५ ००६ वर्ण-वृत्त्य्-उत्कर्षादि

वर्णा वर्णान्तरालाश्च

तथा हि-
तत्र ब्राह्मण-आदि-वर्णास् तावन् मनुना दर्शिताः -

सर्व-वर्णेषु तुल्यासु
पत्नीष्व् अक्षत-योनिषु ।
आनुलोम्येन सम्भूता
जात्या ज्ञेयास् त एव ते ॥

इति । देवलो ऽपि -

ब्राह्मण्यां ब्राह्मणाज् जातः
संस्कृतो ब्राह्मणो भवेत् ।
एवं क्षत्रिय-विट्-शूद्रा
ज्ञेयाः स्वेभ्यः स्व-योनि-जाः ॥

इति । मनुर् अपि -

स्त्रीष्व् अनन्तर-जातासु
द्विजैर् उत्पादितान् सुतान् ।
सदृशान् एव तान् आहुर्,
मातृ-दोषैर् विगर्हितान् ॥

इति । अस्य चायम् अर्थः-
क्षत्रियायां ब्राह्मणाद् उत्पन्नो ब्राह्मण-सदृशः +++(5)+++ -
न तु मुख्य-ब्राह्मणः,
हीन-जाति-मातृ-सम्बन्धाद् इति ॥
[[P81]]

ते चानुलोमा मूर्धावसिक्तादि-भेदेन षड्-विधाः ।
तथा च याज्ञवल्क्यः –

विप्रान् मूर्धावसिक्तो हि
क्षत्रियायां, विशः स्त्रियाम् ।
अम्बष्ठः, शूद्र्यां निषादो
जातः पारशवो ऽपि वा ॥
वैश्या-शूद्रयोस् तु राजन्यान्
माहिष्योग्रौ सुतौ स्मृतौ ।
वैश्यात् तु करणः शूद्रायां
विन्नास्व् एष विधिः स्मृतः ।

इति । विन्नासु ऊढासु ।
गौतमो ऽपि —

‘अनुलोमा अनन्तरैकान्तर–द्व्य्-अन्तरासु जाताः
सवर्णाम्बष्ठोग्र-निषाद-दौष्यन्त-पारशवाः’

इति । अत्र मिताक्षरा -

‘ब्राह्मणस्यानन्तरा क्षत्रिया ।
तस्यां ब्राह्मणाज् जातः सवर्णो मूर्धावसिक्तापर-नामा ।
क्षत्रियस्यानन्तरा वैश्या ।
तस्यां तस्माज् जातो ऽम्बष्ठः ।
वैश्यस्यानन्तरा शूद्रा ।
तस्यां तस्माद् उत्पन्न उग्रः ।
ब्राह्मणस्यैकान्तरा वैश्या ।
तस्यां तस्माद् उत्पन्नो निषादः ।
क्षत्रियस्यैकान्तरा शूद्रा ।
तस्यां तस्माद् उत्पन्नो दौष्यन्तः ।
ब्राह्मणस्य द्व्य्-अन्तरा शूद्रा ।
तस्यां तस्माद् उत्पन्नः पारशवः ।
अयम् एव याज्ञवल्क्येन निषाद इत्य् अभिहितः ॥

प्रतिलोमान् आह मनुः –

क्षत्रियाद् विप्र-कन्यायां
सूतो भवति जातितः ।
वैश्यान् मागध-वैदेहौ
राज-विप्राङ्गना-सुतौ ॥
शूद्राद् आयोगवः क्षत्ता
चण्डालश् चाधमो नृणाम् ।
वैश्य-राजन्य-विप्रासु
जायन्ते वर्ण-संकराः ॥

इति । गौतमो ऽपि –

‘प्रतिलोमाः सूत-मागधायोगव-क्षत्तृ-वैदेहक-चण्डालाः’

इति । अत्र मिताक्षरा –

‘अनन्तरैकान्तर-द्व्य्-अन्तरासु जाता इत्य् अनुवर्तते ।
क्षत्रियस्यानन्तरा ब्राह्मणी । तस्यां तस्माज् जातः सूतः ।
वैश्यस्यानन्तरा क्षत्रिया । तस्यां तस्माद् उत्पन्नो मागधः ।
शूद्रस्यानन्तरा वैश्या । तस्यां तस्माज् जात आयोगवः ।
वैश्यस्यैकन्तरा ब्राह्मणी । तस्यां तस्माज् जातः क्षत्ता ।
शूद्रस्यैकान्तरा क्षत्रिया । तस्यां तस्माज् जातो वैदेहकः ।
शूद्रस्य द्व्य्-अन्तरा ब्राह्मणी । तस्यां तस्माज् जातश् चण्डालः '

इति ।

उक्तानां वर्णानां तारतम्यम् आह देवलः –

’ तेषां सवर्ण-जाः श्रेष्ठास्
तेभ्यो ऽन्वग् अनुलोम-जाः ।
अन्तराला बहिर्-वर्णाः
पतिताः प्रतिलोम-जाः ॥ '

इति ॥ [[P82]]

अयम् अर्थः —
विजातीयान् मिथुनाद् उत्पन्ना अन्तरालाः ।
ते च द्वि-विधाः -
अनुलोम-जाः, प्रतिलोम-जाश् च ।
तत्रानुलोम-जाः [[P83]] सवर्ण-जेभ्यो हीना अपि
वर्णाश्रम-धर्माधिकारिणः
मातृ-जाति-धर्मवत्त्वात् ।
प्रतिलोम-जास् तु वर्णाश्रम-धर्माधिकारात्
पतिता अधमा इति ।
गौतमो ऽपि ‘प्रतिलोमास् तु धर्म-हीनाः’ इति ॥

