[[आरण्यकाण्डः Source: EB]]
[
[TABLE]
PRINTED BY
V. VENKATESWARA SASTRULU
of V. RAMASWAMY SASTRULU & SONS
AT THE VAVILLA PRESS
Madras.
[TABLE]
चेन्नपुरीस्थे
वाविल्लमुद्रणालये
सम्मुद्रितः॥
आरण्यकाण्ड फलश्रुतिरारभ्यते उमासंहितायां उमां प्रति शिवोक्तिः ॥
यो विराधवधं नित्यं शृणोति श्रावयेत वा।
तस्य सर्वाणि पापानि लयं यान्ति न संशयः ॥१॥
शरभङ्गाश्रमगतिं राघवस्य महात्मनः।
शृण्वन्त्रिदशलोकं वै प्राप्नोत्येव न संशयः ॥२॥
अप्यहं जीवितं जह्यां त्वां वा सीते सलक्ष्मणाम्।
इत्यादिश्रवणान्मर्त्योरामात्कांक्षितमाप्नुयात् ॥३॥
श्रुत्वा श्रीरामविजयं पापबन्धाद्विमुच्यते।
भरतस्यार्यपुत्रस्येत्यत्रत्यनवमाक्षरम् ॥४॥
भक्त्या श्रुत्वा च गायत्र्याः परां सिद्धिमवाप्नुयात्।
सीतापहारमारभ्य लंकायां स्थापनावधि ॥५॥
श्रवणाच्छास्त्रविहितं ज्येष्ठा देवी विमुंचति।
सीतान्वेषणमाकर्ण्य नैव लक्ष्मीर्वियुज्यते ॥६॥
जटायोस्संस्कृतिं श्रुत्वा नरस्स्वर्गमवाप्नुयात्।
कबंधमोक्षणं श्रुत्वा स्वर्लोकं याति मानवः ॥७॥
शबर्यास्स्वर्गतिं श्रुत्वा साध्वीनां लोकगो भवेत्।
गच्छ शीघ्रमितो रामेत्यत्रत्यं दशमाक्षरम् ॥८॥
निशम्य देव्या मनुजस्सूर्यलोकमवाप्नुयात्।
आरण्यकाण्डमाहात्म्यं ये शृण्वन्ति महीतले ॥९॥
राघवस्य प्रसादेन विष्णुलोकं व्रजंति ते।
आरण्यकांडपारायणादिसमये श्रीरामध्यानक्रमः ॥
जटिलं चीरवसनं दण्डकारण्यवासिनम्।
मुनिवेषधरं ध्यायेदारण्ये काण्ड उत्तमे ॥१०॥
॥श्रीः॥
स्मार्तादीनां सर्वेषां श्रीरामायणपारायणादौ
॥ कर्तव्यपूजाविधानम् ॥
आचम्य। प्राणानायम्य। ममोपात्त… शुभे शोभने मुहूर्ते अस्यां शुभतिथौ श्रीसीतालक्ष्मणभरतशत्रुघ्न हनुमत्समेत श्रीरामचन्द्रदेवताप्रीत्यर्थं यावच्छक्तिध्यानावाहनादिषोडशोपचारपूजां करिष्ये ॥ आदौ निर्विघ्नेन परिसमाप्त्यर्थं गणाधिपतिपूजां करिष्ये ॥ तदंगत्वेन कलशपूजां करिष्ये ॥ कलशपूजां गणपतिपूजां च कृत्वा ॥
वैदेहीसहितं सुरद्रुमतले हैमे महामंटपे
मध्ये पुष्पकमासने मणिमये वीरासने सुस्थितम्।
अग्रे वाचयति प्रभञ्जनसुते तत्त्वं मुनिभ्यः
परं व्याख्यांतं भरतादिभिः परिवृतं रामं भजे श्यामलम् ॥
ततश्श्रीमत्कोशोपरि श्रीरामध्यानावाहनादिनैवेद्यांतपूजा विधेया ॥ श्रीसीतारामचन्द्रदेवताभ्यां नमः ॥ ध्यानावाहनादिषोडशोपचारपूजां च कृत्वा ॥
॥ श्रीमद्रामायणपारायणारम्भक्रमः ॥
सद्गुरुसकाशाल्लब्धोपदेशो वक्ष्यमाणरीत्या श्रीरामायणपारायणं कुर्यात् - देशकालौ संकीर्त्य—
अस्य श्रीरामायणमहामंत्रस्य वाल्मीकिर्भगवान् ऋषिः - अनुष्टुप्छन्दः श्रीसीतालक्ष्मणभरतशत्रुघ्नहनुमत्समेत-श्रीरांमचन्द्रो देवता - रां बीजं - श्रीशक्तिः - मं कीलकं मम श्रीसीतालक्ष्मणभरत-शत्रुघ्नहनुमत्समेतश्रीरामचन्द्रप्रसादसिद्ध्यर्थेपारायणजपे विनि
योगः - रां अंगुष्ठाभ्यान्नमः - रीं तर्जनीभ्यां स्वाहा - रूं मध्यमाभ्यां वषट् - रैंअनामिकाभ्यां हुं - रौं कनिष्ठिकाभ्यां वौषट्- रः करतलकरपृष्ठाभ्यां फट् - रां हृदयाय नमः - रींशिरसे स्वाहा - रूं शिखायै वषट् - रैंकवचाय हुं- रौं नेत्रत्रयाय वौषट् - रःअस्त्राय फट् ॥ लोकत्रयेण दिग्बंधः ॥
ध्यानम्—
कालांभोधरकांतिकांतमनिशं वीरासनाध्यासिनं
मुद्रां ज्ञानमयीं दधानमपरं हस्तांबुजं जानुनि।
सीतां पार्श्वगतां सरोरुहकरां विद्युन्निभां राघवं
पश्यंतं मकुटांगदादिविविधाकल्पोज्ज्वलाङ्गं भजे ॥
॥ अथ मानसिकपूजा ॥
लं पृथिव्यात्मने श्रीरामचन्द्रपरब्रह्मणे गंधं समर्पयामि - हं आकाशात्मने श्रीरामचन्द्रपरब्रह्मणे पुष्पं समर्पयामि - यं वाय्वात्मने श्रीरामचन्द्र परब्रह्मणे धूपमाघ्रापयामि - रं अग्न्यात्मने श्रीरामचन्द्रपरब्रह्मणे दीपं दर्शयामि - वं अमृतात्मने श्रीरामचन्द्रपरब्रह्मणे अमृतोपहारं समर्पयामि - सं सर्वात्मने श्रीरामचन्द्र परब्रह्मणे सर्वोपचारपूजास्समर्पयामि - इति मानसिकपूजा ॥
मूलमंत्रः—
धर्मात्मा सत्यसंधश्च रामो दाशरथिर्यदि।
पौरुषे चाप्रतिद्वंद्वश्शरैनं जहि रावणिम् ॥
इति यथाशक्ति जपित्वा श्रीरामायणपारायणं कुर्यात् ॥ अनंतरं पुनः ध्यानं मानसिकपूजां हृदयादिन्यासं कुर्यात् - लोकत्रयेण दिग्विमोकः ॥
गुह्यादिगुह्यगोप्ता त्वं गृहाणास्मत्कृतं जपम्।
सिद्धिर्भवतु मे देव ! त्वत्प्रसादाद्रघूद्वह !।
———
श्रीवैष्णवानां
॥ श्रीरामायणपठनोपक्रमानुसंधेयक्रमः ॥
प्रथमतः (रामानुज) श्री शैलेशेत्यादि स्वस्वसंप्रदायनिर्वाहकाचायानुसंधानम्। ततः ‘लक्ष्मीनाथे’ त्यारभ्य ‘प्रणतोऽस्मि नित्य’ मित्यंतम्। अनंतरं श्रीशैलपूर्णविषयम् ‘पितामह’ स्यति श्लोकमारभ्य श्रीभाष्यकारप्रभृतिस्वाचार्यपर्यंतविषयास्सांप्रदायिक-श्लोका अनुसंधेयाः। यद्वा श्रीधरादिस्वाचार्यपर्यंताः प्रतिव्यक्तिश्लोका अनुसंधेयाः ॥
ततः—
कूजंतं रामरामेति मधुरं मधुराक्षरम्।
आरुह्य कविताशाखां वन्दे वाल्मीकिकोकिलम् ॥१॥
वाल्मीकेर्मुनिसिंहस्य कवितावनचारिणः।
शृण्वन्रामकथानादं को न याति परां गतिम् ॥२॥
यः पिबन्सततं रामचरितामृतसागरम्।
अतृप्तस्तं मुनिं वन्दे प्राचेतसमकल्मषम् ॥३॥
गोष्पदीकृतवाराशिं मशकीकृतराक्षसम्।
रामायणमहामालारत्नं वन्देऽनिलात्मजम् ॥४॥
अञ्जनानन्दनं वीरं जानकीशोकनाशनम्।
कपीशमक्षहंतारं वन्दे लङ्काभयंकरम् ॥५॥
मनोजवं मारुततुल्यवेगं जितेंद्रियं बुद्धिमतां वरिष्ठम्।
वातात्मजं वानरयूथमुख्यं श्रीरामदूतं शिरसा नमामि॥६॥
उल्लङ्घ्य सिन्धोस्सलिलं सलीलं यश्शोकवह्निं जनकात्मजायाः।
आदाय तेनैव ददाह लङ्कां नमामि तं प्राञ्जलिराञ्जनेयम् ॥७॥
आञ्जनेयमतिपाटलाननं काञ्चनाद्रिकमनीयविग्रहम्।
पारिजाततरुमूलवासिनं भावयामि पवमाननन्दनम् ॥८॥
यत्रयत्र रघुनाथकीर्तनं तत्रतत्र कृतमस्तकाञ्जलिम्।
बाष्पवारिपरिपूर्णलोचनं मारुतिं नमत राक्षसान्तकम् ॥९॥
वेदवेद्ये परे पुंसि जाते दशरथात्मजे।
वेदः प्राचेतसादासीत्साक्षाद्रामायणात्मना ॥१०॥
तदुपगतसमाससन्धियोगं सममधुरोपनतार्थवाक्यबद्धम्।
रघुवरचरितं मुनिप्रणीतं दशशिरसश्च वधं निशामयध्वम् ॥११॥
श्रीराघवं दशरथात्मजमप्रमेयं सीतापतिं रघुकुलान्वयरत्नदीपम्।
आजानुबाहुमरविन्ददलायताक्षं रामं निशाचरविनाशकरं नमामि ॥१२॥
वैदेहीसहितं सुरद्रुमतले हैमे महामण्डपे
मध्येपुष्पकमासने मणिमये वीरासने सुस्थितम्।
अग्रेवाचयति प्रभञ्जनसुते तत्त्वं मुनिभ्यः परं
व्याख्यान्तं भरतादिभिः परिवृतं रामं भजे श्यामलम् ॥१३॥
ततो यथाशक्ति श्रीकोशोपरि भगवदाराधनं कर्तव्यम् ॥
———
॥ पारायणसमापनक्रमः ॥
एवमेतत्पुरावृत्तमाख्यानं भद्रमस्तु वः।
प्रव्याहरत विस्रब्धं बलं विष्णोः प्रवर्धताम् ॥१॥
लाभस्तेषां जयस्तेषां कुतस्तेषां पराभवः।
येषामिन्दीवरश्यामो हृदये सुप्रतिष्ठितः ॥२॥
काले वर्षतु पर्जन्यः पृथिवी सस्यशालिनी।
देशोऽयं क्षोभरहितो ब्राह्मणास्सन्तु निर्भयाः ॥३॥
कावेरी वर्धतां कालेऽकाले वर्षतु वासवः।
श्रीरङ्गनाथो जयतु श्रीरङ्गश्रीश्च वर्धताम् ॥४॥
स्वस्ति प्रजाभ्यः परिपालयन्तां न्याय्येन मार्गेण महीं महीशाः।
गोब्राह्मणेभ्यश्श्शुभमस्तु नित्यं लोकास्समस्तास्सुखिनो भवन्तु ॥५॥
मङ्गलं कोसलेन्द्राय महनीयगुणाब्धये।
चक्रवर्तितनूजाय सार्वभौमाय मङ्गलम् ॥६॥
वेदवेदान्तवेद्याय मेघश्यामलमूर्तये।
पुंसां मोहनरूपाय पुण्यश्लोकाय मङ्गलम् ॥७॥
विश्वामित्रान्तरङ्गाय मिथिलानगरीपतेः।
भाग्यानां परिपाकाय भव्यरूपाय मङ्गलम् ॥८॥
पितृभक्ताय सततं भ्रातृभिस्सहसीताया।
नन्दिताखिललोकाय रामभद्राय मङ्गलम् ॥९॥
व्यक्तसाकेतवासाय चित्रकूटविहारिणे।
सेव्याय सर्वयमिनां धीरोदाराय मङ्गलम् ॥१०॥
सौमित्रिणा च जानक्या चापबाणासिधारिणे।
संसेव्याय सदाभक्त्या स्वामिने मम मङ्गलम् ॥११॥
दण्डकारण्यवासाय खण्डितामरशत्रवे।
गृध्रराजाय भक्ताय मुक्तिदायास्तु मङ्गलम् ॥१२॥
सादरं शबरीदत्तफलमूलाभिलाषिणे।
सौलभ्यपरिपूर्णाय सत्वोद्रिक्ताय मङ्गलम् ॥१३॥
हनुमत्समवेताय हरीशाभीष्टदायिने।
वालिप्रमथनायास्तु महाधीराय मङ्गलम् ॥१४॥
श्रीमते रघुवीराय सेतूल्लङ्गितसिन्धवे।
जितराक्षसराजाय रणधीराय मङ्गलम् ॥१५॥
आसाद्य नगरी दिव्यामभिषिक्ताय सीताया।
राजाधिराजराजाय रामभद्राय मङ्गलम् ॥१६॥
मङ्गलाशासनपरैर्मदाचार्यपुरोगमैः।
सर्वैश्च पूर्वैराचार्यैस्सत्कृतायास्तु मङ्गलम् ॥१७॥
[कायेन वाचा मनसेन्द्रियैर्वा बुद्धयाऽऽत्मनावा प्रकृतेस्स्वभावात्।
करोमि यद्यत्सकलं परस्मै नारायणायेति समर्पयामि ॥]
ततः ’ पितामह’ स्येत्यारभ्य स्वाचार्यान्ताश्श्लोका अनुसन्धेयाः ॥
———
श्रीस्मार्तमध्वादीनांश्रीमद्रामायण
॥ पठनोपक्रमानुसन्धेयक्रमः ॥
शुक्लांबरधरं विष्णुं शशिवर्णं चतुर्भुजम्।
प्रसन्नवदनं ध्यायेत्सर्वविघ्नोपशान्तये ॥१॥
वागीशाद्यास्सुमनसस्सर्वार्थानामुपक्रमे।
यं नत्वा कृतकृत्यास्स्युस्तं नमामि गजाननम् ॥२॥
ततः श्रीमच्छङ्कराचार्यादि गुरुपरम्परानुसन्धेया ॥
दोर्भिर्युक्ता चतुर्भिस्स्फटिकमणिमयीमक्षमालां दधाना
हस्तेनैकेन पद्मं सितमपि च शुकं पुस्तकं चापरेण।
भासा कुन्देन्दुशङ्खस्फटिकमणिनिभा भासमानाऽसमाना
सा मे वाग्देवतेयं निवसतु वदने सर्वदा सुप्रसन्ना ॥३॥
कूजन्तं रामरामेति मधुरं मधुराक्षरम्।
आरुह्य कविताशाखां वन्दे वाल्मीकिकोकिलम् ॥४॥
वाल्मीकेर्मुनिसिंहस्य कवितावनचारिणः।
शृण्वन् रामकथानादं को न याति परां गतिम् ॥५॥
यः पिबन्, सततं रामचरितामृतसागरम्।
अतृप्तस्तं मुनिं वन्दे प्राचेतसमकल्मषम् ॥६॥
गोष्पदीकृतवाराशिं मशकीकृतराक्षसम्।
रामायणमहामालारत्नं वन्देऽनिलात्मजम् ॥७॥
अञ्जनानन्दनं वीरं जानकीशोकनाशनम्।
कपीशमश्नहन्तारं वन्दे लङ्काभयङ्करम् ॥८॥
उल्लङ्ग्य सिन्धोरसलिलं सलीलं यश्शोकवह्निं जनकात्मजायाः।
आदाय तेनैव ददाह लङ्कांनमामि तं प्राञ्जलिराञ्जनेयम् ॥९॥
आञ्जनेयमतिपाटलाननं काञ्चनाद्रिकमनीयविग्रहम्।
पारिजाततरुमूलवासिनं भावयामि पवमाननन्दनम् ॥१०॥
यत्र यत्र रघुनाथकीर्तनं तत्र तत्र कृतमस्तकाञ्जलिम्।
बाष्पवारिपरिपूर्णलोचनं मारुतिं नमत राक्षसान्तकम् ॥११॥
मनोजवं मारुततुल्यवेगं जितेन्द्रियं बुद्धिमतां वरिष्ठम्।
वातात्मजं वानरयूथमुख्यं श्रीरामदूतं शिरसा नमामि ॥१२॥
यः कर्णांजलिसंपुटैरहरहरसम्यक्पिबत्यादरा-
द्वाल्मीकेर्वेदनारविन्दगलितं रामायणाख्यं मधु।
जन्मव्याधिजराविपत्तिमरणैरत्यन्तसोपद्रवं
संसारं स विहाय गच्छति पुमान्विष्णोः पदं शाश्वतम् ॥१३॥
तदुपगतसमाससन्धियोगं सममधुरोपनतार्थवाक्यबद्धम्।
रघुवरचरितं मुनिप्रणीतं दशशिरसश्च वधं निशामयध्वम् ॥१४॥
वाल्मीकिगिरिसंभूता रामसागरगामिनी।
पुनाति भुवनं पुण्या रामायणमहानदी ॥१५॥
लोकसारसमाकीर्ण सर्गकल्लोलसङ्कुलम्।
काण्डग्राहमहामीनं वन्दे रामायणाणर्वम् ॥१६॥
वेदवेद्ये पुरे पुंसि जाते दशरथात्मजे।
वदेः प्राचेतसादासीत्साक्षाद्रामायणात्मना ॥१७॥
वैदेहीसहितं सुरद्रुमतले हैमे महामण्डपे
मध्येपुष्पकमासने मणिमये वीरासने सुस्थितम्।
अग्रे वाचयति प्रभञ्जनसुते तत्त्वं मुनिभ्यः परं
व्याख्यान्तं भरतादिभिः परिवृतं रामं भजे श्यामलम् ॥१८॥
वामे भूमिसुता पुरश्च हनुमान् पश्चात्सुमित्रासुत-
शशत्रुघ्नो भरतश्च पार्श्वदलयोर्वाय्वादिकोणेषु च।
सुग्रीवश्च विभीषणश्च युवराट् तारासुतो जाम्बवा-
न्मध्ये नीलसरोजकोमलरुचि रामं भजे श्यामलम् ॥१९॥
नमोऽस्तु रामाय सलक्ष्मणाय देव्यै च तस्यै जनकात्मजायै।
नमोऽस्तु रुद्रेन्द्रयमानिलेभ्यो नमोऽस्तु चन्द्रार्कमरुद्गणेभ्यः ॥२०॥
** [ततश्श्रीकोशोपरिश्रीरामावाहनादिनैवेद्यान्तपूजा विधेया पारायणावसाने च पुनः पूजा कर्तव्या ॥]**
॥ पारायणसमापनसमयानुसन्धेयक्रमः ॥
स्वस्ति प्रजाभ्यः परिपालयन्तां न्याय्येन मार्गेण महीं महीशाः।
गोब्राह्मणेभ्यश्शुभमस्तु नित्यं लोकास्समस्तास्सुखिनो भवन्तु ॥१॥
काले वर्षतु पर्जन्यः पृथिवी सस्यशालिनी।
देशोऽयं क्षोभरहितो ब्राह्मणास्सन्तु निर्भयाः ॥२॥
अपुत्त्राः पुत्त्रिणस्सन्तु पुत्त्रिणस्सन्तु पौत्त्रिणः।
अधनास्सधनास्सन्तु जीवन्तु शरदां शतम् ॥३॥
चरितं रघुनाथस्य शतकोटिप्रविस्तरम्।
एकैकमक्षरं प्रोक्तं महापातकनाशनम् ॥४॥
शृण्वन् रामायणं भक्त्या यः पादं पदमेव वा।
स याति ब्रह्मणः स्थानं ब्रह्मणा पूज्यते सदा ॥५॥
रामाय रामभद्राय रामचन्द्राय वेधसे।
रघुनाथाय नाथाय सीतायाः पतये नमः ॥६॥
यन्मङ्गलं सहस्राक्षे सर्वदेवनमस्कृते।
वृत्रनाशे समभवत्तत्ते भवतु मङ्गलम् ॥७॥
यन्मङ्गलं सुपर्णस्य विनताऽकल्पयत्पुरा।
अमृतं प्रार्थयानस्य तत्ते भवतु मङ्गलम् ॥८॥
मङ्गलं कोसलेन्द्राय महनीयगुणाब्धये।
चक्रवर्तितनूजाय सार्वभौमायमङ्गलम् ॥९॥
अमृतोत्पादने दैत्यान् घ्नतो वज्रधरस्य यत्।
अदितिर्मङ्गलं प्रादात्तत्ते भवतु मङ्गलम् ॥१०॥
त्रीन्विक्रमान् प्रक्रमतो विष्णोरमिततेजसः।
यदासीन्मङ्गलं राम तत्ते भवतु मङ्गलम् ॥११॥
ऋतवस्सागरा द्वीपा वेदा लोका दिशश्च ते।
मङ्गलानि महाबाहो दिशन्तु तव सर्वदा ॥१२॥
कायेन वाचा मनसेन्द्रियैर्वा बुद्ध्याऽऽत्मना वा प्रकृतेस्वभावात्।
करोमि यद्यत्सकलं परस्मै श्रीराघवायेति समर्पयामि ॥१३॥
॥ श्रीगायत्रीरामायणम् ॥
तपरस्वाध्यायनिरतं तपस्वी वाग्विदां वरम्।
नारदं परिपप्रच्छ वाल्मीकिर्मुनिपुङ्गवम् ॥१॥
स हत्वा राक्षसान् सर्वान् यज्ञघ्नान् रघुनन्दनः।
ऋषिभिः पूजितस्सम्यग्यथेन्द्रो विजयी पुरा ॥२॥
विश्वामित्रस्स धर्मात्मा श्रुत्वा जनकभाषितम्।
वत्स रामं धनुः पश्य इति राघवमब्रवीत् ॥३॥
तुष्टावास्य तदा वंशं प्रविश्य स विशांपतेः।
शयनीयं नरेन्द्रस्य तदासाद्य व्यतिष्ठत ॥४॥
वनवासं हि संख्याय वासांस्याभरणानि च।
भर्तारमनुगच्छन्त्यै सीतायै श्वशुरो ददौ ॥५॥
राजा सत्यं च धर्मश्च राजा कुलवतां कुलम्।
राजा माता पिता चैव राजा हितकरो नृणाम् ॥६॥
निरीक्ष्य स मुहूर्त तु ददर्श भरतो गुरुम्।
उटजे राममासीनं जटावल्कलधारिणम् ॥७॥
यदि बुद्धिः कृता द्रष्टुमगस्त्यं तं महामुनिम्।
अद्यैव गमने बुद्धिं रोचयस्व महायशाः ॥८॥
भरतस्यार्यपुत्त्रस्य श्वश्रूणां मम च प्रभो।
मृगरूपमिदं व्यक्तं विस्मयं जनयिष्यति ॥९॥
गच्छ शीघ्रमितो राम सुग्रीवं तं महाबलम्।
वयस्यं तं कुरु क्षिप्रमितो गत्वाऽद्य राघव ॥१०॥
देशकालो प्रतीक्षस्व क्षममाणः प्रियाप्रिये।
सुखदुःखसहः काले सुग्रीववशगो भव ॥११॥
वन्द्यास्ते तु तपस्सिद्धास्तपसा वीतकल्मषाः।
प्रष्टव्यास्तेऽपि सीतायाः प्रवृत्ति विनयान्वितैः ॥१२॥
स निर्जित्य पुरीं श्रेष्ठां लङ्कां तां कामरूपिणीम्।
विक्रमेण महातेजा हनूमान् मारुतात्मजः ॥१३॥
धन्या देवास्सगन्धर्वास्सिद्धाश्च परमर्षयः।
मम पश्यन्ति ये नाथं रामं राजीवलोचनम् ॥१४॥
मङ्गलाभिमुखी तस्य सा तदाऽसीन्महाकपेः।
उपतस्थे विशालाक्षी प्रयता हव्यवाहनम् ॥१५॥
हितं महार्थं मृदुपूर्वसंहितं व्यतीतकालायतिसंप्रतिक्षमम्।
निशम्य तद्वाक्यमुपस्थितज्वरः प्रसङ्गवानुत्तरमेतदब्रवीत् ॥१६॥
धर्मात्मा रक्षसां श्रेष्ठरसंप्राप्तोऽयं विभीषणः।
लंकैश्वर्यं ध्रुवं श्रीमानयं प्राप्नोत्यकण्टकम् ॥१७॥
यो वज्रपाताशनिसन्निपातान्न चुक्षुभे नापि चचाल राजा।
स रामबाणाभिहतो भृशार्तश्चचाल चापं च मुमोच वीरः ॥१८॥
यस्य विक्रममासाद्य राक्षसा निधनं गताः।
तं मन्ये राघवं वीरं नारायणमनामयम् ॥१९॥
न ते ददृशिरे रामं दहन्तमरिवाहिनीम्।
मोहिताः परमास्त्रेण गान्धर्वेण महात्मना ॥२०॥
प्रणम्य देवताभ्यश्च ब्राह्मणेभ्यश्च मैथिली।
बद्धाञ्जलिपुटा चेदमुवाचाग्निसमीपतः ॥२१॥
चलनात्पर्वतेन्द्रस्य गणा देवाच कम्पिताः।
चचाल पार्वती चापि तदाऽश्लिष्टामहेश्वरम् ॥२२॥
दाराः पुत्त्राः पुरं राष्ट्रं भोगाच्छादनभाजनम् ॥
सर्वमेवाविभक्तं नो भविष्यति हरीश्वरः ॥२३॥
यामेव रात्रिं शत्रुघ्नः पर्णशालां समाविशत्।
तामेव रात्रिं सीताऽपि प्रसूता दारकद्वयम् ॥२४॥
इदं रामायणं कृत्स्नं गायत्रीबीजसंयुतम्।
त्रिसन्ध्यं यः पठेन्नित्यं सर्वपापैः प्रमुच्यते ॥२५॥
गायत्रीरामायणं संपूर्णम् ॥
———
॥ देवताप्रार्थना ॥
शुक्लाम्बरधरं विष्णुं शशिवर्णं चतुर्भुजम्।
प्रसन्नवदनं ध्यायेत्सर्वविघ्नोपशान्तये ॥१॥
रामाय रामभद्राय रामचन्द्राय वेधसे।
रघुनाथाय नाथाय सीतायाः पतये नमः ॥२॥
—————
॥ वाल्मीकिप्रार्थना ॥
क्रूजंतं रामरामेति मधुरं मधुराक्षरम्।
आरुह्य कविताशाखां वन्दे वाल्मीकिकोकिलम् ॥१॥
वाल्मीकेर्मुनिसिंहस्य कवितावनचारिणः।
शृण्वन् रामकथानादं को न याति पराम् गतिम् ॥२॥
—————
॥ आंजनेयप्रार्थना ॥
अंजनानंदनं वीरं जानकीशोकनाशनम्।
कपीशमक्षहंतारं वन्दे लङ्काभयंकरम् ॥१॥
गोष्पदीकृतवाराशिं मशकीकृतराक्षसम्।
रामायणमहामालारत्नं वन्देऽनिलात्मजम् ॥२॥
मनोजवं मारुततुल्यवेगं जितेन्द्रियं बुद्धिमतां वरिष्ठम्।
वातात्मजं वानरयूथमुख्यं श्रीरामदूतं शिरसा नमामि ॥३॥
—————
॥ श्रीरामायणप्रशंसा ॥
श्रीमद्ब्रह्मतदेव बीजममलं यस्याङ्कुरश्चिन्मयः
काण्डैस्सप्तभिरन्वितोऽतिविततो ऋष्यालवालोदितः।
पत्त्रैस्तत्त्वसहस्रकैस्सुविलसच्छाखाशतैः पञ्चभिः
स्वात्मप्राप्तिफलप्रदो विजयते रामायणस्वस्तरुः ॥
यः कर्णाजलिसंपुटैरहरहस्सम्यक्पिबत्यादरा-
द्वाल्मीकेर्वदनारविन्दगलितं रामायणाख्यं मधु।
जन्मव्याधिजराविपत्तिमरणैरत्यन्तसोपद्रवं
संसारं स विहाय गच्छति पुमान्विष्णोः पदं शाश्वतम् ॥
वाल्मीकिगिरिसंभूता रामांभोनिधिसंगता।
श्रीमद्रामायणी गंगा पुनातु भुवनत्रयम्।
—————
॥ श्रीरस्तु ॥
श्रीमद्रामायणे–आरण्यकाण्डे
प्रथमस्सर्गः ॥
<MISSING_FIG href="../books_images/U-IMG-1707811120Screenshot2023-11-25183343.png"/>
प्रविश्य तु महारण्यं दण्डकारण्यमात्मवान्।
ददर्श रामो दुर्धर्षस्तापसाश्रममण्डलम् ॥१॥
कुशचीरपरिक्षिप्तं ब्राह्म्यालक्ष्म्या समावृतम्।
यथा प्रदीप्तं दुर्दर्शं गगने सूर्यमण्डलम् ॥२॥
शरण्यं सर्वभूतानां सुसम्मृष्टाजिरं तथा।
मृगैर्बहुभिराकीर्ण पक्षिसंघैस्समाकुलम् ॥३॥
पूजितं च प्रनृत्तं च नित्यमप्सरसां गणैः।
विशालैरग्निशरणैस्स्रुग्भाण्डैरजिनैः कुशैः ॥४॥
समिद्भिस्तोयकलशैः फलमूलैश्च शोभितम्।
आरण्यैश्च महावृक्षैः पुण्यैस्स्वादुफलैर्वृतम् ॥५॥
बलिहोमार्चितं पुण्यं ब्रह्मघोषनिनादितम्।
पुष्पैर्वन्यैः परिक्षिप्तं पद्मिन्या च सपद्मया ॥६॥
फलमूलाशनैर्दान्तैश्चीरकृष्णाजिनाम्बरैः।
सूर्यवैश्वानराभैश्च पुराणैर्मुनिभिर्वृतम् ॥७॥
पुण्यैश्च नियताहारैश्शोभितं परमर्षिभिः।
तद्ब्रह्मभवनप्रख्यं ब्रह्मघोषनिनादितम् ॥८॥
ब्रह्मविद्भिर्महाभागैर्ब्राह्मणैरुपशोभितम्।
स दृष्ट्वा राघवश्श्रीमांस्तापसाश्रममण्डलम् ॥९॥
अभ्यगच्छन्महातेजा विज्यं कृत्वा महद्धनुः।
दिव्यज्ञानोपपन्नास्ते रामं दृष्ट्वा महर्षयः ॥१०॥
अभ्यगच्छंस्तथा प्रीता वैदेहीं च यशस्विनीम्।
ते तं सोममिवोद्यन्तं दृष्ट्वा वै धर्मचारिणः ॥११॥
लक्ष्मणं चैव दृष्ट्वा तु वैदेहीं च यशस्विनीम्।
मङ्गलानि प्रयुञ्जानाः प्रत्यगृहन्दृढव्रताः ॥१२॥
रूपसंहननं लक्ष्मी सौकुमार्यं सुवेषताम्।
ददृशुर्विस्मिताकारा रामस्य वनवासिनः ॥१३॥
वैदेहीं लक्ष्मणं रामं नेत्रैरनिमिषैरिव।
आश्चर्यभूतान् ददृशुस्सर्वे ते वनचारिणः ॥१४॥
अत्रैनं हि महाभागास्सर्वभूतहिते रतम्।
अतिथिं पर्णशालायां राघवं सन्यवेशयन् ॥१५॥
ततो रामस्य सत्कृत्य विधिना पावकोपमाः।
आजह्रुस्ते महाभागास्सलिलं धर्मचारिणः ॥१६॥
मूलं पुष्पं फलं वन्यमाश्रमं च महात्मनः
निवेदयित्वा धर्मज्ञास्ततः प्राञ्जलयोऽब्रुवन् ॥१७॥
“धर्मपालो जनस्यास्यशरण्यस्त्वं महायशाः।
पूजनीयश्च मान्यश्च राजा दण्डधरो गुरुः ॥१८॥
इन्द्रस्येह चतुर्भागः प्रजा रक्षति राघव।
राजा तस्माद्वरान्भोगान्भुंक्तेलोकनमस्कृतः ॥१९॥
ते वयं भवता रक्ष्या भवद्विषयवासिनः।
नगरस्थो वनस्थो वा त्वं नो राज जनेश्वरः ॥२०॥
न्यस्तदण्डा वयं राज ! ञ्जितक्रोधा जितेन्द्रियाः।
रक्षितव्यास्त्वया शश्वद्गर्भभूतास्तपोधनाः ॥२१॥
एवमुक्त्वा फलैर्मूलैः पुष्पैर्वन्यैश्च राघवम्।
अन्यैश्च विविधाहारैस्सलक्ष्मणमपूजयन् ॥२२॥
तथाऽन्ये तापसास्सिद्धा रामं वैश्वानरोपमाः।
न्यायवृत्ता यथान्यायं तर्पयामासुरीश्वरम् ॥२३॥
इति श्रीमदारण्यकाण्डे प्रथमस्सर्गः ॥
—————
॥ द्वितीयस्सर्गः ॥
कृतातिथ्योऽथ रामस्तु सूर्यस्योदयनं प्रति।
आमन्त्र्य स मुनीन्सर्वान्वनमेवान्वगाहत ॥१॥
नानामृगगणाकीर्णं शार्दूलवृकसवितम्।
ध्वस्तवृक्षलतागुल्मं ददर्श सलिलाशयम् ॥२॥
निष्कूजनानाशकुनिझिल्लिकागणनादितम्।
लक्ष्मणानुगतो रामो वनमध्यं ददर्श ह ॥३॥
सीतया सह काकुत्स्थस्तस्मिन्घोरमृगायुते।
ददर्श गिरिशृङ्गाभं पुरुषादं महास्वनम् ॥४॥
गम्भीराक्षं महावक्त्रं विकटं विषमोदरम्।
बीभत्सं विषमं दीर्घं विकृतं घोरदर्शनम् ॥५॥
वसानं चर्म वैयाघ्रं वसार्द्रंरुधिरोक्षितम्।
त्रासनं सर्वभूतानां व्यादितास्यमिवान्तकम् ॥६॥
त्रीन्सिहांश्चतुरो व्याघ्रान्द्वौ वृकौ पृषतान् दश।
सविषाणं वसादिग्धं गजस्य च शिरो महत् ॥७॥
अवसज्यायसे शूले विनदन्तं महास्वनम्।
स राम लक्ष्मणं चैव सीता दृष्ट्वा च मैथिलीम् ॥८॥
अभ्यधावत संक्रुद्धः प्रजाः काल इवान्तकः।
स कृत्वा भैरवं नादं चालयन्निव मेदिनीम् ॥९॥
अङ्केनादाय वैदेहीमपक्रम्य ततोऽब्रवीत्।
युवां जटाचीरधरौ सभार्यौ क्षीणजीवितौ ॥१०॥
प्रविष्टौ दण्डकारण्यं शरचापासिधारिणौ।
कथं तापसयोर्वांच वासः प्रमया सह ॥११॥
अधर्मचारिणौ पापौकौयुवां मुनिदूषकौ।
अहं वनमिदं दुर्गं विराधोनाम राक्षसः ॥१२॥
चरामि सायुधो नित्यमृषिमांसानि भक्षयन्।
इयं नारी वरारोहा मम भार्या भविष्यति ॥१३॥
युवयोः पापयोश्चार्हं पास्यामि रुधिरं मृथे॥”
तस्यैवं ब्रुवतो दुष्टं विराधस्य दुरात्मनः ॥१४॥
श्रुत्वा सगर्वितं वाक्यं सम्भ्रान्ताजनकाऽऽत्मजा।
सीता प्रावेपतोद्वेगात्प्रवाते कदली यथा ॥१५॥
तां दृष्ट्वा राघवस्सीतां विराधाङ्कगतां शुभाम्।
अब्रवील्लक्ष्मणं वाक्यं मुखेन परिशुष्यता ॥१६॥
“पश्य सौम्य ! नरेन्द्रस्य जनकस्याऽऽत्मसम्भवाम्।
मम भार्या शुभाचारां विराधाङ्के प्रवेशिताम् ॥१७॥
अत्यन्तसुखसंवृद्धां राजपुत्रीं मनस्विनीम्।
यदभिप्रेतमस्मासु प्रियं वरवृतं च यत् ॥१८॥
कैकेय्यास्तु सुसंपन्नं क्षिप्रमद्यैव लक्ष्मण।
या न तुष्यति राज्येन पुत्रार्थे दीर्घदर्शिनी ॥१९॥
ययाऽहं सर्वभूतानां हितः प्रस्थापितो वनम्।
अद्येदानीं सकामा सा या माता मम मध्यमा ॥२०॥
परस्पर्शात्तु वैदेह्या न दुःखतरमस्ति मे।
पितुर्नियोगात्सौमित्रे ! स्वराज्यहरणात्तथा ॥“२१॥
इति ब्रुवति काकुत्स्थे बाष्पशोकपरिप्लुते।
अब्रवील्लक्ष्मणः क्रुद्धो रुद्धो नाग इव श्वसन् ॥२२॥
“अनाथ इव भूतानां नाथस्त्वं वासवोपप्रः।
मया प्रेष्येण काकुत्स्थ ! किमर्थं परितप्यसे ॥२३॥
शरेण निहतस्याद्य मया क्रुद्धेन रक्षसः।
विराधस्य गतासोर्हि मही पास्यति शोणितम् ॥२४॥
राज्यकामे मम क्रोधो भरते यो बभूव ह।
तं विराधे प्रमोक्ष्यामि वज्री वज्रमिवाचले ॥२५॥
मम भुजबलवेगवेगितः पततु शरोऽस्य महान्महोरसि।
व्यपनयतु तनोश्च जीवितं पततु ततस्स महीं विघूर्णितः ॥ " २६॥
इति श्रीमदारण्यकाण्डे द्वितीयस्सर्गः ॥
—————
॥ तृतीयस्सर्गः ॥
[इत्युक्त्वा लक्ष्मणश्श्रीमन्राक्षसं प्रहसन्निव।
उवाच परमोदारस्सुमित्रानन्दवर्धनः ॥१॥
को भवान्वनमभ्येत्य चरिष्यति यथासुखम्।]
अथोवाच पुनर्वाक्यं विराधः पूरयन्वनम् ॥२॥
“आत्मानं पृच्छते ब्रूतं कौ युवां क्व गमिष्यथः ?”।
तमुवाच ततो रामो राक्षसं ज्वलिताननम् ॥३॥
पृच्छन्तं सुमहातेजा इक्ष्वाकुक्कुलमात्मनः।
“क्षत्रियौवृत्तसम्पन्नौ विद्धि नौ वनगोचरौ ॥४॥
त्वां तु वेदितुमिच्छावः कस्त्वं चरसि दण्डकान्? ”।
तमुवाच विराधस्तु रामं सत्यपराक्रमम् ॥५॥
“हन्त वक्ष्यामि ते राज ! न्निबोध मम राघव !।
पुत्रः किल जयस्याहं मम माता शतह्रदा ॥६॥
विराध इति मामाहुः पृथिव्यां सर्वराक्षसाः।
तपसा चापि मे प्राप्ता ब्रह्मणो हि प्रसादजा ॥७॥
शस्त्रेणावध्यता लोकेऽच्छेद्याभेद्यत्वमेव च।
उत्सृज्य प्रमदामेनामनपेक्षौ यथागतम् ॥८॥
त्वरमाणौ पलायेथां न वां जीवितमाददे “।
तं रामः प्रत्युवाचेदं कोपसंरक्तलोचनः ॥९॥
राक्षसं विकृताकारं विराधं पापचेतसम्।
“क्षुद्र ! धिक्त्वां तु हीनार्थं मृत्युमन्वेषसे ध्रुवम् ॥१०॥
रणे सम्प्राप्स्यसे तिष्ठ न मे जीवन् गमिष्यसि।”
ततस्सज्यं धनुः कृत्वा रामस्सुनिशिताञ्छरान् ॥११॥
सुशीघ्रमभिसंधाय राक्षसं निजघान ह।
धनुषा ज्यागुणवता सप्तबाणान्मुमोच ह ॥१२॥
रुक्मपुङ्खान्महावेगांत्सुपर्णानितुल्यगान्।
ते शरीरं विराधस्य भित्वा बर्हिणवाससः ॥१३॥
निपेतुः शोणितादिग्धा धरण्यां पावकोपमाः।
स विद्धोन्यस्य वैदेहीं शूलमुद्यम्य राक्षसः ॥१४॥
अभ्यद्रवत्सुसंक्रुद्धस्तदा रामं सलक्ष्मणम्।
स विनद्य महानादं शूलं शक्रध्वजोपमम् ॥१५॥
प्रगृह्याशोभत तदा व्यात्तानन इवान्तकः।
अथ तौं भ्रातरौ दीप्तं शरवर्षं ववर्षतुः ॥१६॥
विराधे राक्षसे तस्मिन्कालान्तकयमोपमे।
स प्रहस्य महारौद्रः स्थित्वाऽजृम्भत राक्षसः ॥१७॥
जृम्भमाणस्य ते बाणाः कायान्निष्पेतुराशुगाः।
स्पर्शात्तुवरदानेन प्राणांत्संरोध्य राक्षसः ॥१८॥
विराधश्शूलमुद्यम्य राघवायाभ्यधावत।
तच्छूलं वज्रसंकाशं गगने ज्वलनोपमम् ॥१९॥
द्वाभ्यां शराभ्यां चिच्छेद रामशस्त्रभृतां वरः।
तद्रामविशिखच्छिन्नं शूलं तस्य कराद्भुवि ॥२०॥
पपाताशनिना छिन्नं मेरोरिव शिलातलम्।
तौ खड्गौ क्षिप्रमुद्यम्य कृष्णसर्पोपमौशुभौ ॥२१॥
तूर्णमापततस्तस्य तदा प्रहरतां बलात्।
स वध्यमानस्सुभृशं बाहुभ्यां परिरभ्य तौ ॥२२॥
अप्रकम्प्यौ नरव्याघ्रौ रौद्रः प्रस्थातुमैच्छत।
तस्याभिप्रायमाज्ञाय रामो लक्ष्मणमब्रवीत् ॥२३॥
“वहत्वयमलं तावत्पथाऽनेन तु राक्षसः।
यथा चेच्छति सौमित्रे ! तथा वहतु राक्षसः ॥२४॥
अयमेव हि नः पन्था येन याति निशाचरः।
स तु स्वबलवीर्येण समुत्क्षिप्य निशाचरः ॥२५॥
बालाविव स्कन्धगतौ चकारातिबलौ ततः।
तावारोप्य ततः स्कन्धं राघवौ रजनीचरः ॥२६॥
विराधो निनदन्घोरं जगामाभिमुखो वनम्।
वनं महामेघनिभं प्रविष्टो द्रुमैर्महद्भिर्विविधैरुपेतम्।
नानाविधैः पक्षिशतैर्विचित्रं शिवायुतं व्यालमृगैर्विकीर्णम् ॥२७॥
इति श्रीमदारण्यकाण्डे तृतीयस्सर्गः ॥
—————
॥ चतुर्थस्सर्गः ॥
हीयमाणौ तु तौ दृष्ट्वा वैदेही रामलक्ष्मणौ।
उच्चैस्स्वरेण चुक्रोश प्रगृह्य सुभुजा भुजौ ॥१॥
एष दाशरथी रामस्सत्यवान् शीलवान् शुचिः।
रक्षसा रौद्ररूपेण ह्रीयते सहलक्ष्मणः ॥२॥
मां वृका भक्षयिष्यन्ति शार्दूला द्वीपिनस्तथा।
मां हरोत्सृज्य काकुत्स्थौ नमस्ते राक्षसोत्तम !॥”
तस्यास्तद्वचनं श्रुत्वा वैदेह्या रामलक्ष्मणौ।
वेगं प्रक्रतुर्वीरौ वधे तस्य दुरात्मनः॥४॥
तस्य रौद्रस्य सौमित्रिस्सव्यबाहुं बभञ्ज ह।
रामस्तु दक्षिणं बाहुं तरसा तस्य रक्षसः॥५॥
स भग्नबाहुस्संविग्नो निपपाताऽऽशु राक्षसः।
धरण्यां मेघसङ्काशो वज्रभिन्न इवाचलः ॥६॥
मुष्टिभिर्जानुभिः पद्भिस्सूदयन्तौ तु राक्षसम्।
उद्यम्योद्यम्य चाप्येनं स्थण्डिले निष्पिपेषतुः ॥७॥
स विद्धो बहुभिर्बाणैः खड्गाभ्यां च परिक्षतः।
निष्पिष्टो बहुधा भूमौ न ममार स राक्षसः ॥८॥
तं प्रेक्ष्य रामस्सुभृशमवध्यमचलोपमम्।
भयेष्वभयदश्श्रीमानिदं वचनमब्रवीत् ॥९॥
“तपसा पुरुषव्याघ्र ! राक्षसोऽयं न शक्यते।
शस्त्रेण युधि निर्जेतुं राक्षसं निखनावहे ॥“१०॥
तच्छ्रुत्वा राघवेणोक्तं राक्षसः प्रश्रितं वचः।
इदं प्रोवाच काकुत्स्थं विराधः पुरुषर्षभम् ॥११॥
“हतोऽस्मि पुरुषव्याघ्र ! शक्रतुल्यबलेन वै।
मया तु पूर्वं त्वं मोहान्न ज्ञातः पुरुषर्षभः ॥१२॥
कौसल्यासुप्रजा ! राम ! तात ! त्वं विदितो मया।
वैदेही च महाभागा लक्ष्मणश्च महायशाः ॥१३॥
अपिशापादहं घोरां प्रविष्टो राक्षसीं तनुम्।
तुम्बुरुर्नाम गन्धर्वश्शप्तो वैश्रवणेन ह ॥१४॥
प्रसाद्यमानश्च मया सोऽब्रवीन्मां महायशाः।
यदा दाशरथी रामस्त्वां वधिष्यति संयुगे ॥१५॥
तदा प्रकृतिमापन्नो भवांत्स्वर्गं गमिष्यति।”
इति वैश्रवणो राजा रम्भासक्तं पुराऽनघ ! ॥१६॥
अनुपस्थीयमानो मां संक्रुद्धो व्याजहार ह।
तव प्रसादान्मुक्तोऽहमभिशापात्सुदारुणात् ॥१७॥
भुवनं स्वं गमिष्यामि स्वस्ति वोऽस्तु परन्तप !।
इतो वसति धर्मात्मा शरभङ्गः प्रतापवान् ॥१८॥
अध्यर्धयोजने तात ! महर्षिस्सूर्यसन्निभः।
तं क्षिप्रमभिगच्छ त्वं स ते श्रेयो विधास्यति ॥१९॥
अवटे चापि मां राम ! प्रक्षिप्य कुशली व्रज।
रक्षसां गतसत्त्वानामेष धर्मस्सनातनः ॥२०॥
अवटे ये निधीयन्ते तेषां लोकास्सनातनाः।
एवमुक्त्वा तु काकुत्स्थं विराधश्शरपीडितः ॥२१॥
बभूव स्वर्गसम्प्राप्तो न्यस्तदेहो महाबलः।
तच्छ्रुत्वा राघवो वाक्यं लक्ष्मणं व्यादिदेश ह ॥२२॥
“कुञ्जरस्येव रौद्रस्य राक्षसस्यास्य लक्ष्मण !।
वनेऽस्मिंत्सुमहच्छुभ्रं खन्यतां रौद्रकर्मणः ॥”२३॥
इत्युक्त्वा लक्ष्मणं रामः ’ प्रदरः खन्यता’ मिति।
तस्थौ विराधमाक्रम्य कण्ठे पादेन वीर्यवान् ॥२४॥
ततः खनित्रमादाय लक्ष्मणश्श्वभ्रमुत्तमम्।
अखनत्पार्श्वतस्तस्य विराधस्य महात्मनः ॥२५॥
तं मुक्तकण्ठं निष्पिष्य शङ्ककर्ण महास्वनम्।
विराधं प्राक्षिपच्छुभ्रेनदन्तं भैरवस्वनम् ॥२६॥
तमाहवे निर्जितमाशु विक्रमौ स्थिरावुभौ संयति रामलक्ष्मणौ।
मुदान्वितौ चिक्षिपतुर्भयावहं नदन्तमुत्क्षिप्य विले तु राक्षसम् ॥२७॥
अवव्यतां प्रेक्ष्य महासुरस्य तौ शितेन शस्त्रेण तदा नरर्षभौ।
समर्थ्यचात्यर्थविशारदावुभौ बिले विराधस्य वधं प्रचक्रतुः ॥२८॥
स्वयं विराधेन हि मृत्युरात्मनः प्रसह्य रामेण वधार्थमीप्सितः।
निवेदितः काननचारिणा स्वयं “न मे वधश्शस्त्रकृतो भवे”दिति ॥२९॥
तदेव रामेण निशम्य भाषितं कृता मतिस्तस्य बिलप्रवेशने।
बिलं च रामेण वलेन रक्षसा प्रवेश्यमानेन वनं विनादितम् ॥३०॥
प्रहृष्टरूपाविव रामलक्ष्मणौ विराधमुर्व्याः प्रदरे निहत्य तौ।
ननन्दतुर्वीतभयौ महावने शिलाभिरन्तर्दधतुश्च राक्षसम् ॥३१॥
ततस्तु तौ काञ्चनचित्रकार्मुकौ निहत्य रक्षः परिगृह्य मैथिलीम्।
विजह्रतुस्तौ मुदितौ महावने दिवि स्थितौ चन्द्रदिवाकराविव ॥३२॥
इति श्रीमदारण्यकाण्डे चतुर्थस्सर्गः ॥
—————
॥ पञ्चमस्सर्गः ॥
हत्वा तु तं भीमबलं विराधं राक्षसं वने।
ततस्सीतां परिष्वज्य समाश्वास्य च वीर्यवान् ॥१॥
अब्रवील्लक्ष्मणं रामो भ्रातरं दीप्ततेजसम्।
“कष्टं वनमिदं दुर्गं न च स्म वनगोचराः ॥२॥
अभिगच्छामहे शीघ्रं शरभङ्गं तपोधनम्।
आश्रमं शरभङ्गस्य राघवोऽभिजगाम ह ॥३॥
तस्य देवप्रभावस्य तपसा भावितात्मनः।
समीपे शरभङ्गस्य ददर्श महदद्भुतम् ॥४॥
विभ्राजमानं वपुषा सूर्यवैश्वानरोपमम्।
अवरुह्य रथोत्सङ्गादाकाशे विबुधानुगम् ॥५॥
असंस्पृशन्तं वसुधां ददर्श विबुधेश्वरम्।
सुप्रभाभरणं देवं विरजोऽम्बरधारिणम् ॥६॥
तद्विधैरेव बहुभिः पूज्यमानं महात्मभिः।
हरिभिर्वाजिभिर्युक्तमन्तरिक्षगतं रथम् ॥७॥
ददर्शादूरतस्तस्य तरुणादित्यसन्निभम्।
पाण्डुराभ्रघनप्रख्यं चन्द्रमण्डलसन्निभम् ॥८॥
अपश्यद्विमलं छत्रं चित्रमाल्योपशोभितम्।
चामरव्यजने चाग्र्ये रुक्मदुण्डे महाधने ॥९॥
गृहीते वरनारीभ्यां धूयमाने च मूर्धनि।
गन्धर्वामरसिद्धाश्च बहवः परमर्षयः ॥१०॥
अन्तरिक्षगतं देवं वाग्भिरग्र्याभिरीडिरे।
सहसम्भाषमाणे तु शरभङ्गेण वासवे ॥११॥
दृष्ट्वा शतऋतुं तत्र रामो लक्ष्मणमब्रवीत्।
रामोऽथ रथमुद्दिश्य लक्ष्मणाय प्रदर्शयन् ॥१२॥
अर्चिष्मन्तं श्रिया जुष्टमद्भुतं पश्य लक्ष्मण !।
प्रतपन्तमिवादित्यमन्तरिक्षगतं रथम् ॥१३॥
ये हयाः पुरुहूतस्य पुरा शक्रस्य नश्श्रुताः।
अन्तरिक्षगता दिव्यास्त इमे हरयो ध्रुवम् ॥१४॥
इमे च पुरुषव्याघ्रा ये तिष्ठन्त्यभितो रथम्।
शतं शतं कुण्डलिनो युवानः खड्गपाणयः ॥१५॥
विस्तीर्णविपुलोरस्काः परिघाऽयतबाहवः।
शोणांशुवसनास्सर्वे व्याघ्रा इव दुरासदाः ॥१६॥
उरोदेशेषु सर्वेषां हारा ज्वलनसन्निभाः।
रूपं बिभ्रति सौमित्रे ! पञ्चविंशतिवार्षिकम् ॥१७॥
एतद्धि किल देवानां वयो भवति नित्यदा।
यथेमे पुरुषव्याघ्र ! दृश्यन्ते प्रियदर्शनाः ॥१८॥
इहैव सह वैदेह्या मुहूर्तं तिष्ठ लक्ष्मण !।
यावज्जानाम्यहं व्यक्तं क एष द्युतिमात्रथे॥ “१९॥
तमेवमुक्त्वा सौमित्रि " मिहैव स्थीयता”मिति।
अभिचक्राम काकुत्स्थश्शरभङ्गाश्रमं प्रति ॥२०॥
ततस्समभिगच्छन्तं प्रेक्ष्य रामं शचीपतिः।
शरभङ्गमनुप्राप्य विविक्त इदमब्रवीत् ॥२१॥
“इहोपयात्यसौ रामो यावन्मां नाभिभाषते।
निष्ठां नयतु तावत्तु ततो मां द्रष्टुमर्हति ॥२२॥
जितवन्तं कृतार्थं च द्रष्टाऽहमचिरादिमम्।
कर्म ह्यनेन कर्तव्यं महदन्यैस्सुदुष्करम् ॥२३॥
निष्पादयित्वा तत्कर्म ततो मां द्रष्टुमर्हति।”
इति वज्री तमामन्त्र्य मानयित्वा च तापसम् ॥२४॥
रथेन हरियुक्तेन ययौ दिवमरिन्दमः।
प्रयाते तु सहस्राक्षे राघवस्सपरिच्छदम् ॥२५॥
अग्निहोत्रमुपासीनं शरभङ्गमुपागमत्।
तस्य पादौ च सद्गृह्य रामस्सीता च लक्ष्मणः ॥२६॥
निषेदुस्समनुज्ञाता लब्धवासा निमन्त्रिताः।
ततश्शक्रोपयानं तु पर्यपृच्छत्स राघवः ॥२७॥
शरभंगश्च तत्सर्वं राघवाय न्यवेदयत्।
“मामेष वरदो राम ! ब्रह्मलोकं निनीषति ॥२८॥
जितमुग्रेण तपसा दुष्प्रापमकृतात्मभिः।
अहं ज्ञात्वा नरव्याघ्र ! वर्तमानमदूरतः ॥२९॥
ब्रह्मलोकं न गच्छामि त्वामदृष्ट्वा प्रियातिथिम्।
त्वयाऽहं पुरुषव्याघ्र ! धार्मिकेण महात्मना ॥३०॥
समागम्य गमिष्यामि त्रिदिवं देवसेविनम्।
अक्षया नरशार्दूल! मया लोका जिताश्शुभाः ॥३१॥
ब्राह्म्याश्च नाकपृष्ठ्याश्च प्रतिगृह्णीष्व मामकान्।
एवमुक्तो नरव्याघ्रस्सर्वशास्त्रविशारदः ॥३२॥
ऋषिणा शरभङ्गेण राघवो वाक्यमब्रवीत्।
“अहमेवाहरिष्यामि सर्वलोकान्महामुने ! ॥३३॥
आवासं त्वहमिच्छामि प्रदिष्टमिह कानने।”
राघवेणैव मुक्तस्तु शक्रतुल्यबलेन वै ॥३४॥
शरभङ्गो महाप्राज्ञः पुनरेवाब्रवीद्वचः।
इह राम ! महातेजास्सुतीक्ष्णो नाम धार्मिकः ॥३५॥
चसत्यरण्ये धर्मात्मा स ते श्रेयो विधास्यति।
सुतीक्ष्णमभिगच्छ त्वं शुचौ देशे तपस्विनम् ॥३६॥
रमणीये वनोद्देशे स ते वासं विधास्यति
इमां मन्दाकिनीं राम’ प्रतिस्त्रोतामनुव्रज ॥३७॥
नदीं पुष्पोडुपवहां तत्र तत्र गमिष्यसि।
एष पन्था नरव्याघ्र ! मुहूर्तंपश्य तात ! माम् ॥३८॥
यावज्जहामि गात्राणि जीर्णां त्वचमिवोरगः।”
ततोऽग्निं सुसमाधाय हुत्वा चाज्येन मन्त्रवित् ॥३९॥
शरभङ्गो महातेजाः प्रविवेश हुताशनम्।
तस्य रोमाणि केशांश्च ददाहाग्निर्महात्मनः ॥४०॥
जीर्णां त्वचं तथाऽस्थीनि यच्च मांसं सशोणितम्।
रामस्तु विस्मितो भ्रात्रा भार्यया च महात्मवान् ॥४१॥
स च पावकसङ्काशः कुमारस्समपद्यत।
उत्थायाग्निचयात्तस्माच्छरभङ्गो व्यरोचत ॥४२॥
स लोकानाहिताग्नीनामृषीणां च महात्मनाम्।
देवानां च व्यतिक्रम्य ब्रह्मलोकं व्यरोहत ॥४३॥
स पुण्यकर्मा भवने द्विजर्षभः पितामहं सानुचरं ददर्शह।
पितामहश्चापिसमीक्ष्य तं द्विजं ननन्द ‘सुखागत’मित्युवाचह ॥४४॥
इति श्रीमदारण्यकाण्डे पञ्चमस्सर्गः ॥
—————
॥ षष्ठस्सर्गः ॥
शरभङ्गे दिवं याते मुनिसङ्घास्समागताः।
अभ्यागच्छन्त काकुत्स्थं रामं ज्वलिततेजसम् ॥१॥
वैखानसा वालखिल्या सम्प्रक्षाला मरीचिपाः।
अश्मकुट्टाश्च बहवः पत्राहाराश्च धार्मिकाः ॥२॥
दन्तोलूखलिनश्चैव तथैवोन्मज्जकाः परे।
गात्रशय्या अशय्याश्च तथैवाभ्रावकाशकाः ॥३॥
मुनयस्सलिलाहारा वायुभक्षास्तथापरे।
आकाशनिलयाश्चैव तथा स्थण्डिलशायिनः ॥४॥
व्रतोपवासिनो दान्तास्तथार्द्रपटवाससः।
सजपाश्च तपोनित्यास्तथा पञ्च तपोऽन्विताः ॥५॥
सर्वे ब्राह्म्या श्रिया जुष्टा दृढयोगारसमाहिताः।
शरभङ्गाश्रमे राममभिजग्मुश्च तापसाः ॥६॥
अभिगम्य च धर्मज्ञा रामं धर्मभृतां वरम्।
ऊचुः परमधर्मज्ञमृषिसङ्घारसमाहिताः ॥७॥
“त्वमिक्ष्वाकुकुलस्यास्य पृथिव्याश्च महारथ !।
प्रधानश्वासि नाथश्च देवानां मघवानिव ॥८॥
विश्रुतस्त्रिषु लोकेषु यशसा विक्रमेण च।
पितृभक्तिच सत्यं च त्वयि धर्मश्च पुष्कलः ॥९॥
त्वामासाद्य महात्मानं धर्मज्ञं धर्मवत्सलम्।
अर्थित्वान्नाथ ! वक्ष्यामस्तच्च नः क्षन्तुमर्हसि ॥१०॥
अधर्मस्तु महांस्तात ! भवेत्तस्य महीपतेः।
यो हरेद्वलिषड्भागं न च रक्षति पुत्रवत् ॥११॥
युञ्जानरस्वानिव प्राणान्प्राणैरिष्टांत्सुतानिव
नित्ययुक्तरसदा रक्षंत्सर्वान्विषयवासिनः ॥१२॥
प्राप्नोति शाश्वतीं राम ! कीर्तिं च बहुवार्षिकीम्।
ब्रह्मणः स्थानमासाद्य तत्र चापि महीयते ॥१३॥
यत्करोति परं धर्मं मुनिर्मूलफलाशनः।
तत्र राज्ञश्चतुर्भागः प्रजा धर्मेण रक्षतः ॥१४॥
[यस्यान्नपानपुष्टाङ्गः कुरुते धर्मसंग्रहम्।
अन्नप्रदातुस्तस्यार्धं कर्तुश्चार्धंन संशयः ॥१५॥
सोऽयं ब्राह्मणभूयिष्ठो वानप्रस्थगणो महान्।
त्वं नाथोऽनाथवद्राम ! राक्षसैर्वध्यते भृशम् ॥१६॥
एहि पश्य शरीराणि मुनीनां भावितात्मनाम्।
हतानां राक्षसैर्घोरैर्बहूनां बहुधा वने ॥१७॥
पम्पानदीनिवासानामनुमन्दाकिनीमपि।
चित्रकूटालयानां च क्रियते कदनं महत् ॥१८॥
एवं वयं न मृष्यामो विप्रकारं तपस्विनाम्।
क्रियमाणं वने घोरं रक्षोभिर्भीमकर्मभिः ॥१९॥
ततस्त्वां शरणार्थं च शरण्यं समुपस्थिताः।
परिपालय नो राम ! वध्यमानान्निशाचरैः ॥२०॥
परा त्वत्तो गतिर्वीर ! पृथिव्यां नोपपद्यते।
परिपालय नस्सर्वात्राक्षसेभ्यो नृपाऽऽत्मज ॥२१॥
एतच्छ्रुत्वा तु काकुत्स्थतापसानां तपस्विनाम्।
