंशः सर्गः ॥

आदितः श्लोकाः 10363
किष्किन्धाकाण्डे आदितः श्लोकाः 1111

<MISSING_FIG href="../books_images/U-IMG-1708057602Screenshot2024-02-13121118.png"/>

सप्तविंशः सर्गः ॥ २७ ॥

प्रस्रवणगुहायां निवासः ॥

अभिषिक्ते तु सुग्रीवे प्रविष्टे वानरे गुहाम्।
आजगाम सह भ्रात्रा रामः प्रस्रवणं गिरिम्॥१॥

शार्दूलमृगसंघुष्टं सिंहैर्भीमतरैर्वृतम्।
नानागुल्मलतागूढं बहुपादपसङ्कुलम्॥२॥

ऋक्षवानरगोपुच्छेर्मार्जारश्चैनिषेवितम्।
मेघराशिनिभं शैलं नित्यं शुचिजलाश्रयम्॥३॥

तस्य शैलस्य शिखरे महतीमायतां गुहाम्।
प्रत्यगृह्णत वासार्थं रामः सौमित्रिणा सह॥४॥

कृत्वा च समयं सौम्यः सुग्रीवेण सहानघः।
कालयुक्तं महद्वाक्यमुवाच रघुनन्दनः ॥
विनीतं भ्रातरं भ्राता लक्ष्मणं लक्ष्मिवर्धनम् ॥५॥

इयं गिरिगुहा रम्या विशाला युक्तमारुता।
अस्यां वसाव सौमित्रे वर्षरात्रमरिन्दम॥६॥

गिरिशृङ्गमिदं रम्यमुन्नतं पार्थिवात्मज।
श्वेताभिः कृष्णताम्राभिः शिलाभिरुपशोभितम् ॥७॥

नानाधातुसमाकीर्णं दरीनिर्झरशोभितम्।
विविधैर्वृक्षषण्डैश्च चारु चित्रलतावृतम् ॥८॥

नानाविहगसंघुष्टं मयूररवनादितम्।
मालतीकुन्दगुल्मैश्च सिन्धुवारकुरण्टकैः॥९॥

कदम्बार्जुनसर्जैश्च पुष्पितैरुपशोभितम्॥१०॥

इयं च नलिनी रम्या फुलपङ्कजमण्डिता।
नातिदूरे गुहाया नौ भविष्यति नृपात्मज॥११॥

प्रागुदक्प्रवणे देशे गुहा साधु भविष्यति।
पश्चाच्चैवोन्नता सौम्य निवातेयं भविष्यति॥१२॥

गुहाद्वारे च सौमित्रे शिला समतला शुभा।
श्लक्ष्णा चैवायता चैव भिन्नाञ्जनचयोपमा॥१३॥

गिरिशृङ्गमिदं तात पश्य चोत्तरतः शुभम्।
भिन्नाञ्जनचयाकारमम्भोधरमिवोत्थितम्॥१४॥

दक्षिणस्यामपि दिशि स्थितं श्वेतमिवाम्बुदम्
कैलासशिखरप्रख्यं नानाधातुविभूषितम्॥१५॥

प्राचीनवाहिनीं चैव नदीं भृशमकर्दमाम्।
गुहायाः पूर्वतः पश्य त्रिकूटे जाह्नवीमिव॥१६॥

चम्पकैस्तिलकैस्तालैस्तमालैरतिमुक्तकैः।
पद्मकैः सरलैश्चैव अङ्कोलैश्चैव शोभिताम्॥१७॥

वानी रैस्तिमिशैश्चैव वकुलैः केतकैर्धवैः।
हिन्तालैस्तिरिटैर्नीपैर्वेत्रकैः कृतमालकैः॥१८॥

तीरजैः शोभिता भाति नानारूपेंस्ततस्ततः।
वसनाभरणोपेता प्रमदेवाभ्यलङ्कृता॥१९॥

शतशः पक्षिसङ्घैश्चनानानादैर्विनान्दिता।
एकैकमनुरक्तैश्चचक्रवाकैरलङ्कृता॥२०॥

पुलिनैरतिरम्यैश्च हंससारससेवितैः।
महसन्तीव भात्येषा नानारत्नविभूषिता॥२१॥

क्वचिन्नोलोत्पलच्छन्ना भाति रक्तोत्पलैः क्वचित्।
क्वचिदाभाति शुक्लैश्च दिव्यैः कुमुदकुङ्मलैः ॥२२॥

पारिप्लवशतैर्जुष्टा बर्हिणक्रौञ्चनादिता।
रमणीया नदी सौम्य मुनिसङ्घैर्निषेविता॥२३॥

पश्य चन्दनवृक्षाणां पङ्क्तीः सुरचिता इव।
ककुभानां च दृश्यन्ते मनसेवोदिताः समम्॥२४॥

अहो सुरमणीयोऽयं देशः शत्रुनिषूदन।
इह रंस्याव सौमित्रे साध्वत्र निवसावहै॥२५॥

इतश्च नातिदूरे सा किष्किन्धा चित्रकानना।
सुग्रीवस्य पुरी रम्या भविष्यति नृपात्मज॥२६॥

गीतवादित्रनिर्घोषः श्रूयते जयतां वर।
नर्दतां वानराणां च मृदङ्गाडम्बरैः सह॥२७॥

लब्ध्वा भार्यो कपिवरः प्राप्य राज्यं सुहृद्रुतः।
ध्रुवं नन्दति सुग्रीवः संप्राप्य महतीं श्रियम्॥२८॥

इत्युक्त्वा न्यवसत्तत्र राघवः सहलक्ष्मणः।
बहुदृश्यदरीकुञ्जे तस्मिन्प्रस्रवणे गिरो॥२९॥

सुसुखेऽपि बहुद्रव्ये तस्मिन्हि धरण घरे।
वसतस्तस्य रामस्य रतिरल्पाऽपि नाभवत्
हृतां हि भार्यां स्मरतः प्राणेभ्योऽपि गरीयसीम् ॥३०॥

उदयाभ्युदितं दृष्ट्वा शशाङ्कं च विशेषतः।
आविवेश न तं निद्रा निशासु शयनं गतम् ॥३१॥

तत्समुत्थेन शोकेन बाष्पोपहतचेतसम्।
तं शोचमानं काकुत्स्थं नित्यं शोकपरायणम्
तुल्यदुःखोऽब्रवीद्भ्राता लक्ष्मणोऽनुनयन् वचः ॥३२॥

अलं वीर व्यथां गत्वा न त्वं शोचितुमर्हसि ॥३३॥

शोचतो व्यवसीदन्ति सर्वार्था विदितं हि ते ॥३४॥

भवान्क्रियापरो लोके भवान्दैवपरायणः।
आस्तिको धर्मशीलश्च व्यवसायी च राघव॥ ३५ ॥

न ह्यव्यवसितः शत्रुं राक्षसं तं विशेषतः।
समर्थस्त्वं रणे हन्तुं विक्रमैर्जिह्मकारिणम् ॥३६॥

समुन्मूलय शोकं त्वं व्यवसायं स्थिरं कुरु।
ततः सपरिवारं तं निर्मूलं कुरु राक्षसम्॥३७॥

पृथिवीमपि काकुत्स्थ ससागरवनाचलाम्।
परिवर्तयितुं शक्तः किं पुना रावणं रणे॥३८॥

शरत्कालं प्रतीक्षस्व प्रावृट्कालोऽयमागतः।
ततः सराष्ट्रं सगणं रावणं त्वं वधिष्यसि॥३९॥

अहं तु खलु ते वीर्यं प्रसुप्तं प्रतिबोधये।
दीप्तैराहुतिभिः काले भस्मच्छन्नमिवानलम् ॥४०॥

लक्ष्मणस्य तु तदाक्यं प्रतिपूज्य हितं शुभम्।
राघवः सुहृदं स्निग्धमिदं वचनमब्रवीत्॥४१॥

वाच्यं यदनुरक्तेन स्प्रिंग्धेन च हितेन च।
सत्यविक्रमयुक्तेन तदुक्तं लक्ष्मण त्वया॥४२॥

एष शोकः परित्यक्तः सर्वकार्यावसादकः।
विक्रमेष्वप्रतिहतं तेजः प्रोत्साहयाम्यहम्॥४३॥

शरत्कालं प्रतीक्षिष्ये स्थितोऽस्मि वचने तव।
सुग्रीवस्य नदीनां च प्रसादमनुपालयन्॥४४॥

उपकारेण वीरस्तु प्रतिकारेण युज्यते।
अकृतज्ञोऽप्रतिकृतो हन्ति सचवतां मनः॥४५॥

अथैवमुक्तः प्रणिधाय लक्ष्मणः
कृताञ्जलिस्तत्प्रतिपूज्य भाषितम्।
उवाच रामं स्वभिरामदर्शनं
प्रदर्शयन् दर्शनमात्मनः शुभम् ॥४६॥

यथोक्तमेतत्तव सर्वमीप्सितं नरेन्द्र कर्ता न चिराद्धरीश्वरः।
शरत्प्रतीक्षः क्षमतामिमं भवाञ्जलप्रपातं रिपुनिग्रहे धृतः ॥४७॥

नियम्य कोपं प्रतिपाल्यतां शरत् क्षमस्व मासांश्चतुरो मया सह।
चसाचलेऽस्मिन् मृगराजसेविते संवर्तयन् शत्रुवधे समुद्यतः ॥४८॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये
किष्किन्धाकाण्डे सप्तविंशः सर्गः॥

आदितः श्लोकाः 10411
किष्किन्धाकाण्डे आदितः श्लोकाः 1159

<MISSING_FIG href="../books_images/U-IMG-1708059936Screenshot2024-02-13142116.png"/>

अष्टाविंशः सर्गः ॥ २८ ॥

प्रावृड्वर्णनम् ॥

स तथा वालिनं हत्वा सुग्रीवमभिषिच्य च।
वसन् माल्यवतः पृष्ठे रामो लक्ष्मणमब्रवीत्॥१॥

अयं स कालः संप्राप्तः समयोऽद्य जलागमः।
संपश्य त्वं नभो मेघैः संवृतं गिरिसन्निभैः॥२॥

नवमासधृतं गर्भ भास्करस्य गभस्तिभिः।
पीत्वा रसं समुद्राणां द्यौः प्रस्ते रसायनम्॥३॥

शक्यमम्बरमारुह्यमेघसोपानपङ्क्तिभिः।
कुटजार्जुनमाला भरलंकर्तुं दिवाकरम्॥४॥

सन्ध्यारागोत्थितैस्ताम्रैरन्तेष्वधिकपाण्डरैः।
स्निग्धैरभ्रपटच्छेदैर्बद्धव्रगमिवाम्बरम्॥५॥

मन्दमारुतनिश्वासं सन्ध्याचन्दनरञ्जितम्।
आपाण्डुनलदं भाति कामातुरमिवाम्बरम्॥६॥

एषा घर्मपरिक्लिष्टा नववारिपरिप्लुता।
सीतेव शोकसन्तप्ता मही बाष्पं विमुञ्चति॥७॥

मेघोदर विनिर्मुक्ताः कल्हारसुखशीतलाः।
शक्यमञ्जलिभिः पातुं वाताः केतकिगन्धिनः ॥८॥

एषफुल्लार्जुनः शैलः केतकैरधिवासितः।
सुग्रीव इव शान्तारिर्धाराभिरभिषिच्यते॥९॥

मेघकृष्णाजिनधरा धारायज्ञोपवीतिनः।
मारुतापूरितगुहाः प्राधीता इव पर्वताः॥१०॥

कशाभिरिव हैमीभिर्विद्युद्भिरिव ताडितम्।
अन्तः स्तनितनिर्घोषं सवेदनमिवाम्बरम्॥११॥

नीलमेघाश्रिता विद्युत् स्फुरन्ती प्रतिभाति मे।
स्फुरन्ती रावणस्याङ्के वैदेहीव तपस्विनी ॥१२॥

इमास्ता मन्मथवतां हिताः प्रतिहता दिशः।
अनुलिप्ताइव धनैर्नष्टग्रहनिशाकराः॥१३ ॥

क्वचिद्बाष्पाभिसंरुद्धान् वर्षागमसमुत्सुकान्।
कुटजान् पश्य सौमित्रे पुष्पितान् गिरिसानुषु ॥
मम शोकाभिभूतस्य कामसन्दीपनान् स्थितान् ॥१४॥

रजः प्रशान्तं सहिमोऽद्य वायुः
निदाघदोषप्रसराः प्रशान्ताः।
स्थिता हि यात्रा वसुधाधिपानां
प्रवासिनो यान्ति नराः स्वदेशान् ॥१५॥

संप्रस्थिता मानसवासलुब्धाः
प्रियान्विताः सम्प्रति चक्रवाकाः।
अभीक्ष्णवर्षोदकविक्षतेषु
यानानि मार्गेषु न संपतन्ति ॥१६॥

क्वचित्प्रकाशं क्वचिदप्रकाशं नभः प्रकीर्णाम्बुधरं विभाति।
क्वचित्क्वचित्पर्वतसंनिरुद्धं रूपं यथा शान्तमहार्णवस्य ॥१७॥

व्यामिश्रितं सर्जकदम्बाष्पैर्नवं जलं पर्वतधातुताम्रम्।
मयूरकेकाभिरनुप्रयातं शैलापगा शीघ्रतरं वहन्ति ॥१८॥

रसाकुलं षट्पदसन्निकाशं प्रभुज्यते जम्बुफलं प्रकामम् ॥१९॥

अनेकवर्णं पवनावधूतं भूमौ पतत्याम्रफलं विपल्कम् ॥२०॥

विद्युत्पताकाः सबलाकमालाः शैलेन्द्रकूटाकृतिसन्निकाशाः।
गर्जन्ति मेघाः समुदीर्णनादा मत्ता गजेन्द्रा इव संयुगस्थाः ॥२१॥

वर्षोदकाप्यायितशाद्वलानि प्रवृत्तवृत्तोत्सवबर्हिणानि।
वनानि निर्वृष्टबलाहकानि पश्यापराह्णेष्वधिकं विभान्ति ॥२२॥

समुद्रहन्तः सलिलातिभारं बलाकिनो वारिधरा नदन्तः।
महत्सु शृङ्गेषु महीधराणां विश्रम्य विश्रम्य पुनः प्रयान्ति ॥२३॥

मेघाभिकामा परिसंपतन्ती संमोदिता भाति बलाकपङ्क्तिः।
वातावधूता वरपौण्डरीकी लम्बेव माला रचिताऽम्बरस्य ॥२४॥

बालेन्द्रगोपान्तरचित्रितेन विभाति भूमिर्नवशाद्वलेन।
गात्रानुषक्तेन शुकप्रमेण नारीव लाक्षोक्षितकम्बलेन ॥२५॥

निद्रा शनैः केशवमभ्युपैति द्रुतं नदी सागरमभ्युपैति ॥२६ ॥

हृष्टा बलाका घनमभ्युपैति कान्ता सकामा प्रियमभ्युपैति ॥२७॥

जाता वनान्ताः शिखिसंप्रवृत्ता
जाताः कदम्बाः सकदम्बशाखाः॥२८॥

जाता वृषा गोषु समानकामा
जाता मही सरयवनाभिरामा॥२९॥

वहन्ति वर्षन्ति नदन्ति भान्ति
ध्यायन्ति नृत्यन्ति समाश्वसन्ति।
नद्यो घना मत्तगजा वनान्ताः
प्रियाविहीनाः शिखिनः प्लवङ्गाः ॥३०॥

प्रहर्षिताः केतकपुष्पगन्धमाघ्राय हृष्टा वननिर्झरेषु।
प्रपातशब्दाकुलिता गजेन्द्राः सार्धं मयूरैः समदा नदन्ति ॥३१॥

धारानिपातैरभिहन्यमानाः कदम्बशाखासु विलम्बमानाः।
क्षणार्जितं पुष्परसावगाढं शनैर्मदं षट्चरणास्त्यजन्ति ॥३२॥

अङ्गारचूर्णोत्करसन्निकाशैः फलैः सुपर्याप्तरसैः समृद्धैः।
जम्बूद्रुमाणां प्रविभान्ति शाखा निलीयमाना इव षट्पदौघैः ॥३३॥

तडित्पताकाभिरलंकृतानामुदीर्णगम्भीरमहारवाणाम्।
विभान्ति रूपाणि बलाहकानां रणोद्यतानामिव वारणानाम् ॥३४॥

मार्गानुगः शैलवनानुसारी संप्रस्थितो मेघरवं निशम्य।
युद्धाभिकामः प्रतिनागशङ्की मत्तो गजेन्द्रः प्रतिसन्निवृत्तः ॥३५॥

कचित्प्रगीता इव षट्पदौघैः कचित्प्रवृत्ता इव नीलकण्ठैः।
क्वचित्प्रमत्ता इव वारणेन्द्रैर्विभान्त्यनेकाश्रयिणो वनान्ताः ॥३६॥

कदम्बसर्जार्जुनकन्दलाढ्या वनान्तभूमिर्नववारिपूर्णा।
मयूरमत्ताभिरुतप्रवृत्तैरापानभूमिप्रतिमा विभाति ॥३७॥

मुक्तासकाशं सलिलं पतद्वै सुनिर्मलं पत्रपुटेषु लग्नम्।
हृष्टा विवर्णच्छदना विहङ्गाः सुरेन्द्रदत्तं तृषिताः पिबन्ति ॥३८॥

षट्पादतन्त्रीमधुराभिधानं प्लवङ्गमोदीरितकण्ठतालम्।
आविष्कृतं मेघमृदङ्गनादैर्वनेषु संगीतमिव प्रवृत्तम् ॥३९॥

क्वचित्प्रनृत्तैः क्वचिदुन्नदद्भिः क्वचिच्च वृक्षाग्रनिषण्णकायैः।
व्यालम्बबर्हाभरणैमयूरैर्वनेषु संगीतमिव प्रवृत्तम् ॥४०॥

स्वनैर्घनानां प्लवगाः प्रबुद्धा विहाय निद्रां चिरसन्निरुद्धाम्।
अनेकरुपाकृतिवर्णनादा नवाम्बुधाराभिहता नदन्ति ॥४१॥

नद्यः समुद्वाहितचक्रवाकास्तटानि शीर्णान्यपवाहयित्वा।
दृप्ता नवप्राभृतपूर्णभोगा द्रुतं स्वभर्तारमुपोपयान्ति ॥४२॥

नीलेषु नीलाः प्रविभान्ति सक्ता मेघेषु मेघा नववारिपूर्णाः।
दवाग्निदग्धेषु दवाग्निदग्धाः शैलेषु शैला इव बद्धमूलाः ॥४३॥

प्रहृष्टसन्नादितबर्हिणानि सशक्रगोपाकुलशाद्वलानि।
चरन्ति नीपार्जुनवासितानि गजाः सुरम्याणि वनान्तराणि॥४४॥

नवाम्बुधाराहतकेसराणि द्रुतं परित्यज्य सरोरुहाणि।
कदम्बपुष्पाणि सकेसराणि नवानि हृष्टा भ्रमराः पतन्ति ॥४५॥

मत्ता गजेन्द्रा मुदिता गवेन्द्रा वनेषु विश्रान्ततरा मृगेन्द्राः।
रम्या नगेन्द्रा निभृता नरेन्द्राः प्रक्रीडितो वारिधरैः सुरेन्द्रः ॥४६॥

मेघाः समुद्भूतसद्रनादा महाजलौघैर्गगनावलम्बाः।
नदीस्तटाकानिसरांसि वापीर्महीं च कृत्स्नामभितर्पयन्ति ॥४७॥

वर्षप्रवेगा विपुलाः पतन्ति प्रवान्ति वाताः समुदीर्णघोषाः ॥४८॥

प्रनष्टकूलाः प्रवहन्ति शीघ्रं नद्यो जलैर्विप्रतिपन्नमार्गाः ॥४९॥

नरैर्नरेन्द्रा इव पर्वतेन्द्राः सुरेन्द्रदत्तैः पवनोपनीतैः।
घनाम्बुकुम्भैरभिषिच्यमाना रूपं श्रियं स्वामिव दर्शयन्ति ॥५०॥

बनोपगूढं गगनं सतारं न भास्करो दर्शनमभ्युपैति।
नवैर्जलोधैर्घरणी वितृप्ता तमोविलिप्सा न दिशः प्रकाशाः ॥५१॥

महान्ति कूटानि महीधराणां धाराभिधौतान्यधिकं विभान्ति।
महाप्रमाणैर्विपुलैः प्रपातैर्मुक्ताकलापैरिव लम्बमानैः ॥५२॥

शैलोपलप्रसवलमानवेगाः शैलोत्तमानां विपुलाः प्रपाताः।
गुहासु सन्नादितबर्हिणासु हारा विकीर्यन्त इवाभिभान्ति ॥५३॥

शीघ्रप्रवेगा विपुलाः प्रपाता निर्घौतशृङ्गोपतला गिरीणाम्।
मुक्ताकलापप्रतिमाः पतन्तो महागुहोत्सङ्गवलैर्धियन्ते ॥५४॥

सुरतामर्दविच्छिन्नाः स्वर्गस्त्रीहारमौक्तिकाः।
पतन्तीवाकुला दिक्षु तोयधाराः समन्ततः ॥५५॥

निलीयमानैर्विहगैर्निमीलद्भिश्च पङ्कजैः।
विकसन्त्या च मालत्या गतोऽस्तं ज्ञायते रविः ॥५६॥

वृत्ता याश्चानरेद्रांणांसेना प्रतिनिवर्तते।
वैराणि चैव मार्गाश्च सलिलेन समीकृताः ॥५७॥

मासि प्रोष्ठपदे ब्रह्म ब्राह्मणानां विवक्षताम्।
अयमध्यायसमयः सामगानामुपस्थितः ॥५८॥

निवृत्तकर्मायतनो नूनं सञ्चितसञ्चयः।
आषाढीमभ्युपगतो भरतः कोसलाधिपः ॥५९॥

नूनमापूर्यमाणायाः सरय्वा वर्धते रयः।
मां समीक्ष्य समायान्तमयोध्याया इव स्वनः ॥६०॥

इमाः स्फीतगुणा वर्षाः सुग्रीवः सुखमश्नुते।
विजितारिः सदारश्च राज्ये महति च स्थितः॥६१॥

अहं तु हृतदारश्च राज्याच्च महतश्च्युतः।
नदीकूलमिव क्लिन्नमवसीदामि लक्ष्मण॥६२॥

शोकश्च मम विस्तीर्णो मार्गाश्च भृशदुर्गमाः।
रावणश्च महाञ्शत्रुरपारः प्रतिभाति मे॥६३ ॥

अयात्रां चैव दृष्टेमां मार्गोश्च भृशदुर्गमान्।
प्रणते चैव सुग्रीवे न मया किञ्चिदीरितम्॥६४॥

अपि चातिपरिक्लिष्टं चिराद्दारैः समागतम्।
आत्मकार्यगरीयस्त्वाद्वक्तुं नेच्छामि वानरम्॥६५॥

अयमेव हि विश्रम्य ज्ञात्वा कालमुपागतम्।
उपकारं च सुग्रीवो वेत्स्यते नात्र संशयः॥६६॥

तस्मात्कालप्रतीक्षोऽहं स्थितोऽस्मि शुभलक्षण ॥६७॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये
किष्किन्धाकाण्डे अष्टाविंशः सर्गः ॥

आदितः श्लोकाः 10478
किष्किन्धाकाण्डे आदितः श्लोकाः 1226

<MISSING_FIG href="../books_images/U-IMG-1708055884Screenshot2024-02-13142116.png"/>

एकोनत्रिंशः सर्गः ॥२९॥

हनूमता सुग्रीवप्रतिबोधनम् ॥

समीक्ष्य विमलं व्योम गतविद्युद्धलाहकम्।
सारसारवसंघुष्टं रम्यज्योत्स्नानुलेपनम्॥१॥

समृद्धार्थं च सुग्रीवं मन्दधर्मार्थसंग्रहम्।
अत्यर्थमसतां मार्गमेकान्तगतमानसम्॥२॥

निवृत्तकार्यं सिद्धार्थं प्रमदाभिरतं सदा।
प्राप्तवन्तमभिप्रेतान् सर्वानेव मनोरथान्॥३॥

स्वां च पत्नीमभिप्रेतां तारां चापि समीप्सिताम्।
बिहरन्तमहोरात्रं कृतार्थं विगतज्वरम् ॥४॥

क्रीडन्तमिव देवेशं नन्दनेऽप्सरसां गणैः।
मन्त्रिषु न्यस्तकार्यं च मित्राणामनवेक्षकम्॥५॥

उत्सन्नराज्यसन्देशं कामवृत्तमवस्थितम्।
निश्चितार्थोऽर्थतत्त्वज्ञः कालधर्मविशेषवित्॥६॥

प्रसाद्य वाक्यैर्मधुरैर्हेतुमद्भिर्मनोरमैः।
वाक्यविद्वाक्यतत्त्वज्ञं हरीशं मारुतात्मजः॥७॥

हितं तत्त्वं च पथ्यं च सामधर्मार्थनीतिमत्।
प्रणयप्रीतिसंयुक्तं विश्वासकृतनिश्चयम् ॥
हरीश्वरमुपागम्य हनुमान् वाक्यमब्रवीत्॥८॥

राज्यं प्राप्तं यशश्चैव कौलो श्रीरभिवर्धिता।
मित्राणां संग्रहः शेषस्तं भवान् कर्तुमर्हति॥९॥

यो हि मित्रेषु कालज्ञः सततं साधु वर्तते।
तस्य राज्यं च कीर्तिश्च प्रतापश्चाभिवर्धते॥१०॥

यस्य कोशश्च दण्डश्च मित्रण्यात्मा च भूमिप।
समवेतानि सर्वाणि स राज्यं महदश्मुते॥११॥

तद्भवान् वृत्तसंपन्नः स्थितः पथि निरत्यये।
मित्रार्थमभिनीतार्थं यथावत्कर्तुमर्हति॥१२॥

संत्यज्य सर्वकर्माणि मित्रार्थे योऽनुवर्तते।
संभ्रमाद्धि कृतोत्साहः सोऽनर्थैर्नावरुध्यते॥१३॥

यस्तु कालव्यतीतेषु मित्रकार्येषु वर्तते।
स कृत्वा महतोऽप्यर्थान्न मित्रार्थेन युज्यते॥१४॥

यदिदं वीर कार्यं नो मित्रकार्यमरिन्दम।
क्रियतां राघवस्यैतद्वैदेह्याः परिमार्गणम्॥१५॥

तदिदं वीर कार्यं ते कालातीतमरिन्दम॥१६॥

न च कालमतीतं ते निवेदयति कालवित्।
त्वरमाणोऽपि सन् प्राज्ञस्तव राजन् वशानुगः॥१७॥

कुलस्य हेतुः स्फीतस्य दीर्घबन्धुश्च राघवः।
अप्रमेयप्रभावश्च स्वयं चाप्रतिमो गुणैः॥१८॥

तस्य त्वं कुरु वै कार्यं पूर्वं तेन कृतं तव।
हरीश्वर हरिश्रेष्ठानाज्ञापयितुमर्हसि॥१९॥

न हि तावद्भवेत्कालो व्यतीतश्चोदनादृते।
चोदितस्य हि कार्यस्य भवेत्कालव्यतिक्रमः॥२०॥

अकर्तुरपि कार्यस्य भवान् कर्ता हरीश्वर।
किं पुनः प्रतिकर्तुस्ते राज्येन च धनेन च॥२१॥

शक्तिमानपि विक्रान्तो वानरर्क्षगणेश्वर।
कर्तुं दाशरथेः प्रीतिमाज्ञायां किं न सज्जसे॥२२॥

कामं खलु शरैः शक्तः सुरासुरमहोरगान्।
वशे दाशरथिः कर्तुं त्वत्प्रतिज्ञां तु काङ्क्षते॥२३॥

प्राणत्यागविशङ्केन कृतं तेन तव प्रियम्।
तस्य मार्गाम वैदेहीं पृथिव्यामपि चाम्बरे॥२४॥

देवदानवगन्धर्वा असुराः समरुद्गणाः।
न च यक्षा भयं तस्य कुर्युः किमुत राक्षसाः॥२५॥

तदेवं शक्तियुक्तस्य पूर्वं प्रियकृतस्तव।
रामस्यार्हसि पिङ्गेश कर्तुं सर्वात्मना प्रियम्॥२६॥

नाधस्तादवनौ नाप्सु गतिर्नोपरि चाम्बरे।
कस्य चित्सज्जतेऽस्माकं कपीश्वर तवाज्ञया॥२७॥

तदाज्ञापय कः किं ते कृते कुत्र व्यवस्यतु।
हरयोह्यप्रधृष्यास्ते सन्ति कोट्यग्रतोऽनघाः॥२८॥

तस्य तद्वचनं श्रुत्वा काले साधु निवेदितम्।
सुग्रीवः सत्त्वसम्पन्नश्चकार मतिमुत्तमाम्॥२९॥

स संदिदेशाभिमतं नीलं नित्यकृतोद्यमम्।
दिक्षु सर्वासु सर्वेषां सैन्यानामुपसंग्रहे॥३०॥

यथा सेना समग्रा मे यूथपालाश्च सर्वशः।
समागच्छन्त्यसङ्गेन सेनाग्राणि तथा कुरु॥३१॥

ये त्वन्तपालाः प्लवगाः शीघ्रगा व्यवसायिनः।
समानयन्तु ते सैन्यं त्वरिताः शासनान्मम॥३२॥

स्वयं चानन्तरं सैन्यं भवानेवानुपश्यतु ॥३३॥

त्रिपञ्चरात्रादूर्ध्वं यः प्राप्नुयान्नेह वानर।
तस्य प्राणान्तिको दण्डो नात्र कार्या विचारणा ॥३४॥

हरींश्च वृद्धानुपयातु साङ्गदो
भवान् ममाज्ञामधिकृत्य निश्चिताम्।
इति व्यवस्थां हरिपुङ्गवेश्वरो
विधाय वेश्म प्रविवेश वीर्यवान् ॥३५॥

इत्यार्षेश्रीमद्रामायणे वाल्मीकीये आदिकाव्ये
किष्किन्धाकाण्डे एकोनत्रिंशः सर्गः ॥

आदितः श्लोकाः 10513
किष्किन्धाकाण्डे आदितः श्लोकाः 1261

इति पुरा कुशलवाभ्यां श्रीरामसन्निधावश्वमेधयज्ञवाटे गीते
श्रीमद्रामायणे चतुर्दशेऽह्नि वर्तमानकथाप्रसङ्गः

<MISSING_FIG href="../books_images/U-IMG-1708052869Screenshot2024-02-13142116.png"/>

[पुरा कुशलवाभ्यां श्रीरामसन्निधौ अश्वमेधयज्ञवाटे
पञ्चदशेऽह्नि किष्किन्धाकाण्डे त्रिंशसर्गमारभ्य
पञ्चाशसर्गपर्यन्तं (10514 – 11330 श्लोकाः)
गीतम्। तस्मिन् दिने गीताः श्लोकाः 817]

त्रिंशः सर्गः ॥३०॥

शरद्वर्णनम् ॥

गुहां प्रविष्टे सुग्रीवे विमुक्ते गगने धनैः।
वर्षरात्रोषितो रामः कामशोकाभिपीडितः ॥१॥

पाण्डुरं गगनं दृष्ट्वा विमलं चन्द्रमण्डलम्।
शारदीं रजनीं चैव दृष्ट्वा ज्योत्स्नानुलेपनाम्॥२॥

कामवृत्तं च सुग्रीवं नष्टां च जनकात्मजाम्।
बुद्ध्वा कालमतीतं च प्रुमोह परमातुरः॥३॥

स तु संज्ञामुपागम्य मुहूर्तान्मतिमान् पुनः।
मनःस्थामपि वैदेहीं चिन्तयामास राघवः॥४॥

आसीनः पर्वतस्याग्रे हेमधातुविभूषिते।
शारदं गगनं दृष्ट्वा जगाम मनसा प्रियाम्॥५॥

दृष्ट्वा स विमलं व्योम गतविद्युद्बलाहकम्।
सारसारवसंघुष्टं विललापार्तया गिरा॥६॥

सारसारवसन्नादैःसारसारवनादिनी।
याऽऽश्रमे रमते बाला साऽद्य मे रमते कथम्॥७॥

पुष्पितांश्वासनान् दृष्ट्वा काञ्चनानिव निर्मलान्।
कथं सा रमते बाला पश्यन्ती मामपश्यती॥८॥

या पुरा कलहंसानां स्वरेण कलभाषिणी।
बुध्यते चारुसर्वाङ्गी साऽद्य मे बुध्यते कथम्॥९॥

निस्वनं चक्रवाकानां निशम्य सहचारिणाम्।
पुण्डरीकविशालाक्षी कथमेषा भविष्यति॥१०॥

सरांसि सरितो वापीः काननानि वनानि च।
तां विना मृगशाबाक्षीं चरन्नाद्य सुखं लभे॥११॥

अपि तां मद्वियोगाच्च सौकुमार्याच्च भामिनीम्।
न दूरं पीडयेत्कामः शरद्गुणनिरन्तरः॥१२॥

एवमादि नरश्रेष्ठो विललाप नृपात्मजः।
विहङ्ग इव सारङ्गः सलिलं त्रिदशेश्वरात्॥१३॥

ततः सञ्चार्य रम्येषु फलार्थी गिरिसानुषु।
ददर्श पर्युपावृत्तो लक्ष्मणो लक्ष्मणाग्रजम्॥१४॥

तं चिन्तया दुःसहया परीतं विसंज्ञमेकं विजने मनस्वी।
भ्रातुर्विषादात्परितापदीनः समीक्ष्य सौमित्रिरुवाच रामम् ॥१५॥

किमार्य कामस्य वशं गतेन किमात्मपौरुष्यपराभवेन।
अयं सदा संह्रियते समाधिः किमत्र योगेन निवर्तितेन ॥१६॥

क्रियाभियोगं मनसः प्रसादं समाधियोगानुगतं च कालम्।
सहायसामर्थ्यमदीनसच्च स्वकर्महेतुं च कुरुष्व हेतुम् ॥१७॥

न जानकी मानववंशनाथ त्वया सनाथा सुलभा परेण।
न चाग्निचूडां ज्वलितामुपेत्य न दह्यते वीरवरार्हकश्चित् ॥१८॥

स लक्ष्मिवांल्लक्ष्मणमप्रधृष्यं स्वभावजं वाक्यमुवाच रामः।
हितं च पथ्यं च नयप्रसक्तं ससाम धर्मार्थसमाहितं च ॥१९॥

निःसंशयं कार्यमवेक्षितव्यं क्रियाविशेषो ह्यनुवर्तितव्यः।
ननु प्रवृत्तस्य दुरासदस्य कुमार कार्यस्य फलं न चिन्त्यम् ॥२०॥