ननु मूर्धावसिक्तादीनां वर्ण-बहिर्भूतत्वेन जात्य्-अन्तरत्वम् उक्तम् ;
तन् न सङ्गतम्,
अनुलोम-जातानां मातृ-जातीयत्वात् ।
तद् आह विष्णुः-

‘समान-वर्णासु पुत्राः समान-वर्णा भवन्ति ।
अनुलोमासु मातृ-वर्णाः ।
प्रतिलोमास् त्व् आर्य-विगर्हिताः’

इति ।
शङ्खो ऽपि -

‘क्षत्रियायां ब्राह्मणाद् उत्पन्नः
क्षत्रिय एव भवति ।
क्षत्रियेण वैश्यायाम् उत्पन्नो वैश्य एव ।
वैश्येन शूद्रायां शूद्र एव भवति '

इति

— नैष दोषः ।
अनयोर् वचनयोर् मातृ-जात्य्-उचित-धर्म-प्राप्त्य्-अर्थत्वात् ।
अन्यथा द्विजोत्कर्ष-वैयर्थ्यापत्तेः ।
यथा क्षेत्रापकर्ष उत्कृष्ट-जाति-निवारकः,
एवं बीजोत्कर्षो ऽपि निकृष्ट-जातिं कुले न निवारयेत् ।
तथा च ‘अन्तराला बहिर्-वर्णा’ इति जात्यन्तरम् ॥ +++(5)+++

वर्ण-वृत्ति-धर्माः

एतेषां वृत्ति-धर्मांश् चाह मनुः –

‘ब्राह्मणा ब्रह्म-योनि-स्था
ये स्व-कर्मण्य् अवस्थिताः ।
ते सम्यग् उपजीवेयुः
षट्-कर्माणि यथा-क्रमम् ॥’

इति ।
ब्राह्मणाः ब्रह्म बुभूषवः ।
ब्रह्म-योनि-स्थाः ब्राह्मणात् ब्राह्मण्याम् उत्पन्नाः ।

अध्यापनम् अध्ययनं
यजनं याजनं तथा ।
दानं प्रतिग्रहश् चैव
षट्-कर्माण्य् अग्र-जन्मनः ॥
षण्णां तु कर्मणाम् अस्य
त्रीणि कर्माणि जीविका ।
याजनाध्यापने चैव
विशुद्धाच् च प्रतिग्रहः ॥

इति । [[P84]] क्षत्रिय-विशोर् अप्य् आह –

शस्त्रास्त्र-भृत्त्वं क्षत्रस्य
वणिक्-पशु-कृषिर् विशः ।
आजीवनार्थं धर्मस् तु
दानम् अध्ययनं यजिः ॥

वणिक् वाणिज्यम् । पशुः पशु-पाल्यम् ॥

त्रयाणां वर्णानां विशिष्ट-कर्माण्य् आह स एव –

‘वेदाभ्यासो ब्राह्मणस्य
क्षत्रियस्य तु रक्षणम् ।
वार्ता-कर्म च वैश्यस्य
विशिष्टानि स्व-कर्मसु ॥ '

इति ।

शूद्र-वृत्तयः

शूद्रस्यापि विशिष्टां वृत्तिम् आह स एव -

‘स्वर्गार्थम् उभयार्थं वा
विप्रान् आराधयेत् तु सः ।
जात-ब्राह्मण-शब्दस्य
सा ह्य् अस्य कृत-कृत्यता ॥’

इति ।

जात-ब्राह्मण-शब्दः —
अस्य ब्राह्मणस्य अयं शुश्रूषक इति शब्दः ॥

शुस्रूषक-शूद्राः

एवं शुश्रूषक-शूद्रस् त्रि-विधः-
आगन्तुकः क्रीतो गर्भ-दासश् चेति ।
एतेषां त्रयाणां ग्रह-स्थिति-विशेषेण उत्पत्तिम् आह बृहज्जातक-

’ एभ्यो ऽल्प-मध्य-बहुभिः
क्रमशः प्रसूता ज्ञेयाः स्युर्
अभ्युपगम-क्रय–गर्भ-दासाः’

इति ।
तत्र अभ्युपगम-भृत्यस्य भृति-दानेनैव भरणम्,
न तूच्छिष्ट-दानम्,

‘न शूद्राय मतिं दद्यान्
नोच्छिष्टं न हविष्-कृतम्’

इति मनुनैव स्थलान्तरे प्रतिषिद्धत्वात् ।
क्रीत-गर्भ-दासयोस् तु +उच्छिष्टान्न-जीर्ण-वसनादिकम् अपि देयम्
इत्य् अभिप्रायेण स्थलान्तरे मनुर् एवाह -

‘प्रकल्प्या तस्य वै वृत्तिः
स्व-कुटुम्बाद् यथार्हतः ।
शक्तिं चावेक्ष्य भक्तिं च
भृत्यानां च परिग्रहम् +++(=पत्न्यादि)+++ ॥
उच्छिष्टम् अन्नं दातव्यं
जीर्णानि वसनानि च ।
पुलकाश् चैव धान्यानां
जीर्णाश् चैव परिच्छदाः ॥ '

इति ।
भृत्यानां परिग्रहस् तदीयः संसारः ।
पुलका असार-धान्यानि ।
अत एव

‘भोजनं तु न निःशेषं
कुर्यात् प्राज्ञः कथंचन ।
अन्यत्र दधि-सक्त्व्-आज्य-
लाजा-क्षीराच् च मध्व् अपः ॥’

इति पुलस्त्योक्त-रीत्या

अवशेषितान्नस्य भृत्यादिभ्यः प्रदानं प्रतिपत्तिर्

इत्य् आह वृद्ध-मनुः [[P85]]-

‘पीत्वापोशनम् अश्नीयात्
पात्र-दत्तम् अगर्हितम् ।
भार्या-भृतक-दासेभ्य
उच्छिष्टं दर्शयेत् ततः ॥’