इदं प्रोवाच धर्मात्मा सर्वानेव तपस्विनः ॥२२॥
नैवमर्हथ मां वक्तुमाज्ञतोऽहं तपस्विनाम्।
केवलेनात्मकार्येण प्रवेष्टव्यं मया वनम् ॥२३॥
विप्रकारमपाक्रष्टुं राक्षसैर्भवतामिमम्।
पितुस्तु निर्देशकरः प्रविष्टोऽहमिदं वनम् ॥२४॥
भवतामर्थसिद्ध्यर्थमागतोऽहं यदृच्छया।
तस्य मेऽयं वने वासो भविष्यति महाफलः ॥२५॥
तपस्विनां रणे शत्रून्हन्तुमिच्छामि राक्षसान्।
पश्यन्तु वीर्यमृषयस्सभ्रातुर्मे तपोधनाः ॥२६॥
दत्त्वाऽभयं चापि तपोधनानां धर्मे वृतात्मा सह लक्ष्मणेन।
तपोधनैश्चापि सभाज्यवृत्तस्सुतीक्ष्णमेवाभिजगाम वीरः ॥२७॥
इति श्रीमदारण्यकाण्डे षष्ठस्सर्गः।
—————
॥ सप्तमस्सर्गः ॥
रामस्तु सहितो भ्रात्रा सीतया च परन्तपः।
सुतीक्ष्णस्याश्रमदं जगाम सह तैर्द्विजैः ॥१॥
स गत्वा दूरमध्वानं नदीस्तीर्त्वा बहूदकाः।
ददर्श विपुलं शैलं महामेघमिवोन्नतम् ॥२॥
ततस्तदिक्ष्वाकुवरौ सन्ततं विविधैर्दुमैः।
काननं तौ विविशतुस्सीतया सह राघवौ ॥३॥
प्रविष्टस्तु वनं घोरं बहुपुष्पफलद्रुमम्।
ददर्शाऽश्रममेकान्ते चीरमालापरिष्कृतम् ॥४॥
तत्र तापसमासीनं मलपङ्कजटाधरम्।
रामस्सुतीक्ष्णं विधिवत्तपोवृद्धमभाषत ॥५॥
“रामोऽहमस्मि भगव ! न्भवन्तं द्रष्टुमागतः।
त्वं माभिवद धर्मज्ञ ! महर्षे ! सत्यविक्रम ! ॥”६॥
स निरीक्ष्य ततो वीरं रामं धर्मभृतां वरम्।
समाश्लिष्य च बाहुभ्यामिदं वचनमब्रवीत् ॥७॥
“स्वागतं खलु ते वीर ! राम ! धर्मभृतां वर !।
आश्रमोऽयं त्वयाऽऽकान्तस्सनाथ इव साम्प्रतम् ॥८॥
प्रतीक्षमाणस्त्वामेव नारोहेऽहं महायशः।
देवलोकमितो वीर ! देहं त्यक्त्वा महीतले ॥९॥
चित्रकूटमुपादाय राज्यभ्रष्टोऽसि मे श्रुतः।
इहोपयातः काकुत्स्थ! देवराजश्शतऋतुः ॥१०॥
उपागम्य च मां देवो महादेवस्सुरेश्वरः।
सर्वान्लोकाञ्जितानाह मम पुण्येन कर्मणा ॥११॥
तेषु देवर्षिजुष्टेषु जितेषु तपसा मया।
मत्प्रसादात्सभार्यस्त्वं विहरस्व सलक्ष्मणः ॥”१२॥
तमुग्रतपसा युक्तं महर्षि सत्यवादिनम्।
प्रत्युवाचात्मवान्नामो ब्रह्माणमिव काश्यपः ॥१॥
“अहमेवाहरिष्यामि स्वयं लोकान्महामुने !।
आवासं त्वहमिच्छामि प्रदिष्टमिह कानने ॥१४॥
भवांत्सर्वत्र कुशलस्सर्वभूतहिते रतः।
आख्यातश्शरभङ्गेण गौतमेन महात्मना ॥“१५॥
एवमुक्तस्तु रामेण महर्षिर्लोकविश्रुतः।
अब्रवीन्मधुरं वाक्यं हर्षेण महताऽऽप्लुतः ॥१६॥
“अयमेवाश्रमो राम ! गुणवान्रम्यतामिह।
ऋषिसंघानुचरितस्सदा मूलफलान्वितः ॥१७॥
इममाश्रममागम्य मृगसंघा महायशः !।
अटित्वा प्रतिगच्छन्ति लोभयित्वाऽकुतोभयाः ॥१८॥
नान्यदोषं भवेदत्र मृगेभ्योऽन्यत्र विद्धि वै।”
तच्छ्रुत्वा वचनं तस्य महर्षेर्लक्ष्मणाग्रजः ॥१९॥
उवाच वचनं धीरो विकृष्य सशरं धनुः।
“तानहं सुमहाभाग ! मृगसङ्घांत्समागतान् ॥२०॥
हन्यां निशितधारेण शरेणाशनिवर्चसा।
भवांस्तत्राभिषज्येत किं स्यात्कृच्छ्रतरं ततः ॥२१॥
एतस्मिन्नाश्रमे वासं चिरं तु न समर्थये।”
तमेवमुक्त्वा वरदं रामस्सन्ध्यामुपागमत् ॥२२॥
अन्वास्य पश्चिमां सन्ध्यां तत्र वासमकल्पयत्।
सुतीक्ष्णस्याऽश्रमे रम्ये सीतया लक्ष्मणेन च ॥२३॥
ततश्शुभंतापसभोज्यमन्नं स्वयं सुतीक्ष्णः पुरुषर्षभाभ्याम्।
ताभ्यां सुसत्कृत्य ददौ महात्मा सन्ध्यानिवृत्तौ रजनीमवेक्ष्य ॥
इति श्रीमदारण्यकाण्डे सप्तमस्सर्गः ॥
—————
॥ अष्टमस्सर्गः ॥
रामस्तु सहसौमित्रिस्सुतीक्ष्णेनाभिपूजितः।
रिणत्म्य निशां तत्र प्रभाते प्रत्यबुद्ध्या ॥१॥
उत्थाय तु यथाकालं राघवस्सहसीतया।
उपास्पृशत्सुशीतेन जलेनोत्पलगन्धिना ॥२॥
अथ तेऽग्निंसुरांश्चैव वैदेही रामलक्ष्मणौ।
काल्यं विधिवदभ्यर्च्य तपस्विशरणे वने ॥३॥
उदयन्तं दिनकरं दृष्ट्वा विगतकल्मषाः।
सुतीक्ष्णमभिगम्येदं श्लक्ष्णं वचनमब्रुवन् ॥४॥
“सुखोषितास्स्म भगवन् ! त्वया पूज्येन पूजिताः।
आपृच्छामः प्रयास्यामो मुनयस्त्वरयन्ति नः ॥५॥
त्वरामहे वयं द्रष्टुं कृत्स्नमाश्रममण्डलम्।
ऋषीणां पुण्यशीलानां दण्डकारण्यवासिनाम् ॥६॥
अभ्यनुज्ञातुमिच्छामस्सहैभिर्मुनिपुङ्गवैः।
धर्मनित्यैस्त पोदान्तैर्विशिखैरिव पावकैः ॥७॥
अविषह्यातपो यावत्सूर्यो नाति विराजते।
अमार्गेणाऽऽगतां लक्ष्मी प्राप्येवान्वयवर्जितः ॥८॥
तावदिच्छामहे” गन्तुमित्युक्त्वा चरणौ मुनेः।
चवन्दे सह सौमित्रिस्सीतया सह राघवः ॥९॥
तौ संस्पृशन्तौ चरणावुत्थाप्य मुनिपुङ्गवः।
गाढमालिङ्ग्य सस्नेहमिदं वचनमब्रवीत् ॥१०॥
“अरिष्टं गच्छ पन्थानं राम ! सौमित्रिणा सह।
सीतया चानया साधे छाययेवानुवृत्तया ॥११॥
पश्याऽऽश्रमपदं रम्यं दण्डकारण्यवासिनाम्।
एषां तपस्विनां वीर ! तपसा भावितात्मनाम्॥१२॥
सप्राज्यफलमूलानि पुष्पितानि वनानि च।
प्रशस्तमृगयूथानि शान्तपक्षिगणानि च ॥१३॥
फुल्लपङ्कजषण्डानि प्रसन्नसलिलानि च।
कारण्डवविकीर्णानि तटाकानि सरांसि च ॥१४॥
द्रक्ष्यसे दृष्टिरम्याणि गिरिप्रस्रवणानि च।
रमणीयान्यरण्यानि मयूराभिरुतानि च ॥१५॥
गम्यतां वत्स ! सौमित्रे ! भवानपि च गच्छतु।
आगन्तव्यं त्वया तात ! पुनरेवाश्रमं मम ॥१६॥”
एवमुक्त ‘स्तथे’ त्युक्त्वा काकुत्स्थस्सहलक्ष्मणः।
प्रदक्षिणं मुनिं कृत्वा प्रस्थातुमुपचक्रमे ॥१७॥
ततश्शुभतरे तूणी धनुषी चायतेक्षणा।
ददौ सीता तयोर्भ्रात्रोः खड्गौ च विमलौ ततः ॥१८॥
आवद्य च शुभे तूणी चापौ चादाय सुखनौ।
निष्क्रान्तावाश्रमाद्गन्तुमुभौ तौ रामलक्ष्मणौ ॥१९॥
श्रीमन्तौ रूपसम्पन्नौ दीप्यमानौ स्वतेजसा।
प्रस्थितौ धृतचापौ तौ सीतया सह राघवौ ॥२०॥
इति श्रीमदारण्यकाण्डे अष्टमस्सर्गः ॥
—————
॥ नवमस्सर्गः ॥
सुतीक्ष्णेनाभ्यनुज्ञातं प्रस्थितं रघुनन्दनम्।
हृद्यया स्निग्धया वाचा भर्तारमिदमब्रवीत् ॥१॥
“अयं धर्मस्सुसूक्ष्मेण विधिना प्राप्यते महान्।
निवृत्तेन तु शक्योऽयं व्यसनात्कामजादिह ॥२॥
त्रीण्येव व्यसनान्यत्र कामजानि भवन्त्युत।
मिथ्यावाक्यं परमकं तस्माद्गुरुतरावुभौ ॥३॥
परदाराभिगमनं विना वैरं च रौद्रता।
मिथ्यावाक्यं न ते भूतं न भविष्यति राघव ! ॥४॥
कुतोऽभिलाषणं स्त्रीणां परेषां धर्मनाशनम्।
तव नास्ति मनुष्येन्द्र ! न चाभूत्ते कदाचन ॥५॥
मनस्यपि तथा राम ! नचैतद्विद्यते क्वचित्।
स्वदारनिरतस्त्वं च नित्यमेव नृपात्मज ! ॥६॥
धर्मिष्ठस्सत्यसन्धश्च पितुर्निर्देशकारकः।
सत्यसन्ध ! महाभाग ! श्रीमन् ! लक्ष्मणपूर्वज !।
त्वयि सत्यं च धर्मश्च त्वयि सर्वं प्रतिष्ठितम् ॥७॥
तच्च सर्वं महाबाहो ! शक्यं धर्तुं जितेन्द्रियैः।
तव वश्येन्द्रियत्वं च जानामि शुभदर्शन ! ॥८॥
तृतीयं यदिदं रौद्रं परप्राणाभिहिंसनम्।
निर्वैरं क्रियते मोहात्तच्चते समुपस्थितम् ॥९॥
प्रतिज्ञातस्त्वया वीर ! दण्डकारण्यवासिनाम्।
ऋषीणां रक्षणार्थाय वधस्संयति रक्षसाम् ॥१०॥
एतन्निमित्तं च वनं दण्डका इति विश्रुतम्।
प्रस्थितस्त्वं सहभ्रात्रा धृतबाणशरासनः ॥११॥
‘ततस्त्वां प्रस्थितं दृष्ट्वा मम चिन्ताकुलं मनः।
तद्वृत्तं चिन्तयन्त्या वै भवेन्निश्श्रेयसं हितम् ॥१२॥
न हि मे रोचते वीर ! गमनं दण्डकान्प्रति।
कारणं तत्र वक्ष्यामि वदन्त्याश्श्रूयतां मम ॥१३॥
त्वं हि बाणधनुष्पाणिः भ्रात्रा सह वनं गतः।
दृष्ट्वा वनचरांत्सर्वान्कच्चित्कुर्याश्शरव्ययम् ॥१४॥
क्षत्रियाणामपि धनुर्हुताशस्येन्धनानि च।
समपितः स्थितं तेजो बलमुच्छ्रयते भृशम् ॥१५॥
‘पुरा किल महाबाहो ! तपस्वी सत्यवाक्छुचिः।
कस्मिंश्चिदभवत्पुण्ये वने रतमृगद्विजे ॥१६॥
तस्यैव तपसो विघ्नं कर्तुमिन्द्रश्शचीपतिः।
खड्गपाणिरथागच्छदाश्रमं भटरूपधृत् ॥१७॥
तस्मिंस्तदाश्रमपदे निशितः खड्ग उत्तमः।
सन्यासविधिना दत्तः पुण्ये तपसि तिष्ठतः ॥१८॥
स तच्छस्त्रमनुप्राप्य न्यासरक्षणतत्परः।
वने तं विचरत्येव रक्षन्प्रत्ययमात्मनः ॥१९॥
यत्र गच्छत्युपादातुं मूलानि च फलानि च।
न विना याति तं खड्गं न्यासरक्षणतत्परः ॥२०॥
नित्यं शस्त्रं परिवहन्त्रमेण स तपोधनः।
चकार रौद्रीं स्वां बुद्धिं त्यक्त्वा तपसि निश्चयम् ॥२१॥
‘ततस्स रौद्रेऽभिरतः प्रमत्तो धर्मकर्शितः।
तस्य शस्त्रस्य संवासाजगाम नरकं मुनिः ॥२२॥’
एवमेतत्पुरावृत्तं शस्त्रसंयोगकारणम्।
अग्निसंयोगवद्धेतुश्शस्त्रसंयोग उच्यते ॥२३॥
स्नेहाच्च बहुमानाच स्मारये त्वां न शिक्षये।
न कथंचन सा कार्या गृहीतधनुषा त्वया ॥२४॥
बुद्धिर्वैरं विना हन्तुं राक्षसान्दण्डकाश्रितान्।
अपराधं विना हन्तुं लोकान्वीर ! न कामये ॥२५॥
क्षत्रियाणां तु वीराणां वनेषु निरतात्मनाम्।
धनुषा कार्यमेतावदार्तानामभिरक्षणम् ॥२६॥
क्वच शस्त्रं क्वच वनं क्वच क्षात्रं तपः क्वच।
व्याविद्धमिदमस्माभिर्देशधर्मस्तु पूज्यताम् ॥२७॥
तदार्य कलुषा बुद्धिर्जायते शस्त्रसेवनात्।
पुनर्गत्वा त्वयोध्यायां क्षत्रधर्मं चरिष्यसि ॥२८॥
अक्षया तु भवेत्प्रीतिश्श्वश्रूश्वरयोर्मम।
यदि राज्यं परित्यज्य भवेस्त्वं निरतो मुनिः ॥२९॥
धर्मादर्थः प्रभवति धर्मात्प्रभवते सुखम्।
धर्मेण लभते सर्वं धर्मसारमिदं जगत् ॥३०॥
आत्मानं नियमैस्तैस्तैः कर्शयित्वा प्रयत्नतः।
प्राप्यते निपुणैर्धर्मो न सुखाल्लभ्यते सुखम्॥३१॥
नित्यं शुचिमतिस्सौम्य ! चर धर्मं तपोवने।
सर्व हि विदितं तुभ्यं त्रैलोक्यमपि तत्त्वतः ॥३२॥
स्त्रीचापलादेतदुदाहृतं मे धर्मं च वक्तुं तव कस्समर्थः।
विचार्य बुद्ध्या तु सहानुजेन यद्रोचते तत्कुरु मा चिरेण ॥३३॥”
इति श्रीमदारण्यकाण्डेनवमस्सर्गः॥
—————
॥दशमस्सर्गः॥
वाक्यमेतत्तु वैदेह्या व्याहृतं भर्तृभक्तया।
श्रुत्वा धर्मे स्थितो रामः प्रत्युवाचाथ मैथिलीम् ॥१॥
“हितमुक्तं त्वया देवि ! स्निग्धया सदृशं वचः।
कुलं व्यपदिशन्त्या च धर्मज्ञे ! जनकात्मजे ! ॥२॥
किं तु वक्ष्याम्यहं देवि ! त्वयैवोक्तमिदं वचः।
‘क्षत्रियैर्धार्यते चापो नार्तशब्दो भवे’ दिति ॥३॥
मां सीते! स्वयमागम्य शरण्याश्शरणं गताः।
ते चार्ता दण्डकारण्ये मुनयस्संशितव्रताः ॥४॥
वसन्तो धर्मनिरता वने मूलफलाशनाः।
नं लभन्ते सुखं भीता राक्षसैः क्रूरकर्मभिः ॥५॥
काले काले च निरता नियमैर्विविधैर्वने।
भक्ष्यन्ते राक्षसैर्भीमैर्नरमांसोपजीविभिः ॥६॥
ते भक्ष्यमाणा मुनयो दण्डकारण्यवासिनः।
‘अस्मानभ्यवप’द्येति मामूचुर्द्विजसत्तमाः ॥७॥
मया तु वचनं श्रुत्वा तेषामेवं मुखाच्च्युतम्।
कृत्वा चरणशुश्रूषां वाक्यमेतदुदाहृतम् ॥८॥
‘प्रसीदन्तु भवन्तो मे ह्रीरेषा हि ममातुला।
यदीदृशैरहं विप्रैरुपस्थेयैरुपस्थितः ॥९॥
किंकरो’ भीति च मया व्याहृतं द्विजसन्निधौ
सर्वैतैस्समागम्य वागियं समुदाहृता ॥१०॥
‘राक्षसैर्दण्डकारण्ये बहुभिः कामरूपिभिः।
अर्दितास्स्म दृढं राम! भवान्नस्तत्र रक्षतु ॥११॥
होमकालेषु सम्प्राप्ताः पर्वकालेषु चानघ !।
धर्षयन्ति सुदुर्धर्षा राक्षसाः पिशिताशनाः ॥१२॥
राक्षसैर्धर्षितानां च तापसानां तपस्विनाम्।
गतिं मृगयमाणानां भवान्नः परमा गतिः ॥१३॥
कामं तपःप्रभावेन शक्ता हन्तुं निशाचरान्।
चिरार्जितं तु नेच्छामस्तपः खण्डयितुं वयम् ॥१४॥
बहुविघ्नं तपो नित्यं दुश्चरं चैव राघव !।
तेन शापं न मुञ्चामो भक्ष्यमाणाश्च राक्षसैः ॥१५॥
तदर्द्यमानान्रक्षोभिर्दण्डकारण्यवासिभिः।
रक्ष नस्त्वं सह भ्रात्रा त्वन्नाथा हि वयं वने ॥१६॥’
मया चैतद्वचश्श्रुत्वा कार्त्स्येनपरिपालनम्।
ऋषीणां दण्डकारण्ये संश्रुतं जनकात्मजे ! ॥१७॥
संश्रुत्य च न शक्ष्यामि जीवमानः प्रतिश्रवम्।
मुनीनामन्यथाकर्तुं सत्यमिष्टं हि मे सदा ॥१८॥
अप्यहं जीवितं जह्यां त्वां वा सीते! सलक्ष्मणाम्।
न तु प्रतिज्ञां संश्रुत्य ब्राह्मणेभ्यो विशेषतः ॥१९॥
तदवश्यं मया कार्यमृषीणां परिपालनम्।
अनुक्तेनापि वैदेहि! प्रतिज्ञाय तु किं पुनः ॥२०॥
मम स्नेहाच्च सौहार्दादिदमुक्तं त्वयाऽनघे !।
परितुष्टोऽस्म्यहं सीते! न ह्यनिष्टोऽनुशिष्यते ॥२१॥
सदृशं चानुरूपं च कुलस्य तव चात्मनः।
सघर्मचारिणी मे त्वं प्राणेभ्योऽपि गरीयसी ॥”
इत्येवमुक्त्वा वचनं महात्मा सीतां प्रियां मैथिलराजपुत्रीम्।
रामो धनुष्मांत्सहलक्ष्मणेन जगाम रम्याणि तपोवनानि ॥२३॥
इति श्रीमदारण्यकाण्डे दशमस्सर्गः ॥
—————
॥ एकादशस्सर्गः ॥
अग्रतः प्रययौ रामस्सीता मध्ये सुमध्यमा।
पृष्ठतस्तु धनुष्पाणिर्लक्ष्मणोऽनुजगाम ह॥१॥
तो पश्यमानौ विविधान् शैलप्रस्थान्वनानि च।
नदीश्च विविधा रम्या जग्मतुस्सीतया सह॥२॥
सारसांश्चक्रवाकांश्च नदीपुलिनचारिणः।
सरांसि च सपद्मानि युक्तानि जलजैः खगैः॥३॥
यूथबद्धांश्च पृषतान्मदोन्मत्तान्विषाणिनः।
महिषांश्च वराहांश्च नागांश्च द्रुमवैरिणः॥४॥
ते गत्वा दूरमध्वानं लम्बमाने दिवाकरे।
ददृशुस्सहिता रम्यं तटाकं योजनायतम्॥५॥
पद्मपुष्कर सम्बाधं गजयूथैरलङ्कृतम्।
सारसैर्हसकादम्बैस्संकुलं जलचारिभिः॥६॥
प्रसन्नसलिले रम्ये तस्मिंत्सरसि शुश्रुवे।
गीतवादित्रनिर्घोषो न तु कश्चन दृश्यते॥७॥
ततः कौतूहलाद्रामो लक्ष्मणश्च महाबलः।
मुनि धर्मभृतं नाम प्रष्टुं समुपचक्रमे॥८॥
“इदमत्यद्भुतं श्रुत्वा सर्वेषां नो महामुने !।
कौतूहलं महज्जातं किमिदं साधु कथ्यताम्॥९॥
वक्तव्यं यदि चेद्विप्र! नातिगुह्यमपि प्रभो !।”
तेनैवमुक्तो धर्मात्मा राघवेण मुनिस्तदा॥१०॥
प्रभवं सरसः कृत्स्नमाख्यातुमुपचक्रमे।
“इदं पञ्चाप्सरोनाम तटाकं सार्वकालिकम्॥११॥
निर्मितं तपसा राम! मुनिना माण्डकर्णिना।
सहि तेपे तपस्तीव्रं माण्डकर्णिर्महामुनिः॥१२॥
दशवर्षसहस्राणि वायुभक्षो जलाश्रयः।
ततः प्रव्यथितास्सर्वे देवास्साग्निपुरोगमाः॥१३॥
अब्रुवन्वचनं सर्वे परस्परसमागताः।
‘अस्माकं कस्यचित् स्थानमेष प्रार्थयते मुनिः॥१४॥’
इति संविग्नमनसस्सर्वे ते त्रिदिवौकसः।
तत्र कर्तुं तपोविघ्नं देवैरसर्वैर्नियोजिताः॥१५॥
प्रधानाप्सरसः पञ्च विद्युच्चलितवर्चसः।
अप्सरोभिस्ततस्ताभिर्मुनिर्दृष्टपरावरः ॥१६॥
नीतो मदनवश्यत्वं सुराणां कार्यसिद्धये।
ताश्चैवाप्सरसः पञ्च मुनेः पत्नीत्वमागताः ॥१७॥
तटाके निर्मितं तासामस्मिन्नन्तर्हितं गृहम्।
तथैवाप्सरसः पञ्च निवसन्त्यो यथासुखम् ॥१८॥
रमयन्ति तपोयोगान्मुनिं यौवनमास्थितम्।
तासां संक्रीडमानानामेष वादित्रनिस्वनः ॥१९॥
श्रूयते भूषणोन्मिश्रो गीतशब्दो मनोहरः।”
‘आश्चर्य’मिति तस्यैतद्वचनं भावितात्मनः ॥२०॥
राघवः प्रतिजग्राह सह भ्रात्रा महायशाः।
एवं कथयमानस्य ददर्शाऽश्रममण्डलम् ॥२१॥
कुशचीरपरिक्षिप्तं ब्राह्म्यालक्ष्म्या समावृतम्।
प्रविश्य सह वैदेह्या लक्ष्मणेन च राघवः ॥२२॥
उवास मुनिभिस्सर्वैः पूज्यमानो महायशाः।
तथा तस्मिंत्स काकुत्स्थश्श्रीमत्याश्रममण्डले ॥२३॥
उषित्वा तु सुखं तत्र पूज्यमानो महर्षिभिः।
जगाम चाश्रमांस्तेषां पर्यायेण तपस्विनाम् ॥२४॥
येषामुषितवान्पूर्वं सकाशे स महास्त्रवित्।
क्वचित्परिदशान्मासानेकं संवत्सरं क्वचित् ॥२५॥
क्वचिच्चचतुरो मासान्पञ्चषट्चापरान्कचित्।
अपरत्राधिकं मासादप्यर्धमधिकं क्वचित् ॥२६॥
त्रीन्मासानष्टमासांश्च राघवो न्यवसत्सुखम्।
तथा संवसतस्तस्य मुनीनामाश्रमेषु वै ॥२७॥
रमतश्चानुकूल्येन ययुस्संवत्सरा दश।
परिवृत्य च धर्मज्ञो राघवस्सहसीतया ॥२८॥
सुतीक्ष्णस्याश्रमं श्रीमान्पुनरेवाजगाम ह।
स तमाश्रममासाद्य मुनिभिः प्रतिपूजितः ॥२९॥
तत्रापि न्यवसद्रामः किंचित्कालमरिन्दमः।
तदाऽऽश्रमस्थो विनयात्कदाचित्तं महामुनिम् ॥३०॥
उपासीनस्स काकुत्स्थस्सुतीक्ष्णमिदमब्रवीत्।
“अस्मिन्नरण्ये भगवानगस्त्यो मुनिसत्तमः ॥३१॥
वसतीति मया नित्यं कथाः कथयतां श्रुतम्।
न तु जानामि तं देशं वनस्यास्य महत्तया ॥३२॥
कुत्राऽऽश्रमपदं पुण्यं महर्पेस्तस्य धीमतः।
प्रसादात्तत्र सवतस्सानुजस्सह सीतया ॥३३॥
अगस्त्यमभिगच्छेयमभिवादयितुं मुनिम्।
मनोरथो महानेष हृदि मे परिवर्तते ॥३४॥
यदहं तं मुनिवरं शुश्रूषेयमपि स्वयम्।
इति रामस्य स मुनिश्श्रुत्वा धर्मात्मनो वचः ॥३५॥
सुतीक्ष्णः प्रत्युवाचेदं प्रीतो दशरथात्मजम्।
“अहमप्येतदेव त्वां वक्तुकामस्सलक्ष्मणम् ॥३६॥
‘अगस्त्यमभिगच्छेति सीतया सह राघव!।’
दिष्ट्यात्विदानीमर्थेऽस्मिंत्स्वयमेव ब्रवीषि माम् ॥३७॥
अहमाख्यामि ते वत्स! यत्रागस्त्यो महामुनिः।
योजनान्याश्रमपदादस्मात्तथा चत्वारि वै ततः ॥३८॥
दक्षिणेन महान् श्रीमानगस्त्यभ्रातुराश्रमः।
स्थलीप्राये वनोद्देशे पिप्पलीवनशोभिते ॥३९॥
बहुपुष्पफले रम्ये नानाशकुनिनादिते।
पद्मिन्यो विविधास्तत्र प्रसन्नसलिलाश्शिवाः॥४०॥
हंसकारण्डवाकीर्णाश्चक्रवाकोपशोभिताः।
तत्रैकां रजनीं व्युष्य प्रभाते राम ! गम्यताम् ॥४१॥
दक्षिणां दिशमास्थाय वनषण्डस्यपार्श्वतः।
तत्रागस्त्याश्रमपदं गत्वा योजनमंतरा ॥४२॥
रमणीये वनोद्देशे बहुपादपसंवृते।
रंस्यते तत्र वैदेही लक्ष्मणश्च सह त्वया ॥४३॥
स हि रम्यो वनोद्देशो बहुपादपसङ्कुलः।
यदि बुद्धिः कृता द्रष्टुमगस्त्यं तं महामुनिम् ॥४४॥
अद्यैव गमने बुद्धि रोचयस्व महायशः!।”
इति रामो मुनेश्श्रुत्वा सहभ्रात्राऽभिवाद्य च ॥४५॥
प्रतस्थेऽगस्त्यमुद्दिश्य सानुजस्सह सीतया।
पश्यन्वनानि रम्याणि पर्वतांश्चाभ्रसन्निभान् ॥४६॥
सरांसि सरितश्चैव पथि मार्गवशानुगाः।
सुवीक्ष्णेनोपदिष्टेन गत्वा तेन पथा सुखम् ॥४७॥
इदं परमसंहृष्टो वाक्यं लक्ष्मणमब्रवीत्।
“एतदेवाश्रमपदं नूनं तस्य महात्मनः ॥४८॥
अगस्त्यस्य मुनेर्भ्रातुर्दृश्यते पुण्यकर्मणः।
यथा हि मे वनस्यास्य ज्ञाताः पथि सहस्रशः ॥४९॥
सन्नताः फलभारेण पुष्पभारेण च द्रुमाः।
पिप्पलीनां च पक्वानां वनादस्मादुपागताः ॥५०॥
गन्धोऽयं पवनोत्क्षिप्तस्सहसा कटुकोदयः।
तत्र तत्र च दृश्यन्ते संक्षिप्ताः काष्ठसंचयाः ॥५१॥
लूनाश्चपथि दृश्यन्ते दर्भा वैडूर्यवर्चसः।
एतच्च वनमध्यस्थं कृष्णाभ्रशिखरोपमम् ॥५२॥
पावकस्याश्रमस्थस्य धूमाग्रंसम्प्रदृश्यते।
विविक्तेषु च तीर्थेषु कृतस्नाना द्विजातयः ॥५३॥
पुष्पोपहारं कुर्वन्ति कुसुमैस्स्वयमार्जितैः।
तत्सुतीक्ष्णस्य वचनं यथा सौम्य ! मया श्रुतम् ॥५४॥
अगस्त्यस्याऽऽश्रमो भ्रातुर्नूनमेष भविष्यति।
निगृह्य तपसा मृत्युं लोकानां हितकाम्यया ॥५५॥
यस्य भ्रात्रा कृतेयं दिक्छरण्या पुण्यकर्मणा।
इहैकदा किल क्रूरो वातापिरपि चेल्वलः ॥५६॥
भ्रातरौ सहितावास्तां ब्राह्मण महासुरौ।
धारयन्ब्राह्मणं रूपमिल्वलः संस्कृतं वदन् ॥५७॥
आमन्त्रयति विप्रान् स्म श्राद्धमुद्दिश्य निर्घृणः।
भ्रातरं संस्कृतं कृत्वा ततस्तं मेषरूपिणम् ॥५८॥
तान्द्विजान्भोजयामास श्राद्धदृष्टेन कर्मणा।
ततो भुक्तवतां तेषां विप्राणाभिल्वलोऽब्रवीत् ॥५९॥
‘वातापे! निष्क्रमस्वे’ ति स्वरेण महता वदन्।
ततो भ्रातुर्वचश्श्रुत्वा वातापिर्मेषवन्नदन् ॥६०॥
भित्त्वा भित्त्वा शरीराणि ब्राह्मणानां विनिष्पतत्।
ब्राह्मणानां सहस्राणि तैरेवं कामरूपिभिः॥६१॥
विनाशितानि संहत्य नित्यशः पिशिताशनैः।
अगस्त्येन तदा देवैः प्रार्थितेन महर्षिणा ॥६२॥
अनुभूय किल श्राद्धे भक्षितस्समहासुरः।
तत ‘स्सम्पन्न’मित्युक्त्वा दत्त्वा हस्तोदकं ततः ॥६३॥
भ्रातरं ‘निष्क्रमस्वे’ति चेल्वलस्सोऽभ्यभाषत।
स तं तथा भाषमाणं भ्रातरं विप्रघातिनम् ॥६४॥
अब्रवीत् प्रहसन्धीमानगस्त्यो मुनिसत्तमः।
“कुतो निष्क्रमितुं शक्तिर्मया जीर्णस्य रक्षसः ॥६५॥
भ्रातुस्ते मेषरूपस्य गतस्य यमसादनम्।”
अथ तस्य वचश्श्रुत्वा भ्रातुर्निधनसंश्रयम् ॥६६॥
प्रघर्षयितुमारेभे मुनिं क्रोधान्निशाचरः।
सोऽभिद्रवन्मुनिश्रेष्ठं मुनिना दीप्ततेजसा ॥६७॥
चक्षुषाऽनलकल्पेन निर्दग्धो निधनं गतः।
“तस्यायमाश्रमो भ्रातुस्तटाकवनशोभितः ॥६८॥
विप्रानुकम्पया येन कर्मेदं दुष्करं कृतम्।
एवं कथयमानस्य तस्य सौमित्रिणा सह ॥६९॥
रामस्यास्तं गतस्सूर्यस्सन्ध्याकालोऽभ्यवर्तत।
उपास्य पश्चिमां सन्ध्यां सहभ्रात्रा यथाविधि ॥७०॥
प्रविवेशाऽश्रमपदं तमृषिं सोऽभ्यवादयत्।
सम्यक्प्रतिगृहीतश्च मुनिना तेन राघवः ॥७१॥
न्यवसत्तां निशामेकां प्राश्य मूलफलानि च।
तस्यां राज्यां व्यतीतायां विमले सूर्यमण्डले ॥७२॥
भ्रातरं तमगस्त्यस्य ह्यामन्त्रयत राघवः।
“अभिवादये त्वां भगवन् ! सुखमध्युषितो निशाम् ॥७३॥
आमन्त्रये त्वां गच्छामि गुरुं ते द्रष्टुमग्रजम्।”
‘गम्यता’मिति तेनोक्तो जगाम रघुनन्दनः ॥७४॥
यथोद्दिष्टेन मार्गेण वनं तच्चावलोकयन्।
नीवारान्पनसांस्तालांस्तिनिशान्वञ्जुलान्धवान् ॥७५॥
चिरिबिल्वान्मधूकांश्च विल्वानपि च तिन्दुकान्।
पुष्पितान्पुष्पिताग्राभिर्लताभिरनुवेष्टितान् ॥७६॥
ददर्श रामश्शतशस्तत्र कान्तारपादपान्।
हस्तिहस्तैर्विंमृदितान्वानरैरुपशोभितान् ॥७७॥
मत्तैरशकुनिसंघैश्च शतशश्च प्रणादितान्।
ततोऽब्रवीत्समीपस्थं रामो राजीवलोचनः ॥७८॥
पृष्ठतोऽनुगतं वीरं लक्ष्मणं लक्ष्मिवर्धनम्।
“स्निग्धपत्रा यथा वृक्षा यथा क्षान्ता मृगद्विजाः ॥७९॥
आश्रमो नातिदूरस्थो महर्षेर्भावितात्मनः।
अगस्त्य इति विख्यातो लोके स्वेनैव कर्मणा ॥८०॥
आश्रमो दृश्यते तस्य परिश्रान्तश्रमापहः।
प्राज्यधूमाकुलवनश्चीरमालापरिष्कृतः ॥८१॥
प्रशान्तमृगयूथश्च नानाशकुनिनादितः।
[निगृह्य तरसा मृत्युं लोकानां हितकाम्यया ॥८२॥
दक्षिणा दिक्कृता येन शरण्या पुण्यकर्मणा]।
तस्येदमाश्रमपदं प्रभावाद्यस्य राक्षसैः ॥८३॥
दिगियं दक्षिणा त्रासाद्दृश्यते नोपभुज्यते।
यदाप्रभृति चाक्रान्ता दिगियं पुण्यकर्मणा ॥८४॥
तदाप्रभृति निर्वैराः प्रशान्ता रजनीचराः।
नाम्ना चायंभगवतो दक्षिणा दिक्प्रदक्षिणा ॥८५॥
प्रथिता त्रिषु लोकेषु दुर्धर्षा क्रूरकर्मभिः।
मार्ग निरोद्धुं
निरतो भास्करस्याचलोत्तमः ॥८६॥
निदेशं पालयन्यस्य विन्ध्यश्शैलो न वर्धते।
अयं दीर्घायुषस्तस्य लोके विश्रुतकर्मणः ॥८७॥
अगस्त्यस्याऽश्रमश्रीमान्विनीतजनसेवितः।
एष लोकार्चितस्साधुर्हिते नित्यरतस्सताम् ॥८८॥
अस्मानभिगतानेष श्रेयसा योजयिष्यति।
आराधयिष्याम्यत्राहमगस्त्यं तं महामुनिम् ॥८९॥
शेषं च वनवासस्य सौम्य ! वत्स्याम्यहं प्रभो!।
अत्र देवास्सगन्धर्वास्सिद्धाश्च परमर्षयः ॥९०॥
अगस्त्यं नियताहारं सततं पर्युपासते।
नात्र जीवेन्मृषावादी क्रूरो वा यदि वा शठः ॥९१॥
नृशंसः कामवृत्तो वा मुनिरेष तथाविधः
अत्र देवाश्च यक्षाश्च नागाश्च पतगैस्सह ॥९२॥
वसन्ति नियताहारा धर्ममाराधयिष्णवः।
अत्र सिद्धा महात्मानो विमानस्सूर्यसन्निभैः ॥९३॥
त्यक्तदेहा नवैर्दैहैस्स्वर्याताः परमर्षयः।
यक्षत्वममरत्वं च राज्यानि विविधानि च ॥९४॥
अत्र देवाः प्रयच्छन्ति भूतैराराधिताश्शुभैः।
आगताः स्माऽऽश्रमपदं सौमित्रे ! प्रविशामतः ॥९५॥
निवेदयेह मां प्राप्तमृषये सीतया सह ॥
इति श्रीमदारण्यकाण्डे एकादशस्सर्गः ॥
—————
॥ द्वादशस्सर्गः ॥
स प्रविश्याऽऽश्रमपदं लक्ष्मणो राघवानुजः।
अगस्त्यशिष्यमासाद्य वाक्यमेतदुवाचह ॥१॥
राजा दशरथोनाम ज्येष्ठस्तस्य सुतो बली।
रामः प्राप्तो मुनिं द्रष्टुं भार्यया सह सीतया ॥२॥
लक्ष्मणोनाम तस्याहं भ्राता त्ववरजो हितः।
अनुकूलश्च भक्तश्च यदि ते श्रोत्रमागतः ॥३॥
ते वयं वनमत्युग्रं प्रविष्टाः पितृशासनात्।
द्रष्टुमिच्छामहे सर्वे भगवन्तं निवेद्यताम् ॥४॥”
तस्य तद्वचनं श्रुत्वा लक्ष्मणस्य तपोधनः।
‘तथे’त्युक्त्वाऽग्निशरणं प्रविवेश निवेदितुम् ॥५॥
स प्रविश्य मुनिश्रेष्ठं तपसा दुष्प्रधर्षणम्।
कृताञ्जलिरुवाचेदं रामागमनमञ्जसा ॥६॥
यथोक्तं लक्ष्मणेनैव शिष्योऽगस्त्यस्य सम्मतः।
“पुत्रौ दशरथस्येमौ रामो लक्ष्मण एव च ॥७॥
प्रविष्टावाऽश्रमपदं सीतया सह भार्यया।
द्रष्टुं भवन्तमायातौ शुश्रूषार्थमरिन्दमौ ॥८॥
यदत्रानन्तरं तत्त्वमाज्ञापयितुमर्हसि।”
ततशिशष्यादुपश्रुत्य प्राप्तं रामं सलक्ष्मणम् ॥९॥
वैदेहीं च महाभागामिदं वचनमब्रवीत्।
“दिष्ट्या रामश्चिरस्याद्य द्रष्टुं मां समुपागतः ॥१०॥
मनसा काङ्क्षितं ह्यस्य मयाप्यागमनं प्रति।
गम्यतां सत्कृतो रामस्सभार्यस्सहलक्ष्मणः ॥११॥
प्रवेश्यतां समीपं में किं चासौ न प्रवेशितः।”
एवमुक्तस्तु मुनिना धर्मज्ञेन महात्मनः ॥१२॥
अभिवाद्याब्रवीच्छिष्य ‘स्तथे’ ति नियताञ्जलिः।
ततो निष्क्रम्य सम्भ्रान्तश्शिष्यो लक्ष्मणमब्रवीत् ॥१३॥
“क्वासौ रामो मुनिं द्रष्टुमेतु प्रविशतु स्वयम्।”
ततो गत्वाऽऽश्रमद्वारं शिष्येण सहलक्ष्मणः ॥१४॥
दर्शयामास काकुत्स्थं सीतां च जनकात्मजाम्।
तं शिष्यः प्रश्रितो वाक्यमगस्त्यवचनं ब्रुवन् ॥१५॥
प्रावेशयद्यथान्यायं सत्कारार्हं सुसत्कृतम्।
प्रविवेश ततो रामस्सीतया सहलक्ष्मणः ॥१६॥
प्रशान्तहरिणाकीर्णमाश्रमं ह्यवलोकयन्।
स तत्र ब्रह्मणः स्थानमग्नेः स्थानं तथैव च ॥१७॥
विष्णोः स्थानं महेन्द्रस्य स्थानं चैव विवस्वतः।
सोमस्थानं भगस्थानं स्थानं कौबेरमेव च ॥१८॥
धातुर्विधातुः स्थाने च वायोः स्थानं तथैव च।
नागराजस्य च स्थानमनन्तस्य महात्मनः ॥१९॥
स्थानं तथैव गायत्र्या वसूनां स्थानमेव च।
स्थानं च पाशहस्तस्य वरुणस्य महात्मनः ॥२०॥
कार्तिकेयस्य च स्थानं धर्मस्थानं च पश्यति।
ततश्शिष्यैः परिवृतो मुनिरप्याभिनिष्पतत् ॥२१॥
तं ददर्शाग्रतो रामो मुनीनां दीप्ततेजसाम्।
अब्रवीद्वचनं वीरो लक्ष्मणं लक्ष्मिवर्धनम् ॥२२॥
“एष लक्ष्मण! निष्कामत्यगस्त्यो भगवानृषिः।
औदार्येणावगच्छामि निधानं तपसामिमम् ॥२३॥
एवमुक्त्वा महाबाहुरगस्त्यं सूर्यवर्चसम्।
जग्राह परमप्रीतस्तस्य पादौ परन्तपः ॥२४॥
अभिवाद्य तु धर्मात्मा तस्थौ रामः कृताञ्जलिः।
सीतया सह वैदेह्या तदा रामस्सलक्ष्मणः ॥२५॥
प्रतिजग्राह काकुत्स्थमर्चयित्वासनोदकैः।
कुशलप्रश्नमुक्त्वा च ‘ह्यास्यता’ मिति चाब्रवीत् ॥२६॥
अग्निं हुत्वा प्रदायार्घ्यमतिथीन्प्रतिपूज्य च।
वानप्रस्थेन धर्मेण स तेषां भोजनं ददौ ॥२७॥
प्रथमं चोपविश्याथ धर्मज्ञो मुनिपुङ्गवः।
उवाच राममासीनं प्राञ्जलिं धर्मकोविदम् ॥२८॥
अग्निं हुत्वा प्रदायार्घ्यमतिथिं प्रतिपूजयेत्।
अन्यथा खलु काकुत्स्थ ! तपस्वी समुदाचरन् ॥२९॥
दुस्साक्षीव परे लोके स्वानि मांसानि भक्षयेत्।
राजा सर्वस्य लोकस्य धर्मचारी महारथः ॥३०॥
पूजनीयश्च मान्यश्च भवान्प्राप्तः प्रियातिथिः।”
एवमुक्त्वा फलैर्मूलैः पुष्पैरन्यैश्च राघवम् ॥३१॥
पूजयित्वा यथाकामं पुनरेव ततोऽब्रवीत्।
“इदं दिव्यं महच्चापं हेमरत्नविभूषितम् ॥३२॥
वैष्णवं पुरुषव्याघ्र! निर्मितं विश्वकर्मणा।
अमोघसूर्यसङ्काशो ब्रह्मदत्तश्शरोत्तमः ॥३३॥
दत्तौ मम महेन्द्रेण तूणी चाक्षयसायकौ।
संपूर्णौ निशितैर्बाणैर्ज्वलद्भिरिव पावकैः ॥३४॥
महारजतकोशोऽयमसिर्हेमविभूषितः।
अनेन धनुषा राम ! हत्वा संख्ये महासुरान् ॥३५॥
आजहार श्रियं दीप्तां पुरा विष्णुर्दिवौकसाम्।
तद्धनुस्तौ च तूणीरौ शरं खड्गं च मानद! ॥३६॥
जयाय प्रतिगृह्णीष्व वज्रं वज्रधरो यथा।”
एवमुक्त्वा महातेजास्समस्तं तद्वरायुधम् ॥
दत्त्वा रामाय भगवानगस्त्यः पुनरब्रवीत् ॥
इति श्रीमदारण्यकाण्डे द्वादशस्सर्गः ॥
—————
॥ त्रयोदशस्सर्गः ॥
राम ! प्रीतोऽस्मि भद्रं ते परितुष्टोऽस्मि लक्ष्मण !।
अभिवादयितुं यन्मां प्राप्तौ स्थस्सह सीतया ॥१॥
अध्वश्रमेण वां खेदो बाधते प्रचुरश्रमः।
व्यक्तमुत्कण्ठते चापि मैथिली जनकाऽऽत्मजा ॥२॥
एषा हि सुकुमारी च दुःखैश्च न विमानिता।
प्राज्यदोषं वनं प्राप्ता भर्तृस्नेहप्रचोदिता ॥३॥
यथैषा रमते राम! इह सीता तथा कुरु।
दुष्करं कृतवत्येष वने त्वामनुगच्छती ॥४॥
एषा हि प्रकृतिः स्त्रीणामासृष्टे रघुनन्दन!।
समस्थमनुरज्यन्ति विषमस्थं त्यजन्ति च ॥५॥
शतह्रदानां लोलत्वं शस्त्राणां तीक्ष्णतां तथा।
गरुडानिलयोश्शैघ्र्यमनुगच्छन्ति योषितः ॥६॥
इयं तु भवतो भार्या दोषैरेतैर्विवर्जिता।
श्लाघ्या च व्यपदेश्या च यथा देवी ह्यरुन्धती ॥७॥
अलङ्कृतोऽयं देशश्च यत्र सौमित्रिणा सह।
वैदेह्या चानया राम! वत्स्यसि त्वमरिन्दम! ॥८॥
[एवमुक्त्वा महाबाहुमगस्त्यः पुनरब्रवीत्।”
“सुखं स्वप महाबाहो! सीतया सहलक्ष्मणः ॥९॥
रविरस्तं गतस्सौम्य ! सन्ध्याकालोऽभ्युपागतः।
एते निशाचरा राम ! निलीना मृगपक्षिणः ॥१०॥
नगाग्रेषु भृशं लीना दृश्यन्ते सुसमाहिताः।
नैशेन तमसा व्याप्तमप्रकाशं नभस्स्थलम् ॥११॥”
एवमुक्तो महाबाहुरगस्त्येन महात्मना।
उपास्य पश्चिमां सन्ध्यां रामस्सौमित्रिणा सह ॥१२॥
अभिवाद्य महात्मानमगस्त्यमृषिसत्तमम्।
सुष्वाप रजनीं तां तु पूजितः परमर्षिणा॥१३॥
सुखोषितस्तदा रामस्सन्ध्यामन्वास्य सानुजः।
कृत्वा पौर्वाह्निकं तस्थौ स्नातो हुतहुताशनः ॥१४॥
लक्ष्मणेन सहभ्रात्रा सीतया च परन्तपः।
उपागमदमेयात्मा ह्यगस्त्यं सूर्यवर्चसम् ॥१५॥
स दृष्ट्वा राघवं श्रीमानगस्त्यस्संयताञ्जलिम्।
प्रतिपूज्य यथान्यायमिदं वचनमब्रवीत् ॥१६॥
“कच्चित्सुखं निशा राम! व्यतीता रघुनन्दन!।
तव सभ्रातृभार्यस्य ममाश्रमपदे विभो?॥१७॥”
एवमुक्तस्ततो रामः प्रत्युवाच कृताञ्जलिः।
“मानिताः स्म यथान्यायं त्वया पूज्येन पूजिताः ॥१८॥
शयनासनयानेन भोजनाच्छादनैश्शुभैः।
राज्ञो दशरथस्यैव पुरे चान्तःपुरे यथा ॥१९॥
सुखोषिताः स्म भगवं ! त्सर्वकामैरुपस्कृताः।”
उपविश्याप्यगस्त्यस्तु ‘निषीदध्व’मुवाचह ॥२०॥
सर्वानेवाभ्यनुज्ञाप्य ये तत्रासंत्सहागताः।
सुखोपविष्टे रामे तु सहसीते सलक्ष्मणे ॥२१॥
स तेन ऋषिसंघेन अगस्त्यो वाक्यमब्रवीत्।
कालोऽयं गतभूयिष्ठो यः कालस्तव राघव! ॥२२॥
समयो यो नरेन्द्रेण कृतो दशरथेन ते।
तीर्णप्रतिज्ञः काकुत्स्थ ! सुखं राज्ये निवत्स्यसि ॥२३॥
धन्यस्ते जनको राम! स राजा रघुनन्दन!।
यस्त्वया ज्येष्ठपुत्रेण ययातिरिव तारितः ॥२४॥]
एवमुक्तस्स मुनिना राघवस्संयताञ्जलिः।
उवाच प्रश्रितं वाक्यमृषिं दीप्तमिवानलम् ॥२५॥
“धन्योऽस्म्यनुगृहीतोऽस्मि यस्य मे मुनिपुङ्गवः।
गुणैस्सभ्रातृभार्यस्य वरदः परितुष्यति ॥२६॥”
[न मया तारितो राजा स्वगुणैरेव तारितः।
स्वर्गं दशरथः प्राप्तस्स्वकृतैः पूर्वकर्मभिः ॥२७॥
अयं देशो हि निखिलस्सर्व एव महातपः।
अशरण्यश्शरण्योऽभूद्यथैव विनिवेशितः ॥२८॥
तदाख्याह्यर्थंतत्त्वेन परं कौतूहलं मम।”
श्रुत्वा तु वचनं तस्य रामस्य मधुराक्षरम् ॥२९॥
प्रत्युवाच ततो राममगस्त्यो भगवानृषिः।
“शृणु राघव तत्त्वेन देशस्यास्य यथातथम् ॥३०॥
दण्डकेन परित्यक्तोह्ययं देशो महात्मना।
भार्गवस्य च शापेन निर्मनुष्यमृगोऽभवत् ॥३१॥
वृक्षगुल्मलताहीनं तापसैरपि वर्जितम्।
कान्तारमभवत्तात! घोरं परमदारुणम् ॥३२॥
योजनानां सहस्रं तु विन्ध्यपादस्य दक्षिणे।
नात्र वर्षति पर्जन्यो नापि वाति सुखोऽनिलः ॥३३॥
रूक्षं प्रतिभयं घोरमासीद्धूमाकुलं वनम्।
बहून्यब्दसहस्राणि इदमासीदनाकुलम् ॥३४॥
गन्धर्वैऋषिसंघैश्च देवैश्च परिवर्जितम्।
कस्यचित्त्वथ कालस्य दैवयोगादहं नृप! ॥३५॥
हिमवच्छिखराच्छ्वेतादिह प्राप्तोऽस्मि मानद !।
ततो मया समानीतः पर्जन्यो जलदैस्सह ॥३६॥
स्वच्छन्दवर्षस्सकृतः कंचित्कालमरिन्दम !।
यमस्य चैव चारास्तु बहून्यब्दशतानि वै ॥३७॥
तेजसा मृत्युदूताश्च व्याधयश्च निराकृताः।
हिमवत्पादजा वृक्षाश्चिन्तिता मनसा गताः ॥३८॥
प्रवृत्ताश्च पुनर्नद्यः फुल्लपङ्कजमण्डिताः।
तटाकानि सुरम्याणि सरितश्च सरांसि च ॥३९॥
नीरजस्कं सुगन्धं च सुखशीतजलानिलम्।
प्रवृत्तवनषण्डाढ्यं स्फीतसस्यसमाकुलम् ॥४०॥
अचिरेणाभवद्रम्यमृषिसङ्घानुसेवितम्।
केवलं त्वभिशापेन तस्यैव रघुनन्दन ! ॥४१॥
सोपद्रवमिवाप्येतद्राक्षसैः क्रूरकर्मभिः।
यदाप्रभृति चासि त्वं चित्रकूटमुपागतः ॥४२॥
तदाप्रभृति रक्षांसि विप्रकुर्वन्ति तापसान्।
ऋषीणामभयं वीर! दातुमर्हसि मानद! ॥४३॥
अस्माद्धि कारणाद्राम ! दण्डकारण्यवासिनाम्।
त्राणार्थमिह सम्प्राप्तस्त्रातुमर्हसि नो भवान् ॥४४॥
समर्थोह्यसि काकुत्स्थ ! त्रैलोक्यस्यापि रक्षणे।
किं पुनर्वीर ! रक्षांसि द्विजमन्युहतानि वै ॥४५॥
इदमिक्ष्वाकुपुत्रेण दण्डकेन महाबल !।
देशो निराकृतो राम ! शापदोषेण राघव ! ॥४६॥
दण्डकारण्यमखिलं दर्शनादेव पालितम्।
शापस्यान्ताय काकुत्स्थ! प्राप्तस्त्वमरिसूदन ! ॥४७॥
सत्वमद्य पुरावृत्तैः पितृभिश्च निराकृतम्।
तारयस्व महाभाग! दण्डकारण्यमद्य वै ॥४८॥
यस्य दोषादिदं राम! दण्डकारण्यमुच्यते।”
एवमुक्तस्तदा रामः प्रत्युवाच महामुनिम् ॥४९॥
[“आश्चर्यमिदमांख्यातं देशस्यास्य यथातथम्। ]
किंतु व्यादिश मे देशं सोदकं बहुकाननम् ॥५०॥
यत्राऽऽश्रमपदं कृत्वा वसेयं निरतस्सुखम्।”
ततोऽब्रवीन्मुनिश्रेष्ठश्श्रुत्वा रामस्य तद्वचः ॥५१॥
ध्यात्वा मुहूर्त धर्मात्मा धीरो धीरतरं वचः।
“इतो द्वियोजने तात! बहुमूलफलोदकः ॥५२॥
देशो बहुमृगश्श्रीमान्पञ्चवट्यभिविश्रुतः।
तत्र गत्वाऽऽश्रमपदं कृत्वा सौमित्रिणा सह ॥५३॥
रंस्यसे त्वं पितुर्वाक्यं यथोक्तमनुपालयन्।
कालोऽयं गतभूयिष्ठो यः कालस्तव राघव! ॥५४॥
समयो यो नरेन्द्रेण कृतो दशरथेन ते।
तीर्णप्रतिज्ञः काकुत्स्थ! सुखं राज्ये निवत्स्यसि ॥५५॥
धन्यस्ते जनको राम! स राजा रघुनन्दन!।
यस्त्वया ज्येष्ठपुत्रेण ययातिरिव तारितः ॥ ५६॥
विदितो ह्येष वृत्तान्तो मम सर्वस्तवानघ!।
तपसश्च प्रभावेन स्नेहाद्दशरथस्य च ॥५७॥
हृदयस्थश्च ते छन्दो विज्ञातस्तपसा मया।
इह वासं प्रतिज्ञाय मया सह तपोवने ॥५८॥
[वसन्तं त्वां जनास्सर्वे ज्ञास्यन्ति रघुनन्दन !।]
अतश्च त्वामहंब्रूमि ‘गच्छ पञ्चवटी’ मिति ॥५९॥
सहि रम्यो वनोद्देशो मेथिली तत्र रंस्यते।
स देशश्लाघनीयश्च नातिदूरे च राघव! ॥६०॥
गोदावर्यास्समीपे च मैथिली तत्र रंस्यते।
प्राज्यमूलफलश्चैव नानाद्विजगणायुतः ॥६१॥
विविक्तश्च महाबाहो ! पुण्यो रम्यस्तथैवच।
भवानपि सदारश्च शक्तश्च परिरक्षणे ॥६२॥
अपि चात्र वसन्राम! तापसान्पालयिष्यसि।
एतदालक्ष्यते वीर! मधूकानां महद्वनम् ॥६३॥
उत्तरेणास्य गन्तव्यं न्यग्रोधमभिगच्छता।
ततः स्थलमुपारुह्य पर्वतस्याविदूरतः ॥६४॥
ख्यातः पञ्चवटीत्येव नित्यपुष्पितकाननः।”
अगस्त्येनैवमुक्तस्तु रामस्सौमित्रिणा सह ॥६५॥
सत्कृत्याऽऽमन्त्रयामास तमृषिं सत्यवादिनम्।
तौ तु तेनाभ्यनुज्ञातौ कृतपादाभिवन्दनौ ॥६६॥
तदाश्रमात्पञ्चवटींजग्मतुस्सह सीतया।
गृहीतचापौ तु नराधिपात्मजौ विषक्ततूणौ समरेष्वकातरौ।
यथोपदिष्टेन पथा महर्षिणा प्रजग्मतुः पञ्चवर्टी समाहितौ ॥६७॥
इति श्रीमदारण्यकाण्डे त्रयोदशस्सर्गः ॥
—————
॥ चतुर्दशस्सर्गः ॥
अथ पञ्चवटींगच्छन्नन्तरा रघुनन्दनः।
आससाद महाकायं गृध्रंभीमपराक्रमम् ॥१॥
तं दृष्ट्वा तौ महाभागौ वटस्थं रामलक्ष्मणौ।
मेनाते राक्षसं पक्षिंब्रुवाणौ ‘को भवा’निति ॥२॥
स तौ मधुरया वाचा सौम्यया प्रीणयन्निव।
उवाच ‘वत्स ! मां विद्धि वयस्यं पितुरात्मनः ॥३॥’
स तं पितृसखंबुद्ध्वापूजयामास राघवः।
स तस्याकुलमव्यग्रमथपप्रच्छ नाम च ॥४॥
रामस्य वचनं श्रुत्वा सर्वभूतसमुद्भवम्।
आचचक्षे द्विजस्तस्मै कुलमात्मानमेव च॥५॥
“पूर्वकाले महाबाहो ! ये प्रजापतयोऽभवन्।
तान्मे निगदतस्सर्वानादितशृणु राघव ! ॥६॥
कर्दमः प्रथमस्तेषां विक्रीतस्तदनन्तरः।
शेषश्च संश्रयश्चैव बहुपुत्रश्च वीर्यवान् ॥७॥
स्थाणुर्मरीचिरत्रिश्च ऋतुश्चैव महाबलः।
पुलस्त्यश्चाङ्गिराश्चैव प्रचेता पुलहस्तथा ॥८॥
दक्षो विवस्वानपरोऽरिष्टनेमिश्च राघव!।
काश्यपश्च महातेजास्तेषामासीच्चपश्चिमः ॥९॥
प्रजापतेस्तु दक्षस्य बभूवुरिति विश्रुतम्।
षष्टिर्दुहितरो राम! यशस्विन्यो महायशः ॥१०॥
काश्यपः प्रतिजग्राह तासामष्टौ सुमध्यमाः।
[अङ्गिरास्त्वपरा! राम कन्याः प्रत्यग्रहीत्तदा ॥११॥
अदितिं च दितिं चैव दुनुमव्यथ कालिकाम्।
ताम्रां क्रोधवशां चैव मनुं चाप्यनलामपि ॥१२॥
तास्तु कन्यास्ततः प्रीतः कश्यपः पुनरब्रवीत्।
“पुत्रांस्त्रैलोक्यभर्तॄन्वै जनयिष्यथ मत्समान् ॥१३॥”
अदितिस्तन्मना राम ! दितिश्च मनुजर्षभ !।
कालिका च महाबाहो! शेषास्त्वमनसोऽभवन् ॥१४॥
अदित्यां जज्ञिरे देवास्त्रयस्त्रिंशदरिन्दम !।
आदित्या वसवो रुद्रा ह्यश्विनौ च परन्तप ॥१५॥
दितिस्त्वजनयत्पुत्रान्ं दैत्यांस्तात यशस्विनः।
तेषामियं वसुमती पुरासीत्सवनार्णवा ॥१६॥
दनुस्त्वंजनयत्पुत्रम श्वमीवमरिन्दम !।
नरक कालकं चैव कालिकापि व्यजायत ॥१७॥
क्रोञ्चीं भासीं तथा श्येनीं धृतराष्ट्रीं तथा शुकीं।
ताम्रापि सुषुवे कन्याः पञ्चैता लोकविश्रुताः ॥१८॥
उलूकान् जनयत्क्रौञ्चींभासी भासान्व्यजायत।
श्येनी श्येनांश्च गृध्रांश्च व्यजायत सुतेजसः ॥१९॥
धृतराष्ट्री तु हंसांश्च कलहंसांश्च सर्वशः।
चक्रवाकांश्चभद्रं ते विजज्ञे सापि भामिनी ॥२०॥
शुकी न तां विजज्ञे तु नताया विनता सुता।
दश क्रोधवशा राम! विजज्ञे ह्यात्मसम्भवाः ॥२१॥
मृगीं च मृगमन्दां च हरीं भद्रमदामपि।
मातङ्गीमपि शार्दूलां श्वेतां च सुरभिं तथा ॥२२॥
सर्वलक्षणसम्पन्नां सुरसां कद्रुकामपि।
अपत्यं तु मृगास्सर्वे मृग्या नरवरोत्तम ! ॥२३॥
ऋक्षाश्चमृगमन्दायास्सृमराश्चमरास्तथा।
हर्याश्चहरयोऽपत्यं वानराश्च तरस्विनः ॥२४॥
ततस्त्विरावतीं नाम जज्ञे भद्रमदा सुताम्।
तस्यास्त्वैरावतः पुत्रो लोकनाथो महागजः ॥२५॥
मातंग्यास्त्वथ मातङ्गा अपत्यं मनुजर्षभ !।
गोलाङ्गूलांश्च शार्दूली व्याघ्रांश्चाजनयत्सुतान् ॥२६॥
दिशागजांश्च काकुत्स्थ! श्वेताप्यजनयत्सुतान्।
ततो दुहितरौ राम! सुरभिर्द्वे व्यजायत ॥२७॥
रोहिणीं नाम भद्रं ते गन्धर्वींच यशस्विनीम्।
रोहिण्यजनयद्गाव गन्धर्वी वाजिनस्सुतान् ॥२८॥
सुरसा जनयन्नागान्राम! कद्रूस्तु पन्नगान्।
मनुर्मनुष्यान् जनयद्राम! पुत्रान्यशस्विनः ॥२९॥
ब्राह्मणान्क्षत्रियान्वैश्यान् शूद्रांश्च मनुजर्षभ !।
सर्वान्पुण्यफलान्वृक्षाननलापि व्यजायत ॥३०॥
विनता च शुकी पौत्री कद्रूश्च सुरसा स्वसा।