अथ पद्मपलाशाक्षीं मैथिलीमनुचिन्तयन्।
उवाच लक्ष्मणं रामो मुखेन परिशुष्यता ॥२१॥

तर्पयित्वा सहस्राक्षः सलिलेन वसुन्धराम्।
निर्वर्तयित्वा सस्यानि कृतकर्मा व्यवस्थितः ॥२२॥

स्निग्धगम्भीरनिर्घोषाः शैलद्रुमपुरोगमाः।
विसृज्य सलिलं मेघाः परिश्रान्ता नृपात्मज ॥२३॥

नीलोत्पलदलश्यामाः श्यामीकृत्वा दिशो दश।
विमदा इव मातङ्गाः शान्तवेगाः पयोधराः ॥२४॥

जलगर्भा महावेगाः कुटजार्जुनगन्धिनः।
चरित्वा विरताः सौम्य वृष्टिवाताः समुद्यताः ॥२५॥

घनानां वारणानां च मयूराणां च लक्ष्मण।
नादः प्रस्रवणानां च प्रशान्तः सहसाऽनघ॥२६॥

अभिवृष्टा महामेघैर्निर्मलाश्चित्रसानवः।
अनुलिप्ता इवाभान्ति गिरयश्चन्द्ररश्मिभिः॥२७॥

दर्शयन्ति शरन्नद्यः पुलिनानि शनैः शनैः।
नवसङ्गमसत्रीडजघनानीव योषितः॥२८॥

शाखासु सराच्छंदपादपानां
प्रभासु तारार्कनिशाकराणाम्।
लीलासु चैवोत्तमवारणानां
श्रियं विभज्याद्य शरत्मवृत्ता ॥२९॥

संप्रत्यनेकाश्रयचित्रशोभा लक्ष्मीः शरत्कालगुणोपनीता।
सूर्या ग्रहस्तप्रतिबोधितेषु पद्माकरेष्वभ्यधिकं विभाति ॥३०॥

सप्तच्छदानां कुसुमोपगन्धी षट्पादबृन्दैरनुगीयमानः।
मत्तद्विपानां पवनोऽनुसारी दर्पं वनेष्वत्यधिकं करोति ॥३१॥

अभ्यागतैश्चारुविशालपक्षैः सरः प्रियैः पद्मरजोवकीर्णैः।
महानदीनां पुलिनोपयातैः क्रीडन्ति हंसाः सह चक्रवाकैः ॥३२॥

मदप्रगल्भेष्वपि वारणेषु गवां समूहेषु च दर्पितेषु।
प्रसन्नतोयासु च निम्नगासु विभाति लक्ष्मीर्बहुधा विभक्ता ॥३३॥

नभः समीक्ष्याम्बुधरैर्विमुक्तं विमुक्तबर्हाभरणा वनेषु।
प्रियास्वसक्ता विनिवृत्तशोभा गतोत्सवा ध्यानपरा मयूराः ॥३४॥

मनोज्ञगन्धैः प्रियकैरनल्यैः पुष्पातिभारावनताग्रशाखैः।
सुवर्णगोरैर्नयनाभिरामैरुद्योतितानीव वनान्तराणि ॥ ३५ ॥

प्रियान्वितानां नलिनीप्रियाणां वने रतानां कुसुमोद्धतानाम्।
मदोत्कटानां मदलालसानां गजोत्तमानां गतयोऽद्य मन्दाः ॥३६॥

व्यभ्रं नमः शस्त्रविधौतवर्णं
कृशप्रवाहानि नदीजलानि।
कह्लारशीताः पवनाः प्रवान्ति
तमोविमुक्ताश्चदिशः प्रकाशाः ॥३७॥

सूर्यातपक्रामणनष्टपङ्का भूमिश्चिरोद्घाटितसान्द्ररेणुः।
अन्योन्यवैरातिरुषा युतानामुद्योगकालोऽद्य नराधिपानाम् ॥३८॥

शरद्गुणाप्यायितरूपशोभाः प्रहर्षिताः पांसुसमुक्षिताङ्गाः।
मदोत्कटाः संप्रति युद्धलुब्धा वृषा गवां मध्यगता नदन्ति॥३९॥

समन्मथं तीव्रगतानुरागाः कुलान्विता मन्दगतिं करिण्यः।
मदान्वितं संपरिवार्य यान्तं वनेषु भर्तारमनुप्रयान्ति ॥४०॥

त्यक्त्वावराण्यात्मविभूषणानि बर्हाणि तीरोपगता नदीनाम्।
निर्भर्त्स्यमाना इव सारसौघैः प्रयान्ति दीना विमदा मयूराः ॥४१॥

वित्रास्य कारण्डवचक्रवाकान् महारवैर्भिन्नकटा गजेन्द्राः।
सरःसु बुद्धांबुजभूषणेषु विक्षोभ्य विक्षोभ्य जलं पिबन्ति ॥४२॥

व्यपेतपङ्कासु सवालुकासु प्रसन्नतोयासु सगोकुलासु।
ससारसा रावविनादितासु नदीषु दृष्टा निपतन्ति हंसाः ॥४३॥

नदीघनप्रस्रवणोदकानामतिप्रवृद्धानिलबर्हिणानाम्।
प्लवङ्गमानां च गतोत्सवानां द्रुतं रवाः संप्रति संप्रनष्टाः ॥४४॥

अनेकवर्णाः सुविनष्टकाया नवोदितेष्यम्बुधरेषु नष्टाः।
क्षुधार्दिता घोरविषा विलेभ्यश्चिरोषिता विभसरन्ति सर्पाः ॥४५॥

चञ्चच्चन्द्रकरस्पर्शहर्षोन्प्रीलिततारका।
अहो रागवती सन्ध्या जहाति स्वयमम्बरम् ॥ ४६॥

रात्रिः शशाङ्कोदितसौम्यवक्त्रा तारागणोन्मीलितचारुनेत्रा।
ज्योत्स्त्रांशुकप्रावरणा विभाति नारीव शुक्लांशुकसंवृताङ्गी ॥४७॥

विपक्कशालिप्रसवानि भुक्त्वा प्रहर्षिता सारसचारुपङ्क्तिः।
नभः समाक्रामति शीघ्रवेगा वातावधूता ग्रथितेव माला ॥४८॥

सुप्तैकहंसं कुसुमैरुपेतं महाह्रदस्थं सलिलं विभाति।
घनैर्विमुक्तं निशि पूर्णचन्द्रं तारागणाकीर्णमिवान्तरिक्षम् ॥४९॥

प्रकीर्णहंसाकुलमेखलानां प्रबुद्धपद्मोत्पलमालिनीनाम्।
वाप्युत्तमानामधिकाऽद्य लक्ष्मीर्वराङ्गनानामिव भूषितानाम् ॥५०॥

वेणुस्वनव्यञ्जिततूर्यमिश्रः प्रत्यूषकालानिलसंप्रवृद्धः।
संमूर्च्छितो गर्गरगोनृपाणामन्योन्यमापूरयतीव शब्दः ॥५१॥

नवैर्नदीनां कुसुमप्रभासैर्व्याधूयमानैर्मृदुमारुतेन।
धौतामलक्षौमपटप्रकाशैः कूलानि काशैरुपशोभितानि ॥५२॥

वनप्रचण्डा मधुपानशौण्डाः प्रियान्विताः षट्चरणाः प्रहृष्टाः।
वनेषु मत्ताः पवनानुयात्रां कुर्वन्ति पद्मासनरेणुगौराः ॥५३॥

जलं प्रसन्नं कुमुदं प्रभासं क्रौञ्चस्वनः शालिवनं विपक्कम्।
मृदुश्च वायुर्विमलश्च चन्द्रः शंसन्तिं वर्षव्यपनीतकालम् ॥५४॥

मीनोपसंदर्शितमेखलानां नदीवधूनां गतयोऽद्य मन्दाः।
कान्तोपभुक्तालसगामिनीनां प्रभातकालेष्विव कामिनीनाम् ॥५५॥

सचक्रवाकानि सशैवलानि काशैर्दुक्कुलैरिव संवृतानि।
सपत्रलेखानि सरोचनानि वधूमुखानीव नदीमुखानि ॥५६॥

प्रफुल्लवाणासनचित्रितेषु प्रहृष्टषट्पादनिकूजितेषु।
गृहीतचापोयतचण्डदण्डः प्रचण्डचारोऽद्य वनेषु कामः ॥५७॥

लोकं सुवृष्ट्या परितोषयित्वा नदीस्तटाकानि च पूरयित्वा।
निष्पन्नसस्यां वसुधां च कृत्वा त्यक्त्वा नभस्तोंयधराः प्रनष्टाः॥५८॥

प्रसन्नसलिलाः सौम्य कुररीभिर्विनादिताः।
चक्रवाकगणाकीर्णा विभान्ति सलिलाशयाः ॥५९॥

अन्योन्यबद्धवैराणां जिगीषूणां नृपात्मज।
उद्योगसमयः सौम्य पार्थिवानामुपस्थितः ॥६० ॥

इयं सा प्रथमा यात्रा पार्थिवानां नृपात्मज।
न च पश्यामि सुग्रीवमुद्योगं वा तथाविधम् ॥६१॥

असनाः सप्तपर्णाश्च कोविदाराश्च पुष्पिताः।
दृश्यन्ते बन्धुजीवाश्च श्यामाश्चगिरिसानुषु॥६२ ॥

हंससारसचक्राह्वैःकुररैश्च समन्ततः।
पुलिनान्यवकीर्णानि नंदीनां पश्य लक्ष्मण॥६३॥

चत्वारो वार्षिका मासा गता वर्षशतोपमाः।
मम शोकाभिभूतस्य सौम्य सीतामपश्यतः॥६४॥

चक्रवाकीव भर्तारं पृष्ठतोऽनुगता वनम्।
विषमं दण्डकारण्यमुद्यानमिव चाङ्गना॥६५॥

प्रियाविहीने दुःखार्ते हृतराज्ये विवासिते।
कृपां न कुरुते राजा सुग्रीवो मयि लक्ष्मण॥६६॥

अनाथो हृतराज्योऽयं रावणेन च धर्षितः।
दीनो दूरगृहः कामी मां चैव शरणं गतः॥६७॥

इत्येतैः कारणैः सौम्य सुग्रीवस्य दुरात्मनः।
अहं वानरराजस्य परिभूतः परन्तप॥ ६८॥

स कालं परिसंख्याय सीतायाः परिमार्गणे।
कृतार्थः समयं कृत्वा दुर्मतिर्नावबुध्यते॥६९॥

त्वं प्रविश्य च किष्किन्धां ब्रूहि वानरपुङ्गवम्।
मूर्खं ग्राम्यसुखे सक्तं सुग्रीवं वचनान्मम॥७०॥

अर्थिनामुपपन्नानां पूर्वं चाप्युपकारिणाम्।
आशां संश्रुत्य यो हन्ति स लोके पुरुषाधमः ॥७९॥

शुभं वा यदि वा पापं यो हि वाक्यमुदीरितम्।
सत्येन परिगृह्णाति स वीरः पुरुषोत्तमः॥७२॥

कृतार्था ह्यकृतार्थानां मित्राणां न भवन्ति ये।
तान्मृतानपि क्रव्यादाः कृतघ्नान्नोपभुञ्जते॥७३॥

नूनं काञ्चनपृष्ठस्य विकृष्टस्य मया रणे।
द्रष्टुमिच्छति चापस्य रूपं वियुगणोपमम्॥७४॥

घोरं ज्यातलनिर्घोषं क्रुद्धस्य मम संयुगे।
निर्घोषमिव वज्रस्य पुनः संश्रोतुमिच्छति॥७५॥

काममेवं गतेऽप्यस्य परिज्ञाते पराक्रमे।
त्वत्सहायस्य मे वीर न चिन्ता स्यान्नृपात्मज ॥७६॥

यदर्थमयमारम्भः कृतः परपुरंजय।
समयं नाभिजानाति कृतार्थः प्लवगेश्वरः॥७७॥

वर्षासमयकालं तु प्रतिज्ञाय हरीश्वरः।
व्यतीतांश्चतुरो मासान्विहरन्नावबुध्यते॥७८॥

सामात्यपरिषत्कीडन्पानमेवोपसेवते।
शोकदीनेषु नास्मासु सुग्रीवः कुरुते दयाम् ॥७९॥

उच्यतां गच्छ सुग्रीवस्त्वया वत्स महाबल।
मम रोषस्य यद्रूपं ब्रूयाश्चैनमिदं वचः॥८०॥

न च संकुचितः पन्था येन वाली हतो गतः।
समये तिष्ठ सुग्रीव मा वालिपथमन्वगाः॥८१॥

एक एव रणे वाली शरेण निहतो मया।
त्वां तु सत्यादतिक्रान्तं वधिष्यामि सबान्धवम् ॥८२॥

तदेवं विहिते कार्ये यद्धितं पुरुषर्षभ।
तत्तद्ब्रूहि नरश्रेष्ठ त्वर कालव्यतिक्रमः॥८३॥

कुरुष्व सत्यं मयि वानरेश्वर
प्रतिश्रुतं धर्ममवेक्ष्य शाश्वतम्।
मा वालिनं प्रेत्य गतो यमक्षयं
त्वमद्य पश्ये मम चोदितैः शरैः ॥८४॥

स पूर्वजं तीव्रविवृद्धकोपं
लालप्यमानं प्रसमीक्ष्य दीनम्।
चकार तीव्रां मतिमुग्रतेजा
हरीश्वरे मानववंशवर्धनः॥८५॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये
किष्किन्धाकाण्डे त्रिंशः सर्गः ॥

आदितः श्लोकाः 10597
किष्किन्धाकाण्डे आदितः श्लोकाः 1345

<MISSING_FIG href="../books_images/U-IMG-1707972487Screenshot2024-02-13142116.png"/>

एकत्रिंशः सर्गः ॥ ३१ ॥

अङ्गदेन क्रुद्धस्य लक्ष्मणस्यागमनकथनम् ॥

स कामिनं दीनमदीनसत्त्वं शोकाभिपन्नं समुदीर्णकोपम्।
नरेन्द्रसूनुर्नरदेवपुत्रं रामानुजः पूर्वजमित्युवाच ॥१॥

न वानरः स्थास्यति साधुवृत्ते
न मंस्यते कर्मफलानुषङ्गान्।
न भोक्ष्यते वानरराज्यलक्ष्मीं
तथा हि नाभिक्रमतेऽस्य बुद्धिः ॥२॥

मतिक्षयाद्ग्राम्यसुखेषु सक्त-
स्तव प्रसादाप्रतिकारबुद्धिः।
हतोऽग्रजं पश्यतु वीर वालिनं
न राज्यमेवं विगुणस्य देयम् ॥३॥

न धारये कोपमुदीर्णवेगं निहन्मि सुग्रीवमसत्यमद्य।
हरिप्रवीरैः सह वालिपुत्रो नरेन्द्रपुत्र्या विचयं करोतु ॥४॥

तमात्तबाणासनमुत्पतन्तं निवेदितार्थं रणचण्डकोपम्।
उवाच रामः परवीरहन्ता स्ववेक्षितं सानुनयं च वाक्यम् ॥५॥

न हि वै त्वद्विधो लोके पापमेवं समाचरेत्।
पापमार्येण यो हन्ति स वीरः पुरुषोत्तमः॥६॥

नेदमद्य त्वया ग्राह्यं साधुवृत्तेन लक्ष्मण।
तां प्रीतिमनुवर्तस्व पूर्ववृत्तं च सङ्गतम्॥७॥

सामोपहितया वाचा रूक्षाणि परिवर्जयन्।
वक्तुमर्हसि सुग्रीवं व्यतीतं कालपर्यये॥८॥

सोऽग्रजेनानुशिष्टार्थो यथावत्पुरुषर्षभः।
प्रविवेश पुरीं वीरो लक्ष्मणः परवीरहा॥९॥

ततः शुभमतिः प्राज्ञो भ्रातुः प्रियहिते रतः।
लक्ष्मणः प्रति संरब्धो जगाम भवनं कपेः॥ १०॥

शक्रबाणासनप्रख्यं धनुः कालान्तकोपमः।
प्रगृह्य गिरिशृङ्गाभं मन्दरः सानुमानिव॥११॥

यथोक्तकारी वचनमुत्तरं चैव सोत्तरम्।
बृहस्पतिसमो बुद्धया मत्वा रामानुजस्तथा॥१२॥

कामक्रोधसमुत्थेन भ्रातुः कोपाग्निना वृतः।
प्रभञ्जन इवाप्रीतः प्रययौ लक्ष्मणस्तदा॥१३॥

सालतालाश्वकर्णाश्च तरसा पातयन् बहून्।
पर्यस्यन् गिरिकूटानि द्रमानन्यांश्च वेगतः॥१४॥

शिलाश्च शकली कुर्वन् पद्भ्यां गज इवाशुगः।
दूरमेकपदंत्यक्त्वा ययौ कार्यवशाद्द्रुतम्॥१५॥

तामपश्यद्बलाकीर्णो हरिराजमहापुरीम्।
दुर्गामिक्ष्वाकुशार्दूलः किष्किन्धां गिरिसङ्कटे ॥१६॥

रोषात्प्रस्फुरमाणोष्ठः सुग्रीवं प्रति लक्ष्मणः।
ददर्श वानरान्भीमान्किष्किन्धाया बहिश्वरान् ॥ १७॥

तं दृष्ट्वा वानराः सर्वे लक्ष्मणं पुरुषर्षभम्।
शैलशृङ्गाणि शतशः प्रवृद्धांश्च महीरुहान् ॥
जगृहुः कुञ्जरप्रख्या वानराः पर्वतान्तरे॥१८॥

तान् गृहीतप्रहरणान् हरीन् दृष्ट्वातु लक्ष्मणः।
बभूव द्विगुणं क्रुद्धो बह्विन्धन इवानलः॥१९॥

तं ते भयपरीताङ्गाः क्रुद्धं दृष्ट्वा प्लवङ्गमाः।
कालमृत्युयुगान्ताभं शतशो विद्रुता दिशः॥२०॥

ततः सुग्रीवभवनं प्रविश्य हरिपुङ्गवाः।
क्रोधमागमनं चैव लक्ष्मणस्य न्यवेदयन्॥२१॥

तारया सहितः कामी सक्तः कपिवृषो रहः।
न तेषां कपिवीराणां शुश्राव वचनं तदा॥२२॥

ततः सचिवसंदिष्टा हरयो रोमहर्षणाः।
गिरिकुञ्जरमेघाभा नगर्या निर्ययुस्तदा॥२३॥

नरवदंष्ट्रायुधा वीराः सर्वे विकृतदर्शनाः।
सर्वे शार्दूलदर्पाश्च सर्वे च विकृताननाः॥२४॥

दशनागवलाः केचित्केचिद्दशगुणोत्तराः।
के चिन्नागसहस्रस्य बभूवस्तुल्यविक्रमाः॥२५॥

सन्ति चौघबलाः केचित्केचिद्वायुबलोत्तराः।
अप्रमेयबलाः केचित्तत्रासन्हरिपुङ्गवाः॥२६॥

प्रतिपूर्णमिवाकाशं संछन्नमिव तद्वनम्।
तेन वानरसैन्येन सुग्रीवस्य महात्मनः॥२७॥

ततो द्वाराणि सर्वाणि अङ्गदो राजशासनात्।
पर्यधावत दुर्घर्षो नक्षत्राणीव चन्द्रमाः॥२८॥

कृत्स्नां हि कपिभिर्व्याप्तां द्रुमहस्तैर्महाबलैः।
अपश्यल्लक्ष्मणः क्रुद्धः किष्किन्धां तां दुरासदाम् ॥२९॥

ततस्ते हरयः सर्वे प्राकारपरिघान्तरात्।
निष्क्रम्योदग्रसत्त्वास्तु तस्थुराविष्कृतायुधाः ॥३०॥

सुग्रीवस्य प्रमादं च पूर्वजं चार्तमात्मवान्।
बुद्ध्वा कोपवशं वीरः पुनरेव जगाम सः॥३१॥

स दीर्घोष्णमहोच्छ्वासः कोपसंरक्तलोचनः।
बभूव नरशार्दूलः सधूम इव पावकः॥३२॥

बाणशल्यस्फुरज्जिह्वः सायकासनभोगवान्।
स्वतेजोविषसङ्घातः पञ्चास्य इव पन्नगः॥३३॥

तं दीप्तमिव कालाग्निं नागेन्द्रमिव कोपितम्।
समासाद्याङ्गदस्त्रासाद्विषादमगमद्भृशम्॥३४॥

सोऽङ्गदं रोषताम्राक्षः संदिदेश महायशाः।
सुग्रीवः कथ्यतां वत्स ममागमनमित्युत॥३५॥

एष रामानुजः प्राप्तस्त्वत्सकाशमरिन्दमः।
भ्रातुर्व्यसनसंतप्तो द्वारि तिष्ठति लक्ष्मणः॥३६॥

तस्य वाक्ये यदि रुचिः क्रियतां साधु वानर।
इत्युक्त्वा शीघ्रमागच्छ वत्स वाक्यमिदं मम ॥३७॥

लक्ष्मणस्य वचः श्रुत्वा शोकाविष्टोऽङ्गदोब्रवीत्।
पितुः समीपमागम्य सौमित्रिरयमागतः॥३८॥

अथाङ्गदस्तस्य वचो निशम्य
संभ्रान्तभावः परिदीनवक्त्रः।
निपत्य तूर्णं नृपतेस्तरस्वी
ततः कुमारश्चरणौ ववन्दे॥३९॥

संगृह्य पादौ पितुरम्यतेजा
जग्राह मातुः पुनरेव पादौ।
पादौ रुमायाश्च निपीडयित्वा
निवेदयामास ततस्तमर्थम्॥४०॥

स निद्राग्लानिसंवीतो वानरो न विबुद्धवान्।
बभूव मदमत्तश्च मदनेन च मोहितः॥४१॥

ततः किलकिलां चक्रुर्लक्ष्मणं प्रेक्ष्य वानराः।
प्रसादयन्तस्तं क्रुद्धं भयमोहितचेतसः॥४२॥

ते महौघनिभं दृष्ट्वा वज्राशनिसमस्वनम्।
सिंहनादं समं चक्रुर्लक्ष्मणस्य समीपतः॥४३॥

तेन शब्देन महता प्रत्यबुध्यत वानरः।
मदविह्वलताम्राक्षो व्याकुलस्रग्विभूषणः॥४४॥

अथाङ्गदवचः श्रुत्वा तेनैव च संमागतौ।
मन्त्रिणौ वानरेन्द्रस्य संमतौ दारदर्शिनौ॥४५॥

प्लक्षश्चैव प्रभासश्चमन्त्रिणावर्थधर्मयोः।
वक्तुमुच्चावचं प्राप्तं लक्ष्मणं तो शशंसतुः॥४६ ॥

प्रसादयित्वा सुग्रीवं वचनैः सामनिश्चितैः।
आसीनं पर्युपासीनौ यथा शक्रं मरुत्पतिम् ॥४७॥

सुग्रीवसचिवाः सर्वे मन्त्रार्थेसमुपाविशन्।
विनतश्च सुषेणश्च नीलोऽथ नल एव च॥४८॥

अङ्गदो वालिसूनुश्च हनुमांश्चैव बुद्धिमान्।
एते सर्वे महात्मानः सुग्रीवं वानरोत्तमाः॥४९॥

प्रसादयित्वा राजानं वचनैः सामनिश्चितैः।
उवाच हनुमान् वीरो यथा शक्रं बृहस्पतिः ॥५०॥

सत्यसन्धौ महाभागौ भ्रातरौ रामलक्ष्मणौ।
वयस्यभावं संप्राप्तौ राज्यार्हौराज्यदायिनौ ॥५१॥

तयोरेको धनुष्पाणिर्द्वारि तिष्ठति लक्ष्मणः।
यस्य भीताः प्रवेपन्तो नादान्मुञ्चन्ति वानराः ॥५२॥

स एष राघवभ्राता लक्ष्मणो वाक्यसारथिः।
व्यवसायरथः प्राप्तस्तस्य रामस्य शासनात् ॥५३॥

अयं च दयितो राजंस्तारायास्तनयोऽङ्गदः।
लक्ष्मणेन सकाशं ते प्रेषितस्त्वरयाऽनघ॥५४॥

सोऽयं रोषपरीताक्षो द्वारि तिष्ठति वीर्यवान्।
वानरान्वानरपते चक्षुषा निर्दहन्निव॥५५॥

तस्य मूर्ध्ना प्रणामं त्वं सपुत्रः संहबान्धवः।
कुरु शीघ्रं महाराज रोषो ह्यस्योपशाम्यताम् ॥५६॥

यदाह रामो धर्मात्मा तत्कुरुष्व समाहितः।
राजंस्तिष्ठ स्वसमये भव सत्यप्रतिश्रवः॥५७॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये
किष्किन्धाकाण्डे एकत्रिंशः सर्गः ॥

आदितः श्लोकाः 10654
किष्किन्धाकाण्डे आदितः श्लोकाः 1402

<MISSING_FIG href="../books_images/U-IMG-1707974923Screenshot2024-02-13142116.png"/>

द्वात्रिंशः सर्गः ॥३२॥

हनुमता लक्ष्मणप्रसादनचोदना ॥

अङ्गदस्य वचः श्रुत्वा सुग्रीवः सचिवैः सह।
लक्ष्मणं कुपितं श्रुत्वा मुमोचासनमात्मवान्॥१॥

स च तानब्रवीद्वाक्यं निश्चित्य गुरुलाघवम्।
मन्त्रज्ञान्मन्त्रकुशलो मन्त्रेषु परिनिष्ठितान्॥२॥

न मे दुर्व्याहृतं किंचिन्नापि मे दुरनुष्ठितम्।
लक्ष्मणो राघवभ्राता क्रुद्धः किमिति चिन्तये॥३॥

असुहृद्भिर्ममामित्रैर्नित्यमन्तरदशिंभिः।
मम दोषानसंभूताञ्श्रावितो राघवानुजः॥४॥

अत्र तावद्यथाबुद्धि सर्वैरव यथाविधि।
भावस्य निश्चयस्तावद्विज्ञेयो निपुणं शनैः॥५॥

न खल्वस्ति मम त्रासो लक्ष्मणान्नापि राघवात्।
मित्रंत्वस्थानकुपितं जनयत्येव संभ्रमम्॥६॥

सर्वथा सुकरं मित्रं दुष्करं परिपालनम्।
अनित्यत्वाद्धि चित्तानां प्रीतिरल्पेऽपि भिद्यते ॥ ७॥

अतो निमित्तं त्रस्तोऽहं रामेण तु महात्मना।
यन्ममोपकृतं शक्यं प्रतिकर्तुं न तन्मया॥८॥

सुग्रीवेणैवमुक्तस्तु हनुमान्हरिपुङ्गवः।
उवाच स्वेन तर्केण मध्ये वानरमन्त्रिणाम् ॥९॥

सर्वथा नैतदाश्चर्यं यस्त्वं हरिगणेश्वर।
न विस्मरसि सुस्निग्धमुपकारकृतं शुभम्॥१०॥

राघवेण तु शूरेण भयमुत्सृज्य दूरतः।
त्वप्रियार्थं हतो वाली शक्रतुल्यपराक्रमः॥११॥

सर्वथा प्रणयात्क्रुद्धोराघवो नात्र संशयः।
भ्रातरं संग्रहितवान् लक्ष्मणं लक्ष्मिवर्धनम्॥१२॥

त्वं प्रमत्तो न जानीषे कालं कालविदां वर।
फुल्लसप्तच्छदश्यामा प्रवृत्ता तु शरच्छिवा॥१३॥

निर्मलग्रहनक्षत्रा द्यौः प्रनष्टबलाहका।
प्रसन्नाश्च दिशः सर्वाः सरितश्च सरांसि च॥१४॥

प्राप्तमुद्योगकालं तु नावैषि हरिपुङ्गव।
त्वं प्रमत्त इति व्यक्तं लक्ष्मणोऽयमिहागतः॥१५॥

आर्तस्य हृतदारस्य परुषं पुरुषान्तरात्।
वचनं मर्षणीयं ते राघवस्य महात्मनः॥१६॥

कृतापराधस्य हि ते नान्यत्पश्याम्यहं क्षमम्।
अन्तरेणाञ्जलिं बद्ध्वा लक्ष्मणस्य प्रसादनात् ॥१७॥

नियुक्तैर्मन्त्रिभिर्वाच्यो ह्यवश्यं पार्थिवो हितम्।
अत एव भयं त्यक्त्वा ब्रवीभ्यवधृतं वचः ॥१८॥

अभिक्रुद्धः समर्थो हि चापमुद्यम्य राघवः।
सदेवासुरगन्धर्वे वशे स्थापयितुं जगत्॥१९॥

न स क्षमः कोपयितुं यः प्रसाद्यः पुनर्भवेत्।
पूर्वोपकारं स्मरता कृतज्ञेन विशेषतः॥२०॥

तस्य मूर्ध्ना प्रणम्य त्वं सपुत्रः ससुहृज्जनः।
राजंस्तिष्ठ स्वसमये भर्तुर्भार्येव तद्वशे॥२१॥

न रामरामानुजशासनं त्वया
कपीन्द्र युक्तं मनसाऽष्यपोहितुम्।
मनो हि ते ज्ञास्यति मानुषं बलं
सराघवस्यास्य सुरेन्द्रवर्चसः॥२२॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये
किष्किन्धाकाण्डे द्वात्रिंशः सर्गः॥

आदितः श्लोकाः 10676
किष्किन्धाकाण्डे आदितः श्लोकाः1424

<MISSING_FIG href="../books_images/U-IMG-1707976103Screenshot2024-02-13151634.png"/>

त्रयस्त्रिंशः सर्गः ॥३३॥

तारया लक्ष्मणसान्त्वनम् ॥

अथ प्रतिसमादिष्टो लक्ष्मणः परवीरहा।
प्रविवेश शुभां घोरां किष्किन्धां रामशासनात् ॥१॥

द्वारस्था हरयस्तत्र महाकाया महाबलाः।
बभूवुर्लक्ष्मणं दृष्ट्वा सर्वे प्राञ्जलयः स्थिताः॥२॥

निःश्वसन्तं तु तं दृष्ट्वा क्रुद्धं दशरथात्मजम्।
बभूवुर्हरयस्त्रस्ता न चैनं पर्यवारयन्॥३॥

स तां रत्नमयीं श्रीमान्दिव्यां पुष्पितकाननाम्।
रम्यां रत्नसमाकीर्णो ददर्श महतीं गुहाम्॥४॥

हर्म्यप्रासादसंबाधां नानापण्योपशोभिताम्।
सर्वकामफलैर्वृक्षैः पुष्पितैरुपशोभिताम्॥५॥

देवगन्धर्वपुत्रैश्च वानरैः कामरूपिभिः।
दिव्यमाल्याम्बरधरैः शोभितां प्रियदर्शनैः॥६॥

चन्दनागरुपद्मानां गन्धैः सुरभिगन्धिनाम्।
मैरेयाणां मधूनां च संमोदितमहापथाम् ॥
विन्ध्यमेरुगिरिप्रख्यैः प्रासादैर्नैकभूमिभिः॥७॥

ददर्श गिरिनद्यश्च विमलास्तत्र राघवः॥८॥

अङ्गदस्य गृहं रम्यं मैन्दस्य द्विविदस्य च।
गवयस्य गवाक्षस्य गजंस्य शरभस्य च॥९॥

विद्युन्मालेश्च संपातेः सूर्याक्षस्य हनूमतः।
वीरवाहोः सुबाहोश्च नलस्य च महात्मनः॥१०॥

कुमुदस्य सुषेणस्य तारजाम्बवतोस्तथा।
दधिवक्त्रस्य नीलस्य सुपाटलसुनेत्रयोः॥११॥

एतेषां कपिमुख्यानां राजमार्गे महात्मनाम्।
ददर्श गृहमुख्यानि महासाराणि लक्ष्मणः॥१२॥

पाण्डुराभ्रप्रकाशानि दिव्यमाल्ययुतानि च।
प्रभूतधनधान्यानि स्त्रीरत्नैः शोभितानि च॥१३॥

पाण्डुरेण तु शैलेन परिक्षिप्तं दुरासदम्।
वानरेन्द्रगृहं रम्यं महेन्द्रसदनोपमम्॥१४॥

शुक्लैः प्रासादशिखरैः कैलासशिखरोपमैः।
सर्वकामफलैर्वृक्षैः पुष्पितैरुपशोभितम्॥१५॥

महेन्द्रदत्तैः श्रीमद्भिर्नीलजीमूतसन्निभैः।
दिव्यपुष्पफलैर्वृक्षैः शीतच्छायैर्मनोरमैः॥१६॥

हरिभिः संवृतद्वारं बलिभिः शस्त्रपाणिभिः।
दिव्यमाल्यावृतं शुभ्रं तप्तकाञ्चनतोरणम्॥१७॥

सुग्रीवस्य गृहं रम्यं प्रविवेश महाबलः।
अवार्यमाणः सौमित्रिर्महाभ्रमिव भास्करः॥१८॥

स सप्त कक्ष्या धर्मात्मा नानाजनसमाकुलाः।
प्रविश्य सुमहद्गुप्तं ददर्शान्तःपुरं महत्॥१९॥

हैमराजतपर्यङ्कैर्बहुभिश्च वरासनैः।
महार्हास्तरणोपेतैस्तत्र तत्रोपशोभितम्॥२०॥

प्रविशन्नेव स ततं शुश्राव मधुरस्वनम्।
तन्त्रीगीतसमाकीर्णं समतालपदाक्षरम्॥२१॥

बह्वीश्चविविधाकारा रूपयौवनगर्विताः।
स्त्रियः सुग्रीवभवने ददर्श स महाबलः॥२२॥

दृष्ट्वाऽभिजनसम्पन्नाश्चित्रमाल्यकृतस्रजः।
फलमाल्यकृतव्यग्रा भूषणोत्तमभूषिताः॥२३॥

नातृप्तान्नापि चाव्यग्रान्नानुदात्तपरिच्छदान्।
सुग्रीवानुचरांश्चापि लक्षयामास लक्ष्मणः॥२४॥

कूजितं नूपुराणां च काञ्चीनां निस्वनं तथा।
स निशम्य ततः श्रीमान् सौमित्रिर्लज्जितोऽभवत् ॥२५॥

रोषवेगप्रकुपितः श्रुत्वा चाभरणस्वनम्।
चकार ज्यास्वनं वीरो दिशः शब्देन पूरयन् ॥२६॥

चारित्रेण महाबाहुरपकृष्टः स लक्ष्मणः।
तस्थावेकान्तमाश्रित्य रामकोपसमन्वितः॥२७॥

तेन त्तोपस्वनेनाथ सुग्रीवः प्लवगाधिपः।
विज्ञायाऽऽगमनं त्रस्तः संचचाल वरासनात् ॥२८॥

अङ्गदेन यथा मह्यं पुरस्तात्प्रतिवेदितम्।
सुव्यक्तमेष संप्राप्तः सौमित्रिर्भ्रातृवत्सलः ॥२९॥