इति ।

अनुमतम् अपीदम् उच्छिष्ट-दानम्
आहिताग्निना पर्वणि न कर्तव्यम्

इत्य् आह बोधायनः–

‘नैतद् अहः शूद्रायोच्छिष्टं दद्यात् ।
स्त्रिया एवैतद् अहर् उच्छिष्टं दद्यात् '

इति ॥

स्वकीया वृत्तिः

उक्त-वर्णानां वृत्तिर् द्वि-विधा -
स्वकीया परकीया चेति ।

स्वकीयापि द्वि-विधा - सगुणा विगुणा चेति ।
तत्र ब्राह्मणानां सगुणा वृत्तिर्
याज्य-याजनाध्याप्याध्यापन-प्रतिग्राह्य-प्रतिग्रह-रूपा ।
तस्याः सगुणत्वं च प्रशस्तत्वात् ।
प्रशंसा च स्मृति-रत्ने -

’ याजनाध्यापने शुद्धे
तथा पूतः प्रतिग्रहः ।
एषा सम्यक् समाख्याता
त्रितयं तस्य जीविका ॥’

इति ।
तत्र याज्यान् आह द्राह्यायणः–

’ आर्षेयो ऽनूचानः साधु-चरणः’

इति ऋत्विक्-लक्षणम् अभिधाय

’ याज्यश् च प्रथमैस् त्रिभिर् गुणैर् व्याख्यातः’

इति ।
प्रतिग्राह्यं तु गौतमेनोक्तम्-

’ प्रशस्तानां स्व-कर्मसु द्वि-जातीनां
ब्राह्मणो भुञ्जीत प्रतिगृह्णीयाच् च’

इति ।

व्यासो ऽपि -

’ द्वि-जातिभ्यो धनं लिप्सेत्
प्रशस्तेभ्यो द्विजोत्तमः '

इति ।

अध्याप्याश् च छन्दोग-ब्राह्मणे विद्या-वाक्ये –

‘ब्रह्म-चारी धन-दायी मेधावी श्रोत्रियः प्रियो
विद्यया वा विद्यां यः प्राह
तानि तीर्थानि षण् मम '

इति ॥

विगुणा वृत्तिः

विगुणा वृत्तिर् अयाज्य-याजनानध्याप्याध्यापनाप्रतिग्राह्य-प्रतिग्रह-रूपा । +++(4)+++
तत्र अयाज्य-याजनादीनां विगुणत्वं च प्रतिषेधात् ।+++(4)+++
प्रतिषेधश् च बोधायन-सूत्रे -

‘ना[न]नूचानं प्रयाजयेत्’

इत्यादि ।

सुमन्तुर् अपि -

‘अशस्त-पतित-पौनर्भव- भ्रूणहा-पुंश्चल्य्-अशुचि- शस्त्रकार-तैलिक-चाक्रिक- ध्वजि-सुवर्णकार-लेख्यक- भण्डक-बाध[वर्ध]कि- श्व-गणिक- सौनिक-व्याध-निषाद- रजक-बुरुड-चर्मकरा अभोज्यान्ना अप्रतिग्राह्या [[P86]] अयाज्याश् च’

इति ।
इदं चाप्रतिग्राह्यत्वम् एधोदकादि-व्यतिरिक्त-विषयम् ।
एधोदकादिकं तु सर्वतः प्रतिग्राह्यम् ।+++(4)+++
तद् आह गौतमः–

’ एधोदक-यवस-मूल-फल-मध्व्- अभयाभ्युद्यत-शय्यासन-आवसथ-यान- पयो-दधि-धाना-शफरी- प्रियङ्गु-मृग-शाकान्य् अप्रणोद्यानि सर्वेषाम्’

इति ।

अनध्याप्यांश् च छन्दोग-ब्राह्मणे –

‘अनर्हते मानिने नैव मा ऽदाः’

इति ॥+++(4)+++

सगुणालाभे विगुणापि वृत्तिर् आदर्तव्या ।

पवित्रं दुष्यतीत्य् एतद्
धर्मतो नोपपद्यते
नाध्यापनाद् याजनाद् वा
गर्हिताद् वा प्रतिग्रहात् ।
प्रदोषो भवति विप्राणां
ज्वलनार्क-समा हि ते ॥ +++(5)+++

जीवितात्ययम् आपन्नो
यो ऽन्नम् अत्ति यतस् ततः ।
आकाशम् इव पङ्केन
स दोषेण लिप्यते ॥+++(5)+++

अजीगर्तः सुतं हन्तुम्
उपासर्पद् बुभुक्षितः ।
न चालिप्यत दोषेण
क्षुत्-प्रतीकारम् आचरन्
श्व-मांसम् इच्छन्न् आर्तो ऽत्तुं
धर्माधर्म-विचक्षणः ।
प्राणानां रक्षणार्थाय
वामदेवो न लिप्तवान्
भारद्वाजः क्षुधार्तस् तु
स-पुत्रो निर्जने वने ।
बह्वीर् गाः प्रतिजग्राह
ब्रह्म-तीक्ष्णो महा-तपाः ॥
क्षुधार्तश् चात्तुम् अभ्यागाद्
विश्वामित्रः श्व-जाघनीम् ।
चण्डाल-हस्ताद् आदाय
धर्माधर्म-विचक्षणः ॥

इति ।

गौतमो ऽपि - ‘पितृ-देव-गुरु-भृत्य-भरणे चान्यत्’ इति ।

अत्र मिताक्षरा -

‘पितृ-भरणम् अविच्छेदेन ।
देव-भरणम् अग्न्य्-आदि-होम-आदि ।
गुरवः पित्रादयः ।
भृत्याः पुत्रादयः ।
तेषां भरणं भक्तादिना रक्षणम् ।
एतेषु निमित्तेषु +अन्यद् अपि अन्नादिकं सर्वतः प्रतिग्राह्यम्’