कद्दूर्नागं सहस्रास्यं विजज्ञे धरणीधरम् ॥३१॥
द्वौ पुत्रौ विनतायास्तु गरुडोऽरुण एव च।
तस्माज्जातोऽहमरुणात्सम्पातिस्तु ममाग्रजः ॥३२॥
जटायुरिति मां विद्धि श्येनीपुत्रमरिन्दम !।
सोऽहं वाससहायस्ते भविष्यामि यदीच्छसि ॥३३॥
इदं हि दुर्गं कान्तारं मृगराक्षससेवितम्।
सीतां च तात ! रक्षिष्येत्वयियाते सलक्ष्मणे ॥३४॥
जटायुषं तं प्रतिपूज्य राघवो मुदा परिष्वज्य च सन्नतोऽभवत्।
पितुर्हि शुश्राव सखित्वमात्मवाञ्जटायुषा संकथितं पुनः पुनः ॥३५॥
स तत्र सीतां परिधाय मैथिलीं सहैव तेनातिबलेन पक्षिणा।
जगाम तां पञ्चवटीं सलक्ष्मणो रिपून्दिधक्षञ्छलभानिवानलः ॥३६॥
इति श्रीमदारण्यकाण्डे चतुर्दशस्सर्गः ॥
—————
॥ पञ्चदशस्सर्गः ॥
ततः पञ्चवटीं गत्वा नानाव्यालमृगायुताम्।
उवाच भ्रातरं रामस्सौमित्रं दीप्ततेजसम् ॥१॥
“आगताः स्म यथोद्दिष्टममुं देशं महर्षिणा।
अयं पञ्चवटीदेशस्सौम्य! पुष्पितपादपः ॥२॥
सर्वतश्चार्यतां दृष्टिः कानने निपुणो ह्यसि।
आश्रमः कतरस्मिन्नो देशे भवति सम्मतः ॥३॥
रमते यत्र वैदेही त्वमहं चैव लक्ष्मण !।
तादृशो मृग्यतां देशस्सन्निकृष्टजलाशयः ॥४॥
वनरामण्यकं यत्र स्थलरामण्यकं तथा।
सन्निकृष्टं च यत्र स्यात्समित्पुष्पकुशोदकम् ॥५॥”
एवमुक्तस्तु रामेण लक्ष्मणस्संयताञ्जलिः।
सीतासमक्षं काकुत्स्थमिदं वचनमब्रवीत् ॥६॥
“परवानस्मि काकुत्स्थ ! त्वयि वर्षशतं स्थिते।
स्वयं तु रुचिरे देशे क्रियतामिति मां वद ॥७॥”
सुप्रीतस्तेन वाक्दैन लक्ष्मणस्य महात्मनः।
विमृशन्रोचयामास देशं सर्वगुणान्वितम् ॥८॥
स तं रुचिरमाक्रम्य देशमाश्रमकर्मणि।
हस्तौ गृहीत्वा हस्तेन रामस्सौमित्रिमब्रवीत् ॥९॥
“अयं देशरसमश्श्रीमान्पुष्पितैस्तरुभिर्वृतः।
इहाऽऽश्रमपदं सौम्य! यथावत्कर्तुमर्हसि ॥१०॥
इयमादित्यसङ्काशैः पदैस्सुरभिगन्धिभिः।
अदूरे दृश्यते रम्या पद्मिनी पद्मशोभिता ॥११॥
यथाख्यातमगस्त्येन मुनिना भावितात्मना।
इयं गोदावरी रम्या पुष्पितैस्तरुभिर्वृता ॥१२॥
हंसकारण्डवाकीर्णा चक्रवाकोपशोभिता।
नातिदूरे न चासन्ने मृगयूथनिपीडिता ॥१३॥
मयूरनादिता रम्याः प्रांशवो बहुकन्दराः।
दृश्यन्ते गिरयस्सौम्य! फुल्लैस्तरुभिरावृताः ॥१४॥
सौवर्णैराजतैस्ताम्रैर्देशे देशे च धातुभिः।
गवाक्षिता इवाऽऽभान्ति गजाः परमभक्तिभिः ॥१५॥
सालैस्तालैस्तमालैश्च खर्जूरैः पनसाम्रकैः।
नीवारैस्तिनिशैश्चैव पुन्नागैश्चोपशोभिताः ॥१६॥
चूतैरशोकैस्तिलकैश्चम्पकैः केतकैरपि।
पुष्पगुल्मलतोपैतैस्तैस्तैस्तरुभिरावृताः ॥१७॥
चन्दनैः स्पन्दनैर्नीपैः पर्णासैर्लिकुचैरपि।
धवाश्वकर्णखदिरैश्शमीकिंशुकपाटलैः ॥१८॥
इदं पुण्यमिदं मेध्यमिदं बहुमृगद्विजम्।
इह वत्स्याम सौमित्रे ! सार्धमेतेन पक्षिणा ॥१९॥”
एवमुक्तस्तु रामेण लक्ष्मणः परवीरहा।
अचिरेणाश्रमं भ्रातुश्चकार सुमहाबलः ॥२०॥
पर्णशालां सुविपुलां तत्र संखातमृत्तिकाम्।
सुस्तम्भां मस्करैर्दीर्घैः कृतवंशां सुशोभनाम् ॥२१॥
शमीशाखाभिरास्तीर्य दृढपाशावपाशिताम्।
कुशकाशशरैः पर्णैस्सुपरिच्छादितां तथा ॥२२॥
समीकृततलां रम्यां चकार लघुविक्रमः।
निवासं राघवस्यार्थेप्रेक्षणीयमनुत्तमम् ॥२३॥
स गत्वा लक्ष्मणश्श्रीमान्नदीं गोदावरी तदा।
स्नात्वापद्मानि चादाय सफलः पुनरागतः ॥२४॥
ततः पुष्पबलिं कृत्वा शान्तिं च स यथाविधि।
दर्शयामास रामाय तदाश्रमपदं कृतम् ॥२५॥
स तं दृष्ट्वा कृतं सौम्यमाश्रमं सीतया सह।
राघवः पर्णशालायां हर्षमाहारयत्परम् ॥२६॥
सुसंहृष्टः परिष्वज्य बाहुभ्यां लक्ष्मणं तदा।
अतिस्निग्धं च गाढं च वचनं चेदमब्रवीत् ॥२७॥
“प्रीतोऽस्मि ते महत्कर्म त्वया कृतमिदं प्रभो !।
प्रदेयो यन्निमित्तं ते परिष्वङ्गो मया कृतः ॥२८॥
भावज्ञेन कृतज्ञेन धर्मज्ञेन च लक्ष्मण !।
त्वया पुत्रेण धर्मात्मा न संवृत्तः पिता मम ”॥२९॥
एवं लक्ष्मणमुक्त्वा तु राघवो लक्ष्मिवर्धनः।
तस्मिन्देशे बहुफले न्यवसत्सुसुखं वशी ॥३०॥
कंचित्कालं स धर्मात्मा सीतया लक्ष्मणेन च।
अन्वास्थमानो न्यवसत्स्वर्गलोके यथाऽमरः ॥३१॥
इति श्रीमदारण्यकाण्डे पञ्चदशस्सर्गः ॥
—————
॥षोडशस्सर्गः॥
वसतस्तस्य तु सुखं राघवस्य महात्मनः।
शरवद्यपाये हेमन्तऋतुरिष्टः प्रवर्तते ॥१॥
स कदाचित्प्रभातायां शर्वर्यां रघुनन्दनः।
प्रययावभिषेकार्थं रम्यां गोदावरीं नदीम् ॥२॥
प्रह्वः कलशहस्तस्तं सीतया सह वीर्यवान्।
पृष्ठतोऽनुव्रजन्भ्राता सौमित्रिरिदमब्रवीत् ॥३॥
“अयं स कालस्सम्प्राप्तः प्रियो यस्ते प्रियंवद !।
अलङ्कृतइवाऽऽभाति येन संवत्सरश्शुभः ॥४॥
नीहारपरुषो लोकः पृथिवी सस्यशालिनी।
जलान्यनुपभोग्यानि सुभगो हव्यवाहनः ॥५॥
नवाग्रयणपूजाभिरभ्यर्च्य पितृदेवताः।
कृताग्रयणकाः काले सन्तो विगतकल्मषाः ॥६॥
प्राज्यकामा जनपदास्सम्पन्नतरगोरसाः।
विचरन्ति महीपाला यात्रास्था विजिगीषवः ॥७॥
सेवमाने दृढं पूर्णे दिशमन्तकसेविताम्।
विहीनतिलकेव स्त्री नोत्तरा दिक्प्रकाशते ॥८॥
प्रकृत्या हिमकोशाऽऽढ्यो दूरसूर्यश्च साम्प्रतम्।
यथार्थनामा सुव्यक्तं हिमवान्हिमवान्गिरिः ॥९॥
अत्यन्तसुखसंचारा मध्याह्ने स्पर्शतस्सुखाः।
दिवसास्सुभगादित्याइछायासलिलदुर्भगाः ॥१०॥
मृदुसूर्यास्सनीहाराः पटुशीतास्समारुताः।
शून्यारण्या हिमध्वस्ता दिवसा भान्ति साम्प्रतम् ॥११॥
निवृत्ताकाशशयनाः पुष्यनीता हिमारुणाः।
शीता वृद्धतरायामास्त्रियामा यान्ति साम्प्रतम् ॥१२॥
रविसङ्क्रान्तसौभाग्यन्तुषारारुणमण्डलः।
निःश्वासान्ध इवादर्शश्चन्द्रमा न प्रकाशते ॥१३॥
ज्योत्स्नी तुषारमलिना पौर्णमास्यां न राजते।
सीतेव चातपश्यामा लक्ष्यते न तु शोभते ॥१४॥
प्रकृत्या शीतलस्पर्शो हिमविद्धश्च साम्प्रतम्।
प्रवाति पश्चिमो वायुः काले द्विगुणशीतलः ॥१५॥
बाष्पच्छन्नान्यरण्यानि यवगोधूमवन्ति च।
शोभन्तेऽभ्युदिते सूर्ये नदद्भिः क्रौञ्चसारसैः ॥१६॥
खर्जूरपुष्पाकृतिभिश्शिरोभिः पूर्णतण्डुलैः।
शोभन्ते किंचिदानम्राश्शालयः कनकप्रभाः ॥१७॥
मयूखैरुपसर्पद्भिर्हिमनीहारसंवृतैः।
दूरमभ्युदितस्सूर्यश्शशाङ्क इव लक्ष्यते ॥१८॥
अग्राह्यवीर्यः पूर्वाह्ने मध्याह्ने स्पर्शतस्सुखः।
संरक्तः किंचिदापाण्डुरातपश्शोभते क्षितौ ॥१९॥
अवश्यायनिपातेन किंचित्प्रक्लिन्नशाद्वला।
वनानां शोभते भूमिर्निविष्टतरुणातपा ॥२०॥
स्पृशंस्तु विमलं शीतमुदकं द्विरदस्सुखम्।
अत्यन्ततृषितो वन्यः प्रतिसंहरते करम् ॥२१॥
एते हि समुपासीना विहगा जलचारिणः।
नावगाहन्ति सलिलमप्रगल्भा इवाहवम् ॥२२॥
अवश्यायतमोनद्धा नीहारतमसाऽऽवृताः।
प्रसुप्ता इव लक्ष्यन्ते विपुष्पा वनराजयः ॥२३॥
बाष्पसंछन्नसलिला रुतविज्ञेयसारसाः।
हिमार्द्रवालुकैस्तीरैस्सरितो भान्ति साम्प्रतम् ॥२४॥
तुषारपतनाच्चैव मृदुत्वाद्भास्करस्य च।
शैत्यादगाग्रस्थमपि प्रायेण रसवज्जलम् ॥२५॥
जराजर्झरितैः पद्मैश्शीर्णकेसरकर्णिकैः।
नालशेषैर्हिमध्वस्तैर्न भान्ति कमलाकराः ॥२६॥
अस्मिंस्तु पुरुषव्याघ्रः काले दुःखसमन्वितः।
तपश्चरति धर्मात्मा त्वद्भक्त्याभरतः पुरे ॥२७॥
त्यक्त्वा राज्यं च मानं च भोगांश्च विविधान्बहून्।
तपस्वी नियताहारश्शेते शीते महीतले ॥२८॥
सोऽपि वेलामिमां नूनमभिषेकार्थमुद्यतः।
वृतः प्रकृतिभिर्नित्यं प्रयांति सरयूं नदीम् ॥२९॥
अत्यन्तसुखसंवृद्धस्सुकुमारस्सुखोचितः।
कथं स्वपररात्रेषु सरयूम
वगाहते ॥३०॥
‘पद्मपत्रेक्षणो वीरः श्यामो निरुदरो महान्।
धर्मज्ञस्सत्यवादी च ह्रीनिषेधो जितेन्द्रियः ॥३१॥
प्रियाभिभाषी मधुरो दीर्घबाहुररिन्दमः।
संत्यज्य विविधान्भोगानार्यंसर्वात्मना श्रितः ॥३२॥
जितस्स्वर्गस्तव भ्रात्रा भरतेन महात्मना।
वनस्थमपि तापस्ये यस्त्वामनुविधीयते ॥३३॥
“न पित्र्यमनुवर्तन्ते मातृकं द्विपदा”इति।
ख्यातो लोकप्रवादोऽयं भरतेनान्यथाकृतः ॥३४॥
भर्ता दशरथो यस्यास्साधुश्च भरतस्सुतः।
कथंनु साऽम्बा कैकेयी तादृशी क्रूरशीलिनी”॥३५॥
इत्येवं लक्ष्मणे वाक्यं स्नेहाद्ब्रवति धार्मिके।
परिवादं जनन्यास्तमसहन्राघवोऽ
ब्रवीत् ॥३६॥
“न तेऽम्बा मध्यमा तात! गर्हितव्या कथंचन।
तामेवेक्ष्वाकुनाथस्य भरतस्य कथां कुरु ॥३७॥
निश्चिताऽपि हि मे बुद्धिर्वनवासे दृढव्रता।
भरतस्नेहसंतप्ता बालिशी क्रियते पुनः ॥३८॥
संस्मराम्यस्य वाक्यानि प्रियानि मधुराणि च।
हृद्यान्यमृतकल्पानि मनःप्रह्लादनानि च ॥३९॥
कदान्वहं समेध्यामि भरतेन महात्मना।
शत्रुघ्नेन च वीरेण त्वया च रघुनन्दन ! ॥४०॥”
इत्येवं विलपंस्तत्र प्राध्य गोदावरी नदीम्।
चक्रेऽभिषेकं काकुत्स्थस्सानुजस्सह सीतया ॥४१॥
तर्पयित्वाऽथ सलिलैस्ते पितॄन्दैवतानि च।
स्तुवन्ति स्मोदितं सूर्य देवताञ्च समाहिताः ॥४२॥
कृताभिषेकस्स रराज रामस्सीताद्वितीयस्सह लक्ष्मणेन।
कृताभिषेको गिरिराजपुत्र्या रुद्रस्सनन्दी भगवानिवेशः ॥४३॥
इति श्रीमदारण्यकाण्डे षोडशस्स
र्गः॥
—————
॥ सप्तदशस्सर्गः ॥
कृताभिषेको रामस्तु सीता सौमित्रिरेव च।
तस्माद्गोदावरीतीरात्ततो जग्मुस्वमाश्रमम् ॥१॥
आश्रमं तमुपागम्य राघवस्सहलक्ष्मणः।
कृत्वा पौर्वाह्निकं कर्म पर्णशालामुपागमत् ॥२॥
उवास सुखितस्तत्र पूज्यमानो महर्षिभिः।
लक्ष्मणेन सह भ्रात्रा चकार विविधाः कथाः ॥३॥
स रामः पर्णशालायामासीनस्सह सीतया।
विरराज महाबाहुश्चित्रया चन्द्रमा इव ॥४॥
तथाऽऽसीनस्य रामस्य कथासंसक्तचेतसः।
तं देशं राक्षसी काचिदाजगाम यदृच्छया ॥५॥
सा तु शूर्पणखा नाम दशग्रीवस्य रक्षसः।
भगिनी राममासाद्य ददर्श त्रिदशोपमम् ॥६॥
सिंहोरस्कं महाबाहुं पद्मपत्रनिभेक्षणम्।
आजानुबाहुं दीप्तास्यमतीव प्रियदर्शनम् ॥७॥
गजविक्रान्तगमनं जटामण्डलधारिणम्।
सुकुमारं महासत्त्वं पार्थिवव्यञ्जनान्वितम् ॥८॥
राममिन्दीवरश्यामं कंदर्पसदृशप्रभम्।
बभूवेन्द्रोपमं दृष्ट्वा राक्षसी काममोहिता ॥९॥
सुमुखं दुर्मुखी रामं वृत्तमध्यं महोदरी।
विशालाक्षं विरूपाक्षी सुकेशं ताम्रमूर्धजा ॥१०॥
प्रीतिरूपं विरूपा सा सुवरं भैरवस्वरा।
तरुणं दारुणा वृद्धा दक्षिणं वामभाषिणी ॥११॥
न्यायवृत्तं सुदुर्वृत्ता प्रियमप्रियदर्शना।
शरीरजसमाविष्टा राक्षसी वाक्यमब्रवीत् ॥१२॥
“जटी तापसरूपेण सभार्यश्शरचापधृत्।
आगतस्त्वमिमं देशं कथं राक्षससेवितम् ॥१३॥
किमागमनकृत्यं ते तत्त्वमाख्यातुमर्हसि ”।
एवमुक्तस्तु राक्षस्या शूर्पणख्या परन्तपः ॥१४॥
ऋजुबुद्धितया सर्वमाख्यातुमुपचक्रमे।
अनृतं न हि रामस्य कदाचिदपि सम्मतम् ॥१५॥
विशेषेणाऽश्रमस्थस्य समीपे स्त्रीजनस्य च।
“आसीद्दशरथो नाम राजा त्रिदशविक्रमः ॥१६॥
तस्याहमग्रजः पुत्रो रामो नाम जनैश्श्रुतः।
भ्राताऽयं लक्ष्मणो नाम यवीयान्मामनुव्रतः ॥१७॥
इयं भार्या च वैदेही मम सीतेति विश्रुता।
नियोगात्तु नरेन्द्रस्य पितुर्मातुश्च यन्वितः ॥१८॥
धर्मार्थं धर्मकाङ्क्षी च वनं वस्तुमिहाऽऽगतः।
त्वां तु वेदितुमिच्छामि कथ्यतां कासि कस्य वा? ॥१९॥
न हि तावन्मनोज्ञाङ्गी राक्षसी प्रतिभासि मे।
इह वा किन्निमित्तं त्वमागता ब्रूहि तत्त्वतः ”॥२०॥
साऽब्रवीद्वचनं श्रुत्वा राक्षसी मदनार्दिता।
“श्रूयतां राम ! वक्ष्यामि तत्त्वार्थं वचनं मम ॥२१॥
अहं शूर्पणखा नाम राक्षसी कामरूपिणी।
अरण्यं विचरामीदमेका सर्वभयङ्करा ॥२२॥
रावणो नाम मे भ्राता बलीयात्राक्षसेश्वरः।
वीरो विश्रवसः पुत्त्रो यदि ते श्रोत्रमागतः ॥२३॥
प्रवृद्धनिद्रश्च सदा कुम्भकर्णो महाबलः।
विभीषणस्तु धर्मात्मा न तु राक्षसचेष्टितः ॥२४॥
प्रख्यातवीर्यौ च रणे भ्रातरौ खरदूषणौ।
तानहं समतिक्रांन्ता राम! त्वा पूर्वदर्शनात् ॥२५॥
समुपेताऽस्मि भावेन भर्तारं पुरुषोत्तमम्।
अहं प्रभावसम्पन्ना स्वच्छन्दबलगामिनी ॥२६॥
चिराय भव मे भर्ता सीतया किं करिष्यसि।
विकृता च विरूपा च न चेयं सदृशी तव ॥२७॥
अहमेवानुरूपा ते भार्या रूपेण पश्य माम्।
इमां विरूपामसती करालां निर्णतोदरीम् ॥२८॥
अनेन ते सह भ्रात्रा भक्षयिष्यामि मानुषीम्।
ततः पर्वतशृङ्गाणि वनानि विविधानि च ॥२९॥
पश्यंत्सह मया कान्त! दण्डकान्विचरिष्यसि।”
इत्येवमुक्तः काकुत्स्थः प्रहस्य मदिरेक्षणाम् ॥३०॥
इदं वचनमारेभे वक्तुं वाक्यविशारदः ॥
इति श्रीमदारण्यकाण्डे सप्तदशस्सर्गः ॥
—————
॥ अष्टादशस्सर्गः ॥
ततश्शूर्पणखां रामः कामपाशावपाशिताम्।
स्वच्छया श्लक्ष्णया वाचा स्मितपूर्वमथाब्रवीत् ॥१॥
“कृतदारोऽस्मि भवति! भार्येयं दयिता मम।
त्वद्विधानां तु नारीणां सुदुःखा ससपत्नता ॥२॥
अनुजस्त्वेष मे भ्राता शीलवान्प्रियदर्शनः।
श्रीमानकृतदारश्च लक्ष्मणो नाम वीर्यवान् ॥३॥
अपूर्वी भार्यया चार्थी तरुणः प्रियदर्शनः।
अनुरूपश्च ते भर्ता रूपस्यास्य भविष्यति ॥४॥
एनं भज विशालाक्षि ! भर्तारं भ्रातरं मम।
असपत्ना वरारोहे ! मेरुमर्कप्रभा यथा” ॥५॥
इति रामेण सा प्रोक्ता राक्षसी काममोहिता।
विसृज्य रामं सहसा ततो लक्ष्मणमब्रवीत् ॥६॥
“अस्य रूपस्य ते युक्ता भार्याऽहं वरवर्णिनी
मया सह सुखं सर्वान्दण्डकान्विचरिष्यसि” ॥७॥
एवमुक्तस्तु सौमित्री राक्षस्या वाक्यकोविदः।
ततश्शूर्पणखां स्मित्वा लक्ष्मणो युक्तब्रवीत् ॥८॥
“कथं दासस्य मे दासी भार्या भवितुमिच्छसि।
सोऽहमार्येण परवान्भ्रात्रा कमलवर्णिनि! ॥९॥
समृद्धार्थस्य सिद्धार्था मुदितामलवर्णिनी।
आर्यस्य त्वं विशालाक्षि! भार्या भव यवीयसी ॥१०॥
एनां विरूपामसतीं करालां निर्णतोदरीम्।
भार्यां वृद्धां परित्यज्य त्वामेवैष भजिष्यति ॥११॥
को हि रूपमिदं श्रेष्ठं संत्यज्य वरवर्णिनि !।
मानुषीषु वरारोहे! कुर्याद्भावं विचक्षणः ॥१२॥
इति सा लक्ष्मणेनोक्ता कराला निर्णतोदरी।
मन्यते तद्वचस्तथ्यं परिहासाविचक्षणा ॥१३॥
सा रामं पर्णशालायामुपविष्टं परन्तपम्।
सीतया सह दुर्धर्षमब्रवीत्काममोहिता ॥१४॥
“एनां विरूपामसतीं करालां निर्णतोदरीम्।
वृद्धां भार्यामवष्टभ्य मां न त्वं बहुमन्यसे ॥१५॥
अद्येमां भक्षयिष्यामि पश्यतस्तव मानुषीम्।
त्वया सह चरिष्यामि निस्सपन्ना यथासुखम् ॥१६॥”
इत्युक्त्वामृगशाबाक्षीमलातसदृशेक्षणा।
अभ्यधावत्सुसंक्रुद्धा महोल्का रोहिणीमिव ॥१७॥
तां मृत्युपाशप्रतिमामापतन्तीं महाबलः।
निगृह्य रामः कुपितस्ततो लक्ष्मणमब्रवीत् ॥१८॥
क्रूरैरनार्यैस्सौमित्रे ! परिहासः कथंचन।
न कार्यः पश्य वैदेहीं कथंचित्सौम्य ! जीवतीम् ॥१९॥
इमां विरूपामसतीमतिमत्तां महोदरीम्।
राक्षसीं पुरुषव्याघ्र! विरूपयितुमर्हसि ॥२०॥”
इत्युक्तो लक्ष्मणस्तस्याः क्रुद्धो रामस्य पार्श्वतः।
उद्धृत्य खड्गं चिच्छेद कर्णनासंमहाबलः ॥२१॥
निकृत्तकर्णनासा तु विस्वरं सा विनद्य च।
यथागतं प्रदुद्राव घोरा शूर्पणखा वनम् ॥२२॥
सा विरूपा महाघोरा राक्षसी शोणितोक्षिता।
ननाद विविधान्नादान्यथा प्रावृषि तोयदः ॥२३॥
सा विक्षरन्ती रुधिरं बहुधा घोरदर्शना।
प्रगृह्य बाहू गर्जन्ती प्रविवेश महावनम् ॥२४॥
ततस्तु सा राक्षससंघसंवृतं खरं जनस्थानगतं विरूपिता।
उपेत्य त भ्रातरमुग्रदर्शनं पपात भूमौ गगनाद्यथाऽशनिः ॥२५॥
ततस्सभार्य भयमोहमूर्छिता सलक्ष्मणं राघवमागतं वनम्।
विरूपणं चात्मनि शोणितोक्षिता शशंस सर्वं भगिनी खरस्य सा ॥२६॥
इति श्रीमदारण्यकाण्डे अष्टादशस्सर्गः ॥
—————
॥ एकोनविंशस्सर्गः ॥
तां तथा पतितां दृष्ट्वा विरूपां शोणितोक्षिताम्।
भगिनीं क्रोधसन्तप्तः खरः पप्रच्छ राक्षसः ॥१॥
“उत्तिष्ठ तावदाख्याहि प्रमोहं जहि संभ्रमम्।
व्यक्तमाख्याहि केन त्वमेवंरूपा विरूपिता ॥२॥
कः कृष्णसर्पमासीनमाशीविषमनागसम्।
तुदत्यभिसमापन्नमङ्गुल्यप्रेण लीलया ॥३॥
कः कालपाशमासज्य कण्ठे मोहान्न बुध्यते।
यस्त्वामद्य समासाद्य पीतवान्विषमुत्तमम् ॥४॥
बलविक्रमसंपन्ना कामगा कामरूपिणी।
इमामवस्थां नीता त्वं केनान्तकसमागता ॥५॥
देवगन्धर्वभूतानामृषीणां च महात्मनाम्।
कोऽयमेवं विरूपां त्वां महावीर्यश्चकार ह ॥६॥
न हि पश्याम्यहं लोके यः कुर्यान्मम विप्रियम्।
अन्तरेण सहस्राक्षं महेन्द्रं पाकशासनम् ॥७॥
अद्याहं मार्गणैः प्राणानादास्ये जीवितान्तकैः।
सलिले क्षीरमासक्तं निष्पिबन्निव सारसः ॥८॥
निहतस्य मया संख्ये शरसंकृत्तमर्मणः।
सफेनं रुधिरं रक्तं मेदिनी कस्य पास्यति ॥९॥
कस्य पत्ररथाः कायान्मांसमुत्कृत्य संगताः।
प्रहृष्टा भक्षयिष्यन्ति निहतस्य मया रणे ॥१०॥
तं न देवा न गन्धर्वा न पिशाचा न राक्षसाः।
मयाऽपकृष्टं कृपणं शक्तास्त्रातुमिहाऽऽहवे ॥११॥
उपलभ्य शनैस्संज्ञां तं मे शंसितुमर्हसि।
येन त्वं दुर्विनीतेन वने विक्रम्य निर्जिता ॥१२॥”
इति भ्रातुर्वचश्श्रुत्वा क्रुद्धस्य च विशेषतः।
ततश्शूर्पणखा वाक्यं सबाष्पमिदमब्रवीत् ॥१३॥
“तरुणौ रूपसम्पन्नौ सुकुमारौ महाबलौ।
पुण्डरीकविशालाक्षौ चीरकृष्णाजिनाम्बरौ ॥१४॥
फलमूलाशनौ दान्तौ तापसौ धर्मचारिणौ।
पुत्रौ दशरथस्यास्तां भ्रातरौ रामलक्ष्मणौ ॥१५॥
गन्धर्वराजप्रतिमौपार्थिवव्यञ्जनान्वितौ।
देवौ वा मानुषौ वा तौ न तर्कयितुमुत्सहे ॥१६॥
तरुणी रूपसंपन्ना सर्वाभरणभूषिता।
दृष्टा तत्र मया नारी तयोर्मध्ये सुमध्यमा ॥१७॥
ताभ्यामुभाभ्यां संभूय प्रमदामधिकृत्य ताम्।
इमामवस्थां नीताऽहं यथाऽनाथाऽसती तथा ॥१८॥
तस्याश्चानृजुवृत्तायास्तयोश्च हतयोरहम्।
सफेनं पातुमिच्छामि रुधिरं रणमूर्धनि ॥१९॥
एष मे प्रथमः कामः कृतस्तात! त्वया भवेत्।
तस्यास्तयोश्च रुधिरं पिबेयमहमाहवे ॥२०॥”
इति तस्यां ब्रुवाणायां चतुर्दश महाबलान्।
व्यादिदेश खरः क्रुद्धो राक्षसानन्तकोपमान् ॥२१॥
“मानुषौ शस्त्रसंपन्नौ चीरकृष्णाजिनाम्बरौ।
प्रविष्टौ दण्डकारण्यं घोरं प्रमदया सह ॥२२॥
तौ हत्वा तां च दुर्वृत्तामपावर्तितुमर्हथ।
इयं च रुधिरं तेषां भगिनी मम पास्यति ॥२३॥
मनोरथोऽयमिष्टोऽस्या भगिन्या मम राक्षसाः!।
शीघ्रं संपाद्यतां तौ च प्रमथ्य स्वेन तेजसा ॥२४॥”
इति प्रतिसमादिष्टा राक्षसास्ते चतुर्दश।
तत्र जग्मुस्तया सार्धं घना वातेरिता यथा ॥२५॥
ततस्तु ते तं समुदग्रतेजसं तथाऽपि तीक्ष्णप्रदरा निशाचराः।
न शेकुरेनं सहसा प्रमर्दितुं वने द्विपा दीप्तमिवाग्निमुत्थितम् ॥?
इति श्रीमदारण्यकाण्डे एकोनविंशस्सर्गः ॥
—————
॥ विंशस्सर्गः ॥
ततश्शूर्पणखा घोरा राघवाश्रममागता।
रक्षसामाचचक्षे तौ भ्रातरौ सह सीतया ॥१॥
ते रामं पर्णशालायामुपविष्टं महाबलम्।
ददृशुस्सीतया सार्धं वैदेह्या लक्ष्मणेन च ॥२॥
तान्दृष्ट्वा राघवश्श्रीमानागतांस्तां च राक्षसीम।
अब्रवीद्भ्रातरं रामो लक्ष्मणं दीप्ततेजसम् ॥३॥
‘मुहूर्तं भव सौमित्रे ! सीतायाः प्रत्यनन्तरः।
इमानस्या वधिष्यामि पदवीमागतानिह ॥४॥”
वाक्यमेतत्ततश्श्रुत्वा रामस्य विदितात्मनः।
तथेति लक्ष्मणो वाक्यं रामस्य प्रत्यपूजयत् ॥५॥
राघवोऽपि महच्चापं चामीकर विभूषितम्।
चकार सज्यं धर्मात्मा तानि रक्षांसि चाब्रवीत् ॥६॥
“पुत्रौ दशरथस्यावां भ्रातरौ रामलक्ष्मणौ।
प्रविष्टौ सीतया सार्धंदुश्चरं दण्डकावनम् ॥७॥
फलमूलाशनौ दान्तौ तापसौ धर्मचारिणौ।
वसन्तौ दण्डकारण्ये किमर्थमुपहिंसथ ॥८॥
युष्मान्पापात्मकान्हन्तुं विप्रकारान्महाहवे।
ऋषीणां तु नियोगेन प्राप्तोऽहं सशरायुधः ॥९॥
तिष्ठतैवात्र संतुष्टा नोपावर्तितुमर्हथ।
यदि प्राणैरिहार्थो वा निवर्तध्वं निशाचराः ! ॥१०॥”
तस्य तद्वचनं श्रुत्वा राक्षसास्ते चतुर्दश।
ऊचूर्वाचं सुसंक्रुद्धा ब्रह्मघ्नाश्शूलपाणयः ॥११॥
[संरक्तनयना घोरा रामं संरक्तलोचनम्।
परुषं मधुराभाषं हृष्टा दृष्टपराक्रमम् ॥१२॥]
“क्रोधमुत्पाद्य नो भर्तुर्खरस्य सुमहात्मनः।
त्वमेव हास्यसे प्राणानद्यास्माभिर्हतो युधि ॥१३॥
का हि ते शक्तिरेकस्य बहूनां रणमूर्धनि
अस्माकमग्रतः स्थातुं किं पुनर्योद्धुमाहवे ॥१४॥
एहि बाहुप्रयुक्तैर्नः परिघैश्शुलपट्टसैः।
प्राणांस्त्यक्ष्यसि वीर्यं च धनुश्च करपीडितम् ॥१५॥
इत्येवमुक्त्वा संक्रुद्धा राक्षसास्ते चतुर्दश।
[उद्यतायुधनिस्त्रिंशास्तावुभावभिदुद्रुवुः ॥१६॥
अभिपत्य ततो वेगात्पृष्ठतस्ते निशाचराः।
परिघान्पट्टसान् शूलान्निस्त्रिंशान्हेमभूषितान् ॥१७॥]
चिक्षिपुस्तानि शूलानि राघवं प्रति दुर्जयम्।
तानि शूलानि काकुत्स्थस्समस्तानि चतुर्दश ॥१८॥
तावद्भिरेव चिच्छेद शरैः काञ्चनभूषणैः।
ततः पश्चान्महातेजा नाराचान् सूर्यसन्निभान् ॥१९॥
जग्राह परमक्रुद्धश्चतुर्दश शिलाशितान्।
गृहीत्वा धनुरायम्य लक्ष्यानुद्दिश्य राक्षसान् ॥२०॥
मुमोच राघवो बाणान्वज्रानिव शतक्रतुः।
रुक्मपुङ्खाश्च विशिखा दीप्ता हेमविभूषिताः ॥२१॥
ते भित्त्वा रक्षसां वेगाद्वक्षांसि रुधिरप्लुताः।
विनिष्पेतुस्तदा भूमौ न्यमज्जन्ताशनिस्वनाः ॥२२॥
ते भिन्नहृदया भूमौ छिन्नमूला इव द्रुमाः।
निपेतुश्शोणितार्द्राङ्गा विकृता विगतासवः ॥२३॥
तान् दृष्ट्वा पतितान् भूमौ राक्षसी क्रोधमूर्छिता।
परित्रस्ता पुनस्तत्र व्यसृजद्भैरवस्वनान् ॥२४॥
सा नदन्ती महानादं जवाच्छूर्पणखा पुनः।
उपगम्य खरं सा तु किंचित्संशुष्कशोणिता ॥२५॥
पपात पुनरेवार्ता सनिर्यासेव सल्लकी।
भ्रातुस्समीपे शोकार्ता ससर्ज निनदं मुहुः ॥२६॥
सस्वरं मुमुचे बाष्पं विषण्णवदना तदा।
निपातितान्दृश्य रणे तु राक्षसान्प्रधाविता शूर्पणखा पुनस्ततः।
वधं च तेषां निखिलेन रक्षसां शशंस सर्व भगिनी खरस्य सा ॥
इति श्रीमदारण्यकाण्डे विंशस्सर्गः ॥
॥ एकविंशस्सर्गः ॥
स पुनः पतितां दृष्ट्वा क्रोधाच्छूर्पणखां खरः।
उवाच व्यक्तया वाचा तामनर्थार्थमागताम् ॥१॥
“मया त्विदानीं शूरास्ते राक्षसा रुधिराशनाः।
त्वत्प्रियार्थं विनिर्दिष्टाः किमर्थं रुद्यते पुनः ॥२॥
भक्ताश्चैवानुरक्ताश्च हिताश्च मम नित्यशः।
घ्नन्तोऽपि न निहन्तव्या न न कुर्युर्वचो मम ॥३॥
किमेतच्छ्रोतुमिच्छामि कारणं यत्कृते पुनः।
‘हा ना’थेति विनदन्ती सर्पवल्लुठसि क्षितौ ॥४॥
अनाथवद्विलपसि नाथे तु मयि संस्थिते।
उत्तिष्ठोत्तिष्ठ मा भैषीर्वैकृष्यं त्यज्यतामिह ॥५॥”
इत्येवमुक्त्वा दुर्धर्षा स्वरेण परिसान्त्विता।
विमृज्य नयने सास्रे खरं भ्रातरमब्रवीत् ॥६॥
“अस्मीदानीमहं प्राप्ता हृतश्रवणनासिका।
शोणितौघपरिक्लिन्ना त्वया च परिसान्त्विता ॥७॥
प्रेषिताश्च त्वया वीरं! राक्षसास्ते चतुर्दश।
निहन्तुं राघवं क्रोधान्मत्प्रियार्थं सलक्ष्मणम् ॥८॥
ते तु रामेण सामर्षाश्शूलपट्टसपाणयः।
समरे निहतास्सर्वे सायकैर्मर्मभेदिभिः ॥९॥
तान्दृष्ट्वा पतितान्भूमौ क्षणेनैव महाबलान्।
रामस्य च महत्कर्म महांस्त्रासोऽभवन्मम ॥१०॥
अहमस्मि समुद्विग्ना विषण्णा च निशाचर!।
शरणं त्वां पुनः प्राप्ता सर्वतो भयदर्शिनी ॥११॥
विषादनक्राध्युषिते परित्रासोर्मिमालिनि।
कि मां न त्रायसे मग्नांविपुले शोकसागरे ॥१२॥
एते च निहता भूमौ रामेण निशितैश्शरैः।
येऽपि मे पदवीं प्राप्ता राक्षसाः पिशिताशनाः ॥१३॥
मयि ते यद्यनुक्रोशो यदि रक्षस्सु तेषु च।
रामेण यदि ते शक्तिस्तेजो वाऽस्ति निशाचर ! ॥१४॥
दण्डकारण्यनिलयं जहि राक्षसकण्टकम्।
यदि रामं ममामित्रं न त्वमद्य वधिष्यसि ॥१५॥
तवैव चाग्रतः प्राणांस्त्यक्ष्यामि निरपत्रपा।
बुद्ध्याऽहमनुपश्यामि न त्वं रामस्य संयुगे ॥१६॥
स्थातुं प्रतिमुखे शक्तस्सबलश्च महात्मनः।
शूरमानी च शूरस्त्वं मिथ्यारोपितविक्रमः ॥१७॥
मानुषौ यो न शक्नोषि हन्तुं तौ रामलक्ष्मणौ।
रामेण यदि ते शक्तिस्तेजो वास्ति निशाचर ! ॥१८॥
दण्डकारण्यनिलयं जहि तं कुलपांसन !।
निस्सत्त्वस्याल्पवीर्यस्य वासस्ते कीदृशस्त्विह ॥१९॥
अपयाहि जनस्थानात्त्वरितस्सहबान्धवः।
रामतेजोऽभिभूतो हि त्वं क्षिप्रं विनशिष्यसि ॥२०॥
सहि तेजस्समायुक्तो रामो दशरथात्मजः।
भ्राता चास्य महावीर्यो येन चास्मि विरूपिता ॥२१॥”
एवं विलप्य बहुशो राक्षसी विततोदरी।
कराभ्यामुदरं हत्वा रुरोद भृशदुःखिता ॥२२॥
[भ्रातुस्समीपे दुःखार्ता नष्टसंज्ञा बभूव ह] ॥
इति श्रीमदारण्यकाण्डे एकविंशस्सर्गः ॥
—————
॥द्वाविंशस्सर्गः॥
एवमाधर्षितश्शूरश्शूर्पणख्या खरस्तदा।
उवाच रक्षसां मध्ये खरः खरतरं वचः ॥१॥
“तवावमानप्रभवः क्रोधोऽयमतुलो मम।
न शक्यते धारयितुं लवणाम्भ इवोत्थितम् ॥२॥
न रामं गणये वीर्यान्मानुषं क्षीणजीवितम्।
आत्मदुश्चरितैः प्राणान्हतो यो ऽद्य विमोक्ष्यति ॥३॥
बाष्पस्संह्रियतामेष संभ्रमश्च विमुच्यताम्।
अहं रामं सह भ्रात्रा नयामि यमसादनम् ॥४॥
परश्वथहतस्याद्य मन्दप्राणस्य संयुगे।
रामस्य रुधिरं रक्तमुष्णं पास्यसि राक्षसि! ॥५॥”
सा प्रहृष्टा वचश्श्रुत्वा खरस्य वदनाच्च्युतम्
प्रशशंस पुनर्मौख्याद्भ्रातरं रक्षसां वरम् ॥६॥
तया परुषितः पूर्व पुनरेव प्रशंसितः।
अब्रवीद्दूषणं नाम खरस्सेनापतिं तदा ॥७॥
चतुर्दश सहस्राणि मम चित्तानुवर्तिनाम्।
रक्षसां भीमवेगानां समरेष्वनिवर्तिनाम् ॥८॥
नीलजीमूतवर्णानां घोराणां क्रूरकर्मणाम्।
लोकहिंसाविहाराणां बलिनामुग्रतेजसाम् ॥९॥
तेषां शार्दूलदर्पाणां महास्यानां महौजसाम्।
सर्वोद्योगमुदीर्णानां रक्षसां सौम्य ! कारय ॥१०॥
उपस्थापय मे क्षिप्रं रथं सौम्य ! धनूंषि च।
शरांश्चित्रांश्च खड्गांश्च शक्तीश्चविविधाश्शिताः ॥११॥
अग्रे निर्यातुमिच्छामि पौलस्त्यानां महात्मनाम्।
वधार्थंदुर्विनीतस्य रामस्य रणकोविदः ॥१२॥”
इति तस्य ब्रुवाणस्य सूर्यवर्णं महारथम्।
सदश्वैश्शबलैर्युक्तमाचचक्षेऽथ दूषणः ॥१३॥
तं मेरुशिखराकारं तप्तकाञ्चनभूरुहम्।
हेमचक्रमसंबाधं वैडूर्यमयकूबरम् ॥१४॥
मत्स्यैः पुष्पैर्
द्रुमैशैलेश्चन्द्रसूर्यैश्च काञ्चनैः।
मङ्गलैः पक्षिसंघैश्च ताराभिरभिसंवृतम् ॥१५॥
ध्वजनिस्त्रिंशसंपन्न किङ्किणीकविराजितम्।
सदश्वयुक्तं सोऽमर्षादारुरोह खरो रथम् ॥१६॥
निशाम्य तु रथस्थं तं राक्षसा भीमविक्रमाः।
तस्थुस्संपरिवार्यैनं दूषणं च महाबलम्॥
खरस्तु तान्महेष्वासान्घोरवर्मायुधध्वजान्
‘निर्या’ ते त्यब्रवीदृष्ट्वा रथस्थस्सर्वराक्षसान् ॥१८॥
ततस्तद्राक्षसं सैन्यं घोरवर्मायुधध्वजम्।
निर्जगाम जनस्थानान्महानादं महाजवम्॥१९॥
मुद्गरैः पट्टसैश्शूलैस्सुतीक्ष्णैश्च परश्वथैः।
खड्गैश्चक्रैश्च हस्तस्थैःभ्राजमानैश्च तोमरैः ॥२०॥
शक्तिभिः परिघैर्घोरैरतिमात्रैश्च कार्मुकैः।
गदासिमुसलैर्वज्रैगृहीतैर्भीमदर्शनैः ॥२१॥
राक्षसानां सुघोराणां सहस्राणि चतुर्दश।
निर्यातानि जनस्थानात्खरचित्तानुवर्तिनाम् ॥२२॥
तांस्त्वभिद्रवतो दृष्ट्वा राक्षसान्भीमविक्रमान्।
खरस्यापि रथः किंचिज्जगाम तदनन्तरम् ॥२३॥
ततस्ताञ्छबलानश्वांस्तप्तकाञ्चनभूषितान्।
खरस्य मतिमाज्ञाय सारथिस्समचोदयत् ॥२४॥
स चोदितो रथश्शीघ्रं खरस्य रिपुघातिनः।
शब्देनापूरयामास दिशश्च प्रदिशस्तदा ॥२५॥
प्रवृद्धमन्युस्तु खरः खरस्वनो रिपोर्वधार्थं त्वरितो यथाऽन्तकः।
अचूचुदत्सारथिमुन्नदन्घनं महाबलो मेघ इवाश्मवर्षवान् ॥२६॥
इति श्रीमदारण्यकाण्डे द्वाविंशस्सर्गः ॥
॥त्रयोविंशस्सर्गः॥
‘तस्मिन् याते बले घोरमशिवं शोणितोदकम्।
अभ्यवर्षन्महामेघस्तुमुलो गर्दभारुणः ॥१॥
निपेतुस्तुरगास्तस्य रथयुक्ता महाजवाः।
समे पुष्पचिते देशे राजमार्गे यदृच्छया ॥२॥
श्यामं रुधिरपर्यन्तं बभूव परिवेषणम्।
अलातचक्रप्रतिमं परिगृह्य दिवाकरम् ॥३॥
ततो ध्वजमुपागम्य हेमदण्डं समुच्छ्रितम्।
समाक्रम्य महाकायस्तस्थौ गृध्रस्सुदारुणः ॥४॥
जनस्थानसमीपे तु समागम्य खरस्वनाः।
विस्वरान्विविधांश्चक्रुर्मांसादा मृगपक्षिणः ॥५॥
व्याजह्रुश्च प्रदीप्तायां दिशि वै भैरवस्वनम्।
अशिवं यातुधानानां शिवा घोरा महास्वनाः ॥६॥
प्रभिन्नगिरि संकाशास्तोयशोणितधारिणः।
आकाशं तदनाकाशं चक्रुर्भीमा वलाहकाः ॥७॥
बभूव तिमिरं घोरमुद्धतं रोमहर्षणम्।
दिशो वा विदिशो वापि न च व्यक्तं चकाशिरे ॥८॥
क्षतजार्द्रसवर्णाभा सन्ध्या कालं विना बभौ।
खरस्याभिमुखा नेदुस्तदा घोरमृगाः खगाः ॥९॥
कङ्कगोमायुगृध्राश्च चुक्रुशुर्भयशंसिनः।
नित्याशुभकरा युद्धे शिवा घोरनिदर्शनाः ॥१०॥
नेदुर्बलस्याभिमुखं ज्वालोद्गारिभिराननैः।
कबन्धः परिघाभासो
दृश्यते भास्करान्तिके ॥११॥
जग्राह सूर्यं स्वर्भानुरपर्वणि महाग्रहः।
प्रवाति मारुतश्शीघ्रं निष्प्रभोऽभूद्दिवाकरः ॥१२॥
उत्पेतुश्च विना रात्रि ताराः खद्योतसप्रभाः।
संलीनमीनविहगा नलिन्यश्शुष्कपङ्कजाः ॥१३॥
तस्मिन्क्षणे बभूवुश्च विना पुष्पफलैर्दुमाः।
उद्धृतश्च विना वातं रेणुर्जलधरारुणः ॥१४॥
“वीचीकू’चीति वाश्यन्त्यो बभूवुस्तत्र शारिकाः।
उल्काश्चापिसनिर्घाता निपेतुर्घोरदर्शनाः ॥१५॥
प्रचचाल मही सर्वा सशैलवनकानना।
खरस्य च रथस्थस्य नर्दमानस्य धीमतः ॥१६॥
प्राकम्पत भुजस्सव्यस्स्वरश्चास्यावसज्जत।
सास्रासंपद्यते दृष्टिः पश्यमानस्य सर्वतः ॥१७॥
ललाटे च रुजा जाता न च मोहान्न्यवर्तत।
तांत्समीक्ष्य महोत्पातानुत्थितान्रोमहर्षणान् ॥१८॥
अब्रवीद्राक्षसांत्सर्वान्प्रहसंत्स खरस्तदा।
“महोत्पातानिमांस्सर्वानुत्थितान्घोरदर्शनान् ॥१९॥
न चिन्तयाम्यहं वीर्याद्बलवान्दुर्बलानिव।
तारा अपि शरैस्तीक्ष्णैः पातयामि नभःस्थलात् ॥२०॥
मृत्युं मरणधर्मेण संक्रुद्धो योजयाम्यहम्।
राघवं तं बलोत्सिक्तं भ्रातरं चास्य लक्ष्मणम् ॥२१॥
अहत्वा सायकैस्तीक्ष्णैर्नोपावर्तितुमुत्सहे।
सकामा भगिनी मेऽस्तु पीत्वा तु रुधिरं तयोः ॥२२॥
यन्निमित्तस्तु रामस्य लक्ष्मणस्य विपर्ययः।
न क्वचित्प्राप्तपूर्वो मे संयुगेषु पराजयः ॥२३॥
युष्माकमेतत्प्रत्यक्षं नानृतं कथयाम्यहम्।
देवराजमपि क्रुद्धो मत्तैरावतयायिनम् ॥२४॥
वज्रहस्तं रणे हन्यां किंपुनस्तौ कुमानुषौ।”
स तस्य गर्जितं श्रुत्वा राक्षसस्य महाचमूः ॥२५॥
प्रहर्षमतुलं लेभे मृत्युपाशावपाशिता।
समीयुश्च महात्मानो युद्धदर्शनकाङ्क्षिणः ॥२६॥
ऋषयो देवगन्धर्वाः सिद्धाश्च सह चारणैः।
समेत्यचोचुस्सहितास्तेऽन्योन्यं पुण्यकर्मणः ॥२७॥
“स्वस्ति गोब्राह्मणेभ्योऽस्तु लोकानां येऽभिसङ्गताः।
जयतां राघवस्संख्ये पौलस्त्यान्रजनीचरान् ॥२८॥
चक्रहस्तो यथा युद्धे सर्वानसुरपुङ्गवान्।”
एतच्चान्यच्च बहुशो ब्रुवाणाः परमर्षयः ॥२९॥
जातकौतूहलास्तत्र विमानस्थाश्च देवताः।
ददृशुर्वाहिनीं तेषां राक्षसानां गतायुषाम् ॥३०॥
रथेन तु खरो वेगादुग्रसैन्यो विनिस्सृतः।
तं दृष्ट्वा राक्षसं भूयो राक्षसा
च विनिस्सृताः ॥३१॥
श्येनगामी पृथुमीवो यज्ञशत्रुर्विहङ्गमः।
दुर्जयः करवीराक्षः परुषः कालकार्मुकः ॥३२॥
मेघमाली महामाली सर्पास्यो रुधिराशनः।
द्वादशैते महावीर्याः प्रतस्थुरभितः खरम् ॥३३॥
महाकपालस्स्थूलाक्षः प्रमाथी त्रिशिरास्तथा।
चत्वार एते सेनान्यो दूषणं पृष्ठतो ययुः ॥३४॥
सा भीमवेगा समराभिकामा महाबला राक्षसवीरसेना।
तौ राजपुत्रौ सहसाभ्युपेता माला ग्रहाणमिव चन्द्रसूर्यौ ॥३५॥
इति श्रीमदारण्यकाण्डे त्रयोविंशस्सर्गः ॥
॥चतुर्विंशस्सर्गः॥
आश्रमं प्रतियाते तु खरे खरपराक्रमे।
तानेवौत्पातिकान्रामस्सह भ्रात्रा ददर्श ह ॥१॥
तानुत्पातान्महाघोरारानुत्थितान्रोमहर्षणान्।
प्रजानामहितान् दृष्ट्वा वाक्यं लक्ष्मणमब्रवीत् ॥२॥
इमान्पश्य महाबाहो! सर्वभूतापहारिणः।
समुत्थितान्महोत्पातान् संहर्तुं सर्वराक्षसान् ॥३॥
अमी रुधिरधारास्तु विसृजन्तः खरस्वनान्।
व्योम्निमेघा विवर्तन्ते परुषा गर्दभारुणाः ॥४॥
सधूमाश्च शरास्सर्वे मम युद्धाभिनन्दिनः।
रुक्मपृष्ठानि चापानि विवेष्टन्ते च लक्ष्मण! ॥५॥
यादृशा इह कूजन्ति पक्षिणो वनचारिणः।
अग्रतो नो भयं प्राप्तं संशयो जीवितस्य च ॥६॥
संप्रहारस्तु सुमहान्भविष्यति न संशयः।
अयमाख्याति मे बाहुस्स्फुरमाणो मुहुर्मुहुः ॥७॥
सन्निकर्षे तु नश्शूर! जयं शत्रोः पराजयम्।
सप्रभं च प्रसन्नं च तव वक्रंहि लक्ष्यते ॥८॥
उद्यतानां हि युद्धार्थ येषां भवति लक्ष्मण!।
निष्प्रभं वदनं तेषां भवत्यायुःपरिक्षयः ॥९॥
रक्षसां नर्दतां घोरश्श्रूयते च महाध्वनिः।
आहतानां च भेरीणां राक्षसैः क्रूरकर्मभिः ॥१०॥
अनागतविधानं तु कर्तव्यं शुभमिच्छता।
आपदं शङ्कमानेन पुरुषेण विपश्चिता ॥११॥
तस्माद्गृहीत्वा वैदेहीं शरपाणिर्धनुर्धरः।
गुहामाश्रय शैलस्य दुर्गां पादपसंकुलाम् ॥१२॥
प्रतिकूलितुमिच्छामि न हि वाक्यमिदं त्वया।
शापितो मम पादाभ्यां गम्यतां वत्स! मा चिरम् ॥१३॥
त्वं हि शूरश्च बलवान्हन्याह्येतान्न संशयः।
स्वयं तु हन्तुमिच्छामि सर्वानेव निशाचरान् ॥१४॥”
एवमुक्तस्तु रामेण लक्ष्मणस्सह सीतया।
शरानादाय चापं च गुहां दुर्गांसमाश्रयत् ॥१५॥
तस्मिन्प्रविष्टे तु गुहां लक्ष्मणे सह सीतया।
‘हन्त! निर्युक्त’मित्युक्त्वा रामः कवचमाविशत् ॥१६॥
स तेनाग्निनिकाशेन कवचेन विभूषितः।
बभूव रामस्तिमिरे विधूमोऽग्निरिवोत्थितः ॥१७॥
स चापमुद्यम्य महच्छरानादाय वीर्यवान्।
बभूवावस्थितस्तत्र ज्यास्वनैः पूरयन्दिशः ॥१८॥
ततो देवास्सगन्धर्वाः सिद्धाश्च सह चारणैः।
समेयुश्च महात्मानो युद्धदर्शनकाङ्क्षिणः ॥१९॥
ऋषयश्च महात्मानो लोके ब्रह्मर्षिसत्तमाः।
समेत्य चोचुस्सहिता अन्योन्यं पुण्यकर्मणः ॥२०॥
“स्वस्ति गोब्राह्मणेभ्योऽस्तु लोकानां येऽभिसंगताः।
जयतां राघवो युद्धे पौलस्त्यात्रजनीचरान् ॥२१॥
चक्रहस्तो यथा युद्धे सर्वानसुरपुङ्गवान्।”
एवमुक्त्वा पुनः प्रोचुरालोक्य च परस्परम् ॥२२॥
“चतुर्दश सहस्राणि रक्षसां भीमकर्मणाम्।
एकश्च रामो धर्मात्मा कथं युद्धं भविष्यति ॥२३॥
इति राजर्षयस्सिद्धास्सगणाश्च द्विजर्षभाः।
जातकौतूहलास्तस्थुर्विमानस्थाश्च देवताः ॥२४॥
आविष्टं तेजसा रामं संग्रामशिरसि स्थितम्।
दृष्ट्वा सर्वाणि भूतानि भयाद्विव्यथिरे तदा ॥२५॥
रूपमप्रतिमं तस्य रामस्याक्लिष्टकर्मणः
बभूव रूपं क्रुद्धस्य रुद्रस्येव पिनाकिनः ॥२६॥
[इति संभाष्यमाणे तु देवगन्धर्वचारणैः।]
ततो गम्भीरनिर्ह्लादं घोरवर्मायुधध्वजम् ॥२७॥
अनीकं यातुधानानां समन्तात्प्रत्यदृश्यत।
सिंहनादं विसृजतामन्योन्यमभिगर्जताम् ॥२८॥
चापानि विष्फारयतां जृम्भतां चाप्यभीक्ष्णशः।
विप्रधुष्टस्वनानां च दुन्दुभींश्चापिनिघ्नताम् ॥२९॥
तेषां सुतुमुलशब्दः पूरयामास तद्वनम्।
तेन शब्देन वित्रस्ताश्श्वापदा वनचारिणः ॥३०॥
दुद्रुवुर्यत्र निश्शब्दं पृष्ठतो न व्यलोकयन्।
वृतनानाप्रहरणं गम्भीरं सागरोपमम् ॥३१॥
रामोऽपि चारयन् चक्षुस्सर्वतो रणपण्डितः।
ददर्श खरसैन्यं तद्युद्धाभिमुखमुत्थितम् ॥३२॥
वितत्य च धनुर्भीमं तूण्योश्चोद्धृत्य सायकान्।
क्रोधमाहारयत्तीव्रं वधार्थं सर्वरक्षसाम् ॥३३॥
दुष्प्रेक्ष्यस्सोऽभवत्क्रुद्धो युगान्ताग्निरिव ज्वलन्।
तं दृष्ट्वा तेजसाविष्टं प्राद्रवन्वनदेवताः ॥३४॥
तस्य क्रुद्धस्य रूपं तु रामस्य ददृशे तदा।
दक्षस्येव ऋतुं हन्तुमुद्यतस्य पिनाकिनः ॥३५॥
आविष्टं तेजसा रामं संग्रामशिरसि स्थितम्।
दृष्ट्वा सर्वाणि भूतानि भयार्तानि प्रदुद्गुवुः ॥३६॥
तत्कार्मुकैराभरणैर्ध्वजैश्च तैर्वर्मभिश्चाग्निसमानवर्णैः।
बभूव सैन्यं पिशिताशनानां सूर्योदये नीलमिवाभ्रबृन्दम् ॥३७॥
इति श्रीमदारण्यकाण्डे चतुर्विशस्सर्गः ॥
—————
॥पञ्चविंशस्सर्गः॥
अवष्टब्धधनुं रामं क्रुद्धं च रिपुघातिनम्।
ददर्शाऽश्रममागम्य खरस्सह पुरस्सरैः ॥१॥
तं दृष्ट्वा सशरं चापमुद्यम्य खरनिस्वनम्।
‘रामस्याऽभिमुखं सूतं ‘चोद्यता’ मित्यचोदयत् ॥२॥
स खरस्याज्ञया सूतस्तुरङ्गांत्समचोदयत्।
यत्र रामो महाबाहुरेको धून्वन् स्थितो धनुः ॥३॥
तं तु निष्पतितं दृष्ट्वा सर्वे ते रजनीचराः।
नर्दमाना महानादं सचिवाः पर्यवारयन् ॥४॥
स तेषां यातुधानानां मध्ये रथगतः खरः।
बभूव मध्ये ताराणां लोहिताङ्गइवोदितः ॥५॥
ततश्शरसहस्रेण राममप्रतिमौजसम्।
अर्दयित्वा महानादं ननाद समरे खरः ॥६॥
ततस्तं भीमधन्वानं क्रुद्धास्सर्वे निशाचराः।
रामं नानाविधैश्शस्त्रैरभ्यवर्षन्त दुर्जयम् ॥७॥
मुद्गरैः पट्टसैश्शूलैः प्रासैः खड्गैः परश्वथैः।
राक्षसास्समरे रामं निजघ्नू रोषतत्पराः ॥८॥
ते वलाहकसंकाशा महानादा महौजसः।
अभ्यधावन्त काकुत्स्थं रथैर्वाजिभिरेव च ॥९॥
गजैः पर्वतकूटाभैरामं युद्धे जिघांसवः।
ते रामे शरवर्षाणि व्यसृजन्रक्षसां गणाः ॥१०॥
शैलेन्द्रमिव धाराभिर्वर्षमाणा वलाहकाः।
स तैः परिवृतो घोरैराघवो रक्षसां गणैः ॥११॥
तानि मुक्तानि शस्त्राणि यातुधानैस्स राघवः।
प्रतिजग्राह विशिखैर्नद्योघानिव सागरः ॥१२॥
स तैः प्रहरणैघरैर्भिन्नगात्रो न विव्यथे।
रामः प्रदीप्तैर्बहुभिर्वचैरिव महाचलः ॥१३॥
स विद्धः क्षतजादिग्धस्सर्वगात्रेषु राघवः।
बभूव रामः सन्ध्याभ्रैर्दिवाकर इवावृतः ॥१४॥
विषेदुर्देवगन्धर्वाः सिद्धाश्च परमर्षयः।
एवं सहस्रैर्बहुभिस्तदा दृष्ट्वा समावृतम् ॥१५॥
उतो रामस्सुसंक्रुद्धो मण्डलीकृतकार्मुकः।
ससर्ज विशिखान्वाणाञ्छतशोऽथ सहस्रशः ॥१६॥
दुरावारान्दुर्विषहान्कालदण्डोपमान्रणे।
मुमोच लीलया रामः कङ्कपत्रानजिह्मगान् ॥१७॥
ते शराश्शत्रुसैन्येषु मुक्ता रामेण लीलया।
आददू रक्षसां प्राणान्पाशाः कालकृता इव ॥१८॥
भित्त्वाराक्षसदेहांस्तांस्ते शरा रुधिराप्लुताः।
अन्तरिक्षगता रेजुर्दीताग्निसमतेजसः ॥१९॥
असंख्येयास्तु रामस्य सायकाश्चापमण्डलात्।
विनिष्पेतुरतीवोग्रारक्षःप्राणापहारिणः ॥२०॥
[ ते रणे साङ्गदान्बाहूंत्सहस्ताभरणान्भुजान्।
चिच्छिदुर्बिभिदुश्चापि रामचापगुणाच्च्युताः ॥२१॥]
तैर्धनूंषि ध्वजाग्राणि वर्माणि च शिरांसि च।
बाहूस्सहस्ताभरणानूरून्करिकरोपमान् ॥२२॥
चिच्छेद रामस्समरे शतशोऽथ सहस्रशः।
हयान्काञ्चनसन्नाहान्रथयुक्तांत्ससारथीन् ॥२३॥
गजांश्च सगजारोहांत्सहायांत्सादिनस्तथा।
पदातींत्समरे, हत्वा ह्यनयद्यमसादनम् ॥२४॥
ततो नालीकनाराचैस्तीक्ष्णाग्रैश्च विकर्णिभिः।
भीममार्तस्वरं चक्रुर्भिद्यमाना निशाचराः ॥२५॥