अङ्गदेन समाख्यातो ज्यास्वनेन च वानरः।
बुबुधे लक्ष्मणं प्राप्तं मुखं चास्य व्यशुष्यत॥३०॥

ततस्तारां हरिश्रेष्ठः सुग्रीवः प्रियदर्शनाम्।
उवाच हितमव्यग्रस्त्राससंभ्रान्तमानसः॥३१॥

किंनु तत्कारणं सुभ्रु प्रकृत्या मृदुमानसः।
सरोष इव संप्राप्तो येनायं राघवानुजः॥३२॥

किं पश्यसि कुमारस्य रोषस्थानमनिन्दिते।
न खल्वकारणे कोपमाहरेन्नरसत्तमः॥३३॥

यदस्य कृतमस्माभिर्बुध्यसे किंचिदप्रियम्।
तद्बुद्धया संप्रधार्याशु क्षिप्रमर्हसि भाषितुम् ॥३४॥

अथवा स्वयमेवैनं द्रष्टुमर्हसि भामिनि।
वचनैः सान्त्वयुक्तैश्च प्रसादयितुमर्हसि॥३५॥

त्वद्दर्शनविशुद्धात्मा न स कोपं करिष्यति।
न हि स्त्रीषु महात्मानः क्वचित्कुर्वन्ति दारुणम् ॥३६॥

त्वया सान्त्वैरुपक्रान्तं प्रसन्नेन्द्रियमानसम्।
ततः कमलपत्राक्षं द्रक्ष्याम्यहमरिन्दमम्॥३७॥

सा प्रस्खलन्ती मदविह्वलाक्षी प्रलम्बकाञ्चीगुणहेमसूत्रा।
सलक्षणा लक्ष्मणसन्निधानं जगाम तारा नमिताङ्गयष्टिः ॥३८॥

स तां समीक्ष्यैव हरीशपत्नीं तस्थावुदासीनतया महात्मा।
अवाङ्मुखोऽभून्मनुजेन्द्रपुत्रः स्त्रोसन्निकर्षा द्वेनिवृत्तकोपः ॥३९॥

सा पानयोगाद्विनिवृत्तलज्जा दृष्टिप्रसादाच्च नरेन्द्रसुनोः।
उवाच तारा प्रणयप्रगल्भं वाक्यं महार्थं परिसान्त्वपूर्वम् ॥४०॥

किं कोपमूलं मनुजेन्द्रपुत्र कस्ते न संतिष्ठति वाङ्निदेशे।
कः शुष्कवृक्षं वनमापतन्तं दवाग्निमासीदति निर्विशङ्कः ॥४१॥

स तस्या वचनं श्रुत्वा सान्त्वपूर्वमशङ्कितः।
भूयः प्रणयदृष्टार्थ लक्ष्मणो वाक्यमब्रवीत्॥४२॥

किमयं कामतृतस्ते लुप्तधर्मार्थसंग्रहः।
भर्ता भर्तृहिते युक्ते न चैनमवबुध्यसे॥४३॥

न चिन्तयति राज्यस्थो ह्यस्माञ्शोकपरायणान्।
सामात्यपरिषत्तारे पानमेवोपसेवते॥४४॥

स मासांश्चतुरः कृत्वा प्रमाणं प्लवगेश्वरः।
व्यतीतांस्तान्मदव्यग्रो बिहरन्नावबुध्यते॥४५॥

न हि धर्मार्थसिद्धयर्थं पानमेवं प्रशस्यते।
पानादर्थश्च धर्मश्च कामच परिहीयते॥४६॥

धर्मलोपो महांस्तावत्कृते ह्यप्रतिकुर्वतः।
अर्थलोपश्च मित्रस्य नाशे गुणवतो महान्॥४७॥

मित्र ह्यर्थगुणश्रेष्ठं सत्यधर्मपरायणम्।
तद्द्वयं तु परित्यक्तं न तु धर्मे व्यवस्थितम्॥४८॥

तदेवं प्रस्तुते कार्ये कार्यमस्माभिरुत्तरम्।
यत्कार्यं कार्यतत्त्वज्ञे तदुदाहर्तुमर्हसि॥४९॥

सा तस्य धर्मार्थसमाधियुक्तं निशम्य वाक्यं मधुरस्वभावम्।
तारा गतार्थेमनुजेन्द्रकार्ये विश्वासयुक्तं तमुवाच भूयः ॥५०॥

न कोपकालः क्षितिपालपुत्र न चातिकोपः स्वजने विधेयः।
त्वदर्थकामस्य जनस्य तस्यः मादमप्यर्हसि वीर सोढुम् ॥५१॥

कोपं कथं नाम गुणप्रकृष्टः कुमार कुर्शदपकृष्टसत्त्वे।
कस्त्वद्विधः कोपवशं हि गच्छेत्सवावरुद्धस्तपसः प्रसूतिः ॥५२॥

जानामि कोपं हरिवीरबन्धोः
जानामि कार्यस्य च कालसङ्गम्।
जानामि कार्य त्वयि यत्कृतं नः
तच्चापि जानामि यदत्र कार्यम् ॥५३॥

तच्चापि जानामि यथाऽविषह्यं बलं नरश्रेष्ठ शरीरजस्य।
जानामि यस्मिंश्च जनेऽवबद्धं कामेन सुग्रीवमसरमंद्य॥५४॥

न कामतन्त्रे तव बुद्धिरस्ति त्वं वै यथा मन्युवशं प्रपन्नः।
न देशकालौ हि न चार्थधर्मावपेक्षते कामरतिर्मनुष्यः ॥५५॥

तं कामतृत्तं मम सन्निकृष्टं कामाभियोगाच्च विमुक्तलज्जम्।
क्षमस्व तावत्परवीरहन्तस्त्वद्भ्रातरं वानरवंशनाथम् ॥ ५६ ॥

महर्षयो धर्मतपोऽभिकामाः कामानुकामाः प्रतिबद्धमोहाः।
अयं प्रकृत्या चपलः कपिस्तु कथं न सज्जेत सुखेषु राजा ॥५७॥

इत्येवमुक्त्वा वचनं महार्थं सा वानरी लक्ष्मणमप्रमेयम्।
पुनः सखेलं मदविह्वलं च भर्तुर्हितं वाक्यमिदं बभाषे ॥५८॥

उद्योगस्तु चिराज्ञप्तः सुग्रीवेण नरोत्तम।
कामस्यापि विधेयेन तवार्थप्रतिसाधने॥५९॥

आगता हि महावीर्या हरयः कामरूपिणः।
कोटीशतसहस्त्राणि नानानगनिवासिनः॥६०॥

तदागच्छ महाबाहो चारित्रं रक्षितं त्वया।
अच्छलं मित्रभावेन सतां दारावलोकनम्॥६१॥

तारया चाभ्यनुज्ञातस्त्वरया चापि चोदितः।
प्रविवेश महाबाहुरभ्यन्तरमरिन्दमः॥६२॥

ततः सुग्रीवमासीनं काञ्चने परमासने।
महार्हास्तरणोपेते ददर्शादित्यसंनिभम्॥६३॥

दिव्यारिणचित्राङ्गंदिव्यरूपं यशस्विनम्।
दिव्यमाल्याम्बरधरं महेन्द्रमिव दुर्जयम्॥६४॥

दिव्याभरणमाल्याभिः प्रमदाभिः समावृतम्।
संरब्धतररक्ताक्षो बभूवान्तकसंनिभः॥६५॥

रुमां तु वीरः परिरभ्य गाढं वरासनस्था वरहेमवर्णः।
ददर्श सौमित्रिमदीनसत्त्वं विशालनेत्रः सुविशालनेत्रम् ॥६६॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये
किष्किन्धाकाण्डे त्रयस्त्रिंशः सर्गः॥

आदितः श्लोकाः 10742
किष्किन्धाकाण्डे आदितः श्लोकाः 1490

<MISSING_FIG href="../books_images/U-IMG-1707826012Screenshot2024-02-13121118.png"/>

चतुत्रिंशः सर्गः ॥ ३४ ॥

सुग्रीवतर्जनम् ॥

तमप्रतिहतं क्रुद्धं प्रविष्टं पुरुषर्षभम्।
सुग्रीवो लक्ष्मणं दृष्ट्वा बभूव व्यथितेन्द्रियः॥१॥

क्रुद्धं निःश्वसमानं तं प्रदीप्तमिव तेजसा।
भ्रातुर्व्यसनसंतप्तं दृष्ट्वा दशरथात्मजम्॥२॥

उत्पपात हरिश्रेष्ठो हित्वा सौवर्णमासनम्।
महान्महेन्द्रस्य यथा स्वलंकृत इव ध्वजः॥३॥

उत्पतन्तमनूत्पेतू रुमाप्रभृतयः स्त्रियः।
सुग्रीवं गगने पूर्णं चन्द्रं तारागणा इव॥४॥

संरक्तनयनः श्रीमान् मदलोंलः कृताञ्जलिः
बभूवाव स्थितस्तत्र कल्पवृक्षो महानिव॥५॥

रुमाद्वितीयं सुग्रीवं नारीमध्यगतं स्थितम्।
अब्रवीलक्ष्मणः क्रुद्धः सतारं शशिनं यथा॥६॥

सत्त्वाभिजनसंपन्नः सानुक्रोशो जितेन्द्रियः।
कृतज्ञः सत्यवादी च राजा लोके महीयते॥७॥

यस्तु राजा स्थितोऽधर्मे मित्राणामुपकारिणाम्।
मिथ्या प्रतिज्ञां कुरुते को नृशंसतरस्ततः॥८॥

शतमश्वानृते हन्ति सहस्रं च गवानृते।
आत्मानं स्वजनं हन्ति पुरुषः पुरुषानृते॥९॥

पूर्व कृतार्थो मित्राणां न तत्प्रतिकरोति यः।
कृतघ्नः सर्वभूतानां स वध्यः प्लवगेश्वर॥१०॥

गीतोऽयं ब्रह्मणा श्लोकः सर्वलोकनमस्कृतः
दृष्ट्वा कृतघ्नं क्रुद्धेन तं निवोध प्लवङ्गम् ॥११॥

ब्रह्मध्ने च सुरापे च चोरे भगवते तथा।
निष्कृतिर्विहिता सद्भिः कृतघ्ने नास्ति निष्कृतिः ॥१२॥

अनार्यस्त्वं कृतघ्नश्च मिथ्यावादी च वानर।
पूर्वं कृतार्थो रामस्य न तत्प्रतिकरोषि यत्॥१३॥

ननु नाम कृतार्थेन त्वया रामस्य वानर।
सीताया मार्गणे यत्नः कर्तव्यः कृतमिच्छता ॥१४॥

स त्वं ग्राम्येषु भोगेषु सक्तो मिथ्याप्रतिश्रवः।
न त्वां रामो विजानीते सर्प मण्डूकराविणं ॥१५ ॥

महाभागेन रामेण पापः करुणवेदिना।
हरीणां प्रापितो राज्यं त्वं दुरात्मा महात्मना ॥१६ ॥

कृतं चेन्नाभिजानीषे रामस्याक्लिष्टकर्मणः।
सद्यस्त्वं निशितैर्वार्हतो द्रक्ष्यसि वालिनम् ॥१७॥

न च संकुचितः पन्था येन वाली हतो गतः।
समये तिष्ट सुग्रीव मा वालिपथमन्वगाः ॥१८॥

न नूनमिक्ष्वाकुवरस्य कार्मुकात्
च्युताञ्शरान्पश्यसि वज्रसंनिभान्।
ततः सुखं नाम निषेवसे सुखी
न रामकार्यं मनसाऽप्यवेक्षसे ॥१९॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये
किष्किन्धाकाण्डे चतुत्रिंशः सर्गः ॥

आदितः श्लोकाः 10761
किष्किन्धाकाण्डे आदितःश्लोकाः 1509

<MISSING_FIG href="../books_images/U-IMG-1707821678Screenshot2024-02-13142116.png"/>

पञ्चत्रिंशः सर्गः ॥ ३५ ॥

तारया पुनर्लक्ष्मणसान्त्वनम् ॥

तथा ब्रुवाणं सौमित्रिं प्रदीप्तमिव तेजसा।
अब्रवील्लक्ष्मणं तारा ताराधिपनिभानना॥१॥

नैवं लक्ष्मण वक्तव्यो नायं परुषमर्हति।
हरीणामीश्वरः श्रोतुं तव वक्त्राद्विशेषतः॥२॥

नैवाकृतज्ञः सुग्रीवो न शठो नापि दारुणः।
नैवानृतकथो वीर न जिह्मश्च हरीश्वरः॥३॥

उपकारं कृतं वीरो नाप्ययं विस्मृतः कपिः।
रामेण वीर सुग्रीवो यदन्यैर्दुष्करं रणे॥४॥

रामप्रसादात्कीर्ति च कपिराज्यं च शाश्वतम्।
प्राप्तवानिह सुग्रीवो रुमां मां च परन्तप॥५॥

सुदुःखशयितः पूर्वं प्राप्येदं सुखमुत्तमम्।
प्राप्तकालं न जानीते विश्वामित्रो यथा मुनिः॥६॥

घृताच्यां किल संसक्तो दश वर्षाणि लक्ष्मण।
अहोऽमन्यत धर्मात्मा विश्वामित्रो महा मुनिः॥७॥

स हि प्राप्तं न जानीते कालं कालविदां वरः।
विश्वामित्रो महातेजाः किं पुनर्यः पृथग्जनः॥८॥

देहधर्मेगतस्यास्य परिश्रान्तस्य लक्ष्मण।
अवितृप्तस्य कामेषु कामं क्षन्तुमिहार्हसि॥९॥

न च रोषवशं तात गन्तुमर्हसि लक्ष्मण।
निश्चयार्थमविज्ञाय सहसा प्राकृतो यथा॥१०॥

सत्त्वयुक्ता हि पुरुषास्त्वद्विधाः पुरुषर्षभ।
अविमृश्य न रोषस्य सहसा यान्ति वश्यताम् ॥११॥

प्रसादये त्वां धर्मज्ञ सुग्रीवार्थेसमाहिता ॥१२॥

महान्रोषसमुत्पन्नः संरम्भस्त्यज्यतामयम् ॥१३॥

रुमां मां कपिराज्यं च धनधान्यवसूनि च।
रामप्रियार्थेसुग्रीवस्त्यजेदिति मतिर्मम ॥१४॥

समानेष्यति सुग्रीवः सीतया सह राघवम्।
शशाङ्कमिव रोहिण्या निहत्वा रावणं रणे॥१५॥

शतकोटिसहस्राणि लङ्कायां किल रक्षसाम्।
अयुतानि च षट्त्रिंशत्सहस्राणि शतानि च॥१६॥

अहत्वा तांश्चदुर्धर्षान् राक्षसान् कामरूपिणः।
न शक्यो रावणों हन्तुं येन सा मैथिली हृता ॥१७॥

ते न शक्या रणे हन्तुमसहायेन लक्ष्मण।
रावणः क्रूरकर्मा च सुग्रीवेण विशेषतः ॥१८॥

एवमाख्यातवान् वाली स ह्यभिज्ञो हरीश्वरः।
आगमस्तु न मे व्यक्तः श्रवात्तस्माद्रवीम्यहम् ॥१९॥

त्वत्सहा यनिमित्तं वै प्रेषिता हरिपुङ्गवाः।
आनेतुं वानरान् युद्धे सुबहून्हरियूथपान् ॥२०॥

तांश्च प्रतीक्षमाणोऽयं विक्रान्तान् सुमहाबलान्।
राघवस्यार्थसिद्धयर्थं न निर्याति हरीश्वरः ॥२१॥

कृताऽत्र संस्था सौमित्रे सुग्रीवेण यथा पुरा।
अद्य तैर्वानरैः सर्वैरागन्तव्यं महाबलैः ॥२२॥

ऋक्षकोटिसहस्राणि गोलाङ्गूलशतानि च।
अद्य त्वामुपयास्यन्ति जहि कोपमरिन्दम ॥
कोटयोनेकास्तु काकुत्स्थ कपीनां दीप्ततेजसाम् ॥२३॥

तव हि मुखमिदं निरीक्ष्य कोपात्
क्षतजानिभे नयने निरीक्षमाणाः।
हरिवरवनिता न यान्ति शान्तिं
प्रथमभयस्य हि शङ्किताः स्म सर्वाः ॥२४॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये
किष्किन्धाकाण्डे पञ्चत्रिंशः सर्गः ॥

आदितः श्लोकाः 10785
किष्किन्धाकाण्डे आदितः श्लोकाः 1533

<MISSING_FIG href="../books_images/U-IMG-1707806511Screenshot2024-02-13121118.png"/>

षट्त्रिंशः सर्गः ॥ ३६ ॥

सुग्रीवेण लक्ष्मणप्रसादनम् ॥

इत्युक्तस्तारया वाक्यं प्रश्रितं धर्मसंहितम्।
मृदुस्वभावः सौमित्रिः प्रतिजग्राह तद्वचः॥१॥

तस्मिन् प्रतिगृहीते तु वाक्ये हरिगणेश्वरः।
लक्ष्मणात्सुमहत्त्रासं वस्त्रं क्लिन्नमिवात्यजत्॥२॥

ततः कण्ठगतं माल्यं चित्रं बहुगुणं महत्।
चिच्छेद विमदश्चासीत्सुग्रीवो वानरेश्वरः॥३॥

स लक्ष्मणं भीमवलं सर्ववानरसत्तमः।
अब्रवीत्प्रश्रितं वाक्यं सुग्रीवः संप्रहर्षयन्॥४॥

प्रनष्टा श्रीश्च कीर्तिश्च कपिराज्यं च शाश्वतम्।
रामप्रसादात्सौमित्रे पुनः प्राप्तमिदं मया॥५॥

कः शक्तस्तस्य देवस्य ख्यातस्य स्वेन कर्मणा।
तादृशं विक्रमं वीर प्रतिकर्तुमरिन्दम॥६॥

सीतां प्राप्स्यति धर्मात्मा वधिष्यति च रावणम्।
सहायमात्रेण मया राघवः स्वेन तेजसा ॥७॥

सहायकृत्यं किं तस्य येन सप्त महाद्रुमाः।
शैलश्च वसुधा चैव बाणेनैकेन दारिताः॥८॥

धनुर्विस्फारयाणस्य यस्य शब्देन लक्ष्मण।
सशैला कम्पिता भूमिः सहायैस्तस्य किं नुवै ॥९॥

अनुयात्रां नरेन्द्रस्य करिष्येऽहं नरर्षभ।
गच्छतो रावणं हन्तुं वैरिणं सपुरःसरम्॥१०॥

यदि किंचिदतिक्रान्तं विश्वासात्प्रणयेन वा।
प्रेष्यस्य क्षमितव्यं मे न कश्चिन्नापराध्यति॥११॥

इति तस्य ब्रुवाणस्य सुग्रीवस्य महात्मनः।
अभवल्लक्ष्मणः प्रीतः प्रेम्णा चैवमुवाच ह॥१२॥

सर्वथा हि मम भ्राता सनाथो वानरेश्वर।
त्वया नाथेन सुग्रीव प्रश्रितेन विशेषतः॥१३॥

यस्ते प्रभावः सुग्रीव यच्च ते शौचमार्जवम्।
अर्हस्त्वं कपिराज्यस्य श्रियं भोक्तुमनुत्तमाम् ॥ १४ ॥

सहायेन च सुग्रीव त्वया रामः प्रतापवान्।
वधिष्यति रणे शत्रूनचिरान्नात्र संशयः॥१५॥

धर्मज्ञस्य कृतज्ञस्य संग्रामेष्वनिवर्तिनः।
उपपन्नं च युक्तं च सुग्रीव तव भाषितम्॥१६॥

दोषज्ञः सति सामर्थ्येकोऽन्यो भाषितुमर्हति
वर्जयित्वा मम ज्येष्ठं त्वां च वानरसत्तम॥१७॥

सदृशश्चासि रामस्य विक्रमेण बलेन च।
सहायो दैवतैर्दत्तश्चिराय हरिपुङ्गव ॥१८॥

किं तु शीघ्रमितो वीर निष्क्राम त्वं मया सह।
सान्त्वय स्ववयस्यं त्वं भार्याहरणकर्शितम् ॥१९॥

यच्च शोकाभिभूतस्य श्रुत्वा रामस्य भाषितम्।
मया त्वं परुषाण्युक्तस्तच्च त्वं क्षन्तुमर्हसि ॥२०॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये
किष्किन्धाकाण्डे षट्त्रिंशः सर्गः ॥

आदितः श्लोकाः 10805
किष्किन्धाकाण्डे आदितः श्लोकाः 1553

<MISSING_FIG href="../books_images/U-IMG-1710319376Screenshot2024-03-08154806.png"/>

सप्तत्रिंशः सर्गः ॥३७॥

वानरसेनागमनम् ॥

एवमुक्तस्तु सुग्रीवो लक्ष्मणेन महात्मना।
हनुमन्तं स्थितं पार्श्वे सचिवं त्विदमब्रवीत् ॥ १॥

महेन्द्रहिमवद्विन्ध्यकैलासशिखरेषु च।
मन्दरे पाण्डुशिखरे पञ्चशैलेषु ये स्थिताः ॥२॥

तरुणादित्यवर्णेषु भ्राजमानेषु सर्वतः।
पर्वतेषु समुद्रान्ते पश्चिमायां तु ये दिशि ॥ ३ ॥

आदित्यभवने चैव गिरौ सन्ध्याभ्रसन्निभे।
पद्मतालवनं भीमं संश्रिता हरिपुङ्गवाः ॥४॥

अञ्जनांबुदसङ्काशाः कुञ्जरप्रतिमौजसः।
अञ्जने पर्वते चैव ये बसन्ति प्लवङ्गमाः ॥५॥

मनःशिलागुहावासा वानराः कनकप्रभाः।
मेरुपार्श्वगताश्चैव ये धूम्रगिरिसंश्रिताः ॥६॥

तरुणादित्यवर्णाश्च पर्वते च महारुणे।
पिबन्तो मधु मैरेयं भीमवेगाः प्लवङ्गमाः ॥७॥

वनेषु च सुरभ्येषु सुगन्धिषु महत्सु च।
तापसानां च रम्येषु वनान्तेषु समन्ततः ॥८॥

तांस्तान् समानय क्षिप्रं पृथिव्यां सर्ववानरान्।
सामदानादिभिः कल्पैराशु प्रेषय वानरान् ॥९॥

प्रेषिताः प्रथमं ये च मया दृता महाजवाः।
त्वरणार्थं तु भूयस्त्वं हरीन् संप्रेषयापरान् ॥१०॥

ये मसक्ताश्च कामेषु दीर्घसूत्राश्च वानराः।
इहानयस्व तान् सर्वाञ्शीघ्रं तु मम शासनात् ॥११॥

अहोभिर्दशभिर्ये हि नागच्छन्ति ममाज्ञया।
हन्तव्यास्ते दुरात्मानो राजशासनदूषकाः ॥१२॥

शतान्यथ सहस्राणां कोट्यश्च मम शासनात्।
प्रयान्तु कपिसिंहानां दिशो मम मते स्थिताः ॥१३॥

मेघपर्वतसङ्काशाश्छादयन्त इवाम्बरम्।
घोररूपाः कपिश्रेष्ठा यान्तु मच्छासनादितः ॥१४॥

ते गतिज्ञा गतिं गत्वा पृथिव्यां सर्ववानराः।
आनयन्तु हरीन्सर्वास्त्वरिताः शासनान्मम ॥१५॥

तस्य वानरराजस्य श्रुत्वा वायुसुतो वचः।
दिक्षु सर्वासु विक्रान्तान् मेषयामास वानरान् ॥१६॥

ते पदं विष्णुविक्रान्तं पतत्रिज्योतिरध्वगाः।
प्रयाताः प्रहिता राज्ञा हरयस्तत्क्षणेन वै ॥१७॥

ते समुद्रेषु गिरिषु वनेषु च सरःसु च।
वानरा वानरान् सर्वान्रामहेतोरचोदयन् ॥१८॥

मृत्युकालोपमस्याज्ञां कपिराजस्य वानराः।

सुग्रीवस्याययु श्रुत्वा सुग्रीवभयदर्शिनः ॥१९॥

ततस्तेऽञ्जनसङ्काशा गिरेस्तस्मान्महाजवाः।
तिस्रः कोट्यः प्लवङ्गानां निर्ययुर्यत्र राघवः ॥२०॥

अस्तं गच्छति यत्रार्कस्तस्मिन्गिरिवरे स्थिताः।
तप्तहेममहाभासस्तस्मात्कोट्यो दश च्युताः ॥२१॥

कैलासशिखरेभ्यश्च सिंहकेसरवर्चसाः।
ततः कोटिसहस्राणि वानराणामुपागमन्॥२२॥

फलमूलेन जीवन्तो हिमवन्तमुपाश्रिताः।
तेषां कोटिसहस्राणां सहस्रं समवर्तत॥२३॥

अङ्गारकसमानानां भीमानां भीमकर्मणाम्।
विन्ध्याद्वानरकोटीनां सहस्राण्यपतन्द्रुतम्॥२४॥

क्षीरोदवेलानिलयास्तमालवनवासिनः।
नारिकेलाशनाश्चैव तेषां संख्या न विद्यते॥२५॥

वनेभ्यो गहरेभ्यश्च सरिद्भ्यश्च महाजवाः।
आगच्छद्वानरी सेना पिबन्तीव दिवाकरम्॥२६॥

ये तु त्वरयितुं याता वानराः सर्ववानरान्।
ते वीरा हिमवच्छैलं ददृशुस्तं महाद्रुमम्॥२७॥

तस्मिन्गिरिवरे रम्ये यज्ञो माहेश्वरः पुरा।
सर्वदेवमनस्तोषो बभौ दिव्यो मनोहरः॥२८॥

अन्ननिष्यन्दजातानि मूलानि च फलानि च।
अमृतास्वादकल्पानि ददृशुस्तत्र वानराः॥२९॥

तदन्नसंभवं दिव्यं फलं मूलं मनोहरम्।
यः कश्चित्सकृदश्राति मासं भवति तर्पितः॥३०॥

तानि मूलानि दिव्यानि फलानि च फलाशनाः।
औषधानि च दिव्यानिजगृहुर्हरियूथपाः॥३१॥

तस्माच्च यज्ञायतनात्पुष्पाणि सुरभीणि च।
आनिन्युर्वानरा गत्वा सुग्रीवप्रियकारणात् ॥३२॥

ते तु सर्वे हरिवराः पृथिव्यां सर्ववानरान्।
संचोदयित्वा त्वरिता यूथानां जग्मुरग्रतः ॥३३॥

ते तु तेन मुहूर्तेन यूथपाः शीघ्रगामिनः।
किष्किन्धां त्वरया प्राप्ताः सुग्रीवो यत्र वानरः ॥३४॥

ते गृहीत्वौषधीः सर्वाः फलं मूलं च वानराः।
तं प्रतिग्राहयामासुर्वचनं चेदमब्रुवन्॥३५॥

सर्वे परिगताः शैलाः समुद्राश्च वनानि च।
पृथिव्यां वानराः सर्वे शासनादुपयान्ति ते॥३६॥

एवं श्रुत्वा ततो हृष्टः सुग्रीवः प्लवगाधिपः।
प्रतिजग्राह तत्प्रीतस्तेषां सर्वमुपायनम्॥३७॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये
किष्किन्धाकाण्डे सप्तत्रिंशः सर्गः ॥

आदितः श्लोकाः 10842
किष्किन्धाकाण्डे आदितः श्लोकाः 1590

<MISSING_FIG href="../books_images/U-IMG-1707883809Screenshot(12"/>.png)

अष्टत्रिंशः सर्गः ॥ ३८ ॥

सुग्रीवस्य रामसन्निधौ गमनम् ॥

प्रतिगृह्य च तत्सर्वमुपायनमुपाहृतम्।
वानरान्सान्त्वयित्वा च सर्वानेव व्यसर्जयत् ॥१॥

विसर्जयित्वा स हरीञ्शूरांस्तान्कृतकर्मणः।
मेने कृतार्थमात्मानं राघवं च महाबलम्॥२॥

स लक्ष्मणो भीमबलं सर्ववानरसत्तमम्।
अब्रवीत्प्रीश्रितं वाक्यं सुग्रीवं संप्रहर्षयन्॥
किष्किन्धाया विनिष्काम यदि ते सौम्य रोचते ॥३॥

तस्य तद्वचनं श्रुत्वा लक्ष्णस्य सुभाषितम्।
सुग्रीवः परमप्रीतो वाक्यमेतदुवाच ह॥४॥

एवं भवतु गच्छावः स्थेयं त्वच्छासने मया॥५ ॥

तमेवमुक्त्वा सुग्रीवो लक्ष्मणं शुभलक्षणम्।
विसर्जयामास तदा तारामन्याश्च योषितः॥६॥

एतेत्युच्चैर्हरिवरान्सुग्रीवः समुदाहरत्।
तस्य तद्वचनं श्रुत्वा हरयः शीघ्रमाययुः ॥
बद्धाञ्जलिपुटाः सर्वे ये स्युः स्त्रीदर्शनक्षमाः॥७॥

तानुवाच ततः प्राप्तान्राजाऽर्कसदृशप्रभः।
उपस्थापयत क्षिप्रं शिविकां मम वानराः॥८॥

श्रुत्वा तु वचनं तस्य हरयः शीघ्रविक्रमाः।
समुपस्थापयामासुः शिबिकां प्रियदर्शनाम्॥९॥

तामुपस्थापितां दृष्ट्वा शिबिकां वानराधिपः।
लक्ष्मणारुह्यतां शीघ्रमिति सौमित्रिमब्रवीत्॥१०॥

इत्युक्त्वा काञ्चनं यानं सुग्रीवः सूर्यसंनिभम्।
बृहद्भिर्हरिभिर्युक्तमारुरोह सलक्ष्मणः॥११॥

पाण्डुरेणातपत्रेण ध्रियमाणेन मूर्धनि।
शुक्लैश्च वालव्यजनैर्धूयमानैः समन्ततः॥१२॥

शङ्खभेरीनिनादैश्च हरिभिश्चाभिनन्दितः।
निर्ययौ प्राप्य सुग्रीवो राज्यश्रियमनुत्तमाम्॥१३॥

स वानरशतैस्तीक्ष्णैर्बहुभिः शरूपाणिभिः।
परिकीर्णो ययौ तत्र यत्र रामो व्यवस्थितः॥१४॥

स तं देशमनुप्राप्य श्रेष्ठं रामनिषेवितम्।
अवातरन्महातेजाः शिबिकायाः सलक्ष्मणः॥१५॥

आसाद्य च ततो रामं कृताञ्जलिपुटोऽभवत्।
कृताञ्जलौ स्थिते तस्मिन्वानराश्चाभवंस्तथा॥१६॥

तटाकमिव तद्दृष्ट्वा रामः कुड्मलपङ्कजम्।
वानराणां महत्सैन्यं सुग्रीवे प्रीतिमानभूत्॥१७॥

पादयोः पतितं मूर्ध्ना तमुत्थाप्य हरीश्वरम्।
प्रेम्णा च बहुमानाच्च राघवः परिषस्वजे॥१८॥

परिष्वज्य च धर्मात्मा निषीदेति ततोऽब्रवीत्।
तं निषण्णं ततो दृष्ट्वा क्षितौ रामोऽब्रवीद्वचः ॥१९॥

धर्ममर्थ च कामं च यस्तु काले निषेवते।
विभज्य सततं वीर स राजा हरिसत्तम॥२०॥

हित्वा धर्मं तथाऽर्थं च कामं यस्तु निषेवते।
स वृक्षाग्रे यथा सुप्तः पतितः प्रतिबुध्यते॥ २१ ॥

अमित्राणां वधे युक्तो मित्राणां संग्रहे रतः।
त्रिवर्गफलभोक्ता तु राजा धर्मेण युज्यते॥२२॥

उद्योगसमयस्त्वेष प्राप्तः शत्रुनिबर्हण।
संचिन्त्यतां हि पिङ्गेश हरिभिः सह मन्त्रिभिः॥२३॥

एवमुक्तस्तु सुग्रीवो रामं वचनमब्रवीत्॥२४॥

प्रणष्टा श्रीश्च कीर्तिश्च कपिराज्यं च शाश्वतम्।
त्वत्प्रसादान्महाबाहो पुनः प्राप्तमिदं मया ॥
तव देव प्रसादाच्च भ्रातुश्च जयतां वर॥२५॥

कृतं न प्रतिकुर्याद्यः पुरुषाणां स दूषकः॥२६॥

एते वानरमुख्याश्च शतशः शत्रुसूदन।
प्राप्ताश्रादाय बलिनः पृथिव्यां सर्ववानरान्॥२७॥

ऋक्षाक्ष वानराः शूरा गोलाङ्गलाश्च राघव।
कान्तारवनदुर्गाणामभिज्ञा घोरदर्शनाः॥२८॥

देवगन्धर्वपुत्राश्च वानराः कामरूपिणः।
स्वैः स्वैः परिवृताः सैन्यैर्वर्तन्ते पथि राघव॥२९॥

शतैः शतसहस्रैश्च कोटिभिश्च प्लवङ्गमाः।
अयुतैश्चावृता वीराः शङ्कुभिश्च परन्तप॥३०॥

अर्बुदैरर्बुदशतैर्मध्यैश्चान्तैश्च वानराः।
समुद्रैश्च परार्धैश्च हरिभिर्हरियूथपाः॥३१॥

आगमिष्यन्ति ते राजन्महेन्द्रसमविक्रमाः।
मेरुमन्दरसङ्काशा विन्ध्यमेरुकृतालयाः॥३२॥

ते त्वामभिगमिष्यन्ति राक्षसं ये सबान्धवम्।
निहत्य रावणं संख्ये ह्यानयिष्यन्ति मैथिलीम् ॥३३॥

ततस्तमुद्योगमवेक्ष्य बुद्धिमान्
हरिप्रवीरस्य निदेशवर्तिनः।
बभूव हर्षाद्वसुधाधिपात्मजः
प्रबुद्धनीलोत्पलतुल्यदर्शनः॥३४॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आढिकाव्ये
किष्किन्धाकाण्डे अष्टत्रिंशः सर्गः ॥

आदितः श्लोकाः 10876
किष्किन्धाकाण्डे आदितः श्लोकाः 1624

<MISSING_FIG href="../books_images/U-IMG-1707886348Screenshot(12"/>.png)

एकोनचत्वारिंशः सर्गः ॥३९॥

वानरसेनासङ्ख्यनिवेदनम् ॥

इति ब्रुवाणं सुग्रीवं रामो धर्मभृतां वरः।
बाहुभ्यां संपरिष्वज्य प्रत्युवाच कृताञ्जलिम् ॥१॥

यदिन्द्रो वर्षते वर्षं न तच्चित्रं भवेद्भुवि।
आदित्यो वा सहस्रांशुः कुर्याद्वितिमिरं नभः ॥२॥

चन्द्रमा रश्मिभिः कुर्यात्पृथिवीं सौम्य निर्मलाम्।
त्वद्विधो वाऽपि मित्राणां प्रीतिं कुर्यात्परंतप॥३॥