इति ॥

मनुस् तु-

गुरून् भृत्यांश् चोर्ध्वं धरिष्यन्न्
अर्चिष्यन् देवतातिथीन् ।
सर्वतः प्रतिगृह्णीयान्
न तु तृप्येत् स्वयं ततः ॥

इति ।
[[P87]]

शूद्र-प्रतिग्रहम् अन्तरेण जीवनं न लभ्यते चेत्,
शूद्राद् अपि प्रतिग्राह्यम् ।+++(4)+++

तद् अप्य् आह गौतमः - ‘नो चेद् अन्तरेण शूद्रात् ’ इति ।
भगवान् बादरायणो ऽपि –

‘सर्वान्नानुमतिश् च प्राणात्यये तद्-दर्शनात्’

इति ॥

तारतम्यम्

स्व-वृत्ति-भूतानाम् अपि
याजनादीनां पूर्वं पूर्वं निन्दितम् ।
तद् आह गौतमः –

’ याजनाध्यापन-प्रतिग्रहाः सर्वेषाम् ।
पूर्वः पूर्वी गुरुः’

इति ।
मनुस् तु

’ प्रतिग्रहाद् याजनाच् च
तथैवाध्यापनाद् अपि ।
प्रतिग्रहः प्रत्यवरः
प्रेत्य विप्रस्य गर्हितः ॥ '

इति ।

पर-वृत्तिः

उक्त-स्व-वृत्त्य्-अलाभ एव पर-वृत्त्य्-आदरः ।

ब्राह्मणस्य

तथा च गौतमः -

’ तद्-अलाभे क्षत्र-वृत्तिः,
तद्-अलाभे वैश्य-वृत्तिः’

इति ।
मनुर् अपि -

‘अजीवंस् तु यथोक्तेन
ब्राह्मणः स्वेन कर्मणा ।
जीवेत् क्षत्रिय-धर्मेण
स ह्य् अस्य प्रत्यनन्तरः ॥
उभाभ्याम् अप्य् अजीवंस् तु
कथं स्याद् इति चेद् वदेत् ।
कृषि-गोरक्षम् आस्थाय
जीवेद् वैश्यस्य जीविकाम् ॥’

इति ॥

वैश्य-वृत्त्या जीवन् ब्राह्मण उद्धृतोद्धारं विक्रीणीयात् ।

तद् आह मनुः -

विपण्यम् उद्धृतोद्धारं
विक्रेयं वित्त-वर्धनम् ॥
सर्वान् रसान् अपोहेत
कृतान्नं च तिलैः सह ।
अश्मनो लवणं चैव
पशवो ये च मानुषाः ॥
सर्वं च तान्तवं रक्तं
शाण-क्षौमाविकानि च ।
अपि चेत् स्युर् अरक्तानि
फल-मूले तथौषधीः ॥
अपः शस्त्रं विषं मांसं
सोमं गन्धांश् च सर्वशः ।
क्षीरं क्षौद्रं दधि घृतं
तैलं मधु गुडं कुशान् ॥
आरण्यांश् च पशून् सर्वान्
दंष्ट्रिणश् च वयांसि च ।
मद्यं नीलिं च लाक्षां च
सर्वांश् चैकशफाण् पशून् ॥
( त्रपु-सीसे तथा लोहं
तैजसानि च सर्वशः ।
पाशां[वालां]श् चर्म तथा ऽस्थीनि
बस्तिस्नायूनि रोचनाम् ॥ )

इति । आपस्तम्बो—

‘अविहिता ब्राह्मणस्य वणिज्या ।
आपदि व्यवहरेत पण्यानाम्
अपण्यानि व्युदस्यन् । [[P88]]
मनुष्यान् रसान् रागान् गन्धान् अन्नं चर्म गवां वशां श्लेष्मोदके तोक्म-किण्वे पिप्पली-मरीचे धान्यं मांसम् आयुधं सुकृतं च तिल-तण्डुलांस् त्व् एव धान्यस्य विशेषेण न विक्रीणीयात्’

इति । गौतमो ऽपि –

‘तस्यापण्यं गन्ध-रस-कृतान्न-तिल-शाण-क्षौमाजिनानि रक्त-निर्णीक्ते वाससी क्षीरं च स-विकारम्, मूल-फल-पुष्पौषध-मधु-मांस-तृणोदकापथ्यानि, पशवश् च हिंसा-संयोगे । पुरुष-वशा-कुमारी-वेहतश् च नित्यम् । भूमि-व्रीहि-यवाजाव्य्-अश्व-धेन्व्-अनडुहश् चैके ।’

इति ॥

अपण्यानाम् एतेषां च विनिमयेन व्यवहारः ।
तथा च गौतमः –

’ विनिमयस् तु रसानां रसैः, पशूनां च, न लवण-कृतान्नयोस् तिलानां च समेन, समेन तु पक्वस्य’

इति ।
विनिमये ऽपि द्रव्य-नियमम् आहापस्तम्बः -

’ अन्नेन चालस्य मनुष्याणां च मनुष्यैः,
रसानां च रसैः, गन्धानां च गन्धैः, विद्यया च विद्यानाम् । अक्रीत-पण्यैर् व्यवहरेत मुञ्ज-बल्बजैर् मूल-फलैस् तृण-काष्ठैर् अविकृतैः '

इति ।

अविक्रेय-द्रव्य-विशेषाणां विक्रेय-काल-विशेषेण पातित्यम् आह मनुः-

‘सद्यः पतति मांसेन
लाक्षया लवणेन च ।
त्र्यहेण शूद्रो भवति
ब्राह्मणः क्षीर-विक्रयी ॥’