तत्सैन्यं निशितैर्बाणैरर्दितं मर्मभेदिभिः।
रामेण न सुखं लेभे शुष्कं वनमिवाग्निना ॥२६॥
केचिद्भीमबलाश्शूराश्शूलान्खड्गान्परश्वथान्।
रामस्याभिमुखं गत्वा चिक्षिपुः परमायुधान् ॥२७॥
तानि बाणैर्महाबाहुश्शस्त्राण्यावार्य राघवः।
जहार समरे प्राणांश्चिच्छेद च शिरोधरान् ॥२८॥
ते छिन्नशिरसः पेतुश्छिन्नवर्मशरासनाः।
सुवर्णवातविक्षिप्ता जगत्यां पादपा यथा ॥२९॥
अवशिष्टाश्चये तत्र विषण्णाश्च निशाचराः।
खरमेवाभ्यधावन्त शरणार्थं शरार्दिताः ॥३०॥
तांत्सर्वान्पुनरादाय समाश्वास्य च दूषणः।
अभ्यधावत काकुत्स्थं क्रुद्धो रुद्रभिवान्तकः ॥३१॥
निवृत्तास्तु पुनस्सर्वे दूषणाऽऽश्रयनिर्भयाः।
राममेवाभ्यधावन्त सालतालशिलायुधाः ॥३२॥
शूलमुद्गरहस्ताश्च चापहस्ता महाबलाः।
सृजन्तश्शरवर्षाणि शस्त्रवर्षाणि संयुगे ॥३३॥
द्रुमवर्षाणि मुञ्चन्तश्शिलावर्षाणि राक्षसाः।
तद्बभूवाद्भुतं युद्धं तुमुलं रोमहर्षणम् ॥३४॥
रामस्य च महाघोरं पुनस्तेषां च रक्षसाम्।
ते समन्तादतिक्रुद्धा राघवं पुनरभ्ययुः ॥३५॥
तैश्च सर्वा दिशो दृष्ट्वा प्रदिशश्च समावृतः।
राक्षसैरुद्यतप्रासैश्शरवर्षाभिवर्षिभिः ॥३६॥
स कृत्वा भैरवं नादमस्त्रं परमभास्वरम्।
संयोजयत गान्धर्वं राक्षसेषु महाबलः ॥३७॥
ततश्शरसहस्राणि निर्ययुश्चापमण्डलात्।
सर्वा दश दिशो बाणैरावार्यन्त समागतैः ॥३८॥
नाददानं शरान्घोरान्न मुञ्चन्तं शिलीमुखान्।
विकर्षमाणं पश्यन्ति राक्षसास्ते शरार्दिताः ॥३९॥
शरान्धकारमाकाशमावृणोत्स दिवाकरम्।
बभूवावस्थितो रामः प्रवमन्निव ताञ्छरान् ॥४०॥
युगपत्पतमानैश्च युगपच्चहतैर्भृशम्।
युगपत्पतितैश्चैव विकीर्णा वसुधाऽभवत् ॥४१॥
निहताः पतिताः क्षीणाश्छिन्ना भिन्ना विदारिताः।
तत्र तत्र स्म दृश्यन्ते राक्षसास्ते सहस्रशः ॥४२॥
सोष्णीषैरुत्तमाङ्गैश्च साङ्गदैर्बाहुभिस्तथा।
ऊरुभिर्जानुभिश्छिन्नैर्नानारूपैर्विभूषणैः ॥४३॥
हयैश्च द्विपमुख्यैश्च स्थैभिन्नैरनेकशः।
चामरैर्व्यजनैश्छत्रैर्ध्वजैर्नानाविधरपि ॥४४॥
रामस्य बाणाभिहतैर्विचित्रैश्शूलपट्टसैः।
खड्ङ्गैः खण्डीकृतैः प्रासैर्विकीर्णैश्च परश्वथैः ॥४५॥
चूर्णिताभित्रिशलाभिश्च शरैश्चित्रैरनेकशः।
विच्छिन्नैस्समरे भूमिर्विकीर्णाऽभूद्भयङ्करा ॥४६॥
इति श्रीमदारण्यकाण्डे पञ्चविंशस्सर्गः ॥
—————
॥षड्विंशस्सर्गः॥
दूषणस्तु स्वकं सैन्यं हन्यमानं निरीक्ष्य सः।
संदिदेश महाबाहुर्भीमवेगान्दुरासदान् ॥१॥
राक्षसान्पञ्चसाहस्रांत्समरेष्वनिवर्तिनः।
ते शूलैः पट्टसैः खड्गैश्शिलावर्षैर्द्रुमैरपि ॥२॥
शरवर्षैरविच्छिन्नं ववृषुस्तं समन्ततः।
स द्रुमाणां शिलानां च वर्ष प्राणहरं महत् ॥३॥
प्रतिजग्राह धर्मात्मा राघवस्तीक्ष्णसायकैः।
प्रतिगृह्य च तद्वर्षं निमीलित इवर्षभः ॥४॥
रामः क्रोधं परं भेजे वधार्धं सर्वरक्षसाम्।
ततः क्रोधसमाविष्टः प्रदीप्त इव तेजसा ॥५॥
शरैरवाकिरत्सैन्यं सर्वतस्सहदूषणम्।
ततस्सेनापतिः क्रुद्धो दूषणश्शत्रुदूषणः ॥६॥
शरैरशनिकल्पैस्तं राघवं समवाकिरत्।
ततो रामस्सुसंक्रुद्धः क्षुरेणास्य महद्धनुः ॥७॥
चिच्छेद समरे वीरञ्चतुर्भिश्चतुरो हयान्।
हत्वा चाश्वान् शरैस्तीक्ष्णैरर्धचन्द्रेण सारथेः ॥८॥
शिरो जहार तद्रक्षस्त्रिभिर्विव्याघ वक्षसि।
स च्छिन्नधन्वा विरथो हताश्वो हतसारथिः ॥९॥
जग्राह गिरिशृङ्गाभं परिघं रोमहर्षणम्।
वेष्टितं काञ्चनैः पट्टैर्देवसैन्यप्रमर्दनम् ॥१०॥
आयसैश्शङ्कुभिस्तीक्ष्णैः कीर्णं परवसोक्षितम्।
वज्राशनिसमस्पर्शं परगोपुरदारणम् ॥११॥
तं महोरगसंकाशं प्रगृह्य परिघं रणे।
दूषणोऽभ्यद्रवद्रामं क्रूरकर्मा निशाचरः ॥१२॥
तस्याभिपतमानस्य दूषणस्य स राघवः।
द्वाभ्यां शराभ्यां चिच्छेद सहस्ताभरणौ भुजौ ॥१३॥
भ्रष्टस्तस्य महाकायः पपात रणमूर्धनि।
परिघश्छिन्नहस्तस्य शक्रध्वज इवाग्रतः ॥१४॥
सकराभ्यां विकीर्णाभ्यां पपात भुवि दूषणः।
विषाणाभ्यां विशीर्णाभ्यां मनस्वीव महागजः ॥१५॥
तं दृष्ट्वा पतितं भूमौ दूषणं निहतं रणे।
‘साधु सा’ ध्विति काकुत्स्थं सर्वभूतान्यपूजयन् ॥१६॥
एतस्मिन्नन्तरे क्रुद्धास्त्रयस्सेनाप्रयायिनः।
संहत्याभ्यद्रवन्रामं मृत्युपाशावपाशिताः ॥१७॥
महाकपालः स्थूलाक्षः प्रमाथी च महाबलः।
महाकपालो विपुलं शूलमुद्यम्य राक्षसः ॥१८॥
स्थूलाक्षः पट्टसं गृह्य प्रमाथी च परश्वथम्।
दृष्दैवापततस्तूर्णंराघवस्सायकैश्शितैः ॥१९॥
तीक्ष्णाग्रैःप्रतिजग्राह संप्राप्तानतिथीनिव।
महाकपालस्य शिरश्चिच्छेद परमेषुभिः ॥२०॥
असंख्येयैस्तु बाणौघैः प्रममाथ प्रमाथिनम्।
स पपात हतो भूमौ विटपीव महाद्रुमः ॥२१॥
स्थूलाक्षस्याक्षिणी तीक्ष्णैः पूरयामास सायकैः।
दूषणस्यानुगान्पञ्च साहस्रान्कुपितः क्षणात् ॥२२॥
बाणौघैः पञ्चसाहस्रैरनयद्यमसादनम्।
दूषणं निहतं दृष्ट्वा तस्य चैव पदानुगान् ॥२३॥
व्यादिदेश खरः क्रुद्धस्सेनाध्यक्षान्महाबलान्।
“अयं विनिहतस्संख्ये दूषणस्सपदानुगः ॥२४॥
महत्या सेनया सार्धं युद्ध्वारामं कुमानुषम्।
शस्त्रैर्नानाविधाकारैर्हनध्वं सर्वराक्षसाः! ॥२५॥
एवमुक्त्वा खरः क्रुद्धो राममेवाभिदुद्रुवे।
श्येनगामी पुथुग्रीवो यज्ञशत्रुर्विहङ्गमः ॥२६॥
दुर्जयः करवीराक्षो परुषः कालकार्मुकः।
मेघमाली महामाली सर्पास्यो रुधिराशनः ॥२७॥
द्वादशैते महावीर्या बलाध्यक्षास्ससैनिकाः।
राममेवाभ्यवर्तन्त विसृजन्तश्शरोत्तमान् ॥२८॥
ततः पावकसंकाशैर्हेमवज्रविभूषितैः।
जघान शेषं तेजस्वी तस्य सैन्यस्य सायकैः ॥२९॥
ते रुक्मपुङ्खा विशिखास्सधूमा इव पावकाः।
निजघ्नुस्तानि रक्षांसि वज्रा इव महाद्रुमान् ॥३०॥
रक्षसां नु शतं रामश्शतेनैकेन कर्णिना।
सहस्रं च सहस्रेण जघान रणमूर्धनि ॥३१॥
तैर्भिन्नवर्माभरणाश्छिन्ना भग्नशरासनाः।
निपेतुश्शोणितादिग्धा धरण्यां रजनीचराः ॥३२॥
तैर्मुक्तकेशैस्समरे पतितैश्शोणितोक्षितैः।
आस्तीर्णा वसुधा कृत्स्ना महावेदिः कुशैरिव ॥३३॥
क्षणेन तु महाघोरं वनं निहतराक्षसम्।
बभूव निरयप्रख्यं मांसशोणितकर्दमम् ॥३४॥
चतुर्दश सहस्राणि रक्षसां भीमकर्मणाम्।
हतान्येकेन रामेण मानुषेण पदातिना ॥३५॥
तस्य सैन्यस्य सर्वस्य खरइशेषो महारथः।
राक्षसस्त्रिशिराश्चैवरामश्च रिपुसूदनः ॥३६॥
शेषा हता महासत्त्वा राक्षसा रणमूर्धनि।
घोरा दुर्विषहास्सर्वे लक्ष्मणस्याग्रजेन ते ॥३७॥
ततस्तु तद्भीमबलं महाहवे समीक्ष्य रामेण हतं बलीयसा।
रथेन रामं महता खरस्तदा समाससादेन्द्र इवोद्यताशनिः ॥३८॥
इति श्रीमदारण्यकाण्डे षडविंशस्सर्गः ॥
————
॥ सप्तविंशस्सर्गः ॥
खरं तु रामाभिमुखं प्रयान्तं वाहिनीपतिः।
राक्षसस्त्रिशिरा नाम सन्निपत्येदमब्रवीत् ॥१॥
मां नियोजय विक्रान्त! सन्निवर्तय साहसात्।
पश्य रामं महाबाहुं संयुगे विनिपातितम् ॥२॥
प्रतिजानामि ते सत्यमायुधं चाहमालभे।
यथा रामं वधिष्यामि वधार्हंसर्वरक्षसाम् ॥३॥
‘अहं वास्य रणे मृत्युरेष वा समरे मम।’
विनिवृत्य रणोत्साहान्मुहूर्तं प्राश्निको भव ॥४॥
प्रहृष्टो वा हते राम जनस्थानं प्रयास्यसि।
मयि वा निहते रामं संयुगायोपयास्यसि ॥5॥”
स्वरस्त्रिशिरसा तेन मृत्युलोभात्प्रसादितः।
[युद्धश्रद्धां परित्यज्य युद्धाय समचोदयत् ॥६॥]
‘गच्छ यु’ ध्येत्यनुज्ञातो राघवाभिमुखो ययौ।
त्रिशिराश्चरथेनैव वाजियुक्तेन भास्वता ॥७॥
अभ्यद्रवद्रणे रामं त्रिशृङ्ग इव पर्वतः।
शरधारासमूहांत्स महामेघ इवोत्सृजन् ॥८॥
व्यसृजत्सदृशं नादं जलार्द्रस्य तु दुन्दुभेः।
आगच्छन्तं त्रिशिरसं राक्षसं प्रेक्ष्य राघवः ॥९॥
धनुषा प्रतिजग्राह विधून्वन्सायकान् शितान्।
स सम्प्रहारस्तुमुलो रामस्त्रिशिरसोर्महान् ॥१०॥
बभूवातीव बलिनोरिंसहकुञ्जरयोरिव।
ततस्त्रिशिरसा बाणैर्ललाटे ताडितस्त्रिभिः ॥११॥
अमर्षी कुपितो रामस्संरब्धमिदमब्रवीत्।
“अहो विक्रमशूरस्य राक्षसस्येदृशं बलम् ॥१२॥
पुष्पैरिव शरैर्यस्य ललाटेऽस्मिन्परिक्षतः।
ममापि प्रतिगृह्णीष्व शरांश्चापगुणाच्च्युतान् ॥१३॥”
एवमुक्त्वा तु संरब्धश्शरानाशीविषोपमान्।
त्रिशिरो वक्षसि क्रुद्धो निजघान चतुर्दश ॥१४॥
चतुर्भिस्तुरगानस्य शरैस्सन्नतपर्वभिः।
न्यपातयत तेजस्वी चतुरस्तस्य वाजिनः ॥१५॥
अष्टभिस्सायकैस्सूतं रथोपस्थे न्यपातयत्।
रामश्चिच्छेद बाणेन ध्वजं चास्य समुच्छ्रितम् ॥१६॥
ततो हतरथात्तस्मादुत्पतन्तं निशाचरम्।
बिभेद रामस्तं बाणैर्हृदये सोऽभवज्जडः ॥१७॥
सायकैश्चाप्रमेयात्मा सामर्षस्तस्य रक्षसः।
शिरांस्यपातयद्रामो वेगवद्भिस्त्रिभिश्शितैः ॥१८॥
स भूमौ रुधिरोद्गारी रामबाणाभिपीडितः।
न्यपतस्पतितैः पूर्वं स्वशिरोभिर्निशाचरः ॥१९॥
हतशेषास्ततो भग्ना राक्षसाः खरसंश्रयाः।
द्रवन्ति स्म न तिष्ठन्ति व्याघ्रत्रस्ता मृगा इव ॥२०॥
तान्खरो द्रवतो दृष्ट्वा निवर्त्य रुषितस्स्वयम्।
राममेवाभिदुद्राव राहुश्चन्द्रमसं यथा ॥२१॥
इति श्रीमदारण्यकाण्डे सप्तविंशस्सर्गः ॥
—————
॥अष्टाविंशस्सर्गः॥
निहतं दूषणं दृष्ट्वा रणे त्रिशिरसा सह।
खरस्याप्यभवत्त्रासो दृष्ट्वा रामस्य विक्रमम् ॥१॥
स दृष्ट्वा राक्षसं सैन्यमविषह्यं महाबलः।
हतमेकेन रामेण त्रिशिरोदूषणावपि ॥२॥
तद्बलंहतभूयिष्ठं विमनाः प्रेक्ष्य राक्षसः।
आससाद खरो रामं नमुचिर्वासवं यथा ॥३॥
विकृष्य बलवच्चापं नाराचान्रक्तभोजनान्।
खरश्चिक्षेप रामाय क्रुद्धानाशीविषानिव ॥४॥
ज्यां विधून्वंत्सुबहुशश्शिक्षयास्त्राणि दर्शयन्।
चकार समरे मार्गाञ्छरै रथगतः खरः ॥५॥
स सर्वाश्च दिशो बाणैः प्रदिशश्च महारथः।
पूरयामास तं दृष्ट्वा रामोऽपि सुमहद्धनुः ॥६॥
स सायकैर्दुर्विषहैस्सस्फुलिङ्गैरिवाग्निभिः।
नभश्चकाराविवरं पर्जन्य इव वृष्टिभिः ॥७॥
तद्भूव शितैर्बाणैः खरराम विसर्जितैः।
पर्याकाशमनाकाशं सर्वतश्शरसंकुलम् ॥८॥
शरजालावृतस्सूर्यो न तदा स्म प्रकाशते।
अन्योन्यवधसंरम्भादुभयोः संप्रयुध्यतोः ॥९॥
ततो नालीकनाराचैस्तीक्ष्णाग्रैश्च विकर्णिभिः।
आजघान खरो रामं तोत्रैरिव महाद्विपम् ॥१०॥
तं रथस्थं धनुष्पाणिं राक्षसं पर्यवस्थितम्।
ददृशुस्सर्वभूतानि पाशहस्तमिवान्तकम् ॥११॥
हन्तारं सर्वसैन्यस्य पौरुषे पर्यवस्थितम्।
परिश्रान्तं महासत्त्वं मेने रामं खरस्तदा ॥१२॥
तं सिंहमिव विक्रान्तं सिंहविक्रान्तगामिनम्।
दृष्ट्वा नोद्विजते रामस्सिंहः क्षुद्रमृगं यथा ॥१३॥
ततस्सूर्यनिकाशेन रथेन महता खरः।
आससाद रणे रामं पतङ्ग इव पावकम् ॥१४॥
ततोऽस्य सशरं चापं मुष्टिदेशे महात्मनः।
खरश्चिच्छेद रामस्य दर्शयन्पाणिलाघवम् ॥१५॥
स पुनस्त्वपरांत्सप्त शरानादाय वर्मणि।
निजघान खरः क्रुद्धश्शक्रासनिसमप्रभान् ॥१६॥
ततस्तत्प्रहतं बाणैः खरमुक्तैस्सुपर्वभिः।
पपात कवचं भूमौ रामस्यादित्यवर्चसः ॥१७॥
ततश्शरसहस्रेण राममप्रतिमौजसम्।
अर्दयित्वा महानादं ननाद समरे खरः ॥१८॥
स शरैरर्पित : क्रुद्धस्सर्वगात्रेषु राघवः।
रराज समरे रामो विधूमोऽग्निरिव ज्वलन् ॥१९॥
ततो गम्भीरनिर्ह्लादंरामश्शत्रुनिबर्हणः।
चकारान्ताय स रिपोस्सज्यमन्यन्महद्धनुः ॥२०॥
सुमहद्वैष्णवं यत्तदतिसृष्टं महर्षिणा।
वरं तद्धनुरुद्यम्य खरं समभिधावत ॥२१॥
ततः कनकपुङ्खैस्तु शरैस्सन्नतपर्वभिः।
बिभेद रामस्संक्रुद्धः खरस्य समरे ध्वजम् ॥२२॥
स दर्शनीयो बहुधा विकीर्णः काञ्चनध्वजः।
जगाम धरणी सूर्यो देवतानामिवाज्ञया ॥२३॥
तं चतुर्भिः खरः क्रुद्धो रामं गात्रेषु मार्गणैः।
विव्याथ युधि मर्मज्ञो मातङ्गमिव तोमरैः ॥२४॥
स रामो बहुभिर्बाणैः खरकार्मुकनिस्सृतैः।
विद्धो रुधिरसिक्ताङ्गो बभूव रुषितो भृशम् ॥२५॥
स धनुर्धन्विनां श्रेष्ठः प्रगृह्य परमाहवे।
मुमोच परमेष्वासष्षट्छरानभिलक्षितान् ॥२६॥
शिरस्येकेन बाणेन द्वाभ्यां बाह्वोरथार्दयत्।
त्रिभिश्चन्द्रार्धवक्रैश्च वक्षस्यभिजघान ह ॥२७॥
ततः पश्चान्महातेजा नाराचान्भास्करोपमान्।
जिघांसू राक्षसं क्रुद्धस्त्रयोदश समाददे ॥२८॥
ततोऽस्य युगमेकेन चतुर्भिश्चतुरो हयान्।
षष्ठेन तु शिरस्संख्ये खरस्य रथसारथेः ॥२९॥
त्रिभिस्त्रिवेणुं बलवान्द्वाभ्यामक्षं महाबलः।
द्वादशेन तु बाणेन खरस्य सशरं धनुः ॥३०॥
छित्त्वा वज्रनिकाशेन राघवः प्रहसन्निव।
त्रयोदशेनेन्द्रसमो बिभेद समरे खरम् ॥३१॥
प्रभग्नधन्वा विरथो हताश्वो हतसारथिः।
गदापाणिरवप्लुत्य तस्थौ भूमौ खरस्तदा ॥३२॥
तत्कर्म रामस्य महारथस्य समेत्य देवाश्च महर्षयश्च।
अपूजयन्प्राञ्जलयः पुहृष्टास्तदा विमानाग्रगतास्समेताः ॥३३॥
इति श्रीमदारण्यकाण्डे अष्टाविंशस्सर्गः ॥
—————
॥ एकोनत्रिंशस्सर्गः॥
खरं तु विरथं रामो गदापाणिमवस्थितम्।
मृदुपूर्वं महातेजाः परुषं वाक्यमब्रवीत् ॥१॥
“गजाश्वरथसंबाधे बले महति तिष्ठता।
कृतं सुदारुणं कर्म सर्वलोकजुगुप्सितम् ॥२॥
उद्वेजनीयो भूतानां नृशंसः पापकर्मकृत्।
त्रयाणामपि लोकानामीश्वरोऽपि न तिष्ठति ॥३॥
कर्म लोकविरुद्धं तु कुर्वाणं क्षणदाचर !।
तीक्ष्णं सर्वजनो हन्ति सर्प दुष्टमिवागतम् ॥४॥
लोभात्पापानि कुर्वाणः कामाद्वायो न बुध्यते।
भ्रष्टः पश्यति तस्यान्तं ब्राह्मणी करकादिव ॥५॥
वसतो दण्डकारण्ये तापसान्धर्मचारिणः।
किन्नु हत्वा महाभागान्फलं प्राप्स्यसि राक्षस! ॥६॥
न चिरं पापकर्माणः क्रूरा लोकजुगुप्सिताः।
ऐश्वर्यं प्राप्य तिष्ठन्ति शीर्णमूला इव द्रुमाः ॥७॥
अवश्यं लभते जन्तुः फलं पापस्य कर्मणः।
घोरं पर्यागते काले द्रुमाः पुष्पमिवार्तवम् ॥८॥
न चिरात्प्राप्यते लोके पापानां कर्मणां फलम्।
सविषाणामिवान्नानां भुक्तानां क्षणदाचर! ॥९॥
पापमाचरतां घोरं लोकस्याप्रियमिच्छताम्।
अहमासादितो राज्ञा प्राणान्हन्तुं निशाचर! ॥१०॥
अद्य हि त्वां मया मुक्ताश्शराः काञ्चनभूषणाः।
विदार्य निपतिष्यन्ति वल्मीकमिव पन्नगाः ॥११॥
ये त्वया दण्डकारण्ये भक्षिता धर्मचारिणः।
तानद्य निहतस्सङ्ख्ये ससैन्योऽनुगमिष्यसि ॥१२॥
अद्य त्वां निहतं बाणैः पश्यन्तु परमर्षयः।
निरयस्थं विमानस्था ये त्वया हिंसिताः पुरा ॥१३॥
प्रहर त्वं यथाकामं कुरु यत्नं कुलाधम !।
अद्य ते पातयिष्यामि शिरस्तालफलं यथा ॥१४॥”
एवमुक्तस्तु रामेण क्रुद्धस्संरक्तलोचनः।
प्रत्युवाच खरो रामं प्रहसन्क्रोधमूर्छितः ॥१५॥
प्राकृतान्राक्षसान् हत्वा युद्धे दशरथात्मज !।
आत्मना कथमात्मानमप्रशस्यं
प्रशंससि ॥१६॥
विक्रान्ता बलवन्तो वा ये भवन्ति नरर्षभाः।
कथयन्ति न ते किंचित्तेजसा स्वेन गर्विताः ॥१७॥
प्राकृतास्त्वकृतात्मानो लोके क्षत्रियपांसनाः।
निरर्थकं विकत्थन्ते यथा राम! विकत्थसे ॥१८॥
कुलं व्यपदिशन्वीरस्समरे कोऽभिधास्यति।
मृत्युकाले हि संप्राप्ते स्वयमप्रस्तवे स्तवम् ॥१९॥
सर्वथैव लघुत्वं ते कत्थनेन विदर्शितम्।
सुवर्णप्रतिरूपेण तप्तेनेव कुशामिना ॥२०॥
न तु मामिह तिष्ठन्तं पश्यसि त्वं गदाधरम्।
धराधरमिवाकम्प्यं पर्वतं धातुभिश्चितम् ॥२१॥
पर्याप्तोऽहं गदापाणिर्हन्तुं प्राणान्रणे तव।
त्रयाणामपि लोकानां पाशहस्तइवान्तकः ॥२२॥
कामं बह्वपि वक्तव्यं त्वयि वक्ष्यामि न त्वहम्।
अस्तं गच्छेद्धि सविता युद्धविघ्नस्ततो भवेत् ॥२३॥
चतुर्दश सहस्राणि राक्षसानां हतानि ते।
त्वद्विनाशात्करोम्येषां तेषामश्रुप्रमार्जनम् ॥२४॥”
इत्युक्त्वा परमक्रुद्धस्तां गदां परमाङ्गदः।
खरश्चिक्षेप रामाय प्रदीप्तामशनिं यथा ॥२५॥
खरबाहुप्रमुक्ता सा प्रदीप्ता महती गदा।
भस्मवृक्षांश्च गुल्मांश्च कृत्वाऽगात्तत्समीपतः ॥२६॥
तामापतन्तीं ज्वलितां मृत्युपाशोपमां गदाम्।
अन्तरिक्षगतां रामश्चिच्छेद बहुधा शरैः ॥२७॥
सा विकिर्णा शरमन्ना पपात धरणीतले
गदा मन्त्रौषधबलैर्व्यालींव विनिपातिता ॥२८॥
इति श्रीमदारण्यकाण्डे एकोनत्रिंशस्सर्गः ॥
—————
॥ त्रिंशस्सर्गः ॥
भित्त्वा तु तां गदां बाणै राघवो धर्मवत्सलः।
स्मयमानः खरं वाक्यं संरब्धमिदमब्रवीत् ॥१॥
“एतत्ते बलसर्वस्वं दर्शितं राक्षसाधम!।
शक्तिहीनतरो मत्तो वृथा त्वमवगर्जसि ॥२॥
एषा बाणविनिर्भिन्ना गदा भूमितलं गता।
अभिधानप्रगल्भस्य तव प्रत्यर्थिघातिनी ॥३॥
यत्त्वयोक्तं विनष्टानामहमश्रुप्रमार्जनम्।
“राक्षसानां करो “मीति मिथ्या तदपि ते वचः ॥४॥
नीचस्य क्षुद्रशीलस्य मिथ्यावृत्तस्य रक्षसः।
प्राणानपहरिष्यामि गरुत्मानमृतं यथा ॥५॥
अद्य ते च्छिन्नकण्ठस्य फेनबुद्बुदभूषितम्।
विदारितस्य मद्वाणैर्मही पास्यति शोणितम् ॥६॥
पांसुरूषितसर्वाङ्गस्स्त्रस्तन्यस्तभुजद्वयः।
स्वप्स्यसेगां समालिङ्ग्य दुर्लभां प्रमदामिव ॥७॥
प्रवृद्धनिद्रे शयिते त्वयि राक्षसपांसने।
भविष्यन्त्यशरण्यानां शरण्या दण्डका इमे ॥८॥
जनस्थाने हतस्थाने तव राक्षस! मच्छरैः।
निर्भया विचरिष्यन्ति सर्वतो मुनयो वने ॥९॥
अद्य विप्रसरिष्यन्ति राक्षस्यो हतबान्धवाः।
बाष्पार्द्रवदना दीना भयादन्यभयावहाः ॥१०॥
अद्य शोकरसज्ञास्ता भविष्यन्ति निरर्थकाः।
अनुरूपकुलाः पत्न्योयासां त्वं पतिरीदृशः ॥११॥
नृशंस! नीच! क्षुद्रात्म! न्नित्यं ब्राह्मणकण्टक!।
यत्कृते शङ्कितैरग्नौमुनिभिः पात्यते हविः ॥१२॥”
तमेवमभिसंरब्धं ब्रुवाणं राघवं रणे।
खरो निर्भर्त्सयामास रोषांत्खरतरस्वनः ॥१३॥
“दृढं खल्ववलिप्तोऽसि भयेष्वपि च निर्भयः।
बाच्यावाच्यं ततो हि त्वं मृत्युवश्यो न बुध्यसे ॥१४॥
कालपाशपरिक्षिप्ता भवन्ति पुरुषा हि ये।
कार्याकार्यं न जानन्ति ते निरस्य षडिन्द्रियाः ॥१५॥”
एवमुक्त्वा ततो रामं संरुध्य भ्रुकुटीं ततः।
स ददर्श महासालमविदूरे निशाचरः॥१६॥
रणे प्रहरणस्यार्थे सर्वतो ह्यवलोकयन्।
स तमुत्पाटयामास संदिश्य दशनच्छदम् ॥१७॥
तं समुत्क्षिप्य बाहुभ्यां विनद्य च महाबलः।
राममुद्दिश्य चिक्षेप ‘हतस्त्व’मिति चाब्रवीत् ॥१८॥
तमापतन्तं बाणौघैश्छित्वा रामः प्रतापवान्।
रोषमाहारयत्तीव्रं निहन्तुं समरे खरम् ॥१९॥
जातस्वेदस्ततो रामो रोषाद्रकान्तलोचनः।
निर्बिभेद सहस्रेण बाणानां समरे खरम् ॥२०॥
तस्य बाणान्तराद्रकं बहु सुस्राव फेनिलम्।
गिरेः प्रस्रवणस्येव तोयधारापरिस्रवः ॥२१॥
विह्वलस्स कृतो बाणैः खरो रामेण संयुगे।
मत्तो रुधिरगन्धेन तमेवाभ्यद्रबद्द्रुतम् ॥२२॥
तमापतन्तं संरब्धं कृतास्त्रो रुधिराप्लुतम्।
अपासर्पत्प्रतिपदं किंचित्त्वरितविक्रमः ॥२३॥
ततः पावकसंकाशं वधाय समरे शरम्।
खरस्य रामो जग्राह ब्रह्मदण्डमिवापरम् ॥२४॥
स तं दत्तं मघवता सुरराजेन धीमता।
संदधे चापि धर्मात्मा मुमोच च खरं प्रति ॥२५॥
स विमुक्तो महाबाणो निर्घातसमनिस्वनः।
रामेण धनुरायम्य खरस्योरसि चापतत् ॥२६॥
स पपात खरो भूमौ दह्यमानश्शराग्निना।
रुद्रेणेव विनिंदग्धश्श्वेतारण्ये यथाऽन्तकः ॥२७॥
स वृत्र इव वज्रेण फेनेन नमुचिर्यथा।
बलोवेन्द्राशनिहतो निपपात हतः खरः ॥२८॥
ततो राजर्षयस्सर्वे सङ्गताः परमर्षयः।
सभाज्य मुदिता राममिदं वचनमब्रुवन् ॥२९॥
एतदर्थं महातेजा महेन्द्रः पाकशासनः।
शरभङ्गाश्रमं पुण्यमाजगाम पुरन्दरः ॥३०॥
आनीतस्त्वमिमं देशमुपायेन महर्षिभिः।
एषां वधार्थ क्रूराणां रक्षसां पापकर्मणाम् ॥३१॥
तदिदं नः कृतं कार्यं त्वया दशरथाऽऽत्मज!।
सुखं धर्मं चरिष्यन्ति दण्डकेषु महर्षयः ॥३२॥”
एतस्मिन्नन्तरे देवाश्चारणैस्सह सङ्गताः।
दुन्दुभींश्चापि निघ्नन्तः पुष्पवर्षं समन्ततः ॥३३॥
रामस्योपरि संहृष्टा ववृषुर्विस्मितास्तदा।
“अर्धाधिकमुहूर्तेन रामेण निशितैश्शरैः ॥३४॥
चतुर्दश सहस्राणि रक्षसां भीमकर्मणाम्।
खरदूषणमुख्यानां निहतानि महाहवे ॥३५॥
अहो! बत! महत्कर्म रामस्य विदितात्मनः।
अहो वीर्यमहो! दाक्ष्यं विष्णोरिव हि दृश्यते ॥३६॥”
इत्येवमुक्त्वा ते सर्वे ययुर्देवा यथागतम्।
एतस्मिन्नन्तरे वीरो लक्ष्मणस्सह सीतया ॥३७॥
गिरिदुर्गाद्विनिष्क्रम्य संविवेशाश्रमं सुखी।
ततो रामस्तु विजयी पूज्यमानो महर्षिभिः ॥३८॥
प्रविशाश्रमं वीरो लक्ष्मणेनाभिपूजितः।
तं दृष्ट्वा शत्रुहन्तारं महर्षीणां सुखावहम् ॥३९॥
बभूव हृष्टा वैदेही भर्तारं परिषस्वजे।
मुदा परमया युक्ता दृष्ट्वा रक्षोगणान्हतान् ॥४०॥
रामं चैवाव्यथं दृष्ट्वा तुतोष जनकात्मजा।
ततस्तु तं राक्षससंघमर्दनं सभाज्यमानं मुदितैर्महर्षिभिः।
पुनः परिष्वज्य शशिप्रभानना बभूव हृष्टा जनकात्मजा तदा ॥४१॥
इति श्रीमदारण्यकाण्डे त्रिंशस्सर्गः ॥
—————
॥एकत्रिंशस्सर्गः
॥
त्वरमाणस्ततो गत्वा जनस्थानादकम्पनः।
प्रविश्य लङ्कां वेगेन रावणं वाक्यमब्रवीत् ॥१॥
“जनस्थानस्थिता राजन्! राक्षसा बहवो हताः।
खरश्च निहतस्सङ्ख्ये कथंचिदहमागतः ॥२॥”
एवमुक्तो दशग्रीवः क्रुद्धस्संरक्तलोचनः।
अकम्पनमुवाचेदं निर्दहन्निव चक्षुषा ॥३॥
” केन रम्यं जनस्थानं हतं मम परासुना।
को हि सर्वेषु लोकेषु गतिं चाधिगमिष्यति ॥४॥
न हि मे विप्रियं कृत्वा शक्यं मघवता सुखम्।
प्राप्तुं वैश्रवणेनापि न यमेन न विष्णुना ॥५॥
कालस्य चाप्यहं कालो दहेयमपि पावकम्।
मृत्युं मरणधर्मेण संयोजयितुमुत्सहे ॥६॥
दहेयमपि संक्रुद्धस्तेजसाऽऽदित्यपावकौ।
वातस्य तरसा वेगं निहन्तुमहमुत्सहे ॥७॥
तथा क्रुद्धं दशग्रीवं कृताञ्जलिरकम्पनः।
भयात्संदिग्धया वाचा रावणं याचतेऽभयम् ॥८॥
दशग्रीवोऽभयं तस्मै प्रददौ रक्षसां वरः।
स विस्रब्धोऽब्रवीद्वाक्यमसंदिग्धमकम्पनः ॥९॥
“पुत्रो दशरथस्यास्ति सिंहसंहनो युवा।
रामो नाम वृषस्कन्धो वृत्तायतमहाभुजः ॥१०॥
वीरः पृथुयशाश्श्रीमानतुल्यबलविक्रमः।
हतं तेन जनस्थानं खरश्च सहदूषणः ॥११॥”
अकम्पनवचश्श्रुत्वा रावणो राक्षसाधिपः।
नागेन्द्र इव निःश्वस्य वचनं चेदमब्रवीत् ॥१२॥
स सुरेन्द्रेण संयुक्तो रामस्सर्वामरैस्सह।
उपयातो जनस्थानं ब्रूहि कच्चिदकम्पन ! ॥१३॥”
रावणस्य पुनर्वाक्यं निशम्य तदकम्पनः।
आचचक्षे बलं तस्य विक्रमं च महात्मनः ॥१४॥
रामो नाम महातेजा श्श्रेष्ठस्सर्वधनुष्मताम्।
दिव्यास्त्रगुणसंपन्नः पुरन्दरसमो युधि ॥१५॥
तस्यानुरूपो बलवान् रक्ताक्षो दुन्दुभिस्वनः।
कनीयान् लक्ष्मणो नाम भ्राता शशिनिभाननः ॥१६॥
स तेन सह संयुक्तः पावकेनानिलो यथा।
श्रीमान्राजवरस्तेन जनस्थानं निपातितम् ॥१७॥
नैव देवा महात्मानो नात्र कार्या विचारणा।
शरा रामेण तूत्सृष्टा रुक्मपुङ्खाः पतत्रिणः ॥१८॥
सर्पाः पञ्चानना भूत्वा भक्षयन्ति स्म राक्षसान्।
येन येन च गच्छन्ति राक्षसा भयकर्शिताः ॥१९॥
तेन तेन स्म पश्यन्ति राममेवाग्रतः स्थितम्।
इत्थं विनाशितं तेन जनस्थानं तवानघ! ॥२०॥
अकम्पनवचश्श्रुत्वा रावणो वाक्यमब्रवीत्।
“जनस्थानं गमिष्यामि हन्तुं रामं सलक्ष्मणम् ॥२१॥”
अथैवमुक्ते वचने प्रोवाचेदमकम्पनः।
शृणु राज! न्यथावृत्तं रामस्य बलपौरुषम् ॥२२॥
“असाध्यः कुपितो रामो विक्रमेण महायशाः।
आपगायास्सुपूर्णाया वेगं परिहरेच्छरैः ॥२३॥
सतारग्रहनक्षत्रं नभश्चाप्यवसादयेत्।
असौ रामस्तु मज्जन्तीं श्रीमानभ्युद्धरेन्महीम् ॥२४॥
भित्वा वेलां समुद्रस्य लोकानाप्लावयेद्विभुः।
वेगं वापि समुद्रस्य वायुं वा विधमेच्छरैः ॥२५॥
संहृत्य वापुनर्लोकान्विक्रमेण महायशाः।
शक्तस्स पुरुषव्याघ्रस्स्रष्टुं पुनरपि प्रजाः ॥२६॥
न हि रामो दशग्रीव! शक्यो जेतुं त्वया युधि।
रक्षसां वापि लोकेन स्वर्गः पापजनैरिव ॥२७॥
न तं वध्यमहं मन्ये सर्वैर्देवासुरैरपि।
अयं तस्य वधोपायस्तं ममैकमनाश्शृणु ॥२८॥
भार्या तस्योत्तमा लोके सीता नाम सुमध्यमा।
श्यामा समविभक्ताङ्गी स्त्रीरत्नं रत्नभूषिता ॥२९॥
नैव देवी न गन्धर्वी नाप्सरा नापि दानवी।
तुल्या सीमन्तिनी तस्या मानुषीषु कुतो भवेत् ॥३०॥
तस्यपहर भार्यां त्वं प्रमथ्य तु महावने।
स तया रहितः कामी रामो हास्यति जीवितम् ॥३१॥”
अरोचयत तद्वाक्यं रावणो राक्षसाधिपः।
चिन्तयित्वा महाबाहुरकम्पनमुवाच ह ॥३२॥
“बाढं काल्यं गमिष्यामि ह्येकस्सारथिना सह।
आनयिष्यामि वैदेहीमिमां हृष्टो महापुरीम् ॥३३॥”
अथैवमुक्त्वा प्रययौ खरयुक्तेन रावणः।
रथेनादित्यवर्णेन दिशस्सर्वाः प्रकाशयन् ॥३४॥
स रथो राक्षसेन्द्रस्य नक्षत्रपथगो महान्।
संचार्यमाणश्शुशुभे जलदे चन्द्रमा इव ॥३५॥
स मारीचाश्रमं प्राप्य ताटकेयमुपागमत्।
मारीचेनार्चितो राजा भक्ष्यभोज्यैरमानुषैः ॥३६॥
तं स्वयं पूजयित्वा तु आसनेनोदकेन च।
अर्थोपहितया वाचा मारीचो वाक्यमब्रवीत् ॥३७॥
“कञ्चित्सुकुशलं राजन्! लोकानां राक्षसेश्वर!।
आशङ्के नाथ ! जाने त्वं यतस्तूर्णमिहागतः ॥३८॥”
एवमुक्तो महातेजा मारीचेन स रावणः।
ततः पश्चादिदं वाक्यमब्रवीद्वाक्यकोविदः ॥३९॥
“आरक्षो मे हत स्तात! रामेणाक्लिष्टकर्मणा।
जनस्थानमवध्यं तत्सर्वं युधि निपातितम् ॥४०॥
तस्य मे कुरु साचिव्यं तस्य भार्यापहारणे।”
राक्षसेन्द्रवचश्श्रुत्वा मारीचो वाक्यमब्रवीत् ॥४१॥
आख्याता केन सीता सा मित्ररूपेण शत्रुणा।
त्वया राक्षसशार्दूल! को न नन्दति निन्दितः ॥४२॥
‘सीतामिहानय’स्वेति को ब्रवीति ब्रवीहि मे।
रक्षोलोकस्य सर्वस्य कश्शृङ्गं छेत्तुमिच्छति ॥४३॥
प्रोत्साहयति कश्च त्वां स च शत्रुरसंशयः।
आशीविषमुखाद्दंष्ट्रामुद्धर्तुं चेच्छति त्वया ॥४४॥
कर्मणा तेन केनासि कापथंप्रतिपादितः।
सुखसुप्तस्य ते राजन्! प्रहृतं केन मूर्धनि ॥४५॥
विशुद्धवंशाभिजनाग्रहस्तस्तेजोमदस्संस्थितदोर्विषाणः।
उदीक्षितुं रावण! नेह युक्तस्स संयुगे राघवगन्धहस्ती ॥४६॥
असौ रणान्तस्थितिसन्धिवालो विदग्धरक्षोमृगहा नृसिंहः।
सुप्तस्त्वया बोधयितुं न युक्तश्शराङ्गपूर्णो निशितासिदंष्ट्रः ॥४७॥
चापावहारे भुजवेगपङ्के शरोर्मिमाले सुमहाहवौघे
न रामपातालमुखेऽतिघोरे प्रस्कन्दितुं राक्षसराज! युक्तम् ॥४८॥
प्रसीद लङ्केश्वर! राक्षसेन्द्र! लड्ढां प्रसन्नो भव साधु गच्छ।
त्वं स्वेषु दारेषु रमस्व नित्यं रामस्सभार्यो रमतां वनेषु ॥४९॥”
एवमुक्तो दशग्रीवो मारीचेन स रावणः।
न्यवर्तत पुरीं लङ्कांविवेश च गृहोत्तमम् ॥५०॥
इति श्रीमदारण्यकाण्डे एकत्रिंशस्सर्गः ॥
—————
॥ द्वात्रिंशस्सर्गः ॥
ततश्शूर्पणखा दृष्ट्वा सहस्राणि चतुर्दश।
हतान्येकेन रामेण रक्षसां भीमकर्मणाम् ॥१॥
`दूषणं च खरं चैव हतं त्रिशिरसा सह।
दृष्ट्वा पुनर्महानादं ननाद जलदो यथा ॥२॥
स दृष्ट्वा कर्म रामस्य कृतमन्यैस्सुदुष्करम्।
जगाम परमोद्विग्ना लङ्कां रावणपालिताम् ॥३॥
सा ददर्श विमानाग्रेरावणं दीप्ततेजसम्।
उपोपविष्टं सचिवैर्मरुद्भिरिव वासवम् ॥४॥
आसीनं सूर्यसङ्काशेकाञ्चने परमासने।
रुक्मवेदिगतं प्राज्यं ज्वलन्तमिव पावकम् ॥५॥
देवगन्धर्वभूतानामृषीणां च महात्मनाम्।
अजेयं समरे शूरं व्यात्ताननमिवान्तकम् ॥६॥
देवासुरविमर्देषु वज्राशनिकृतव्रणम्।
ऐरावतविषाणाग्रैरुद्धृष्टकिणवक्षसम् ॥७॥
विंशद्भुजं दशग्रीवं दर्शनीयपरिच्छदम्।
विशालवक्षसं वीरं राजलक्षणशोभितम् ॥८॥
स्निग्धवैडूर्यसङ्काशं तप्तकाञ्चनकुण्डलम्।
सुभुजं शुक्लदशनं महास्यं पर्वतोपमम् ॥९॥
विष्णुचक्रनिपातैश्च शतशो देवसंयुगे।
अन्यैश्शस्त्र प्रहारैश्च महायुद्धेषु ताडितम् ॥१०॥
आहताङ्गं समस्तैश्च देवप्रहरणैस्तथा।
अक्षोभ्याणां समुद्राणां क्षोभणं क्षिप्रकारिणम् ॥११॥
क्षेप्तारं पर्वतेन्द्राणां सुराणां च प्रमर्दनम्।
उच्छेत्तारं च धर्माणां परदाराभिमर्शनम् ॥१२॥
सर्वदिव्यास्त्रयोक्तारं यज्ञविघ्नकरं सदा।
पुरीं भोगवतीं प्राप्य पराजित्य च वासुकिम् ॥१३॥
तक्षकस्य प्रियां भार्यां पराजित्य जहार यः।
कैलासपर्वतं गत्वा विजित्य नरवाहनम् ॥१४॥
विमानं पुष्पकं तस्य कामगं वै जहार यः।
वनं चैत्ररथं दिव्यं नलिनीं नन्दनं वनम् ॥१५॥
विनाशयति यः क्रोधादेवोद्यानानि वीर्यवान्।
चन्द्रसूर्यो महाभागावुत्तिष्ठन्तौ परन्तपौ ॥१६॥
निवारयति बाहुभ्यां यश्शैलशिखरोपमः।
दशवर्षसहस्राणि तपस्तप्त्वा महावने ॥१७॥
‘पुरा स्वयंभुवे धीरश्शिरांस्युपजहार यः।
देवदानवगन्धर्वपिशाचपतगोरगैः ॥१८॥
अभयं यस्य संग्रामे मृत्युतो मानुषाहते।
मन्त्रैरभिष्टुतं पुण्यमध्वरेषु द्विजातिभिः ॥१९॥
हविर्धानेषु यस्सोममुपहन्ति महाबलः।
आप्तयज्ञहरं क्रूरं ब्रह्मघ्नं दुष्टचारिणम् ॥२०॥
कर्कशं निरनुक्रोशं प्रजानामहिते रतम्।
रावणं सर्वभूतानां सर्वलोकभयावहम् ॥२१॥
राक्षसी भ्रातरं शूरं सा ददर्श महाबलम्।
तं दिव्यवस्त्राभरणं दिव्यमाल्योपशोभितम् ॥२२॥
आसने सूपविष्टं च कालकालमिवोद्यतम्।
राक्षसेन्द्रं महाभागं पौलस्त्यकुलनन्दनम् ॥२३॥
रावणं शत्रुहन्तारं मन्त्रिभिः परिवारितम्।
अभिगम्याब्रवद्वाक्यं राक्षसी भयविह्वला ॥२४॥
तमब्रवीद्दीप्तविशाललोचनं प्रदर्शयित्वा भयमोहमूर्छिता।
सुदारुणं वाक्यमभीतचारिणी महात्मना शूर्पणखा विरूपिता ॥
इति श्रीमदारण्यकाण्डे द्वात्रिंशस्सर्गः ॥
—————
॥ त्रयस्त्रिशस्सर्गः ॥
ततश्शूर्पणखा दीना रावणं लोकरावणम्।
अमात्यमध्ये संक्रुद्धा परुषं वाक्यमब्रवीत् ॥१॥
“ प्रमत्तः कामभोगेषु स्वैरवृत्तो निरङ्कुशः।
समुत्पन्नं भयं घोरं बोद्धव्यं नावबुद्ध्यसे ॥२॥
सक्तं ग्राम्येषु भोगेषु कामवृत्तं महीपतिम्।
लुब्धं न बहुमन्यन्ते श्मशानाग्निमिव प्रजाः ॥३॥
स्वयं कार्याणि यः काले नानुतिष्ठति पार्थिवः।
सं तु वै सह राज्येन तैश्च कार्यैर्विनश्यति ॥४॥
अयुक्तचारं दुर्दर्शमस्वाधीनं नराधिपम्।
वर्जयन्ति नरा दूरान्नदीपकमिव द्विपाः ॥५॥
ये न रक्षन्ति विषयमस्वाधीना नराधिपाः।
ते न वृद्ध्या प्रकाशन्ते गिरयस्सागरे यथा ॥६॥
आत्मवद्भिर्विगृह्य त्वं देवगन्धर्वदानवैः।
अयुक्तचारश्चपलः कथं राजा भविष्यसि ॥७॥
त्वन्तु बालस्वभावश्च बुद्धिहीनश्च राक्षस!।
ज्ञातव्यन्तु न जानीषे कथं राजा भविष्यसि ॥८॥
येषां चारश्च काशच नयश्च जयतां वर!।
अस्वाधीना नरेन्द्राणां प्राकृतैस्ते जनैस्समाः ॥९॥
यस्मात्पश्यन्ति दूरस्थांस्सर्वानर्थान्नराधिपाः।
चारेण तस्मादुच्यन्ते राजानो दीर्घचक्षुषः ॥१०॥
अयुक्तचारं मन्ये त्वां प्राकृतैस्सचिवैर्वृतम्।
स्वजनन्तु जनस्थानं हतं यो नावबुध्यसे ॥११॥
चतुर्दश सहस्राणि रक्षसां क्रूरकर्मणाम्।
हतान्येकेन रामेण खरश्च सह दूषणः ॥१२॥
ऋषीणामभयं दत्तं कृतक्षेमाश्च दण्डकाः।
घर्षितं च जनस्थानं रामेणाक्लिष्टकर्मणा ॥१३॥
त्वन्तु लुब्धः प्रमत्तश्च पराधीनश्च रावण!।
विषये स्वेसमुत्पन्नं भयं यो नावबुद्ध्यसे ॥१४॥
तीक्ष्णमल्पप्रदातारं प्रमत्तं गर्वितं शठम्।
व्यसने सर्वभूतानि नाभिधावन्ति पार्थिवम् ॥१५॥
अतिमानिनमग्राह्यमात्मसम्भावितं नरम्।
क्रोधिनं व्यसने हन्ति स्वजनोऽपि महीपतिम् ॥१६॥
नानुतिष्ठति कार्याणि भयेषु न बिभेति च।
क्षिप्रं राज्याच्च्युतो दीनस्तृणैस्तुल्यो भविष्यति ॥१७॥
शुष्कः काष्ठैर्भवेत्कार्यं लोष्टैरपि च पांसुभिः।
न तु स्थानात्परिभ्रष्टैः कार्य स्याद्वसुधाधिपैः ॥१८॥
उपभुक्तं यथा वासस्स्रजो वा मृदिता यथा।
एवं राज्यात्परिभ्रष्टस्समर्थोऽपि निरर्थकः ॥१९॥
अप्रमत्तश्च यो राजा सर्वज्ञो विजितेन्द्रियः।
कृतज्ञो धर्मशीलश्च स राजा तिष्ठते चिरम् ॥२०॥
नयनाभ्यां प्रसुप्तोऽऽसि जागर्ति नयचक्षुषा।
व्यक्तक्रोधप्रसादश्च स राजा पूज्यते जनैः ॥२१॥
त्वन्तु रावण ! दुर्बुद्धिर्गुणैरेतैर्विवर्जितः।
यस्य ते विदितश्चारै रक्षसां सुमहान्वधः ॥२२॥
परावमन्ता विषयेषु सङ्गतो न देशकालप्रविभागतत्त्ववित्।
अयुक्त बुद्धिर्गुणदोषनिश्चये विपन्नराज्यो न चिराद्विप त्स्यते ॥२३॥”
इति स्वदोषान्परिकीर्तितांस्तया समीक्ष्य बुद्ध्वाक्षणदाचरेश्वरः।
धनेन दर्पेण बलेन चान्वितो विचिन्तयामास चिरं स रावणः ॥
इति श्रीमदारण्यकाण्डे त्रयस्त्रिंशस्सर्गः ॥
—————
॥चतुस्त्रिशस्सर्गः॥
ततश्शूर्पणखां क्रुद्धां ब्रुवन्तीं परुषं वचः।
अमात्यमध्ये संक्रुद्धः परिपप्रच्छ रावणः ॥१॥
“कश्च रामः कथं वीर्यः किरूपः किंपराक्रमः।
किमर्थं दण्डकारण्यं प्रविष्टस्सुदुरासदम् ॥२॥
आयुधं किञ्च रामस्य निहता येन राक्षसाः।
खरश्च निहतस्संख्ये दूषणस्त्रिशिरास्तथा ॥३॥”
इत्युक्ता राक्षसेन्द्रेण राक्षसी क्रोधमूर्छिता।
ततो रामं यथातत्त्वमाख्यातुमुपचक्रमे ॥४॥
“दीर्घबाहुर्विशालाक्षचीरकृष्णाजिनाम्बरः।
कन्दर्पसमरूपश्च रामो दशरथात्मजः ॥५॥
शक्रचापनिभं चापं विकृष्य कनकाङ्गदम्।
दीप्तान् क्षिपति नाराचांत्सर्पानिव महाविषान् ॥६॥
नाददानं शरान्धोरान्न मुञ्चन्तं शिलीमुखान्।
न कार्मुकं विकर्षन्तं रामं पश्यामि संयुगे ॥७॥
हन्यमानन्तु तत्सैन्यं पश्यामि शरवृष्टिभिः।
इन्द्रेणेवोत्तमं सस्यमाहतन्त्वश्मवृष्टिभिः ॥८॥
रक्षसां भीमरूपाणां सहस्राणि चतुर्दश।
निहतानि शरैस्तीक्ष्णैस्तेनैकेन पदातिना ॥९॥
अर्धाधिकमुहूर्तेन खरश्चसहदूषणः।
ऋषीणामभयं दत्तं कृतक्षेमाश्च दण्डकाः ॥१०॥
एका कथंचिन्मुक्ताऽहं परिभूय महात्मना।
स्त्रीवधं शङ्कमानेन रामेण विदितात्मना ॥११॥
भ्राता चास्य महातेजा गुणतस्तुल्यविक्रमः।
अनुरक्तश्च भक्तश्च लक्ष्मणो नाम वीर्यवान् ॥१२॥
अमर्षी दुर्जयो जेता विक्रान्तो बुद्धिमान्बली।
रामस्य दक्षिणो बाहुर्नित्यं प्राणो बहिश्चरः ॥१३॥
रामस्य तु विशालाक्षी पूर्णेन्दुसदृशानना।
धर्मपत्नी प्रिया भर्तुर्नित्यं प्रियहिते रता ॥१४॥
सा सुकेशी सुनासोरुस्सुरूपा च यशस्विनी।
देवतेव वनस्यास्य राजते श्रीरिवापरा ॥१५॥
तप्तकाञ्चनवर्णाभा रक्ततुङ्गनखी शुभा।
सीता नाम वरारोहा वैदेही तनुमध्यमा ॥१६॥
नैव देवी न गन्धर्वी न यक्षी न च किन्नरी।
नैवंरूपा मया नारी दृष्टपूर्वा महीतले ॥१७॥
यस्य सीता भवेद्भार्या यं च हृष्टा परिष्वजेत्।
अतिजीवेत्स सर्वेषु लोकेष्वपि पुरन्दरात् ॥१८॥
सा सुशीला वपुःश्लाघ्यारूपेणाप्रतिमा भुवि।
तवानुरूपा भार्या स्यात्त्वं च तस्यास्तथा पतिः ॥१९॥
तान्तु विस्तीर्णजघनां पीनश्रोणीपयोधराम्।
भार्यार्थेच तवानेतुमुद्यताऽहं वराननाम् ॥२०॥
विरूपिताऽस्मि क्रूरेण लक्ष्मणेन महाभुज!।
तान्तु दृष्ट्वाऽद्य वैदेहीं पूर्णचन्द्रनिभाननाम् ॥२१॥
मन्मथस्य शराणां वै त्वं विधेयो भविष्यसि।
यदि तस्यामभिप्रायो भार्यार्थे तव जायते ॥२२॥
शीघ्रमुद्ध्रियतां पादो जयार्थमिह दक्षिणः।
कुरु प्रियं तथा तेषां रक्षसां राक्षसेश्वर! ॥२३॥
वधात्तस्य नृशंसस्य रामस्याऽऽश्रमवासिनः।
तं शरैर्निशितैर्हत्वा लक्ष्मणं च महारथम् ॥२४॥
इतनाथां सुखं सीतां यथावदुपभोक्ष्यसि।
रोचते यदि ते वाक्यं ममैतद्राक्षसेश्वर! ॥२५॥
क्रियतां निर्विशङ्केन वचनं मम रावण!।
विज्ञायेहात्मशक्ति च ह्रियतामबला बलात् ॥२६॥
सीता सर्वानवद्याङ्गी भार्यार्थेराक्षसेश्वर!।
निशम्य रामेण शरैरजिह्मगैर्हतान् जनस्थानगतान्निशाचरान् ॥२७॥
खरञ्च बुद्ध्वानिहतं च दूषणं त्वमत्र कृत्यं प्रतिपत्तुमर्हसि।”
इति श्रीमदारण्यकाण्डे चतुस्त्रिंशस्सर्गः ॥
—————
॥पञ्चत्रिंशस्सर्गः॥
ततश्शूर्पणखावाक्यं तच्छ्रुत्वा रोमहर्षणम्।
सचिवानभ्यनुज्ञाय कार्य बुद्ध्वाजगाम सः ॥१॥
तत्कार्यमनुगम्याथ यथावदुपलभ्य च।
दोषाणां च गुणानां च संप्रधार्य बलाबलम् ॥२॥
‘इतिकर्तव्य’मित्येव कृत्वा निश्चयमात्मनः।
स्थिरबुद्धिस्ततो रम्यां यानशालां जगाम ह ॥३॥
यानशालां ततो गत्वा प्रच्छन्नो राक्षसाधिपः।
नूनं संचोदयामास ‘रथस्संयोज्यता ’ मिति ॥४॥
एवमुक्तः क्षणेनैव सारथिलघुविक्रमः।
रथं संयोजयामास तस्याभिमतमुत्तमम् ॥५॥
काञ्चनं रथमास्थाय कामगं रत्नभूषितम्।
पिशाचवदनैर्युक्तं खरैः काञ्चनभूषणैः ॥६॥
मेघप्रतिमनादेन स तेन धनदानुजः।
राक्षसाधिपतिश्श्रीमान्ययौ नदनदीपतिम् ॥७॥
सश्वेतवालव्यजनः श्वेतच्छत्रो दशाननः।
स्निग्धवैडूर्यसंकाशस्तप्तकाञ्चनकुण्डलः ॥८॥
विंशद्भुजो दशग्रीवो दर्शनीयपरिच्छदः।
त्रिदशारिर्मुनीन्द्रघ्नो दशशीर्ष इवाद्रिराट् ॥९॥
कामगं रथमास्थाय शुशुभे राक्षसेश्वरः।
विद्युन्मण्डलवान्मेघस्सबलाक इवाम्बरे ॥१०॥
स शैलं सागरानूपं वीर्यवानवलोकयन्।
नानापुष्पफलैर्वृक्षैरनुकीर्णं सहस्रशः ॥११॥
शीतमङ्गलतोयाभिः पद्मिनीभिस्समन्ततः।
विशालैराश्रमपर्दैर्वेदिमद्भिस्समावृतम् ॥१२॥
कदल्याढकिसम्बाधं नालिकेरोपशोभितम्।
सालैस्तालैस्तमालैश्च पुष्पितैस्तरुभिर्वृतम् ॥१३॥
नागैस्सुपर्णैर्गन्धर्वैः किन्नरैश्च सहस्रशः।
अजैर्वैखानसैर्माषैर्वालखिल्यैर्मरीचिपैः ॥१४॥
अत्यन्तनियताहारैश्शोभितं परमर्षिभिः।
जितकामैश्च सिद्धैश्च चारणैरुपशोभितम् ॥१५॥
दिव्याभरणमाल्याभिर्दिव्यरूपाभिरावृतम्।
क्रीडारतिविधिज्ञाभिरप्सरोभिस्सहस्रशः ॥१६॥
सेवितं देवपत्नीभिश्रीमतीभिश्श्रियाऽऽवृतम्।
देवदानवसंघैश्च चरितं त्वमृताशिभिः ॥१७॥
हंसक्रौञ्चप्लवाकीर्णं सारसैस्संप्रणादितम्।
वैडूर्यप्रस्तरं रम्यं स्निग्धं सागरतेजसा ॥१८॥
पाण्डुराणि विशालानि दिव्यमाल्ययुतानि च।
तूर्यगीताभिजुष्टानि विमानानि समन्ततः ॥१९॥
तपसा जितलोकानां कामगान्यभिसंपतन्।
गन्धर्वाप्सरसश्चैव ददर्श धनदानुजः ॥२०॥
निर्यासरसमूलानां चन्दनानां सहस्रशः।
वनानि पश्यंत्सौम्यानि घ्राणतृप्तिकराणि च ॥२१॥
अगरूणां च मुख्यानां वनान्युपवनानि च।
तक्कोलानां च जात्यानां फलानां च सुगन्धिनाम् ॥२२॥
पुष्पाणि च तमालस्य गुल्मानि मरिचस्य च।
मुक्तानां च समूहानि पुष्यमाणनि तीरतः ॥२३॥
शङ्खानां प्रस्तरं चैव प्रवालनिचयं तथा।
काञ्चनानि च शैलानि राजतानि च सर्वशः ॥२४॥
प्रस्रवाणि मनोज्ञानि प्रसन्नानि हृदानि च।
धनधान्योपपन्नानि स्त्रीरनैश्शोभितानि च ॥२५॥
हस्त्यश्वरथगाढानि नगराण्यवलोकयन्।
तं समं सर्वतस्निग्धं मृदुसंस्पर्शमारुतम् ॥२६॥
अनूपं सिन्धुराजस्य ददर्श त्रिदिवोपमम्।
तत्रापश्यत्स मेघाभं न्यग्रोधमृषिभिर्वृतम् ॥२७॥
समन्ताद्यस्य ताश्शाखाश्शतयोजनमायताः।
यस्य हस्तिनमादाय महाकायं च कच्छपम् ॥२८॥
भक्षार्थं गरुडइशाखामाजगाम महाबलः।
तस्य तां सहसा शाखां भारेण पतगोत्तमः ॥२९॥
सुपर्णः पर्णबहुलां बभंज च महाबलः।
