५ ००६ आपदि जात्यन्तरायाम् उत्पत्तिः

[तथा हि- ब्राह्मणात् क्षत्रियायाम् उत्पन्नाः] त्रि-विधाः -
ब्राह्मणो मूर्धावसिक्तः क्षत्रियश् चेति । +++(5)+++

आपदि क्षत्रिया वैश्या वा

तत्र

‘ब्राह्मण-कन्यकाया अलाभे
स्नातक-व्रतं चरेत् ।
क्षत्रियायां वा पुत्रम् उत्पादयीत वैश्यायां वा’

इति पैठीनसि-वचनेन
क्षत्रिया-विवाहस्यानुमतत्वात्,
तस्यां ब्रह्म-विवाहोढायां धर्मान्वयवत्यां क्षत्रियायां
ब्राह्मणाद् उत्पन्नो ब्राह्मण एव ।
एतद्-अभिप्रायेणैव क्षत्रियायाम् उत्पन्नस्य ब्राह्मणत्वम्।
उक्तं मनुना -

‘यथा त्रयाणां वर्णानां
द्वयोर् आत्मा प्रजायते ।
आनन्तर्यात् स्व-योन्यां च
तथा बाह्येष्व् अपि क्रमः ॥ '

इति ॥

आनुशासनिके ऽपि -

‘क्षत्रियायास् तु यः पुत्रो
ब्राह्मणः सो ऽप्य् असंशयः ।
त्रिषु वर्णेषु जातो हि
ब्राह्मणाद् ब्राह्मणो भवेत् ॥
भार्याश् चतस्रो विप्रस्य
द्वयोर् आत्मा प्रजायते ।
आनुपूर्व्या द्वयोर् हीनो
मातृ-जात्या प्रसूयते ॥ '

इति ।
अत्र वैश्य-शूद्र-योनि-जातयोर् मातृ-जातीयत्वोक्त्यापि पूर्वयोर् ब्राह्मणत्वं सिद्धम् ॥

उदाहरणानि

इत्थं भारते ऽप्य् आदि-पर्वणि-
उपरिचर-वसोर् नाम्नो राज्ञस् तनयायां सत्यवत्यां
पराशराद् व्यासो ब्राह्मणो ऽभूद्
इति प्रतिपादितम्—

’ दिव्यां तां वासवीं कन्यां
रम्भोरुं मुनि-पुङ्गवः ।
द्वैपायनः सतां धीमांश्
चकमे चारु-हासिनीम् ॥ '

इति ।
वासवीं उपरिचर-वसोः सुताम् ।

‘पराशरेण संयुक्ता सद्यो गर्भं सुषाव सा ।
जज्ञे च यमुना-द्वीपे पाराशर्यश् च वीर्यवान् ।
एवं द्वैपायनो जज्ञे सत्यवत्यां पराशरात् ॥’

इति ॥ [[P99]]

एवं च अगस्त्यो विदर्भ-राज-तनयायां लोपामुद्रायां दृढस्युं ब्राह्मणम् अजीजनद्
इति प्रतिपादितं वन-पर्वणि —

‘देहि तां मही-पाल
लोपामुद्रां प्रयच्छ मे । '

इत्य् अगस्त्य-प्रार्थितो वैदर्भः-

‘लोपामुद्रां ततः प्रादाद्
विधि-पूर्वं विशांपते ।
तत आधाय गर्भं तम्
अगमद् वनम् एव सः ।
सप्तमे ऽब्दे गते चापि
प्राच्यवत् स महा-कविः ।
ज्वलन्न् इव प्रभावेन
दृढस्युर् नाम भारत ।
तस्य पुत्रो ऽभवद् इध्मः
स तेजस्वी महा-द्विजः । '

स एव

‘इध्मानां भारम् आजह्रे
इध्मवाहस् ततो ऽभवत्’ ।

इति । एवं ऋचीकात् गाधि-तनयायां जमदग्निर् ब्राह्मणो ऽभवद् इति प्रतिपादितं वन-पर्वणि–

’ गाधीति विश्रुतो लोके
वन-वासं जगाम ह ।
वने तु वसतस् तस्य
कन्या जज्ञे ऽप्सरः-समा ॥
ऋचीको भार्गवस् तां च
वरयामास भारत ।
गङ्गायां कान्यकुब्जे वै ददौ सत्यवतीं तदा । ततो गाधिः सुतां चास्मै जग्राह, प्रहसिताश् चासन् सुरास् तदा ॥ धर्मेण लब्ध्वा तां भार्याम् ऋचीको द्विज-सत्तमः । जमदग्निं ततः पुत्रं जज्ञे सा काल आगते । तेजसा वर्चसा चैव युक्तं भार्गव-नन्दनम् ॥’

इति ।
एवम् एव जमदग्नेर् अपि प्रसेनजितो राज्ञस् तनयायां रेणुकायां परशुराम-पञ्चमाः पुत्रा ब्राह्मणा अभवन्न् इत्य् अपि तत्रैव–