इति ।
इतरेषाम् अविक्रेयाणां विक्रयात् सप्त-रात्रेण वैश्यो भवति ।
तथा च मनुः–

’ इतरेषां तु पण्यानां
विक्रयाद् इह कामतः ।
ब्राह्मणः सप्त-रात्रेण
वैश्य-भावं निगच्छति ॥ '

इति ॥

कृष्य्-उत्पन्नानां तिलानां विक्रेयत्वम् अनुजानाति मनुः-

कामम् उत्पाद्य कृष्या तु
स्वयम् एव कृषीवलः ।
विक्रीणीत तिलान् शुद्धान्
धर्मार्थम् अचिर-स्थितान् ॥
भोजनाभ्यञ्जनाद् दानाद्
यद् अन्यत् कुरुते तिलैः ।
कृमी-भूतः श्व-विष्ठायां
पितृभिः सह [[P89]] मज्जति ॥

इति ।
धर्मार्थं यज्ञार्थम् । शुद्धान् अन्य-द्रव्यामिश्रितान् ।
अचिर-स्थितान् लाभाद्य्-अर्थम् अचिर-स्थापितान् ।

अत्यापदि तु सर्व-प्रकारेण आजीवनम् आह गौतमः–

’ (सम्प्रत्यर्थे ) सर्वथा तु वृत्तिर् अशक्तौ अशौद्रेण । तद् अप्य् एके प्राण-संशये
तद्-वर्ण-संकराभक्ष्याभक्ष्य-नियमस् तु’

इति ।

क्षत्रियस्य

क्षत्रियस् त्व् आपद्-गतः सर्व-विक्रयेणापि वैश्य-वृत्तिम् अवलम्ब्य जीवेत्,
न तु ब्राह्मण-वृत्तिम् ।

‘जीवेद् एतेन राजन्यः
सर्वेणाप्य् अत्ययं गतः ।
न त्व् एव ज्यायसीं वृत्तिम्
अभिमन्येत कर्हिचित् ॥’

इति ।
सर्वेण निषिद्ध-विक्रमेणापि ।

वैश्यो ऽपि आपदि शूद्र-वृत्त्या जीवेत् ।

तथा च मनुः–

‘वैश्यो ऽजीवन् स्व-धर्मेण
शूद्र-वृत्त्यापि वर्तयेत् ।
अनाचरन्न् अकार्याणि
निवर्तेत च शक्तिमान् ॥’

इति ।

शूद्रस्य

ब्राह्मण-शुश्रूषणेन वृत्त्य्-अलाभे मनुः –

‘शूद्रस् तु वृत्तिम् आकाङ्क्षन्
क्षत्रम् आराधयेद् अपि ।
धनिनं वाप्य् उपाराध्य
वैश्यं शूद्रो जिजीविषेत् ॥’

इति ।
त्रैवर्णिक-शुश्रूषणालाभे मनुः –

‘अशक्नुवंस् तु शुश्रूषां
शूद्रः कर्तुं द्वि-जन्मनाम् ।
पुत्र-दारात्ययं प्राप्तो
जीवेत् कारुक-कर्मभिः ॥’

इति ।
कारुक-कर्माण्य् अपि द्वि-जात्य्-अपेक्षितान्य् एव कर्तव्यानि ।
तद् अपि मनुर् आह -

’ यैः कर्मभिः प्रचरितैः
शुश्रूष्यन्ते द्वि-जातयः ।
तानि कारुक-कर्माणि
शिल्पानि विविधानि च ॥ '

इति ।

‘शूद्रस्य द्वि-ज-शुश्रूषा,
तथा जीवन् वणिग् भवेत् ।
शिल्पैर् वा विविधैर् जीवेद्
द्वि-जाति-हितम् आचरन् ॥’

इति च ।

शूद्रः शक्तो ऽपि बहु-द्रव्यं नार्जयेत् ।

तथा च मनुः–

’ शक्तेनापि हि शूद्रेण
न कार्यो धन-संचयः ।
शूद्रो हि धनम् आसाद्य
ब्राह्मणान् एव बाधते ॥ '

इति ।
अनसूयया स्व-वृत्ति-स्थस्य उत्तम-लोक-प्राप्तिम् आह मनुः-

‘यथा यथा हि सद्-वृत्तिम्
आतिष्ठत्य् अनसूयकः ।
तथा तथेमं चामुं च
लोकं प्राप्नोत्य् अनिन्दितः ॥ '

इति ॥ [[P90]]

अनुलोमाः

अनुलोमानां च वृत्तिः ।

तत्र मूर्धावसिक्तस्य क्षत्र-वृत्तिर् एव ।
तथा च माधवीये -

‘समान-वर्णासु पुत्राः
समान-वर्णा भवन्ति ।

‘अनुलोमास् तु मातृ-सवर्णतः’

इत्यत्र मातृ-सवर्ण-ग्रहणं मातृ-धर्म-प्राप्त्यर्थम् इति व्याख्यातत्वेन
मूर्धावसिक्तस्य क्षत्रियायाम् उत्पन्नस्य क्षत्र-धर्म-प्राप्तेः ।