एतत्त्वयि न तच्चित्रं भवेद्यत्सौम्य शोभनम्।
जानाम्यहं त्वां सुग्रीव सततं प्रियवादिनम्॥४॥

त्वत्सनाथः सखे संख्ये जेतास्मि सकलानरीन्।
त्वमेव मे सुहृन्मित्रं साहाय्यं कर्तुमर्हसि॥५॥

जहारात्मविनाशाय वैदेहीं राक्षसाधमः।
वञ्चयित्वा तु पौलोमीमनुह्लादो यथा शचीम् ॥६॥

अचिरात्तं वधिष्यामि रावणं निशितैः शरैः।
पौलोम्याः पितरं दृप्तं शतक्रतुरिवारिहा॥७॥

एतस्मिन्नन्तरे चैव रजः समभिवर्तत।
उष्णां तीव्रां सहस्रांशोश्छादयद्गगने प्रभाम्॥८॥

दिशः पर्याकुलाश्चासत्रजसा तेन मूच्छिताः।
चचाल च मही सर्वा सरौलवनकानना॥९॥

ततो नगेन्द्रसंकाशैस्तीक्ष्णदंष्ट्रैर्महाबलैः।
कृत्स्ना संछादिता भूमिरसंख्येयैः प्लवङ्गमैः॥१०॥

निमेषान्तरमात्रेण ततस्तैर्हरियूथपैः।
कोटीशतवृतैश्चैव प्रच्छन्ना कामरूपिभिः॥११॥

नादेयैः पार्वतेयैश्च सामुद्रैश्च महाबलैः।
हरिभिर्मेघनिर्हादैरन्यैश्च वनवासिभिः॥१२॥

तरुणादित्यवर्णैश्च शशिगौरैश्च वानरैः।
पद्मकेसरवर्णैश्च श्वेतैर्मेरुकृतालयैः॥१३॥

कोटीसहस्त्रैर्दशभिः श्रीमान्परिवृतस्तदा।
वीरः शतबलिर्नाम वानरः प्रत्यदृश्यत॥१४॥

ततः काञ्चनशैलाभस्ताराया वीर्यवान्पिता।
अनेकैर्दशसाहस्रैः कोटिभिः प्रत्यदृश्यत ॥१५ ॥

तथाऽपरेण कोटीनां सहस्रेण समन्वितः।
पिता रुमायाः संप्राप्तः सुग्रीवश्वशुरो विभुः ॥१६॥

पद्मकेसरसंकाशस्तरुणार्कनिभाननः।
बुद्धिमान्वानरश्रेष्ठः सर्ववानरसत्तमः॥१७॥

अनीकैर्बहुसहस्त्रैर्वानराणां समन्वितः।
पिता हनुमतः श्रीमान्केसरी प्रत्यदृश्यत॥१८॥

गोलाङ्गूलमहाराजो गवाक्षो भीमविक्रमः।
वृतः कोटिसहस्रेण वानराणामदृश्यत॥१९॥

ऋक्षाणां भीमवेगानां धूम्रः शत्रुनिबर्हणः।
वृतः कोटिसहस्राभ्यां द्वाभ्यां समभिवर्तत ॥२०॥

महाचलनिभैर्घोरैः पनसो नाम यूथपः।
आजगाम महावीर्यस्तिसृभिः कोटिभिर्वृतः॥२१॥

नीलाञ्जनचयाकारो नीलो नामाथ यूथपः।
अदृश्यत महाकायः कोटिभिर्दशभिर्वृतः ॥२२॥

ततः काञ्चनशैलाभो गवयो नाम यूथपः।
आजगाम महावीर्यः कोटिभिः पञ्चभिर्वृतः॥२३॥

दरीमुखश्च बलवान्यूथपोऽभ्याययौ तदा।
वृतः कोटिसहस्रेण सुग्रीवं समुपस्थितः॥२४॥

मैन्दश्च द्विविदश्वोभावश्विपुत्रौ महावलौ।
कोटिकोटिसहस्रेण वानराणामदृश्यताम्॥२५॥

गजश्च बलवान्वीरः कोटिभिस्तिसृभिर्वृतः।
आजगाम महातेजाः सुग्रीवस्य समीपतः॥२६॥

ऋक्षराजो महातेजा जाम्बवान्नाम नामतः।
कोटिभिर्दशभिः प्राप्तः सुग्रीवस्य वशे स्थितः ॥२७॥

रुमण्वान्नाम विक्रान्तो वानरो वानरेश्वरम्।
आययौ बलवांस्तूर्ण कोटीशतसमावृतः॥२८॥

ततः कोटिसहस्राणां सहस्रेण शतेन च।
पृष्ठतोऽनुगतः प्राप्तो हरिर्भिगन्धमादनः॥२९॥

ततः पद्मसहस्रेण वृतः शङ्कुशतेन च।
युवराजोऽङ्गदः प्राप्तः पितृतुल्यफाकमः॥३०॥

ततस्ताराद्युतिस्तारो हरिर्भीमपराक्रमः।
पञ्चभिर्हरिकोटीभिर्दूरतः प्रत्यदृश्यत॥३१॥

इन्द्रजानुः कपिर्वीरो यूथपः प्रत्यदृश्यत।
एकादशानां कोटीनामीश्वरस्तैः समावृतः॥३२॥

ततो रम्भस्त्वनुप्राप्तस्तरुणादित्यसंनिभः।
अयुतेनावृतश्चैव सहस्रेण शतेन च॥३३॥

ततो यूथपतिर्वीरो दुर्मुखो नाम वानरः।
प्रत्यदृश्यत कोटिंभ्यां द्वाभ्यां परिवृतो बली ॥३४॥

कैलासशिखराकारैर्वानरैर्भीमविक्रमैः।
वृतः कोटिसहस्त्रेण हनुमान्प्रत्यदृश्यत॥३५॥

नलश्चापि महावीर्यः संवृतो द्रुमवासिभिः।
कोटीशतेन संभाप्तः सहस्रेण शतेन च॥३६॥

ततो दधिमुखः श्रीमान्कोटिभिर्दशभिर्वृतः।
संप्राप्तोऽभिमतस्तस्य सुग्रीवस्य महात्मनः॥३७॥

शरभः कुमुदा वह्निर्वानरो रंह एव च।
एते चान्ये च बहवो वानराः कामरूपिणः॥३८॥

आवृत्य पृथिवींसर्वां पर्वतांश्च वनानि च।
यूथपाः समनुप्राप्तास्तेषां संख्या न विद्यते॥
आगताश्च विशिष्टाश्च पृथिव्यां सर्ववानराः ॥३९॥

आप्लवन्तः प्लवन्तश्च गर्जन्तश्च प्लवङ्गमाः।
अभ्यवर्तन्त सुग्रीवं सूर्यमभ्रगणा इव॥४०॥

कुर्वाणा बहुशब्दांश्च प्रहृष्टा बलशालिनः।
शिरोभिर्वानरेन्द्राय सुग्रीवाय न्यवेदयन्॥४१॥

अपरे वानरश्रेष्ठाः संयम्य च यथोचितम्।
सुग्रीवेग समागम्य स्थिताः प्राञ्जलयस्तदा॥४२॥

सुग्रीवस्त्वरितो रामे सर्वोस्तान् वानरर्षभान्।
निवेदयित्वा धर्मज्ञः स्थितः प्राञ्जलिरब्रवीत् ॥४३॥

यथासुखं पर्वतनिर्झरेषु वनेषु सर्वेषु च वानरेन्द्राः।
निवेशयित्वा विधिवद्धलानि बलं बलज्ञः प्रतिपत्तुमीष्टे॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये
किष्किन्धाकाण्डे एकोनचत्वारिंशः सर्गः॥

आदितः श्लोकाः 10920
किष्किन्धाकाण्डे आदितः श्लोकाः 1668

<MISSING_FIG href="../books_images/U-IMG-1707888200Screenshot(12"/>.png)

चत्वारिंशः सर्गः ॥ ४० ॥

प्राच्यां विनतप्रेषणम् ॥

अथ राजा समृद्धार्थः सुग्रीवः प्लवगेश्वरः।
उवाच नरशार्दूलं रामं परबलार्दनम्॥१॥

आगता विनिविष्टाश्च बलिनः कामरूपिणः।
वानरा वारणेन्द्राभा ये मद्विषयवासिनः॥२॥

त इमे बहुविक्रान्तैर्हरिभिर्भीमविक्रमैः।
आगता वानरा घोरा दैत्यदानवसन्निभाः॥३॥

ख्यातकर्मापदानाश्च बलवन्तो जितक्लमाः।
पराक्रमेषु विख्याता व्यवसायेषु चोत्तमाः॥४॥

पृथिव्यम्बुचरा राम नानानगनिवासिनः।
कोटयोघाश्च इमे प्राप्ता वानरास्तव किङ्कराः॥५॥

निदेशवर्तिनः सर्वे सर्वे गुरुहिते रताः।
अभिप्रेतमनुष्ठातुं तव शक्ष्यन्त्यरिन्दम॥६॥

यन्मन्यसे नरव्याघ्र प्राप्तकालं तदुच्यताम्।
त्वत्सैन्यं त्वद्वशे युक्तमाज्ञापयितुमर्हसि॥७॥

काममेषामिदं कार्यं विदितं वीर तत्त्वतः।
तथाऽपि तु यथातत्त्वमाज्ञापयितुमर्हसि॥८॥

इति ब्रुवाणं सुग्रीवं रामो दशरथात्मजः।
बाहुभ्यां संपरिष्वज्य इदं वचनमब्रवीत्॥९॥

ज्ञायतां सौम्य वैदेही यदि जीवति वा न वा।
स च देशो महाप्राज्ञ यस्मिन्वसति रावणः ॥१०॥

अधिगम्य तु वैदेहीं निलयं रावणस्य च।
प्राप्तकालं विधास्यामि तस्मिन्काले सह त्वया ॥१९॥

नाहमस्मिन्मभुः कार्ये वानरेश न लक्ष्मणः।
त्वमेव हेतुः कार्यस्य प्रभुश्च प्लवगेश्वर॥१२॥

त्वमेवाज्ञापय विभो मम कार्यविनिश्चयम्।
त्वं हि जानासि यत्कार्यं मम वीर न संशयः ॥१३॥

सुहृद् द्वितीयो विक्रान्तः प्राज्ञः कालविशेषवित्।
भवानस्मद्धिते युक्तः सुकृतार्थोऽर्थवित्तमः ॥१४॥

एवमुक्तस्तु सुग्रीवो विनतं नाम यूथपम्।
अब्रवीद्रामसान्निध्ये लक्ष्मणस्य च धीमतः॥
शैलाभं मेघनिर्घोषमूर्जितं प्लवगेश्वरः॥१५॥

सोमसूर्यात्मजैः सार्धं वानरैर्वानरोत्तम।
देशकालनयैर्युक्तः कार्याकार्यविनिश्चये॥१६॥

वृतः शतसहस्रेण वानराणां तरस्विनाम्।
अधिगच्छ दिशं पूर्वी सशैलवनकाननाम्॥१७॥

तत्र सीतां च वैदेहीं निलयं रावणस्य च।
मार्गध्वं गिरिदुर्गेषु वनेषु च नदीषु च॥१८॥

नदीं भागीरथीं रम्यां यामुनं च महागिरिम् ॥१९॥

सरस्वतीं च सिन्धुं च शोणं मणिनिभोदकम्।
महीं कालमहीं चैव शैलकाननशोभिताम्॥२०॥

ब्रह्ममालान्विदेहांश्च मालवान् काशिकोसलान्।
मागघांश्च महाग्रामान् पुण्ड्रान्वङ्गांस्तथैव च॥
पत्तनं कोशकाराणां भूमिं च रजताकराम् ॥ २१ ॥

सर्वमेतद्विचेतव्यं मृगयद्भिस्ततस्ततः।
रामस्य दयितां भार्या सीतां दशरथस्नुषाम् ॥२२॥

समुद्रमवगाढांश्च पर्वतान्पत्तनानि च।
मन्दरस्य च ये कोटिं संश्रिताः केचिदायताम् ॥२३॥

कर्णप्रावरणाश्चैव तथा चाप्योष्ठकर्णकाः।
घोरलोहमुखाश्चैव जवनाश्चैकपादकाः॥२४॥

अक्षया बलवन्तश्च पुरुषाः पुरुषादकाः।
किराताः कर्णचूडाश्च हेमाङ्गाः प्रियदर्शनाः॥२५॥

आममीनाशनास्तत्र किराता द्वीपवासिनः।
अन्तर्जलचरा घोरा नरव्याघ्रा इति श्रुताः॥
एतेषामालयाः सर्वे विचेयाः काननौकसः॥२६॥

गिरिभिर्ये च गम्यन्ते प्लवनेन प्लवेन च।
रत्नवन्तं यवद्वीपं सप्तराज्योपशोभितम्॥
सुवर्णकुड्यकं चैव सुवर्णाकरमण्डितम्॥२७॥

यवद्वीपमतिक्रम्य शिशिरो नाम पर्वतः।
दिवं स्पृशति शृङ्गेण देवदानवसेवितः॥२८॥

एतेषां गिरिदुर्गेषु प्रभूतेषु वनेषु च।
मार्गध्वं सहिताः सर्वे रामपत्नीं यशस्विनीम् ॥२९॥

ततो रक्तजलं शोणंमगाधं शीघ्रगामिनम्।
गत्वा पारं समुद्रस्य सिद्धचारणसेवितम्॥३०॥

तस्य तीर्थेषु रम्येषु विचित्रेषु वनेषु च।
रावणः सह वैदेह्या मार्गितव्यस्ततस्ततः॥३१॥

पर्वतप्रभवा नद्यः सुरम्या बहुनिष्कुटाः।
मार्गितव्या दरीमन्तः पर्वताश्च वनानि च॥३२॥

ततः समुद्रद्वीपांश्च सुभीमान्द्रष्टुमर्हथ॥३३॥

ऊर्मिमन्तं समुद्रं च क्रोशन्तमद्धतम्॥ ३४ ॥

तत्रासुरा महाकायाश्छायां गृह्णन्ति नित्यशः।
ब्रह्मणा समनुज्ञाता दीर्घकालं बुभुक्षिताः॥३५॥

तं कालमेघप्रतिमं महोरगनिषेवितम्।
अभिगम्य महानादं तीर्थेनैव महोदधिम्॥३६॥

ततो रक्तजलं शोण लोहितं नाम सागरम्।
गता द्रक्ष्यथ तां चैव बृहतीं कूटशाल्मलीम् ॥३७॥

गृहं च वैनतेयस्य नानारत्नोपशोभितम्।
तत्र कैलाससङ्काशं विहितं विश्वकर्मणा॥३८॥

तत्र शैलनिभा भीमा मन्देहा नाम राक्षसाः।
शैलशृङ्गेषु लम्बन्ते नानारूपा भयावहाः॥३९॥

ते पतन्ति जले नित्यं सूर्यस्योदयनं प्रति।
निहता ब्रह्मतेजोभिरहन्यहनि राक्षसाः॥४०॥

अभितप्ताश्च सूर्येण लम्बन्ते स्म पुनः पुनः॥४१॥

ततः पाण्डुरमेघाभं क्षीरोदं नाम सागरम्।
गता द्रक्ष्यथ दुर्धर्षा मुक्ताहारमिवोर्मिभिः॥४२॥

तस्य मध्ये महाञ्श्वेत ऋषभो नाम पर्वतः
दिव्यगन्धैः कुसुमितै राजतैश्च नगैर्वृतः॥४३॥

सरश्च राजतैः पद्मैर्ज्वलितैर्हैमकेसरैः।
नाम्ना सुदर्शनं नाम राजहंसैः समाकुलम्॥४४॥

विबुधाश्चारणा यक्षाः किन्नराश्चाप्सरोगणाः।
हृष्टाः समभिगच्छन्ति नलिनीं तां रिरंसवः॥४५॥

क्षीरोदं समतिक्रम्य गता द्रक्ष्यथ वानराः।
जलोदं सागरश्रेष्ठं सर्वभूतभयावहम्॥४६॥

तत्र तत्कोपजं तेजः कृतं हयमुखं महत्।
अस्याद्भुतं महावेगमोदनं सचराचरम्॥४७॥

तत्र विक्रोशतां नादो भूतानां सलिलौकसाम्।
श्रूयते च समर्थानां दृष्ट्वा तद्बडबामुखम्॥४८॥

जलदस्योत्तरे तीरे योजनानि त्रयोदश।
जातरूपशिलो नाम महान्कनकपर्वतः॥४९॥

तत्र चन्द्रप्रतीकाशं पन्नगं धरणीधरम्।
पद्मपत्रविशालाक्षं ततो द्रक्ष्यथ वानराः॥५०॥

आसीनं पर्वतस्याग्रे सर्वदेवनमस्कृतम्।
सहस्रशिरसं देवमनन्तं नीलवाससम्॥५१॥

त्रिशिराः काञ्चनः केतुस्तालस्तस्य महात्मनः।
स्थापितः पर्वतस्याग्रे विराजति सवेदिकः॥५२॥

पूर्वस्यां दिशि निर्माणं कृतं तत्तिदशेश्वरैः॥५३॥

ततः परं हेममयः श्रीमानुदयपर्वतः।
तस्य कोटिर्दिवं स्पृष्ट्वा शतयोजनमायता॥५४॥

जातरूपमयी दिव्या विराजति सवेदिका।
सालैस्तालैस्तमालैश्च कर्णिकारैश्च पुष्पितैः॥५५॥

जातरूपमयैर्दिव्यैः शोभते सूर्यसन्निभैः॥५६॥

तत्र योजनविस्तारमुच्छ्रितं शतयोजनम्।
शृङ्गं सौमनसं नाम जातरूपमयं ध्रुवम्॥५७॥

तत्र पूर्वं पदं कृत्वा पुरा विष्णुस्त्रिविक्रमे।
द्वितीयं शिखरे मेरोश्चकार पुरुषोत्तमः॥५८॥

उत्तरेण परिक्रम्य जम्बूद्वीपं दिवाकरः।
दृश्यो भवति भूयिष्ठं शिखरं तन्महोच्छ्रितम् ॥५९॥

तत्र वैखानसा नाम वालखिल्या महर्षयः।
प्रकाशमाना दृश्यन्ते सूर्यवर्णास्तपस्विनः॥६०॥

अयं सुदर्शनो द्वीपः पुरो यस्य प्रकाशते।
यस्मिंस्तेजश्च चक्षुश्च सर्वप्राणभृतामपि॥६१॥

तस्य शैलस्य कुञ्जेषु कन्दरेषु वनेषु च।
रावणः सह वैदेह्या मार्गितव्यस्ततस्ततः॥६२॥

काञ्चनस्य च शैलस्य सूर्यस्य च महात्मनः।
आविष्टा तेजसा सन्ध्या पूर्वा रक्ता प्रकाशते ॥६३॥

पूर्वमेतत्कृतं द्वारं पृथिव्या भुवनस्य च।
सूर्यस्योदयनं चैव पूर्वा ह्येषा दिगुच्यते॥६४॥

तस्य शैलस्य पृष्ठेषु निर्झरेषु गुहासु च।
रावणः सह वैदेह्या मार्गितव्यस्ततस्ततः॥६५॥

ततः परमगम्या स्याद्दिक्पूर्वा त्रिदशावृता।
रहिता चन्द्रसूर्याभ्यामदृश्या तिमिरावृता॥६६॥

शैलेषु तेषु सर्वेषु कन्दरेषु वनेषु च।
ये च नोक्ता मया देशा विचेया तेषु जानकी ॥६७॥

एतावद्वानरैः शक्यं गन्तुं वानरपुङ्गवाः।
अभास्करममर्यादं न जानीमस्ततः परम्॥६८॥

अधिगम्य तु वैदेहीं निलयं रावणस्य च।
मासे पूर्णे निवर्तध्वमुदयं प्राप्य पर्वतम्॥६९॥

ऊर्ध्वं मासान्न वस्तव्यं वसन्वध्यो भवेन्मम।
सिद्धार्थाः सन्निवर्तध्वमधिगम्य च मैथिलीम् ॥७०॥

महेन्द्रकान्तां वनषण्डमण्डितां
दिशं चरित्वा निपुणेन वानराः।
अवाप्य सीतां रघुवंशजप्रियां
ततो निवृत्ताः सुखिनो भविष्यथ ॥७१॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये
किष्किन्धाकाण्डे चत्वारिंशः सर्गः ॥

आदितः श्लोकाः 10991
किष्किन्धाकाण्डे आदितः श्लोकाः 1739

<MISSING_FIG href="../books_images/U-IMG-1707905894Screenshot(12"/>.png)

एकचत्वारिंशः सर्गः ॥ ४१ ॥

दक्षिणस्यां हनुमत्प्रेषणम् ॥

ततः प्रस्थाप्य सुग्रीवस्तन्महद्वानरं बलम्।
दक्षिणां प्रेषयामास वानरानभिलक्षितान्॥१॥

नीलमग्निसुतं चैव हनुमन्तं च वानरम्।
पितामहसुतं चैव जाम्बवन्तं महाबलम्॥२॥

सुहोत्रं च शरारिं च शरगुल्मं तथैव च।
गजं गवाक्षं गवयं सुषेणमृषभं तथा॥ ३ ॥

मैन्दं च द्विविदं चैव शरभं गन्धमादनम्।
उल्कामुखमसङ्गं च हुताशनसुतावुभौ ॥४॥

अङ्गदप्रमुखान् वीरान् वीरः कपिगणेश्वरः।
वेगविक्रमसम्पन्नान् सन्दिदेश विशेषवित्॥५ ॥

तेषामग्रेसरं चैव महाबलमथाङ्गदम्।
विधाय हरिवीराणामादिशद्दक्षिणां दिशम्॥६॥

ये केचन समुद्देशास्तस्यां दिशि सुदुर्गमाः।
कपीशः कपिमुख्यानां स तेषां तानुदाहरत्॥७॥

सहस्रशिखरं विन्ध्यं नानाद्रमलतायुतम्।
नर्मदां च नदीं दुर्गा महोरगनिषेविताम्॥८॥

ततो भोगवतीं रम्यां कृष्णवेणीं महानदीम्
वरदां च महाभागां महोरगनिषेविताम्॥९॥

मेखालामुत्कलां चैव दशार्णनगराण्यपि।
अश्ववन्तीमवन्तीं च सर्वमेवानुपश्यत॥१०॥

विदर्भातृषिकांश्चैव रम्यान्माहिषकानपि।
तथा वङ्गकलिङ्गांश्च कौशिकांश्च समन्ततः॥११॥

अन्वीक्ष्य दण्डकारण्यं सपर्वतनदी गुहम्।
नदीं गोदावरीं चैव सर्वमेवानुपश्यत॥
तथैवान्ध्रांश्च पुण्ड्रांश्च चोलान् पाण्ड्यान् सकेरलान्॥

अयोमुखश्च गन्तव्यः पर्वतो धातुमण्डितः।
विचित्र शिखरः श्रीमांश्चित्रपुष्पितपादपः॥१३॥

स चन्दनवनोद्देशो मार्गितव्यो महागिरिः॥१४॥

ततस्तामापगां दिव्यां प्रसन्नसलिलां शिवाम्।
तत्र द्रक्ष्यथ कावेरीं विहितामप्सरोगणैः॥१५॥

तस्यासीनं नगस्याग्ने मलयस्य महौजसम्।
द्रक्ष्यथादित्यसङ्काशमगस्त्यमृषिसत्तमम्॥१६॥

ततस्तेनाभ्यनुज्ञाताः प्रसन्नेन महात्मना।
ताम्रपर्णी महाग्राहां तरिष्यथ महानदीम्॥१७॥

सा चन्दनवनैर्दिव्यैः प्रच्छन्ना द्वीपशालिनी।
कान्तेव युवती कान्तं समुद्रमवगाहते॥१८॥

ततो हेममयं दिव्यं मुक्तामणिनिषेवितम्।
युक्तं कवाटं पाण्ड्यानां गता द्रक्ष्यथ वानराः ॥१९॥

ततः समुद्रमासाद्य संप्रधार्यार्थनिश्चयम्।
अगस्त्येनान्तरे तत्र सागरे विनिवेशितः॥२०॥

चित्रनानानगः श्रीमान्महेन्द्रः पर्वतोत्तमः।
जातरूपमयः श्रीमानवगाढों महार्णवम्॥२१॥

नानाविधैर्नगैः फुल्लैर्लताभिश्चोपशोभितम्।
गन्धर्वयक्षप्रवरैरप्सरोभिश्च शोभितम्॥२२॥

सिद्धचारणसंधैश्च प्रकीर्णे सुमनोहरम्।
तमुपैति सहस्राक्षः सदा पर्वसु पर्वसु॥२३॥

द्वीपस्तस्यापरे पारे शतयोजनविस्तृतः।
अगम्यो मानुषैर्दीप्तस्तं मार्गध्वं समन्ततः॥२४॥

तत्र सर्वात्मना सीता मार्गितव्या विशेषतः॥२५॥

स हि देशस्तु वध्यस्य रावणस्य दुरात्मनः।
राक्षसाधिपतेर्वासः सहस्राक्षसमद्युतेः॥२६॥

दक्षिणस्य समुद्रस्य मध्ये तस्य तु राक्षसी।
अङ्गारकेति विख्याता छायामाकृष्य भोजनी ॥२७॥

एवं निस्संशयान्कृत्वा संशयान्नष्टसंशयाः।
मृगयध्वं नरेन्द्रस्य पत्नीममिततेजसः॥२८॥

तमतिक्रम्य लक्ष्मीवान्समुद्रे शतयोजने।
गिरिः पुष्पितको नाम सिद्धचारणसेवितः॥२९॥

चन्द्रसूर्याशुसङ्काशः सागराम्बुसमावृतः।
भ्राजतेत्रिपुलैः शृङ्गैरम्बरं विलिखन्निव॥३०॥

तस्यैक काञ्चनं शृङ्गं सेवते यं दिवाकरः।
श्वेतं राजतमेकं च सेवते यं निशाकरः॥३१॥

न तं कृतघ्नाः पश्यन्ति न नृशंसा न नास्तिकाः।
प्रणम्य शिरसा शैलं तं विमार्गत वानराः॥३२॥

तमतिक्रम्य दुर्घर्षा : सूर्यवान्नाम पर्वतः।
अध्वना दुर्बिगाहेन योजनानि चतुर्दश॥३३॥

ततस्तमप्यतिक्रम्य वैद्युतो नाम पर्वतः।
सर्वकामफलैर्वृक्षैः सर्वकालमनोहरैः॥३४॥

तत्र भुक्त्वा महार्हाणि मूलानि च फलानि च।
मधूनि पीत्वा मुख्यानि परं गच्छत वानराः ॥३५॥

तत्र नेत्रमनःकान्तः कुञ्जरो नाम पर्वतः।
अगस्त्यभवनं यत्र निर्मितं विश्वकर्मणा॥३६॥

तत्र योजनविस्तारमुच्छ्रितं दशयोजनम्।
शरणं काञ्चनं दिव्यं नानारत्नविभूषितम्॥३७॥

तत्र भोगवती नाम सर्पाणामालयः पुरी।
विशालकक्ष्या दुर्घर्षा सर्वतः परिरक्षिता॥३८॥

रक्षिता पन्नगैर्घोरैस्तीक्ष्णदंष्ट्रैर्महाविषैः॥३९॥

सर्पराजो महाघोरो यस्यां वसति वासुकिः।
निर्याय मार्गितव्या च सा च भोगवती पुरी ॥४०॥

तत्र चानन्तरा देशा ये केचन सुसंवृताः॥४१॥

तं च देशमतिक्रम्य महानृषभसंस्थितः।
सर्वरत्नमयः श्रीमानृषभो नाम पर्वतः॥४२॥

गोशीर्षकं पद्मकं च हरिश्यामं च चन्दनम्।
दिव्यमुत्पद्यते यत्र तच्चैवाग्निसमप्रभम्॥४३॥

न तु तच्चन्दनं दृष्टा स्पष्टव्यं च कदाचन।
रोहिता नाम गन्धर्वा घोरा रक्षन्ति तद्वनम्॥४४॥

तत्र गन्धर्वपतयः पञ्च सूर्यसमप्रभाः।
शैलूषो ग्रामणीः शित्रुः शुभ्रो बभ्रुस्तथैव च ॥४५॥

रविसोमाग्निवपुषां निवासः पुण्यकर्मणाम्।
अन्ते पृथिव्या दुर्धर्षास्तत्र स्वर्गजितः स्थिताः ॥४६॥

ततः परं न वः सेव्यः पितृलोकः सुदारुणः।
राजधानी यमस्यैषा कष्टेन तमसा वृता॥४७॥

एतावदेव युष्माभिर्वीरा वानरपुङ्गवाः।
शक्यं विचेतुं गन्तुं वा नातो गतिमतां गतिः ॥४८॥

सर्वमेतत्समालोक्य यच्चान्यदपि दृश्यते।
गतिं विदित्वा वैदेयाः सन्त्रिवर्तितुमर्हथ॥४९॥

यस्तु मासान्निवृत्तोऽये दृष्टा सीतेति वक्ष्यति।
मत्तुल्यविभवो भोगैः सुखं स विहरिष्यति ॥५०॥

ततः प्रियतरो नास्ति मम प्राणाद्विशेषतः।
कृतापराधो बहुशो मम बन्धुर्भविष्यति॥५१ ॥

अमितबलपराक्रमा भवन्तो
विपुलगुणेषु कुलेषु च प्रसूताः।
मनुजपतिसुतां यथा लभध्वं
तदधिगुणं पुरुषार्थमारभध्वम् ॥५२॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये
किष्किन्धाकाण्डे एकचत्वारिंशः सर्गः ॥

आदितः श्लोकाः 11043
किष्किन्धाकाण्डे आदितः श्लोकाः 1791

<MISSING_FIG href="../books_images/U-IMG-1707985015Screenshot(12"/>.png)

द्विचत्वारिंशः सर्गः ॥ ४२ ॥

प्रतीच्यां सुषेणप्रेषणम् ॥

अथ प्रस्थाप्य सुग्रीवस्तान्हरीन्दक्षिणां दिशम्
अब्रवीन्मेघसङ्काशं सुषेणं नाम यूथपम्॥१॥

तारयाः पितरं राजा श्वशुरं भीमविक्रमम्।
अब्रवीत्साञ्जलिर्वाक्यमभिगम्य प्रणम्य च॥२॥

मरीचिपुत्रं मारीचमर्चिष्मन्तं महाकपिम्।
वृतं कपिवरैः शूरैर्महेन्द्रसदृशद्युतिम्॥३॥

बुद्धिविक्रमसंपन्नं वैनतेयसमद्युतिम्।
मरीचिपुत्रान्मारीचानर्चिर्मालान्महाबलान्॥
ऋषिपुत्रांश्च तान्सर्वान्प्रतीचीमादिशद्दिशम्॥४॥

द्वाभ्यां शतसहस्राभ्यां कपीनां कपिसत्तमाः।
सुषेणप्रमुखा यूयं वैदेहीं परिमार्गत॥५॥

सुराष्ट्रान्सहवाहूलीकान् शूरान्भीमांस्तथैव च।
स्फीताञ्जनपदान्रम्यान्विपुलानि पुराणि च॥६॥

पुन्नागगहनं कुक्षिं बकुलोद्दालकाकुलम्।
तथा केतकषण्डांश्च मार्गध्वं हरियूथपाः॥७॥

प्रत्यक्त्रोतोगमाश्चैव नद्यः शीतजलाः शिवाः।
तापसानामरण्यानि कान्तारा गिरयश्च ये॥८॥

ततः स्थलीं मरुप्रायामत्युच्चशिरसः शिलाः।
गिरिजालावृतां दुर्गा मार्गित्वा पश्चिमां दिशम् ॥९॥

ततः पश्चिममासाद्य समुद्रं द्रष्टुमर्हथ।
तिमिनक्रायुतजलमक्षोभ्यमथ वानराः॥१०॥

ततः केतकषण्डेषु तमालगहनेषु च।
कपयो विहरिष्यन्ति नारिकेलवनेषु च॥११॥

तत्र सीतां च मार्गध्वं निलयं रावणस्य च।
वेलातटनिविष्टेषु पर्वतेषु वनेषु च॥१२॥

मुरचीपत्तनं चैव रम्यं चैव जटीपुरम्।
अवन्तीमङ्गलोपां च तथाचालक्षितं वनम्॥
राष्ट्राणि च विशालानि पत्तनानि ततस्ततः ॥१३॥

सिन्धुसागरयोश्चैव सङ्गमे तत्र पर्वतः।
महान्हेमगिरिर्नाम शतशृङ्गो महाद्रुमः॥१४॥

तस्य प्रस्थेषु रम्येषु सिंहाः पक्षगमाः स्थिताः।
तिमिमत्स्यगजांश्चैव नीडान्यारोपयन्ति ते॥१५॥

तानि नीडानि सिंहानां गिरिश्रृङ्गगताश्च ये।
हप्तास्तृप्ताश्च मातङ्गास्तोयदस्वननिस्वनाः॥१६॥

विचरन्ति विशालेऽस्मिंस्तोयपूर्णे समन्ततः॥१७॥

तस्य शृङ्गं दिवस्पर्श काञ्चनं चित्रपादपम्।
सर्वमाशु विचेतव्यं कपिभिः कामरूपिभिः॥१८॥

कोटिं तत्र समुद्रेऽथ काञ्चनीं शतयोजनाम्।
दुर्दर्शी पारियात्रस्य गता द्रक्ष्यथ वानराः॥१९॥

कोट्यस्तत्र चतुर्विशद्गन्धर्वाणां तरस्विनाम्।
वसन्त्यग्निनिकाशानां घोराणां पापकर्मणाम्॥२०॥

पावकार्चिःप्रतीकाशाः समवेताः सहस्रशः।
नात्यासादयितव्यास्ते वानरैर्भीमविक्रमैः॥२१॥

नादेयं च फलं तस्माद्देशात्किंचित्प्लवङ्गमैः।
दुरासदा हि ते वीराः सत्ववन्तो महाबलाः ॥२२॥

फलमूलानि ते तत्र रक्षन्ते भीमविक्रमाः।
तत्र यत्नश्च कर्तव्यो मार्गितव्या च जानकी ॥
न हि तेभ्यो भयं किंचित्कपित्वमनुवर्तताम् ॥२३॥

तत्र वैडूर्यवर्णाभो वज्रसंस्थानसंस्थितः।
नानाद्रुमलताकीर्णो वज्रो नाम महागिरिः ॥
श्रीमान्समुदितस्तत्र योजनानां शतं समम्॥२४॥

गुहास्तत्र विचेतव्याः प्रयत्नेन प्लवङ्गमाः॥२५॥

चतुर्भागे समुद्रस्य चक्रवान्नाम पर्वतः॥२६॥

तत्र चक्रं सहस्रारं निर्मितं विश्वकर्मणा॥२७॥

तत्र पञ्चजनं हत्वा हयग्रीवं च दानवम्।
आ जहार ततश्चक्रं शङ्खं च पुरुषोत्तमः॥२८॥

तत्र सानुषु चित्रेषु विशालासु गुहासु च।
रावणः सह वैदेह्या मार्गितव्यस्ततस्ततः॥२९॥