’ स वेदाध्ययनोद्युक्तो जमदग्निर् महा-तपाः । तपस् तेपे ततो वेदान् नियमाद् वशम् आनयत् ॥ स प्रसेनजितं राजन्न् अधिगम्य नराधिपम् । रेणुकां वरयामास स च तस्मै ददौ नृपः । रेणुकां त्व् अथ संप्राप्य भार्यां भार्गव-नन्दनः । तस्यां कुमाराश् चत्वारो जज्ञिरे राम-पञ्चमाः ॥’

इति ।
एवं शर्यातेः क्षत्रियस्य कन्यायां सुकन्याभिधायां प्रमतिं ब्रह्मर्षिश् च्यवनो ऽजीजनत् ।
प्रमतिर् अपि घृताच्यां रुरुम् ।
रुरुर् अपि [[P100]] प्रमद्वरायां शुनकम् इत्यादि वन-पर्वणि-

‘ऋषेर् वचनम् आज्ञाय
शर्यातिर् वीक्ष्य यत्नतः ।
ददौ दुहितरं तस्मै
च्यवनाय महात्मने ॥
सुकन्यापि पतिं लब्ध्वा तपस्विनम् अनिन्दिता । नित्यं पर्यचरत् प्रीत्या तपसा नियमेन च ॥ अग्नीनाम् अतिथीनां च शुश्रूषुम् अनवद्याङ्गी । समाराधयति क्षिप्रं च्यवनं सा शुभानना ॥ स चापि च्यवनो ब्रह्मन् भार्गवो ऽजनयत् सुतम् । सुकन्यायां महात्मानं प्रमतिं दीप्त-तेजसम् ॥ प्रमतिस् तु रुरुं नाम घृताच्यां समजीजनत् । रुरुः प्रमद्वरायां तु शुनकं समजीजनत् ॥ '

इति ॥

तथा च क्षत्रियायां धर्मान्वयवत्यां ब्राह्मणाद् उत्पन्नो ब्राह्मण एव ।

अनापदि मातृ-वर्णः

यस् तु धर्मान्वयिन्यां ब्राह्मण्यां सत्यां
रत्य्-अर्थोढायां क्षत्रियायां ब्राह्मणाद् उत्पन्नः
स मूर्धावसिक्तः । +++(5)+++

तथा हि -

ब्राह्मण्यां सत्यां क्षत्रियाया विवाह रत्य्-अर्थ एव न धर्मार्थः । तथा च मनुः–

सवर्णैवाग्र-जन्मनः
प्रशस्ता दार-कर्मणि ।
कामतस् तु प्रवृत्तानाम्
इमाः स्युः क्रमशो वराः ॥

चतस्रो ऽभिहिता भार्या
ब्राह्मणस्य कुल-क्षये ।
ब्राह्मणी क्षत्रिया वैश्या
शूद्रा च रतिम् इच्छतः ॥

इति ।
सवर्णयैव धर्माः कर्तव्याः ।
न तस्यां सत्याम् असवर्णया । तद् अपि मनुना उक्तम् —

यदि स्वाश् चापराश् चापि
विन्देरन् योषितो द्वि-जाः ।
तासां वर्ण-क्रमेण स्याज्
ज्येष्ठ्यं पूजा च वेश्मनि ॥
भर्तुः शरीर-शुश्रूषां
धर्म-कार्यं च नैत्यकम् ।
स्वा स्वैव कुर्यात् सर्वेषां
नासवर्णा कथंचन ॥
यस् तु तत् कारयेन् मोहात्
स्व-जात्या स्थितयान्यया ।
यथा ब्राह्मण-चण्डालः
पूर्व-दृष्टस् तथैव सः ॥

इति । आनुशासनिके ऽपि -

’ तिस्रः कृत्वा पुरो भार्याः
पश्चाद् विन्देत ब्राह्मणीम् ।
सा ज्येष्ठा सा च पूज्या स्यात्
सा च भार्या गरीयसी ॥
स्नानं [[P101]] प्रसाधनं भर्तुर् दन्त-धावनम् अञ्जनम् । हव्यं कव्यं च यच् चान्यद् धर्म-युक्तं गृहे भवेत् ॥ न तस्यां जातु तिष्ठन्त्याम् अन्या तत् कर्तुम् अर्हति । ब्राह्मणी त्व् एव कुर्याच् च ब्राह्मणस्य युधिष्ठिर ॥ अन्नं पानं च माल्यं च वासांस्य् आभरणानि च । ब्राह्मण्यैतानि देयानि भर्तुः सा तु गरीयसी ॥ अथ चेद् अन्यथा कुर्याद् इदं कामाद् युधिष्ठिर । स वै ब्राह्मण-चण्डालः पूर्व-दृष्टस् तथैव सः ’ ॥

इति ॥

इत्थं धर्मान्वय-रहितायां रत्य्-अर्थोढायां तस्याम् उत्पन्नो मूर्धावसिक्त एव ।+++(4)+++
एतद्-अभिप्रायम् एव याज्ञवल्क्य-वचनम् अपि –