तत्र वैखानसा माषा वालखिल्या मरीचिपाः ॥३०॥
अजा बभूवुर्धूम्राश्च सङ्गताः परमर्षयः।
तेषां दयार्थं गरुडस्तां शाखां शतयोजनाम् ॥३१॥
जगामादाय वेगेन तौ चोभौ गजकच्छपौ।
एकपादेन धर्मात्मा भक्षयित्वा तदामिषम् ॥३२॥
निषादविषयं हत्वा शाखया पतगोत्तमः।
प्रहर्षमतुलं लेभे मोक्षयित्वा महामुनीन् ॥३३॥
स तेनैव प्रहर्षेण द्विगुणीकृतविक्रमः।
अमृतानयनार्थं वै चकार मतिमान्मतिम् ॥३४॥
अयोजालानि निर्मथ्य भित्वा रत्नमयं गृहम्।
महेन्द्र भवनाद्गुप्तमाजहारामृतं ततः ॥३५॥
तं महर्षिगणैर्जुष्टं सुवर्णकृतलक्षणम्।
नाम्ना सुभद्रं न्यग्रोधं ददर्श धनदानुजः ॥३६॥
तं तु गत्वा परं पारं समुद्रस्य नदीपतेः।
ददर्शाश्रममेकान्ते रम्ये पुण्ये वनान्तरे ॥३७॥
तत्र कृष्णाजिनधरं जटावल्कलधारिणम्।
ददर्श नियताहारं मारीचं नाम राक्षसम् ॥३८॥
स रावणस्समागम्य विधिवत्तेन रक्षसा।
मारीचेनार्चितो राजा सर्वकामैरमानुषैः ॥३९॥
तं स्वयं पूजयित्वा च भोजनेनोदकेन च।
अर्थोपहितया वाचा मारीचो वाक्यमब्रवीत् ॥४०॥
“कञ्चित्सुकुशलं राजन्! लङ्कायां राक्षसेश्वर!।
केनार्थेन पुनस्त्वं वै तूर्णमेव मिहाऽऽगतः ॥४१॥”
एवमुक्तो महातेजा मारीचेन स रावणः।
ततः पश्चादिदं वाक्यमब्रवीद्वाक्यकोविदः ॥४२॥
इति श्रीमदारण्यकाण्डे पञ्चत्रिंशस्सर्गः ॥
—————
॥षट्त्रिंशस्सर्गः॥
“मारीच! श्रूयतां तात! वचनं मम भाषतः।
आर्तोऽस्मि मम चार्तस्य भवान्हि परमा गतिः ॥१॥
जानीषे त्वं जनस्थाने यथा भ्राता खरो मम।
दूषणञ्च महाबाहुस्स्वसा शूर्पणखा च मे ॥२॥
त्रिशिराश्च महातेजा राक्षसः पिशिताशनः।
अन्ये च बहवश्शूरा लब्धलक्षा निशाचराः ॥३॥
वसन्ति मन्नियोगेन नित्यवासं च राक्षसाः।
बाधमाना महारण्ये मुनीन्वै धर्मचारिणः ॥४॥
चतुर्दश सहस्राणि रक्षसां भीमकर्मणाम्।
शूराणां लब्धलक्षाणां खरचित्तानुवर्तिनाम् ॥५॥
ते त्विदानीं जनस्थाने वसमाना महाबलाः।
सङ्गताः परमायत्ता रामेण सह संयुगे ॥६॥
नानाप्रहरणोपेताः खरप्रमुखराक्षसाः।
तेन संजातरोषेण रामेण रणमूर्धनि ॥७॥
अनुक्त्वा परुषं किञ्चिच्छरैर्व्यापारितं धनुः।
चतुर्दश सहस्राणि रक्षसामुग्रतेजसाम् ॥८॥
निहतानि शरैस्तीक्ष्णैर्मानुषेण पदातिना।
खरश्च निहतस्संख्ये दूषणश्च निपातितः ॥९॥
हतश्चत्रिशिराश्चापि निर्भया दण्डकाः कृताः।
पित्रा निरस्तां क्रुद्धेन सभार्यः क्षीणजीवितः ॥१०॥
स हन्ता तस्य सैन्यस्य रामः क्षत्रियपांसनः।
दुश्शीलः कर्कशस्तीक्ष्णो मूर्खो लुब्धोऽजितेन्द्रियः ॥११॥
त्यक्तधर्मो ह्यधर्मात्मा भूतानामहिते रतः।
येन वैरं विनाऽरण्ये सत्त्वमाश्रित्य केवलम् ॥१२॥
कर्णनासापहरणाद्भगिनी मे विरूपिता।
तस्य भार्या जनस्थानात्सीतां सुरसुतोपमाम् ॥१३॥
आनयिष्यामि विक्रम्य सहायस्तत्र मे भव।
त्वया ह्यहं सहायेन पार्श्वस्थेन महाबल! ॥१४॥
भ्रातृभिश्च सुरान्युद्धे समग्रान्नाभिचिन्तये।
तत्सहायो भव त्वं मे समर्थोह्यसिराक्षस! ॥१५॥
वीर्ये युद्धे च दर्पे च न ह्यस्ति सदृशस्तव।
उपायज्ञो महान् शूरस्सर्वमायाविशारदः ॥१६॥
एतदर्थमहं प्राप्तस्त्वत्समीपं निशाचर!।
शृणु तत्कर्मसाहाय्ये यत्कार्यं वचनान्मम ॥१७॥
सौवर्णस्त्वं मृगो भूत्वा चित्रो रजतबिन्दुभिः।
आश्रमे तस्य रामस्य सीतायाः प्रमुखे चर ॥१८॥
त्वां तु निस्संशयं सीता दृष्ट्वा तु मृगरूपिणम्।
‘गृह्यता’मिति भर्तारं लक्ष्मणं चाभिधास्यति ॥१९॥
ततस्तयोरपाये तु शून्ये सीतां यथासुखम्।
निराबाधो हरिष्यामि राहुश्चन्द्रप्रभामिव ॥२०॥
ततः पश्चात्सुखं रामे भार्याहरणकर्शिते।
विस्रब्धः प्रहरिष्यामि कृतार्थेनान्तरात्मना ॥२१॥”
तस्य रामकथां श्रुत्वा मारीचस्य महात्मनः।
शुष्कं समभवद्वक्रं परित्रस्तो बभूव ह ॥२२॥
ओष्ठौ परिलिहञ्छुष्कौ नेत्रैरनिमिषैरिव।
मृतभूत इवार्तस्तु रावणं समुदैक्षत ॥२३॥
स रावणं त्रस्तविषण्णचेता महावने रामपराक्रमज्ञः।
कृताञ्जलिस्तत्त्वमुवाच वाक्यं हितं च तस्मै हितमात्मनश्च॥२४॥
इति श्रीमदारण्यकाण्डे षट्त्रिंशस्सर्गः॥
—————
॥सप्तत्रिंशस्सर्गः॥
तच्छ्रुत्वा राक्षसेन्द्रस्य वाक्यं वाक्यविशारदः।
प्रत्युवाच महाप्राज्ञो मारीचो राक्षसेश्वरम् ॥१॥
सुलभाः पुरुषा राजं ! त्सतंतं प्रियवादिनः।
अप्रियस्य तु पथ्यस्य वक्ता श्रोता च दुर्लभः ॥२॥
न नूनं बुध्यसे रामं महावीर्यं गुणोन्नतम्।
अयुक्तचारश्चपलो महेन्द्रवरुणोपमम् ॥३॥
अपि स्वस्ति भवेत्तात ! सर्वेषां भुवि रक्षसाम्।
अपि रामो न संक्रुद्धः कुर्याल्लोकमराक्षसम् ॥४॥
अपि ते जीवितान्ताय नोत्पन्ना जनकात्मजा।
अपि सीतानिमित्तं च न भवेद्व्यसनं मम ॥५॥
अपि त्वामीश्वरं प्राप्य कामवृत्तं निरङ्कुशम्।
न विनश्येत्पुरी लङ्का त्वया सह सराक्षसा ॥६॥
त्वद्विधः कामवृत्तो हि दुश्शीलः पापमन्त्रितः।
आत्मानं स्वजनं राष्ट्र स राजा हन्ति दुर्मतिः ॥७॥
न च पित्रा परित्यक्तो नामर्यादः कथंचन।
न लुब्धो न च दुश्शीलो न च क्षत्रियपांसनः ॥८॥
न च धर्मगुणैर्हीनः कौसल्यानन्दवर्धनः।
न तीक्ष्णो न च भूतानां सर्वेषामहिते रतः ॥९॥
‘वश्चितं पितरं’दृष्ट्वा कैकेय्या ‘सत्यवादिनम्।
करिष्या’मीति धर्मात्मा तात! प्रव्राजितो वनम् ॥१०॥
कैकेय्याः प्रियकामार्थं पितुर्दशरथस्य च।
हित्वा राज्यं च भोगांश्च प्रविष्टो दण्डकावनम् ॥११॥
न रामः कर्कशस्तात! नाविद्वान्नाजितेन्द्रियः।
अनृतं दुश्श्रुतं चैव नैवं त्वं वक्तुमर्हसि ॥१२॥
रामो विग्रहवान्धर्मस्साधुस्सत्यपराक्रमः।
राजा सर्वस्य लोकस्य देवानां मघवानिव ॥१३॥
कथं त्वं तस्य वैदेहीं रक्षितां स्वेन तेजसा।
इच्छसि प्रसभं हर्तुं प्रभामिवविवस्वतः ॥१४॥
शरार्चिषमनाधृष्यं चापखड्गेन्धनं रणे।
रामाग्निं सहसा दीप्तं न प्रवेष्टुं त्वमर्हसि ॥१५॥
धनुर्व्यादितदीप्तास्यं शरार्चिषममर्षणम्।
चापपाशधरं वीरं शत्रुसैन्यप्रहारिणम् ॥१६॥
राज्यं सुखं च संत्यज्य जीवितं चेष्टमात्मनः।
नात्यासादयितुं तात! रामान्तकमिहार्हसि ॥१७॥
अप्रमेयं हि तत्तेजो यस्य सा जनकात्मजा।
न त्वं समर्थस्तां हर्तुं रामचापाश्रयां वने ॥१८॥
तस्य सा नरसिंहस्य सिंहोरस्कस्य भामिनी।
प्राणेभ्योऽपि प्रियतरा भार्या नित्यमनुव्रता ॥१९॥
न सा धर्षयितुं शक्या मैथिल्यौजस्विनः प्रिया।
दीप्तस्येव हुताशस्य शिखा सीता सुमध्यमा ॥२०॥
किमुद्यममिमं व्यर्थं कृत्वा ते राक्षसाधिप!।
दृष्टश्चेत्त्वंरणे तेन तदन्तं तव जीवितम् ॥२१॥
जीवितञ्चसुखं चैव राज्यं चैव सुदुर्लभम्।
यदीच्छसि चिरं भो
क्तं माकृथा रामविप्रियम् ॥२२॥
स सर्वेस्सचिवैस्सार्थंविभीषणपुरोगमैः।
मन्त्रयित्वा तु धर्मिष्ठैः कृत्वा निश्चयमात्मनः ॥२३॥
दोषाणां च गुणानां च संप्रधार्यबलाबलम्।
आत्मनश्च बलं ज्ञात्वा राघवस्य च तत्त्वतः ॥२४॥
हिताहितं विनिश्चित्य क्षमं त्वं कर्तुमर्हसि।
अहं तु मन्ये तव न क्षमं रणे समागमं कोसलराजसूनुना ॥२५॥
इदं हि भूयशशृणु वाक्यमुत्तमं क्षमं च युक्तं च निशाचरेश्वर! ॥
इति श्रीमदारण्यकाण्डे सप्तत्रिंशस्सर्गः ॥
—————
॥अष्टत्रिंशस्सर्गः॥
कदाचिदप्यहं वीर्यात्पर्यटन्पृथिवीमिमाम्।
बलं नागसहस्रस्य धारयन्पर्वतोपमः ॥१॥
नीलजीमूतसंकाशस्तप्तकाञ्चनकुण्डलः।
भय लोकस्य जनयन्किरीटी परिघायुधः ॥२॥
व्यचरं दण्डकारण्ये ऋषिमांसानि भक्षयन्।
विश्वामित्रोऽथ धर्मात्मा मद्वित्रस्तो महामुनिः ॥३॥
स्वयं गत्वा दशरथं नरेन्द्रमिदमब्रवीत्।
अद्य रक्षतु मां रामः पर्वकाले समाहितः ॥४॥
मारीचान्मे भयं घोरं समुत्पन्नं नरेश्वर!।
इत्येवमुक्तो धर्मात्मा राजा दशरथस्तथा ॥५॥
प्रत्युवाच महाभागं विश्वामित्रं महामुनिम्।
“बालो द्वादशवर्षोऽयमकृतास्त्रश्च राघवः ॥६॥
कामन्तु मम यत्सैन्यं मया सह गमिष्यति।
बलेन चतुरङ्गेण खयमेत्य निशाचरान् ॥७॥
वधिष्यामि मुनिश्रेष्ठ! शत्रूंस्ते मनसेप्सितान्।”
इत्येवमुक्तस्स मुनी राजानमिदमब्रवीत् ॥८॥
“रामान्नान्यद्बलं लोके पर्याप्तं तस्य रक्षसः।
देवतानामपि भवांत्समरेष्वभिपालकः ॥९॥
आसीत्तवकृतं कर्म त्रिलोके विदितं नृप!।
काममस्तु महत्सैन्यं तिष्ठत्विह परन्तप! ॥१०॥
बालोऽप्येष महातेजास्समर्थस्तस्य निग्रहे।
गमिष्येराममादाय स्वस्ति तेऽस्तु परन्तप! ॥११॥
एवमुक्त्वा तु स मुनिस्तमादाय नृपात्मजम्।
जगाम परमप्रीतो विश्वामित्रस्स्वमाश्रमम् ॥१२॥
तं तदा दण्डकारण्ये यज्ञमुद्दिश्य दीक्षितम्।
बभूवोपस्थितो रामश्चित्रं विष्फारयन्धनुः ॥१३॥
अजातव्यञ्जनश्श्रीमान् पद्मपत्रनिभेक्षणः।
एकवस्त्रधरो धन्वी शिखी कनकमालया ॥१४॥
शोभयन्दण्डकारण्यं दीप्तेन स्वेन तेजसा।
अदृश्यत ततो रामो बालचन्द्र इवोदितः ॥१५॥
ततोऽहं मेघसङ्काशस्तप्तकाञ्चनकुण्डलः।
बली दत्तवरो दर्पादाजगाम तदाश्रमम् ॥१६॥
तेन दृष्टः प्रविष्टोऽहं सहसैवोद्यतायुधः।
मां तु दृष्ट्वा धनुस्सज्यमसंभ्रान्तश्चकार सः ॥१७॥
अवजानन्नहं मोहा ‘द्वालोऽय ’ मिति राघवम्।
विश्वामित्रस्य तां वेदिमभ्यधावं कृतत्वरः ॥१८॥
तेन मुक्तस्ततो बाणश्शितश्शत्रुनिबर्हणः।
तेनाहं त्वाहतः क्षिप्तस्समुद्रे शतयोजने ॥१९॥
नेच्छता तात! मां हन्तुं तदा वीरेण रक्षितः।
रामस्य शरवेगेन निरस्तोऽहमचेतनः ॥२०॥
पातितोऽहं तदा तेन गम्भीरे सागराम्भसि।
प्राप्य संज्ञां चिरं तात! लङ्कां प्रतिगतः पुरीम् ॥२१॥
एवमस्मि तदा मुक्तस्सहायास्तु निपातिताः।
अकृतास्त्रेण बालेन रामेणाक्लिष्टकर्मणा ॥२२॥
तन्मया वार्यमाणस्त्वं यदि रामेण विग्रहम्।
करिष्यस्यापदं घोरां क्षिप्रं प्राप्स्यसि रावण! ॥२३॥
क्रीडारतिविधिज्ञानां समाजोत्सवशालिनाम्।
रक्षसां चैव संतापमनर्थं चाहरिष्यसि ॥२४॥
हर्म्यप्रासादसम्बाधां नानारत्नाविभूषिताम्।
द्रक्ष्यसि त्वं पुरीं लङ्कां विनष्टां मैथलीकृते ॥२५॥
अकुर्वन्तोऽपि पापानि शुचयः पापसंश्रयात्।
परपापैर्विनश्यन्ति मत्स्या नागह्रदे यथा ॥२६॥
दिव्यचन्दनदिग्धाङ्गान्दिव्याभरणभूषितान्।
द्रक्ष्यस्यभिहतान्भूमौ तव दोषात्तु राक्षसान् ॥२७॥
हृतदारांत्सदारांश्च दश विद्रवतो दिशः।
हतशेषानशरणान्द्रक्ष्यसि त्वं निशाचरान् ॥२८॥
शरजालपरिक्षिप्तामग्निज्वालासमावृताम्।
प्रदग्धभवनां लङ्कां द्रक्ष्यसि त्वं न संशयः ॥२९॥
परदाराभिमर्शात्तु नान्यत्पापतरं महत्।
प्रमदानां सहस्राणि तव राज! न्परिग्रहः ॥३०॥
भव स्वदारनिरतस्स्वकुलं रक्ष राक्षस!।
मानमृद्धिं च राज्यं च जीवितं चेष्टमात्मनः ॥३१॥
कलत्राणि च सौम्यानि मित्रवर्गं तथैव च।
यदीच्छसि चिरं भोक्तुं माकृथा रामविप्रियम् ॥३२॥
निवार्यमाणस्सुहृदा मया भृशं प्रसह्य सीतां यदि धर्षयिष्यसि।
गमिष्यसि क्षीणबलस्सबान्धवो यमक्षयं रामशरात्तजीवितः ॥”
इति श्रीमदारण्यकाण्डे अष्टत्रिंशस्सर्गः ॥
—————
॥एकोनचत्वारिंशस्सर्गः॥
“एवमस्मि तदा मुक्तः कथंचित्तेन संयुगे।
इदानीमपि यद्वृत्तं तच्छृणुष्व निरुत्तरम् ॥१॥
राक्षसाभ्यामहं द्वाभ्यामनिर्विण्णस्तथाकृतः।
सहितो मृगरूपाभ्यां प्रविष्टो दण्डकावनम् ॥२॥
दीप्तजिह्वो महाकायस्तीक्ष्णदंष्ट्रो महाबलः।
व्यचरं दण्डकारण्यं मांसभक्षो महामृगः ॥३॥
अग्निहोत्रेषु तीर्थेषु चैत्यवृक्षेषु रावण!।
अत्यन्तघोरो व्यचरं तापसांत्संप्रधर्षयन् ॥४॥
निहत्य दण्डकारण्ये तापसान्धर्मचारिणः।
रुधिराणि पिबंस्तेषां तथा मांसानि भक्षयन् ॥५॥
ऋषिमांसाशनः क्रूरत्रासयन्वनगोचरान्।
तथा रुधिरमत्तोऽहं विचरन् धर्मदूषकः ॥६॥
आसादयं तदा रामं तापसं धर्मचारिणम्।
वैदेहीं च महाभागां लक्ष्मणं च महारथम् ॥७॥
तापसं नियताहारं सर्वभूतहिते रतम्।
सोऽहं वनगतं रामं परिभूय महाबलम् ॥८॥
‘तापसोऽय’ मिति ज्ञात्वा पूर्ववैरमनुस्मरन्।
अभ्यधावं हि संक्रुद्धस्तीक्ष्णशृङ्गो मृगाकृतिः ॥९॥
जिघांसुरकृतप्रज्ञस्तं प्रहारमनुस्मरन्।
तेन मुक्तास्त्रयो बाणाश्शिताश्शत्रुनिबर्हणाः ॥१०॥
विकृष्य बलवच्चापं सुपर्णानिलनिस्वनाः।
ते बाणा वज्रसङ्काशास्सुमुक्ता रक्तभोजनाः ॥११॥
आजग्मुस्सहितास्सर्वे त्रयस्सन्नतपर्वणः।
पराक्रमज्ञो रामस्य शरो दृष्टभयः पुरा ॥१२॥
समुद्रान्तस्ततो मुक्तस्तावुभौ राक्षसौ हतौ।
शरेण मुक्तो रामस्य कथंचित्प्राप्य जीवितम् ॥१३॥
इह प्रव्राजितो युक्तस्तापसोऽहं समाहितः।
वृक्षे वृक्षे च पश्यामि चीरकृष्णाजिनाम्बरम् ॥१४॥
गृहीतधनुषं रामं पाशहस्तमिवान्तकम्।
अपि रामसहस्राणि भीतः पश्यामि रावण! ॥१५॥
रामभूतमिदं सर्वमरण्यं प्रतिभाति मे।
राममेव हि पश्यामि राहते राक्षसाधिप! ॥१६॥
दृष्ट्वा स्वप्नगतं राममुद्भ्रमामि विचेतनः।
रकारादीनि नामानि रामत्रस्तस्य रावण! ॥१७॥
रत्नानि च रथाश्चैव त्रासं सञ्जनयन्ति मे।
अहं तस्य प्रभावज्ञो न युद्धं तेन ते क्षमम् ॥१८॥
बलिं वा नमुचिं वापि हन्याद्धि रघुनन्दनः।
रणे रामेण युध्यस्व क्षमां वा कुरु राक्षस! ॥१९॥
न ते रामकथा कार्या यदि मां द्रष्टुमिच्छसि।
बहवस्साधवो लोके युक्ता धर्ममनुष्ठिताः ॥२०॥
परेषामपराधेन विनष्टास्सपरिच्छदाः।
सोऽहं तवापराधेन विनश्येयं निशाचर! ॥२१॥
कुरु यत्ते क्षमं तत्त्वमहं त्वा नानुयामि ह।
रामश्च हि महातेजा महासत्त्वो महाबलः ॥२२॥
अपि राक्षसलोकस्य न भवेदन्तकोऽपि सः।
यदि शूर्पणखाहेतोर्जनस्थानगतः खरः॥२३॥
अतिवृत्तो हतः पूर्व रामेणाक्लिष्टकर्मणा।
अत्र ब्रूहि यथातत्त्वं को रामस्य व्यतिक्रमः ॥२४॥
इदं वचो बन्धुहितार्थिना मया यथोच्यमानं यदि नाभिपत्स्य से।
सबान्धवस्त्यक्ष्यसि जीवितं रणे हतोऽद्य रामेण शरैरजिह्मगैः ॥”
इति श्रीमदारण्यकाण्डे एकोनचत्वारिंशस्सर्गः ॥
—————
॥चत्वारिंशस्सर्गः॥
मारीचेन तु तद्वाक्यं क्षमं युक्तं निशाचरः।
उक्तो न प्रतिजग्राह मर्तुकाम इवौषधम् ॥१॥
तं पथ्यहितवक्तारं मारीचं राक्षसाधिपः।
अब्रवीत्परुषं वाक्यमयुक्तं कालचोदितः ॥२॥
“यत्किलैतदयुक्तार्थं मारीच! मयि कथ्यते।
वाक्यं निष्फलमत्यर्थमुप्तं बीजमिवोषरे ॥३॥
त्वद्वाक्यैर्नतुमां शक्यं भेत्तुं रामस्य संयुगे।
पापशीलस्य मूर्खस्य मानुषस्य विशेषतः ॥४॥
यस्त्यक्त्वा सुहृदो राज्यं मातरं पितरं तथा।
स्त्रीवाक्यं प्राकृतं श्रुत्वा वनमेकपदे गतः ॥५॥
अवश्यन्तु मया तस्य संयुगे खरघातिनः।
प्राणैः प्रियतरा सीता हर्तव्या तव सन्निधौ ॥६॥
एवं मे निश्चिता बुद्धिर्हृदि मारीच ! वर्तते।
न व्यावर्तयितुं शक्या सेन्द्रैरपि सुरासुरैः ॥७॥
दोषं गुणं वा संस्पृष्टस्त्वमेकं वक्तुमर्हसि।
अपायं वाप्युपायं वा कार्यस्यास्य विनिश्चये ॥८॥
संपृष्टेन तु वक्तव्यं सचिवेन विपश्चिता।
उद्यताञ्जलिना राज्ञे य इच्छेद्भूतिमात्मनः ॥९॥
वाक्यमप्रतिकूलं तु मृदुपूर्वं शुभं हितम्।
उपचारेण युक्तं च वक्तव्यो वसुधाधिपः ॥१०॥
सावमर्दं तु यद्वाक्यं मारीच! हितमुच्यते।
नाभिनन्दति तद्राजा मानार्हो मानवर्जितम् ॥११॥
पञ्च रूपाणि राजानो धारयन्त्यमितौजसः।
अग्नेरिन्द्रस्य सोमस्य वरुणस्य यमस्य च ॥१२॥
औष्ण्यं तथा विक्रमं च सौम्यं दण्डं प्रसन्नताम्।
धारयन्ति महात्मानो राजानः क्षणदाचर! ॥१३॥
तस्मात्सर्वास्ववस्थासु मान्याः पूज्याश्च पार्थिवाः।
त्वं धर्ममविज्ञाय केवलं मोहमास्थितः ॥१४॥
अभ्यागतं मां दौरात्म्यात्परुषं वक्तुमिच्छसि।
गुणदोषौ न पृच्छामि क्षमं चात्मनि राक्षस! ॥१५॥
मयोक्तं तव चैतावत्संप्रत्यमितविक्रम।
अस्मिंस्तु त्वं महाकृत्ये साहाय्यं कर्तुमर्हसि ॥१६॥
शृणु तत्कर्म साहाय्ये यत्कार्यं वचनान्मम।
सौवर्णस्त्वं मृगो भूत्वा चित्रो रजतबिन्दुभिः ॥१७॥
आश्रमे तस्य रामस्य सीतायाः प्रमुखे चर।
प्रलोभयित्वा वैदेहीं यथेष्टं गन्तुमर्हसि ॥१८॥
त्वां तु मायामृगं दृष्ट्वा काञ्चनं जातविस्मया।
‘आनयैन’मिति क्षिप्रं रामं वक्ष्यति मैथिली।
अपक्रान्ते तु काकुत्स्थे दूरं यात्वाप्युदाहर ॥१९॥
हा सीते! लक्ष्मणेत्येवं रामवाक्यानुरूपकम्।
तच्छ्रुत्वा रामपदवीं सीतया च प्रचोदितः ॥२०॥
अनुगच्छति संभ्रान्तः सौमित्रिरपि सौहृदात्।
अपक्रान्ते च काकुत्स्थे लक्ष्मणे च यथासुखम् ॥२१॥
आनयिष्यामि वैदेहीं सहस्राक्षश्शचीमिव।
एवं कृत्वात्विदं कार्यं यथेष्टं गच्छ राक्षस! ॥२२॥
राज्यस्यार्धं प्रयच्छामि मारीच! तव सुव्रत!।
गच्छ सौम्य! शिवं मार्गं कार्यस्यास्य विवृद्धये ॥२३॥
अहं त्वाऽनुगमिष्यामि सरथो दण्डकावनम्।
प्राप्य सीतामयुद्धेन वञ्चयित्वा तु राघवम् ॥२४॥
लङ्कां प्रतिगमिष्यामि कृतकार्यस्सह त्वया।
न चेत्करोषि मारीच! हन्मि त्वामहमद्य वै ॥२५॥
एतत्कार्त्यमवश्यं मे बलादपि करिष्यसि।
राज्ञो हि प्रतिकूलस्थो न जातु सुखमेधते ॥२६॥
आसाद्य तं जीवित संशयस्ते मृत्युर्ध्रुवो ह्यद्य मया विरुध्य।
एतद्यथावत्प्रतिगृह्य बुद्ध्या यदत्र कृत्यं कुरु तत्तथा त्वम् ॥२७॥
इति श्रीमदारण्यकाण्डे चत्वारिंशस्सर्गः ॥
—————
॥एकचत्वारिंशस्सर्गः॥
आज्ञप्तो राजवद्वाक्यं प्रतिकूलं निशाचर
अब्रवीत्परुषं वाक्यं मारीचो राक्षसाधिपम् ॥१॥
“केनायमुपदिष्टस्ते विनाशः पापकर्मणा।
सपुत्रत्य सराष्ट्रस्य सामात्यस्य निशाचर! ॥२॥
कस्त्वया सुखिना राज! न्नाभिनन्दति पापकृत्।
केनेदमुपदिष्टं ते मृत्युद्वारमुपागतः ॥३॥
शत्रवस्तव सुव्यक्तं हीनवीर्या निशाचराः।
इच्छन्ति त्वां विनश्यन्तमुपरुद्धं बलीयसा ॥४॥
केनेदमुपदिष्टं ते क्षुद्रेणाहितवादिना।
यस्त्वामिच्छति नश्यन्तं स्वकृतेन निशाचर! ॥५॥
बध्याः खलु न हन्यन्ते सचिवास्तव रावण!।
ये त्वामुत्पथमारूढं न निगृह्णतिसर्वशः ॥६॥
अमात्यैः कामवृत्तो हि राजा कापथमाश्रितः।
निग्राह्यस्सर्वथा सद्भिर्न निग्राह्यो निगृह्यसे ॥७॥
धर्ममर्थं च कामं च यशश्चजयतां वर!।
स्वामिप्रसादात्सचिवाः प्राप्नुवन्ति निशाचर! ॥८॥
विपर्यये तु तत्सर्वं व्यर्थं भवति रावण!।
व्यसनं स्वामिवैगुण्यात्प्राप्नुवन्तीतरे जनाः ॥९॥
राजमूलो हि धर्मश्च जयश्च जयतां वर!।
तस्मात्सर्वास्ववस्थासु रक्षितव्या नराधिपाः ॥१०॥
राज्यं पालयितुं शक्यं न तीक्ष्णेन निशाचर!।
न चापि प्रतिकूलेन नाविनीतेन राक्षस! ॥११॥
ये तीक्ष्णमन्त्रास्सचिवा भज्यन्ते सहतेन वै।
विषमे तुरगाश्शीघ्रा मन्दसारथयो यथा ॥१२॥
बहवस्साधवो लोके युक्ता धर्ममनुष्ठिताः।
परेषामपराधेन विनष्टास्सपरिच्छदाः ॥१३॥
स्वामिना प्रतिकूलेन प्रजास्तीक्ष्णेण रावण!।
रक्ष्यमाणा न वर्धन्ते मेषा गोमायुना यथा ॥१४॥
अवश्य विनशिष्यन्ति सर्वे रावण! राक्षसाः।
येषां त्वं कर्कशो राजा दुर्बुद्धिरजितेन्द्रियः ॥१५॥
तदिदं काकतालीयं घोरमासादितं मया।
अत्रैव शोचनीयस्त्वं ससैन्यो विनशिष्यसि ॥१६॥
मां निहत्य तु रामश्च न चिरात्त्वांवधिष्यति।
अनेन कृतकृत्योऽस्मि म्रिये यदरिणा हतः ॥१७॥
दर्शनादेव रामस्य हृतं मामवधारय।
आत्मानं च हतं विद्धि हृत्वा सीतां सबान्धवम् ॥१८॥
आनायिष्यसिचेत्सीतामाश्रमात्सहितो मया।
नैव त्वमसि नाहं च नैव लङ्का न राक्षसाः ॥१९॥
निवार्यमाणस्तु मया हितैषिणा न मृष्यसे वाक्यमिदं निशाचर!।
परेतकल्पा हि गतायुषो नरा हितं न गृह्णन्ति सुहृद्भिरीरितम् ॥
इति श्रीमदारण्यकाण्डे एकचत्वारिंशस्सर्गः ॥
—————
॥द्विचत्वारिंशस्सर्गः॥
एवमुक्त्वा तु वचनं मारीचो रावणं ततः।
‘गच्छा’वेत्यब्रवीद्दीनो भयाद्रात्रिंचरप्रभोः ॥१॥
“दृष्टश्चाहं पुनस्तेन शरचापासिधारिणा।
मद्वधोद्यतशस्त्रेण विनष्टं जीवितं च मे ॥२॥
न हि रामं पराक्रम्य जीवन्प्रतिनिवर्तते।
वर्तते प्रतिरूपोऽसौ यमदण्डहतस्य ते ॥३॥
किं नु शक्यं मया कर्तुमेवं त्वयि दुरात्मनि।
एष गच्छाम्यहं तात! स्वस्ति तेऽस्तु निशाचर! ॥४॥
प्रहृष्टस्त्वभवत्तेन वचनेन स रावणः।
परिष्वज्य सुसंश्लिष्टमिदं वचनमब्रवीत् ॥५॥
“एतच्छौण्डीर्ययुक्तं ते मच्छन्दादिव भाषितम्।
इदानीमसि मारीचः पूर्वमन्यो निशाचरः ॥६॥
आरुह्यतामयं शीघ्रं रथो रत्नविभूषितः।
मया सह तथा युक्तः पिशाचवदनैः खरैः ॥७॥
प्रलोभयित्वा वैदेहीं यथेष्टं गन्तुमर्हसि।
तां शून्ये प्रसभं सीतामानयिष्यामि मैथिलीम् ॥८॥”
ततो रावणमारीचौ विमानमिव तं रथम्।
आरुह्य ययतुश्शीघ्रं तस्मादाश्रममण्डलात् ॥९॥
तथैव तत्र पश्यन्तौ पत्तनानि वनानि च।
गिरींश्च सरितस्सर्वा राष्ट्राणि नगराणि च ॥१०॥
समेत्य दण्डकारण्यं राघवस्याश्रमं ततः।
ददर्श सहमारीचो रावणो राक्षसाधिपः ॥११॥
अवतीर्य रथात्तस्मात्ततः काञ्चनभूषणात्।
हस्ते गृहीत्वा मारीचं रावणो वाक्यमब्रवीत् ॥१२॥
“एतद्रामाश्रमपदं दृश्यते कदलीवृतम्।
क्रियतां तत्सखे शीघ्रं यदर्थं वयमागताः ॥१३॥”
स रावणवचरश्श्रुत्वा मारीचो राक्षसस्तदा।
मृगो भूत्वाऽऽश्रमद्वारि रामस्य विचचार ह ॥१४॥
स तु रूपं समास्थाय महदद्भुतदर्शनम्।
मणिप्रवरशृङ्गाग्रस्सितासितमुखाकृतिः ॥१५॥
रक्तपद्मोत्पलमुखः इन्द्रनीलोत्पलश्रवाः।
किंचिदभ्युन्नतग्रीवः इन्द्रनीलदलाधरः ॥१६॥
कुन्देन्दुवज्रसंकाशमुदरं चास्य भास्वरम्।
मधूकनिभपार्श्वश्च पद्मकिञ्जल्कसन्निभः ॥१७॥
वैडूर्यसंकाशखुरस्तनुजङ्घस्सुसंहतः।
इन्द्रायुधसवर्णेन पुच्छेनोर्ध्वं विराजता ॥१८॥
मनोहरस्निग्धवर्णो रत्नैर्नानाविधैर्वृतः।
क्षणेन राक्षसो जातो मृगः परमशोभनः ॥१९॥
वनं प्रज्वलयन् रम्यं रामाश्रमपदं च तत्।
मनोहरं दर्शनीयं रूपं कृत्वा स राक्षसः ॥२०॥
प्रलोभनार्थं वैदेह्या नानाधातुविचित्रितम्।
विचरन्गच्छते तस्माच्छाद्वलानि समन्ततः ॥२१॥
रूप्यैर्बिन्दुशतैश्चित्रो भूत्वा स प्रियदर्शनः।
विटपीनां किसलयान्भङ्क्त्वाऽदविचचार ह ॥२२॥
कदलीगृहकं गत्वा कर्णिकानिरतस्ततः।
समाश्रयन्मन्दगतिस्सीतासंदर्शनं तथा ॥२३॥
राजीवचित्रपृष्ठस्स विरराज महामृगः।
रामाश्रमपदाभ्याशे विचचार यथासुखम् ॥२४॥
पुनर्गत्वा निवृत्तश्च विचचार मृगोत्तमः।
गत्वा मुहूर्तं त्वरया पुनः प्रति निवर्तते ॥२५॥
विक्रीडंश्च क्वचिद्भूमौ पुनरेव निषीदति।
आश्रमद्वारमागम्य मृगयूथानि गच्छति ॥२६॥
मृगयूथैरनुगतः पुनरेव निवर्तते।
सीतादर्शनमाकङ्क्षन्राक्षसो मृगतां गतः ॥२७॥
परिभ्रमति चित्राणि मण्डलानि विनिष्पतन्।
समुद्रीक्ष्य च तं सर्वे मृगाह्यन्ये वनेचराः ॥२८॥
उपागम्य समाघ्राय विद्रवन्ति दिशो दश।
राक्षसस्सोऽपि तान्वन्यान्मृगान्मृगवधे रतः ॥२९॥
प्रच्छादनार्थं भावस्य न भक्षयति संस्पृशन्।
तस्मिन्नेव ततः काले वैदेही शुभलोचना ॥३०॥
कुसुमापचयव्यग्रा पादपानभ्यवर्तत।
कर्णिकारानशोकांश्च चूतांश्च मदिरेक्षणा ॥३१॥
कुसुमान्यपचिन्वन्ती चचार रुचिरानना।
अनर्हाऽरण्यवासस्य सा तं रत्नमयं मृगम् ॥३२॥
मुक्तामणिविचित्राङ्गं ददर्श परमाङ्गना।
सा तं रुचिरदन्तोष्ठी रुप्यधातुतनूरुहम् ॥३३॥
विस्मयोत्फुल्लनयना सस्नेहं समुदैक्षत।
स च तां रामदयितां पश्यन्मायामयो मृगः ॥३४॥
विचचार पुनश्चित्रं दीपयन्निव तद्वनम्।
अदृष्टपूर्वं तं दृष्ट्वा नानारत्नमयं मृगम् ॥३५॥
विस्मयं परमं सीता जगाम जनकात्मजा ॥
इति श्रीमदारण्यकाण्डे द्विचत्वारिंशस्सर्गः ॥
—————
॥त्रिचत्वारिंशस्सर्गः॥
सा तं संप्रेक्ष्य सुश्रोणी कुसुमान्यपचिन्वती।
हैमराजतवर्णाभ्यां पार्श्वाभ्यामुपशोभितम् ॥१॥
प्रहृष्टा चानवद्याङ्गी मृष्टहाटकवर्णिनी।
भर्तारमभिचक्रन्द लक्ष्मणं चापि सायुधम् ॥२॥
तयाऽऽहूतौ नरव्याघ्रौ वैदेह्या रामलक्ष्मणौ।
वीक्षमाणौ तु तं तेशं तदा ददृशतुर्मृगम् ॥३॥
शङ्कमानस्तु तं दृष्ट्वा लक्ष्मणो राममब्रवीत्।
“तमेवैनमहं मन्ये मारीचं राक्षसं मृगम् ॥४॥
चरन्तो मृगयां हृष्टाः पापेनोपाधिना वने।
अनेन निहता राजन्! राजानः कामरूपिणः ॥५॥
अस्य मायाविदो मायामृगरूपमिदं कृतम्।
भानुमत्पुरुषव्याघ्र! गन्धर्वपुरसन्निभम् ॥६॥
मृगो ह्येवंविधो रत्नविचित्रो नास्ति, राघव!।
जगत्यां जगतीनाथ! मायैषा हि न संशयः ॥”
एवं ब्रुवाणं काकुत्स्थं प्रतिवार्य शुचिस्मिता।
उवाच सीता संहृष्टा चर्मणा हृतचेतना ॥८॥
“आर्यपुत्राभिरामोऽसौ मृगो हरति मे मनः।
आनयैनं महाबाहो! क्रीडार्थं नो भविष्यति ॥९॥
इहाश्रमपदेऽस्माकं बहवः पुण्यदर्शनाः।
मृगाश्चरन्ति सहिताश्चमरास्सृमरास्तथा ॥१०॥
ऋक्षाः पृषतसंघाश्च वानराः किन्नरास्तथा।
विचरन्ति महाबाहो! रूपश्रेष्ठा मनोहराः ॥११॥
न चास्य सदृशो राज! न्दृष्टपूर्वो मृगः पुरा।
तेजसा क्षमया दीप्त्या यथाऽयं मृगसत्तमः ॥१२॥
नानावर्णविचित्राङ्गो रत्नबिन्दुसमाचितः।
द्योतयन्वनमव्यग्रं शोभते शशिसन्निभः ॥१३॥
अहो रूपमहो लक्ष्मीस्स्वरसंपञ्च शोभना।
मृगोऽद्भुतो विचित्राङ्गो हृदयं हरतीव मे ॥१४॥
यदि ग्रहणमभ्येति जीवन्नेव मृगस्तव।
आश्चर्यभूतं भवति विस्मयं जनयिष्यति ॥१५॥
समाप्तवनवासानां राज्यस्थानां च नः पुनः।
अन्तःपुरावभूषार्थो मृग एष भविष्यति ॥१६॥
भरतस्यार्यपुत्रस्य श्वश्रूणां मम च प्रभो!।
मृगरूपमिदं व्यक्तं विस्मयं जनयिष्यति ॥१७॥
जीवन्न यदि तेऽभ्येति ग्रहणं मृगसत्तमः।
अजिनं नरशार्दूल! रुचिरं मे भविष्यति ॥१८॥
विहतस्यास्य सत्त्वस्य जाम्बूनदमयत्वचि।
शष्पबृस्यां विनीतायामिच्छाम्यहमुपासितुम् ॥१९॥
कामवृत्तमिदं रौद्रं स्त्रीणामसदृशं मतम्।
वपुषा त्वस्य सत्त्वस्य विस्मयो जनितो मम ॥२०॥
तेन काञ्चनरूपेण मणिप्रवरशृङ्गिणा।
तरुणादित्यवर्णेन नक्षत्रपथवर्चसा ॥२१॥
बभूव राघवस्यापि मनो विस्मयमागतम्।
“एवं सीतावचश्श्रुत्वा तं दृष्ट्वा मृगमद्भुतम् ॥२२॥
लोभितस्तेन रूपेण सीतया च प्रचोदितः।
उवाच राघवो हृष्टो भ्रातरं लक्ष्मणं वचः ॥२३॥
“पश्य लक्ष्मण! वैदेह्याः स्पृहां मृगगतामिमाम्।
रूपश्रेष्ठतया ह्येष मृगोऽद्य न भविष्यति ॥२४॥
न वने नन्दनोद्देशे न चैत्ररथसंश्रये।
कुतः पृथिव्यां सौमित्रे ! योऽस्य कश्चित्समो मृगः ॥२५॥
प्रतिलोमानुलोमाञ्च रुचिरा रोमराजयः
शोभन्ते मृगमाश्रित्य चित्राः कनकबिन्दवः ॥२६॥
पश्यास्य जृम्भमाणस्य दीप्तामग्निशिखोपमाम्।
जिह्वां मुखान्निस्सरन्तीं मेघादिव शतह्रदाम् ॥२७॥
मसारगल्लर्कमुखश्शङ्खमुक्तानिभोदरः।
कस्य नामाभिरूपोऽसौ न मनो लोभयेन्मृगः ॥२८॥
कस्य रूपमिदं दृष्ट्वा जाम्बूनदमयं प्रभो!।
नानारत्नमयं दिव्यं न मनो विस्मयं व्रजेत् ॥१९॥
[कि पुनर्मैथिली सीता बाला नारी न विस्मयेत्]।
मांसहेतोरपि मृगान्विनोदार्थं च धन्विनः ॥२०॥
घ्नन्ति लक्ष्मण! राजानो मृगयायां महावने।
धनानि व्यवसायेन विचीयन्ते महावने ॥३१॥
धातवो विविधाश्चापि मणिरत्नसुवर्णिनः।
तत्सारमखिलं नॄणां धनं निचयवर्धनम् ॥३२॥
मनसा चिन्तितं सर्वं यथा शुक्रस्य लक्ष्मण!।
अर्थी येनार्थकृत्येन संव्रजत्यविचारयन् ॥३३॥
तमर्थमर्थशास्त्रज्ञाः प्राहुरर्थाश्च लक्ष्मण!।
एतस्य मृगरत्नस्य परार्थे काञ्चनत्वचि ॥३४॥
उपवेक्ष्यति वैदेही मया सह सुमध्यमा।
न कादली न प्रियकी न प्रवेणी न चाविकी ॥३५॥
भवेदेतस्य सदृशी स्पर्शनेनेति मे मतिः।
एष चैव मृगश्श्रीमान्यश्च दिव्यो नभश्चरः ॥३६॥
उभावेतौ मृगौ दिव्यौ तारामृगमहीमृगौ।
यदि वायं तथा यन्मां भवेद्वदसि लक्ष्मण! ॥३७॥
मायैषा राक्षसस्येति कर्तव्योऽस्य वधो मया।
एतेन हि नृशंसेन मारीचेनाकृतात्मना ॥३८॥
वने विचरता पूर्वं हिंसिता मुनिपुङ्गवाः।
उत्थाय बहवो येन मृगयायां जनाधिपाः ॥३९॥
निहताः परमेष्वासास्तस्माद्वध्यस्त्वयं मृगः।
पुरस्तादिह वातापिः परिभूय तपस्विनः ॥४०॥
उदरस्थो द्विजान्हन्ति स्वगर्भोऽश्वतरीमिव।
`स कदाचिच्चिराल्लोभादाससाद महामुनिम् ॥४१॥
अगस्त्यं तेजसा युक्तं भक्षस्तस्य बभूव ह।
समुत्थाने च तद्रूपं कर्तुकामं समीक्ष्य तम् ॥४२॥
उत्स्मयित्वा तु भगवान्वातापिमिदमब्रवीत्।
“त्वयाऽविगण्य वातापे परिभूतास्स्वतेजसा ॥४३॥
जीवलोके द्विजश्रेष्ठास्तस्मादसि जरां गतः।”
तदेवं न भवेद्रक्षो वातापिरिव लक्ष्मण! ॥४४॥
मद्विधं योऽतिमन्येत धर्मनित्यं जितेन्द्रियम्।
भवेद्धतोऽयं वातापिरगस्त्येनेव मां गतः ॥४५॥
इह त्वं भव सन्नद्धो यन्त्रितो रक्ष मैथिलीम्।
अस्यामायत्तमस्माकं यत्कृत्यं रघुनन्दन ॥४६॥
अहमेनं वधिष्यामि ग्रहीष्याम्यपि वा मृगम्।
यावद्गच्छामि सौमित्रे ! मृगमानयितुं द्रुतम् ॥४७॥
पश्य लक्ष्मण! वैदेहीं मृगत्वचि गतस्पृहाम्।
त्वचा प्रधानया ह्येष मृगोऽद्य न भविष्यति ॥४८॥
अप्रमत्तेन ते भाव्यमाश्रमस्थेन सीतया।
यावत्पृषतमेकेन सायकेन निहन्म्यहम् ॥४९॥
हत्वैतच्चर्म चादाय शीघ्रमेष्यामि लक्ष्मण!।
प्रदक्षिणेनातिबलेन पक्षिणा जटायुषा बुद्धिमता च लक्ष्मण!।
भवाप्रमत्तः परिगृह्य मैथिली प्रतिक्षणं सर्वत एव शङ्कितः ॥”
इति श्रीमदारण्यकाण्डे त्रिचत्वारिंशस्सर्गः ॥
—————
॥ चतुश्चत्वारिंशस्सर्गः॥
तथा तु तं समादिश्य भ्रातरं रघुनन्दनः।
बबन्धासिं महातेजा जाम्बूनदमयत्सरुम् ॥१॥
ततस्त्र्यवनतं चापमादायात्मविभूषणम्।
आबध्य च कलापौ द्वौ जगामोदग्रविक्रमः ॥२॥
तं वञ्चयानो राजेन्द्रमापतन्तं निरीक्ष्य वै।
बभूवान्तर्हितस्त्रासात्पुनस्सन्दर्शनेऽभवत् ॥३॥
बद्धासिर्धनुरादाय प्रदुद्राव यतो मृगः।
तं स्म पश्यति रूपेण द्योतमानमिवाग्रतः ॥४॥
अवेक्ष्यावेक्ष्य धावन्तं धनुष्पाणिं महावने।
अतिवृत्तमिषोः पाताल्लोभयानं कदाचन ॥५॥
शङ्कितन्तु समुद्भ्रान्तमुत्पतन्तमिवाम्बरे।
दृश्यमानमदृश्यं च वनोद्देशेषु केषुचित् ॥६॥
छिन्नाभ्रैरिव संवीतं शारदं चन्द्रमण्डलम्।
मुहूर्तादेष दहशे मुहुर्दूरात्प्रकाशते ॥७॥
दर्शनादर्शनादेवं सोऽपाकर्षत राघवम्।
सुदूरमाश्रमस्यास्य मारीचो मृगतां गतः ॥८॥
आसीत्क्रुद्धस्तु काकुत्स्थो विवशस्तेन मोहितः।
अथावतस्थे संभ्रान्तश्छायामाश्रित्य शाद्वले ॥९॥
स तमुत्मादयामास मृगरूपो निशाचरः।
मृगैः परिवृतो वन्यैरदूरात्प्रत्यदृश्यत ॥१०॥
गृहीतुकामं दृष्ट्वैवंपुनरेवाभ्यधावत
तत्क्षणादेव संत्रासात्पुनरन्तर्हितोऽभवत् ॥११॥
पुनरेव ततो दूराद्वृक्षषण्डाद्विनिस्सृतम्।
दृष्ट्वा रामो महातेजास्तं हन्तुं कृतनिश्चयः ॥१२॥
भूयस्तु शरमुद्धृत्य कुपितस्तत्र राघवः।
सूर्यरश्मिप्रतीकाशं ज्वलन्तमरिमर्दनः ॥१३॥
संधाय सुदृढे चापे विकृष्य बलवद्बली।
तमेव मृगमुद्दिश्य श्वसन्तमिव पन्नगम् ॥१४॥
मुमोच ज्वलितं दीप्तमस्त्रं ब्रह्मविनिर्मितम्।
शरीरं मृगरूपस्य विनिर्भिद्य शरोत्तमः ॥१५॥
मारीचस्यैव हृदयं बिभेदाशनिसन्निभः।
तालमात्रमथोत्प्लुत्य न्यपतत्स शरातुरः ॥१६॥
विनदन्भैरवं नादं धरण्यामल्पजीवितः।
श्रियमाणस्तु मारीचो [जहौ तां कृत्रिमां तनुम् ॥१७॥
स्मृत्वा तद्वचनं रक्षो] दध्यौ केन तु लक्ष्मणम्।
इह प्रस्थापयेत्सीता शून्ये तां रावणो हरेत् ॥१८॥
सम्प्राप्तकालमाज्ञाय चकार च ततस्स्वरम्।
सदृशं राघवस्यैव “हासीते! लक्ष्मणेति च ॥१९॥
तेन मर्मणि निर्विद्धश्शरेणानुपमेन च।
मृगरूपं तु तत्त्यक्त्वा राक्षसं रूपमात्मनः ॥२०॥
चक्रे स सुमहाकायो मारीचो जीवितं त्यजन्।
ततो विचित्रकेयूरस्सर्वाभरणभूषितः ॥२१॥
हेममाली महादंष्ट्रो राक्षसोऽभूच्छराहतः।
तं दृष्ट्वा पतितं भूमौ राक्षसं घोरदर्शनम् ॥२२॥
रामो रुधिरसिक्ताङ्गं वेष्टमानं महीतले।
जगाम मनसा सीतां लक्ष्मणस्य वचः स्मरन् ॥२३॥
“मारीचस्येति मायैषा पूर्वोक्तं लक्ष्मणेन तु।
तत्तथा ह्यभवच्चाद्य मारीचोऽयं मया हतः ॥२४॥
हासीते ! लक्ष्मणेत्येवमाक्रुश्य तु महास्वनम्।
ममार राक्षसस्सोऽयं श्रुत्वा सीता कथं भवेत् ॥२५॥
लक्ष्मणश्च महाबाहुः कामवस्थां गमिष्यति।”
इति संचिन्त्य धर्मात्मा रामो हृष्टतनूरुहः ॥२६॥
तत्र रामं भयं तीव्रमाविवेश विषादजम्।
राक्षसं मृगरूपं तं हत्वा श्रुत्वा च तत्स्वरम् ॥२७॥
निहत्य पृषतं चान्यं मांसमादाय राघवः।
त्वरमाणो जनस्थानं ससाराभिमुखस्तदा ॥२८॥
इति श्रीमदारण्यकाण्डे चतुश्चत्वारिंशस्सर्गः ॥
—————
॥पञ्चचत्वारिंशस्सर्गः॥
आर्तस्वरं तु तं भर्तुर्विज्ञाय सदृशं वने।
उवाच लक्ष्मणं सीता गच्छ जानीहि राघवम् ॥१॥
न हि मे हृदयं स्थाने जीवितं वाऽवतिष्ठति।
क्रोशतः परमार्तस्य श्रुतश्शब्दो मया भृशम् ॥२॥
आक्रन्दमानं तु वने भ्रातरं त्रातुमर्हसि।
तं क्षिप्रमभिधाव त्वं भ्रातरं शरणैषिणम् ॥३॥
रक्षसां वशमापन्नं सिंहानामिव गोवृषम्।”
न जगाम तथोक्तस्तु भ्रातुराज्ञाय शासनम् ॥४॥
तमुवाच ततस्तत्र कुपिता जनकात्मजा।
“सौमित्रे! मित्ररूपेण भ्रातुस्त्वमसि शत्रुवत् ॥५॥
यस्त्वमस्यामवस्थायां भ्रातरं नाभिपत्स्यसे।
इच्छसि त्वं विनश्यन्तं रामं लक्ष्मण ! मत्कृते ॥६॥
लोभान्मम कृते नूनं नानुगच्छसि राघवम्।
व्यसनं ते प्रियं मन्ये स्नेहो भ्रातरि नास्ति ते ॥७॥
तेन तिष्ठसि विस्रब्धस्तमपश्यन्महाद्युतिम्।
किं हि संशयमापन्ने तस्मिन्निह मया भवेत् ॥८॥
कर्तव्यमिह तिष्ठन्त्या यत्प्रधानस्त्वमागतः।”
इति ब्रुवाणां वैदेहीं बाष्पशोकपरिप्लुताम् ॥९॥
अब्रवील्लक्ष्मणस्त्रस्तां सीतां मृगवधूमिव।
“पन्नगासुरगन्धर्वदेवमानुषराक्षसैः ॥१०॥
अशक्यस्तव वैदेहि! भर्ता जेतुं न संशयः।
देवि ! देवमनुष्येषु गन्धर्वेषु पतत्रिषु ॥११॥
राक्षसेषु पिशाचेषु किन्नरेषु मृगेषु च।
दानवेषु च घोरेषु न स विद्येत शोभने! ॥१२॥
यो रामं प्रतियुध्येत समरे वासवोपमम्।
अवध्यस्समरे रामो नैवं त्वं वक्तुमर्हसि ॥१३॥
न त्वमस्मिन्वने हातुमुत्सहे राघवं विना।
अनिवार्यं बलं तस्य बलैर्बलवतामपि ॥१४॥
त्रिभिर्लोकैस्समुद्युक्तैस्सेश्वरैरपिसामरैः।
हृदयं निर्वृतं तेऽस्तु संतापस्त्यज्यतामयम् ॥१५॥
आगमिष्यति ते भर्ता शीघ्रं हत्वा मृगोत्तमम्।
न च तस्य स्वरो व्यक्तं मायया केनचित्कृतः ॥१६॥
गन्धर्वनगरप्रख्या माया सा तस्य रक्षसः।
न्यासभूताऽसि वैदेहि! न्यस्ता मयि महात्मना ॥१७॥
रामेण त्वं वरारोहे! न त्वां त्यक्तमिहोत्सहे।
कृतवैराश्च वैदेहि! वयमेतैर्निशाचरैः ॥१८॥
खरस्य निधनादेव जनस्थानवधं प्रति।
राक्षसा विविधा वाचो विसृजन्ति महावने ॥१९॥
हिंसाविहारा वैदेहि ! न चिन्तितुमर्हसि।
लक्ष्मणेनैवमुक्ता सा क्रुद्धा संरक्तलोचना ॥२०॥
अब्रवीत्परुषं वाक्यं लक्ष्मणं सत्यवादिनम्।
“अनार्याकरुणारम्भ! नृशंस! कुलपांसन! ॥२१॥
अहं तव प्रियं मन्ये रामस्य व्यसनं महत्।
रामस्य व्यसनं दृष्ट्वा तेनैतानि प्रभाषसे ॥२२॥
नैतच्चित्रं सपत्नेषु पापं लक्ष्मण! यद्भवेत्।
त्वद्विधेषु नृशंसेषु नित्यं प्रच्छन्नचारिषु ॥२३॥
सुदुष्टस्त्वं वने राममेकमेकोऽनुगच्छसि।
मम हेतोः प्रतिच्छन्नः प्रयुक्तो भरतेन वा ॥२४॥
तन्न सिद्ध्यति सौमित्रे! तव वा भरतस्य वा।
कथमिन्दीवरश्यामं पद्मपत्रनिभेक्षणम् ॥२५॥
उपसंश्रित्य भर्तारं कामयेयं पृथग्जनम्।
समक्षं तव सौमित्रे! प्राणांस्त्यक्ष्ये न संशयः ॥२६॥
रामं विना क्षणमपि न हि जीवामि भूतले।”
इत्युक्तः परुषं वाक्यं सीतया रोमहर्षणम् ॥२७॥
अब्रवील्लक्ष्मणस्सीतां प्राञ्जलिर्विजितेन्द्रियः।
“उत्तरं नोत्सहे वक्तुं दैवतं भवती मम ॥२८॥
वाक्यमप्रतिरूपं तु न चित्रं स्त्रीषु मैथिलि !।
स्वभावस्त्वेष नारीणामेवं लोकेषु दृश्यते ॥२९॥
विमुक्तधर्माश्चपलास्तीक्ष्णा भेदकराः स्त्रियः।
न सहे हीदृशं वाक्यं वैदेहि! जनकात्मजे! ॥३०॥
श्रोत्रयोरुभयोर्मेऽद्य तप्तनाराचसन्निभम्।
उपशृण्वन्तु मे सर्वे साक्षिभूता वनेचराः ॥३१॥
न्यायवादी यथान्यायमुक्तोऽहं परुषं त्वया।
धिक्त्वामद्य प्रणश्य त्वं यन्मामेवं विशङ्कसे ॥३२॥
स्त्रीत्वं दुष्टं स्वभावेन गुरुवाक्ये व्यवस्थितम्।
गमिष्ये यत्र काकुत्स्थरस्वस्ति तेऽस्तु वरानने! ॥३३॥
रक्षन्तु त्वां विशालाक्षि! समग्रा वनदेवताः।
निमित्तानि हि घोराणि यानि प्रादुर्भवन्ति मे ॥३४॥
अपि त्वां सह रामेण पश्येयं पुनरागतः?।”
[नवेत्येतन्न जानामि वैदेहि! जनकात्मजे! ॥३५॥]
लक्ष्मणेनैवमुक्ता सा रुदन्ती जनकात्मजा।
प्रत्युवाच ततो वाक्यं तीव्रं बाष्पपरिप्लुता ॥३६॥
“गोदावरीं प्रवेक्ष्यामि विना रामेण लक्ष्मण!।
आबन्धिष्येऽथवा त्यक्ष्ये विषमे देहमात्मनः ॥३७॥
पिबाम्यहं विषं तीक्ष्णं प्रवेक्ष्यामि हुताशनम्।
न त्वहं राघवादन्यं पदापि पुरुषं स्पृशे ॥३८॥”
इति लक्ष्मणमाक्रुश्य सीता दुःखसमन्विता।
पाणिभ्यां रुदती दुःखादुदरं प्रजघान च ॥३९॥
तामार्तरूपां विमना रुदन्ती सौमित्रिरालोक्य विशालनेत्राम्।
आश्वासयामास न चैव भर्तुस्तं भ्रातरं किञ्चिदुवाच सीता ॥४०॥
ततस्तु सीतामभिवाद्य लक्ष्मणः कृताञ्जलिः किचिदभिप्रणम्य च।
अन्वीक्षमाणो बहुशश्च मैथिलीं जगाम रामस्य समीपमात्मवान् ॥
इति श्रीमदारण्यकाण्डे पञ्चचत्वारिंशस्सर्गः ॥
—————
॥षट्चत्वारिंशस्सर्गः॥
तया परुषमुक्तस्तु कुपितो राघवानुजः
स विकाङ्क्षन्भृशं रामं प्रतस्थे नचिरादिव ॥१॥
तदासाद्य दशग्रीवः क्षिप्रमन्तरमास्थितः।
अभिचक्राम वैदेहीं परिव्राजकरूपधृत् ॥२॥
श्लक्ष्णकाषायसंवीतश्शिखी च्छत्री उपानही।
वामे चांसेऽवसज्याथ शुभे यष्टिकमण्डलू ॥३॥
परिव्राजकरूपेण वैदेहीमन्वपद्यत।
तामाससादातिबलो भ्रातृभ्यां रहितां वने ॥४॥
रहितां चन्द्रसूर्याभ्यां सन्ध्यामिव महत्तमः।
तामपश्यत्ततो बालां रामपत्नीं यशस्विनीम् ॥५॥
रोहिणीं शशिना हीनां ग्रहवद्भृशदारुणः।
तमुग्रतेजःकर्माणं जनस्थानरुहा द्रुमाः ॥६॥
समीक्ष्य न प्रकम्पन्ते न प्रवाति च मारुतः।
शीघ्रस्रोताश्च तं दृष्ट्वा वीक्षन्तं रक्तलोचनम् ॥७॥
स्तिमितं गन्तुमारेभे भयाद्गोदावरी नदी।
रामस्य त्वन्तरं प्रेप्सुर्दशग्रीवस्तदन्तरे ॥८॥
उपतस्थे च वैदेहीं भिक्षुरूपेण रावणः।
अभव्यो भव्यरूपेण भर्तारमनुशोचतीम् ॥९॥
अभ्यवर्तत वैदेहीं चित्रामिव शनैश्चरः।
स पापो भव्यरूपेण तृणैः कूप इवावृतः ॥१०॥
अतिष्ठत्प्रेक्ष्य वैदेहीं रामपत्नीं यशस्विनीम्।
शुभां रुचिरदन्तोष्ठीं पूर्णचन्द्रनिभाननाम् ॥११॥
आसीनां पर्णशालायां बाष्पशोकाभिपीडिताम्।
स तां पद्मविशालाक्षीं पीतकौशेयवासिनीम् ॥१२॥
अभ्यगच्छत वैदेहीं दुष्टचेता निशाचरः।
स मन्मथशराविष्टो ब्रह्मघोषमुदीरयन् ॥१३॥