योजनानां ततः षष्टिर्वराहो नाम पर्वतः।
सुवर्णशृङ्गः सुश्रीमानगाधे वरुणालये॥३०॥

तत्र प्राग्ज्योतिषं नाम जातरूपमयं पुरम्।
यस्मिन्वसति दुष्टात्मा नरको नाम दानवः॥३१॥

तत्र सानुषु रम्येषु काननेषु गुहासु च।
रावणः सह वैदेह्या मार्गितव्यस्ततस्ततः॥३२॥

तमतिक्रम्य शैलेन्द्रं काञ्चनान्तरनिर्दरः।
पर्वतः सर्वसौवर्णो धाराप्रस्रवणायुतः॥३३॥

तं गजाश्च वराहाश्च सिंहा व्याघ्राश्च सर्वतः।
अभिगर्जन्ति सततं तेन शब्देन दर्पिताः॥३४॥

यस्मिन्हरिहयः श्रीमान्महेन्द्रः पाकशासनः।
अभिषिक्तः सुरै राजा मेघवान्नाम पर्वतः॥३५॥

तमतिक्रम्य शैलेन्द्रं महेन्द्रपरिपालितम्।
षष्टिं गिरिसहस्राणि काञ्चनानि गमिष्यथ॥३६॥

तरुणादित्यवर्णानि भ्राजमानानि सर्वतः।
जातरूपमयैर्वृक्षैः शोभितानि सुपुष्पितैः॥३७॥

तेषां मध्ये स्थितो राजा मेरुरुत्तरपर्वतः।
आदित्येन प्रसन्नेन शैलो दत्तवरः पुरा॥३८॥

तेनैवमुक्तः शैलेन्द्रः सर्व एवं त्वदाश्रयाः।
मत्प्रसादाद्भविष्यन्ति दिवा रात्रौ च काञ्चनाः ॥३९॥

त्वयि ये चापि वत्स्यन्ति देवगन्धर्वदानवाः।
ते भविष्यन्ति रक्ताश्च प्रभया काञ्चना इव॥४०॥

विश्वे देवाश्च मरुतो वसवश्च दिवौकसः।
आगम्य पश्चिमां सन्ध्यां मेरुमुत्तरपर्वतम् ॥४१॥

आदित्यमुपतिष्ठन्ति तैश्च सूर्योऽभिपूजितः।
अदृश्यस्सर्वभूतानामस्तं गच्छति पर्वतम्॥४२॥

योजनानां सहस्राणि शतानि च दिवाकरः।
मुहूर्तार्धेन तं शीघ्रमस्तं याति शिलोच्चयम्॥४३॥

शृङ्गे तस्य महद्दिव्यं भवनं सूर्यसन्निभम्।
प्रसादगणसंबाधं विहितं विश्वकर्मणा॥४४॥

शोभितं तरुभिश्चित्रैर्नानापक्षिसमाकुलैः।
निकेतं पाशहस्तस्य वरुणस्य महात्मनः॥४५॥

अन्तरा मेरुमस्तं च तालो दशशिरा महान्।
जातरूपमयः श्रीमान् भ्राजते चित्रवेदिकः॥४६॥

तेषु सर्वेषु दुर्गेषु सरस्सु च सरित्सु च।
रावणः सह वैदेह्या मार्गितव्यस्ततस्ततः॥४७॥

यत्र तिष्ठति धर्मज्ञस्तपसा स्वेन भावितः।
मेरुसावर्णिरित्येव ख्यातो वै ब्रह्मणा समः॥४८॥

प्रष्टव्यो मेरुसावर्णिर्महर्षिः सूर्यसन्निभः।
प्रणम्य शिरसा भूमौ प्रवृत्तिं मैथिलीं प्रति॥४९॥

एतावज्जीवलोकस्य भास्करो रजनीक्षये।
कृत्वा विंतिमरं सर्वमस्तं गच्छति पर्वतम्॥५०॥

एतावद्वानरैः शक्यं गन्तुं वानरपुङ्गवाः।
अभास्करममर्यादं न जानीमस्ततः परम्॥५१॥

अधिगम्य तु वैदेहीं निलयं रावणस्य च।
अस्तपर्वतमासाद्य पूर्णे मासे निवर्तत॥५२॥

ऊर्ध्वं मासान्न वस्तव्यं वसन् वध्यो भवेन्मम ॥५३॥

सहैव शूरो युष्माभिः श्वशुरो मे गमिष्यति।
श्रोतव्यं सर्वमेतस्य भवद्भिर्दिष्टकारिभिः॥५४॥

गुरुरेष महाबाहुः श्वशुरो मे महाबलः।
भवन्तश्चापि विक्रान्ताः प्रमाणं सर्वकर्मसु॥५५॥

प्रमाणमेनं संस्थाप्य सर्वतः पश्चिमां दिशम्
भवन्तः परिपश्यन्तु यथा दृश्येत जानकी॥५६॥

दृष्टायां तु नरेन्द्रस्य पत्न्याममिततेजसः।
कृतकृत्या भविष्यामः कृतस्य प्रतिकर्मणा॥५७॥

अतोऽन्यदपि यत्किञ्चित् कार्यस्यास्य हितं भवेत्।
संप्रधार्य भवद्भिश्च देशकालार्थसंहित॥५८॥

ततः सुषेणप्रमुखाः प्लवङ्गमाः
सुग्रीववाक्यं निपुणं निशम्य।
आमन्त्र्य सर्वे प्लवगाधिपास्ते
जग्मुर्दिशं तां वरुणाभिगुप्ताम् ॥५९॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये
किष्किन्धाकाण्डे द्विचत्वारिंशः सर्गः ॥

आदितः श्लोकाः 11102
किष्किन्धाकाण्डे आदितः श्लोकाः 1850

<MISSING_FIG href="../books_images/U-IMG-1707985340Screenshot(12"/>.png)

त्रिचत्वारिंशः सर्गः ॥ ४३ ॥

उदीच्यां शतबलिप्रेषणम् ॥

ततः संदिश्य सुग्रीवः श्वशुरं पश्चिमां दिशम्।
वीरं शतबलिं नाम वानरं वानराधिपः॥१॥

उवाच राजा सर्वज्ञः सर्ववानरसत्तमः।
वाक्यमात्महितं चैव रामस्य च हितं तथा॥२॥

वृतः शतसहस्रेण त्वद्विधानां वनौकसाम्।
वैवस्वतसुतैः सार्धं प्रतिष्ठस्व स्वमन्त्रिभिः॥३॥

दिशं ह्यृदीचीं विक्रान्तां हिमशैलावतंसकाम्।
सर्वतः परिमार्गध्वं रामपत्नीमनिन्दिताम्॥४॥

अस्मिन्कार्ये विनिर्वृत्ते कृते दाशरथेः प्रिये।
ऋणान्मुक्ता भविष्यामः कृतार्थार्थविदां वराः॥५॥

कृतं हि प्रियमस्माकं राघवेण महात्मना।
तस्यैतत्प्रतिकारोऽस्ति सफलं जीवितं भवेत्॥६॥

अर्थिनः कार्यनिर्वृत्तिमकर्तुरपि यश्चरेत्।
तस्य स्यात्सफलं जन्म किं पुनः पूर्वकारिणः ॥७॥

एतां बुद्धिमवस्थाय दृश्यते जानकी यथा।
तथा भवद्भिः कर्तव्यमस्मत्प्रियहितैषिभिः॥८॥

अयं हि सर्वभूतानां मान्यस्तु नरसत्तमः।
अस्मासु चागतप्रीती रामः परपुरञ्जयः॥९॥

इमानि वनदुर्गाणि नद्यः शैलान्तराणि च।
भवन्तः परिमार्गन्तु बुद्धिविक्रमसंपदा॥१०॥

तत्र म्लेच्छान्पुलिन्दांश्च शूरसेनांस्तथैव च।
प्रस्थलान्भरतांश्चैव कुरूंश्च सह मद्रकैः॥११॥

काम्बोजान्यवनांश्चैव शकानारट्टकानपि।
बालीकानृषिकांचैव पौरवानाथ टङ्कणान्॥१२॥

चीनान्परमचीनांश्च निहारांश्च पुनः पुनः।
अन्विष्य दरदांश्चैव हिमवन्तं विचिन्वथ॥१३॥

लोध्रपद्मकषण्डेषु देवदारुवनेषु च।
रावणः सह वैदेह्या मार्गितव्यस्ततस्ततः॥१४॥

ततः सोमाश्रमं गत्वा देवगन्धर्वसेवितम्।
कालं नाम महासानुं पर्वतं तु गमिष्यथ॥१५॥

महत्सु तस्य शैलस्य निर्दरेषु गुहासु च।
विचिनुध्वं महाभागां रामपत्नीं ततस्ततः॥१६॥

तमतिक्रम्य शैलेन्द्रं हेमगर्भं महागिरिम्।
ततः सुदर्शनं नाम गन्तुमर्हथ पर्वतम्॥१७॥

ततो देवसखो नाम पर्वतः पतगालयः।
नानापक्षिगणाकीर्णो विविधद्रुमभूषितः॥१८॥

तस्य कानन षण्डेषु निर्झरेषु गुहासु च।
रावणः सह वैदेह्या मार्गितव्यस्ततस्ततः॥१९॥

तमतिक्रम्य चाकाशं सर्वतः शतयोजनम्।
अपर्वतनदीवृक्षं सर्वसत्त्वविवर्जितम्॥२०॥

तं तु शीघ्रमतिक्रम्य कान्तारं रोमहर्षणम्।
कैलासं पाण्डुरं शैलं प्राप्य हृष्टा भविष्यथ॥२१॥

तत्र पाण्डुरमेघाभं जाम्बूनदपरिष्कृतम्।
कुबेरभवनं रम्यं निर्मितं विश्वकर्मणा॥२२॥

विशाला नलिनी यत्र प्रभूतकमलोत्पला।
हंसकारण्डवाकीर्णा ह्यप्सरोगणसेविता॥२३॥

तत्र वैश्रवणो राजा सर्वभूतनमस्कृतः।
धनदो रमते श्रीमान् गुह्यकैः सह यक्षराट्॥२४॥

तस्य चन्द्रनिकाशेषु पर्वतेषु गुहासु च।
रावणः सह वैदेह्या मार्गितव्यस्ततस्ततः॥२५॥

क्रौञ्चं तु गिरिमासाद्य बिलं तस्य सुदुर्गमम्।
अप्रमत्तैः प्रवेष्टव्यं दुष्प्रवेशं हि तत्स्मृतम्॥२६॥

वसन्ति हि महात्मानस्तत्र सूर्यसमप्रभाः।
देवैरप्यर्चिताः सम्यग्देवरूपा महर्षयः॥२७॥

क्रौञ्चस्य तु गुहाश्चान्याः सानूनि शिखराणि च।
निर्झराश्च नितम्बाश्च विचेतव्यास्ततस्ततः॥२८॥

क्रौञ्चस्य शिखरं चापि निरीक्ष्य च ततस्ततः।
अवृक्षं कामशैलं च मानसं विहगालयम्॥२९॥

न गतिस्तत्र भूतानां देवदानवरक्षसाम्।
स च सर्वैर्विचेतव्यः पर्वतो बहुकन्दरः॥३०॥

क्रौञ्चं गिरिमतिक्रम्य मैनाको नाम पर्वतः।
मयस्य भवनं तत्र दानवस्य स्वयं कृतम्॥३१॥

मैनाकस्तु विचेतव्यः ससानुप्रस्थभूतलः।
स्त्रीणामश्वमुखीनां च निकेतास्तत्र तत्र तु॥३२॥

तं देशं समतिक्रम्य आश्रमं सिद्धसेवितम्।
सिद्धा वैखानसास्तत्र वालखिल्याश्च तापसाः ॥३३॥

वन्द्यास्ते तु तपःसिद्धास्तपसा वीतकल्मषाः।
प्रष्टव्या चापि सीतायाः प्रवृत्तिर्विनयान्वितैः ॥३४॥

हेमपुष्करसंछन्नं तस्मिन्वैखानसं सरः।
तरुणादित्यसङ्काशैर्हसैर्विचरितं शुभैः॥३५॥

औपवाह्यः कुबेरस्य सार्वभौम इति श्रुतः।
गजः पर्येति तं देशं सदा सह करेणुभिः॥३६॥

तत्सरः समतिक्रम्य नष्टचन्द्रदिवाकरम्।
अनक्षत्रगणं व्योम निष्पयोदमनादिमत्॥३७॥

गभस्तिभिरिवार्कस्य स तु देशः प्रकाशते।
विश्राम्य द्भिस्तपःसिद्धैर्देवकल्पैः स्वयंप्रभैः॥३८॥

तं तु देशमतिक्रम्य शैलोदा नाम निम्नगा॥३९॥

उभयोस्तीरयोस्तस्याः कीचका नाम वेणवः।
तैश्च यान्ति परं पारं सिद्धान्प्रत्यानयन्ति च ॥४०॥

उत्तराः कुरवस्तत्र कृतपुण्यप्रतिश्रयाः॥४१॥

ततः काञ्चनपद्माभिः पद्मिनीभिः कृतोदकाः।
नीलवैडूर्यपत्राभिर्नद्यस्तत्र सहस्रशः॥४२॥

रक्तोत्पलवनैश्चात्र मण्डिताश्च हिरण्मयैः।
तरुणादित्यसदृशैर्भान्ति तत्र जलाशयाः॥४३॥

महार्हमणिपत्रैश्च काञ्चनप्रभकेसरैः।
नीलनीरजपण्डैश्च स देशः सर्वतो वृतः॥४४॥

निस्तुलाभिश्च मुक्ताभिर्मणिभिश्च महाधनैः।
उद्भूतपुलिनास्तत्र जातरूपैश्च निम्नगाः॥४५ ॥

सर्वरत्नमयैश्विनैरवगाढा नगोत्तमैः।
जातरूपमयैश्चापि हुताशनसमप्रभैः॥४६॥

नित्यपुष्पफलास्तत्र नगाः पत्ररथाकुलाः।
दिव्यगन्धरसस्पर्शाः सर्वकामान् स्रवन्ति च॥४७॥

नानारूपाणि वासांसि फलन्त्यन्ये नगोत्तमाः॥४८॥

महार्हाणि च चित्राणि हैमान्यन्ये नगोत्तमाः।
शयनानि प्रसूयन्ते चित्रास्तरणवन्ति च॥४९॥

मनः कान्तानि माल्यानि फलन्त्यन्ये नगोत्तमाः।
मुक्तावैडूर्यचित्राणि भूषणाणि तथैव च ॥५०॥

स्त्रीणां चाप्यनुरूपाणि पुरुषाणां तथैव च।
सर्वर्तुसुखसेव्यानि फलन्त्यन्ये नगोत्तमाः॥
पानानि च महर्हाणि भक्ष्याणि विविधानि च ॥५१॥

स्त्रियश्च गुणसम्पन्ना रूपयौवनलक्षिताः।
गन्धर्वाः किन्नराः सिद्धाः नागा विद्याधरास्तथा ॥
रमन्ते सहितास्तत्र नारीभिर्भास्करप्रभाः॥५२॥

सर्वे सुकृतकर्माणः सर्वे रतिपरायणाः।
सर्वे कामार्थसहिता वसन्ति सहयोषितः॥५३॥

गीतवादित्रनिर्घोषः सोत्कृष्टहसितस्वनः।
श्रूयते सततं तत्र सर्वभूतमनोहरः॥५४॥

तत्र नामुदितः कश्चिन्नास्ति कश्चिदसत्प्रियः
अहन्यहनि वर्धन्ते गुणास्तत्र मनोरमाः॥५५॥

समतिक्रम्य तं देशमुत्तरः पयसां निधिः॥५६॥

तत्र सोमगिरिर्नाम मध्ये हेममयो महान्।
इन्द्रलोकगता ये च ब्रह्मलोकगताश्च ये॥
देवास्तं समवेक्षन्ते गिरिराजं दिवं गतम्॥५७॥

स तु देशो विसूर्योऽपि तस्य भासा प्रकाशते
सूर्यलक्ष्म्याभिविज्ञेयस्तपतेव विवस्वता॥५८॥

भगवांस्तत्र विश्वात्मा शम्भुरेकादशात्मकः।
ब्रह्मा वसति देवेशो ब्रह्मर्षिपरिवारितः॥५९॥

न कथञ्चन गन्तव्यं कुरूणामुत्तरेण वः।
अन्येषामपि भूतानां नातिक्रामति वै गतिः॥६०॥

स हि सोमगिरिर्नाम देवानामपि दुर्गमः।
तमालोक्य ततः क्षिप्रमुपावर्तितुमर्हथ॥६१॥

एतावद्वानरैः शक्यं गन्तुं वानरपुङ्गवाः।
अभास्करममर्यादं न जानीमस्ततः परम्॥६२॥

सर्वमेतद्विचेतव्यं यन्मया परिकीर्तितम्।
यदन्यदपि नोक्तं च तत्रापि क्रियतां मतिः॥६३॥

ततः कृतं दाशरथेर्महत्प्रियं
महत्तरं चापि ततो मम प्रियम्।
कृतं भविष्यत्यनिलानलोपमाः
विदेहजादर्शनजेन कर्मणा॥६४॥

ततः कृतार्थाः सहिताः सबान्धवाः
मयार्चिताः सर्वगुणैर्मनोरमैः।
चरिष्यथोर्वी प्रतिशान्तशत्रवः
सहप्रिया भूतधराः प्लवङ्गमाः॥६५॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये
किष्किन्धाकाण्डे त्रिचत्वारिंशः सर्गः ॥

आदितः श्लोकाः 11167
किष्किन्धाकाण्डे आदितःश्लोकाः 1915

<MISSING_FIG href="../books_images/U-IMG-1707926502Screenshot(12"/>.png)

चतुश्चत्वारिंशः सर्गः ॥ ४४॥

हनुमद्धस्तेऽङ्गुलीयकदानम् ॥

विशेषेण तु सुग्रीवो हनुमत्यर्थमुक्तवान्।
स हि तस्मिन्हरिश्रेष्ठे निश्चितार्थोऽर्थसाधने॥१॥

अब्रवीच्च हनूमन्तं विक्रान्तमनिलात्मजम्।
सुग्रीवः परमप्रीतः प्रभुः सर्ववनौकसाम्॥२॥

न भूमौ नान्तरिक्षे वा नाम्बरे नामरालये।
नाप्सु वा गतिसङ्गं ते पश्यामि हरिपुङ्गव॥३॥

सासुराः सहगन्धर्वाः सनागनरदेवताः।
विदिताः सर्वलोकास्ते ससागरधराधराः॥४॥

गतिवेंगश्च तेजश्च लाघवं च महाकपे।
पितुस्ते सदृशं वीर मारुतस्य महौजसः॥५॥

तेजसा वापि ते भूतं समं भुवि न विद्यते।
तद्यथा लभ्यते सीता तत्त्वमेवोपपादय॥६॥

त्वय्येव हनुमन्नस्ति बलं बुद्धिः पराक्रमः।
देशकालानुवृत्तिश्च नयश्च नयपण्डित॥७॥

ततः कार्यसमासङ्गमवगम्य हनूमति।
विदित्वा हनुमन्तं च चिन्तयामास राघवः॥८॥

सर्वथा निश्चितार्थोऽयं हनूमति हरीश्चरः।
निश्चितार्थकरश्चापि हनुमान्कार्यसाधने॥९॥

तदेवं प्रस्थितस्यास्य परिज्ञातस्य कर्मभिः।
भर्त्रा परिगृहीतस्य ध्रुवः कार्यफलोदयः॥१०॥

तं समीक्ष्य महातेजा व्यवसायोत्तरं हरिम्।
कृतार्थ इव संवृत्तः प्रहृष्टेन्द्रियमानसः॥११॥

ददौ तस्य ततः प्रीतः स्वनामाङ्कोपशोभितम्।
अङ्गुलीयमभिज्ञानं राजपुत्र्याः परंतपः॥१२॥

अनेन त्वां हरिश्रेष्ठ चिह्वेन जनकात्मजा।
मत्सकाशादनुप्राप्तमनुद्विग्नाऽनुपश्यति॥१३॥

व्यवसायश्च ते वीर सत्वयुक्तश्च विक्रमः।
सुग्रीवस्य च सन्देशः सिद्धिं कथयतीव मे॥१४॥

स तं गृह्य हरिश्रेष्ठः स्थाप्य मूर्ध्नि कृताञ्जलिः।
वन्दित्वा चरणौ चैव प्रस्थितः प्लवगोत्तमः॥१५॥

स तत्प्रकर्षन्हरिणां बलं महद्धभूववीरः पवनात्मजः कपिः।
गताम्बुदे व्योम्नि विशुद्धमण्डलः शशीव नक्षत्रगणोपशोभितः॥

अतिबल बलमाश्रितस्तवाहं हरिवरविक्रम विक्रमैरनल्यैः।
पवनसुत यथाभिगम्यते सा जनकसुता हनुमंस्तथा कुरुष्व॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये
किष्किन्धाकाण्डे चतुत्वारिंशः सर्गः॥

आदितः श्लोकाः 11184
किष्किन्धाकाण्डे आदितः श्लोकाः 1932

<MISSING_FIG href="../books_images/U-IMG-1707927172Screenshot(12"/>.png)

पञ्चचत्वारिंशः सर्गः ॥ ४५ ॥

सीनान्वेषणाय वानरसेनाप्रस्थानम् ॥

सर्वोश्चाहूय सुग्रीवः प्लवगान्प्लवगर्षभः।
समस्तानब्रवीद्भूयो रामकार्यार्थसिद्धये ॥
एवमेतद्विचेतव्यं यन्मया परिकीर्तितम्॥१॥

तदुग्रशासनं भर्तुर्विज्ञाय हरिपुङ्गवाः।
शलभा इव संछाद्य मेदिनीं संप्रतस्थिरे॥२॥

रामः प्रस्त्रवणे तस्मिन् न्यवसत्सहलक्ष्मणः।
प्रतीक्षमाणस्तं मासं यः सीताधिगमे कृतः॥३॥

उत्तरां तु दिशे रम्यां गिरिराजसमावृताम्।
प्रतस्थे सहसा वीरो हरिः शतबलिस्तदा॥४॥

पूर्वी दिशं प्रति ययौ विनतो नाम यूथपः॥५॥

अगस्त्यचरितामाशां दक्षिणां हरियूथपः।
ताराङ्गदादिसहितो हनुमान् मारुतात्मजः॥६॥

पश्चिमां तु भृशं घोरां सुषेणः प्लवगेश्वरः।
प्रतस्थे हरिशार्दूलो दिशं वरुणपालिताम्॥७॥

ततः सर्वा दिशो राजा चोदयित्वा यथातथम्।
कपिसेनापतीन्मुख्यान्मुमोद सुखितः सुखम्॥८॥

एवं संचोदिताः सर्वे राज्ञा वानरपुङ्गवाः।
स्वां स्वां दिशमभिप्रेत्य त्वरिताः संप्रतस्थिरे॥९॥

नदन्तश्रोन्नदन्तश्च गर्जन्तश्च प्लवङ्गमाः।
क्ष्वेलन्तो धावमानाश्च ययुः प्लवगसत्तमाः ॥
आनयिष्यामहे सीतां हनिष्यामश्च रावणम्॥१०॥

अहमेको वधिष्यामि प्राप्तं रावणमाहवे॥११॥

ततश्रोन्मथ्य सहसा हरिष्ये जनकात्मजाम् ॥१२॥

वेपमानां श्रमेणाद्य भवद्भिः स्थीयतामिति।
एक एवाहरिष्यामि पातालादपि जानकीम् ॥१३॥

विमथिष्याम्यहं वृक्षान्दारयिष्याम्यहं गिरीन्।
धरणीं दारयिष्यामि क्षोभयिष्यामि सागरान् ॥१४॥

अहं योजनसङ्ख्यायाः प्लविता नात्र संशयः।
शतं योजनसङ्ख्यायाः शतं समधिंक ह्यहम् ॥१५॥

भूतले सागरे वाऽपि शैलेषु च वनेषु च।
पातालस्यापि वा मध्ये न ममाच्छिद्यते गतिः ॥१६॥

इत्येकैकं तदा तत्र वानरा बलदर्पिताः।
ऊचुश्च वचनं तस्मिन् हरिराजस्य सन्निधौ ॥१७॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये
किष्किन्धाकाण्डे पञ्चचत्वारिंशः सर्गः ॥

आदितः श्लोकाः 11201
किष्किन्धाकाण्डे आदितः श्लोकाः 1949

<MISSING_FIG href="../books_images/U-IMG-1707927667Screenshot(12"/>.png)

षट्चत्वारिंशः सर्गः ॥ ४६॥

भूवलयविज्ञानकारणकथनम् ॥

गतेषु वानरेन्द्रेषु रामः सुग्रीवमब्रवीत्।
कथं भवान् विजानीते सर्वं वै मण्डलं भुवः॥१॥

सुग्रीवस्तु ततो राममुवाच प्रणतात्मवान्।
श्रूयतां सर्वमाख्यास्ये विस्तरेण नरर्षभ॥२॥

यदा तु दुन्दुभिं नाम दानवं महिषाकृतिम्।
परिकालयते वाली मलयं प्रति पर्वतम् ॥
तदा विवेश महिषो मलयस्य गुहां प्रति॥३॥

विवेश वाली तत्रापि मलयं तज्जिघांसया॥४॥

ततोऽहं तत्र निक्षिप्तों गुहाद्वारि विनीतवत्॥५॥

न च निष्क्रमते वाली तदा संवत्सरे गते॥६॥

ततः क्षतजवेगेन आपुपूरे तदा बिलम्।
तदहं विस्मितो दृष्ट्वा भ्रातृशोकविषार्दितः॥
अथाहं गतबुद्धिस्तु सुव्यक्तं निहतो गुरुः॥७॥

शिला पर्वतसङ्काशा बिलद्वारि कृता मया।
अशक्नुवन्निष्क्रमितुं महिषो विनशिष्यति॥८॥

ततोऽहमागां किष्किन्धां निराशस्तस्य जीविते।
राज्यं च सुमहत्प्राप्तं तारया रुमया सह॥९॥

मित्रैश्च सहितस्तत्र वसामि विगतज्वरः॥१०॥

आजगाम ततो वाली हत्वा तं दानवर्षभम् ॥११॥

ततोऽहमददां राज्यं गौरवाद्भययन्त्रितः॥१२॥

स मां जिघांसुर्दुष्टात्मा वाली प्रव्यथितेन्द्रियः।
परिकालयते क्रोधाद्धावन्तं सचिवैः सह॥१३॥

ततोऽहं वालिना तेन सानुबन्धः प्रधावितः।
नदीश्च विविधाः पश्यन् वनानि नगराणि च ॥१४॥

आदर्शतलसङ्काशा ततो वै पृथिवी मया।
अलातचक्रमतिमा दृष्टा गोष्पदवत्तदा॥१५॥

पूर्वी दिशं ततो गत्वा पश्यामि विविधान् द्रुमान्।
पर्वतांश्च नदी रम्याः सरांसि विविधानि च ॥१६॥

उदयं तत्र पश्यामि पर्वतं धातुमण्डितम्।
क्षीरोदं सागरं चापि नित्यमप्सरसालयम्॥
परिकालयमानस्तुं वालिनाऽभिद्रुतस्तदा॥१७॥

पुनरावृत्य सहसा प्रस्थितोऽहं तदा विभो।
पुनरावर्तमानस्तु वालिनाऽभिद्रुतो द्रुतम्॥१८॥

दिशस्त्वस्यास्ततो भूयः प्रस्थितो दक्षिणां दिशम्।
विन्ध्यपादपसङ्कीर्णो चन्दनद्रुमशोभिताम्॥१९॥

द्रुमशैलांस्ततः पश्यन् भूयो दक्षिणतोऽपरान्।
पश्चिमां तु दिशं प्राप्तो वालिना समभिद्रुतः॥
संपश्यन् विविधान् देशानस्तं च गिरिसत्तमम् ॥२०॥

प्राप्य चास्तं गिरिश्रेष्टमुत्तरां संप्रधावितः।
हिमवन्तं च मेरुं च समुद्रं च तथोत्तरम्॥२१॥

यदा न विन्दं शरणं वालिना समभिद्रुतः।
तदा मां बुद्धिसम्पन्नो हनुमान् वाक्यमब्रवीत् ॥२२॥

इदानीं मे स्मृतं राजन्यथा वाली हरीश्वरः।
मतङ्गेन तदा शप्तो यस्मिन्नाश्रममण्डले॥२३॥

प्रविशेद्यदि वै वाली मूर्धाऽस्य शतधा भवेत्।
तत्र वासः सुखोऽस्माकं निरुद्विग्नो भविष्यति ॥२४॥

ततः पर्वतमासाद्य ऋश्यमूकं नृपात्मज।
न विवेश तदा वाली मतङ्गस्य भयात्तु सः॥२५॥

एवं मया तदा राजन् प्रत्यक्षमुपलक्षितम्।
पृथिवीमण्डलं कृत्स्नं गुहामस्यागतस्ततः॥२६॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये
किष्किन्धाकाण्डे षट्चत्वारिंशः सर्गः ॥

आदितः श्लोकाः 11227
किष्किन्धाकाण्डे आदितः श्लोकाः 1975

<MISSING_FIG href="../books_images/U-IMG-1707920145Screenshot(12"/>.png)

सप्तचत्वारिंशः सर्गः ॥ ४७ ॥

पूर्वोत्तरपश्चिमदिग्भ्यो वानरसेना प्रत्यागमनम् ॥

दर्शनार्थं तु वैदेह्याः सर्वतः कपियूथपाः।
व्यादिष्टाः कपिराजेन यथोक्तं जग्मुरञ्जसा॥१॥

सरांसि सरितः कक्षानाकाशं नगराणि च।
नदीदुर्गास्तथा शैलान् विचिन्वन्ति समन्ततः॥२॥

सुग्रीवेण समाख्यातान् सर्वे वानरपुङ्गवाः।
प्रदेशान् प्रविचिन्वन्ति सशैलवनकाननान्॥३॥

विचित्य दिवस सर्वे सीताधिगमने धृताः।
समायान्ति स्म मेदिन्यां निशाकालेषु वानराः ॥४॥

सर्वर्तुकामान् देशेषु वानराः सफलद्रुमान्।
आसाद्य रजनीं शय्यां चक्रुः सर्वेष्वहस्सु ते॥५॥

तदहः प्रथमं कृत्वा मासे प्रस्रवणाचले।
कपिराजेन संगम्य निराशाः कपियूथपाः॥६॥

विचित्य तु दिशं पूर्वी यथोक्तां सचिवैः सह।
अदृष्ट्वा विनतः सीतामाजगाम महाबलः॥७॥

उत्तरां तु दिशं सर्वा विचित्य स महाकपिः।
आगतः सह सैन्येन वीरः शतबलिस्तदा॥८॥

सुषेणः पश्चिमामाशां विचित्य सह वानरैः।
समेत्य मासे संपूर्ण सुग्रीवमुपचक्रमे॥९॥

तं प्रस्रवणपृष्ठस्थं समासाद्याभिवाद्य च।
आसीनं सह रामेण सुग्रीवमिदमब्रुवन्॥१०॥

विचिताः पर्वताः सर्वे वनानि गहनानि च।
निम्नगाः सागराश्चैव सर्वे जनपदास्तथा॥११॥

गुहाश्च विचिताः सर्वास्त्वया याः परिकीर्तिताः।
विचिताश्च महःगुल्मा लताविततसंतताः॥१२॥

गहनेषु च देशेषु दुर्गेषु विषमेषु च।
सत्त्वान्यतिप्रमाणानि विचितानि हतानि च॥१३॥

ये चैव गहना देशा विचितास्ते पुनः पुनः॥१४॥

उदारसत्त्वाभिजनो महात्मा
स मैथिलीं द्रक्ष्यति वानरेन्द्रः।
दिशं तु यामेव गता तु सीता
तां प्रस्थितो वायुसुतो हनूमान्॥१५॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये
किष्किन्धाकाण्डे सप्तचत्वारिंशः सर्गः ॥

आदितः श्लोकाः 11242
किष्किन्धाकाण्डे आदितः श्लोकाः 1990

<MISSING_FIG href="../books_images/U-IMG-1707904941Screenshot(12"/>.png)

अष्टचत्वारिंशः सर्गः ॥ ४८ ॥

विन्ध्यगुहासु सीतान्वेषणम् ॥

सह ताराङ्गदाभ्यां तु स गत्वा हनुमान्कपिः।
सुग्रीवेण यथोद्दिष्टं तं तं देशं प्रचक्रमे॥ १ ॥

स तु दूरमुपागम्य सर्वैस्तैः कपिसत्तमैः।
विचिनोति स्म विन्ध्यस्य गुहाश्च गहनानि च ॥२॥

पर्वताग्रानदीदुर्गान्सरांसि विपुलान्द्रुमान्।
वृक्षपण्डांश्च विविधान्पर्वतान् घनपादपान्॥३॥

अन्वेषमाणास्ते सर्वे वानराः सर्वतो दिशम्।
न सीतां ददृशुः सर्वे मैथिलीं जनकात्मजाम्॥४॥

ते भक्षयन्तो मूलानि फलानि विविधानि च।
अन्वेषमाणा दुर्धर्षा न्यवसंस्तत्र तत्र ह ॥
स तु देशो दुरन्वेषो गुहागहनवान्महान्॥५॥

निर्जलं निर्जनं शून्यं गहनं रोमहर्षणम्।
त्यक्त्वा तु तं तदा देशं सर्वे वै हरियूथपाः॥६॥

तादृशान्यप्यरण्यानि विचित्य भृशपीडिताः।
देशमन्यं दुराधर्षं विविशुश्चाकुतोभयाः॥७॥

यत्र वन्ध्यफला वृक्षा विपुष्पाः पर्णवर्जिताः।
निस्तोयाः सरितो यत्र मूलं यत्र सुदुर्लभम्॥८॥

न सन्ति महिषा यत्र न मृगा न च हस्तिनः।
शार्दूलाः पक्षिणो वाऽपि ये चान्ये वनगोचराः ॥९॥

न यत्र वृक्षा नौषध्यो न वल्लयो नापि वीरुघः ॥१०॥

स्निग्धपत्राः स्थले यत्र पद्मिन्यः फुलपङ्कजाः।
प्रेक्षणीयाः सुगन्धाश्च भ्रमरैश्च विवर्जिताः॥११॥

कण्डुर्नाम महाभागः सत्यवादी तपोधनः।
महर्षिः परमामर्षी नियमैर्दुष्पधर्षणः॥१२॥

तस्य तस्मिन्वने पुत्रो बालः षोडशवार्षिकः।
प्रनष्टो जीवितान्ताय क्रुद्धस्तत्र महामुनिः॥१३॥