अन्यत्रापि —

वैश्यतः शूद्र-कन्यायाम्
उग्रको नाम जायते ।
मेषादि-विक्रयस् तस्य
वृत्तिः कम्बल-विक्रयः ॥
अन्तःपुराणि वा रक्षेन्
नृपाणाम् आज्ञया सदा ॥
चौर्येण कटकारः स्यात्
कट-विक्रय-कर्म-कृत् ।
क्षत्रियाच् छूद्र-कन्यायां
क्रूराचार-विहारवान् ॥
क्षत्र-शूद्र-वपुर् जन्तुर्
उग्रो नाम प्रजायते ।
ब्राह्मणाद् वैश्य-कन्यायां
निषादो नाम जायते ॥
मन्त्रौषध-क्रियां कुर्यान्
नित्यं शाल्यन्न-कर्म च ।
चौर्येण कटकारः स्याद्
ऊर्ध्वं नापित एव सः ॥
नाभ्यूर्ध्व-वपनं वृत्तिः
कुम्भानां करणं मृदा ।
ब्राह्मणाच् छूद्र-कन्यायां
जातः पारशवस् तथा ॥
भद्रकाल्य्-अर्चनं तस्य
नृत्तं वाद्यं च वृत्तये ॥
अस्यां वै चोर-संगत्या
निषादो जायते सुतः ॥
जीवेद् दम्भेन गानेन
मृगाणां हिंसयापि वा ॥
वनौकसां संग्रहणं
मत्स्यानां ग्रहणं तथा ।
[ क्षत्रियाच् छूद्र-कन्यायां
जातो दौष्यन्त उच्यते ।]
खड्गादि-शस्त्र-करणं
दौष्यन्तस्य तद् उच्यते ।
अस्याम् अनेन चौर्येण
शूलिको नाम जायते ॥
नित्यं शूल-धरश् चैव
राज्ञां दण्ड्यांस् तु दण्डयेत् ।
माहिष्यात् करण्यायां तु
रथकारस् तु जायते ॥
अथ पर्याय-नामानि
तक्षा शिल्पी च वर्धकी ॥
लोह-कारः कर्म-कारः
विद्यते यजनं तथा ।
उपवीतं विधानेन
कुर्याद् आधानम् अप्य् असौ ॥
वास्तु-शास्त्रम् अधीयानः
प्रासाद-प्रतिमादिकाम् ॥
यज्ञ-पात्रं द्वि-जातीनां
हैमान्य् आभरणानि च ।
कृष्य्-उपस्करणं लेख्यं
कर्माण्य् अस्योदितानि च ॥

[[P91]] इति ।

शङ्खो ऽपि -

’ रथकारस् तस्य इज्याधानोपनयन-संस्काराः क्रियाश् च प्रातिसारथ्य-सूपकार-विद्याध्ययन-वृत्तिता च’

इति ॥

प्रतिलोमाः

प्रतिलोमिनां च वृत्तिम् आह मनुः –

क्षत्रियाद् विप्र-कन्यायां
सूतो भवति जातितः ।
प्रतिलोमेषु च श्रेष्ठो
विष्णोर् अध्यर्चनं तथा ॥
धर्म्यं धनं तस्य सारथ्यं कटविक्रयः।
नित्यं द्वि-जवद्-आचार इति सूतस्य वृत्तयः ॥
नृपायां वैश्यतो जातो मागधश् च सः ।
नृप-प्रशंसनं कुर्यात् तन्त्र-वीणां च वादयेत् ॥
अस्याम् अनेन चौर्येण पुलिन्दो नाम जायते ।
हिंसया दुष्ट-सत्त्वानाम् अरण्ये वर्तयेद् अयम् ॥
तैल-पिण्याक-लवण-विक्रयेणापि वर्तयेत् ।
अभोज्यान्नस् त्व् अयं शूद्रैर् अस्पृश्यो ऽपि भवत्य् उत ॥
ग्रामादिष्व् अपराह्वेषु प्रविशन् दण्डम् अर्हति ।
उग्रात् तु क्षत्र-कन्यायां श्वपाक इति कीर्त्यते ॥
चण्डाल-श्वपचानां तु बहिर् ग्रामात् प्रतिश्रयः ।
चैत्य-द्रुम-श्मशानेषु शैलेषूपवनेषु च ॥
वसेयुर् एते विज्ञाता वार्तया च स्व-कर्मभिः ।
वासांसि मृत-चेलानि भिन्न-भाण्डे च भोजनम् ॥
कार्ष्णायस् त्व् अलङ्कारः परिव्रज्या च नित्यशः ।
न तैः समयम् अन्विच्छेत् पुरुषो धर्मम् आचरन् ॥

उत्कृष्ट-वृत्ति-निषेधः

उक्तानां सर्वेषाम् आपद्य् अपि उत्कृष्ट-वृत्तिर् न आश्रयणीया । तथा च मनुः -

‘न त्व् एव ज्यायसीं वृत्तिम्
अभिमन्येत कर्हिचित् ।
यो मोहाद् अधमो जात्या
जीवेद् उत्कृष्ट-कर्मभिः ।
तं राजा निर्धनं कृत्वा
क्षिप्रम् एव प्रवासयेत् । '

इति ॥

पर-वृत्ति-वार्यता

उक्त-वृत्तिषु पर-वृत्तिः सगुणापि परित्याज्या ।
विगुणापि स्व-वृत्तिर् एव चादृतव्या । तथा च —

वरं स्व-धर्मो विगुणो
न पारक्यः स्वनुष्ठितः ।
पर-धर्मेण जीवन् हि
सद्यः पतति जातितः ॥
[[P92]]

इति । गीतायाम् अपि -

‘श्रेयान् स्व-धर्मो विगुणः
पर-धर्मात् स्वनुष्ठितात्’

इति ॥

इत्थं पर-वृत्त्या जीवन्न् अपि
स्व-वृत्ति-लाभानन्तरं पर-वृत्तिं परित्यज्य
प्रायश्चित्तेन संशोध्यात्मानं स्व-वृत्त्यैव जीवेत् ।

तथा च याज्ञवल्क्यः -

’ क्षत्रेण कर्मणा जीवेद्
विशां वाप्य् आपदि द्विजः ।
निस्तीर्य ताम् आत्मानं
पावयित्वा न्यसेत् पथि ॥’