‘विप्रान् मूर्धावसिक्तो हि
क्षत्रियायां विशः स्त्रियाम्’

इति ।

इति ब्राह्मणेन रत्य्-अर्थम् ऊढायां क्षत्रियायाम् उत्पन्नस्य क्षत्रिय-धर्म एव उक्त आनुशासनिके–

यथा न सदृशी जातु ब्राह्मण्याः क्षत्रिया भवेत् ।
क्षत्रियायास् तथा वैश्या न जातु सदृशी भवेत् ॥
श्रीश् च राज्यं च कोशश् च क्षत्रियाणां युधिष्ठिर ।
विहितं दृश्यते राजन् रक्षा नान्यत्र क्षत्रियात् ॥
ब्राह्मणा हि सदा भागा देवाणाम् अपि देवताः ।
तेषु राजन् प्रवर्तस्व पूजायां विधि-पूर्वकम् ॥
ऋषीणां ऋषिभिर् ज्ञात्वा धर्मं शाश्वतम् अव्ययम् ।
लुप्यमानं स्व-धर्मेण क्षत्रियो ह्य् एव रक्षति ॥
दस्युभिर् ह्रियमाणं च धनं दारांश् च सर्वशः ।
सर्वेषाम् एव वर्णानां त्राता भवति पार्थिवः ॥
भूयान् स्यात् क्षत्रिया-पुत्रो वैश्या-पुत्रान् न संशयः ।
भूयस् तेनाभिहर्तव्यं पितृ-वित्ताद् युधिष्ठिर ॥

इति । अत एव माधवीये ऽपि –

‘समान-वर्णासु पुत्राः समान-वर्णा भवन्ति, अनुलोमास् तु मातृ-वर्णाः’

इति विष्णु-वचने मातृ-सत्त्व-प्रतिपादनं मातृ-जात्य्-उचित-धर्म-प्राप्त्यर्थम् इति प्रतिपादितम् । तस्मात् [[P102]] धर्मान्वय-रहितायां क्षत्रियायां ब्राह्मणाद् उत्पन्नो मूर्धावसिक्त एव ॥

नियोगे मातृ-वर्णः

क्षत्रियेण पुत्रार्थतया प्रेषितायां क्षत्रिय-भार्यायां ब्राह्मणाद् उत्पन्नः क्षत्रिय एव । +++(4)+++
तथा चादि-पर्वणि कुन्तीं प्रति पाण्डुः –

‘सौदासेन च रम्भोरु
नियुक्तापत्य-जन्मनि ।
मदयन्ती जगामर्षिं
वसिष्ठम् इति नः श्रुतम् ॥
तस्माल् लेभे च सा पुत्रम्
अश्मकं नाम भामिनि ।
अस्माकम् अपि ते जन्म
विदितं कमलेक्षणे ॥
कृष्ण-द्वैपायनाद् भीरु
कुरु-वंश-विवृद्धये ॥’

इति । तत्रैवान्यत्र -

‘बलिः सुदेष्णां भार्यां स्वां
तस्मै स प्राहिणोत् पुनः ।
तां स दीर्घतमाङ्गेषु
दृष्ट्वा देवीम् अथाब्रवीत् ।
अङ्गो वङ्गः कलिङ्गश् च
पुण्ड्रः सुह्यश् च ते सुताः ॥
भविष्यन्ति कुमारास् ते
तेजसा आदित्य-वर्चसः । '

इति । तत्रैव च स्थलान्तरे –

‘एवम् उच्चावचैर् शस्त्रैर् भार्गवेण महात्मना ।
त्रिः-सप्त-कृत्वः पृथिवी निःकृत्ताः क्षत्रियाः पुरा ॥
ततः संभूय सर्वाभिः क्षत्रियाभिः समन्ततः ।
उत्पादितान्य् अपत्यानि ब्राह्मणैर् वेद-पारगैः ॥
पाणि-ग्राहस्य तनय इति वेदेषु निश्चितम् ।
धर्मं मनसि संस्थाप्य ब्राह्मणान् ताः समभ्ययुः ।
ततः पुनः समुदितं क्षत्रं समभवत् तदा । '

इति । तत्रैवान्यत्र -

’ शृणु कुन्ति कथाम् एतां शारद्दण्डायनीं प्रति ।
सा वीर-पत्नी गुरुणा नियुक्ता पुत्र-जन्मने ॥
पुण्येन प्रयता स्नाता निशि कुन्ति चतुष्पथे ॥ वरयित्वा द्विजं सिद्धं हुत्वा पुंसवने ऽनलम् । कर्मण्य् अवसिते तस्मिन् सा तेनैव सहावसत् ॥ तत्र त्रीन् जनयामास दुर्जयादीन् महा-रथान् । त्वम् अपि कल्याणि ब्राह्मणात् तपसाधिकात् ॥ मन्-नियोगाद् यत क्षिप्रम् अपत्योत्पादनं प्रति । '

इति ॥