तेन धर्मात्मना शप्तं कृत्स्नं तत्र महद्वनम्।
अशरण्यं दुराधर्षं मृगपक्षिविवर्जितम्॥१४॥

तस्य ते काननान्तांश्च गिरीणां कन्दराणि च।
प्रभवानि नदीनां च विचिन्वन्ति समाहिताः ॥१५॥

तत्र चापि महात्मानो नापश्यञ्जनकात्मजाम्।
हर्तारं रावणं चापि सुग्रीवप्रियकारिणः॥१६॥

ते प्रविश्य तु तं भीमं लतागुल्मसमावृतम्।
ददृशुः क्रूरकर्माणमसुरं सुरनिर्भयम्॥१७॥

तं दृष्ट्वा वानरा घोरं स्थितं शैलमिवापरम्।
गाढं परिहिताः सर्वे दृष्ट्वा तं पर्वतोपमम्॥१८॥

सोऽपि मारीचतनयः सद्यः प्राप्तानमन्यत।
अथैनान् त्रासदीप्ताक्षान् समवेतानभिद्रवत् ॥१९ ॥

सोऽपि तान्वानरान्सर्वान्नष्टाः स्थेत्यब्रवीद्वली।
अभ्यधावत संक्रुद्धो मुष्टिमुद्यम्य संहितम्॥२०॥

तमापतन्तं सहसा वालिपुत्रोऽङ्गदस्तदा।
रावणोऽयमिति ज्ञात्वा तलेनाभिजघान ह॥ २१॥

स वालिपुत्राभिहतो वक्त्राच्छोणितमुद्वमन्।
असुरोऽभ्यपतद्भूमौ पर्यस्त इव पर्वतः॥२२॥

तेऽपि तस्मिन्निरुच्छ्वासे वानरा जितकाशिनः।
व्यचिन्वन्प्रायशस्तत्र सर्वं तद्भिरिगह्वरम्॥२३॥

विचितं तु ततः कृत्वा सर्वे ते काननं पुनः।
अन्यदेवापरं घोरं विविशुर्गिरिगह्वरम्C॥२४॥

ते विचित्य पुनः खिन्ना विनिष्पत्य समागताः।
एकान्ते वृक्षमूले तु निषेदुर्दीनमानसाः॥२५॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकी ये आदिकाव्ये
किष्किन्धाकाण्डे अष्टचत्वारिंशः सर्गः ॥

आदितः श्लोकाः 11267
किष्किन्धाकाण्डेश्लोकाः आदितः 2015

<MISSING_FIG href="../books_images/U-IMG-1707889878Screenshot(12"/>.png)

एकोनपञ्चाशः सर्गः ॥ ४९ ॥

अङ्गदाज्ञया रजतपर्वतादिष्वन्वेषणम् ॥

अथाङ्गदस्तदा सर्वान्वानरानिदमब्रवीत्।
परिश्रान्तो महाप्राज्ञः समाश्वास्य शनैर्वचः॥१ ॥

वनानि गिरयो नद्यो दुर्गाणि गहनानि च।
दरीगिरिगुहाश्चैव विचितानि समन्ततः॥२॥

तत्र तत्र सहास्माभिर्जानकी न च दृश्यते।
तद्वा रक्षो हृता येन सीता सुरसुतोपमा॥३॥

कालश्च नो महान्यातः सुग्रीवश्चोग्रशासनः।
तस्माद्भवन्तः सहिता विचिन्वन्तु समन्ततः॥४॥

विहाय तन्द्रीं शोकं च निद्रां चैव समुत्थिताम्।
विचिनुध्वं यथा सीतां पश्यामो जनकात्मजाम् ॥५॥

अनिर्वेदं च दाक्ष्यं च मनसश्चापराजयम्।
कार्यसिद्धिकराण्याहुस्तस्मादेतद्रवीम्यहम्॥६॥

अद्यापि तद्वनं दुर्गं विचिन्वन्तु वनौकसः।
खेदं त्यक्त्वा पुनः सर्वैर्वनमेतद्विचीयताम्॥७॥

अवश्यं क्रियमाणस्य दृश्यते कर्मणः फलम्।
अलं निर्वेदमागम्य न हि नोन्मीलनं क्षमम्॥८॥

सुग्रीवः कोपनो राजा तीक्ष्णदण्डश्च वानरः।
भेतव्यं तस्य सततं रामस्य च महात्मनः॥९॥

हितार्थमेतदुक्तं वः क्रियतां यदि रोचते।
उच्यतां वा क्षमं यन्त्रः सर्वेषामेव वानराः॥१०॥

अङ्गदस्य वचः श्रुत्वा वचनं गन्धमादनः।
उवाचाव्यक्तया वाचा पिपासाश्रमखिन्नया ॥११॥

सदृशं खलु वो वाक्यमङ्गदो यदुवाच ह।
हितं चैवानुरूपं च क्रियतामस्य भाषितम्॥१२॥

पुनर्मार्गामहै शैलान्कन्दरांश्च दरींस्तथा।
काननानि च शून्यानि गिरिप्रस्रवणानि च ॥१३॥

यथोद्दिष्टानि सर्वाणि सुग्रीवेण महात्मना।
विचिन्वन्तु वनं सर्वे गिरिदुर्गाणि सर्वशः॥१४॥

ततः समुत्थाय पुनर्वानरास्ते महाबलाः।
विन्ध्यकाननसङ्कीर्णं विचेरुदक्षिणां दिशम्॥१५॥

ते शारदाभ्रप्रतिमं श्रीमद्रजतपर्वतम्।
शृङ्गवन्तं दरीमन्तमधिरुह्य च वानराः॥१६॥

तत्र लोध्रवनं रम्यं सप्तपर्णवनानि च।
व्यचिन्वंस्ते हरिवराः सीतादर्शनकाङ्क्षिणः॥१७॥

तस्याग्रमधिरूढास्ते श्रान्ता विपुलविक्रमाः।
न पश्यन्ति स्म वैदेहीं रामस्य महिषीं प्रियाम् ॥१८॥

ते तु दृष्टिगतं कृत्वा तं शैलं बहुकन्दरम्।
अवारोहन्त हरयो वीक्षमाणास्ततस्ततः॥१९॥

अवरुह्य ततो भूमिं श्रान्ता विगतचेतसः।
स्थित्वा मुहूर्ते तत्राथ वृक्षमूलमुपाश्रिताः॥२०॥

ते मुहूर्त समाश्वस्ताः किश्चिद्भग्नपरिश्रमाः।
पुनरेवोद्यताः कृत्स्त्रां मार्गितुं दक्षिणां दिशम् ॥२१॥

हनुमत्प्रमुखास्ते तु प्रस्थिताः प्लवगर्षभाः।
विन्ध्यमेवादितस्तावद्विचेरूस्ते ततस्ततः॥२२॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये
किष्किन्धाकाण्डे एकोनपञ्चाशः सर्गः ॥

आदितः श्लोकाः 11289
किष्किन्धाकाण्डे आदितः श्लोकाः 2037

<MISSING_FIG href="../books_images/U-IMG-1707899678Screenshot(12"/>.png)

पञ्चाशः सर्गः ॥५०॥

ऋक्षबिलप्रवेशः स्वयंप्रभादर्शनं च ॥

सह ताराङ्गदाभ्यां तु सङ्गम्य हनुमान्कपिः।
विचिनोति स्म विन्ध्यस्य गुहाश्च गहनानि च ॥१॥

सिंहशार्दूलजुष्टेषु शिलाश्च सरितस्तथा।
विषमेषु नगेन्द्रस्य महाप्रस्रवणेषु च॥२॥

आसेदुस्तस्य शैलस्य कोटिं दक्षिणपश्चिमाम्।
तेषां तत्रैव वसतां स कालोऽप्यत्यवर्तत॥३॥

स हि देशो दुरन्वेषो गुहागहनवान्महान्॥४॥

तत्र वायुसुतः सर्वं विचिनोति स्म पर्वतम्।
परस्परेण हनुमानन्योन्यस्याविदूरतः॥५॥

गजो गवाक्षो गवयः शरभो गन्धमादनः।
मैन्दश्च द्विविदश्चैव सुषेणो जाम्बवान्नलः॥६॥

अङ्गदो युवराजश्च तारश्च वनगोचरः।
गिरिजालावृतान्देशान्मार्गित्वा दक्षिणां दिशम्
विचिन्वन्तस्ततस्तत्र ददृशुर्विवृतं बिलम्॥७॥

दुर्गमृक्षबिलं नाम दानवेनाभिरक्षितम्।
क्षुत्पिपासापरीतास्तु श्रान्ताश्च सलिलार्थिनः॥
अवकीर्ण लतावृक्षैर्ददृशुस्ते महाबिलम्॥८॥

ततः क्रौञ्चाश्च हंसाश्च सारसाश्चापि निष्क्रमन्।
जलार्द्राश्चक्रवाकाश्च रक्ताङ्गाः पद्मरेणुभिः॥९॥

ततस्तद्विलमासाद्य सुगन्धि दुरतिक्रमम्।
विस्मयव्यग्रमनसो बभूवुर्वानरर्षभाः॥१०॥

संजातपरिशङ्कास्ते तद्विलं प्लवगोत्तमाः।
अभ्यपद्यन्नसंहृष्टास्तेजोवन्तो महाबलाः॥११॥

नानासत्त्वसमाकीर्णं दैत्येन्द्रनिलयोपमम्।
दुर्दर्शमतिघोरं च दुर्विगाह च सर्वशः॥१२ ॥

ततः पर्वतकूटाभो हनुमान्पवनात्मजः।
अब्रवीद्वानरान्सर्वान्कान्तारवनकोविदः॥१३॥

गिरिजालावृतान्देशान्मार्गित्वा दक्षिणां दिशम्।
वयं सर्वे परिश्रान्ता न च पश्याम मैथिलीम् ॥१४॥

अस्माच्चापि बिलाद्धंसाः क्रौञ्चाश्च सह सारसैः।
जलार्द्राश्चक्रवाकाश्च निष्पतन्ति स्म सर्वशः ॥१५॥

नूनं सलिलवानत्र कूपो वा यदि वा हूदः।
तथा चेमे बिलद्वारे स्निग्धास्तिष्ठन्ति पादपाः ॥१६॥

इत्युक्त्वा तद्विलं सर्वे विविशुस्तिमिरातृतम्।
अचन्द्रसूर्यं हरयो ददृशू रोमहर्षणम्॥१७ ॥

निशाम्य तस्मात्सिंहांश्च व्याघ्रांश्च मृगपक्षिणः।
प्रविष्टा हरिशार्दूला बिलं तिमिरसंवृतम्॥१८॥

न तेषां सज्जते चक्षुर्न तेजो न पराक्रमः।
चायोरिव गतिस्तेषां दृष्टिस्तमसि वर्तते॥१९॥

ते प्रविष्टास्तु वेगेन तद्धिलं कपिकुञ्जराः।
प्रकाशमभिरामं च ददृशुर्देशमुत्तमम्॥२०॥

ततस्तस्मिन्बिले दुर्गे नानादपसंकुले।
अन्योन्यं संपरिष्वज्य जम्मुर्योजनमन्तरम्॥२१ ॥

ते नष्टसंज्ञास्तृषिताः संभ्रान्ताः सलिलार्थिनः।
परिपेतुर्बिले तस्मिन् कञ्चित्कालमतन्द्रिताः ॥२२॥

ते कृशा दीनवदनाः परिश्रान्ताः प्लवङ्गमाः।
आलोकं ददृशुर्वीरा निराशा जीविते तदा ॥२३॥

ततस्तं देशमागम्य सौम्यं वितिमिरं वनम्।
ददृशुः काञ्चनान्वृक्षान्दीप्तवैश्वानरप्रभान्॥२४॥

सालांस्तालांश्च पुन्नागान्ककुभान्वञ्जुलान्धवान्।
चम्पकानागवृक्षांश्च कर्णिकारांश्च पुष्पितान् ॥२५॥

स्तबकैः काञ्चनैश्चित्रै रक्तैः किसलयैस्तथा।
आपीडैश्च लताभिश्च हेमाभरणभूषितान्॥२६॥

तरुणादित्यसङ्काशान्वैडूर्यमयवेदिकान्।
विभ्राजमानान्वपुषा पादपांश्च हिरण्मयान्॥२७॥

नीलवैडूर्यवर्णाश्च पद्मिनीः पतगावृताः।
महद्भिः काञ्चनैः पद्मैर्वृता बालार्कसंनिभैः॥२८॥

जातरूपमयैर्मत्स्यैर्महद्भिश्च सकच्छपैः।
नलिनीस्तत्र ददृशुः प्रसन्नसलिलायुताः॥ २९॥

काञ्चनानि विमानानि राजतानि तथैव च।
तपनीयगवाक्षाणि मुक्ताजालावृतानि च॥३०॥

हेमराजतभौमानि वैडूर्यमणिमन्ति च।
ददृशुस्तत्र हरयो गृहमुख्यानि सर्वशः॥३१॥

पुष्पितान्फलिनो वृक्षान्प्रवालमणिसंनिभान्।
काञ्चनभ्रमरांश्चैव वधूनि च समन्ततः॥३२॥

मणिकाञ्चनचित्राणि शयनान्यासनानि च।
महार्हाणि च यानानि ददृशुस्ते समन्ततः ॥३३॥

हैमराजतकांस्यानां भाजनानां च सञ्चयान्।
अगरूणां च दिव्यानां चन्दनानां च सञ्चयान् ॥३४॥

शुचीन्यभ्यवहार्याणि मूलानि च फलानि च।
महार्हाणि च पानानि मधूनि रसवन्ति च॥३५॥

दिव्यानामम्बराणां च महार्हाणां च सञ्चयान्।
कम्बलानां च चित्राणामजिनानां च सञ्चयान् ॥३६॥

तत्र तत्र च विन्यस्तान्दीप्तान्वैश्वानरोपमान्।
ददृशुर्वानराः शुभ्राञ्जातरूपस्य सञ्चयान्॥३७॥

तत्र तत्र विचिन्वन्तो बिले तस्मिन्महाबलाः।
ददृशुर्वानराः शूराः स्त्रियं काञ्चिददूरतः॥३८॥

तां दृष्ट्वा हरयस्तत्र चीरकृष्णाजिनाम्बराम्।
तापसीं नियताहारां ज्वलन्तीमिव तेजसा॥३९॥

विस्मिता हरयस्तत्र व्यवातिष्ठन्त सर्वशः॥४०॥

ततो हनुमान् गिरिसन्निकाशः
कृताञ्जलिस्तामभिवाद्य वृद्धाम्।
पप्रच्छ का त्वं भवनं बिलं च
रत्नानि चैतानि वदस्य कस्य॥४१॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये
किष्किन्धाकाण्डे पञ्चाशः सर्गः ॥

आदितः श्लोकाः 11330
किष्किन्धाकाण्डे आदितः श्लोकाः 2078

इति पुरा कुशलवाभ्यां श्रीरामसन्निधावश्वमेधयज्ञवाटे गीते
श्रीमद्रामायणे पञ्चदशेऽह्नि वर्तमानकथाप्रसङ्गः

<MISSING_FIG href="../books_images/U-IMG-1707974146Screenshot(12"/>.png)

[पुरा कुशलवाभ्यां श्रीरामसन्निधौ अश्वमेधयशवाटे
षोडशेऽह्नि किष्किन्धाकाण्डे एकपञ्चाशसर्गमारभ्य
सप्तषष्टितमसर्गपर्यन्तं (11331 –11790 श्लोकाः)
गीतम्। तस्मिन् दिने गीताः श्लोकाः 460.]

एकपञ्चाशः सर्गः ॥ ५१ ॥

स्वयंप्रभाकृतमातिथ्यम् ॥

इत्युक्त्वा हनुमांस्तत्र पुनः कृष्णाजिनाम्बराम्।
अब्रवीत्तां महाभागां तापसीं धर्मचारिणीम्॥१॥

इदं प्रविष्टाः सहसा बिलं तिमिरसंवृतम्।
क्षुत्पिपासापरिश्रान्ताः परिखिन्नाश्च सर्वशः॥
महद्धरण्या विवरं प्रविष्टाः स्म पिपासिताः॥२॥

इमांस्त्वेवंविधान्भावान्विविधानद्भुतोमान्।
दृष्ट्वा वयं प्रव्यथिताः संभ्रान्ता नष्टचेतसः॥३॥

कस्येमे काञ्चना वृक्षास्तरुणादित्यसन्निभाः।
इमे जाम्बूनदमयाः पादपाः कस्य तेजसा॥४॥

शुचीन्यभ्यवहार्याणि मूलानि च फलानि च।
काञ्चनानि विमानानि राजतानि गृहाणि च॥५॥

तपनीयगवाक्षाणि मणिजालावृतानि च।
काञ्चनानि च पद्मानि जातानि विमले जले॥६॥

कथं मत्स्याश्च सौवर्णाश्चरन्ति सह कच्छपैः॥७॥

आत्मानमनुभावं च कस्य चैतत्तपोबलम्।
अजानतां नः सर्वेषां सर्वमाख्यातुमर्हसि॥८॥

एवमुक्ता हनुमता तापसी धर्मचारिणी।
प्रत्युवाच हनूमन्तं सर्वभूतहिते रता॥९॥

मयो नाम महातेजा मायावी दानवर्षभः।
तेनेदं निर्मितं सर्वं मायया काञ्चनं वनम्॥१०॥

पुरा दानवमुख्यानां विश्वकर्मा बभूव ह।
येनेदं काञ्चनं दिव्यं निर्मितं भवनोत्तमम्॥११॥

स तु वर्षसहस्राणि तपस्तप्त्वा महावने।
पितामहाद्वरं लेभे सर्वमौशनसं धनम्॥१२॥

वनं विधाय बलवान्सर्वकामेश्वरस्तदा।
उवास सुखितः कालं कञ्चिदस्मिन्महावने ॥१३॥

तमप्सरसि हेमायां सक्तं दानवसत्तमम्।
विक्रम्यैवाशनिं गृह्य जघानेशः पुरन्दरः॥१४॥

इदं च ब्रह्मणा दत्तं हेमायै वनमुत्तम्।
शाश्वताः कामभोगाश्च गृहं चेदं हिरण्मयम् ॥१५॥

दुहिता मेरुसावर्णेरहं तस्याः स्वयंप्रभा।
इदं रक्षामि भवनं हेमाया वानरोत्तम॥ ६ ॥

मम प्रियसखी हेमा नृत्तगीतविशारदा।
तया दत्तवरा चास्मि रक्षामि भवनोत्तमम्॥१७॥

किं कार्य कस्य वा हेतोः कान्ताराणि प्रपश्यथ।
कथं चेदं वनं दुर्ग युष्माभिरुपलक्षितम्॥१८॥

इमान्यभ्यवहार्याणि मूलानि च फलानि च।
भुक्त्वा पीत्वा च पानीयं सर्वं मे वक्तुमर्हथ॥१९॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये
किष्किन्धाकाण्डे एकपञ्चाशः सर्गः ॥

आदितः श्लोकाः 11349
किष्किन्धाकाण्डे आदितः श्लोकाः 2097

<MISSING_FIG href="../books_images/U-IMG-1707986536Screenshot(12"/>.png)

द्विपञ्चाशः सर्गः ॥ ५२ ॥

बिलप्रवेशकारणकथनम् ॥

अथ तानब्रवीत्सर्वान्विश्रान्तान् हरियूथपान्।
इदं वचनमेकाग्रा तापसी धर्मचारिणी॥१॥

वानरा यदि वः खेदः प्रनष्टः फलभक्षणात्।
यदिचैतन्मया श्राव्यं श्रोतुमिच्छामि कथ्यताम् ॥ २ ॥

तस्यास्तद्वचनं श्रुत्वा हनुमान्मारुतात्मजः।
आर्जवेन यथातत्त्वमाख्यातुमुपचक्रमे॥३॥

राजा सर्वस्य लोकस्य महेन्द्रवरुणोपमः।
रामो दाशरथिः श्रीमान् प्रविष्टो दण्डकावनम् ॥
लक्ष्मणेन सह भ्रात्रा वैदेह्या चापि भार्यया॥४॥

तस्य भार्या जनस्थानाद्रावणेन हृता बलात्॥५॥

वीरस्तस्य सखा राज्ञः सुग्रीवो नाम वानरः \।
राजा वानरमुख्यानां येन प्रस्थापिता वयम्॥६॥

अगस्त्यचरितामाशां दक्षिणां यमरक्षिताम्।
सहैभिर्वानरैर्मुख्यैरङ्गदप्रमुखैर्वयम्॥७॥

रावणं सहिताः सर्वे राक्षसं कामरूपिणम्।
सीतया सह वैदेह्या मार्गध्वमिति चोदिताः॥८॥

विचित्य तु वयं सर्वे समग्रां दक्षिणां दिशम्।
बुभुक्षिताः परिश्रान्ता वृक्षमूलमुपाश्रिताः॥९॥

विवर्णवदनाः सर्वे सर्वे ध्यानपरायणाः।
नाधिगच्छामहे पारं मग्नाश्चिन्तामहार्णवे॥१०॥

चारयन्तस्ततश्चक्षुर्दृष्टवन्तो वयं बिलम्।
लतापादपसंच्छन्नं तिमिरेण समावृतम्॥११॥

अस्माद्धंसा जलक्लिन्नाः पक्षैः सलिलविस्रवैः।
कुरराः सारसाश्चैव निष्पतन्ति पतत्रिणः॥१२॥

साध्वत्र प्रविशामेति मया तुक्ताः लवङ्गमाः॥१३॥

तेषामपि हि सर्वेषामनुमानमुपागतम्।
गच्छाम प्रविशामेति भर्तृकार्यत्वरान्विताः॥१४॥

ततो गाढं निपतिता गृह्य हस्तौ परस्परम्।
इदं प्रविष्टाः सहसा बिलं तिमिरसंवृतम्॥१५ ॥

एतन्नः कार्यमेतेन कृत्येन वयमागताः॥१६॥

आतिथ्यधर्मदत्तानि मूलानि च फलानि च।
अस्माभिरुपभुक्तानि बुभुक्षापरिपीडितैः॥१७॥

यत्त्वया रक्षिताः सर्वे म्रियमाणा बुभुक्षया।
व्रूहि प्रत्युपकारार्थं किं ते कुर्वन्तु वानराः॥१८॥

एवमुक्ता तु सर्वज्ञा वानरैस्तैः स्वयंप्रभा।
प्रत्युवाच ततः सर्वानिदं वानरयूथपान्॥१९॥

सर्वेषां परितुष्टाऽस्मि वानराणां तरस्विनाम्।
चरन्त्या मम धर्मेण न कार्यमिह केनचित्॥२०॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये
किष्किन्धाकाण्डे द्विपञ्चाशः सर्गः ॥

आदितः श्लोकाः 11369
किष्किन्धाकाण्डे आदितः श्लोकाः 2117

त्रिपञ्चाशः सर्गः ॥ ५३ ॥

प्रायोपवेशनिर्धारणम् ॥

एवमुक्तः शुभं वाक्यं तापस्या धर्मसंहितम्।
उवाच हनुमान्वाक्यं तामनिन्दितचेष्टिताम्॥१॥

शरणं त्वां प्रपन्नाः स्मः सर्वे वै धर्मचारिणि।
यः कृतः समयोऽस्माकं सुग्रीवेण महात्मना॥२॥

स तु कालो व्यतिक्रान्तो बिले च परिवर्तताम्।
सा त्वमस्माद्विलाद्धोरादुत्तारयितुमर्हसि॥३॥

तस्मात्सुग्रीववचनादतिक्रान्तान्गतायुषः।
त्रातुमर्हसि नः सर्वान्सुग्रीवभयशङ्कितान्॥४॥

महच्च कार्यमस्माभिः कर्तव्यं धर्मचारिणि।
तच्चापि न कृतं कार्यमस्माभिरिह वासिभिः॥५॥

एवमुक्ता हनुमता तापसी वाक्यमब्रवीत्॥६॥

जीवता दुष्करं मन्ये प्रविष्टेन निवर्तितुम्॥७॥

तपसस्तु प्रभावेन नियमोपार्जितेन च।
सर्वानेव बिलादस्मादुद्धरिष्यामि वानरान्॥८॥

निमीलयत चक्षूंषि सर्वे वानरपुङ्गवाः।
न हि निष्क्रमितुं शक्यमनिमीलितलोचनैः॥९॥

ततः संमीलिताः सर्वे सुकुमाराङ्गलैः करैः।
सहसाऽपिदधुर्दृष्टिं हृष्टा गमनकाङ्क्षिणः॥१०॥

वानरास्तु महात्मानो हस्तरुद्धमुखास्तदा।
निमेषान्तरमात्रेण बिलादुत्तारितास्ताया॥११॥

ततस्तान्वानरान्सर्वंस्तापसी धर्मचारिणी।
निःसृतान्विषमात्तस्मात्समाश्वास्येदमब्रवीत्॥१२॥

एष विन्ध्यो गिरिः श्रीमान्नानाद्रुमलताकुलः।
एष प्रस्रवणः शैलः सागरोऽयं महोदधिः॥१३॥

स्वस्ति वोऽस्तु गमिष्यामि भवनं वानरर्षभाः।
इत्युक्त्वा तद्विलं श्रीमत्प्रविवेश स्वयंप्रभा॥ १४ ॥

ततस्ते दहशुघरं सागरं वरुणालयम्।
अपारमभिगर्जन्तं घोरैरूर्मिभिरावृतम्॥१५॥

मयस्य मायाविहितं गिरिदुर्गं विचिन्वतांम्।
तेषां मासो व्यतिक्रान्तो यो राज्ञा समयः कृतः ॥१६॥

विन्ध्यस्य तु गिरेः पादे संप्रपुष्पितपादपे।
उपविश्य महात्मानचिन्तामापेदिरे तदा॥१७॥

ततः पुष्पातिभाराग्रांल्लताशतसमावृतान्।
द्रुमान्वासन्तिकान् दृष्ट्वा बभूवुर्भयशङ्किताः ॥१८॥

ते वसन्तमनुप्राप्तं प्रतिबुद्धवा परस्परम्।
नष्टसंदेशकालर्था निपेतुर्धरणीतले॥१९॥

ततस्तान्कपिवृद्धांस्तु शिष्टांश्चैव वनौकसः।
वाचा मधुरयाऽऽभाष्य यथावदनुमान्य च॥२०॥

स तु सिंहवृषस्कन्धः पीनायतभुजः कपिः।
युवराजो महाप्राज्ञ अङ्गदों वाक्यमब्रवीत्॥२१॥

शासनात्कपिराजस्य वयं सर्वे विनिर्गताः।
मासः पूर्णो बिलस्थानां हरयः किं न बुध्यते ॥२२॥

वयमाश्वयुजे मासि कालसंख्याव्यवस्थिताः।
प्रस्थिताः सोऽपि चातीतः किमतः कार्यमुत्तरम् ॥२३॥

भवन्तः प्रत्ययं प्राप्ता नीतिमार्गविशारदाः।
हितेष्वभिरता भर्तुर्निर्विष्टाः सर्वकर्मसु॥२४॥

कर्मस्वप्रतिमाः शूरा दिक्षु विश्रुतपौरुषाः।
मां पुरस्कृत्य निर्याताः पिङ्गाक्षेशप्रचोदिताः॥२५ ॥

इदानीमकृतार्थानां मर्तव्यं नात्र संशयः।
हरिराजस्य संदेशमकृत्वा कः सुखी भवेत् ॥२६ ॥

तस्मिन्नतीते काले तु सुग्रीवेण कृते स्वयम्।
प्रायोपवेशनं युक्तं सर्वेषां च वनौकसाम्॥२७॥

तीक्ष्णः प्रकृत्या सुग्रीवः स्वामिभावे व्यवस्थितः।
न क्षमिष्यति नः सर्वानपराधकृतो गतान्॥२८॥

अप्रवृत्तौ च सीतायाः पापमेव करिष्यति।
तस्मात्क्षममिहाद्यैव हितं प्रायोपवेशनम्॥
त्यक्त्वा पुत्रांश्च दारांश्च धनानि च गृहाणि च ॥२९॥

यावत्रो घातयेद्राजा सर्वान् प्रतिगतानितः।
वधेनाप्रतिरूपेण श्रेयान् मृत्युरिहैव नः॥३०॥

न चाहं यौवराज्येन सुग्रीवेणाभिषेचितः।
नरेन्द्रेणाभिषिक्तोऽस्मि रामेणाक्लिष्टकर्मणा॥३१॥

स पूर्वं बद्धवैरो मां राजा दृष्ट्वा व्यतिक्रमम्।
घातयिष्यति दण्डेन तीक्ष्णेन कृतनिश्चयः॥३२॥

किं मे सुहृद्भिर्व्यसनं पश्यद्भिर्जीवितान्तरे।
इहैव प्रायमासिष्ये पुण्ये सागररोघसि॥३३॥

एतच्छ्रुत्वा कुमारेण युवराजेन भाषितम्।
सर्वे ते वानरश्रेष्ठाः करुणं वाक्यमब्रुवन्॥३४॥

तीक्ष्णः प्रकृत्या सुग्रीवः प्रियारक्तश्च राघवः।
समीक्ष्याकृतकार्योस्तु तस्मिंश्च समये गते॥
अदृष्टायां तु वैदेह्यां दृष्ट्वास्मांश्च समागतान्॥ ३५ ॥

राघवप्रियकामार्थं घातयिष्यत्यसंशयम्।
न क्षमं चापराद्धानां गमनं स्वामिपार्श्वतः॥३६॥

इहैव सीतामन्विष्य प्रवृत्तिमुपलभ्य च।
नो चेद्रच्छाम तं वीरं गमिष्यामो यमक्षयम् ॥३७॥

प्लवङ्गमानां तु भयार्दितानां श्रुत्वा वचस्तार इदं बभाषे।
अलं विषादेन बिलं प्रविश्य वसाम सर्वे यदि रोचते वः॥

हृदं हि मायाविहितं सुदुर्गमं प्रभूतवृक्षोदकभोज्यपेयकम्।
इहास्ति नो नैव भयं पुरन्दरान्न राघवाद्वानरराजतोऽपि वा॥

श्रुत्वाऽङ्गस्यापि वचोऽनुकूलमृचुश्च सर्वे हरयः प्रतीताः।
यथा न हिंस्येम तथा विधानमसक्तमद्यैव विधीयतां नः॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये
किष्किन्धाकाण्डे त्रिपञ्चाशः सर्गः ॥

आदितः श्लोकाः 11409
किष्किन्धाकाण्डे आदितः श्लोकाः 2157

<MISSING_FIG href="../books_images/U-IMG-1707988898Screenshot(12"/>.png)

चतुःपञ्चाशः सर्गः ॥५४॥

हनुमताऽङ्गन्दभीषणम् ॥

तथा ब्रुवति तारे तु ताराधिपतिवर्चसि।
अथ मेने हृतं राज्यं हनुमानङ्गदेन तत्॥१॥

बुद्ध्या ह्यष्टाङ्गया युक्तं चतुर्बलसमन्वितम्।
चतुर्दशगुणं मेने हनुमान्वालिनः सुतम्॥२॥

आपूर्यमाणं शश्वच्च तेजीबलपराक्रमैः।
शशिनं शुक्लपक्षादौ वर्धमानमिव श्रिया॥३॥

बृहस्पतिसमं बुद्ध्या विक्रमे सदृशं पितुः।
शुश्रूषमाणं तारस्य गुरोवि पुरन्दरम्॥४॥

भर्तुरर्ये परिश्रान्तं सर्वशास्त्रविशारदम्।
अभिंसधातुमारेभे हनुमानङ्गदं ततः॥५॥

स चतुर्णामुपायानां तृतीयमुपवर्णयन्।
दयामास तान्सर्वान्वानरान्वाक्यसंपदा॥६॥

तेषु सर्वेषु भिन्नेषु ततोऽभीषयदङ्गदम्।
भीषणैर्बहुभिर्वाक्यैः कोपोपायसमन्वितैः॥७॥

त्वं समर्थतरः पित्रा युद्धे तारेय वै धुरम्।
दृढं धारयितुं शक्तः कपिराज्यं यथा पिता॥८॥

नित्यमस्थिरचित्ता हि कपयो हरिपुङ्गव।
नाज्ञाप्यं विसहिष्यन्ति पुत्रदारान्विना त्वया॥९॥

त्वां नैते ह्यनुयुञ्जेयुः प्रत्यक्षं प्रवदामि ते।
यथायं जाम्बवान्नीलः सुहोत्रश्च महाकपिः॥१०॥

न ह्यहं त इमे सर्वे सामदानादिभिर्गुणैः।
दण्डेन वा त्वया शक्याः सुग्रीवादपकर्षितुम् ॥११ ॥

विगृह्यासनमप्याहुर्दुर्बलेन बलीयसः।
आत्मरक्षाकरस्तस्मान्न विगृह्णीत दुर्बलः॥१२ ॥

यां चेमां मन्यसे धात्रीमेतद्विलमिति श्रुतम्।
एतल्लक्ष्मणबाणानामीषत्कार्य विदारणे॥१३॥

स्वल्पं हि कृतमिन्द्रेण क्षिपता ह्यशनिं पुरा।
लक्ष्मणो निशितैर्बाणैर्भिन्द्यात्पत्रपुटं यथा॥१४॥

लक्ष्मणस्य च नाराचा बहवः सन्ति तद्विधाः।
वज्राशनिसमस्पर्शा गिरीणामपि दारणाः॥१५॥

अवस्थाने यदैव त्वमासिष्यसि परंतप।
तदैव हरयः सर्वे त्यक्ष्यन्ति कृतनिश्चयाः ॥१६ ॥

स्मरन्तः पुत्रदाराणां नित्योद्विग्ना बुभुक्षिताः।
खेदिता दुःखशय्याभिस्त्वां करिष्यन्ति पृष्ठतः ॥१७॥

स त्वं हीनः सुहृद्भिश्च हितकामैश्च बन्धुभिः।
तृणादपि भृशोद्विग्नः स्पन्दमानाद्भविष्यसि॥१८॥

न च जातु न हिंस्युस्त्वां घोरा लक्ष्मणसायकाः।
अपावृत्तं जिघांसन्तो महावेगा दुरासदाः॥१९॥

अस्माभिस्तु गतं सार्धं विनीतवदुपस्थितम्।
आनुपूर्व्यात्तु सुग्रीवो राज्ये त्वां स्थापयिष्यति ॥२०॥

धर्मकामः पितृव्यस्ते प्रीतिकामो दृढव्रतः।
शुचिः सत्यप्रतिज्ञश्च न त्वां जातु जिघांसति ॥२१॥

प्रियकामश्च ते मातुस्तदर्थं चास्य जीवितम्।
तस्यापत्यं च त्यस्त्यत्तसदिङ्गदगम्यताम् ॥२२॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये
किष्किन्धाकाण्डे चतुःपञ्चाशः सर्गः ॥