इति ।
आपन्-निस्तरणानन्तरम् आत्मानं संशोध्य
स्व-मार्गे स्थापयेद् इत्य् अर्थः ।

एवम् आपद्-गतानां स्व-वृत्ति-लाभे सति तत् परित्यजेत् ।
तथा चापस्तम्बः -

’ नात्यन्तम् अन्ववस्येद् - वृत्तिं प्राप्य विरमेत् '

इति ॥

जात्य्-उत्कर्षापकर्षौ

उक्तानाम् अनुलोमानां मूर्धावसिक्तादीनां पुनर् ब्राह्मण्यादि-प्राप्तिः षष्ठे पञ्चमे वा ।+++(4)+++
तद् आह याज्ञवल्क्यः-

‘जात्य्-उत्कर्षो युगे ज्ञेयः
पञ्चमे सप्तमे ऽपि वा ।
व्यत्यये कर्मणां साम्यं
पूर्ववच् चाधरोत्तरम् ॥’

इति +++(- विवरणम् अग्रे)+++।

मूर्धावसिक्तादीनां ब्राह्मणत्वादि-जाति-प्राप्तिर् उत्कर्षः ।
अपकर्षः शूद्रत्वादि-जाति-प्राप्तिः ।
युगे जन्मनि सप्तमे पञ्चमे ऽपि वा
अपि-शब्दात् तु षष्ठे ।
व्यवस्थितश् चायं विकल्पः ।

व्यवस्था च —

ब्राह्मणेन शूद्रायाम् उत्पादिता निषादी ।
सा ब्राह्मणेन ऊढा दुहितरं कांचिज् जनयति ।
सा ब्राह्मणेन, सा ऽन्येन ब्राह्मणेन
इति प्रकारेण षष्ठी सप्तमं ब्राह्मणं जनयति ।

ब्राह्मणेन वैश्यायाम् उत्पादिताम्बष्ठा ।
सा ह्य् अनेन प्रकारेण पञ्चमी षष्ठं ब्राह्मणं जनयति ।

ब्राह्मणेन क्षत्रियायाम् उत्पादिता मूर्धावसिक्ता ।
साप्य् अनेन प्रकारेण चतुर्थी पञ्चमं ब्राह्मणं जनयति ।

उग्रा क्षत्रियेणोढा माहिष्या च
यथाक्रमं षष्ठं पञ्चमं च क्षत्रियं जनयति
तथा करणी वैश्येनोढा पञ्चमं वैश्यं जनयति ।

[[P93]]

वृत्ति-व्यत्यये

जीवनार्थं कर्मणां व्यत्यये विपर्यासे ।
यश् च ब्राह्मणो मुख्य-वृत्त्या ऽजीवन् क्षात्रेण कर्मणा जीवेद्
इत्य् अनुकल्पः ।
तेनाप्य् अजीवन् वैश्य-वृत्त्या ।
तथाप्य् अजीवन् शूद्र-वृत्त्या ।
क्षत्रियो ऽपि स्व-कर्मणा जीवनार्थेनाजीवन् वैश्य-वृत्त्या ।
तयाप्य् अजीवन् शूद्र-वृत्त्या ।
वैश्यो ऽपि स्व-वृत्त्या अजीवन् शूद्र-वृत्त्येति कर्मणां व्यत्ययः ।

तस्मिन् व्यत्यये सति
यद्य् आपद्-विगमे ऽपि
तां वृत्तिं न परित्यजति,
तदा सप्तमे षष्ठे वा पञ्चमे वा जन्मनि साम्यम् ।
यस्य वर्णस्य कर्मणा जीवति,
तत्-समान-जातिर् भवति ।
तद् यथा -
ब्राह्मणः शूद्र-वृत्त्या जीवन्
सप्तमे शूद्रं जनयति ।
वैश्य-वृत्त्या जीवन् षष्ठे वैश्यम् ।
क्षत्रिय-वृत्त्या जीवन् पञ्चमे क्षत्रियम् ।
क्षत्रियो ऽपि शूद्र-वृत्त्या षष्ठे शूद्रम् । वैश्य-वृत्त्या जीवन् पञ्चमे वैश्यम् ।
वैश्यो ऽपि शूद्र-वृत्त्या जीवन् ताम् अपरित्यजन्
पुत्र-परम्परया पञ्चमे जन्मनि शूद्रं जनयति इति ।

पूर्ववच् चाधरोत्तरम् इति ।
अस्यार्थः - अधरे चोत्तरे चाधरोत्तरम् ।
यथा मूर्धावसिक्तायां क्षत्रिय-वैश्य-शूद्रैर् उत्पादितास् तथा अम्बष्ठायां वैश्य-शूद्राभ्याम् उत्पादिताः,
निषाद्यां शूद्रेणोत्पादिता अधरे प्रतिलोमाः ।

तथा मूर्धावसिक्ताम्बष्ठ-निषादीषु ब्राह्मणेनोत्पादिताः,
माहिष्योग्रयोर् ब्राह्मणेन क्षत्रियेण चोत्पादिताः,
करण्यां ब्राह्मणेन क्षत्रियेण वैश्येन चोत्पादिता
उत्तरे ऽनुलोमाः ।

एवम् अन्यत्रापि ऊह्यम् ।

व्याख्या

गौतमो ऽपि -

’ वर्णान्तर-गमनम् उत्कर्षापकर्षाभ्यां सप्तमेन '

इति । अस्यार्थः–
तेषाम् एव सवर्णादीनाम् अनुलोमादीनाम् उत्कर्षापकर्षाभ्याम् उत्कर्षेणापकर्षेण च वर्णान्तर-गमनं
वर्णान्तर-प्राप्तिर् भवति ।