अब्रवीत्प्रशितंवाक्यं रहिते राक्षसाधिपः।
तामुत्तमां स्त्रियं लोके पद्महीनामिव श्रियम् ॥१४॥
विभ्राजमानां वपुषा रावणः प्रशंशंसह।
“का त्वं काञ्चनवर्णाभे! पीतकौशेयवासिनि! ॥१५॥
कमलानां शुभां मालां पद्मिनीव हि बिभ्रती।
हीरश्रीः कीर्तिश्शुभा लक्ष्मीरप्सरा वा शुभानने ॥१६॥
भूतिर्वा त्वं वरारोहे! रतिर्वा स्वैरचारिणी।
समाश्शिखरिणः स्निग्धाः पाण्डुरा दशनास्तव ॥१७॥
विशाले विमले नेत्रे रक्तान्ते कृष्णतारके।
विशालं जघनं पीनमूरू करिकरोपमौ ॥१८॥
एतावुपचितौ वृत्तौ संहतौसंप्रवल्गितौ।
पीनोन्नतमुखौ कान्तौ स्निग्धौ तालफलोपमौ ॥१९॥
मणिप्रवेकाभरणौ रुचिरौ ते पयोधरौ।
चारुस्मिते! चारुदति! चारुनेत्रे! विलासिनि! ॥२०॥
मनो हरसि मे कान्ते ! नदीकूलमिवाम्भसा।
करान्तमितमध्याऽसि सुकेशी संहतस्तनी ॥२१॥
नैव देवी न गन्धर्वी न यक्षी न च किन्नरी।
नैवं रूपा मया नारी दृष्टपूर्वा महीतले ॥२२॥
रूपमग्र्यंच लोकेषु सौकुमार्यं वयश्च ते।
इह वासश्च कान्तारे चित्तमुन्मादयन्ति मे ॥२३॥
सा प्रतिक्राम भद्रं ते न त्वं वस्तुमिहार्हसि।
राक्षसानामयं वासो घोराणां कामरूपिणाम् ॥२४॥
प्रासादाग्राणि रम्याणि नगरोपवनानि च।
संपन्नानि सुगन्धीनि युक्तान्याचरितुं त्वया ॥२५॥
वरं माल्यं वरं भोज्यं वरं वस्त्रं च शोभने!।
भर्तारं च वरं मन्ये त्वयुक्तमसितेक्षणे! ॥२६॥
का त्वं भवसि रुद्राणां मरुतां वा वरानने!।
वसूनां वा वरारोहे ! देवता प्रतिभासि मे ॥२७॥
नेह गच्छन्ति गन्धर्वा न देवा न च किन्नराः।
राक्षसानामयं वासः कथं नु त्वमिहागता ॥२८॥
इह शाखामृगास्सिंहा द्वीपिव्याघ्रमृगास्तथा।
ऋक्षास्तरक्षवः कङ्काः कथं तेभ्यो न बिभ्यसि ॥२९॥
मदान्वितानां घोराणां कुञ्जराणां तरस्विनाम्।
कथमेका महारण्ये न बिभेषि वरानने! ॥३०॥
काऽसि कस्य कुतश्चित्त्वं किन्नमित्तं च दण्डकान्।
एका चरसि कल्याणि! घोरान्राक्षससेवितान् ॥३१॥”
इति प्रशस्ता वैदेही रावणेन दुरात्मना।
द्विजातिवेषेण हि तं दृष्ट्वा रावणमागतम् ॥३२॥
सर्वैरतिथिसत्कारैः पूजयामास मैथिली।
उपनीयासनं पूर्वं पाद्येनाभिनिमन्त्र्य च ॥३३॥
अब्रवीत्सिद्धमित्येव तदा तं सौम्यदर्शनम्।
द्विजातिवेषेण समीक्ष्य मैथली समागतं पात्रकुसुम्भधारिणम्।
अशक्यमुद्वेष्टुमपायदर्शनं न्यमन्त्रयद्ब्राह्मणवत्तदाऽङ्गना ॥३४॥
“इयं बृसी ब्राह्मण! काममास्यतामिदं च पाद्यं प्रतिगृह्यता” मिति।
“इदं च सिद्धं वनजातमुत्तमं त्वदर्थमव्यग्रमिहोपभुज्यताम् ॥”
निमन्त्रयमाणः प्रतिपूर्णभाषिणीं नरेन्द्रपत्नीं प्रसमीक्ष्य मैथिलीम्।
प्रसह्य तस्या हरणे धृतं मनस्समर्पयत्स्वात्मवधाय रावणः ॥३६॥
ततस्सुवेषं मृगयागतं पतिं प्रतीक्षमाणा सहलक्ष्मणं तदा।
विवीक्षमाणा हरितं ददर्श तन्महद्वनं नैव तु रामलक्ष्मणौ ॥३७॥
इति श्रीमदारण्यकाण्डे षट्चत्वारिंशस्सर्गः ॥
—————
॥सप्तचत्वारिंशस्सर्गः॥
रावणेन तु वैदेही तथा पृष्टा जिहीर्षता।
परिव्राजकलिङ्गेन शशंसात्मानमङ्गना ॥१॥
‘ब्राह्मणश्चातिथिश्चायमनुक्तो हि शपेत माम्’।
इति ध्यात्वा मुहूर्तं तु सीता वचनमब्रवीत् ॥२॥
“दुहिता जनकस्याहं मैथिलस्य महात्मनः।
सीता नाम्नाऽस्मि भद्रं ते रामभार्या द्विजोत्तम! ॥३॥
उषित्वा द्वादश समा इक्ष्वाकूणां निवेशने।
भुञ्जाना मानुषान्भोगांत्सर्वकामसमृद्धिनी ॥४॥
ततस्त्रयोदशे वर्षे राजाऽमन्त्रयत प्रभुः।
अभिषेचयितुं रामं समेतो राजमन्त्रिभिः ॥५॥
तस्मित्संभ्रियमाणे तु राघवस्याभिषेचने।
कैकेयी नाम भर्तारमार्या सा याचते वरम् ॥६॥
प्रतिगृह्य तु कैकेयी श्वशुरं सुकृतेन मे।
मम प्रव्राजनं भर्तुर्भरतस्याभिषेचनम् ॥७॥
द्वावयाचत भर्तारं सत्यसन्धं नृपोत्तमम्।
‘नाद्य भोक्ष्ये न च स्वप्स्ये न पास्ये च कथंचन ॥८॥
एष मे जीवितस्यान्तो रामो यद्यभिषिच्यते।’
इति ब्रुवाणां कैकेयीं श्वशुरो मे स मानदः ॥९॥
अयाचतार्थैरन्वर्थैर्न च याच्ञांचकार सा।
मम भर्ता महातेजा वयसा पञ्चविंशकः ॥१०॥
अष्टादश हि वर्षाणि मम जन्म निगण्यते।
रामेति प्रथितो लोके गुणवान्सत्यवान् शुचिः ॥११॥
विशालाक्षो महाबाहुस्सर्वभूतहिते रतः।
कामार्तस्तु महातेजाः पिता दशरथस्स्वयम् ॥१२॥
कैकेयीप्रियकामार्थं तं रामं नाभ्यषेचयत्।
अभिषेकाय तु पितुस्समीपं राममागतम् ॥१३॥
कैकेयी मम भर्तारमित्युवाच धृतं वचः।
तव पित्रा समाज्ञप्तं ममेदं शृणु राघव! ॥१४॥
भरताय प्रदातव्यमिदं राज्यमकण्टकम्।
त्वया हि खलु वस्तव्यं नव वर्षाणि पञ्च च ॥१५॥
वने प्रव्रज काकुत्स्थ! पितरं मोचयानृतात्।”
‘तथे’त्युक्त्वा च तां रामः कैकेयीमकुतोभयः ॥१६॥
चकार तद्वचस्तस्य मम भर्ता दृढव्रतः।
दद्यान्न प्रतिगृह्णीयात्सत्यं व्रूयान्न चानृतम् ॥१७॥
एतद्ब्राह्मण! रामस्य ध्रुवं व्रतमनुत्तमम्।
तस्य भ्राता तु द्वैमात्रो लक्ष्मणो नाम वीर्यवान् ॥१८॥
रामस्य पुरुषव्याघ्रस्सहायस्समरेऽरिहा।
स भ्राता लक्ष्मणो नाम धर्मचारी दृढव्रतः ॥१९॥
अन्वगच्छद्धनुष्पाणिः प्रव्रजन्तं मया सह।
जटी तापसरूपेण मया सह सहानुजः ॥२०॥
प्रविष्टो दण्डकारण्यं धर्मनित्यो जितेन्द्रियः।
ते वयं प्रच्युता राज्यात्कैकेय्यास्तु कृते त्रयः ॥२१॥
विचराम द्विजश्रेष्ठ! वनं गम्भीरमोजसा।
समाश्वस मुहूर्त तु शक्यं वस्तुमिह त्वया ॥२२॥
आगमिष्यति मे भर्ता वन्यमादाय पुष्कलम्।
[रुरुन्गोधान्वराहांश्च हत्वाऽऽदायाऽमिषान्बहून् ] ॥२३॥
स त्वं नाम च गोत्रञ्च कुलं चाचक्ष्व तत्त्वतः।
एकश्च दण्डकारण्ये किमर्थं चरसि द्विज! ॥२४॥”
एवं ब्रुवन्त्यां सीतायां रामपत्न्यां महाबलः।
प्रत्युवाचोत्तरं तीव्रं रावणो राक्षसांधिपः ॥२५॥
“येन वित्रासिता लोकास्सदेवासुरपन्नगाः।
अहं तु रावणो नाम सीते! रक्षोगणेश्वरः ॥२६॥
त्वान्तु काञ्चनवर्णाभां दृष्ट्वा कौशेयवासिनीम्।
रतिं स्वकेषु दारेषु नाधिगच्छाम्यनिन्दिते! ॥२७॥
बह्वीनामुत्तमस्त्रीणामाहृतानामितस्ततः।
सर्वासामेव भद्रं ते ममाग्रमहिषी भव ॥२८॥
लङ्कानाम समुद्रस्य मम मध्ये महापुरी।
सागरेण परिक्षिप्ता निविष्टा नगमूर्धनि ॥२९॥
तत्र सीते ! मया सार्धंवनेषु विहरिष्यसि।
नचास्यारण्यवासस्य स्पृहयिष्यसि भामिनि! ॥३०॥
पञ्चदास्यस्सहस्राणि सर्वाभरणभूषिताः।
सीते! परिचरिष्यन्ति भार्या भवसि मे यदि ॥३१॥
रावणेनैवमुक्ता तु कुपिता जनकात्मजा।
प्रत्युवाचानवद्याङ्गी तमनादृत्य राक्षसम् ॥३२॥
“महागिरिमिवाकम्प्यं महेन्द्रसदृशं पतिम्।
महोदधिमिवाक्षोभ्यमहं राममनुव्रता ॥३३॥
सर्वलक्षणसम्पन्नं न्यग्रोधपरिमण्डलम्।
सत्यसन्धं महाभागमहं राममनुव्रता ॥३४॥
महाबाहुं महोरस्कं सिंहविक्रान्तगामिनम्
नृसिंहं सिंहसंकाशमहं राममनुव्रता ॥३५॥
पूर्णचन्द्राननं रामं राजवत्संजितेंद्रियम्।
पृथुकीर्तिं महात्मानमहं राममनुव्रता ॥३६॥
त्वं पुनर्जम्बुकस्सिंहींमाभिच्छसि सुदुर्लभाम्।
नाहं शक्या त्वया स्प्रष्टुमादित्यस्य प्रभा यथा ॥३७॥
पादपान्काञ्चनान्नूनं बहून्पश्यसि मन्दभाक्।
राघवस्य प्रियां भार्या यस्त्वमिच्छसि रावण! ॥३८॥
क्षुधितस्य हि सिंहस्य मृगशत्रोस्तरस्विनः।
आशीविषस्य च मुखाद्दंष्ट्रामादातुमिच्छसि ॥३९॥
मन्दरं पर्वतश्रेष्ठं पाणिना हर्तुमिच्छसि।
कालकूटं विषं पीत्वा स्वस्तिमान्गन्तुमिच्छसि ॥४०॥
अक्षि सूच्या प्रमृजसि जिह्वया लेक्षि च क्षुरम्।
राघवस्य प्रियां भार्यां योऽधिगन्तुं त्वमिच्छसि ॥४१॥
अवसज्य शिलां कण्ठे समुद्रं तर्तुमिच्छसि।
सूर्याचन्द्रमसौ चोभौ पाणिभ्यां हर्तुमिच्छसि ॥४२॥
यो रामस्य प्रियां भार्यां प्रधर्षयितुमिच्छसि।
अग्निं प्रज्वलितं दृष्ट्वा वस्त्रेणाहर्तुमिच्छसि ॥४३॥
कल्याणवृत्तां रामस्य यो भार्यां हर्तुमिच्छसि।
अयोमुखानां शूलानामग्रे चरितुमिच्छसि ॥४४॥
रामस्य सदृशीं भार्यां योऽधिगन्तुं त्वमिच्छसि।
यदन्तरं सिंहसृगालयाने यदन्तरं स्यन्दिनिकासमुद्रयोः ॥४५॥
सुराग्र्यसौवीरकयोर्यदन्तरं तदन्तरं वै तव राघवस्य च।
यदन्तरं काञ्चनसीसलोहयोर्यदन्तरं चन्दनवारिपङ्कयोः ॥४६॥
यदन्तरं हस्तिबिडालयोर्वने तदन्तरं दाशरथेस्तवैव च।
यदन्तरं वायस्रवैनतेययोर्यदन्तरं मद्रुमयूरयोरपि ॥४७॥
यदन्तरं सारसगृध्रयोर्वने तदन्तरं दाशरथेस्तवैव च।
तस्मिंत्सहस्राक्षसमप्रभावे रामे स्थिते कार्मुकबाणपाणौ ॥४८॥
हृताऽपि तेऽहं न जरां गमिष्ये वज्रं यथा मक्षिकयाऽवगीर्णम्।
इतीव तद्वाक्यमदुष्टभावा सुदुष्टमुक्त्वा रजनीचरं तम् ॥४९॥
गात्रप्रकम्पव्यथिता बभूव वातोद्धता सा कदलीव तन्वी।
तां वेपमानामुपलभ्य सीतां स रावणो मृत्युसमप्रभावः ॥५०॥
कुलं बलं नाम च कर्म च स्वं समाचचक्षे भयकारणार्थम्।
इति श्रीमदारण्यकाण्डे सप्तचत्वारिंशस्सर्गः ॥
—————
॥अष्टचत्वारिंशस्सर्गः॥
एवं ब्रुवन्त्यां सीतायां संरब्धः परुषं वचः।
ललाटे भ्रुकुटिं कृत्वा रावणः प्रत्युवाच ह ॥१॥
“भ्राता वैश्रवणस्याहं सापत्न्यो वरवर्णिनि!।
रावणो नाम भद्रं ते दशग्रीवः प्रतापवान् ॥२॥
यस्य देवास्सगन्धर्वाः पिशाचपतगोरगाः।
विद्रवन्ति भयाद्भीता मृत्योरिव सदा प्रजाः ॥३॥
येन वैश्रवणो राजा द्वैमात्रः कारणान्तरे।
द्वन्द्वमासादितः क्रोधाद्रणे विक्रम्य निर्जितः ॥४॥
यद्भयार्तः परित्यज्य स्वमधिष्ठानमृद्धिमत्।
कैलासं पर्वतश्रेष्ठमध्यास्ते नरवाहनः ॥५॥
यस्य तत्पुष्पकं नाम विमानं कामगं शुभम्।
वीर्यादेवार्जितं भद्रे ! येन यामि विहायसम् ॥६॥
मम संजातरोषस्य मुखं दृष्ट्वैव मैथिलि!।
विद्रवन्ति परित्रस्तास्सुराश्शक्रपुरोगमाः ॥७॥
यत्र तिष्ठाम्यहं तत्र मारुतो वाति शङ्कितः।
तीव्रांशुश्शिरांशुश्च भयात्संपद्यते रविः ॥८॥
निष्कम्पपत्रास्तरवो नद्यश्च स्तिमितोदकाः।
भवन्ति यत्र यत्राहं तिष्ठामि विचरामि च ॥९॥
मम पारे समुद्रस्य लढा नाम पुरी शुभा।
संपूर्णा राक्षसैर्घोरैर्यथेन्द्रस्यामरावती ॥१०॥
प्राकारेण परिक्षिप्ता पाण्डुरेण विराजता।
हेमकक्ष्या पुरी रम्या वैडूर्यमयतोरणा ॥११॥
हस्त्यश्वरथसंबाधा तूर्यनादविनादिता।
सर्वकालफलैर्वृक्षैस्संकुलोद्यानशोभिता ॥१२॥
तत्र त्वं वसती सीते! राजपुत्त्रि! मया सह।
न स्मरिष्यसि नारीणां मानुषीणां मनस्विनी ॥१३॥
भुञ्जानाऽमानुषान्भोगान्दिव्यांश्च वरवर्णिनि!।
न स्मरिष्यसि रामस्य मानुषस्य गतायुषः ॥१४॥
स्थापयित्वा प्रियं पुत्त्रं राज्ये दशरथेन यः।
मन्दवीर्यस्सुतो ज्येष्ठस्ततः प्रस्थापितो ह्ययम् ॥१५॥
तेन किं भ्रष्टराज्येन रामेण गतचेतसा।
करिष्यसि विशालाक्षि ! तापसेन तपस्विना ॥१६॥
सर्वराक्षसभर्तारं कामात्स्वयमिहागतम्।
न मन्मथशराविष्टं प्रत्याख्यातुं त्वमर्हसि ॥१७॥
प्रत्याख्याय हि मां भीरु! परितापं गमिष्यसि।
चरणेनाभिहत्येव पुरूरवसमूर्वशी ॥१८॥
अङ्गुल्या न समो रामो मम युद्धे स मानुषः।
तव भाग्येन संप्राप्तं भजस्व वरवर्णिनि! ॥१९॥”
एवमुक्ता तु वैदेही क्रुद्धा संरक्तलोचना।
अब्रवीत्परुषं वाक्यं रहिते राक्षसाधिपम् ॥२०॥
“कथं वैश्रवणं देवं सर्वभूतनमस्कृतम्।
भ्रातरं व्यपदिश्य त्वमशुभं कर्तुमिच्छसि? ॥२१॥
अवश्यं विनशिष्यन्ति सर्वे रावण! राक्षसाः।
येषां त्वं कर्कशो राजा दुर्बुद्धिरजितेन्द्रियः ॥२२॥
अपहृत्य शचीं भार्या शक्यमिन्द्रस्य जीवितुम्।
न च रामस्य भार्या मामपनीयास्ति जीवितुम् ॥२३॥
जीवेच्चिरं वज्रधरस्य हस्ताच्छचीं पृधृष्याप्रतिरूपरूपाम्।
न मादृशीं राक्षस! दूषयित्वा पीतामृतस्यापि तवास्ति मोक्षः ॥
इति श्रीमदारण्यकाण्डे अष्टचत्वारिंशस्सर्गः ॥
—————
॥एकोनपञ्चाशस्सर्गः॥
सीताया वचनं श्रुत्वा दशग्रीवः प्रतापवान्।
हस्ते हस्तं समाहत्य चकार सुमहद्वपुः ॥१॥
स मैथिलीं पुनर्वाक्यं बभाषे च ततो भृशम्।
“नोन्मत्तया श्रुतौ मन्ये मम वीर्येपराक्रमौ ॥२॥
उद्वहेयंभुजाभ्यां तु मेदिनीमम्बरे स्थितः।
आपिबेयं समुद्रं च हन्यां मृत्युं रणे स्थितः ॥३॥
अर्क रुन्ध्यां शरैस्तीक्ष्णैर्विभिन्द्यां हि महीतलम्।
कामरूपिणमुन्मत्ते! पश्य मां कामदं पतिम् ॥४॥”
एवमुक्तवतस्तस्य सूर्यकल्पे शिखिप्रभे।
क्रुद्धस्य हरिपर्यन्ते रक्ते नेत्रे बभूवतुः ॥५॥
सद्यस्सौम्यं परित्यज्य भिक्षुरूपं स रावणः।
स्वं रूपं कालरूपाभं भजे वैश्रवणानुजः ॥६॥
संरक्तनयनश्श्रीमांस्तप्तकाञ्चनकुण्डलः।
क्रोधेन महता विष्टो नीलजीमूतसन्निभः ॥७॥
दशास्यः कार्मुकी बाणी बभूव क्षणदाचरः।
स परिव्राजकच्छद्म महाकायो विहाय तत् ॥८॥
प्रतिपद्य स्वकं रूपं रावणो राक्षसाधिपः।
संरक्तनयनः क्रोधाज्जीमूतनिचयप्रभः ॥९॥
रक्ताम्बरधरस्तस्थौ स्त्रीरत्नं प्रेक्ष्य मैथिलीम्।
सतामसितकेशान्तां भास्करस्य प्रभामिव ॥१०॥
वसनाभरणोपेतां मैथिली रावणोऽब्रवीत्।
त्रिषु लोकेषु विख्यातं यदि भर्तारमिच्छसि ॥११॥
मामाश्रय वरारोहे! तवाऽहं सदृशः पतिः।
मां भजस्व चिराय त्वमहं श्लाघ्यः प्रियस्तव ॥१२॥
नैव चाहं क्वचिद्भद्रे! करिष्ये तव विप्रियम्।
त्यज्यतां मानुषो भावो मयि भावः प्रणीयताम् ॥१३॥
राज्याच्च्युतमसिद्धार्थं रामं परिमितायुषम्।
कैर्गुणैरनुरक्ताऽसि मूढे! पण्डितमानिनि! ॥१४॥
यः स्त्रिया वचनाद्राज्यं विहाय ससुहृज्जनम्।
अस्मिन्व्यालानुचरिते वने वसति दुर्मतिः ॥१५॥”
इत्युक्त्वा मैथिली वाक्यं प्रियार्हां प्रियवादिनीम्।
अभिगम्य सुदुष्टात्मा रावणः काममोहितः ॥१६॥
जग्राह रावणस्सीतां बुधः खे रोहिणीमिव।
वामेन सीतां पद्माक्षीं मूर्धजेषु करेण सः ॥१७॥
ऊर्वोस्तु दक्षिणेनैव परिजग्राह पाणिना।
तं दृष्ट्वा मृत्युसंकाशं तीक्ष्णदंष्ट्रं महाभुजम् ॥१८॥
प्राद्रवन्गिरिसङ्काशं भयार्ता वनदेवताः।
स च मायामयो दिव्यः खरयुक्तः खरस्वनः ॥१९॥
प्रत्यदृश्यत हेमाङ्गो रावणस्य महारथः।
ततस्तां परुषैर्वाक्यैर्भर्त्सयन् स महास्वनः ॥२०॥
अङ्केनादाय वैदेहीं रथमारोपयत्तदा।
सा गृहीता विचक्रोश रावणेन यशस्विनी ॥२१॥
रामेति सीता दुःखार्ता रामं दूरगतं वने।
तामकामां स कामार्तः पन्नगेन्द्रवधूमिव ॥२२॥
विवेष्टमानामादाय उत्पपाताथ रावणः।
ततस्सा राक्षसेन्द्रेण ह्रियमाणा विहायसा ॥२३॥
भृशं चुक्रोश मत्तेव भ्रान्तचित्ता यथाऽऽतुरा।
“हा लक्ष्मण! महाबाहो! गुरुचित्तप्रसादक! ॥२४॥
ह्रियमाणां न जानीषे रक्षसा माममर्षिणा।
जीवितं सुखमर्थांश्च धर्महेतोः परित्यजन् ॥२५॥
ह्रियमाणामधर्मेण मां राघव! न पश्यसि।
ननु नामाविनीतानां विनेताऽसि परन्तप! ॥२६॥
कथमेवंविधं पापं न त्वं शासिहि रावणम्।
ननु सद्योऽविनीतस्य दृश्यते कर्मणः फलम् ॥२७॥
कालोऽप्यङ्गीभवत्यत्र सस्यानामिव पक्तये।
स कर्म कृतवानेतत्कालोपहतचेतनः ॥२८॥
जीवितान्तकरं घोरं रामाद्व्यसनमाप्नुहि।
इन्तेदानीं सकामाऽस्तु कैकेयी सह बान्धवैः ॥२९॥
हिये यद्धर्मकामस्य धर्मपत्नी यशस्विनः।
आमंन्त्रये जनस्थाने कर्णिकारांत्सुपुष्पितान् ॥३०॥
क्षिप्रं रामाय शंसध्वं ‘सीतां हरति रावणः’।
माल्यवन्तं शिखरिणं वन्दे प्रस्रवणं गिरिम् ॥३१॥
क्षिप्रं रामाय शंस त्वं ‘सीतां हरति रावणः’।
हंसकारण्डवाकीर्णां वन्दे गोदावरीं नदीम् ॥३२॥
क्षिप्रं रामाय शंस त्वं ‘सीतां हरति रावणः’।
दैवतानि च यान्यस्मिन्वने विविधपादपे ॥३३॥
नमस्करोम्यहं तेभ्यो भर्तुश्शंसत मां हृताम्।
यानि कानिचिदप्यत्र सत्त्वानि निवसन्त्युत ॥३४॥
सर्वाणि शरणं यामि मृगपक्षिगणानपि।
ह्रियमाणां प्रियां भर्तुः प्राणेभ्योऽपि गरीयसीम् ॥३५॥
‘विवशाऽपहृता सीता रावणे’नेति शसत।
विदित्वा मां महाबाहुरमुत्रापि महाबलः ॥३६॥
आनेष्यति पराक्रम्य वैवस्वतहृतामपि।”
सा तदा करुणा वाचो विलपन्ती सुदुःखिता ॥३७॥
वनस्पतिगतं गृध्रंददर्शाऽऽयतलोचना।
सा तमुद्वीक्ष्य सुश्रोणी रावणस्य वशंगता ॥३८॥
समाक्रन्दद्भयपरा दुःखोपहतया गिरा।
“जटायो! पश्य मामार्य! ह्रियमाणामनाथवत् ॥३९॥
अनेन राक्षसेन्द्रेण करुणं पापकर्मणा।
नैष वारयितुं शक्यस्तव क्रूरो निशाचरः ॥४०॥
सत्त्ववाञ्जितकाशी च सायुधश्चैव दुर्मतिः।
रामाय तु यथातत्त्वं जटायो! हरणं मम ॥४१॥
लक्ष्मणाय च तत्सर्वमाख्यातव्यमशेषतः।
इति श्रीमदारण्यकाण्डे एकोनपञ्चाशस्सर्गः ॥
—————
॥पञ्चाशस्सर्गः॥
तं शब्दमवसुप्तस्तु जटायुरथ शुश्रुवे।
निरीक्ष्य रावणं क्षिप्रं वैदेहीं च ददर्श सः ॥१॥
ततः पर्वतकूटाभस्तीक्ष्णतुण्डः खरोत्तमः।
वनस्पतिगतश्श्रीमान्व्याजहार शुभां गिरम् ॥२॥
“दशग्रीव! स्थितो धर्मे पुराणे सत्यसंश्रयः।
जटायुनाम नाम्नाऽहं गृध्रराजो महाबलः ॥३॥
राजा सर्वस्य लोकस्य महेन्द्रवरुणोपमः।
लोकानां च हिते युक्तो रामो दशरथात्मजः ॥४॥
तस्यैषा लोकनाथस्य धर्मपत्नी यशश्विनी।
सीतानाम वरारोहा यां त्वं हर्तुमिहेच्छसि॥५॥
कथं राजा स्थितो धर्मे परदारान्परामृशेत्।
रक्षणीया विशेषेण राजदारा महाबल! ॥६॥
निवर्तय मतिंनीचां परदाराभिमर्शनात्।
न तत्समाचरेद्धीरो यत्परोऽस्य विगर्हयेत्॥७॥
यथाऽऽत्मनस्तथाऽन्येषां दारा रक्ष्या विपश्चिता।
धर्ममर्थं च कामं च शिष्टश्शास्त्रेष्वनागतम् ॥८॥
व्यवस्यन्ति न राजानो धर्म पौलस्त्यनन्दन!।
राजा धर्मस्य कामस्य द्रव्याणां चोत्तमो निधिः ॥९॥
धर्मश्शुभं वा पापं वा राजमूलं प्रवर्तते।
पापस्वभावश्चपलः कथं त्वं रक्षसां वर! ॥१०॥
आश्चर्यमभिसंप्राप्तो विमानमिव दुष्कृतिः।
कामं स्वभावो यो यस्य न शक्यः परिमार्जितुम् ॥११॥
न हि दुष्टात्मनामार्यमावसत्यालये चिरम्।
विषमे वा पुरे वा ते यदा रामो महाबलः ॥१२॥
नापराध्यति धर्मात्मा कथं तस्यापराध्यसि।
यदि शूर्पणखा हेतोर्जनस्थानगतः खरः ॥१३॥
अतिवृत्तो हतः पूर्व रामेणाक्लिष्टकर्मणा।
अत्र ब्रूहि यथातत्त्वं को रामस्य व्यतिक्रमः ॥१४॥
यस्य त्वं लोकनाथस्य भार्या हृत्वा गमिष्यसि।
क्षिप्रं विसृज वैदेहीं मा त्वा घोरेण चक्षुषा ॥१५॥
दहेद्दहनभूतेन वृत्रमिन्द्राशनिर्यथा।
सर्पमाशीविषं बद्ध्वावस्त्रान्ते नावबुध्यसे॥१६॥
ग्रीवायां प्रतिमुक्तं च कालपाशं न पश्यसि।
स भारस्सौम्य! भर्तव्यो यो नरं नावसादयेत् ॥१७॥
तदन्नमपि भोक्तव्यं जीर्यते यदनामयम्।
यत्कृत्वा न भवेद्धर्मो न कीर्तिर्न यशो भुवि ॥१८॥
शरीरस्य भवेत्खेदः कस्तत्कर्म समाचरेत्।
षष्टिर्वर्षसहस्राणि मम जातस्य रावण! ॥१९॥
पितृपैतामहं राज्यं यथावदनुतिष्ठतः।
वृद्धोऽहं त्वं युवा धन्वी सशरः कवची रथी ॥२०॥
तथाप्यादाय वैदेहीं कुशली न गमिष्यसि।
न शक्तस्त्वं बलाद्धर्तुं वैदेहीं मम पश्यतः ॥२१॥
हेतुभिर्न्यायसंसिद्धैर्ध्रुवां वेदश्रुतीमिव।
युध्यस्व यदि शूरोऽसि मुहूर्तं तिष्ठ रावण! ॥२२॥
शयिष्यसे हतो भूमौ यथा पूर्वं खरस्तथा।
असकृत्संयुगे येन निहता दैत्यदानवाः ॥२३॥
न चिराचीरवासास्त्वां रामो युधि वधिष्यति।
किन्नु शक्यं मया कर्तुं गतौ दूरं नृपात्मजौ ॥२४॥
क्षिप्रं त्वं नश्यसे नीच! तयोर्भीतो न संशयः।
न हि मे जीवमानस्य नयिष्यसि शुभामिमाम् ॥२५॥
सीतां कमलपत्राक्षीं रामस्य महिषीं प्रियां।
अवश्यं तु मया कार्यं प्रियं तस्य महात्मनः ॥२६॥
जीवितेनापि रामस्य तथा दशरथस्य च।
तिष्ठ तिष्ठ दशग्रीव! मुहूर्तं पश्य रावण! ॥२७॥
युद्धातिथ्यं प्रदास्यामि यावत्प्राणं निशाचर॥18॥
[शरणमस्मि जटायुरहं सखा दशरथस्य रथस्तव तिष्ठतु।
अविदुषामपराधमहं सहे विसृज रावण! वीरपतिव्रताम् ॥२९॥]
इति श्रीमदारण्यकाण्डे पञ्चाशस्सर्गः ॥
—————
॥एकपञ्चाशस्सर्गः॥
इत्युक्तस्य यथान्यायं रावणस्य जटायुषा।
क्रुद्धस्याग्निनिभास्सर्वा रेजुर्विंशतिदृष्टयः ॥१॥
संरक्तनयनः कोपात्तप्तकाञ्चनकुण्डलः।
राक्षसेन्द्रोऽभिदुद्राव पतगेन्द्रममर्षणः ॥२॥
स संप्रहारस्तुमुलस्तयोस्तस्मिन् महावने।
बभूव वातोद्धतयोर्मेघयोर्गगने यथा ॥३॥
तद्भूवाद्भुतं युद्धं गृध्र
राक्षसयोस्तथा।
सपक्षयोर्माल्यवतोर्महापर्वतयोरिव ॥४॥
ततो नालीकनाराचैस्तीक्ष्णाग्रैश्चविकर्णिभिः।
अभ्यवर्षन्महाघोरैर्गृध्रराजं महाबलः ॥५॥
स तानि शरजालानि गृध्रः पत्त्ररथेश्वरः।
जटायुः प्रतिजग्राह रावणास्त्राणि संयुगे ॥६॥
तस्य तीक्ष्णनखाभ्यां तु चरणाभ्यां महाबलः।
चकार बहुधा गात्रे व्रणान्पतगसत्तमः ॥७॥
अथ क्रोधाद्दशग्रीवो जग्राह दश मार्गणान्।
मृत्युदण्डनिभान्घोराञ्छत्रुमर्दनकाङ्क्षया ॥८॥
स तैर्बाणैर्महावीर्यः पूर्णमुक्तैजिह्मगैः।
बिभेद निशितैस्तीक्ष्णैर्गृध्रं घोरैश्शिलीमुखैः ॥९॥
स राक्षसरथेऽपश्यज्जानकीं बाप्पलोचनाम्।
अचिन्तयित्वा तान्बाणान्राक्षसं समभिद्रवत् ॥१०॥
ततोऽस्य सशरं चापं मुक्तामणिविभूषितम्।
चरणाभ्यां महातेजो बभञ्ज पतगेश्वरः ॥११॥
ततोऽन्यद्धनुरादाय रावणः क्रोधमूर्छितः।
ववर्ष शरवर्षाणि शतशोऽथ सहस्रशः ॥१२॥
शरैरावारितस्तस्य संयुगे पतगेश्वरः।
कुलायमुपसंप्राप्तः पक्षीव प्रबभौ तदा ॥१३॥
स तानि शरवर्षाणि पक्षाभ्यां च विधूय च।
चरणाभ्यां महातेजा बभञ्जास्य महद्धनुः ॥१४॥
तच्चाग्निसदृशं दीप्तं रावणस्य शरावरम्।
पक्षाभ्यां स महावीर्यो व्याधुनोत्पतगेश्वरः ॥१५॥
काञ्चनोरश्छदान्दिव्यान्पिशाचवदनान्खरान्।
तांश्चास्य जवसंपन्नाञ्चघान समरे बली ॥१६॥
वरं त्रिवेणुसंपन्नं कामगं पावकार्चिषम्।
मणिहेमविचित्राङ्गं बभञ्ज च महारथम् ॥१७॥
पूर्णचन्द्रप्रतीकाशं छत्रं च व्यजनैस्सह।
पातयामास वेगेन ग्राहिमी राक्षसैस्सह ॥१८॥
सारथेश्चास्य वेगेन तुण्डेनैव महच्छिरः।
पुनर्व्यपाहरच्छ्रीमान्पक्षिराजो महाबलः ॥१९॥
स भग्नधन्वा विरथो हताश्वो हतसारथिः।
अनादाय वैदेहीं पपात भुवि रावणः ॥२०॥
दृष्ट्वा निपतितं भूमौ रावणं भग्नवाहनम्।
“साधुसा”ध्विति भूतानि गृध्रराजमपूजयन् ॥२१॥
परिश्रान्तं तु तं दृष्ट्वा जरया पक्षियूथपम्।
उत्पपात पुनर्हृष्टो मैथिली गृह्य रावणः ॥२२॥
तं प्रहृष्टं निधायाङ्के गच्छन्तं जनकात्मजाम्।
गृध्रराजस्समुत्पत्य समभिद्गुत्य रावणम् ॥२३॥
समावार्य महातेजा जटायुरिदमब्रवीत्।
“वज्रसंस्पर्शबाणस्य भार्यां रामस्य रावण! ॥२४॥
अल्पबुद्धे हरस्येनां वधाय खलु रक्षसाम्।
समित्रबन्धुस्सामात्यस्सबलस्सपरिच्छदः ॥२५॥
विषपानं पिबस्येतत्पिपासित इवोदकम्।
अनुबन्धमजानन्तः कर्मणामविचक्षणाः ॥२६॥
शीघ्रमेव विनश्यन्ति यथा त्वं विनशिष्यसि।
बद्धस्त्वं कालपाशेन
व गतस्तस्य मोक्ष्यसे ॥२७॥
वधाय बडिशं गृह्य सामिषं जलजो यथा।
न हि जातु दुराधर्षौकाकुत्स्थौ तव रावण! ॥२८॥
घर्षणं चाश्रमस्यास्य क्षमिष्येते तु राघवौ।
यथा त्वया कृतं कर्म भीरुणा लोकगर्हितम् ॥२९॥
तस्कराचरितो मार्गो नैष वीरनिषेवितः।
युध्यस्व यदि शूरोऽसि मुहूर्तं तिष्ठ रावण! ॥३०॥
शयिष्यसे हतो भूमौ यथा भ्राता खरस्तथा।
परेतकाले पुरुषो यत्कर्म प्रतिपद्यते ॥३१॥
विनाशायाऽऽत्मनोऽधर्म्यं प्रतिपन्नोऽसि कर्म तत्।
पापानुबन्धो वै यस्य कर्मणः कर्म कोनु तत् ॥३२॥
कुर्वीत लोकाधिपतिरस्वयंभूर्भगवानपि।”
एवमुक्त्वा शुभं वाक्यं जटायुस्तस्य रक्षसः ॥३३॥
निपपात भृशं पृष्ठे दशग्रीवस्य वीर्यवान्।
तं गृहीत्वा नखैस्तीक्ष्णैर्विरराद समन्ततः ॥३४॥
अधिरूढो गजारोहो यथा स्याद्दुष्टवारणम्।
विरराद नखैरस्य तुण्डं पृष्ठे समर्पयन् ॥३५॥
केशांश्चोत्पाटयामास नखपक्षमुखायुधः।
स तथा गृध्रराजेन विश्यमानो मुहुर्मुहुः ॥३६॥
अमर्षस्फुरितोष्ठस्सन्प्राकम्पत स रावणः।
स परिष्वज्य वैदेहीं वामेनाङ्केन रावणः ॥३७॥
तलेनाभिजघानाशु जटायुं क्रोधमूर्च्छितः।
जटायुस्तमभिक्रम्य तुण्डेनास्य खगाधिपः ॥३८॥
वामबाहून्दश तदा व्यापाहरदरिन्दमः।
संछिन्नबाहोस्सद्यैव बाहवस्सहसाऽभवन् ॥३९॥
विषज्वालावलीयुक्ता वल्मीकादिव पन्नगाः।
ततः क्रोधाद्दशग्रीवस्सीतामुत्सृज्य रावणः ॥४०॥
मुष्टिभ्यां चरणाभ्यां च गृध्रराजमपोथयत्।
ततो मुहूर्तं संग्रामो बभूवातुल्यवीर्ययोः ॥४१॥
राक्षसानां च मुख्यस्य पक्षिणां प्रवरस्य च।
तस्य व्यायच्छमानस्य रामस्यार्थे स रावणः ॥४२॥
पक्षौ पार्श्वौच पादौ च खड्गमुद्धृत्य सोऽच्छिनत्।
स विच्छिन्नपक्षस्सहसा रक्षसा रौद्रकर्मणा ॥४३॥
निपपात हतो गृध्रो धरण्यामल्पजीवितः।
तं दृष्ट्वापतितं भूमौ क्षतजार्द्रं जटायुषम् ॥४४॥
अभ्यधावत वैदेही स्वबन्धुमिव दुःखिता।
तं नीलजीमूतनिकाशकल्पं सुपाण्डुरोरस्कमुदारवीर्यम् ॥४५॥
ददर्श लङ्काधिपतिः पृथिव्यां जटायुषं शान्तमिवाग्निदावम्।
ततस्तु तं पत्ररथं महीतले निपातितं रावणवेगमर्दितम् ॥४६॥
पुनः परिष्वज्य शशिप्रभानना रुरोद सीता जनकात्मजा तदा।
इति श्रीमदारण्यकाण्डे एकपञ्चाशस्सर्गः ॥
—————
॥ द्विपञ्चाशस्सर्गः ॥
तमल्पजीवितं गृध्रं स्फुरन्तं राक्षसाधिपः।
ददर्श भूमौ पतितं समीपे राघवाश्रमात् ॥१॥
सा तु ताराधिपमुखी रावणेन समीक्ष्य तम्।
गृध्रराजं विनिहतं विललाप सुदुःखिता ॥२॥
आलिङ्ग्य गृध्रंनिहतं रावणेन बलीयसा।
विललाप सुदुःखार्ता सीता शशिनिभानना ॥३॥
“निमित्तं लक्षणज्ञानं शकुनिस्वंरदर्शनम्।
अवश्यं सुखदुःखेषु नराणां प्रतिदृश्यते ॥४॥
नूनं राम! न जानासि महद्व्यसनमात्मनः।
धावन्ति नूनं काकुत्स्थं मदर्थं मृगपक्षिणः ॥५॥
अयं हि पापचारेण मां त्रातुमभिसङ्गतः।
शेते विनिहतो भूमौ ममाभाग्याद्विहङ्गमः ॥६॥
त्राहि मामद्य काकुत्स्थ! लक्ष्म” णेति वराङ्गना।
सुसंत्रस्ता समाक्रन्दच्छृण्वतां तु यथान्तिके ॥७॥
[सकृद्रामं पुनश्वश्रूस्तथा लक्ष्मणमङ्गना।
असकृत्तत्र वैदेही विललाप द्विजान्तिके ॥८॥]
तां क्लिष्टमाल्याभरणां विलपन्तीमनाथवत्।
अभ्यधावत वैदेहीं रावणो राक्षसाधिपः ॥९॥
तां लतामिव वेष्टन्तीमालिङ्गन्तींमहाद्रुमान्।
‘मुञ्च मु’ ञ्चेति बहुशः प्रवदन्राक्षसाधिपः ॥१०॥
क्रोशन्तीं ‘रामरा’ मेति रामेण रहितां वने।
जीवितान्ताय केशेषु जग्राहान्तकसन्निभः ॥११॥
प्रधर्षितायां सीतायां बभूव सचराचरम्।
जगत्सर्वममर्यादं तमसाऽन्धेन संवृतम् ॥१२॥
न वाति मारुतस्तत्र निष्प्रभोऽभूद्दिवाकरः।
दृष्ट्वा सीतां परामृष्टां दीनां दिव्येन चक्षुषा ॥१३॥
‘कृतं कार्य’मिति श्रीमान् व्याजहार पितामहः।
प्रहृष्टा व्यथिताश्चासंत्सर्वे ते परमर्षयः ॥१४॥
दृष्ट्वा सीतां परामृष्टां दण्डकारण्यवासिनः।
रावणस्य विनाशं च प्राप्तं बुद्ध्वायदृच्छया ॥१५॥
स तु तां ‘रामरा’मेति रुदती लक्ष्मणेति च।
जगामादाय चाकाशं रावणो राक्षसाधिपः ॥१६॥
तप्ताभरणसर्वाङ्गी पीतकौशेयवासिनी।
रराज राजपुत्री तु विद्युत्सौदामिनी यथा ॥१७॥
उद्भूतेन च वस्त्रेण तस्याः पीतेन रावणः।
अधिकं प्रति बभ्राज गिरिर्दीप्त इवाग्निना ॥१८॥
तस्याः परमकल्याण्यास्ताम्राणि सुरभीणि च।
पद्मपत्राणि वैदेह्या अभ्यकीर्यन्त रावणम् ॥१९॥
तस्याः कौशेयमुद्भूतमाकाशे कनकप्रभम्।
बभौ चादित्यरागेण ताम्रमभ्रमिवातपे ॥२०॥
तस्यास्तत्सुनसं वक्रमाकाशे रावणाङ्कगम्।
न रराज विना रामं विनालमिव पङ्कजम् ॥२१॥
बभूव जलदं नीलं भित्त्वा चन्द्र इवोदितः।
सुललाटं सुकेशान्तं पद्मगर्भाभमव्रणम् ॥२२॥
शुक्लैस्सुविमलैर्दन्तैःप्रभावद्भिरलङ्कृतम्।
तस्यास्तद्विमलं वक्रमाकाशे रावणाङ्कगम् ॥२३॥
रुदितं व्यपमृष्टास्रं चन्द्रवत्प्रियदर्शनम्।
सुनासं चारुताम्रोष्ठमाकाशे हाटकप्रभम् ॥२४॥
राक्षसेन समाधूतं तस्यास्तद्वदनं शुभम्।
शुशुभे न विना रामं दिवा चन्द्र इवोदितः ॥२५॥
सा हेमवर्णा नीलाङ्गं मैथिली राक्षसाधिपम्।
शुशुभे काञ्चनी काञ्ची नीलं मणिमिवाश्रिता ॥२६॥
सा पद्मगौरी हेमाभा रावणं जनकात्मजा।
विद्युद्धनमिवाविश्य शुशुभे तप्तभूषणा ॥२७॥
तरुप्रवालरक्ता सा नीलाङ्गं राक्षसेश्वरम्।
प्राशोभयत वैदेही गजं कक्ष्येव काञ्चनी॥२८॥
तस्या भूषणघोषेण वैदेह्या राक्षसाधिपः।
बभौ सचपलो नीलस्सघोष इव तोयदः ॥२९॥
उत्तमाङ्गाच्च्युता तस्याः पुष्पवृष्टिस्समन्ततः।
सीताया ह्रियमाणायाः पपात धरणीतले ॥३०॥
सा तु रावणवेगेन पुष्पवृष्टिस्समन्ततः।
समाधूता दशग्रीवं पुनरेवाभ्यवर्तत ॥३१॥
अभ्यवर्तत पुष्पाणां धारा वैश्रवणानुजम्।
नक्षत्रमाला विमला मेरुं नगमिवोन्नतम् ॥३२॥
चरणान्नूपुरं भ्रष्टं वैदेह्या रत्नभूषितम्।
विद्युन्मण्डलसंकाशं पपात मधुरस्वनम् ॥३३॥
तां महोल्कामिवाकाशे दीप्यमानां स्वतेजसा।
जहाराऽऽकाशमाविश्य सीतां वैश्रवणानुजः ॥३४॥
तस्यास्तान्यग्निवर्णानि भूषणानि महीतले।
सघोषाण्यवकीर्यन्त क्षीणास्तारा इवाम्बरात् ॥३५॥
तस्याः स्तनान्तराद्भ्रष्टो हारस्ताराधिपद्युतिः।
वैदेह्या निपतन्भाति गङ्गेव गगनाच्च्युता ॥३६॥
उत्पन्न वाताभिहता नानाद्विजगणायुताः।
‘माभै’रिति विधूताग्राव्याजह्रुरिवपादपाः ॥३७॥
नलिन्यो ध्वस्तकमलास्त्रस्तमीनजलेचराः।
सखीमिव गतोच्छ्वासामन्वशोचन्त मैथिलीम् ॥३८॥
समन्तादभिसंपत्य सिंहव्याघ्रमृगद्विजाः।
अन्वधावंस्तदा रोषात्सीतां छायानुगामिनः ॥३९॥
जलप्रपातास्रमुखाश्शृङ्गैरुच्छ्रितबाहुभिः।
सीतायां ह्रियमाणायां विक्रोशन्तीव पर्वताः ॥४०॥
ह्रियमाणान्तु वैदेहीं दृष्ट्वा दीनो दिवाकरः।
प्रतिध्वस्तप्रभश्श्रीमानासीत्पाण्डरमण्डलः ॥४१॥
‘नास्ति धर्मः कुतस्सत्यं नार्जवं नानृशंसता।
यत्र रामस्य वैदेहीं भार्यां हरति रावणः ॥४२॥’
इति सर्वाणि भूतानि गणशः पर्यदेवयन्।
वित्रस्तका दीनमुखा रुरुदुर्मृगपोतकाः ॥४३॥
उद्वीक्ष्योद्वीक्ष्य नयनैरस्रपाताविलेक्षणाः।
सुप्रवेपितगात्राश्च बभूवुर्वनदेवताः ॥४४॥
विक्रोशन्तीं दृढं सीतां दृष्ट्वा दुःखं यथागताम्।
तां तु ‘लक्ष्मण रा’ मेति क्रोशन्तीं मधुरस्वराम् ॥४५॥
अवेक्षमाणां बहुशो वैदेहीं धरणीतलम्।
स तामाकुलकेशान्तां विप्रमृष्टविशेषकाम् ॥४६॥
जहारात्मविनाशाय दशग्रीवो मनस्विनीम्।
ततस्तु सा चारुदती शुचिस्मिता विनाकृता बन्धुजनेन मैथिली।
अपश्यती राघवलक्ष्मणावुभौ विवर्णवक्त्राभयभारपीडिता ॥४७॥
इति श्रीमदारण्यकाण्डे द्विपञ्चाशस्सर्गः ॥
—————
॥ त्रिपञ्चाशसर्गः ॥
खमुत्पतन्तं तं दृष्ट्वा मैथिली जनकात्मजा।
दुःखिता परमोद्विग्नाभये महति वर्तिनी ॥१॥
रोषरोदनताम्राक्षी भीमाक्षं राक्षसाधिपम्।
रुदती करुणं सीता हियमाणेदमब्रवीत् ॥२॥
“न व्यपत्रपसे नीच! कर्मणाऽनेन रावण!।
ज्ञात्वा विरहितं यन्मां चोरयित्वा पलायसे ॥३॥
त्वयैव नूनं दुष्टात्म! न्भीरुणा हर्तुमिच्छता।
ममापवाहितो भर्ता मृगरूपेण मायया ॥४॥
यो हि मामुद्यतस्त्रातुं सोऽप्ययं विनिपातितः।
गृध्रराजः पुराणोऽसौ श्वशुरस्य सखा मम ॥५॥
परमं खलु ते वीर्यं दृश्यते राक्षसाधम!।
विश्राव्य नामधेयं हि युद्धेनास्मि जिता त्वया ॥६॥
ईदृशं गर्हितं कर्म कथं कृत्वा न लज्जसे।
स्त्रियाश्चहरणं नीच! रहिते तु परस्य च ॥७॥
कथयिष्यन्ति लोकेषु पुरुषाः कर्म कुत्सितम्।
सुनृशंसमधर्मिष्ठं तव शौण्डीर्यमानिनः ॥८॥
धिक्तेशौर्यं च सत्त्वं च यत्त्वं कथितवांस्तदा।
कुलाक्रोशकरं लोके धिक्ते चारित्रमीदृशम् ॥९॥
किं कर्तुं शक्यमेवं हि यज्जवेनैव धावसि।
मुहूर्तमपि तिष्ठस्वन जीवन्प्रतियास्यसि ॥१०॥
न हि चक्षुष्पथं प्राप्य तयोः पार्थिवपुत्त्रयोः।
ससैन्योऽपि समर्थस्त्वं मुहूर्तमपि जीवितुम् ॥११॥
न त्वं तयोश्शरस्पर्शं सोढुं शक्तः कथंचन।
वने प्रज्वलितस्येव स्पर्शमग्नेर्विहंगमः ॥१२॥
साधु कृत्वाऽऽत्मनः पथ्यं साधु मां मुञ्च रावण!।
मत्प्रधर्षणरुष्टो हि भ्रात्रा सह पतिर्मम ॥१३॥
विधास्यति विनाशाय त्वं मां यदि न मुञ्चसि।
येन त्वं व्यवसायेन बलान्मां हर्तुमिच्छसि ॥१४॥
व्यवसायस्स ते नीच! भविष्यति निरर्थकः।
न ह्यहं तमपश्यन्ती भर्तारं विबुधोपमम् ॥१५॥
उत्सहे शत्रुवशगा प्राणान्धारयितुं चिरम्।
न नूनं चात्मनश्श्रेयः पथ्यं वा समवेक्षसे ॥१६॥
मृत्युकाले यथा मर्त्यो विपरीतानि सेवते।
मुमूर्षूणां हि सर्वेषां यत्पथ्यं तन्न रोचते ॥१७॥
पश्याम्यद्य हि कण्ठे त्वां कालपाशावपाशितम्।
यथा चास्मिन्भयस्थाने न बिभेषि दशानन! ॥१८॥
व्यक्तं हिरण्मयान्हि त्वं संपश्यसि महीरुहान्।
नदीं वैतरणीं घोरां रुधिरौघनिवाहिनीम् ॥१९॥
असिपत्रवनं चैव भीमं पश्यसि रावण!।
तप्तकाञ्चनपुष्पां च वैडूर्यप्रवरच्छदाम् ॥२०॥
द्रक्ष्यसे शाल्मलीं तीक्ष्णामायसैः कण्टकैश्चिताम्।
न हि त्वमीदृशं कृत्वा तस्यालीकं महात्मनः ॥२१॥
धरितुं शक्ष्यसि चिरं विषं पीत्वेव निर्घृणः।
बद्धस्त्वं कालपाशेन दुर्निवारण रावण! ॥२२॥
क्व गतो लप्स्यसे शर्म भ्रातुर्मम महात्मनः।
निमेषान्तरमात्रेण विना भ्रात्रा महावने ॥२३॥
राक्षसा निहता येन सहस्राणि चतुर्दश।
स कथं राघवो वीरस्सर्वास्त्रकुशलो बली ॥२४॥
न त्वां हन्याच्छरैस्तीक्ष्णैरिष्टभार्यापहारिणम्।
“एतच्चान्यच्च परुषं वैदेही रावणाङ्कगा।
भयशोकसमाविष्टा करुणं विललाप ह ॥२५॥
तथा भृशार्तांबहुचैव भाषिणीं विलापपूर्वं करुणं च भामिनीं।
जहार पापः करुणं विवेष्टतीं नृपात्मजामागतगात्रवेपथुम् ॥२६॥
इति श्रीमदारण्यकाण्डे त्रिपञ्चाशस्सर्गः ॥
—————
॥ चतुःपञ्चाशस्सर्गः ॥
ह्रियमाणा तु वैदेही कंचिन्नाथमपश्यती।
ददर्श गिरिशृङ्गस्थान्पञ्च वानरपुङ्गवान् ॥१॥
तेषां मध्ये विशालाक्षी कौशेयं कनकप्रभम्।
उत्तरीयं वरारोहा शुभान्याभरणानि च ॥२॥
मुमोच ‘यदि रामाय शंसेयु’रिति मैथिली।
वस्त्रमुज्सृत्य तन्मध्ये निक्षिप्तं सहभूषणम् ॥३॥
संभ्रमात्तु दशग्रीवस्तत्कर्म न स बुद्धवान्।
पिङ्गाक्षास्तां विशालाक्षीं नेत्रैरनिमिषैरिव ॥४॥
विक्रोशन्तीं तथा सीतां ददृशुर्वानरर्षभाः।
स च पम्पामतिक्रम्य लङ्कामभिमुखः पुरीम् ॥५॥
जगाम रुदतीं गृह्य वैदेहीं राक्षसेश्वरः।
तां जहार सुसंहृष्टो रावणो मृत्युमात्मनः ॥६॥
उत्सङ्गेनेव भुजगीं तीक्ष्णदंष्ट्रां महाविषाम्।
वनानि सरितशैलांत्सरांसि च विहायसा ॥७॥
स क्षिप्रं समतीयाय शरश्चापादिव च्युतः।
तिमिनक्रनिकेतं तु वरुणालयमक्षयम् ॥८॥
सरितां शरणं गत्वा समतीयाय सागरम्।
संभ्रमात्परिवृत्तोर्मीरुद्धमीनमहोरगः ॥९॥
वैदेह्यां ह्रियमाणायां बभूव वरुणालयः।
अन्तरिक्षगता वाचस्ससृजुश्चारणास्तदा ॥१०॥
‘एतदन्तो दशग्रीव इति सिद्धास्तदाऽब्रुवन्।
स तु सीतां विवेष्टन्तीमङ्केनादाय रावणः ॥११॥
प्रविवेश पुरीं लङ्कां रूपिणीं मृत्युमात्मनः।
सोऽभिगम्य पुरी लङ्कां सुविभक्तमहापथाम् ॥१२॥
संरूढकक्ष्याबहुलंस्वमन्तःपुरमाविशत्।
तत्र तामसितापाङ्गां शोकमोहपरायणाम् ॥१३॥
निदधे रावणस्सीतां मयो मायामिव स्त्रियम्।
अब्रवीच्च दशग्रीवः पिशाचीर्घोरदर्शनाः ॥१४॥
“यथा नेमां पुमान् स्त्री वा सीतां पश्यत्यसम्मतः।
मुक्तामणिसुवर्णानि वस्त्राण्याभरणानि च ॥१५॥
यद्यदिच्छेत्तदेवास्या देयं मच्छन्दतो यथा।
या च वक्ष्यति वैदेही वचनं किंचिदप्रियम् ॥१६॥
अज्ञानाद्यदि वा ज्ञानात्र तस्य जीवितं प्रियम्।”
तथोक्त्वा राक्षसीस्तास्तु राक्षसेन्द्रः प्रतापवान् ॥१७॥
निष्क्रम्यान्तःपुरात्तस्मा ‘त्किंकृत्य’मिति चिन्तयन्।
ददर्शाष्टौ महावीर्यान्राक्षसान्पिशिताशनान् ॥१८॥
स तान्दृष्ट्वा महावीर्यो वरदानेन मोहितः।
उवाचैतानिदं वाक्यं प्रशस्य बलवीर्यतः ॥१९॥
“नानाप्रहरणाः क्षिप्रमितो गच्छत सत्वराः।
जनस्थानं हतस्थानं भूतपूर्वं खरालयम् ॥२०॥
तत्रोष्यतां जनस्थाने शून्ये निहतराक्षसे।
पौरुषं बलमाश्रित्य त्रासमुत्सृज्य दूरतः ॥२१॥
बलं हि सुमहद्यन्मे जनस्थाने निवेशितम्।
सदूषणं खरं युद्धे हतं रामेण सायकैः ॥२२॥
तत्र क्रोधो ममामर्षाद्धैर्यस्योपरि वर्तते।
वैरं च सुमहज्जातं रामं प्रति सुदारुणम् ॥२३॥
निर्यातयितुमिच्छामि तच्च वैरमहं रिपोः।
न हि लप्स्याम्यहं निद्रामहत्वा संयुगे रिपुम् ॥२४॥
तं त्विदानीमहं हत्वा खरदूषणघातिनम्।
राम शर्मोपलप्स्यामि धनं लब्ध्वेव निर्धनः ॥२५॥
जनस्थाने वसद्भिस्तु भवद्भी राममाश्रिता।
प्रवृत्तिरुपनेतव्या ‘किङ्करो’तीति तत्त्वतः ॥२६॥
अप्रमादाच्च गन्तव्यं सर्वैरपि निशाचरैः।
कर्तव्यश्च सदा यत्नो राववस्य वधं प्रति ॥२७॥
युष्माकं च बलज्ञोऽहं बहुशो रणमूर्धनि।
अतश्चास्मिन् जनस्थाने मया यूयं नियोजिताः ॥२८॥
“ततः प्रियं वाक्यमुपेत्य राक्षसा महार्थमष्टावभिवाद्य रावणम्।
विहाय लङ्कां सहिताः प्रतस्थिरे यतो जनस्थानमलक्ष्यदर्शनाः ॥२९॥
ततस्तु सीतामुपलभ्य रावणस्ससंप्रहृष्टः परिगृह्य मैथिलीम्।
प्रसज्य रामेण च वैरमुत्तमं बभूव मोहान्मुदितस्स राक्षसः ॥३०॥
इति श्रीमदारण्यकाण्डे चतुःपञ्चाशस्सर्गः ॥
—————
॥ पञ्चपञ्चाशस्सर्गः ॥
सन्दिश्यराक्षसान्घोरान्रावणोऽष्टौमहाबलान्।
आत्मानं बुद्धिवैकृब्यात्कृतकृत्याममन्यत ॥१॥
स चिन्तयानो वैदेहीं कामबाणसमर्पितः।
प्रविवेश गृहं रम्यं सीतां द्रष्टुमभित्वरन् ॥२॥
स प्रविश्य तु तद्वेश्म रावणो राक्षसाधिपः।
अपश्यद्राक्षसीमध्ये सीतां शोकपरायणाम् ॥३॥
अश्रुपूर्णमुखीं दीनां शोकभाराभिपीडिताम्।
वायुवेगैरिवाऽऽक्रान्तां मज्जन्तीं नावमर्णवे ॥४॥
मृगयूथपरिभ्रष्टां मृगीं श्वभिरावृताम्।
अधोमुखमुखीं सीतामभ्येत्य च निशाचरः ॥५॥
तां तु शोकपरां दीनामवशां राक्षसाधिपः।
स बलाद्दर्शयामास गृहं देवगृहोपमम् ॥६॥
हर्म्यप्रासादसंबाधं स्त्रोसहस्रनिषेवितम्।
नानापक्षिगणैर्जुष्टं नानारत्नसमन्वितम् ॥७॥
दान्तकैस्तापनीयैश्च स्फाटिकैराजतैरपि।
वज्रवैडूर्यचित्रैश्च स्तम्भैर्दृष्टिमनोहरैः ॥८॥
दिव्यदुन्दुभिनिर्ह्रादंतप्तकाञ्चनतोरणम्।
सोपानं काञ्चनं चित्रमारुरोह तयासह ॥९॥
दान्तका राजताश्चैव गवाक्षाः प्रियदर्शनाः।
हेमजालावृताश्चासंस्तत्र प्रासादपङ्क्तयः ॥१०॥
सुधामणिविचित्राणि भूमिभागानि सर्वशः।
दशग्रीवस्वभवने प्रादर्शयत मैथिलीम् ॥११॥
दीर्घिकाः पुष्करिण्यश्च नानावृक्षसमन्विताः।
रावणो दर्शयामास सीतां शोकपरायणाम् ॥१२॥
दर्शयित्वा तु वैदेह्याः कृत्स्नं तद्भवनोत्तमम्।
उवाच वाक्यं पापात्मा सीतां लोभितुमिच्छया ॥१३॥
“दश राक्षसकोट्यश्च द्वाविंशतिरथापराः।
तेषां प्रभुरहं सीते! सर्वेषां भीमकर्मणाम् ॥१४॥
वर्जयित्वा जरावृद्धान्बालांश्च रजनीचरान्।