आदितः श्लोकाः 11431
किष्किन्धाकाण्डे आदितः श्लोकाः 2179

<MISSING_FIG href="../books_images/U-IMG-1707988180Screenshot(12"/>.png)

पञ्चपञ्चाशः सर्गः ॥ ५५ ॥

वानराणां प्रायोपवेशः ॥

श्रुत्वा हनुमतो वाक्यं प्रश्रितं धर्मसंहितम्।
स्वामिसत्कारसंयुक्तमङ्गदो वाक्यमब्रवीत्॥१॥

स्थैर्यमात्ममनःशौचमानृशंस्यमथार्जवम्।
विक्रमञ्चैव धैर्य च सुग्रीवे नोपपद्यते॥२॥

भ्रातुर्येष्ठस्य यो भार्यां जीवतो महिषीं प्रियाम्।
धर्मेण मातरं यस्तु स्वीकरोति जुगुप्सितः॥ ३ ॥

कथं स धर्मं जानीते येन भ्रात्रा दुरात्मना।
युद्धायाभिनियुक्तेन बिलस्य पिहितं सुखम्॥४॥

सत्यात्पाणिगृहीतश्च कृतकर्मा महायशाः।
विस्मृतो राघवो येन स कस्य तु कृतं स्मरेत् ॥५॥

लक्ष्मणस्य भयाद्येन नाधर्मभयभीरुणा।
आदिष्टा मार्गितुं सीतां धर्मस्तस्मिन्कथं भवेत् ॥६॥

तस्मिन्पापे कृतघ्ने तु स्मृतिहीने चलात्मनि।
आर्यः को विश्वसेज्जातु तत्कुलीनो जिजीविषुः ॥७॥

राज्ये पुत्रः प्रतिष्ठाप्यः सगुणो निर्गुणोऽपि वा।
कथं शत्रुकुलीनं मां सुग्रीवो जीवयिष्यति॥८॥

भिन्नमन्त्रोऽपराद्धश्च होनशक्तिः कथं ह्यहम्।
किष्किन्धां प्राप्य जीवेयमनाथ इव दुर्बलः॥९॥

उपांशु दण्डेन हि मां बन्धनेनोपपादयेत्।
शठः क्रूरो नृशंसश्च सुग्रीवो राज्यकारणात्॥१०॥

बन्धनाद्वाऽवसादान्मे श्रेयः प्रायोपवेशनम्।
अनुजानीत मां सर्वे गृहान् गच्छन्तु वानराः॥११॥

अहं वः प्रतिजानामि नागमिष्याम्यहं पुरीम्।
इहैव प्रायमासिष्ये श्रेयो मरणमेव मे॥१२॥

अभिवादनपूर्वं तु राघवौ बलशालिनौ।
अभिवादनपूर्वं तु राजा कुशलमेव च ॥
वाच्यस्तातो यवीयान्मे सुग्रीवो वानरेश्वरः॥१३॥

आरोग्यपूर्वं कुशलं वाच्या माता रुमा च मे॥१४॥

मातरं चैव मे तारामाश्वासयितुमर्हथ॥१५॥

प्रकृत्या प्रियपुत्रा सां सानुक्रोशा तपस्विनी।
विनष्टं मामिह श्रुत्वा व्यक्तं हास्यति जीवितम् ॥१६॥

एतावद्वचनं चोक्त्वा वृद्धानप्यभिवाद्य च।
संविवेशाङ्गदो भूमौ रुदन्दर्भेषु दुर्मनाः॥१७॥

तस्य संविशतस्तत्र रुदन्तो वानरर्षभाः।
नयनेभ्यः प्रमुमुचुरुष्णं वै वारि दुःखिताः ॥१८॥

सुग्रीवं चैव निन्दन्तः प्रशंसन्तश्च वालिनम्।
परिवार्याङ्गदं सर्वे व्यवसन् प्रायमासितुम्॥१९॥

मतं तद्वालिपुत्रस्य विज्ञाय प्लवगर्षभाः।
उपस्पृश्योदकं सर्वे प्राङ्मुखाः समुपाविशन् ॥२०॥

दक्षिणाग्रेषु दर्भेषु उदक्तीरं समाश्रिताः।
मुमूर्षवो हरिश्रेष्ठा एतत्क्षममिति स्म ह॥२१॥

रामस्य वनवासं च क्षयं दशरथस्य च।
जनस्थानवधं चैव वधं चैव जटायुषः॥२२॥

हरणं चैव वैदेह्या वालिनश्च वधं रणे।
रामकोपं च वदतां हरीणां भयमागतम्॥२३॥

एवं वदद्भिर्बहुभिर्महीधरो महाद्रिकूटप्रतिमैः प्लवङ्गमैः।
बभूव संनादितनिर्झरान्तरो भृशं नदद्भिर्जलदैरिवोल्बणैः॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये
किष्किन्धाकाण्डे पञ्चपञ्चाशः सर्गः॥

आदितः श्लोकाः 11455
किष्किन्धाकाण्डे आदितः श्लोकाः 2203

<MISSING_FIG href="../books_images/U-IMG-1707928250Screenshot(12"/>.png)

षट्पञ्चाशः सर्गः ॥५६॥

अङ्गन्दसंपातीनो संवादः ॥

उपविष्टास्तु ते सर्वे यस्मिन्प्रायं गिरिस्थले।
हरयो गृध्रराजश्व तं देशमुपचक्रमे॥१॥

संपातिर्नाम नाम्ना तु चिरञ्जीवी विहङ्गमः।
भ्राता जटायुषः श्रीमान्प्रख्यातबलपौरुषः॥२॥

कन्दरादभिनिष्क्रम्य स विन्ध्यस्य महागिरेः।
उपविष्टान्हरीदृष्टा हृष्टात्मा गिरमब्रवीत्॥३॥

विधिः किल नरं लोके विधानेनानुवर्तते।
यथाऽयं विहितो भक्ष्यचिरान्मह्यमिहागतः॥४॥

परं पराणां भक्षिष्ये वानराणां मृतं मृतम्।
उवाचैतद्वचः पक्षी तान्निरीक्ष्य प्लवङ्गमान्॥५॥

तस्य तद्वचनं श्रुत्वा भक्ष्यलुब्धस्य पक्षिणः।
अङ्गदः परमायस्तो हनुमन्तमथाब्रवीत्॥६॥

पश्य सीतापदेशेन साक्षाद्वैवस्वतो यमः।
इमं देशमनुप्राप्तो वानराणां विपत्तये॥७॥

रामस्य न कृतं कार्यं राज्ञो न च वचः कृतम्।
हरीणामियमज्ञाता विपत्तिः सहसाऽऽगता॥८॥

वैदेह्याः प्रियकामेन कृतं कर्म जटायुषा।
गृध्रराजेन यत्तत्र श्रुतं वस्तदशेषतः॥९॥

तथा सर्वाणि भूतानि तिर्यग्योनिगतान्यपि।
प्रियं कुर्वन्ति रामस्य त्यक्त्वा प्राणान्यथा वयम् ॥
अन्योन्यमुपकुर्वन्ति स्नेहकारुण्ययन्त्रिताः॥१०॥

ततस्तस्योपकारार्थं त्यजतात्मानमात्मना।
प्रियं कृतं हि रामस्य धर्मज्ञेन जटायुषा॥११॥

राघवार्थे परिश्रान्ता वयं संत्यक्तजीविताः।
कान्ताराणि प्रपन्नाः स्म न च पश्याम मैथिलीम् ॥

स सुखी गृध्रराजस्तु रावणेन हतो रणे।
मुक्तश्च सुग्रीवभयाद्वतश्च परमां गतिम्॥१३॥

जटायुषो विनाशेन राज्ञो दशरथस्य च।
हरणेन च वैदेह्याः संशयं हरयो गताः॥१४॥

रामलक्ष्मणयोर्वास अरण्ये सह सीतया।
राघवस्य च बाणेन वालिनश्च तथा वधः॥१५॥

रामकोपादशेषाणां राक्षसानां तथा वधः।
कैकेय्या वरदानेन इदं हि विकृतं कृतम्॥१६॥

तदसुखमनुकीर्तितं वचो भुवि पतितांश्च समीक्ष्य वानरान्।
भृशचलितमतिर्महामतिः कृपणमुदाहृतवान्स गृध्रराट् ॥१७॥

तत्तु श्रुत्वा तदा वाक्यमङ्गदस्य मुखोद्गतम्।
अब्रवीद्वचनं गृध्रस्तीक्ष्णतुण्डो महास्वनः॥१८॥

कोऽयं गिरा घोषयति प्राणैः प्रियतमस्य मे।
जटायुषो वधं भ्रातुः कम्पयन्निव मे मनः॥१९॥

कथमासीज्जनस्थाने युद्धं राक्षसगृध्रयोः।
नामधेयमिदं भ्रातुश्चिरस्याद्य मया श्रुतम्॥२०॥

इच्छेयं गिरिदुर्गाच्च भवद्भिरवतारितुम्॥२१॥

यवीयसो गुणज्ञस्य श्लाघनीयस्य विक्रमैः।
अतितीर्घस्य कालस्य परितुष्टोऽस्मि कीर्तनात् ॥२२॥

तदिच्छेयमहं श्रोतुं विनाशं वानरर्षभाः।
भ्रातुर्जटायुषस्तस्य जनस्थाननिवासिनः॥२३॥

तस्यैव च मम भ्रातुः सखा दशरथः कथम्।
यस्य रामः प्रियः पुत्रो ज्येष्ठो गुरुजनप्रियः॥२४॥

सूर्योशुदग्धपक्षत्वान्न शक्नोम्युपसर्पितुम्।
इच्छेयं पर्वतादस्मादवतर्तुमरिन्दमाः॥२५॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये
किष्किन्धाकाण्डे षट्पञ्चाशः सर्गः ॥

आदितः श्लोकाः 11480
किष्किन्धाकाण्डे आदितः श्लोकाः 2228

<MISSING_FIG href="../books_images/U-IMG-1707929379Screenshot(12"/>.png)

सप्तपञ्चाशः सर्गः ॥ ५७ ॥

निखिलरामवृत्तान्तकथनम् ॥

शोकाद्भष्टस्वरमपि श्रुत्वा ते हरियूथपाः।
श्रद्दधुर्नैव तद्वाक्यं कर्मणा तस्य शङ्किताः॥१॥

ते प्रायमुपविष्टास्तु दृष्ट्वा गृध्रं प्लवङ्गमाः।
चक्रुर्बुद्धिं तदा रौद्रां सर्वान्नो भक्षयिष्यति॥२॥

सर्वथा प्रायमासीनान्यदि नो भक्षयिष्यति।
कृतकृत्या भविष्यामः क्षिप्रं सिद्धिमितो गताः ॥३॥

एतां बुद्धिं ततश्चक्रुः सर्वे ते वानरर्षभाः।
अवतार्य गिरेः शृङ्गाद्वृध्रमाहाङ्गदस्तदा ॥४॥

बभूवर्क्षरजो नाम वानरेन्द्रः प्रतापवान्।
ममार्यः पार्थिवः पक्षिन्धार्मिकस्तस्य चात्मजौ॥५॥

सुग्रीवश्चैव वाली च पुत्रावोघबलावुभौ।
लोके विश्रुतकर्माऽभूद्राजा वाली पिता मम॥६॥

राजा कृत्स्त्रस्य जगत इक्ष्वाकूणां महारथः।
रामो दाशरथिः श्रीमान्प्रविष्टो दण्डकावनम्॥७॥

लक्ष्मणेन सह भ्रात्रा वैदेह्या चापि भार्यया।
पितुर्निर्देशनिरतो धर्म्यं पन्थानमाश्रितः॥८॥

तस्य भार्या जनस्थानाद्रावणेन हृता बलात्॥९॥

रामस्य तु पितुर्मित्रं जटायुर्नाम गृध्रराट्।
ददर्श सीतां वैदेहीं हियमाणां विहायसा॥१०॥

रावणं विरयं कृत्वा स्थापयित्वा च मैथिलीम्।
परिश्रान्तश्च वृद्धश्च रावणेन हतो रणे॥११॥

एवं गृध्रो हतस्तेन रावणेन बलीयसा।
संस्कृतश्चापि रामेण गतश्च गतिमुत्तमाम्॥१२॥

ततो मम पितृव्येण सुग्रीवेण महात्मना।
चकार राघवः सख्यं सोऽवधीत्पितरं मम॥१३॥

मम पित्रा विरुद्धो हि सुग्रीवः सचिवैः सह।
निहत्य वालिनं रामस्ततस्तमभ्यषेचयत्॥१४॥

स राज्ये स्थापितस्तेन सुग्रीवो वानरेश्वरः।
राजा वानरमुख्यानां येन प्रस्थापिता वयम् ॥१५॥

एवं रामप्रयुक्तास्तु मार्गमाणास्ततस्ततः।
वैदेहीं नाधिगच्छामो रात्रौ सूर्यप्रभामिव ॥१६॥

ते वयं दण्डकारण्यं विचित्य सुसमाहिताः।
अज्ञानात्तु प्रविष्टाः स्म धरण्यां विवृतं बिलम् ॥१७॥

मयस्य मायाविहितं तद्धिलं च विचिन्वताम्।
व्यतीतस्तत्र नो मासो यो राज्ञा समयः कृतः ॥१८॥

ते वयं कपिराजस्य सर्वे वचनकारिणः।
कृतां संस्थामतिक्रान्ता भयात्प्रायमुपास्महे ॥१९॥

क्रुद्धे तस्मिंस्तु काकुत्स्थे सुग्रीवे च सलक्ष्मणे।
गतानामपि सर्वेषां तत्र नो नास्ति जीवितम् ॥२०॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये
किष्किन्धाकाण्डे सप्तपञ्चाशः सर्गः ॥

आदितः श्लोकाः 11500
किष्किन्धाकाण्डे आदितः श्लोकाः 2248

<MISSING_FIG href="../books_images/U-IMG-1707930340Screenshot(12"/>.png)

अष्ट्रपञ्चाशः सर्गः ॥ ५८ ॥

लङ्कायां सीतावस्थानप्रदर्शनम् ॥

इत्युक्तः करुणं वाक्यं वानरैस्त्यक्तजीवितैः।
सबाप्पो वानरान्गृध्रः प्रत्युवाच महास्वनः॥१॥

यवीयान्मम स भ्राता जटायुर्नाम वानराः।
यमाख्यात हतं युद्धे रावणेन बलीयसा॥२॥

वृद्धभावादपक्षत्वाच्छण्वंस्तदपि मर्षये।
न हि मे शक्तिरद्यास्ति भ्रातुर्वैरविमोक्षणे॥३॥

पुरा वृत्रवधे वृत्ते सं चाहं च जयैषिणौ।
आदित्यमुपयातौ स्वो ज्वलन्तं रश्मिमालिनम् ॥४॥

आवृत्याकाशमार्गेण जवेन स्वो गतौ भृशम्।
मध्यं प्राप्ते सवितरि जटायुरवसीदति॥५॥

तमहं भ्रातरं दृष्ट्वा सूर्यरश्मिभिरार्दितम्।
पक्षाभ्यां छादयामास स्नेहात्परमविह्वलम्॥६॥

निर्दग्धपक्षः पतितो विन्ध्येऽस्मिन् वानरोत्तमाः।
अहमस्मिन्वसन्ध्रातुः प्रवृत्तिं नोपलक्षये॥७॥

जटायुषस्त्वेवमुक्तो भ्रात्रा संपातिना तदा।
युवराजो महाप्राज्ञः प्रत्युवाचाङ्गदस्तदा॥८॥

जटायुषो यदि भ्राता श्रुतं ते गदितं मया।
आख्याहि यदि जानासि निलयं तस्य रक्षसः ॥९॥

अदीर्घदर्शिनं तं वा रावणं राक्षसेश्वरम्।
अन्तिके यदि वा दूरे यदि जानासि शंस नः ॥१०॥

ततोऽब्रवीन्महातेजा ज्येष्ठो भ्राता जटायुषः।
आत्मानुरूपं वचनं वानरान् संप्रहर्षयन्॥११॥

निर्दग्धपक्षो गृध्रोऽहं हीनवीर्यः प्लवङ्गमाः।
वाङ्मात्रेण तु रामस्य करिष्ये साह्यमुत्तमम्॥१२॥

जानामि वारुणांल्लोकान्विष्णोस्त्रैविक्रमानपि।
देवासुरविमर्दोश्च ह्यमृतस्यापि मन्थनम्॥१३॥

रामस्य यदिदं कार्यं कर्तव्यं प्रथमं मया।
जरयाऽपहृतं तेजः प्राणाश्च शिथिला मम॥१४॥

तरुणी रूपसम्पन्ना सर्वाभरणभूषिता।
हियमाणा मया दृष्टा रावणेन दुरात्मना ॥१५॥

क्रोशन्ती राम रामेति लक्ष्मणेति च भामिनी।
भूषणान्यपविध्यन्ती गात्राणि च विधून्वती ॥१६॥

सूर्यप्रभेव शैलाग्रे तस्याः कौशेयमुत्तमम्।
असिते राक्षसे भाति यथा वा तडिदम्बुदे ॥१७॥

तां तु सीतामहं मन्ये रामस्य परिकीर्तनात्।
श्रूयतां में कथयतो निलयं तस्य रक्षसः॥१८॥

पुत्रो विश्ववसः साक्षाद्भाता वैश्रवणस्य च।
अध्यास्ते नगरीं लङ्कां रावणो नाम राक्षसः॥१९॥

इतो द्वीपे समुद्रस्य संपूर्णे शतयोजने।
तस्मिंलङ्कापुरी रम्या निर्मिता विश्वकर्मणा॥२०॥

जाम्बूनदमयैद्वारैश्चित्रैः काञ्चनवेदिकैः।
प्रासादैर्हेमवर्णैश्च महद्भिः सुसमा कृता॥
प्राकारेणांर्कवर्णेन महता सुसमाहता॥२१॥

तस्यां वसति वैदेही दीना कौशेयवासिनी।
रावणान्तःपुरे रूद्धा राक्षसीभिः सुरक्षिता॥२२॥

जनकस्यात्मजां राज्ञस्तत्र द्रक्ष्यथ मैथिलीम्।
लङ्कायामथ गुप्तायां सागरेण समन्ततः॥२३॥

संप्राप्य सागरस्यान्तं संपूर्णं शतयोजनम्।
आसाद्य दक्षिणं तीरं ततो द्रक्ष्यथ रावणम् ॥२४॥

तत्रैव त्वरिताः क्षिप्रं विक्रमध्वं प्लवङ्गमाः।
ज्ञानेन खलु पश्यामि दृष्ट्वा प्रत्यागमिष्यथ ॥२५॥

आद्यः पन्थाः कुलिङ्गानां ये चान्ये धान्यजीविनः।
द्वितीयो बलिभोजानां ये च वृक्षफलाशिनः ॥२६॥

भासास्तृतीयं गच्छन्ति क्रौञ्चाश्च कुररैः सह।
श्येनाचतुर्थं गच्छन्ति गृध्रा गच्छन्ति पञ्चमम् ॥२७॥

बलवीर्योपपन्नानां रूपयौवनशालिनाम्।
षष्टस्तु पन्था हंसानां वैनतेयगतिः परा॥
वैनतेयाच्च नो जन्म सर्वेषां वानरर्षभाः॥२८॥

गर्हितं तु कृतं कर्म येन स्म पिशिताशिना।
प्रतीकार्यं च मे तस्य वैरं भ्रातुः कृतं भवेत् ॥२९॥

इहस्थोऽहं प्रपश्यामि रावणं जानकीं तथा।
अस्माकमपि सौपर्णं दिव्यं चक्षुर्बलं तथा॥३०॥

तस्मादाहारवीर्येण निसर्गेण च वानराः।
आयोजनशतात्साग्राद्वयं पश्याम नित्यशः॥३१॥

अस्माकं विहिता वृत्तिर्निसर्गेण च दूरतः।
विहिता पादमूले तु वृत्तिश्चरणयोधिनाम् ॥३२ ॥

उपायो दृश्यतां कश्चिल्लङ्घने लवणाम्भसः॥३३॥

अभिगम्य तु वैदेहीं समृद्धार्था भविष्यथ॥३४॥

समुद्रं नेतुमिच्छामि भवद्भिर्वरुणालयम्।
प्रदास्याम्युदकं भ्रातुः स्वर्गतस्य महात्मनः ॥३५॥

ततो नीत्वा तु तं देशं तीरे ननदीपतेः।
निर्दग्धपक्षं संपातिं वानराः सुमहौजसः॥३६॥

पुनः प्रत्यानयित्वा च तं देशं पतगेश्वरम्।
बभूवुर्वानरा हृष्टाः प्रवृत्तिमुपलभ्य ते॥३७॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये
किष्किन्धाकाण्डे अष्टपञ्चाशः सर्गः

आदितः श्लोकाः 11537
किष्किन्धाकाण्डे आदितः श्लोकाः 2285

<MISSING_FIG href="../books_images/U-IMG-1707969626Screenshot(12"/>.png)

एकोनषष्टितमः सर्गः ॥ ५९ ॥

सुपांर्श्ववचनानुवादः ॥

ततस्तदमृतास्वादं गृध्रराजेन भाषितम्।
निशम्य मुदिता हृष्टास्ते वचः प्लवगर्षभाः॥ १ ॥

जाम्बवान्वानरश्रेष्ठः सह सर्वैः प्लवङ्गमैः।
भूतलात्सहसोत्पत्य गृध्रराजं तमब्रवीत्॥२॥

क सीता केन वा दृष्टा को वा हरति मैथिलीम्।
तदाख्यातु भवान्सर्वं गतिर्भव वनौकसाम्॥३॥

को दाशरथिबाणानां वज्रवेगनिपातिनाम्।
स्वयं लक्ष्मणमुक्तानां न चिन्तयति विक्रमम् ॥४॥

स हरीन्प्रीतिसंयुक्तान्सीताश्रुतिसमाहितान्।
पुनराश्वासयन्त्रीत इदं वचनमब्रवीत्॥५ ॥

श्रूयतामिह वैदेह्या यथा मे हरणं श्रुतम्।
येन चापि ममाख्यातं यत्र चायतलोचना॥६॥

अहमस्मिन्गिरौ दुर्गे बहुयोजनमायते।
चिरान्निपतितो वृद्धः क्षीणप्राणपराक्रमः॥७॥

तं मामेवं गतं पुत्रः सुपार्श्वो नाम नामतः।
आहारेण यथाकालं बिभर्ति पततां वरः॥८॥

तीक्ष्णकामास्तु गन्धर्वास्तीक्ष्णकोपा भुजङ्गमाः।
मृगाणां तु भयं तीक्ष्णं ततस्तीक्ष्णक्षुधा वयम्॥९॥

स कदाचित्क्षुधार्तस्य मम चाहारकाङ्गिणः।
गतसूर्येऽहनि प्राप्तो मम पुत्रो ह्यनामिषः॥१०॥

स मया वृद्धभावाच्च कोपाञ्च परिभर्त्सितः।
क्षुत्पिपासापरीतेन कुमारः पततां वरः॥११॥

स मामाहारसंरोधात्पीडितं प्रीतिवर्धनः।
अनुमान्य यथातत्त्वमिदं वचनमब्रवीत्॥१२॥

अहं तात यथाकालमामिषार्थी खमाप्लतः।
महेन्द्रस्य गिरेर्द्वारमात्य च समास्थितः॥१३॥

तत्र सत्त्वसहस्राणां सागरान्तरचारिणाम्।
पन्थानमेकोऽध्यवसं संनिरोद्धुमवाङ्मुखः॥१४॥

तत्र कश्चिन्मया दृष्टः सूर्योदयसमप्रभाम्।
स्त्रियमादाय गच्छन्वै भिन्नाञ्जनचयोपमः॥१५॥

सोऽहमभ्यवहारार्थं तौ दृष्टा कृतनिश्रयः।
तेन सान्ना विनीतेन पन्थानमभियाचितः॥१६॥

न हि सामोपपन्नानां महर्ता विद्यते क्वचित्।
नीचेष्वपि जनः कश्चित्किमङ्ग बत मद्विधः॥१७॥

स यातस्तेजसा व्योम संक्षिपन्निव वेगितः।
अथाहं खचरैर्भूतैरभिगम्य सभाजितः॥१८॥

दिष्ट्या जीवति सीतेति ह्यब्रुवन्मां महर्षयः।
कथंचित्सकलत्रोऽसौ गतस्ते स्वस्त्यसंशयम्॥१९॥

एवमुक्तस्ततोऽहं तैः सिद्धैः परमशोभनैः॥२०॥

स च मे रावणो राजा रक्षसां प्रतिवेदितः।
हरन्दाशरथेर्भार्यां रामस्य जनकात्मजाम्॥२१॥

भ्रष्टाभरणकौशेयां शोकवेगपराजिताम्।
रामलक्ष्मणयोर्नाम क्रोशन्तीं मुक्तमूर्घजाम्॥२२॥

एष कालालयस्तावदिति कालविदां वरः।
एतमर्थं समग्रं मे सुपार्श्वः प्रत्यवेदयत्॥२३॥

तच्छ्रुत्वाऽपि हि मे बुद्धिर्नासीत्काचित्पराक्रमे।
अपक्षो हि कथं पक्षी कर्म किंचिदुपक्रमे॥२४॥

यत्तु शक्यं मया कर्तुं वाम्बुद्धिगुणवर्तिना।
श्रूयतां तत्प्रवक्ष्यामि भवतां पौरुषाश्रयम्॥२५॥

वाङ्मतिभ्यां तु सर्वेषां करिष्यामि प्रियं हि वः।
यद्धि दाशरथेः कार्यं मम तन्नात्र संशयः॥२६॥

ते भवन्तो मतिश्रेष्ठा बलवन्तो मनस्विनः।
प्रहिताः कपिराजेन देवैरपि दुरासदाः॥२७॥

रामलक्ष्मणबाणाश्च निशिताः कङ्कपत्रिणः।
त्रयाणामपि लोकानां पर्याप्तास्त्राणनिग्रहे॥२८॥

कामं खलु दशग्रीवस्तेजोवलसमन्वितः।
भवतां तु समर्थानां न किञ्चिदपि दुष्करम्॥२९॥

तदलं कालसङ्गेन क्रियतां बुद्धिनिश्चयः।
न हि कर्मसु सज्जन्ते बुद्धिमन्तो भवद्विधाः॥३०॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये
किष्किन्धाकाण्डे एकोनषष्टितमः सर्गः ॥

आदितः श्लोकाः 11567
किष्किन्धाकाण्डे आदितःश्लोकाः2315

<MISSING_FIG href="../books_images/U-IMG-1707905384Screenshot(12"/>.png)

षष्टितमः सर्गः ॥ ६० ॥

सम्पातिना स्वस्थ वृत्तान्तकथनम् ॥

ततः कृतोदकं स्नातं तं गृध्रं हरियूथपाः।
उपविष्टा गिरौ दुर्गे परिवार्यं समन्ततः॥१॥

तमङ्गदमुपासीनं तैः सर्वैर्हरिभिर्वृतम्।
जनितप्रत्ययो हर्षात्संपातिः पुनरब्रवीत्॥२॥

कृत्वा निःशब्दमेकाग्राः शृण्वन्तु हरयो मम।
तत्त्वं सङ्कीर्तयिष्यामि यथा जानामि मैथिलीम् ॥३॥

अस्य विन्ध्यस्य शिखरे पतितोऽस्मि पुरा वने।
सूर्यातपपरीताङ्गो निर्दग्धः सूर्यरश्मिभिः॥४॥

लब्धसंज्ञस्तु षड्रात्राद्विवशो विह्वलन्निव।
वींक्षमाणो दिशः सर्वा नाभिजानामि किञ्चन ॥५॥

ततस्तु सागराञ्शौलान्नदीः सर्वाः सरांसि च।
वनान्युदधिवेलां च समीक्ष्य मतिरागमत्॥६॥

हृष्टपक्षिगणाकीर्णः कन्दरान्तरकूटवान्।
दक्षिणस्योदधेस्तीरे विन्ध्योऽयमिति निश्चितः ॥७॥

आसीच्चात्राश्रमं पुण्यं सुरैरपि सुपूजितम्।
ऋषिर्निशाकरो नाम यस्मिन्नुग्रतपा अभूत्॥८॥

अष्टौ वर्षसहस्राणि तेनास्मिन्नृषिणा विना।
वसतो मम धर्मज्ञे स्वर्गते तु निशाकरे॥९॥

अवतीर्य तु विन्ध्याग्रात्कृच्छ्रेण विषमाच्छनैः।
तीक्ष्णदर्भों वसुमतीं दुःखेन पुनरागतः॥१०॥

तमृषिं द्रष्टुकामोऽस्मि दुःखेनाभ्यागतो भृशम्।
जटायुषा मया चैव बहुशोऽधिगतो हि सः॥११॥

तस्याश्रमपदाभ्याशे ववुर्वाताः सुगन्धिनः।
वृक्षो नापुष्पितः कश्चिदफलो वा न विद्यते ॥१२॥

उपेत्य चाश्रमं पुण्यं वृक्षमूलमुपाश्रितः।
द्रष्टुकामः प्रतीक्षेऽहं भगवन्तं निशाकरम्॥१३॥

अथापश्यमदूरस्थमृषिं ज्वलिततेजसम्।
कृताभिषेकं दुर्घर्षमुपावृत्तमुदङ्मुखम्॥१४॥

तमृक्षाः सृमरा व्याघ्राः सिंहा नागाः सरीसृपाः।
परिवार्योपगच्छन्ति धातारं प्राणिनो यथा॥१५॥

ततः प्राप्तमृषिं ज्ञात्वा तानि सत्त्वानि वै ययुः
प्रविष्टे राजनि यथा सर्वं सामात्यकं बलम्॥१६॥

ऋषिस्तु दृष्ट्वा मां तत्र प्रविष्टश्वाश्रमं पुनः।
मुहूर्तमात्रान्निष्क्रम्य ततः कार्यमपृच्छत॥१७॥

सौम्य वैकल्यतां दृष्ट्वा रोग्णां ते नावगम्यते।
अग्निदग्धाविमौ पक्षौ त्वक्चैव व्रणिता तव॥१८॥

द्वौ धौ दृष्टपूर्वौ मे मातरिश्वसमौ जवे।
गृध्राणां चैव राजानौ भ्रातरौ कामरूपिणौ ॥१९॥

ज्येष्ठो हि त्वं तु संपाते जटायुरनुजस्तव।
मानुषं वपुरास्थाय गृह्णीतां चरणौ मम॥२०॥

किं ते व्याधिसमुत्थानं पक्षयोः पतनं कथम्।
दण्डो वाऽयं कृतः केन सर्वमाख्याहि पृच्छतः ॥२१॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये
किष्किन्धाकाण्डे षष्टितमः सर्गः ॥

आदितः श्लोकाः 11588
किष्किन्धाकाण्डे आदितः श्लोकाः2336

<MISSING_FIG href="../books_images/U-IMG-1707898426Screenshot(12"/>.png)

एकषष्टितमः सर्गः ॥ ६१ ॥

स्वपक्षदाहकारणकथनम् ॥

ततस्तद्दारुणं कर्म दुष्करं साहसात्कृतम्।
आचचक्षे मुनेः सर्वं सूर्यानुगमनं तथा॥१॥

भगवन्व्रणयुक्तत्वाल्लज्जया त्वाकुलेन्द्रियः।
परिश्रान्तो न शक्नोमि वचनं प्रतिभाषितुम्॥२॥

अहं चैव जटायुश्च संघर्षाद्दर्पमोहितौ।
आकाशं पतितौ वीरौ जिज्ञासन्तौ पराक्रमम्॥३॥

कैलासशिखरे बद्धवा मुनीनामग्रतः पणम्।
रविः स्यादनुयातव्यो यावदस्तं महागिरिम्॥४॥

अथावां युगपत्प्राप्तावपश्याव महीतले।
रथचक्रप्रमाणानि नगराणि पृथक्पृथक्॥५॥

क्वचिद्वादित्रघोषांश्च ब्रह्मघोषांश्च शुश्रुवः।
गायन्तीश्चाङ्गना बह्वीः पश्यावो रक्तवाससः॥६॥

तूर्णमुत्पत्य चाकाशमादित्यपथमास्थितौ।
आवामालोकन्यावस्तद्वनं शादलसंस्थितम्॥७॥

उपलैरिव संछन्ना दृश्यते भूः शिलोच्चयैः।
आपगाभिश्च संवीता सूत्रैरिव वसुन्धरा॥८॥

हिमवांश्चैव विन्ध्यश्च मेरुश्च सुमहान्नगः।
भूतले संप्रकाशन्ते नागा इव जलाशये॥९॥

तीव्रः स्वेदश्च खेदश्च भयं चासीत्तदाऽऽवयोः।
समाविशति मोहश्च शोको मूर्च्छा च दारुणा ॥१०॥

न दिग्विज्ञायते याम्या नाग्नेयी न च वारुणी।
युगान्ते नियतो लोको हतो दग्ध इवाग्निना ॥११॥

मनश्च मे हतं भूयः संनिवर्त्य तु संश्रयम्।
यत्नेन महता ब्रह्मन्पुनः संधाय चक्षुषी॥
यत्नेन महता भूयो रविः समवलोकितः॥१२॥

तुल्यः पृथ्वीप्रमाणेन भास्करः प्रतिभाति नौ॥१३॥

जटायुर्मामनापृच्छ्य निपपात महीं ततः।
तं दृष्ट्वा तूर्णमाकाशादात्मानं मुक्तवानहम्॥१४॥

पक्षाभ्यां तु मया गुप्तो जटायुर्नात्यदह्यत।
प्रमादात्तत्र निर्दग्धः पतन्वायुपथादहम्॥१५॥

आशङ्के तं निपतितं जनस्थाने जटायुषम्।
अहं तु पतितो विन्ध्ये दग्धपक्षो जडीकृतः ॥१६॥

राज्येन हीनो भ्रात्रा च पक्षाभ्यां विक्रमेण च।
सर्वथा मर्तुमेवेच्छन्पतिष्ये शिखराद्गिरेः॥१७॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये
किष्किन्धाकाण्डे एकषष्टितमः सर्गः ॥

आदितः श्लोकाः 11605
किष्किन्धाकाण्डे आदितःश्लोकाः 2353

<MISSING_FIG href="../books_images/U-IMG-17079004531.png"/>

द्विषष्टितमः सर्गः ॥ ६२ ॥

निशाकरेण पक्षप्ररोहावधिनिरूपणम् ॥

एवमुक्त्वा मुनिश्रेष्ठमरुदं दुःखितो भृशम्।
अथ ध्यात्वा मुहूर्तं तु भगवानिदमब्रवीत्॥१॥

पक्षौ च ते प्रपक्षौ च पुनरन्यौ भविष्यतः।
प्राणाश्च चक्षुषी चैव विक्रमश्च बलं च ते॥२॥

पुराणे सुमहत्कार्यं भविष्यति मया श्रुतम्।
दृष्टं मे तपसा चैव श्रुत्वा च विदितं मम॥३॥

