अथवा रक्षणार्थं सृष्टा जातिस् तावत् क्षत्रिय-जातिर् एव ।
तथा च बृहदारण्यके ‘तच्-छ्रेयो-रूपम् अत्यसृजत क्षत्रम्’ इति ।
अस्यार्थो भाष्ये -
’ तद् ब्रह्म श्रेयो-रूपं प्रशस्त-रूपं क्षत्रं क्षत्रिय-जातिम् अत्यसृजत’
इति ।
भारते ऽपि
‘अराजके हि लोके ऽस्मिन्
सर्वतो विद्रुते भयात् ।
रक्षार्थम् अस्य सर्वस्य
राजानम् असृजत् प्रभुः ॥’
इति ।
तथा च रक्षणोद्देशेन सृष्टत्व-रूप-क्षत्रिय-धर्म-योगात्
क्षत्रिय एव राक्षसः ।
राक्षसानां रक्षणोद्देशेन सृष्टत्वं चोत्तर-रामायणे -
‘प्रजापतिः पुरा सृष्ट्वा ह्य् अपः सलिल-संभवाः ।
तासां गोपायने सत्त्वान् असृजत् पद्म-संभवः ॥
ते सत्त्वाः सत्त्व-कर्तारं विनीतवद् उपस्थिताः ।
किं कुर्म इति भासन्ते क्षुत्-पिपासा-भयार्दिताः ।
प्रजापतिस् तान् उवाच सत्त्वानि प्रहसन्न् इव ।
आभाष्य वाचा … दीनान् इति मानद । रक्षाम इति तत्रान्यैर् जक्षाम इति तथापरैः । [[P97]]
क्षुत्-पिपासाभिभूताभिस् ताभिर् उक्तः स भूत-कृत् ।
रक्षाम इति च यैर् उक्तं राक्षसास् ते भवन्तु वः ।
जक्षाम इति च यैर् उक्तं यक्षास् ते भवन्तु वः ॥ '
इति ।