सहस्रमेकमेकस्य मम कार्यपुरस्सरम् ॥१५॥
यदिदं राजतन्त्रं मे त्वयि सर्वं प्रतिष्ठितम्।
जीवितं च विशालाक्षि! त्वं मे प्राणैगरीयसी ॥१६॥
बहूनां स्त्रीसहस्राणां मम योऽसौ परिग्रहः।
तासां त्वमीश्वरा सीते! मम भार्या भव प्रिये! ॥१७॥
साधु किं तेऽन्यया बुद्ध्या रोचयस्ववचो मम।
भजस्व माऽभितप्तस्य प्रसादं कर्तुमर्हसि ॥१८॥
परिक्षिप्ता सहस्रेण लङ्केयं शतयोजना।
नेयं धर्षयितुं शक्या सेंद्रैरपि सुरासुरैः ॥१९॥
न देवेषु न यक्षेषु न गन्धर्वेषु न पक्षिषु।
अहं पश्यामि लोकेषु यो मे वीर्यसमो भवेत् ॥२०॥
राज्यभ्रष्टेन दीनेन तापसेन गतायुषा।
किं करिष्यसि रामेण मानुषेणाल्पतेजसा ॥२१॥
भजस्व सीते! मामेव भर्ताऽहं सदृशस्तव।
यौवनं ह्यध्रुवं भीरु! रमस्वेह मया सह ॥२२॥
दर्शने माकृथा बुद्धिं राघवस्य वरानने!।
काऽस्य शक्तिरिहागन्तुमपि सीते! मनोरथैः ॥२३॥
न शक्यो वायुराकाशे पाशैर्बद्धुं महाजवः।
दीप्यमानस्य वाप्यग्नेर्गृहीतुं विमलां शिखाम् ॥२४॥
त्रयाणामपि लोकानां न तं पश्यामि शोभने!।
विक्रमेण नयेद्यस्त्वां मद्बाहुपरिपालिताम् ॥२५॥
लङ्कायां सुमहद्राज्यमिदं त्वमनुपालय।
त्वत्प्रेष्या मद्विधाश्चैव देवाश्चापि चराचराः ॥२६॥
अभिषेकोदकक्लिन्ना तुष्टा च रमयस्व माम्।
दुष्कृतं यत्पुरा कर्म वनवासेन तद्गतम् ॥२७॥
यश्च ते सुकृतो धर्मस्तस्येह फलमाप्नुहि।
इह माल्यानि सर्वाणि दिव्यगन्धानि मैथिलि! ॥२८॥
भूषणानि च मुख्यानि सेवस्व च मया सह।
पुष्पकं नाम सुश्रोणि! भ्रातुर्वैश्रवणस्य मे ॥२९॥
विमानं सूर्यसङ्काशं तरसा निर्जितं मया।
विशालं रमणीयं च तद्विमानमनुत्तमम् ॥३०॥
तत्र सीते! मया सार्धं विहरस्व यथासुखम्।
वदनं पद्मसङ्काशं विमलं चारुदर्शनम् ॥३१॥
शोकार्तन्तु वरारोहे! न भ्राजति वरानने!।”
एवं वदति तस्मिंत्सा वस्त्रान्तेन वराङ्गना ॥३२॥
पिधायेन्दुनिभं सीता मुखमश्रूण्यवर्तयत्।
ध्यायन्तीं तामिवास्वस्थां दीनां चिन्ताहतप्रभाम् ॥३३॥
उवाच वचनं पापो रावणो राक्षसेश्वरः।
“अलं व्रीडेन वैदेहि! धर्मलोपकृतेन च ॥३४॥
आर्षोऽयं दैवनिष्यन्दो यस्त्वामभिगमिष्यति
एतौ पादौ मया स्निग्धौ शिरोभिः परिपीडितौ ॥३५॥
प्रसादं कुरु मे क्षिप्रं वश्यो दासोऽहमस्मि ते।
इमाश्शून्या मया वाचश्शुष्यमाणेन भाषिताः ॥३६॥
न चापि रावणः काचिन्मूर्ध्ना स्त्रींप्रणमेत ह।”
एवमुक्त्वा दशग्रीवो मैथिलीं जनकात्मजाम् ॥३७॥
कृतान्तवशमापन्नो ‘ममेय’मिति मन्यते।
इति श्रीमदारण्यकाण्डे पञ्चपञ्चाशस्सर्गः ॥
—————
॥ षट्पञ्चाशस्सर्गः ॥
सा तथोक्ता तु वैदेही निर्भया शोककर्शिता।
तृणमन्तरतः कृत्वा रावणं प्रत्यभाषत ॥१॥
“राजा दशरथो नाम धर्मसेतुरिवाचलः।
सत्यसन्धः परिज्ञातो यस्य पुत्रस्स राघवः ॥२॥
रामो नाम स धर्मात्मा त्रिषु लोकेषु विश्रुतः।
दीर्घबाहुर्विशालाक्षो दैवतं हि पतिर्मम ॥३॥
इक्ष्वाकूणां कुले जातस्सिंहस्कन्धो महाद्युतिः।
लक्ष्मणेन सहभ्रात्रा यस्ते प्राणान्हरिष्यति ॥४॥
प्रत्यक्षं यद्यहं तस्य त्वया स्यां धर्षिता बलात्।
शयित्वा त्वं हतस्संख्ये जनस्थाने यथा खरः ॥५॥
य एते राक्षसाः प्रोक्ता घोररूपा महाबलाः।
राघवे निर्विषास्सर्वे सुपर्णे पन्नगा यथा ॥६॥
तस्य ज्याविप्रमुक्तास्ते शराः काञ्चनभूषणाः।
शरीरं विधमिष्यन्ति गङ्गाकूलमिवोर्मयः ॥७॥
असुरैर्वासुरैर्वा त्वं यद्यवध्योऽसि रावण !।
उत्पाद्य सुमहद्वैरं जीवंस्तस्य न मोक्ष्यसे ॥८॥
स ते जीवितशेषस्य राघवोऽन्तकरो बली
पशोर्यूपगतस्येव जीवितं तव दुर्लभम् ॥९॥
यदि पश्येत्स रामस्त्वां रोषदीप्तेन चक्षुषा।
रक्ष! स्त्वमद्य निर्दग्धो गच्छेस्सद्यः पराभवम् ॥१०॥
यश्चन्द्रं नमसो भूमौ पातयेन्नाशयेत वा
सागरं शोषयेद्वापि न सीतां मोचयेदिह ॥११॥
गतायुस्त्वं गतश्रीको गतसत्त्वो गतेन्द्रियः।
लङ्का वैधव्यसंयुक्ता त्वत्कृतेन भविष्यति ॥१२॥
न ते पापमिदं कर्म सुखोदकं भविष्यति
याऽहं नीता विना भावं पतिपार्श्वास्त्वया वने ॥१३॥
स हि दैवतसंयुक्तो मम भर्ता महाद्युतिः।
निर्भयो वीर्यमाश्रित्य शून्ये वसति दण्डके ॥१४॥
स ते दर्पं बलं वीर्यमुत्सेकं च तथाविधम्।
अपनेष्यति गात्रेभ्यश्शरवर्षेण संयुगे ॥१५॥
यदा विनाशो भूतानां दृश्यते कालचोदितः।
तदा कार्ये प्रमाद्यन्ति नराः कालवशं गताः ॥१६॥
मां प्रधृष्य स ते कालः प्राप्तोऽयं राक्षसाधम!।
आत्मनो राक्षसानां च वधायान्तःपुरस्य च ॥१७॥
न शक्या यज्ञमध्यस्था वेदिस्स्रुग्भाण्डमण्डिता।
द्विजातिमन्त्रपूता च चण्डालेनावमर्दितुम् ॥१८॥
तथाऽहं धर्मनित्यस्य धर्मपत्नी पतिव्रता।
त्वया स्प्रष्टुं न शक्याऽस्मि राक्षसाधम! पापिना ॥१९॥
क्रीडन्ती राजहंसेन पद्मषण्डेषु नित्यदा।
हंसी सा तृणषण्डस्थं कथं पश्येत सद्गुकम् ॥२०॥
इदं शरीरं निस्संज्ञं बन्ध वा खादयस्व वा।
नेदं शरीरं रक्ष्यं मे जीवितं वापि राक्षस! ॥२१॥
न तु शक्ष्याम्युपक्रोशं पृथिव्यां दातुमात्मनः।”
एवमुक्त्वा तु वैदेही क्रोधात्सुपरुषं वचः ॥२२॥
रावणं मैथिली तत्र पुनर्नोवाच किंचन।
सीताया वचनं श्रुत्वा परुषं रोमहर्षणम् ॥२३॥
प्रत्युवाच ततस्सीतां भयसन्दर्शनं वचः।
“शृणु मैथिलि! मद्वाक्यं मासान्द्वादश भामिनि! ॥२४॥
कालेनाानेन नाभ्येषि यदि मां चारुहासिनि!।
ततस्त्वां प्रातराशार्थं सूदाश्छेत्स्यन्ति लेशशः ॥२५॥”
इत्युक्त्वा परुषं वाक्यं रावणश्शत्रुरावणः।
राक्षसीश्च ततः क्रुद्ध इदं वचनमब्रवीत् ॥२६॥
“शीघ्रमेव हि राक्षस्यो! विकृता घोरदर्शनाः।
दर्पमस्या विनेष्यध्वं मांसशोणितभोजनाः”॥२७॥
वचनादेव तास्तस्य सुघोरा राक्षसीगणाः।
कृतप्राञ्जलयो भूत्वा मैथिली पर्यवारयन् ॥२८॥
स ताः प्रोवाच राजा तु रावणो घोरदर्शनः।
“प्रचाल्य चरणोत्कर्षैर्दारयन्निव मेदिनीम् ॥२९॥
अशोकवनिकामध्ये मैथिली नीयतामियम्।
तत्रेयं रक्ष्यतां गूढं युष्माभिः परिवारिता ॥३०॥
तत्रैनां तर्जनैर्घोरैःपुनस्सान्त्वैश्च मैथिलीम्।
आनयध्वं वशं सर्वां वन्यां गजवधूमिव”॥३१॥
इति प्रतिसमादिष्टा राक्षस्यो रावणेन ताः।
अशोकवनिकां जग्मुर्मैथिलीं प्रतिगृह्य तु ॥३२॥
सर्वकाल फलैर्वृक्षैर्ननापुष्पफलैर्वृताम्।
सर्वकालमदैश्चापि द्विजैस्समुपसेविताम् ॥३३॥
सा तु शोकपरीताङ्गी मैथिली जनकात्मजा।
राक्षसीवशमापन्ना व्याघ्रीणां हरिणी यथा ॥३४॥
शोकेन महता ग्रस्ता मैथिली जनकात्मजा।
न शर्म लभते भीरुः पाशबद्धा मृगी यथा ॥३५॥
न विन्दते तत्र तु शर्म मैथिली विरूपनेत्राभिरतीव तर्जिता।
पतिं स्मरन्ती दयितं च दैवतं विचेतनाऽभूद्भयशोकपीडिता ॥३६॥
इति श्रीमदारण्यकाण्डे षट्पञ्चाशस्सर्गः ॥
—————
॥ सप्तपञ्चाशस्सर्गः ॥
राक्षसं मृगरूपेण चरन्तं कामरूपिणम्।
निहत्य रामो मारीचं तूर्णं पथि निवर्तते ॥१॥
तस्य सन्त्वरमाणस्य द्रष्टुकामस्य मैथिलीम्।
क्रूरस्वनोऽथ गोमायुर्विननादास्य पृष्ठतः ॥२॥
स तस्य स्वरमाज्ञाय दारुणं रोमहर्षणम्।
चिन्तयामास गोमायोस्स्वरेण परिशङ्कितः ॥३॥
“अशुभं बत मन्येऽहं गोमायुर्वाश्यते यथा।
स्वस्ति स्यादपि वैदेह्या राक्षसैर्भक्षणं विना ॥४॥
मारीचेन तु विज्ञाय स्वरमालंब्य मामकम्।
विक्रुष्टं मृगरूपेण लक्ष्मणश्शृणुयाद्यदि ॥५॥
स सौमित्रिस्वरं श्रुत्वा तां च हित्वा च मैथिलीम्।
तयैव प्रहितः क्षिप्रं मत्सकाशमिहैष्यति ॥६॥
राक्षसैस्सहितैर्नूनं सीताया ईप्सितो वधः।
काञ्चनश्च मृगो भूत्वा व्यपनीयाश्रमात्तु माम् ॥७॥
दूरं नीत्वा तु मारीचो राक्षसोऽभूच्छराहतः।
‘हा लक्ष्मण! हतोऽस्मी’ ति यद्वाक्यं व्याजहार च ॥८॥
अपि स्वस्ति भवेत्ताभ्यां रहिताभ्यां महाजने।
जनस्थानानिमित्तं हि कृतवैरोऽस्मि राक्षसैः ॥९॥
निमित्तानि च घोराणि दृश्यन्तेऽद्य बहूनि च।”
इत्येवं चिन्तयन्रामश्श्रुत्वा गोमायुनिस्वनम् ॥१०॥
आत्मनश्चापनयनान्मृगरूपेण रक्षसा।
[निवर्तमानस्त्वरया जवेनाऽऽश्रममात्मनः ॥११॥]
आजगाम जनस्थानं राघवः परिशङ्कितः।
तं दीनमनसो दीनमासेदुर्मृगपक्षिणः ॥१२॥
सव्यं कृत्वा महात्मानं घोरांश्च ससृजुस्वरान्।
तानि दृष्ट्वा निमित्तानि महाघोराणि राघवः ॥१३॥
न्यवर्तताथ त्वरितो जवेनाश्रममात्मनः।
स तु सीतां वरारोहां लक्ष्मणं च महावलम् ॥१४॥
आजगाम जनस्थानं चिन्तयन्नेव राघवः।
ततो लक्ष्मणमायान्तं ददर्श विगतप्रभम् ॥१५॥
ततोऽविदूरे रामेण समीयाय च लक्ष्मणः।
विषण्णस्सुविषण्णेन दुःखितो दुःखभागिना ॥१६॥
संजगर्हेऽथ तं भ्राता ज्येष्ठो लक्ष्मणमागतम्।
विहाय सीतां विजने वने राक्षससेविते ॥१७॥
गृहीत्वा च करं सव्यं लक्ष्मणं रघुनन्दनः।
उवाच मधुरोदर्कमिदं परुषमार्तिमत् ॥१८॥
अहो लक्ष्मण! गर्ह्मंते कृतं यस्त्वं विहाय ताम्।
सीतामिहाऽऽगतस्सौभ्य! कच्चित्स्वस्ति भवेदिह? ॥१९॥
न मेऽस्ति संशयो वीर! सर्वथा जनकात्मजा।
विनष्टा भक्षिता वापि राक्षसैर्वनचारिभिः ॥२०॥
अशुभान्येव भूयिष्ठं यथा प्रादुर्भवन्ति मे।
अपि लक्ष्मण! सीतायास्सामग्र्यं प्राप्नुयावहे ॥२१॥
जीवन्त्याः पुरुषव्याघ्र! सुताया जनकस्य वै
यथा वै मृगसंघाश्च गोमायुश्चैव भैरवम् ॥२२॥
वाश्यन्ते शकुनाश्चापि प्रदीप्तामभितो दिशम्।
अपि स्वस्ति भवेत्तस्या राजपुत्र्त्या महाबल! ॥२३॥
इदं हि रक्षो मृगसन्निकाशं प्रलोभ्य मां दूरमनुप्रयान्तम्।
हतं कथंचिन्महता श्रमेण स राक्षसोऽभून्म्रियमाण एव ॥२४॥
मनश्च मे दीनमिह प्रहृष्टं चक्षुश्च सव्यं कुरुते विकारम्।
असंशयं लक्ष्मण! नास्ति सीता हृता मृता वा पथि वर्तते वा ॥२५॥
इति श्रीमदारण्यकाण्डे सप्तपञ्चाशस्सर्गः ॥
—————
॥ अष्टपञ्चाशस्सर्गः ॥
स दृष्ट्वा लक्ष्मणं दीनं शून्ये दशरथात्मजः।
पर्यपृच्छत धर्मात्मा वैदेहीमागतं विना ॥१॥
“प्रस्थितं दण्डकारण्यं या मामनुजगामह।
क्व सा लक्ष्मण वैदेही यां हित्वा त्वमिहाऽऽगतः ॥२॥
राज्यभ्रष्टस्य दीनस्य दण्डकान्परिधावतः।
क्व सा दुःखसहाया मे वैदेही तनुमध्यमा? ॥३॥
यां विना नोत्सहे वीर! मुहूर्तमपि जीवितुम्।
क्व सा प्राणसहाया मे सीता सुरसुतोपमा ॥४॥
पतित्वममराणां वा पृथिव्याश्चापि लक्ष्मण!।
तां विना तपनीयाभांनेच्छेयं जनकात्मजाम् ॥५॥
कच्चिज्जीवति वैदेहि! प्राणैः प्रियतरा मम।
कच्चित्प्रव्राजनं सौम्य! न मे मिथ्या भविष्यति ॥६॥
सीतानिमित्तं सौमित्रे! मृते मयि गते त्वयि।
कच्चित्सकामा सुखिता कैकेयी सा भविष्यति ॥७॥
सपुत्रराज्यां सिद्धार्थांमृतपुत्रा तपस्विनी।
उपस्थास्यति कौसल्या कच्चित्सौम्य! न कैकयीम् ॥८॥
यदि जीवति वैदेही गमिष्याम्याश्रमं पुनः।
सुवृत्ता यदि वृत्ता सा प्राणांस्त्यक्ष्यामि लक्ष्मण! ॥९॥
यदि मामाश्रमगतं वैदेही नाभिभाषते।
पुनः प्रहसिता सीता त्रिनशिष्यामि लक्ष्मण! ॥१०॥
ब्रूहि लक्ष्मण ! वैदेही यदि जीवति वा नवा।
त्वयं प्रमत्ते रक्षोभिर्भक्षिता वा तपस्विनी ॥११॥
सुकुमारी च बाला च नित्यं चादुःखदर्शिनी।
मद्वियोगेन वैदेही व्यक्तं शोचति दुर्मनाः॥१२॥
सर्वथा रक्षसा तेन जिह्मेन सुदुरात्मना।
वदता ‘लक्ष्मणे’त्युच्चैस्तवापि जनितं भयम् ॥१३॥
श्रुतस्तु शङ्केवैदेह्या स स्वरस्सदृशो मम।
त्रस्तया प्रेषितस्त्वं च द्रष्टुं मां शीघ्रमागतः ॥१४॥
सर्वथा तु कृतं कष्टं सीतामुत्सृजता वने।
प्रतिकर्तुं नृशंसानां रक्षसां दत्तमन्तरम् ॥१५॥
दुःखिताः खरघातेन राक्षसाः पिशिताशनाः।
तैस्सीता निहता घोरैर्भविष्यति न संशयः ॥१६॥
आहोऽस्मिन् व्यसने मग्नस्सर्वथा शत्रुसूदन!।
किंन्विदानी करिष्यामि शङ्के प्राप्तव्यमीदृशम् ॥१७॥
इति सीतां वरारोहां चिन्तयन्नेव राघवः।
आजगाम जनस्थानं त्वरया सहलक्ष्मणः ॥१८॥
विगर्हमाणोऽनुजमार्तरूपं क्षुधाश्रमाच्चैव पिपासया च।
विनिश्श्वसन् शुष्कमुखो विवर्णः प्रतिश्रयं प्राप्य समीक्ष्य शून्यम् ॥१९॥
स्वमाश्रमं सम्प्रविगाह्य वीरो विहारदेशाननुसृत्य कांश्चित्।
एतत्तदित्येव निवासभूमौ प्रहृष्टरोमा व्यथितो बभूव ॥२०॥
इति श्रीमदारण्यकाण्डे अष्टपञ्चाशस्सर्गः ॥
—————
॥ एकोनषष्टितमस्सर्गः ॥
अथाऽऽश्रमादुपावृत्तमन्तरा रघुनन्दनः।
परिपप्रच्छ सौमित्रिं रामो दुःखार्दितं पुनः ॥१॥
तमुवाच “किमर्थं त्वमागतोऽपास्य मैथिलीम्।
यदा सा तव विश्वासाद्वने विरहिता मया ॥२॥
दृष्ट्वेवाभ्यागतं त्वां मे मैथिलीं त्यज्य लक्ष्मण!।
शङ्कमानं महत्पापं यत्सत्यं व्यथितं मनः ॥३॥
स्फुरते नयनं सव्यं बाहुश्च हृदयं च मे।
दृष्ट्वा लक्ष्मण! दूरे त्वां सीताविरहितं पथि” ॥४॥
एवमुक्तस्तु सौमित्रिर्लक्ष्मणश्शुभलक्षणः।
भूयो दुःखसमाविष्टो दुःखितं राममब्रवीत् ॥५॥
“न स्वयं कामकारेण तां त्यक्त्वाऽहमिहागतः।
प्रचोदितस्तथैवोग्रैस्त्वत्सकाशमिहागतः ॥६॥
आर्येणेव पराक्रुष्टं ‘हा सीते! लक्ष्मणेति च।
‘परित्रा’हीति यद्वाक्यं मैथिल्यास्तच्छ्रुतिं गतम् ॥७॥
सा तमार्तस्वरं श्रुत्वा तव स्नेहेन मैथिली।
‘गच्छगच्छेति मामाह रुदती भयविह्वला ॥८॥
प्रचोद्यमानेन मया ‘गच्छेति’ ति बहुशस्तया।
प्रत्युक्तामैथिली वाक्ममिदं त्वत्प्रत्ययान्वितम् ॥९॥
न तत्पश्याम्यहं रक्षो यदस्य भयमावहेत्।
निर्वृता भव नास्त्येतत्केनाप्येवमुदाहृतम् ॥१०॥
विगर्हितं च नीचं च कथमार्योऽभिधास्यति।
त्राहीति वचनं सीते! यस्त्रायेत्त्रिदशानपि ॥११॥
किं निमित्तं तु केनापि भ्रातुरालम्ब्य मे स्वरम्।
राक्षसेनेरितं वाक्यं त्राहि त्राहीति शोभने! ॥१२॥
विस्वरं व्याहृतं वाक्यं ‘लक्ष्मण! त्राहि मा’मिति।
न भवत्या व्यथा कार्या कुनारीजनसेविता ॥१३॥
अलं वैक्लब्यमाम्ब्य स्वस्था भव निरुत्सुका।
न सोऽस्ति त्रिषु लोकेषु पुमान्वै राघवं रणे ॥१४॥
जातो वा जायमानो वा संयुगे यः पराजयेत्।
न जय्यो राघवो युद्धे देवैश्शक्रपुरोगमैः ॥१५॥
एवमुक्ता तु वैदेही परिमोहितचेतना।
उवाचाश्रूणि मुञ्चन्ती दारुणं मामिदं वचः ॥१६॥
‘भावो मयि तवात्यर्थं पाप एव निवेशितः।
विनष्टे भ्रातरि प्राप्तुं न च त्वं मामवाप्स्यसि ॥१७॥
संकेताद्भरतेन त्वं रामं समनुगच्छसि।
क्रोशन्तं हि यथाऽत्यर्थं नैनमभ्यवपद्यसे ॥१८॥
रिपुः प्रच्छन्नचारी त्वं मदर्थमनुगच्छसि।
राघवस्यान्तरप्रेप्सुस्तथैनं नाभिपद्यसे ॥१९॥”
एवमुक्तो हि वैदेह्या संरब्धो रक्तलोचनः।
क्रोधात्प्रस्फुरमाणोष्ठ आश्रमादभिनिर्गतः ॥२०॥”
एवं ब्रुवाणं सौमित्रिं रामस्सन्तापमोहितः।
अब्रवीद्दुष्कृतं सौम्य! तां विना यत्त्वमागतः ॥२१॥
जानन्नपि समर्थं मां रक्षसां विनिवारणे।
अनेन क्रोधवाक्येन मैथिल्या निस्सृतो भवान् ॥२२॥
न हि ते परितुष्यामि त्यक्त्वा यद्यासि मैथिलीम्।
क्रुद्धाया परुषं श्रुत्वा स्त्रियाश्च त्वमिहाऽऽगतः ॥२३॥
सर्वथा त्वपनीतं ते सीतया यत्प्रचोदितः।
क्रोधस्य वशमापन्नो नाकरोश्शासनं मम ॥२४॥
“असौ हि राक्षसश्शेते शरेणाभिहतो मया।
मृगरूपेण येनाहमाश्रमादपवाहितः ॥२५॥
विकृष्य चापं परिधाय सायकं सलीलवाणेन च ताडितो मया।
मार्गीं तनुं त्यज्य स विक्लबस्वरो बभूव केयूरधरस्सराक्षसः ॥२६॥
शराहतेनैव तदार्तया गिरा स्वरं ममाऽऽलम्ब्य सुदूरसंश्रवम्।
उदाहृतं तद्वचनं सुदारुणं त्वमागतो येन विहाय मैथिलीम् ॥२७॥
इति श्रीमदारण्यकाण्डे एकोनषष्टितमस्सर्गः ॥
—————
॥ षष्टितमस्सर्गः ॥
भृशमाव्रजमानस्य तस्याधो वामलोचनाम्।
प्रास्फुरच्चास्खलद्रामो वेपथुश्चाप्यजायत ॥१॥
उपालक्ष्य निमित्तानि सोऽशुभानि मुहुर्मुहुः।
‘अपि क्षेमं नु सीताया’ इति वै व्याजहार च ॥२॥
त्वरमाणो जगामाथ सीतादर्शनलालसः।
शून्यमावसथं दृष्ट्वा बभूवोद्विग्नमानसः ॥३॥
उद्भ्रमन्निव वेगेन विक्षिपन्रघुनन्दनः।
तत्र तत्रोटजस्थानमभिवीक्ष्य समन्ततः ॥४॥
ददर्श पर्णशालां च रहितां सीतया तदा।
श्रिया विरहितां ध्वस्तां हेमन्ते पद्मिनीमिव ॥५॥
रुद्न्तमिव वृक्षैश्च म्लानपुष्पमृगद्विजम्।
श्रिया विहीनं विध्वस्तं सन्त्यक्तवनदेवतम् ॥६॥
विप्रकीर्णाजिनकुशं विप्रविद्धबृसीकटम्।
दृष्ट्वा शून्यं निजस्थानं विललाप पुनः पुनः ॥७॥
“हृता मृता वा नष्टा वा भक्षिता वा भविष्यति।
निलीनाप्यथवा भीरुरथवा वनमाश्रिता ॥८॥
गता विचेतुं पुष्पाणि फलान्यपि च वा पुनः।
अथवा पद्मिनीं याता जलार्थं वा नदीं गता ॥९॥”
यत्नान्मृगयमाणस्तु नाससाद वने प्रियाम्।
शोकरक्तेक्षणश्शोकादुन्मत्त इव लक्ष्यते ॥१०॥
वृक्षाद्वृक्षं प्रधावंत्सगिरेश्चाद्रिं नदान्नदीम्।
बभूव विलपन्रामश्शोकार्णवपरिप्लुतः ॥११॥
अपि काचित्त्वयादृष्टा सा कदम्बप्रिया प्रिया।
कदम्ब! यदि जानीषे शंस सीतां शुभाननाम् ॥१२॥”
स्निग्धपल्लवसङ्काशा पीतकौशेयवासिनी।
शंसस्व यदि वा दृष्टा बिल्व! बिल्वोपमस्तनी ॥१३॥”
अथवार्जुन! शंस त्वं प्रियां तामर्जुनप्रियाम्।
जनकस्य सुता भीरुर्यदि जीवति वा न वा ॥१४॥”
ककुभः ककुभोरूं तां व्यक्तं जानाति मैथिलीम्।
यथापल्लवपुष्पाढ्यो भाति ह्येष वनस्पतिः ॥१५॥
भ्रमरैरुपगीतश्च यथा द्रुमवरो ह्ययम्।
एष व्यक्तं विजानाति तिलकस्तिलकप्रियाम् ॥१६॥
‘अशोक! शोकापनुद! शोकोपहचेतसम्।
त्वन्नामानं कुरु क्षिप्रं प्रियासन्दर्शनेन माम् ॥१७॥
यदि ताल! त्वया दृष्टा पक्वतालफलस्तनी।
कथयस्व वरारोहां कारुण्यं यदि ते मयि! ॥१८॥
यदि दृष्टा त्वया सीता जम्बु! जम्बूफलोपमा।
प्रियां यदि विजानीषे निश्शङ्कं कथयस्व मे ॥१९॥
अहो! त्वं कर्णिका राद्य सुपुष्पैश्शोभने भृशम्।
कर्णिकारप्रिया साध्वी शंस दृष्टा प्रिया यदि ॥२०॥
चूतनीपमहासालान्पनसान्कुरवान्धवान्।
दाडिमानसनान्गत्वा दृष्ट्वा रामो महायशाः ॥२१॥
मल्लिकामाधवीश्चैव चम्पकान् केतकीस्तथा।
पृच्छन् रामो वने भ्रान्त उन्मत्तइव लक्ष्यते ॥२२॥
अथवा मृगशाबाक्षींमृग! जनासि मैथिलीम्।
मृग विप्रेक्षणी कान्ता मृगीभिस्सहिता भवेत् ॥२३॥
‘गज! सा गजनासोरूर्यदि दृष्टा त्वया भवेत्।
तां मन्ये विदितां तुभ्यमाख्याहि वरवारण!’ ॥२४॥
शार्दूल! यदि सा दृष्टा प्रिया चन्द्रनिभानना।
मैथिली मम विस्रब्धं कथयस्व न ते भयम् ॥२५॥
किं धावसि प्रिये! दूरं दृष्टाऽसि
कमलेक्षणे!।
वृक्षैराच्छाद्य चात्मानं किं मां न प्रतिभाषसे ॥२६॥
तिष्ठ तिष्ठ वरारोहे! न तेऽस्ति करुणा मयि।
नात्यर्थं हास्यशीलाऽसि किमर्थं मामुपेक्षसे ॥२७॥
पीतकौशेयकेनापि सूचिता वरवर्णिनि!।
धावन्त्यपि मया दृष्टा तिष्ठ यद्यस्ति सौहृदम् ॥२८॥
नैव सा नूनमथवा हिंसिता चारुहासिनी।
कृच्छ्रं प्राप्तं न मां नूनं यथोपेक्षितुमर्हति ॥२९॥
व्यक्तं सा भक्षिता बाला राक्षसैः पिशिताशनैः।
विभज्याङ्गानि सर्वाणि मया विरहिता प्रिया ॥३०॥
नूनं तच्छुभदन्तोष्ठं सुनासं चारुकुण्डलम्।
पूर्णचन्द्रमिव ग्रस्तं मुखं निष्प्रभतां गतम् ॥३१॥
सा हि चम्पकवर्णाभा ग्रीवा ग्रैवेयशोभिता।
कोमला विलपन्त्यास्तु कान्ताया भक्षिता शुभा ॥३२॥
नूनं विक्षिप्यमाणौ तौ बाहू पल्लवकोमलौ।
भक्षितौ वेपमानाग्रौसहस्ताभरणाङ्गदौ ॥३३॥
मया विरहिता बाला रक्षसां भक्षणाय वै
सार्थेनेव परित्यक्ता भक्षिता बहुबान्धवा ॥३४॥
‘हा लक्ष्मण! महाबाहो! पश्यसि त्वं प्रियां क्वचित्।
हा प्रिये! क्व गता भद्रे! हा सीते !’ति पुनः पुनः ॥३५॥
इत्येवं विलपन् रामः परिधावन्वनाद्वनम्।
क्वचिदुद्भ्रमते वेगात्क्वचिद्विभ्रमते बलात् ॥३६॥
क्वचिन्मत्त इवाभाति कान्तान्वेषणतत्परः।
स वनानि नदीश्शैलान्गिरिप्रस्रवणानि च ॥३७॥
काननानि च वेगेन भ्रमत्यपरिसंस्थितः।
तथा स गत्वा विपुलं महद्वनं परीत्य सर्वं त्वथ मैथिलीं प्रति।
अनिष्ठिताशस्स चकार मार्गणे पुनः प्रियायाः परमं परिश्रमम् ॥३८॥
इति श्रीमदारण्यकाण्डे षष्टितमस्सर्गः ॥
—————
॥एकषष्टितमस्सर्गः॥
दृष्ट्वाऽऽश्रमपदं शून्यं रामो दशरथात्मजः।
रहितां पर्णशालां च विध्वस्तान्यासनानि च ॥१॥
अदृष्ट्वा तत्र वैदेहीं सन्निरीक्ष्य च सर्वशः।
उवाच रामः प्राक्रुश्य प्रगृह्य रुचिरौ भुजौ ॥२॥
“क्वनु लक्ष्मण! वैदेही कं वा देशमितो गता।
केनाहता वा सौमित्रे! भक्षिता केन वा प्रिया ॥३॥”
‘वृक्षेणाच्छाद्य यदि मां सीते! हसितुमिच्छसि।
अलं ते हसितेनाद्य मां भजस्व सुदुःखितम् ॥४॥
यैस्सह क्रीडसे सीते! विश्वस्तैर्मृगपोतकैः।
एते हीनास्त्वया सौम्ये! ध्यायन्त्यास्राविलेक्षणाः ॥५॥’
“सीतया रहितोऽहं वै न हि जीवामि लक्ष्मण!।
मृतं शोकेन महता सीताहरणजेन माम् ॥६॥
परलोके महाराजो नूनं द्रक्ष्यति मे पिता।
कथं प्रतिज्ञां संश्रुत्य मया त्वमभियोजितः ॥७॥
अपूरयित्वा तं कालं मत्सकाशमिहागतः।
कामवृत्तमनार्यंमां मृषावादिनमेव च ॥८॥
‘धिक्त्वा’मिति परे लोके व्यक्तं वक्ष्यति मे पिता।
विवशं शोकसंतप्तं दीनं भग्नमनोरथम् ॥९॥”
“मामिहोत्सृज्य करुणं कीर्तिर्नरमिवानृजुम्।
क्व गच्छसि वरारोहे! मां नोत्सृज सुमध्यमे! ॥१०॥
त्वया विरहितश्चाहं मोक्ष्ये जीवितमात्मनः।”
इतीव विलपन्रामस्सीतादर्शनलालसः ॥११॥
न ददर्श सुदुःखार्तोराघवो जनकात्मजाम्।
अनासादयमानं तं सीतां दशरथात्मजम् ॥१२॥
पङ्कमासाद्य विपुलं सीदन्तमिव कुञ्जरम्।
लक्ष्मणो राममत्यर्थमुवाच हितकाम्यया ॥१३॥
“मा विषादं महाबाहो! कुरु यत्नं मया सह।
इदं च हि वनं शूर ! बहुकन्दरशोभितम् ॥१४॥
प्रियकाननसंचारा वनोन्मत्ता च मैथिली।
सा वनं वा प्रविष्टा स्यान्नलिनीं वा सुपुष्पिताम् ॥१५॥
सरितं वाऽपि संप्राप्ता मीनवञ्जुलसेविताम्।
स्नातुकामा निलीना स्याद्धासकामा वने क्वचित् ॥१६॥
वित्रासयितुकामा वा लीना स्यात्कानने क्वचित्।
जिज्ञासमाना वैदेही त्वां मां च पुरुषर्षभः ॥१७॥
तस्या ह्यन्वेषणे श्रीमन्! क्षिप्रमेव यतावहे।
वनं सर्व विचिनुवो यत्र सा जनकात्मजा ॥१८॥
मन्यसे यदि काकुत्स्थ! मास्म शोके मनः कृथाः।”
एवमुक्तस्तु सौहार्दाल्लक्ष्मणेन समाहितः ॥१९॥
सह सौमित्रिणा रामो विचेतुमुपचक्रमे।
तौ वनानि गिरींश्चैव सरितश्चसरांसि च ॥२०॥
निखिलेन विचिन्वानौसीतां दशरथात्मजौ।
तस्य शैलस्य सानूनि गुहाश्च शिखराणि च ॥२१॥
निखिलेन विचिन्वानौ नैव तामभिजग्मतुः।
विचित्य सर्वतश्शैलं रामो लक्ष्मणमब्रवीत् ॥२२॥
‘नेह पश्यामि सौमित्रे! वैदेहीं पर्वते’शुभाम्।
ततो दुःखाभिसंतप्तो लक्ष्मणो वाक्यमब्रवीत् ॥२३॥
विचरन्दण्डकारण्यं भ्रातरं दीप्ततेजसम्।
“प्राप्स्यसि त्वं महाप्राज्ञ! मैथिलीं जनकात्मजाम् ॥२४॥
यथा विष्णुर्महाबाहुर्बलिं बध्वा महीमिमाम्।
एवमुक्तस्तु सैहार्दाल्लक्षणेन स राघवः ॥२५॥
उवाच दीनया वाचा दुःखाभिहतचेतनः।
“वनं सर्वं सुविचितं पद्मिन्यः फुल्लपङ्कजाः ॥२६॥
गिरिश्चायंमहाप्राज्ञ! बहुकन्दरनिर्झरः।
न हि पश्यामि वैदेहीं प्राणेभ्योऽपि गरीयसीम् ॥२७॥
“एवं स विलपन् रामस्सीताहरणकर्शितः।
दीनश्शोकसमाविष्टो मुहूर्तं विह्वलोऽभवत् ॥२८॥
संतप्तो ह्यवसन्नाङ्गो गतबुद्धिर्विचेतनः।
निषसादातुरो दीनो निश्श्वस्याशीतमायतम् ॥२९॥
बहुलं स तु निश्श्वस्य रामो राजीवलोचनः।
‘हा प्रिये’ ति विचुक्रोश बहुशो बाष्पगद्गदः ॥३०॥
तं ततस्सान्त्वयामास लक्ष्मणः प्रियबान्धवः।
बहुप्रकारं धर्मंज्ञः प्रश्रितं प्रश्रिताञ्जलिः ॥३१॥
अनादृत्य तु तद्वाक्यं लक्ष्मणोष्ठपुटाच्च्युतम्।
अपश्यंस्तां प्रियां सीतां प्राक्रोशत्स पुनः पुनः ॥३२॥
इति श्रीमदारण्यकाण्डे एकषष्टितमसर्गः ॥
—————
॥ द्विषष्टितमस्सर्गः ॥
सीतामपश्यन्धर्मात्मा कामोपहतचेतनः।
विललाप महाबाहू रामः कमललोचनः ॥१॥
पश्यन्निव च तां सीतामपश्यन्मदनार्दितः।
उवाच राघवो वाक्यं विलापाश्रयदुर्वचम् ॥२॥
त्वमशोकस्य शाखाभिः पुष्पप्रियतया प्रिये!
आवृणोषि शरीरं ते मम शोकविवर्धनी ॥३॥
कदलीकाण्डसदृशौ कदल्या संवृतावुभौ।
ऊरू पश्यामि ते देवि! नासि शक्ता निगूहितुम् ॥४॥
कर्णिकारवनं भद्रे! हसन्ती देवि! सेवसे।
अलं ते परिहासेन मम बाधावहेन वै ॥५॥
परिहासेन किं सीते! परिश्रान्तस्य मे प्रिये!।
अयं स परिहासोऽपि साधु देवि! न रोचते ॥६॥
विशेषेणाश्रमस्थाने हासोऽयं न प्रशस्यते।
अवगच्छामि ते शीलं परिहासप्रियं प्रिये! ॥७॥
आगच्छ त्वं विशालाक्षि! शून्योऽयमुटजस्तव।”
“सुव्यक्तं राक्षसैस्सीता भक्षिता वा हृताऽपि वा ॥८॥
न हि सा विलपन्तं मामुपसंप्रैति लक्ष्मण!।
एतानि मृगयूथानि साश्रुनेत्राणि लक्ष्मण! ॥९॥
शंसन्तीव हि वैदेहीं भक्षितां रजनीचरैः।”
“हा ममार्ये! क्वयातासि हा साध्वि! वरवर्णिनि! ॥१०॥
हासकामा त्वया देवी कैकेयी सा भविष्यति।”
सीतया सह निर्यातो विना सीतामुपागतः ॥११॥
कथं नाम प्रवेक्ष्यामि शून्यमन्तःपुरं पुनः।
‘निर्वीर्य’इति लोको मां ‘निर्दय’श्चेति वक्ष्यति ॥१२॥
कातरत्वं प्रकाशं हि सीतापनयनेन मे।
निवृत्तवनवासश्च जनकं मिथिलाधिपम् ॥१३॥
कुशलं परिपृच्छन्तं कथं शक्ष्ये निरीक्षितुम्।
विदेहराजो नूनं मां दृष्ट्वा विरहितं तया ॥१४॥
सुतास्नेहेन संतप्तो मोहस्य वशमेष्यति।
अथवा न गमिष्यामि पुरीं भरतपालिताम् ॥१५॥
स्वर्गोऽपि सीतया हीनश्शून्य एव मतो मम।
मामिहोत्सृज्य हि वने गच्छायोध्यां पुरीं शुभाम् ॥१६॥
न त्वहं तां विना सीतां जीवेयं हि कथंचन।
गाढमालिष्य भरतो वाच्यो मद्वचनात्त्वया ॥१७॥
‘अनुज्ञातोऽसि रामेण पाल’ येति वसुन्धराम्।
अम्बा च मम कैकेयी सुमित्रा च त्वया विभो! ॥१८॥
कौसल्या च यथान्यायमभिवाद्या ममाऽऽज्ञया।
रक्षणीया प्रयत्नेन भवता सूक्तकारिणा ॥१९॥
सीतायाश्च विनाशोऽयं मम चामित्रकर्शन!।
विस्तरेण जनन्या मे विनिवेद्यस्त्वया भवेत् ॥२०॥”
इति विलपति राघवे सुदीने वनमुपगम्य तया विना सुकेश्या।
भयविकलमुखस्तु लक्ष्मणोऽपि व्यथितमना भृशमातुरो बभूव ॥
इति श्रीमदारण्यकाण्डे द्विषष्टितमस्सर्गः ॥
—————
॥ त्रिषष्टितमस्सर्गः॥
स राजपुत्रः प्रियया विहीनः कामेन शोकेन च पीड्यमानः।
विषादयन्भ्रातरमार्तरूपो भूयो विषादं प्रविवेश तीव्रम् ॥१॥
स लक्ष्मणं शोकवशाभिपन्नं शोके निमग्नो विपुले तु रामः।
उवाच वाक्यं व्यसनानुरूपमुष्णं विनिश्वस्य रुदंत्सशोकम् ॥२॥
“न मद्विधोदुष्कृतकर्मकारी मन्ये द्वितीयोऽस्ति वसुन्धरायाम्।
शोकेन शोको हि परंपराया मा मेति भिन्दन्हृदयं मनश्च ॥३॥
पूर्व मया नूनमभीप्सितानि पापानि कर्माण्यसत्कृतानि।
तत्रायमद्यापतितो विपाको दुःखेन दुःखं यदहं विशामि ॥४॥
राज्यप्रणाशस्स्वजनैर्वियोगः पितुर्विनाशो जननीवियोगः।
सर्वाणि मे लक्ष्मण! शोकवेगमापूरयन्ति प्रविचिन्तितानि ॥५॥
सर्वं तु दुःखं मम लक्ष्मणेदं शान्तं शरीरे वनमेत्य शून्यम्।
सीतावियोगात्पुनरप्युदीर्णं काष्ठैरिवाग्निस्सहसा प्रदीप्तः ॥६॥
सा नूनमार्या मम राक्षसेन बलाद्धृता खं समुपेत्य भीरुः।
अपस्वरं सस्वरविप्रलापा भयेन विक्रन्दितवत्यभीक्ष्णम् ॥७॥
तौ लोहितस्य प्रियदर्शनस्य सदोचितावुत्तमचन्दनस्य।
वृत्तौ स्तनौ शोणितपङ्कदिग्धौनूनं प्रियाया मम नाभिभातः ॥८॥
तत् श्लक्ष्णसुव्यक्तमृदुप्रवालं तस्या मुखं कुञ्चितकेशभारम्।
रक्षोवशं नूनमुपागताया न भ्राजते राहुमुखे यथेन्दुः ॥९॥
तां हारपाशस्य सदोचिताया ग्रीवां प्रियाया मम सुव्रतायाः।
रक्षांसि नूनं परिपीतवन्ति विभिद्य शून्ये रुधिराशनानि ॥१०॥
मया विहीना विजने वने या रक्षोभिराहृत्य विकृष्यमाणा।
नूनं विनादं कुररीव दीना सा मुक्तवत्यायतकान्तनेत्रा ॥११॥
अस्मिन्मया सार्धमुदारशीला शिलातले पूर्वमुपोपविष्टा।
कान्तस्मिता लक्ष्मण! जातहासा त्वामाह सीता बहुवाक्यजातम् ॥१२॥
गोदावरीयं सरितां वरिष्ठा प्रिया प्रियाया मम नित्यकालम्।
अप्यत्रगच्छेदिति चिन्तयामि नैकाकिनी याति हि सा कदाचित् ॥१३॥
पद्मानना पद्मविशालनेत्रा पद्मानि वाऽऽनेतुमभिप्रयाता।
तदप्ययुक्तं न हि सा कदाचिन्मया विना गच्छति पङ्कजानि ॥१४॥
कामं त्विदं पुष्पितवृक्षषण्डं नानाविधैः पक्षिगणैरुपेतम्।
वनं प्रयाता नु तदप्ययुक्तमेकाकिनी साऽतिबिभेति भीरुः ॥१५॥”
आदित्य! भो लोककृताकृतज्ञ! लोकस्य सत्यानृतकर्मसाक्षिन्!।
मम प्रिया सा क्वगता हृता वा शंसस्व मे शोकवशस्य सत्यम् ॥१६॥”
“लोकेषु सर्वेषु च नास्ति किंचिद्यत्ते न नित्यं विदितं भवेत्तत्।
शंसस्व वायो! कुलशालिनीं तां हृता मृता वा पथि वर्तते वा ॥१७॥”
इतीव तं शोकविधेयदेहं रामं विसंज्ञं विलपन्तमेवम्।
उवाच सौमित्रिरदीनसत्त्वो न्याये स्थितं कालयुतं च वाक्यम् ॥१८॥
शोकं विमुञ्चार्य! धृतिं भजस्व सोत्साहता चास्तु विमार्गणेऽस्याः।
उत्साहवन्तो हि नरा न लोके सीदन्ति कर्मस्वतिदुष्करेषु ॥१९॥”
इतीव सौमित्रिमुदग्रपौरुषं ब्रुवन्तमार्तो रघुवंशवर्धनः।
न चिन्तयामास धृतिं विमुक्तवान्पुनश्च दुःखं महदभ्युपागमत् ॥२०॥
इति श्रीमदारण्यकाण्डे त्रिषष्टितमस्सर्गः ॥
—————
॥ चतुष्षष्टितमस्सर्गः ॥
स दीनो दीनया वाचा लक्ष्मणं वाक्यमब्रवीत्।
“शीघ्रं लक्ष्मण! जानीहि गत्वा गोदावरीं नदीम् ॥१॥
अपि गोदावरीं सीता पद्मान्यानयितुं गता।”
एवमुक्तस्तु रामेण लक्ष्मणः परवीरहा ॥२॥
नदीं गोदावरी रम्यां जगाम लघुविक्रमः।
तां लक्ष्मणस्तीर्थवती विचित्वा राममब्रवीत् ॥३॥
“नैनां पश्यामि तीर्थेषु क्रोशतो न शृणोति मे।
कं नु सा देशमापन्ना वैदेही क्लेशनाशिनीं ॥४॥
न ह्यहं वेद तं देशं यत्र सा जनकात्मजा।”
लक्ष्मणस्य वचश्श्रुत्वा दीनस्सन्तापमोहितः ॥५॥
रामस्समभिचक्राम स्वयं गोदावरीं नदीम्।
स तामुपस्थितो रामः ‘क्व सी’तेत्येवमब्रवीत् ॥६॥
भूतानि ‘राक्षसेन्द्रेण वधार्हेण हृता’मिति।
न तां शशंसू रामाय तथा गोदावरी नदी ॥७॥
ततः प्रचोदिता भूतै ‘श्शंसास्मत्तां प्रिया’ मिति।
न तु साऽभ्यवदत्सीतां पृष्टा रामेण शोचता ॥८॥
रावणस्य च तद्रूपं कर्माणि च दुरात्मनः।
ध्यात्वा भयात्तु वैदेहीं सा नदी न शशंस ताम् ॥९॥
निराशस्तु तया नद्या सीताया दर्शने कृतः।
उवाच रामः सौमित्रिं सीताऽदर्शनकर्शितः ॥१०॥
“एषा गोदावरी सौम्य! किंचिन्न प्रतिभाषते।
किन्नु लक्ष्मण! वक्ष्यामि समेत्य जनकं वचः ॥११॥
मातरं चैव वैदेह्या विना तामहमप्रियम्।
या मे राज्यविहीनस्य वने वन्येन जीवतः ॥१२॥
सर्व व्यपनयेच्छोकं वैदेही क्वनु सा गता।
ज्ञातिपक्षविहीनस्य राजपुत्रीमपश्यतः ॥१३॥
मन्ये दीर्घा भविष्यन्ति रात्रयो मम जाग्रतः
मन्दाकिनीं जनस्थानमिमं प्रस्रवणं गिरिम् ॥१४॥
सर्वाण्यनुचरिष्यामि यदि सीता हि दृश्यते।
एते मृगा महावीर्या मामीक्षन्ते मुहुर्मुहुः ॥१५॥
वक्तुकामा इव हि मे इङ्गितान्युपलक्षये।”
तांस्तु दृष्ट्वा नरव्याघ्रो राघवः प्रत्युवाच ह ॥१६॥
‘क्व सी’ तेति निरीक्षन्वै बाष्पसंरुद्धया दृशा।
एवमुक्ता नरेंद्रेण ते मृगास्सहसोत्थिताः ॥१७॥
दक्षिणाभिमुखास्सर्वे दर्शयन्तो नसस्स्थलम्।
मैथिली ह्रियमाणा सा दिशं यामन्वपद्यत ॥१८॥
तेन मार्गेण धावन्तो निरीक्षन्ते नराधिपम्।
येन मार्गं च भूमिं च निरीक्षन्ते स्म ते मृगाः ॥१९॥
पुनश्च मार्गमिच्छन्ति लक्ष्मणेनोपलक्षिताः।
तेषां वचनसर्वस्वं लक्षयामास चेङ्गितम् ॥२०॥
उवाच लक्ष्मणो ज्येष्ठं धीमान्भ्रातरमार्तवत्।
“क्व सीतेति त्वया पृष्टा यथेमे सहसोत्थिताः ॥२१॥
दर्शयन्ति क्षितिं चैव दक्षिणां च दिशं मृगाः।
साधु गच्छावहै देव! दिशमेतां हि नैर्ऋतीम् ॥२२॥
यदि स्यादागमः कश्चिदार्या वा साऽथ लक्ष्यते।”
‘बाढ’मित्येव काकुत्स्थः प्रस्थितो दक्षिणां दिशम् ॥२३॥
लक्ष्मणानुगतश्श्रीमान्वीक्षमाणो वसुन्धराम्।
एवं संभाषमाणौ तावन्योन्यं भ्रातरावुभौ ॥२४॥
वसुन्धरायां पतितं पुष्पमार्गमपश्यताम्।
तां पुष्पवृष्टिं पतितां दृष्ट्वा रामो महीतले ॥२५॥
उवाच लक्ष्मणं वीरो दुःखितो दुःखितं वचः।
अभिजानामि पुष्पाणि तानीमानाह लक्ष्मण ॥२६॥
पिनद्धानि हि वैदेह्या मया दत्तानि कानने।
मन्ये सूर्यश्च वायुश्च मेदिनी च यशस्विनी ॥२७॥
अभिरक्षन्ति पुष्पाणि प्रकुर्वन्तो मम प्रियम्।”
एवमुक्त्वा महाबाहुं लक्ष्मणं पुरुषर्षभः ॥२८॥
उवाच रामो धर्मात्मा गिरिं प्रस्रवणाकुलम्।
“कञ्चित्क्षितिभृतां नाथ! दृष्टा सर्वाङ्गसुन्दरी! ॥२९॥
रामा रम्ये वनोद्देशे मया विरहिता त्वया।
क्रुद्धोऽब्रवीद्गिरिं तत्र सिंहः क्षुद्रमृगं यथा ॥३०॥
“तां हेमवर्णां हेमाभां सीतां दर्शय पर्वत!।
यावत्सानूनि सर्वाणि न ते विध्वंसयाम्यहम् ॥३१॥”
एवमुक्तस्तु रामेण पर्वतो मैथिलीं प्रति।
शंसन्निव ततस्सीतां नादर्शयत राघवे ॥३२॥
ततो दाशरथी राम उवाच च शिलोच्चयम्।
मम बाणाग्निनिर्दग्धो भस्मीभूतो भविष्यसि ॥३३॥
असेव्यस्सन्ततं चैव निस्तृणद्रुमपल्लवः।
इमां वा सरितं चाद्य शोषयिष्यामि लक्ष्मण! ॥३४॥
यदि नाख्याति मे सीतामार्यांचन्द्रनिभाननाम्।”
एवं स रुषितो रामो दिधक्षन्निव चक्षुषा ॥३५॥
ददर्श भूमौ निष्क्रान्तं राक्षसस्य पदं महत्।
त्रस्ताया रामकाङ्क्षिण्याः प्रधावन्त्या इतस्ततः ॥३६॥
राक्षसेनानुवृत्ताया मैथिल्याश्च पदान्यथ।
स समीक्ष्य परिक्रान्तं सीताया राक्षसस्य च ॥३७॥
भग्नं धनुश्च तूणी च विकीर्णं बहुधा रथम्।
संभ्रान्तहृदयो रामश्शशंस भ्रातरं प्रियम् ॥३८॥
“पश्य लक्ष्मण! वैदेह्याश्शीर्णाः कनकबिन्दवः।
भूषणानां हि सौमित्रे! माल्यानि विविधानि च ॥३९॥
तप्तबिन्दुनिकाशैश्च चित्रैः क्षतजबिन्दुभिः।
आवृतं पश्य सौमित्रे! सर्वतो धरणीतलम् ॥४०॥
मन्ये लक्ष्मण! वैदेही राक्षसैः कामरूपिभिः।
भित्वा भित्वा विभक्ता वा भक्षिता वा भविष्यति ॥४१॥
तस्या निमित्तं वैदेह्या द्वयोर्विवदमानयोः।
बभूव युद्धं सौमित्रे! घोरं राक्षसयोरिह ॥४२॥
मुक्तामणिमयं चेदं तपनीयविभूषितम्।
धरण्यां पतितं सौम्य! कस्य भग्नं महद्धनुः ॥४३॥
[राक्षसानामिदं वत्स! सुराणामथवापि वा।]
तरुणादित्यसङ्काशं वैडूर्यगुलिकाचितम् ॥४४॥
विशीर्णं पतितं भूमौ कवचं तस्य काञ्चनम्।
छत्रं शतशलाकं च दिव्यमाल्योपशोभितम् ॥४५॥
भग्नदण्डमिदं कस्य भूमौ सम्यङ्निपातितम्।
काञ्चनोरश्छदाश्चेमे पिशाचवदनाः खराः ॥४६॥
भीमरूपा महाकायाः कस्य वा निहता रणे।
दीप्तपावकसंकाशो द्युतिमांत्समरध्वजः ॥४७॥
अपविद्धश्च भग्नश्चकस्य साङ्ग्रामिको रथः।
रथाक्षमात्रा विशिखास्तपनीय विभूषणाः ॥४८॥
कस्येमेऽभिहता बाणाः प्रकीर्णा घोरकर्मणः।
[राक्षसानामिमौ वत्स! सुराणामथवाद्भुतौ ॥४९॥]
शरावरौ शरैः पूर्णौ विध्वस्तौ पश्य लक्ष्मण!।
प्रतोदामीशुहस्तो वै कस्यायं सारथिर्हतः ॥५०॥
[सारथिं हतवान्को वा महाबलपराक्रमः।]
कस्येमौ पुरुषव्याघ्र! शयाते निहतौ युधि ॥५१॥
चामरग्राहिणौ सौम्य! सोष्णीषमणिकुण्डलौ।
पदवी पुरुषस्यैषा व्यक्तं कस्यापि रक्षसः ॥५२॥
वैरं शतगुणं पश्य ममेदं जीवितान्तकम्।
सुघोरहृदयैस्सौम्य! राक्षसैः कामरूपिभिः ॥५३॥
हृता मृतां वा सीता सा भक्षिता वा तपस्विनी।
न धर्मस्त्रायते सीतां ह्रियमाणां महावने ॥५४॥
भक्षितायां हि वैदेह्यां हृतायामपि लक्ष्मण!।
के हि लोके प्रियं कर्तुं शक्तास्सौम्य! ममेश्वराः ॥५५॥
कर्तारमपि लोकानां शूरं करुणवेदिनम्।
अज्ञानादवमन्येरंत्सर्वभूतानि लक्ष्मण! ॥५६॥
मृदुं लोकहिते युक्तं दान्तं करुणवेदिनम्।
‘निर्वीर्य’इति मन्यन्ते नूनं मां त्रिदशेश्वराः ॥५७॥
मां प्राप्य हि गुणो दोषस्संवृत्तः पश्य लक्ष्मण!।
अद्यैव सर्वभूतानां रक्षसामभवाय च ॥५८॥
संहृत्यैव शशिज्योत्स्नां महांत्सूर्य इवोदितः।
संहृत्यैव गुणांत्सर्वान्मम तेजः प्रकाशते ॥५९॥
नैव यक्षा न गन्धर्वा न पिशाचा न राक्षसाः।
किन्नरा वा मनुष्या वा सुखं प्राप्स्यन्ति लक्ष्मण! ॥६०॥
ममास्त्रबाणसंपूर्णमाकाशं पश्य लक्ष्मण!।
निस्संपातं करिष्यामि ह्यद्य त्रैलोक्यचारिणाम् ॥६१॥
सन्निरुद्धग्रहगणमावारितनिशाकरम्।
विप्रणष्टानलमरुद्भास्करद्युतिसंवृतम् ॥६२॥
विनिर्मथितशैलाग्रंशुष्यमाणजलाशयम्।
ध्वस्तद्रुमलतागुल्मं विप्रणाशितसागरम् ॥६३॥
त्रैलोक्यं तु करिष्यामि संयुक्तं कालकर्मणा।
न तां कुशलिनी सीतां प्रदास्यन्ति ममेश्वराः ॥६४॥
अस्मिन्मुहूर्ते सौमित्रे! मम द्रक्ष्ययन्ति विक्रमम्।
नाकाशमुत्पतिष्यन्ति सर्वभूतानि लक्ष्मण! ॥६५॥
मम चापगुणोन्मुक्तैर्बाणजालैर्निरन्तरम्।
अर्दितं मम नाराचैर्ध्वस्तभ्रान्तमृगद्विजम् ॥६६॥
समाकुलममर्यादं जगत्पश्याद्य लक्ष्मण!।
आकर्णपूर्णैरिषुभिर्जीवलोकं दुरावरैः ॥६७॥
करिष्ये मैथिलीहेतोरपिशाचमराक्षसम्।
मम रोषप्रयुक्तानां सायकानां बलं सुराः ॥६८॥
द्रक्ष्यन्त्यद्य विमुक्तानामतिदूरातिगामिनाम्।
नैव देवा न दैतेया न पिशाचा न राक्षसाः ॥६९॥
भविष्यन्ति मम क्रोधात्त्रैलोक्ये विप्रणाशिते।
देवदानवयक्षाणां लोका ये रक्षसामपि ॥७०॥
बहुधा न भविष्यन्ति बाणौघैश्शकलीकृताः।
निर्मर्यादानिमान्लोकान्करिष्याम्यद्य सायकैः ॥७१॥
हृतां मृतां वा सौमित्रे ! न दास्यन्ति ममेश्वराः।
तथारूपां हि वैदेहीं न दास्यन्ति यदि प्रियाम् ॥७२॥
नाशयामि जगत्सर्वं त्रैलोक्यं सचराचरम्।”
यावद्दर्शनमस्या वै तावद्धक्ष्यामि सायकैः ॥७३॥
इत्युक्त्वा रोषताम्राक्षः [स्फुरमाणोष्ठसम्पुटः।
वल्कलाजिनमाबद्ध्य जटाभारमबन्धयत् ॥७४॥
त्रिपुरं जघ्नुषः पूर्वं रुद्रस्येव बभौ तनुः।
लक्ष्मणादपि चादाय] रामो निष्पीड्य कार्मुकम् ॥७५॥
शरमादाय संदीप्तं घोरमाशीविषोपमम्।
सन्धाय धनुषि श्रीमान्रामः परपुरञ्जयः ॥७६॥
युगान्ताग्निरिव क्रुद्ध इदं वचनमब्रवीत्।
“यथा जरा यथा मृत्युर्यथा कालो यथा विधिः ॥७७॥
नित्यं न प्रतिहन्यन्ते सर्वभूतेषु लक्ष्मण!।
तथाऽहं क्रोधसंयुक्तो न निवार्योऽस्मि सर्वथा ॥७८॥
पुरेव मे चारुदतीमनिन्दितां दिशन्ति सीतां यदि नाद्य मैथिलीम्।
सदेवगन्धर्वमनुष्यपन्नगं जगत्सशैलं परिवर्तयाम्यहम् ॥७९॥”
इति श्रीमदारण्यकाण्डे चतुष्षष्टितमस्सर्गः ॥
<MISSING_FIG href=”../books_images/U-IMG-1708329107Screenshot2023-11-25183343.png”/>
॥ पञ्चषष्टितमस्सर्गः ॥
तप्यमानं तथा रामं सीताहरणकर्शितम्।
लोकानामभवे युक्तं सांवर्तिकमिवानलम् ॥१॥