राजा दशरथो नाम कश्चिदिक्ष्वाकुनन्दनः।
तस्य पुत्रो महातेजा रामो नाम भविष्यति॥४॥

अरण्यं च सह भ्रात्रा लक्ष्मणेन गमिष्यति।
अस्मिन्नर्थे नियुक्तः सन् पित्रा सत्यपराक्रमः ॥५॥

नैर्रुतो रावणो नाम तस्य भार्यो हरिष्यति।
राक्षसेन्द्रो जनस्थानादवध्यः सुरदानवैः॥६॥

सा च कामैः प्रलोभ्यन्ती भक्ष्यैर्भोज्यैश्च मैथिली।
न भोक्ष्यति महाभागा दुःखे मग्ना यशस्विनी॥७॥

परमान्नं तु वैदेह्या ज्ञात्वा दास्यति वासवः।
यदन्नममृतप्रख्यं सुराणामपि दुर्लभम्॥८॥

तदन्नं मैथिली प्राप्य विज्ञायेन्द्रादिदं त्विति।
अग्रमुद्धृत्य रामाय भूतले निर्वपिष्यति॥९॥

यदि जीवति मे भर्ता लक्ष्मणेन सह प्रभुः।
देवत्वं गच्छतोर्वापि तयोरन्नमिदं त्विति॥१०॥

एष्यन्त्यन्वेषकास्तस्या रामदूताः प्लवङ्गमाः।
आख्येया राममहिषी त्वया तेभ्यो विहङ्गम ॥११॥

सर्वथा हि न गन्तव्यमीदृशः क्व गमिष्यसि।
देशकालौ प्रतीक्षस्व पक्षौ त्वं प्रतिपत्स्यसे॥१२॥

नोत्सहेयमहं कर्तुमद्यैव त्वां सपक्षकम्।
इहस्थस्त्वं तु लोकानां हितं कार्यं करिष्यसि ॥१३॥

त्वयाऽपि खलु तत्कार्यं तयोश्च नृपपुत्रयोः।
ब्राह्मणानां सुराणां च मुनीनां वासवस्य च ॥१४॥

इच्छाम्यहमपि द्रष्टुं भ्रातरौ रामलक्ष्मणौ।
नेच्छे चिरं धारयितुं प्राणांस्त्यक्ष्ये कलेबरम् ॥१५॥

महर्षिस्त्वब्रवीदेवं दृष्टतत्त्वार्थदर्शनः॥१६॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये
किष्किन्धाकाण्डे द्विषष्टितमः सर्गः ॥

आदितः श्लोकाः 11621
किष्किन्धाकाण्डे आदितः श्लोकाः 2369

<MISSING_FIG href="../books_images/U-IMG-1707902419Screenshot(12"/>.png)

त्रिषष्टितमः सर्गः ॥ ६३ ॥

संपातिपक्षप्ररोहः वानरप्रस्थानं च ॥

एतैरन्यैश्च बहुभिर्वाक्यैर्वाक्यविशारदः।
मां प्रशस्याभ्यनुज्ञाप्य प्रविष्टः स स्वमाश्रमम्॥१॥

कन्दरात्तु विसर्पित्वा पर्वतस्य शनैः शनैः।
अहं विन्ध्यं समारुह्य भवतः प्रतिपालये॥२॥

अद्य त्वेतस्य कालस्य साग्रं वर्षशतं गतम्।
देशकालप्रतीक्षोऽस्मि हृदि कृत्वा मुनेर्वचः॥ ३ ॥

महाप्रस्थानमासाद्य स्वर्गते तु निशाकरे।
मां निर्दहति संतापो वितर्कैर्बहुभिर्वृतम्॥४॥

उत्थितां मरणे बुद्धिं मुनिवाक्यैर्निवर्तये।
बुद्धिर्या तेन मे दत्ता प्राणसंरक्षणाय तु॥५॥

सा मेऽपनयते दुःखं दीप्तेवाग्निशिखा तमः॥६॥

बुद्धयता च मया वीर्यं रावणस्य दुरात्मनः।
पुत्रः संतर्जितो वाग्भिर्न त्राता मैथिली कथम् ॥७॥

तस्या विलपितौ श्रुत्वा तं च सीताविनाकृतौ।
न मे दशरथस्त्रेहात्पुत्रेणोत्पादितं प्रियम्॥८॥

तस्य त्वेवं ब्रुवाणस्य संपातेर्वानरैः सह।
उत्पेततुस्तदा पक्षौ समक्षं वनचारिणा॥९॥

स दृष्ट्वा स्वां तनुं पक्षैरुद्गतैररुणच्छदैः।
प्रहर्षमतुलं लेभे वानरांश्चेदमब्रवीत्॥१०॥

निशाकरस्य राजर्षेः प्रभावादमितात्मनः।
आदित्यरश्मिनिर्दग्धौ पक्षौ मे पुनरुत्थितौ॥११॥

यौवने वर्तमानस्य ममासीद्यः पराक्रमः।
तमेवाद्यानुगच्छामि बलं पौरुषमेव च॥१२॥

सर्वथा क्रियतां यत्नः सीतामधिगमिष्यथ।
पक्षलाभो ममायं वः सिद्धिप्रत्ययकारकः॥१३॥

इत्युक्त्वा स हरीन्सर्वान्संपातिः पतगोत्तमः।
उत्पपात गिरेः शृङ्गाज्जिज्ञासुः खगमो गतिम् ॥१४॥

तस्य तद्वचनं श्रुत्वा प्रीतिसंहृष्टमानसाः।
बभूवुर्हरिशार्दूला विक्रमाभ्युदयोन्मुखाः॥१५॥

अथ वनसमानविक्रमाःप्लवगवराः प्रतिलब्धपौरुषाः।
अभिजिदभिमुखा दिशं ययुर्जनकसुतापरिमार्गणोन्मुखाः॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये
किष्किन्धाकाण्डे त्रिषष्टितमः सर्गः ॥

आदितः श्लोकाः 11637
किष्किन्धाकाण्डे आदितःश्लोकाः2385

<MISSING_FIG href="../books_images/U-IMG-1707972382Screenshot(12"/>.png)

चतुःषष्टितमः सर्गः ॥ ६४ ॥

समुद्रलङ्घनालोचन ॥

आख्याता गृध्रराजेन समुत्पत्य प्लवङ्गमाः।
सङ्गम्य प्रीतिसंयुक्ता विनेदुर्भीमविक्रमाः॥१॥

संपातेर्वचनं श्रुत्वा हरयो रावणक्षयम्।
हृष्टाः सागरमाजग्मुः सीतादर्शनकाङ्क्षिणः॥२॥

अभिक्रम्य तु तं देशं ददृशुर्भीमविक्रमाः।
कृत्स्नं लोकस्य महतः प्रतिबिम्बमिव स्थितम् ॥३॥

दक्षिणस्य समुद्रस्य समासाद्योत्तरां दिशम्।
संनिवेशं ततश्चक्रुर्हरिवीरा महाबलाः॥४॥

सत्त्वैर्महद्भिर्विविधैः क्रीडद्भिर्विकृतैर्जले।
व्यत्यस्तैः सुमहाकायैरूर्मिभिश्च समाकुलम्॥५॥

प्रसुप्तमिव चान्यत्र क्रीडन्तमिव चान्यतः।
क्वचित्पर्वतसङ्काशैर्जलराशिभिरावृतम्॥६॥

सङ्कुलं दानवेन्द्रैश्च पातालतलवासिभिः।
रोमहर्षकरं दृष्ट्वा विषेदुः कपिकुञ्जराः॥७॥

आकाशमिव दुष्पारं सागरं प्रेक्ष्य वानराः।
विषेदुः सहसा सर्वे दुद्रुवुश्च ततस्ततः॥८॥

विद्रतां वाहिनीं दृष्ट्वा सागरस्य निरीक्षणात्।
आश्वासयामास हरीन्भयार्तान्हरिसत्तमः॥९॥

तान्विषादेन महता विषण्णान्वानरर्षभान्।
उवाच मतिमान्काले वालिसुनुर्महाबलः॥१०॥

न विषादे मनः कार्यं विषादो दोषवत्तमः।
विषादो हन्ति पुरुषं बालं क्रुद्ध इवोरगः॥११॥

विषादो यं प्रसहते विक्रमे समुपस्थिते।
तेजसा तस्य हीनस्य पुरुषार्थो न सिध्यति ॥१२॥

तस्यां रात्र्यां व्यतीतायामङ्गदो वानरर्षभः।
हरिवृद्धैः समागम्य पुनर्मन्त्रममन्त्रयत्॥१३॥

सा वानराणां ध्वजिनी परिवार्याङ्गदं बभौ।
वासवं परिवार्येव मरुतां वाहिनी स्थिता॥१४॥

कोऽन्यस्तां वानरीं सेनां शक्तः स्तम्भयितुं भवेत्।
अन्यत्र वालितनयादन्यत्र च हनुमतः॥१५॥

ततस्तान्हरिवृद्धांश्च तच्च सैन्यमरिन्दमः।
अनुमान्याङ्गदः श्रीमान्वाक्यमर्थवदब्रवीत्॥१६॥

क इदानीं महातेजा लङ्घयिष्यति सागरम्।
कः करिष्यति सुग्रीवं सत्यसन्धमरिन्दमम् ॥१७॥

को वीरो योजनशतं लङ्घयेत प्लवङ्गमाः।
इमांश्च यूथपान्सर्वान्मोक्षयेत्को महाभयात्॥१८॥

कस्य प्रसादाद्दारांश्च पुत्रांश्चैव गृहाणि च।
इतो निवृत्ताः पश्यामः सिद्धार्थाः सुखिनो वयम् ॥१९॥

कस्य प्रसादाद्रामं च लक्ष्मणं च महाबलम्।
अभिगच्छेम संहृष्टाः सुग्रीवं च महाबलम्॥२०॥

यदि कश्चित्समर्थो यः सागरप्लवने हरिः।
स ददात्विह नः शीघ्रं पुण्यामभयदक्षिणाम्॥२१॥

अङ्गदस्य वचः श्रुत्वा न कश्चित्किञ्चिदब्रवीत्।
स्तिमितेवाभवत्सर्वा तत्र सा हरिवाहिनी॥२२॥

पुनरेवाङ्गन्दः प्राह तान्हरीन्हरिसत्तमः।
सर्वे बलवतां श्रेष्ठा भवन्तो दृढविक्रमाः॥२३॥

व्यपदेश्यकुले जाताः पूजिताश्चाप्यभीक्ष्णशः।
न हि वो गमने सङ्गः कदाचित्कस्यचित्कचित् ॥२४॥

ब्रुवध्वं यस्य या शक्तिर्गमने प्लवगर्षभाः॥२५॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये
किष्किन्धाकाण्डे चतुःषष्टितमः सर्गः ॥

आदितः श्लोकाः 11661
किष्किन्धाकाण्डे आदितः श्लोकाः 2409

<MISSING_FIG href="../books_images/U-IMG-1707987976Screenshot(12"/>.png)

पञ्चषष्टितमः सर्गः ॥ ६५ ॥

स्वस्वशक्त्याविष्करणम् ॥

अथाङ्गदवचः श्रुत्वा सर्वे ते वानरोत्तमाः।
स्वं स्वं गतौ समुत्साहमाहुस्तत्र यथाक्रमम्॥१॥

गजो गवाक्षो गवयः शरभो गन्धमादनः।
मैन्दश्च द्विविदश्चैव सुषेणो जाम्बवांस्तथा॥२॥

आबभाषे गजस्तत्र प्लवेयं दशयोजनम्।
गवाक्षो योजनान्याह गमिष्यामीति विंशतिम् ॥३॥

गवयो वानरस्तत्र वानरांस्तानुवाच ह।
त्रिंशतं तु गमिष्यामि योजनानां प्लवङ्गमाः॥४॥

शरभो वानरस्तत्र वानरांस्तानुवाच ह।
चत्वारिंशद्गमिष्यामि योजनानां प्लवङ्गमाः॥५॥

वानरांस्तान् महातेजा अब्रवीद्वन्धमादनः।
योजनानां गमिष्यामि पञ्चाशत्तु न संशयः॥६॥

मैन्दस्तु वानरस्तत्र वानरांस्तानुवाच ह।
योजनानां परं षष्टिमहं प्लवितुमुत्सहे॥७॥

ततस्तत्र महातेजा द्विविदः प्रत्यभाषत।
गमिष्यामि न सन्देहः सप्ततिं योजनान्यहम् ॥८॥

सुषेणस्तु हरिश्रेष्ठः प्रोक्तवान् कपिसत्तमान्।
अशीतिं योजनानां तु प्लवेयं प्लवगेश्वराः॥९॥

तेषां कथयतां तत्र सर्वंस्ताननुमान्य च।
ततो वृद्धतमस्तेषां जाम्बवान् प्रत्यभाषत॥१०॥

पूर्वमस्माकमप्यासीत् कश्चिद्गतिपराक्रमः।
ते वयं वयसः पारमनुप्राप्ताः स्म सांप्रतम्॥११॥

किं तु नैवं गते शक्यमिदं कार्यमुपेक्षितुम्।
यदर्थं कपिराजश्च रामश्च कृतनिश्चयौ॥१२॥

सांप्रतं कालभेदेन या गतिस्तां निबोधत।
नवतिं योजनानां तु गमिष्यामि न संशयः॥१३॥

तांस्तु सर्वान् हरिश्रेष्ठाञ्जाम्बवान् पुनरब्रवीत्।
न खल्वेतावदेवासीद्गमने मे पराक्रमः॥ १४॥

मया महाबलेश्चैव यज्ञे विष्णुः सनातनः।
प्रदक्षिणीकृतः पूर्वं क्रममाणस्त्रिविक्रमः॥१५॥

स इदानीमहं वृद्धः प्लवने मन्दविक्रमः।
यौवने च तदासीन्मे बलमप्रतिमं परैः॥१६ ॥

संप्रत्येतावतीं शक्तिं गमने तर्कयाम्यहम्।
नैतावता च संसिद्धिः कार्यस्यास्य भविष्यति ॥ १७॥

अथोत्तरमुदारार्थमब्रवीदङ्गदस्तदा।
अनुमान्य महाप्राज्ञो जाम्बवन्तं महाकपिम् ॥१८॥

अहमेतद्गमिष्यामि योजनानां शतं महत्।
निवर्तने तु मे शक्तिः स्यान्न वेति न निश्चितम् ॥१९॥

तमुवाच हरिश्रेष्ठो जाम्बवान् वाक्यकोविदः।
ज्ञायते गमने शक्तिस्तव हर्यृक्षसत्तम॥२०॥

कामं शतसहस्रं वा न ह्येष विधिरुच्यते।
योजनानां भवाञ्शक्तो गन्तुं प्रतिनिवर्तितुम् ॥२१॥

न हि प्रेषयिता तात स्वामी प्रेष्यः कथञ्चन।
भवताऽयं जनः सर्वः प्रेष्यः लवगसत्तम॥२२॥

भवान्कलत्रमस्माकं स्वामिभावे व्यवस्थितः।
स्वामी कलत्रं सैन्यस्य गतिरेषा परन्तप॥
तस्मात्कलत्रवत्तत्र प्रतिपाल्यः सदा भवान्॥२३॥

अपि चैतस्य कार्यस्य भवान्मूलमरिन्दम।
मूलमर्थस्य संरक्ष्यमेष कार्यविदां नयः॥२४॥

मूले हि सति सिध्यन्ति गुणाः पुष्पफलादयः ॥२५॥

तद्भवानस्य कार्यस्य साधने सत्यविक्रम।
बुद्धिविक्रमसम्पन्नो हेतुरत्र परन्तप॥२६॥

गुरुश्च गुरुपुत्रश्च त्वं हि नः कपिसत्तम।
भवन्तमाश्रित्य वयं समर्था ह्यर्थसाधने॥२७॥

उक्तवाक्यं महाप्राज्ञं जाम्बवन्तं महाकपिः।
प्रत्युवाचोत्तरं वाक्यं वालिसूनुरथाङ्गदः॥२८॥

यदि नाहं गमिष्यामि नान्ये वानरपुङ्गवाः।
पुनः खल्विदमस्माभिः कार्यं प्रायोपवेशनम्॥२९॥

न ह्यकृत्वा हरिपतेः सन्देशं तस्य धीमतः।
तत्रापि गत्वा प्राणानां पश्यामि परिरक्षणम्॥३०॥

स हि प्रसादे चात्यर्थं कोपे च हरिरीश्वरः।
अतीत्य तस्य सन्देशं विनाशो गमने भवेत्॥३१॥

तद्यथा ह्यस्य कार्यस्य न भवत्यन्यथा गतिः।
तद्भवानेव दृष्टार्थ : सञ्चिन्तयितुमर्हति॥३२॥

सोऽङ्गदेन तदा वीरः प्रत्युक्तः प्लवगर्षभः।
जाम्बवानुत्तरं वाक्यं प्रोवाचेदं ततोऽङ्गदम् ॥३३॥

अस्य ते वीर कार्यस्य न किञ्चित्परिहीयते।
एष सञ्चोदयाम्येनं यः कार्य साधयिष्यति ॥३४॥

ततः प्रवीरं प्लवतां वरिष्ठमेकान्तमाश्रित्य सुखोपविष्टम्।
सञ्चोदयामासहरिप्रवीरो हरिप्रवीरं हनुमन्तमेव ॥३५॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये
किष्किन्धाकाण्डे पञ्चषष्टितमः सर्गः॥

आदितः श्लोकाः 11697
किष्किन्धाकाण्डे आदितः श्लोकाः 2445

<MISSING_FIG href="../books_images/U-IMG-1707975414Screenshot(12"/>.png)

षट्षष्टितमः सर्गः ॥ ६६ ॥

समुद्रतरणे जाम्बवता हनुमत्प्रेरणम् ॥

अनेकशतसाहस्रीं विषण्णां हरिवाहिनीम्।
जाम्बवान् समुदीक्ष्यैवं हनुमन्तमथाब्रवीत् ॥१॥

वीर वानरलोकस्य सर्वशास्त्रविशारद।
तूष्णीमेकान्तमाश्रित्य हनुमन् किं न जल्पसि ॥२॥

हनुमन्हरिराजस्य सुग्रीवस्य समो ह्यसि।
रामलक्ष्मणयोंश्चापि तेजसा च बलेन च॥३॥

अरिष्टनेमिनः पुत्रो वैनतेयो महाबलः।
गरुत्मानिति विख्यात उत्तमः सर्वपक्षिणाम्॥४॥

बहुशो हि मया दृष्टः सागरे स महाबलः।
भुजंगानुद्धरन्पक्षी महावेगो महायशाः॥५॥

पक्षयोर्यद्बलं तस्य तावद्भुजवलं तव।
विक्रमश्चापि वेगश्च न ते तेनावहीयते॥६॥

बलं बुद्धिश्च तेजश्व सत्त्वं च हरिसत्तम।
विशिष्टं सर्वभूतेषु किमात्मानं न बुध्यसे॥७॥

आसीदप्सरसां श्रेष्ठा विख्याता पुञ्जिकस्थला।
अञ्जनेति परिख्याता पत्नी केसरिणो हरेः ॥८॥

विख्याता त्रिषु लोकेषु रूपेणाप्रतिमा भुवि।
अभिशापादभूत्तात वानरी कामरूपिणी॥९॥

दुहिता वानरेन्द्रस्य कुञ्जरस्य महात्मनः।
कपित्वे चारुसर्वाङ्गी कदाचित्कामरूपिणी॥१०॥

मानुषं विग्रहं कृत्वा रूपयौवनशालिनी।
विचित्रमाल्याभरणा महार्हक्षौमवासिनी ॥
अचरत्पर्वतस्याग्रे प्रावृडम्बुदसन्निभे॥११॥

तस्या वस्त्रं विशालाक्ष्याः पीतरक्तदशं शुभम्।
स्थितायाः पर्वतस्याग्रे मारुतोऽपाहरच्छनैः ॥१२॥

स ददर्श ततस्तस्या वृत्तावूरू सुसंहतौ।
स्तनौ च पीनौ सहितौ सुजातं चारु चाननम् ॥१३॥

तां विशालायतश्रोणीं तनुमध्यां यशस्विनीम्।
दृष्ट्दैव शुभसर्वाङ्गीं पवनः काममोहितः॥१४॥

स तां भुजाभ्यां पीनाभ्यां पर्यष्वजत मारुतः।
मन्मथाविष्टसर्वाङ्गो गतात्मा तामनिन्दिताम् ॥१५॥

सा तु तत्रैव संभ्रान्ता सुवृत्ता वाक्यमब्रवीत् ॥१६॥

एकपत्नीव्रतमिदं को नाशयितुमिच्छति॥१७॥

अञ्जनाया वचः श्रुत्वा मारुतः प्रत्यभाषत।
न त्वां हिंसामि सुश्रोणि मा भूत्ते सुभगे भयम् ॥१८॥

मनसास्मि गतो यंत्त्वां परिष्वज्य यशस्विनीम्।
वीर्यवान् बुद्धिसंपन्नः पुत्रस्तव भविष्यति॥१९॥

महासत्त्वो महातेजा महाबलपराक्रमः।
लङ्घने प्लवने चैव भविष्यति हि मत्समः॥२०॥

एवमुक्ता ततस्तुष्टा जननी ते महाकपे।
गुहायां त्वां महाबाहो प्रजज्ञे प्लवगर्षभम्॥२१॥

अभ्युत्थितं ततः सूर्यं बालो दृष्ट्वा महावने।
फलं चेति जिघृक्षुस्त्वमुत्प्लुत्याभ्युद्गतो दिवम् ॥२२॥

शतानि त्रीणि गत्वाऽथ योजनानां महाकपे।
तेजसा तस्य निर्धूतो न विषादं ततो गतः॥२३॥

तावदापततस्तूर्णमन्तरिक्षं महाकपे।
क्षिप्तमिन्द्रेण ते वज्रं क्रोधाविष्टेन धीमता॥२४॥

तदा शैलाग्रशिखरे वामो हनुरभज्यत॥ २५ ॥

ततो हि नामधेयं ते हनुमानिति कीर्त्यते ॥२६॥

ततस्त्वां निहतं दृष्ट्वा वायुर्गन्धवहः स्वयम्।
त्रैलोक्ये भृशसंक्रुद्धो न ववौ वै प्रभञ्जनः॥२७॥

संभ्रान्ताश्च सुराः सर्वे त्रैलोक्ये क्षोभिते सति।
प्रसादयन्ति संक्रुद्धं मारुतं भुवनेश्वराः॥२८॥

प्रसादिते च पवने ब्रह्मा तुभ्यं वरं ददौ।
अशस्त्रवध्यतां तात समरे सत्यविक्रम॥२९॥

वज्रस्य च निपातेन विरुजं त्वां समीक्ष्य च
सहस्रनेत्रः प्रीतात्मा ददौ ते वरमुत्तमम्॥३०॥

स्वच्छन्दतश्च मरणं ते भूयादिति वै प्रभो॥ ३१ ॥

स त्वं केसरिणः पुत्रः क्षेत्रजो भीमविक्रमः।
मारुतस्यौरसः पुत्रस्तेजसा चापि तत्समः॥३२॥

वयमद्य गतप्राणा भवान्नस्त्रातु सांगतम्।
दाक्ष्यविक्रमसंपन्नः पक्षिराज इवापरः॥३३॥

त्रिविक्रमे मया तात सरौलवनकानना।
त्रिःसप्तकृत्वःपृथिवी परिक्रान्ता प्रदक्षिणम्॥३४॥

तथा चौषधयोऽस्माभिः सञ्चितादेवशासनात्।
निष्पन्नममृतं याभिस्तदाऽऽसीत्रों महद्वलम् ॥३५॥

स इदानीमहं वृद्धः परिहीनपराक्रमः।
सांप्रतं कालमस्माकं भवान्सर्वगुणान्वितः॥३६॥

तद्विजम्भस्व विक्रान्तः प्लवतामुत्तमो ह्यसि।
त्वदीर्यं द्रष्टुकामेयं सर्ववानरवाहिनी॥३७॥

उत्तिष्ठ हरिशार्दूल लङ्घन्यस्व महार्णवम्।
परा हि सर्वभूतानां हनुमन् या गतिस्तव॥३८॥

विषण्णा हरयः सर्वे हनुमन् किमुपेक्षसे।
विक्रमस्व महावेगो यथा विष्णुस्त्रिविक्रमः॥३९॥

ततस्तु वै जाम्बवता प्रचोदितः
प्रतीतवेगः पवनात्मजः कपिः
प्रहर्षयंस्तं हरिवीरवाहिनीं
चकार रूपं महदात्मनस्तदा॥४०॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये
किष्किन्धाकाण्डे षट्षष्टितमः सर्गः ॥

आदितः श्लोकाः 11737
किष्किन्धाकाण्डे आदितः श्लोकाः 2485

<MISSING_FIG href="../books_images/U-IMG-1707987554Screenshot(12"/>.png)

सप्तषष्ठितमः सर्गः ॥ ६७॥

समुद्रतरणाय हनूमता महेन्द्रशिरारोहणम् ॥

तं दृष्ट्वा जृम्भमाणं ते क्रमितुं शतयोजनम्।
वीर्येणापूर्यमाणं च सहसा वानरोत्तमम्॥ १ ॥

सहसा शोकमुत्सृज्य महर्षेण समन्विताः।
विनेदुस्तुष्टुवुश्चापि हनुमन्तं महाबलम्॥२॥

प्रदृष्टा विस्मिताश्चैव वीक्षन्ते स्म समन्ततः।
त्रिविक्रमकृतोत्साहं नारायणमिव प्रजाः॥३॥

संस्तूयमानो हनुमान् व्यवर्धत महाबलः।
समाविध्य च लांगूलं हर्षाच्च बलमेयिवान्॥४॥

तस्य संस्तूयमानस्य सर्वैर्वानरपुङ्गवैः।
तेजसाऽऽपूर्यमाणस्य रूपमासीदनुत्तमम्॥५॥

यथा विजृम्भते सिंहो विवृद्धो गिरिगह्वरे।
मारुतस्यौरसः पुत्रस्तथा संप्रति जृम्भते॥६॥

अशोभत मुखं तस्य जृम्भमाणस्य धीमतः।
अम्बरीषमिवादीप्तं विधूम इव पावकः॥७॥

हरीणामुत्थितो मध्यात्संप्रहृष्टतनूरुहः।
अभिवाद्य ततो वृद्धान् हनुमानिदमब्रवीत्॥८॥

अरुजत्पर्वताग्राणि हुताशनसखोऽनिलः।
बलबानप्रमेयश्च बाहृराकाशगोचरः॥९॥

तस्याहं शीघ्रवेगस्य शीघ्रगस्य महात्मनः।
मारुतस्यौरसः पुत्रः प्लवने नास्ति मत्समः॥१०॥

उत्सहेयं हि विस्तीर्णमालिखन्तमिवाम्बरम्।
मेरुं गिरिमसङ्गेन परिगन्तुं सहस्रशः॥११॥

बाहुवेगप्रणुन्नेन सागरेणाहमुत्सहे।
समाप्लावयितुं लोकं सपर्वतनदीह्रदम्॥१२॥

ममोरुजङ्घवेगेन भविष्यति समुत्थितः।
समुच्छ्रितमहाग्राहः समुद्रो वरुणालयः॥१३॥

पन्नगाशनमाकाशे पतन्तं पक्षिसेविते।
वैनतेयमहं शक्तः परिगन्तुं सहस्रशः॥१४॥

उदयात्प्रस्थितं चापि ज्वलन्तं रश्मिमालिनम्।
अनस्तमितमादित्यमभिगन्तुं समुत्सहे॥१५॥

ततो भूमिमसंस्पृश्य पुनरागन्तुमुत्सहे।
प्रवेगेनैव महता भीमेन प्लवगर्षभाः॥१६॥

उत्सहेयमतिक्रान्तुं सर्वानाकाशगोचरान्।
सागरं शोषयिष्यामि दारयिष्यामि मेदिनीम् ॥१७॥

पर्वतान् कम्पयिष्यामि प्लवमानः प्लवङ्गमाः।
हरिष्ये चोरुवेगेन प्लवमानो महार्णवम्॥१८॥

लतानां विविधं पुष्पं पादपानां च सर्वशः।
अनुयास्यन्ति मामद्य प्लवमानं विहायसा॥
भविष्यति हि मे पन्थाः स्वातेः पन्था इवाम्बरे ॥१९ ॥

चरन्तं घोरमाकाशमुत्पतिष्यन्तमेव वा।
द्रक्ष्यन्ति निपतन्तं च सर्वभूतानि वानराः॥२०॥

महामेरुप्रतीकाशं मां द्रक्ष्यध्वं प्लवङ्गमाः।
दिवमावृत्य गच्छन्तं ग्रसमानमिवाम्बरम्॥२१॥

विधमिष्यामि जीमृतान्कम्पयिष्यामि पर्वतान्।
सागरं शोषयिष्यामि प्लवमानः समाहितः॥२२॥

वैनतेयस्य सा शक्तिर्मम या मारुतस्य वा॥२३॥

ऋते सुपर्णराजानं मारुतं वा महाजवम्।
न तद्भूतं प्रपश्यामि यन्मां प्लुतमनुव्रजेत्॥२४॥

नूनं नेष्यामि वैदेहीं रामस्य महिषीं प्रियाम्।
महासंनहनोपेतौ महान्तौ पुरुषर्षभौ ॥
ऋश्यमूकं पुनः शैलं प्लवेयं रामलक्ष्मणौ॥२५ ॥

निमेषान्तरमात्रेण निरालम्बनमम्बरम्।
सहसा निपतिष्यामि घनाद्विद्युवोत्थिता ॥२६॥

भविष्यति हि मे रूपं प्लवमानस्य सागरे।
विष्णोर्विक्रममाणस्य पुरा त्रीन्विक्रमानिव॥२७॥

बुद्धया चाहं प्रपश्यामि मनश्रेष्टा च मे तथा।
अहं द्रक्ष्यामि वैदेहीं प्रमोदध्वं प्लवङ्गमाः॥२८॥

मारुतस्य समो वेगे गरुडस्य समो जवे।
अयुतं योजनानां तु गमिष्यामीति मे मतिः ॥२९॥

वासवस्य सवज्रस्य ब्रह्मणो वा स्वयंभुवः।
विक्रम्य सहसा हस्तादमृतं तदिहानये॥३०॥

तेजश्चन्द्राद्धि गृह्णीयां सूर्याद्वा तेज उत्तमम्।
लङ्कां वापि समुत्क्षिप्य गच्छेयमिति मे मतिः ॥३१॥

तमेवं वानरश्रेष्ठं गर्जन्तममितौजसम्।
प्रहृष्टा हरयस्तत्र समुदैक्षन्त विस्मिताः॥३२॥

तस्य तद्वचनं श्रुत्वा ज्ञातीनां शोकनाशनम्।
उवाच परिसंहृष्टो जाम्बवान् हरिसत्तमम्॥३३॥

वीर केसरिणः पुत्र हनुमन् मारुतात्मज।
ज्ञातीनां विपुलः शोकस्त्वया तात प्रणाशितः ॥३४॥

तव कल्याणरुचयः कपिमुख्याः समाहिताः।
मङ्गलान्यर्थसिद्धयर्थं करिष्यन्ति समाहिताः॥३५॥

ऋषीणां च प्रसादेन कपिवृद्धमतेन च।
गुरूणां च प्रसादेन प्लवस्व त्वं महार्णवम्॥३६॥

स्थास्यामश्चैकपादेन यावदागमनं तव।
त्वद्गतानि च सर्वेषां जीवितानि वनौकसाम्॥३७॥

ततस्तु हरिशार्दूलस्तानुवाच वनौकसः।
नेयं मम मही वेगं लङ्घने धारयिष्यति॥३८॥

एतानीह नगस्यास्य शिलासङ्कटशालिनः।
शिखराणि महेन्द्रस्य स्थिराणि च महान्ति च ॥३९॥

एषु वेगं करिष्यामि महेन्द्रशिखरेष्वहम्।
नानाद्रुमविकीर्णेषु धातुनिःष्यन्दशोभिषु॥४०॥

एतानि मम निष्पेषं पादयोः प्लवतां वराः।
प्लवतो धारयिष्यन्ति योजनानामितः शतम् ॥४१॥

तदेवं वानरश्रेष्ठो हनुमानुद्भिरद्वचः॥४२॥

ततस्तं मारुतप्रख्यः स हरिर्मारुतात्मजः।
आरुरोह गिरिश्रेष्ठं महेन्द्रमरिमर्दनः॥४३॥

वृतं नानाविधैर्वृक्षैर्मृगसेवितशाद्वलम्।
लताकुसुमसंबाधं नित्यपुष्पफलद्रुमम्॥४४॥

सिंहशार्दूलचरितं मत्तमातङ्गसेवितम्।
मत्तद्विजगणोद्धुष्टं सलिलोत्पीडसङ्कुलम्॥४५॥

महद्भिरुच्छ्रितं शृङ्गैर्महेन्द्रं स महाबलः।
विचचार हरिश्रेष्ठो महेन्द्रसमविक्रमः॥४६॥

पादाभ्यां पीडितस्तेन महाशैलो महात्मनः।
ररास सिंहाभिहतो महामत्त इव द्विपः॥४७॥

मुमोच सलिलोत्पीडान्विप्रकीर्णशिलोच्चयः।
वित्रस्तमृगमातङ्गः प्रकम्पितमहाद्रुमः॥४८॥

नागगन्धर्वमिथुनैः पानसंसर्गकर्कशैः।
उत्पतद्भिश्च विहगैर्विद्याधरगणैरपि॥४९॥

त्यज्यमानमहासानुः संनिलीनमहोरगः।
चलशृङ्गशिलोद्धातस्तदाऽभूत्स महागिरिः॥५०॥

निःश्वसद्भिस्तदार्तैस्तु भुजङ्गैरर्धनिःसृतैः।
सपताक इवाभाति स तदा धरणीधरः॥५१॥

ऋषिभिस्त्राससंभ्रान्तैस्त्यज्यमानः शिलोच्चयः।
सीदन्महति कान्तारे सार्थहीन इवाध्वगः॥५२॥

स वेगवान्वेगसमाहितात्मा
हरिप्रवीरः पवनात्मजः कपिः।
मनः समाधाय महानुभावो
जगाम लङ्कां मनसा हनूमान्॥५३॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये
किष्किन्धाकाण्डे सप्तषष्टितमः सर्गः ॥

आदितः श्लोकाः 11790
किष्किन्धाकाण्डे आदितः श्लोकाः 2538

॥ इति किष्किन्धाकाण्डं समाप्तम्॥

अस्यानन्तरं सुन्दरकाण्डं भविष्यति। तस्यायमाद्यः श्लोकः।

ततो रावणनीतायाः सीतायाः शत्रुकर्शनः।
इयेष पदमन्वेष्टं चारणाचरिते पथि ॥

॥ शुभं भूयात् ॥

<MISSING_FIG href="../books_images/U-IMG-1707971530Screenshot(12"/>.png)

]