पितुर् उत्कृष्टो वर्णो मातुर् अपकृष्टः,
स्वयं मध्ये जात्यन्तरं,
पितुर् उत्कृष्टं वा मातुर् अपकृष्ट-वर्णं गच्छति
तज्-जातीयो भवति, [[P94]]
कथितेन परिवर्तनेन सप्तमेन

यदि सप्त-परिवर्तनान्य् उत्कर्षेणैव भवन्ति,
ततः पित्रा स-जातिर् भवति ।
अथापकर्षेण जातो मात्रा ।

ब्राह्मणेनोढायां क्षत्रियायाम् उत्पादिता सवर्णा,
सा पुनर् ब्राह्मणेनोढा,
तस्या अपि दुहितेत्य् एवम् आ सप्तमात्,
सप्तमी तु ब्राह्मणेनोढा यद् अपत्यं सूते,
तद् ब्राह्मण-सजातीयम् एव भवति ।

एवं ब्राह्मणेनान्ये क्षत्रियाम् ऊढा पुत्रम् उत्पादयति,
सो ऽपि क्षत्रियाम् एत्य
सप्तमस् तु क्षत्रियायां यद् अपत्यम् उत्पादयति,
तत् क्षत्रिय-जातीयम् एव भवति ।
एवं क्षत्रियस्य वैश्यायां, वैश्यस्य च शूद्रायाम् इति द्रष्टव्यम् ।

‘पञ्चमेनाचार्याः’ ।
पञ्चमेन च परिवर्तनेन वर्णान्तर-गमनं भवतीत्य् आचार्या मन्यन्ते । +++(4)+++
वृत्त-स्वाध्यायापेक्षकम् इदं सूत्रम् ।

‘सृष्ट्य्-अन्तर-जानां च ’ ।
द्वयोः सृष्ट्य्-अन्तरे जाताः
सृष्ट्यन्तर-जाः
सवर्णादयो ऽनुलोमाः ।

तेषां चोपकर्षाभ्यां वर्णान्तर-गमनं भवति
सप्तमेन पञ्चमेन वा परिवर्तनेन ।
अम्बष्ठायाम् उत्पादिता दुहिता
पुनः सवर्णेनोद्वह्यते ।
तस्या अपीत्य् एवम् आ सप्तम्याः ।
सप्तमी तु सवर्णेनोढा यद् अपत्यम् उत्पादयति
तत् सवर्णम् एव भवति ।
एवं अम्बष्ठोग्रयोर् अपि द्रष्टव्यम् इति ॥

कलाव् अनुलोम-निषेधः

उक्त-प्रकारेण असवर्णा-विवाहादिकं कलि-निषिद्धम् । तथा च स्मृत्यन्तरे -

कन्यानाम् असवर्णानां
विवाहश् च द्वि-जन्मनः ।
द्विजस्याब्धौ तु निर्याणं
शोधितस्यापि संग्रहः ॥
सत्र-दीक्षा च सर्वेषां
कमण्डलु-विधारणम् ।
महा-प्रस्थान-गमनं
गो-संज्ञप्तिश् च गो-सवे ॥
सौत्रामण्याम् अपि सुरा-
ग्रहणस्य च संग्रहः ।
अग्नि-होत्र-हवण्याश् च
लेह-लीढा-परिग्रहः ॥
वानप्रस्थाश्रमश् चापि प्रवेशो विधि-चोदितः ।
वृत्त-स्वाध्याय-सापेक्षम् अघ-सङ्कोचनं तथा ॥
प्रायश्चित्त-विधानं च [[P95]] विप्राणां मरणान्तिकम् ।
संसर्ग-दोषस् तेनान्य-महा-पातक-निष्कृतिः ॥
वरातिथि-पितृभ्यश् च पशूपकरण-क्रिया ।
दत्तौरसेतराणां तु पुत्रत्वेन परिग्रहः ॥
विप्राणां तथा दुष्टैः संसर्गः शोधितैर् अपि ।
अयोनौ संग्रहे वृत्ते परित्यागो गुरोः स्त्रियाः ॥
अस्थि-संचयनाद् ऊर्ध्वम् अङ्ग-स्पर्शस् तथैव च ।
शूद्रधर्मश् चैव विप्राणां सोम-विक्रयणं तथा ॥
शूद्रेषु दास-गोपाल-कुल-मित्रार्ध-सीरिणाम् ।
भोज्यान्नता गृहस्थस्य तीर्थ-सेवातिदूरतः ॥
शिष्यस्य गुरु-दारेषु गुरुवद् वृत्ति-शीलता ।
आपद्-वृत्तिर् द्विजातीनाम् अश्वस्तनिकता तथा ॥
प्रजार्थं तु द्विजातीनां पर-दार-परिग्रहः ।
ब्राह्मणानां प्रवासित्वं मुखाग्नि-धमन-क्रिया ॥
बलात्कारादि-दुष्ट-स्त्री-संग्रहो विधि-चोदितः ।
यतेस् तु सर्व-वर्णेभ्यो भैक्ष-चर्या विधानतः ।
नवोदके दशाहे च दक्षिणा गुरु-चोदिता ॥
ब्राह्मणादिषु शूद्रस्य पचनादि-क्रियापि च ।
भृग्व्-अग्नि-पतनैश् चैव वृद्धादि-मरणं तथा ॥
गो-तृप्ति-शिष्टे पयसि शिष्टैर् आचमन-क्रिया ।
पिता-पुत्र-विरोधेषु साक्षिणां दण्ड-कल्पनम् ॥
यतेः सायं-गृहत्वं सूरिभिस् तत्त्व-तत्परैः ।
एतानि लोक-गुप्त्यर्थं कलेर् आदौ महात्मभिः ॥
निवर्तितानि कर्माणि व्यवस्था-पूर्वकं बुधैः ।

इति । इत्थं कलि-युगे निषिद्धा अपि जातयः पुरा-युगे सन्त्य् एव ॥