वीक्षमाणं धनुस्सज्यं निःश्वसन्तं पुनः पुनः।
दग्धुकामं जगत्सर्व युगान्ते तु यथा हरम् ॥२॥
अदृष्टपूर्वं संक्रुद्धं दृष्ट्वा रामं तु लक्ष्मणः।
अब्रवीत्प्राञ्जलिर्वाक्यं मुखेन परिशुष्यता ॥३॥
“पुरा भूत्वा मृदुर्दान्तस्सर्वभूतहिते रतः।
न क्रोधवशमापन्नः प्रकृतिं हातुमर्हसि ॥४॥
चन्द्रे लक्ष्मीः प्रभा सूर्ये गतिर्वायौ भुवि क्षमा।
एतच्च नियतं सर्वं त्वयि चानुत्तमं यशः ॥५॥
एकस्य नापराधेन लोकान् हन्तुं त्वमर्हसि।
न तु जानामि कस्यायं भग्नस्साङ्ग्रामिको रथः ॥६॥
केन वा कस्य वा हेतोस्सायुधस्सपरिच्छदः।
खुरनेमिक्षतश्चायंसिक्तोरुधिरबिन्दुभिः ॥७॥
देशो निर्वृत्तसङ्ग्रामस्सुघोरः पार्थिवात्मज!।
एकस्य तु विमर्दोयं न द्वयोर्वदतां वर! ॥८॥
नहि वृत्तं हि पश्यामि बलस्य महतः पदम्।
नैकस्य तु कृते लोकान्विनाशयितुमर्हसि ॥९॥
युक्तदण्डा हि मृदवः प्रशान्ता वसुधाधिपाः।
सदा त्वं सर्वभूतानां शरण्यः परमागतिः ॥१०॥
कोनु दारप्रणाशं ते साधु मन्येत राघव!।
सरितस्सागराश्शैला देवगन्धर्वदानवाः ॥११॥
नालं ते विप्रियं कर्तुं दीक्षितस्येव साधवः।
येन राजन्! हृता सीता तमन्वेषितुमर्हसि ॥१२॥
मद्द्वितीयो धनुष्पाणिस्सहायैः परमर्षिभिः।
समुद्रं च विचेष्यामः पर्वतांश्च वनानि च ॥१३॥
गुहाश्च विविधा घोराः नदीः पद्मवनानि च।
देवगन्धर्वलोकांश्च विचेष्यामस्समाहिताः ॥१४॥
यावन्नाधिगमिष्यामस्तव भार्यापहारिणम्।
नचेत्साम्रा प्रदास्यन्ति पत्नीं ते त्रिदशेश्वराः ॥१५॥
कोसलेन्द्र! ततः पश्चात्प्राप्तकालं करिष्यसि।
शीलेन साम्नाविनयेन सीतां नयेन न प्राप्स्यसि चेन्नरेन्द्र!।
ततस्समुत्पादय हेमपुङ्खैर्महेन्द्रवज्रप्रतिमैश्शरौघैः ॥”
इति श्रीमदारण्यकाण्डे पञ्चषष्टितमस्सर्गः ॥
—————
॥ षट्षष्टितमस्सर्गः ॥
तं तथा शोकसंतप्तं विलपन्त मनाथवत्।
मोहेन महताऽऽविष्टं परिद्यूनमचेतनम् ॥१॥
ततस्सौमित्रिराश्वास्य मुहूर्तादिव लक्ष्मणः।
रामं संबोधयामास चरणौ चाभिपीडयन् ॥२
महता तपसा राम! महता चापि कर्मणा।
राज्ञा दशरथेनासि लब्धोऽमृतमिवामरैः ॥३॥
तव चैष गुणैर्बद्धस्त्वद्वियोगान्महीपतिः।
राजा देवत्वमापन्नो भरतस्य यथाश्रुतम् ॥४॥
यदि दुःखमिदं प्राप्तं काकुत्स्थ ! न सहिष्यसे।
प्राकृतश्चाल्पसत्त्वश्च इतरः कस्सहिष्यति ॥५॥
दुःखितो हि भवान्लोकांस्तेजसा यदि धक्ष्यते।
आर्ताः प्रजा नरव्याघ्र! क्वनु यास्यन्ति निर्वृतिम् ॥६॥
लोकस्वभाव एवैष ययातिर्नहुषात्मजः।
गतश्शक्रेण सालोक्य मनयस्तं समस्पृशत् ॥७॥
महर्षिर्योवसिष्ठस्तु यःपितुर्नः पुरोहितः।
अह्ना पुत्रशतं जज्ञे तथैवास्य पुनर्हतम् ॥८॥
याचेयं जगतां माता देवी लोकनमस्कृता।
अस्याश्च चलनं भूमेर्हश्यते सत्यसंश्रव! ॥९॥
यौ धर्मौजगतां नेत्रौ यत्र सर्वं प्रतिष्ठितम्।
आदित्यचन्द्रौ ग्रहणमभ्युपेतौ महाबलौ ॥१०॥
सुमहान्त्यपि भूतानि देवाश्चपुरुषर्षभ!।
न दैवस्य प्रमुञ्चन्ति सर्वभूतादिदेहिनः ॥११॥
शक्रादिष्वपि देवेषु वर्तमानौ नयानयौ।
श्रूयते नरशार्दूल! न त्वं शोचितुमर्हसि ॥१२॥
नष्टायामपि वैदेह्यां हृतायामपि चानघ!।
शोचितुं नार्हसे वीर! यथाऽन्यः प्राकृतस्तथा ॥१३॥
त्वद्विधा न हि शोचन्ति सततं सत्यदर्शिनः।
सुमहत्स्वपि कृच्छ्रेषु रामानिर्विण्णदर्शनाः ॥१४॥
तत्त्वतो हि नरश्रेष्ठ! बुद्ध्या समनुचिन्तय।
बुद्ध्या युक्ता महाप्राज्ञा विजानन्ति शुभाशुभे ॥१५॥
अदृष्टगुणदोषाणामधृतानां तु कर्मणाम्।
नान्तरेण क्रियां तेषां फलमिष्टं प्रवर्तते ॥१६॥
त्वमेव हि पुरा राम! मामेवं बहुशोऽन्वशाः।
अनुशिष्याद्धि को नु त्वामपि साक्षाद्बृहस्पतिः ॥१७॥
बुद्धिश्च ते महाप्राज्ञ! देवैरपि दुरन्वया।
शोकेनाभिप्रसुप्तं ते ज्ञानं सम्बोधयाम्यहम् ॥१८॥
दिव्यं च मानुषं च त्वमात्मनश्च पराक्रमम्।
इक्ष्वाकुवृषभावेक्ष्य यतस्व द्विषतां वधे ॥१९॥
किं ते सर्वविनाशेन कृतेन पुरुषर्षभ!।
तमेव त्वं रिपुं पापं विज्ञायोद्धर्तुमर्हसि ॥२०॥
इति श्रीमदारण्यकाण्डे षट्षष्टितमस्सर्गः ॥
—————
॥ सप्तषष्टितमस्सर्गः ॥
पूर्वजोऽप्युक्तमात्रस्तु लक्ष्मणेन सुभाषितम्।
सारग्राही महासारं प्रतिजग्राह राघवः ॥१॥
सन्निगृह्य महाबाहुः प्रवृत्तं कोपमात्मनः।
अवष्टभ्य धनुः क्षिप्रं रामो लक्ष्मणमब्रवीत् ॥२॥
“कि करिष्यावहे वत्स! क्ववागच्छाव लक्ष्मण!।
केनोपायेन पश्येयं सीतामिति विचिन्तय ॥३॥”
तं तथा परितापार्तं लक्ष्मणो राममब्रवीत्।
“इदमेव जनस्थानं त्वमन्वेषितुमर्हसि ॥४॥
राक्षसैबहुभिः कीर्णं नानाद्रुमलतायुतम्।
सन्तीह गिरिदुर्गाणि निर्दराः कन्दराणि च ॥५॥
गुहाश्च विविधा घोरा नानामृगगणाकुलाः।
आवासाः किन्नराणां च गन्धर्वभवनानि च ॥६॥
तानि युक्तो मया सार्धं त्वमन्वेषितुमर्हसि।
त्वद्विधा बुद्धिसम्पन्ना महात्मानो नरर्षभ! ॥७॥
आपत्सु न प्रकम्पन्ते वायुवेगैरिवाचलाः।”
इत्युक्तस्तद्वनं सर्वं विचचार सलक्ष्मणः ॥८॥
क्रुद्धो रामश्शरं घोरं संधाय धनुषि क्षुरम्।
ततः पर्वतकूटाभं महाभागं द्विजोत्तमम् ॥९॥
ददर्श पतितं भूमौ क्षतजार्द्रं जटायुषम्।
तं दृष्ट्वा गिरिशृङ्गाभं रामो लक्ष्मणमब्रवीत् ॥१०॥
“अनेन सीता वैदेही भक्षिता नात्र संशयः।
गृध्ररूपमिदं रक्षो व्यक्तं भवति कानने ॥११॥
भक्षयित्वा विशालाक्षीमास्ते सीतां यथासुखम्।
एनं वधिष्ये दीप्ताक्षैर्घोरैर्बाणैरजिह्मगैः ॥१२॥”
इत्युक्त्वाऽभ्यपतद्गृध्रंसंधाय धनुषि क्षुरम्।
क्रुद्धो रामस्समुद्रान्तां कम्पयन्निव मेदिनीम् ॥१३॥
तं दीनं दीनया वाचा सफेनं रुधिरं वमन्।
अभ्यभाषत पक्षी तु रामं दशरथात्मजम् ॥१४॥
[मां न मारय भद्रं ते म्रियमाणं स्वकर्मणा]।
“यामोषधिमिवाऽप्युष्मन्नन्वेषसि महावने ॥१५॥
सा देवी मम च प्राणा रावणेनोभयं हृतम्।
त्वया विरहिता देवी लक्ष्मणेन च राघव! ॥१६॥
ह्रियमाणा मया दृष्टा रावणेन बलीयसा।
सीतामभ्यवपन्नोऽहं रावणञ्च रणे मया ॥१७॥
विध्वंसितरथश्चात्र पातितो धरणीतले।
एतदस्य धनुर्भग्नमेतदस्य शरावरम् ॥१८॥
अयमस्य रथो राम! भग्नस्साङ्ग्रामिको मया।
अयं तु सारथिस्तस्य मत्पक्षनिहतो युधि ॥१९॥
परिश्रान्तस्य मे पक्षौ च्छित्वा खड्गेन रावणः।
सीतामादाय वैदेहीमुत्पपात विहायसम् ॥२०॥
रक्षसा निहतं पूर्वं न मां हन्तुं त्वमर्हसि।”
रामस्तस्य तु विज्ञाय बाष्पपूर्णमुखस्तदा ॥२१॥
द्विगुणीकृततापार्तस्सीतासक्तां प्रियां कथाम्।
[ श्रुत्वा जटायुषो वाक्यं रामस्सौमित्रिणा सह] ॥२२॥
गृध्रराजं परिष्वज्य परित्यज्य महद्धनुः।
निपपातावशो भूमौ रुरोद सहलक्ष्मणः ॥२३॥
एकमेकायने दुर्गे निःश्वसन्तं कथंचन।
समीक्ष्य दुःखिततरो रामस्सौमित्रिमब्रवीत् ॥२४॥
“राज्याद्भ्रंशो वने वासस्सीता नष्टा हतो द्विजः।
ईदृशीयं ममालक्ष्मीर्निर्दहेदपि पावकम् ॥२५॥
संपूर्णमपि चेदद्य प्रविशेयं महोदधिम्।
सोऽपि नूनं ममालक्ष्म्या विशुष्येत्सरितां पतिः ॥२६॥
नास्त्यभाग्यतरो लोके मत्तोऽस्मिंत्सचराचरे।
येनेयं महती प्राप्ता मया व्यसनवागुरा ॥२७॥
अयं पितृवयस्यो मे गृध्रराजो जरान्वितः।
शेते विनिहतो भूमौ मम भाग्यविपर्ययात् ॥२८॥
इत्येवमुक्त्वा बहुशो राघवस्सहलक्ष्मणः।
जटायुषं च पस्पर्श पितृस्नेहं विदर्शयन् ॥२९॥
निकृत्तपक्षं रुधिरावसिक्तं स गृध्रराजं परिरभ्य रामः।
‘क्व मैथिली प्राणसमा म’मेति विमुच्य वाचं निपपात भूमौ ॥३०॥
इति श्रीमदारण्यकाण्डे सप्तषष्टितमस्सर्गः ॥
—————
॥ अष्टषष्टितमस्सर्गः ॥
रामस्सम्प्रेक्ष्य तं गृधं भुवि रौद्रेण पातितम्।
सौमित्रिं मित्रसंपन्नमिदं वचनमब्रवीत् ॥१॥
“ममायं नूनमर्थेषु यतमानो विहङ्गमः।
राक्षसेन हतस्संख्ये प्राणांस्त्यक्ष्यति दुस्त्यजान् ॥२॥
अयमस्य शरीरेऽस्मिन्प्राणो लक्ष्मण! विद्यते।
तथाहि स्वरहीनोऽयं विक्लबस्समुदीक्षते ॥३॥”
“जटायो! यदि शक्नोषि वाक्यं व्याहरितुं पुनः।
सीतामाख्याहि भद्रं ते वधमाख्याहि चात्मनः ॥४॥
किंनिमित्तोऽहरत्सीतां रावणस्तस्य किं मया।
अपराधं तु यं दृष्ट्वा रावणेन हृता प्रिया ॥५॥
कथं तच्चन्द्रसंकाशं मुखमासीन्मनोहरम्।
सीतया कानि चोक्तानि तस्मिन्काले द्विजोत्तम! ॥६॥
कथंवीर्यः कथंरूपः किंकर्मा स च राक्षसः?।
क्व
चास्य भवनं तात! ब्रूहि मे परिपृच्छतः ॥७॥”
तमुद्वीक्ष्याथ दीनात्मा विलपन्तमनन्तरम्।
चाचाऽतिसन्नया रामं जटायुरिदमब्रवीत् ॥८॥
“हता सा राक्षसेन्द्रेण रावणेन विहायसा।
मायामास्थाय विपुलां वातदुर्दिनसंकुलाम् ॥९॥
परिश्रान्तस्य मे तात! पक्षौ छित्वा स राक्षसः।
सीतामादाय वैदेहीं प्रयातो दक्षिणां दिशम् ॥१०॥
उपरुद्ध्यन्ति मे प्राणा दृष्टिर्भ्रमति राघव!।
पश्यामि वृक्षांत्सौवर्णानुशीरकृतमूर्धजान् ॥११॥
येन यातो मुहूर्तेन सीतामादाय रावणः।
विप्रणष्टं धनं क्षिप्रं तत्स्वामी प्रतिपद्यते ॥१२॥
विन्दो नाम मुहूर्तोऽयं स च काकुत्स्थ! नाबुधत्।
त्वत्प्रियां जानकीं हत्वा रावणो राक्षसेश्वरः ॥१३॥
झषवद्बडिशं गृह्य क्षिप्रमेव विनश्यति।
न च त्वया व्यथा कार्या जनकस्य सुतां प्रति ॥१४॥
वैदेह्या रंस्यतेक्षिप्रं हत्वा तं राक्षसं रणे।”
असम्मूढस्य गृध्रस्य रामं प्रत्यनुभाषतः ॥१५॥
आस्यात्सुस्राव रुधिरं म्रियमाणस्य सामिषम्।
पुत्रो विश्रवसस्साक्षाद्भ्रातावैश्रवणस्य च ॥१६॥”
इत्युक्त्वा दुर्लभान्प्राणान्मुमोच पतगेश्वरः।
‘ब्रूहि ब्रू’हीति रामस्य ब्रुवाणस्य कृताञ्जलेः ॥१७॥
त्यक्त्वा शरीरं गृध्रस्य जग्मुः प्राणा विहायसम्।
स निक्षिप्य शिरो भूमौ प्रसार्य चरणौ तदा ॥१८॥
विक्षिप्य च शरीरं स्वं पपात धरणीतले।
तं गृधं प्रेक्ष्य ताम्राक्षं गतासुमचलोपमम् ॥१९॥
रामस्सुबहुभिर्दुःखैर्दीनस्सौमित्रिमब्रवीत्।
“बहूनि रक्षसां वासे वर्षाणि वसता सुखम्॥२०॥
पक्षिराजेन वृद्धेन तातमित्रेण नस्सुखम्। ]
अनेन दण्डकारण्ये विशीर्णमिह पक्षिणा ॥२१॥
अनेकवार्षिको यस्तु चिरकालसमुत्थितः।
सोऽयं भूमौ हतश्शेतेकालो हि दुरतिक्रमः ॥२२॥
पश्य लक्ष्मण! गृध्रोऽयमुपकारी हतश्च मे।
सीतामभ्यवपन्नो वै रावणेन बलीयसा ॥२३॥
गृध्रराज्यं परित्यज्य पितृपैतामहं महत्।
मम हेतोरयं प्राणान्मुमोच पतगेश्वरः ॥२४॥
सर्वत्र खलु दृश्यन्ते साधवो धर्मचारिणः।
शूराश्शरण्यास्सौमित्रे! तिर्यग्योनिगतेष्वपि ॥२५॥
सीताहरणजं दुःखं न मे सौम्य! तथागतम्।
यथा विनाशो गृध्रस्य मत्कृते च परन्तप! ॥२६॥
अयं पतगराजस्तु सानुक्रोशस्सुहृत्प्रियः।
मम हेतोः परिक्रान्तो गतस्त्वर्ग न संशयः ॥२७॥
पुत्रैरमात्यैर्दारैश्च परिक्षीणो महावने।
अनाथ इव धर्मात्मा गतोवेवस्वतक्षयम् ]॥२८॥
राजा दशरथश्श्रीमान्यथा मम महायशाः।
पूजनीयश्च मान्यश्च तथाऽयं पतगेश्वरः ॥२९॥
सौमित्रे! हर काष्ठांनि निर्मथिष्यामि पावकम्।
गृध्रराजं दिधक्षामि मत्कृते निधनं गतम् ॥३०॥
नाथं पतगलोकस्य चितामारोप्य राघव!।
इमं धक्ष्यामि सौमित्रे! हतं रौद्रेण रक्षसा ॥३१॥
“या गतिर्यज्ञशीलानामाहिताग्नेश्च या गतिः।
अपरावर्तिनां या च या च भूमिप्रदायिनाम् ॥३२॥
मया त्वं समनुज्ञातो गच्छ लोकाननुत्तमान्।
गृध्रराज! महासत्त्व! संस्कृतश्च मया व्रज ॥३३॥”
एवमुक्त्वा चितां दीप्तामारोप्य पतगेश्वरम्।
ददाह रामो धर्मात्मा स्वबन्धुमिव दुःखितः ॥३४॥
रामोऽथ सहसौमित्रिर्वनं गत्वा सवीर्यवान्।
स्थूलान्हत्वा महारोहीननुतस्तार तं द्विजम् ॥३५॥
रोहिमांसानि चोत्कृत्य पेशीकृत्य महायशाः।
शकुनाय ददौ रामो रम्ये हरितशाद्वले ॥३६॥
यत्तत्प्रेतस्य मर्त्यस्य कथयन्ति द्विजातयः।
तत्स्वर्गगमनं तस्य पित्र्यं रामो जजाप ह ॥३७॥
ततो गोदावरीं गत्वा नदी नरवरात्मजौ।
उदकं चक्रतुस्तस्मै गृध्रराजाय तावुभौ ॥३८॥
शास्त्रदृष्टेन विधिना जले गृध्राय राघवौ।
स्नात्वा तौ गृध्रराजाय उदकं चक्रतुस्तदा ॥३९॥
स गृध्रराजः कृतवान्यशस्करं सुदुष्करं कर्म रणे निपातितः।
महर्षिकल्पेन च संस्कृतस्तदा जगाम पुण्यां गतिमात्मनश्शुभाम् ॥४०॥
कृतोदकौ तावपि पक्षिसत्तमे स्थिरां च बुद्धिं प्रणिधाय जग्मतुः।
प्रवेश्य सीताधिगमे ततो मनो वनं सुरेन्द्राविव विष्णुवासवौ ॥४१॥
इति श्रीमदारण्यकाण्डे अष्टषष्टितमस्सर्गः ॥
—————
॥ एकोनसप्ततितमस्सर्गः ॥
कृत्वैवमुदकं तस्मै प्रस्थितौ रामलक्ष्मणौ।
अवेक्षन्तौ वने सीतां पश्चिमां जग्मतुर्दिशम् ॥१॥
तौ दिशं दक्षिणां गत्वा शरचापासिधारिणौ।
अविप्रहतमैक्ष्वाकौपन्थानं प्रतिपेदतुः ॥२॥
गुल्मैर्वृक्षैश्च बहुभिर्लताभिश्चप्रवेष्टितम्।
आवृतं सर्वतो दुर्गं गहनं घोरदर्शनम् ॥३॥
व्यतिक्रम्य तु वेगेन व्यालसिंहनिषेवितम्।
सुभीमं तन्महारण्यं व्यतियातौ महाबलौ ॥४॥
ततः परं जनस्थानात्त्रिक्रोशं गम्य राघवौ।
क्रौञ्चारण्यं विविशतुर्गहनं तौ महौजसौ ॥५॥
नानामेघघनप्रख्यं प्रहृष्टमिव सर्वतः।
नानापक्षिगणैर्जुष्टं नानाव्यालमृगैर्युतम् ॥६॥
दिदृक्षमाणौ वैदेहीं तद्वनं तौ विचिक्यतुः।
तत्र तत्रावतिष्ठन्तौ सीताहरणकर्शितौ ॥७॥
ततः पूर्वेण तौगत्वा त्रिक्रोशं भ्रातरौ तदा।
क्रौञ्चारण्यमतिक्रम्य मतङ्गाश्रममन्तरा ॥८॥
दृष्ट्वा तु तद्वनंघोरं बहुभीममृगद्विजम्।
नानासत्त्वसमाकीर्णं सर्वं गहनपादपम् ॥९॥
ददृशाते तु तौ तत्र दरीं दशरथात्मजौ।
पातालसमगम्भीरां तमसा नित्यसंवृताम् ॥१०॥
आसाद्य तौ नरव्याघ्रौ दर्यास्तस्याऽविदूरतः।
ददृशातेमहारूपां राक्षसीं विकृताननाम् ॥११॥
भयदामल्पसत्त्वानां भीभत्सां रौद्रदर्शनाम्।
लम्बोदरीं तीक्ष्णदंष्ट्रां करालां परुषत्वचम् ॥१२॥
भक्षयन्तीं मृगान्भीमान्विकटां मुक्तमूर्धजाम्।
प्रैक्षतां तो ततस्तत्र भ्रातरौ रामलक्ष्मणौ ॥१३॥
सा समासाद्य तौ वीरौ व्रजन्तं भ्रातुरग्रतः।
‘एहि रंस्याव’हेत्युक्त्वा समालम्बत लक्ष्मणम् ॥१४॥
उवाच चैनं वचनं सौमित्रिमुपगृह्य सा।
“अहं त्वयोमुखी नाम लाभस्ते त्वमसि प्रियः ॥१५॥
नाथ! पर्वतकूटेषु नदीनां पुलिनेषु च।
आयुश्शेषमिमं वीर! त्वं मया सह रंस्यसे ॥१६॥”
एवमुक्तस्तु कुपितः खड्गमुद्धृत्य लक्ष्मणः।
कर्णनासे स्तनौ चास्या निचकर्तारिसूदनः ॥१७॥
कर्णनासे निकृत्ते तु विस्वरं सा विनद्य च।
यथागतं प्रदुद्राव राक्षसी भीमदर्शना ॥१८॥
तस्यां गतायां गहनं विशन्तौ वनमोजसा।
आसेतुरमित्रघ्नौभ्रातरौ रामलक्ष्मणौ ॥१९॥
लक्ष्मणस्तु महातेजास्सत्त्ववान् शीलवान् शुचिः।
अब्रवीत्प्राञ्जलिर्वाक्यं भ्रातरं दीप्ततेजसम् ॥२०॥
“स्पन्दते मे दृढं बाहुरुद्विग्नमिव मे मनः।
प्रायशश्चाप्यनिष्टानि निमित्तान्युपलक्षये ॥२१॥
घोरं देशमिमं प्राप्तौ मम भक्षावुपस्थितौ।
वदतं कार्यमिह वां किमर्थं चागतौ युवाम् ॥४४॥
इमं देशमनुप्राप्तौ क्षुधार्तस्येह तिष्ठतः।
सबाणचापखड्गौ च तीक्ष्णशृङ्गाविवर्षभौ ॥४५॥
ममाऽऽस्यमनुसंप्राप्तौ दुर्लभं जीवितं पुनः।
तस्य तद्वचनं श्रुत्वा कबन्धस्य दुरात्मनः ॥४६॥
उवाच लक्ष्मणं रामो मुखेन परिशुष्यता।
“कृच्छ्रात्कृच्छ्रतरं प्राप्य दारुणं सत्यविक्रमः! ॥४७॥
व्यसनं जीवितान्ताय प्राप्तमप्राप्य तां प्रियाम्।
कालस्य सुमहद्वीर्यंसर्वभूतेषु लक्ष्मण! ॥४८॥
त्वां च मां च नरव्याघ्र! व्यसनैः पश्य मोहितौ।
नातिभारोऽस्ति दैवस्य सर्वभूतेषु लक्ष्मण! ॥४९॥
शूराश्च बलवन्तश्च कृतास्त्राश्च रणाजिरे।
कालाभिपन्नास्सीदन्ति यथा वालुकसेतवः ॥५०॥”
इति ब्रुवाणो दृढसत्यविक्रमो महायशा दाशरथिः प्रतापवान्।
अवेक्ष्य सौमित्रिमुद्ग्रपौरुषं स्थिरां तदा स्वां मतिमात्मनाऽकरोत् ॥
इति श्रीमदारण्यकाण्डे एकोनसप्ततितमस्सर्गः ॥
—————
॥सप्ततितमस्सर्गः ॥
तौ तु तत्र स्थितौ दृष्ट्वा भ्रातरौ रामलक्ष्मणौ।
बाहुपाशपरिक्षिप्तौ कबन्धो वाक्यमब्रवीत् ॥१॥
” तिष्ठतः किन्नु मां दृष्ट्वा क्षुधार्तं क्षत्रियर्षभौ।
आहारार्थं तु संदिष्टौ दैवेन गतचेतसौ ॥२॥”
तच्छ्रुत्वा लक्ष्मणो वाक्यं प्राप्तकालं हितं तदा।
उवाचाऽऽर्तिं समापन्नो विक्रमे कृतलक्षणः ॥३॥
“त्वां च मां च पुरा तूर्णमादत्ते राक्षसाधमः।
तस्मादसिभ्यामस्याशु बाहू च्छिन्दावहै गुरू ॥४॥
भीषणोऽयं महाकायो राक्षसो भुजविक्रमः।
लोकं ह्यतिजितं कृत्वा ह्यावां हन्तुमिहेच्छति ॥५॥
निश्चेष्टानां वधो राजन्! कुत्सितो जगतीपतेः।
क्रतुमध्योपनीतानां पशूनामिव राघव! ॥६॥
एतत्सञ्जल्पितं श्रुत्वा तयोः क्रुद्धस्तु राक्षसः।
विदार्याऽऽस्यं तदा रौद्रस्तौ भक्षयितुमारभत् ॥७॥
ततस्तौ देशकालज्ञौ खड्गाभ्यामेव राघवौ।
अच्छिन्दतां सुसंहृष्टौ बाहू तस्यांसदेशतः ॥८॥
दक्षिणो दक्षिणं बाहुमसक्तमसिना ततः।
चिच्छेद रामो वेगेन सव्यं वीरस्तु लक्ष्मणः ॥९॥
स पपात महाबाहुश्छिन्नबाहुर्महास्वनः।
खं च गां च दिशश्चैव नादयञ्जलदो यथा ॥१०॥
स निकृत्तौ भुजौ दृष्ट्वा शोणितौघपरिप्लुतः।
दीनः पप्रच्छ तौ वीरौ ‘कौ युवा’ मिति दानवः ॥११॥
इति तस्य ब्रुवाणस्य लक्ष्मणश्शुभलक्षणः।
शशंस राघवं तस्य कबन्धस्य महात्मनः ॥१२॥
“अयमिक्ष्वाकुदायादो रामो नाम जनैश्श्रुतः।
अस्यैवावरजं विद्धि भ्रातरं मां च लक्ष्मणम् ॥१३॥
[ मात्रा प्रतिहृते राज्ये रामः प्रव्राजितो वनम्।
मया सह चरत्येष भार्यया च महद्वनम् ॥१४॥]
अस्य देवप्रभावस्य वसतो विजने वने।
रक्षसाऽपहृता पत्नी यामिच्छन्ताविहागतौ ॥१५॥
त्वं तु को वा किमर्थं वा कबन्धसदृशो वने।
आस्येनोसि दीप्तेन भग्नजङ्घोविचेष्टसे ॥१६॥”
एवमुक्तः कबन्धस्तु लक्ष्मणेनोत्तरं वचः।
उवाच परमप्रीतस्तदिन्द्रवचनं स्मरन् ॥१७॥
“स्वागतं वां नरव्याघ्रौ! दिष्ट्या पश्यामि चाप्यहम्।
दिष्ट्या चेमौनिकृत्तौ मे युवाभ्यां बाहुबन्धनौ ॥१८॥
विरूपं यच्च मे रूपं प्राप्तं ह्यविनयाद्यथा।
तन्मे शृणु नरव्याघ्र! तत्वतश्शंसतस्तव ॥१९॥
इति श्रीमदारण्यकाण्डे सप्ततितमस्सर्गः ॥
—————
॥ एकसप्ततितमस्सर्गः ॥
“पुरा राम! महाबाहो! महाबलपराक्रम!।
रूपमासीन्ममाचिन्त्यं त्रिषु लोकेषु विश्रुतम् ॥१॥
यथा सोमस्य शक्रस्य सूर्यस्य च यथा वपुः।
सोऽहं रूपमिदं कृत्वा लोकवित्रासनं महत् ॥२॥
ऋषीन्वनगतान्राम! त्रासयामि ततस्ततः।
तत्र स्थूलशिरा नाम महर्षिः कोपितो मया ॥३॥
संचिन्वन्विविधं वन्यं रूपेणानेन धर्षितः।
तेनाहमुक्तः प्रेक्ष्यैवं घोरशापाभिधायिना ॥४॥
‘एतदेव नृशंसं ते रूपमस्तु विगर्हितम्।’
स मया याचितः क्रुद्ध ‘श्शापस्यान्तो भवे’ दिति ॥५॥
अभिशापकृतस्येति तेनेदं भाषितं वचः।
यथा च्छित्वा भुजौ रामस्त्वां दहेद्विजने वने ॥६॥
तदा त्वं प्राप्स्यसे रूपं स्वमेव विपुलं शुभम्।
श्रिया विराजितं पुत्रं दनोस्त्वं विद्धि लक्ष्मण! ॥७॥
इन्द्रकोपादिदं रूपं प्राप्तमेवं रणाजिरे।
अहं हि तपसोग्रेण पितामहमतोषयम् ॥८॥
दीर्घमायुस्स मे प्रादात्ततो मां विभ्रमोऽस्पृशत्।
दीर्घमायुर्मया प्राप्तं किं मे शक्रः करिष्यति ॥९॥’
इत्येवं बुद्धिमास्थाय रणे शक्रमधर्षयम्।
तस्य बाहुप्रमुक्तेन वज्रेण शतपर्वणा ॥१०॥
सक्थिनी चैव मूर्धा च शरीरे सम्प्रवेशितम्।
स मया याच्यमानस्सन्नानयद्यमसादनम् ॥११॥
‘पितामहवचस्सत्यं तद’ स्त्विति ममाब्रवीत्।
‘अनाहारः कथं शक्तो भग्नसक्थिशिरोमुखः ॥१२॥
वज्रेणाभिहतः कालं सुदीर्घमपि जीवितुम्।’
एवमुक्तस्तु मे शक्रोबाहू योजनमायतौ ॥१३॥
प्रादादास्यं च मे कुक्षौ तीक्ष्णदंष्ट्रमकल्पयत्।
सोऽहं भुजाभ्यां दीर्घाभ्यां संकृष्यास्मिन्वनेचरान् ॥१४॥
सिंहद्विपमृगव्याघ्रान्भक्षयामि समन्ततः।
स तु मामब्रवीदिन्द्रो ‘यदा रामस्सलक्ष्मणः ॥१५॥
छेत्स्येत समरे बाहू तदा स्वर्गं गमिष्यसि।’
अनेन वपुषा राम! वनेऽस्मिन्राजसत्तम ॥१६॥
यद्यत्पश्यामि सर्वस्य ग्रहणं साधु रोचये।
अवश्यं ग्रहणं रामो मन्येऽहं समुपैष्यति ॥१७॥
इमां बुद्धिं पुरस्कृत्य देहन्यासकृतश्रमः।
स त्वं रामोऽसि भद्रं ते नाहमन्येन राघव! ॥१८॥
शक्यो हन्तुं यथातत्त्वमेवमुक्तं महर्षिणा।
अहं हि मतिसाचिव्यं करिष्यामि नरर्षभ! ॥१९॥
मित्रं चैवोपदेक्ष्यामि युवाभ्यां संस्कृतोऽग्निना।
एवमुक्तस्तु धर्मात्मा दनुना तेन राघवः ॥२०॥
इदं जगाद वचनं लक्ष्मणस्योपशृण्वतः।
“रावणेन हृता भार्या मम सीता यशस्विनी ॥२१॥
निष्क्रान्तस्य जनस्थानात्सह भ्रात्रा यथासुखम्।
नाममात्रं तु जानामि न रूपं तस्य रक्षसः ॥२२॥
निवासं वा प्रभावं वा वयं तस्य न विद्महे।
शोकार्तानामनाथानामेवं विपरिधावताम् ॥२३॥
कारुण्यं सदृशं कर्तुमुपकारे च वर्तताम्।
काष्ठान्यादाय शुष्काणि काले भग्नानि कुञ्जरैः ॥२४॥
धक्ष्यामस्त्वां वयं वीर! श्वभ्रे महति कल्पिते।
स त्वं सीतां समाचक्ष्व येन वा यत्र वा हृता ॥२५॥
कुरु कल्याणमत्यर्थं यदि जानासि तत्त्वतः।”
एकमुक्तस्तु रामेण वाक्यं दनुरनुत्तमम् ॥२६॥
प्रोवाच कुशलो वक्तुं वक्तारमपि राघवम्।
“दिव्यमस्ति न मे ज्ञानं नाभिजानामि मैथिलीम् ॥२७॥
यस्तां ज्ञास्यति तंवक्ष्ये दग्धस्स्वं रूपमास्थितः।
अदग्धस्य तु विज्ञातुं शक्तिरस्ति न मे प्रभो! ॥२८॥
राक्षसं तं महावीर्यं सीता येन हृता तव।
विज्ञानं हि मम भ्रष्टं शापदोषेण राघव ॥२९॥
स्वकृतेन मया प्राप्तं रूपं लोकविगर्हितम्।
किंतु यावन्नयात्यस्तं सविता श्रान्तवाहनः ॥३०॥
तावन्मामवटे क्षिप्त्वा दह राम! यथाविधि।
दग्धस्त्वयाऽहमवटे न्यायेन रघुनन्दन! ॥३१॥
वक्ष्यामि तमहं वीर! यस्तं ज्ञास्यति राक्षसम्।
तेन सख्यं च कर्तव्यं न्यायवृत्तेन राघव! ॥३२॥
कल्पयिष्यति ते प्रीतस्साहाय्यं लघुविक्रमः।
न हि तस्यास्यविज्ञातं त्रिषु लोकेषु राघव! ॥३३॥
सर्वान्परिसृतो लोकान्पुराऽसौ कारणान्तरे ॥”
इति श्रीमदारण्यकाण्डे एकसप्ततितमस्सर्गः ॥
—————
॥ द्विसप्ततितमस्सर्गः॥
एवमुक्तौ तु तौ वीरौ कबन्धेन नरेश्वरौ।
गिरिप्रदरमासाद्य पावकं विससर्जतुः ॥१॥
लक्ष्मणस्तु महोल्काभिर्ज्वलिताभिस्समन्ततः।
चितामादीपयामास सा प्रजज्वाल सर्वतः ॥२॥
तच्छरीरं कबन्धस्य घृतपिण्डोपमं महत्।
मेदसा पच्यमानस्य मन्दं दहति पावकः ॥३॥
स विधूय चितामाशु विधूमोऽग्निरिवोत्थितः।
अरजेवाससी बिभ्रन्मालां दिव्यां महाबलः ॥४॥
ततश्चिताया वेगेन भास्वरो विमलाम्बरः।
उत्पपाताऽशु संहृष्टस्सर्वप्रत्यङ्गभूषणः ॥५॥
विमाने भास्वरे तिष्ठन्हंसयुक्ते यशस्करे।
प्रभया च महातेजा दिशो दश विराजयन् ॥६॥
सोऽन्तरिक्षगतो रामं कबन्धो वाक्यमब्रवीत्।
“शृणु राघव! तत्त्वेन यथा सीतामवाप्स्यसि॥७॥
राम ! षड्युक्तयो लोके याभिस्सर्वं विमृश्यते।
परिमृष्टो दशान्तेन दशाभागेन सेव्यते ॥८॥
दशाभागगतो हीनस्त्वं हि राम! सलक्ष्मणः।
यत्कृते व्यसनं प्राप्तं त्वया दारप्रधर्षणम् ॥९॥
तदवश्यं त्वया कार्यस्ससुहृत्सुहृदां वर!।
अकृत्वा हि न ते सिद्धिमहं पश्यामि चिन्तयन् ॥१०॥
श्रूयतां राम ! वक्ष्यामि सुग्रीवो नाम वानरः।
भ्रात्रा निरस्तः क्रुद्धेन वालिना शक्रसूनुना ॥११॥
ऋश्यमूके गिरिवरे पम्पापर्यन्तशोभिते।
निवसत्यात्मवान्वीरश्चतुर्भिस्सह वानरैः ॥१२॥
वानरेन्द्रो महावीर्यस्तेजोवानमितप्रभः।
सत्यसन्धो विनीतश्च धृतिमान्मतिमान्महान् ॥१३॥
दक्षः प्रगल्भो द्युतिमान्महावलपराक्रमः।
भ्रात्रा विवासितो राम! राज्यहेतोर्महाबलः ॥१४॥
स ते सहायो मित्रं च सीतायाः परिमार्गणे।
भविष्यति हि ते राम! मा च शोके मनः कृथाः ॥१५॥
भवितव्यं हि यच्चापि न तच्छक्यमिहान्यथा।
कर्तुमिक्ष्वाकुशार्दूल! कालो हि दुरतिक्रमः ॥१६॥
गच्छ शघ्रिमितो राम! सुग्रीवं तं महावलम्।
वयस्यं तं कुरु क्षिप्रमितो गत्वाऽद्य राघव! ॥१७॥
अद्रोहाय समागम्य दीप्यमाने विभावसौ।
स च ते नावमन्तव्यस्सुग्रीवो वानराधिपः ॥१८॥
कृतज्ञः कामरूपी च सहायार्थी च वीर्यवान्।
शक्तौ ह्यद्य युवां कर्तुं कार्यं तस्य चिकीर्षितम् ॥१९॥
कृतार्थो वाऽकृतार्थोवा कृत्यं तव करिष्यति।
स ऋक्षरजसः पुत्रः पम्पामटति शङ्कितः ॥२०॥
भास्करस्यौरसः पुत्रो वालिना कृतकिल्बिषः।
सन्निधायाऽऽयुधं क्षिप्रमृश्यमूकालयं कपिम् ॥२१॥
कुरु राघव! सत्येन वयस्यं वनचारिणम्।
स हि स्थानानि सर्वाणि कार्त्स्न्येनकपिकुञ्जरः ॥२२॥
नरमांसाशिनां लोके नैपुण्यादधिगच्छति।
न तस्याविदितं लोके किंचिदस्ति हि राघव! ॥२३॥
यावत्सूर्यः प्रतपति सहस्रांशुररिन्दम!।
स नदीर्विपुलान् शैलान्गिरिदुर्गाणि कन्दरान् ॥२४॥
अन्वीक्ष्य वानरैस्सार्धं पत्नीं तेऽधिगमिष्यति।
वानरांश्च महाकायान्प्रेषयिष्यति राघव! ॥२५॥
दिशो विचेतुं तां सीतां त्वद्वियोगेन शोचतीम्।
स ज्ञास्यति वरारोहां निर्मलां रावणालये ॥२६॥
[ महीं विजानाति हरिप्रवीरः स्थानानि दिव्यानि च राक्षसानाम्।
भ्रात्रा निरस्तः पृथिवीं विचिन्वन्निस्संशयं ज्ञास्यति यत्र सीता ] ॥
स मेरुशृङ्गाग्रगतामनिन्दितां प्रविश्य पातालतलेऽपिवाश्रिताम्।
प्लवङ्गमानां प्रवरस्तव प्रियां निहत्य रक्षांसि पुनः प्रदास्यति ॥२८॥
इति श्रीमदारण्यकाण्डे द्विसप्ततितमस्सर्गः ॥
—————
॥ त्रिसप्ततितमस्सर्गः ॥
निदर्शयित्वा रामाय सीतायाः प्रतिपादने।
वाक्यमन्वर्थमर्थज्ञः कबन्धः पुनरब्रवीत् ॥१॥
“एष राम! शिवः पन्था यत्रैते पुष्पिता द्रुमाः।
प्रतीची दिशमाश्रित्य प्रकाशन्ते मनोरमाः ॥२॥
जम्बूप्रियाल पनसप्लक्षन्यग्रोधतिन्दुकाः।
अश्वत्थाः कर्णिकाराश्चचूताश्चान्ये च पादपाः ॥३॥
धन्वना नागवृक्षाश्च तिलका नक्तमालकाः।
नीलाशोकाः कदम्बाश्च करवीराश्च पुष्पिताः ॥४॥
अग्निमुख्या अशोकाञ्च सुरक्ताः पारिभद्रकाः।
तानारुह्याथवा भूमौ पातयित्वा च तान्बलात् ॥५॥
फलान्यमृतकल्पानि भक्षयन्तौ गमिष्यथः।
तदतिक्रम्य काकुत्स्थ! वनं पुष्पितपादपम् ॥६॥
नन्दनप्रतिमं चान्यत्कुरवो ह्युत्तराविव।
सर्वकामफला वृक्षाः पादपास्तु मधुस्रवाः ॥७॥
सर्वे च ऋतवस्तत्र वने चैत्ररथे यथा।
फलभारानतास्तत्र महाविटपधारिणः ॥८॥
शोभन्ते सर्वतस्तत्र मेघपर्वतसन्निभाः।
तानारुह्याथवा भूमौ पातयित्वा यथासुखम् ॥९॥
फलान्यमृतकल्पानि लक्ष्मणस्ते प्रदास्यति।
चङ्क्रमन्तौ परान्देशान् शैलाच्छैलं वनाद्वनम् ॥१०॥
ततः पुष्करिणीं वीरौ पम्पां नाम गमिष्यथः।
अशर्करामविभ्रंशां समतीर्थामशैवलाम् ॥११॥
राम! संजातवालूकां कमलोत्पलशालिनीम्।
तत्र हंसाः प्लवाः क्रौञ्चाः कुरराश्चैव राघव! ॥१२॥
वल्गुस्वनानि कूजन्ति पम्पासलिलगोचराः।
नोद्विजन्ते नरान्दृष्ट्वा वधस्याकोविदाशशुभाः ॥१३॥
घृतीपण्डोपमान् स्थूलांस्तान्द्विजान्भक्षयिष्यथः।
रोहितान्वक्रतुण्डांश्च नडमीनांश्च राघव! ॥१४॥
पम्पायामिषुभिर्मत्स्यांस्तत्र राम! वरान्हतान्।
निस्त्वकपक्षानयस्तप्तानकृशानेककण्टकान् ॥१५॥
तव भक्त्या समायुक्तो लक्ष्मणस्सम्प्रदास्यति।
भृशं ते खादतो मत्स्यान्पम्पायाः पुष्पसंचये ॥१६॥
पद्मगन्धि शिवं वारि सुखशीतमनामयम्।
उद्धृत्य सतताक्लिष्टं रौप्यस्फटिकसन्निभम् ॥१७॥
असौ पुष्करपर्णेन लक्ष्मणः पाययिष्यति।
स्थूलान्गिरिगुहाशय्यान्वराहान्वनचारिणः ॥१८॥
अपां लोभादुपावृत्तान्वृषभानिव नर्दतः।
रूपान्वितांश्च पम्पायां द्रक्ष्यसि त्वं नरोत्तम! ॥१९॥
सायाह्नेविचरन्राम ! विटपीन्माल्यधारिणः।
शीतोदकं च पम्पाया दृष्ट्वा शोकं विहास्यसि ॥२०॥
सुमनोभिश्चितांस्तत्र तिलकान्नक्तमालकान्।
उत्पलानि च फुल्लानि पङ्कजानि च राघव! ॥२१॥
न तानि कश्चिन्माल्यानि तत्रारोपयिता नरः।
न च वै म्लानतां यान्ति न च शीर्यन्ति राघव! ॥२२॥
मतङ्गशिष्यास्तत्राऽऽसनृषयस्सुसमाहिताः।
तेषां भाराभितप्तानां वन्यमाहरतां गुरोः ॥२३॥
ये प्रपेतुर्महीं तूर्णं शरीरात्स्वेदबिन्दवः।
तानि जातानि माल्यानि मुनीनां तपसा तदा ॥२४॥
स्वेदबिन्दुसमुत्थानि न विनश्यन्ति राघव!।
तेषां गतानामद्यापि दृश्यते परिचारिणी ॥२५॥
श्रमणी शबरी नाम काकुत्स्थ! चिरजीविनी।
त्वां तु धर्मे स्थिता नित्यं सर्वभूतनमस्कृतम् ॥२६॥
दृष्ट्वा देवोपमं रामं स्वर्गलोकं गमिष्यति।
ततस्तद्राम! पम्पायास्तीरमाश्रित्य पश्चिमम् ॥२७॥
आश्रमस्थानमतुलं गुह्यं काकुत्स्थ ! पश्यसि।
न तत्राक्रमितुं नागाश्शक्नुवन्ति तमाश्रमम् ॥२८॥
विविधास्तत्र वै नागा वने तस्मिंश्च पर्वते।
ऋषेस्तत्र मतङ्गस्य विधानात्तच्चकाननम् ॥२९॥
[ मतङ्गवनमित्येव विश्रुतं रघुनन्दन!।]
तस्मिन्नन्दनसङ्काशे देवारण्योपेम वने ॥३०॥
नानाविहगसंकीर्णे रस्य से राम! निर्वृतः।
ऋष्यमूकश्च पम्पायाः पुरस्तात्पुष्पितद्रुमः ॥३१॥
सुदुःखारोहणो नाम शिशुनागाभिरक्षितः।
उदारो ब्रह्मणा चैव पूर्वकाले विनिर्मितः ॥३२॥
शयानः पुरुषो राम! तस्य शैलस्य मूर्धनि।
यत्स्वप्ने लभते वित्तं तत्प्रबुद्धोऽधिगच्छति ॥३३॥
न त्वेनं विषमाचारः पापकर्माऽधिरोहति।
यस्तु तं विषमाचारः पापकर्माधिरोहति ॥३४॥
तत्रैव प्रहरन्त्येनं सुप्तमादाय राक्षसाः।
तत्रापि शिशुनागानामाक्रन्दश्श्रूयते महान् ॥३५॥
क्रीडतां राम पम्पायां मतङ्गारण्यवासिनाम्।
सिक्तारुधिरघाराभिस्संहृत्य परमद्विपाः ॥३६॥
प्रचरन्ति पृथक्कीर्णा मेघवर्णास्तरस्विनः।
ते तत्र पीत्वा पानीयं विमलं शीतमव्ययम् ॥३७॥
निर्वृतास्संविगाहन्ते वनानि वनगोचराः।
ऋक्षांश्च द्वीपिनश्चैव नीलकोमलकप्रभान् ॥३८॥
रुरूनपेतापजयान् दृष्ट्वा शोकं जहिष्यसि।
राम! तस्य तु शैलस्य महती शोभते गुहा ॥३९॥
शिलापिधाना काकुत्स्थ! दुःखं चास्याः प्रवेशनम्।
तस्या गुहायाः प्राग्द्वारे महान् शीतोदको ह्रदः ॥४०॥
फलमूलान्वितो रम्यो नानामृगसमावृतः।
तस्यां वसति सुग्रीवश्चतुर्भिः सह वानरैः ॥४१॥
कदाचिच्छिखरे तस्य पर्वतस्यावतिष्ठते।
कबन्धस्त्वनुशास्यैवं तावुभौ रामलक्ष्मणौ ॥४२॥
स्रग्वी भास्करवर्णाभः खे व्यरोचत वीर्यवान्।
तं तु स्वस्थं महाभागं कबन्धं रामलक्ष्मणौ ॥४३॥
प्रस्थितौ ‘त्वं व्रजस्वेति’वाक्यमूचतुरन्तिके।
‘गम्यतां कार्यसिद्ध्यर्थ’ मिति तावब्रवीत्स च ॥४४॥
सुप्रीतौ तावनुज्ञाप्य कबन्धः प्रस्थितस्तदा।
स तत्कबन्धः प्रतिपद्य रूपं वृतश्श्रिया भास्करतुल्यदेहः।
निदर्शयन्राममवेक्ष्य स्वस्थ‘स्सख्यं कुरुष्वे’ति तदाऽभ्युवाच ॥
इति श्रीमदारण्यकाण्डे त्रिसप्ततितमस्सर्गः ॥
—————
॥ चतुस्सप्ततितमस्सर्गः ॥
तौ कबन्धेनतं मार्गं पम्पाया दर्शितं वने।
आतस्थतुर्दिशंगृह्य प्रतीची नृवरात्मजौ ॥१॥
तौ शैलेष्वाचितानेकान् क्षौद्रकल्पफलान्द्रुमान्।
वीक्षन्तौ जग्मतुर्द्रष्टुं सुग्रीवं रामलक्ष्मणौ ॥२॥
कृत्वा च शैलपृष्ठे तु तौ वासं रघुनन्दनौ।
पम्पायाः पश्चिमं तीरं राघुवावुपतस्थतुः ॥३॥
तौ पुष्करिण्याः पम्पायास्तीरमासाद्य पश्चिमम्।
अपश्यतां ततस्तत्र शबर्या रम्यमाश्रमम् ॥४॥
तौ तमाश्रममासाद्य द्रुमैर्बहुभिरावृतम्।
सुरम्यमभिवीक्षन्तौ शबरीमभ्युपेयतुः ॥५॥
तौ च दृष्ट्वा तदा सिद्धा समुत्थाय कृताञ्जलिः।
रामस्य पादौ जग्राह लक्ष्मणस्य च धीमतः ॥६॥
पाद्यमाचमनीयं च सर्वं प्रादाद्यथाविधि।
तामुवाच ततो रामश्श्रमणीं संशितव्रताम् ॥७॥
“कच्चित्ते निर्जिता विघ्नाः! कच्चित्ते वर्धते तपः।
कच्चित्ते नियतः क्रोधः आहारश्च तपोधने? ॥८॥
कच्चित्ते नियमाः प्राप्ताः कच्चित्ते मनसस्सुखम्?।
कच्चित्ते गुरुशुश्रूषा सफला चारुभाषिणि! ॥९॥
रामेण तापसी पृष्टा सा सिद्धा सिद्धसम्मता।
शशंस शबरी वृद्धा रामाय प्रत्युपस्थिता ॥१०॥
अद्य प्राप्ता तपस्सिद्धिस्तव संदर्शनान्मया।
अद्य मे सफलं तप्तं गुरवश्च सुपूजिताः ॥११॥
अद्य मे सफलं जन्म स्वर्गश्चैव भविष्यति।
त्वयि देववरे राम! पूजिते पुरुषर्षभ! ॥१२॥
चक्षुषा तव सौम्येन पूताऽस्मि रघुनन्दन!।
गमिष्याम्यश्रयान्लोकांस्त्वत्प्रसादादरिन्दम! ॥१३॥
चित्रकूटं त्वयि प्राप्ते विमानैरतुलप्रभैः।
इतस्ते दिवमारूढा यानहं पर्यचारिषम् ॥१४॥
तैश्चाहमुक्ता धर्मज्ञैर्महाभागैर्महर्षिभिः।
‘आगमिष्यति ते रामस्सुपुण्यमिममाश्रमम् ॥१५॥
स ते प्रतिगृहीतव्यस्सौमित्रिसहितोऽतिथिः।
तं च दृष्ट्वा वरान्लोकानक्षय्यांस्त्वं गमिष्यसि ॥१६॥
[एवमुक्ता महाभागैस्तदाऽहं पुरुषर्षभ!।
मया तु विविधं वन्यं सञ्चितं पुरुषर्षभ! ॥१७॥
तवार्थे पुरुषव्याघ्र! पम्पायास्तीरसम्भवम्।
एवमुक्तस्स धर्मात्मा शबर्या शबरीमिदम् ॥१८॥
राघवः प्राह विज्ञाने तां नित्यमबहिष्कृताम्।
“दनोस्सकाशात्तत्त्वेन प्रभावं ते महात्मनः ॥१९॥
श्रुतं प्रत्यक्षमिच्छामि संप्रष्टुं यदि मन्यसे।”
एतत्तु वचनं श्रुत्वा रामवक्राद्विनिस्सृतम् ॥२०॥
शबरी दर्शयामास तावुभौ तद्वनं महत्।
“पश्य मेघघनप्रख्यं मृगपक्षिसमाकुलम् ॥२१॥
मतङ्गवनमित्येव विश्रुतं रघुनन्दन!।
इह ते भवितात्मानो गुरवो मे महावने ॥२२॥
जुहवांचक्रिरेतीर्थं मन्त्रवन्मन्त्रपूजितम्।
इयं प्रत्यक्स्थली वेदिर्यत्र ते मे सुसत्कृताः ॥२३॥
पुष्पोपहारं कुर्वन्ति श्रमादुद्वेपिभिः करैः।
तेषां तपःप्रभावेन पश्याद्यापि रघूद्वह! ॥२४॥
द्योतयन्ति दिशस्सर्वाश्श्रिया वेद्योऽतुलप्रभाः।
अशक्नुवद्भिस्तैर्गन्तुमुपवासश्रमालसैः ॥२५॥
चिन्तितेऽभ्यागतान्पश्य सहितांत्सप्तसागरान्।
कृताभिषेकैस्तैर्न्यस्ता वल्कलाः पादपेष्विह ॥२६॥
अद्यापि नावशुष्यन्ति प्रदेशे रघुनन्दन!।
देवकार्याणि कुर्वद्भिर्यानीमानि कृतानि वै ॥२७॥
पुष्पैः कुवलयैस्सार्धं म्लानत्वं नोपयान्ति वै।
कृत्स्नं वनमिदं दृष्टं श्रोतव्यं च श्रुतं त्वया? ॥२८॥
तदिच्छाम्यभ्यनुज्ञाता त्यक्तुमेतत्कलेबरम्।
तेषामिच्छाम्यहं गन्तुं समीपं भावितात्मनाम् ॥२९॥
मुनीनामाश्रमो येषामहं च परिचारिणी।”
धर्मिष्ठं तु वचश्श्रुत्वा राघवस्सहलक्ष्मणः ॥३०॥
प्रहर्षमतुलं लेभे आश्चर्यमिति तत्त्वतः।
तामुवाच ततो रामश्श्रमणीं संश्रितव्रताम् ॥३१॥
“अर्चितोऽहं त्वया भक्त्या गच्छ कामं यथासुखम्।”
इत्युक्त्वा जटिला वृद्धा चीरकृष्णाजिनाम्बरा ॥३२॥
तस्मिन्मुहूर्ते शबरी देहं जीर्ण जिहासती।
अनुज्ञाता तु रामेण हुत्वाऽऽत्मानं हुताशने ॥३३॥
ज्वलत्पावकसङ्काशा स्वर्गमेव जगाम सा।
दिव्याभरणसंयुक्ता दिव्यमाल्यानुलेपना ॥३४॥
दिव्याम्बरधरा तत्र बभूव प्रियदर्शना।
विराजयन्ती तं देशं विद्युत्सौदामिनी यथा ॥३५॥
[प्रणम्य शिरसा रामं स्वर्गता सुप्रभानना।
यत्र ते सुकृतात्मानो विहरन्ति महर्षयः॥३६॥]
इति श्रीमदारण्यकाण्डे चतुस्सप्ततितमस्सर्गः ॥
—————
॥ पञ्चसप्ततितमस्सर्गः ॥
दिवं तु तस्यां यातायां शबर्यांस्वेन तेजसा।
लक्ष्मणेन सह भ्रात्रा चिन्तयामास राघवः ॥१॥
स चिन्तयित्वा धर्मात्मा प्रभावं तं महात्मनाम्।
हितकारिणमेकाग्रंलक्ष्मणं राघवोऽब्रवीत् ॥२॥
“दृष्टोऽयमाश्रमस्सौम्य बह्वाश्चर्यो महात्मनाम्।
विश्वस्तमृगशार्दूलो नानाविहगसेवितः ॥३॥
सप्तानां च समुद्राणामेषु तीर्थेषु लक्ष्मण!।
उपस्पृष्टं च विधिवत्पितरश्चापि तर्पिताः ॥४॥
प्रणष्टमशुभं तत्तत्कल्याणं समुपस्थितम्।
तेन तत्त्वेन हृष्टं मे मनो लक्ष्मण! सम्प्रति ॥५॥
हृदये मे नरव्याघ्र! शुभमाविर्भविष्यति।
तदागच्छ गमिष्यावः पम्पां तां प्रियदर्शनाम् ॥६॥
ऋष्यमूको गिरिर्यत्र नातिदूरे प्रकाशते।
यस्मिन् वसति धर्मात्मा सुग्रीवोंऽशुमतस्सुतः ॥७॥
नित्यं वालिभयात्त्रस्तश्चतुर्भिस्सह वानरैः।
अभित्वरे च तं द्रष्टुं सुग्रीवं वानरर्षभम् ॥८॥
तदधीनं हि मे सौम्य! सीतायाः परिमार्गणम्।”
एवं ब्रुवाणं तं धीरं रामं सौमित्रिरब्रवीत् ॥९॥
“गच्छावस्त्वरितं तत्र ममापि त्वरते मनः।”
आश्रमात्तु ततस्तस्मान्निष्क्रम्य स विशाम्पतिः ॥१०॥
आजगाम ततः पम्पां लक्ष्मणेन सहाभिभूः।
स ददर्श ततः पुण्यामुदारजनसेविताम् ॥११॥
नानाद्रुमलताकीर्णां पम्पां पानीयवाहिनीम्।
पद्मेस्सौगन्धिकैस्ताम्रां शुक्लां कुमुदमण्डलैः ॥१२॥
नीलां कुवलयोद्धाटैर्बहुवर्णा कुथामिव।
स तामासाद्य वै रामो दूरादुदकवाहिनीम् ॥१३॥
मतङ्गसरसं नाम हृदं समवगाहत।
अरविन्दोत्पलवतींपद्मसौगन्धिकायुताम् ॥१४॥
पुष्पिताम्रवणोपेतां बर्हिणोद्धुष्टनादिताम्।
तिलकैर्बीजपूरैश्च धवैश्शुक्लद्रुमैस्तथा ॥१५॥
पुष्पितैः करवीरैश्च पुन्नागैश्च सुपुष्पितैः।
मालतीकुन्दगुल्मैश्च भाण्डीरैर्निचुलैस्तथा ॥१६॥
अशोकैस्सप्तपर्णैश्च केतकैरतिमुक्तकैः।
अन्यैश्च विविधैर्वृक्षैः प्रमदामिव भूषिताम् ॥१७॥
सभीक्षमाणौ पुष्पाढ्यं सर्वतो विपुलद्रुमम्।
कोयष्टिकैश्चार्जुनकैश्शतपत्रैश्च कीरकैः ॥१८॥
एतैश्चान्यैश्च विहगैर्नादितन्तु वनं महत्।
ततो जग्मतुरव्यग्रौराघवौ सुसमाहितौ ॥१९॥
तद्वनं चैव सरसः पश्यन्तौ शकुनैर्युतम्।
स ददर्श ततः पम्पां शीतवारिनिधिं शुभाम् ॥२०॥
प्रहृष्टनानाशकुनां पादपैरुपशोभिताम्।
[तिलकाशोकपुन्नागवकुलोद्दालकाशिनीम् ॥२१॥]
स रामो विविधान् वृक्षान् सरांसि विविधानि च।
पश्यन्कामाभिसन्तप्तो जगाम परमं हृदम् ॥२२॥
पुष्पितोपवनोपेतां सालचम्पकशोभिताम्।
षट्पदौघसमाविष्टां श्रीमतीमतुलप्रभाम् ॥२३॥
स्फटिकोपमतोयाढ्यां श्लक्ष्णवालुकसन्तताम्।
स तां दृष्ट्वा पुनः पम्पां पद्मसौगन्धिकैर्युताम् ॥२४॥
इत्युवाच तदा वाक्यं लक्ष्मणं सत्यविक्रमः।
“अस्यास्तीरे तु पूर्वोक्तः पर्वतो धातुमण्डितः ॥२५॥
ऋश्यमूक इति ख्यातः पुण्यः पुष्पितपादपः।
हरेर्ऋक्षरजोनाम्नः पुत्रस्तस्य महात्मनः ॥२६॥
अध्यास्ते तं महावीर्यस्सुग्रीव इति विश्रुतः।
सुग्रीवमभिगच्छ त्वं वानरेन्द्रं नरर्षभ! ॥२७॥”
इत्युवाच पुनर्वाक्यं लक्ष्मणं सत्यविक्रमम्।
……….न दीनेन तस्यामासक्तचेतसा ॥२८॥
कथं मया विना शक्यं सीतां लक्ष्मण! जीवितुम्।”
इत्येवमुक्त्वामदनाभिपीडितस्स लक्ष्मणं वाक्यमनन्यचेतसम्।
विवेश पम्पां नलिनीं मनोरमां रघूत्तमश्शोकविषादयन्त्रितः ॥२९॥
ततो महद्वर्त्म सुदूरसंक्रमः क्रमेण गत्वा प्रतिकूलधन्वनम्।
ददर्श पम्पां शुभदर्शकाननामनेकनानाविधपक्षिजालकाम् ॥३०॥
इत्यार्षे श्रीमद्रामायणे आदिकाव्ये
वाल्मीकीये चतुर्विंशत्सहस्रिकायां संहितायामारण्यकाण्डे पञ्चसप्ततितमस्सर्गः ॥
—————
]