2 2 ayodhy A

DHARMAKUTAM
YOL. III.
AYODHYAKANDA
PART II
TRYAMBAKARAYA MAKHI.
SRIRANGAM:
SRI VANI VILAS PRESS.
1926.
Copyright Registered.
॥ श्रीः ॥
॥ धर्माकूतम् ॥
"

"
सैको जिमहाराजस्य मन्त्रिणो गङ्गाधरा-
वरिणः पुत्रेण शहजिशरभोजिमहीपालयोरमात्येन
त्र्यम्बकरायमखिना
विरचितम् ।
३. अयोध्याकाण्डः
( द्वितीयो भागः )
श्रीरऋण
श्रीवाणीविलास मुद्रायन्त्रालयः ।
॥ श्रीः ॥
॥ धर्मकृतम् ॥
॥ अयोध्याकाण्डः ॥
॥ द्वितीयो भागः ॥
चतुःपञ्चाशे – ततः काल्यमुत्थाय कृतपूर्वाह्निकौ रामलक्ष्मणौ विविधवृक्षवीरुत्परिवृतान्रुरुवराहादिसमा- कीर्णान्दिशांश्चातिक्रम्य वारिघट्टन धूमस्तोमादिश्रवणदर्श- नादिना इत एवाविरे भरद्वाजाश्रम इत्यवधार्य तदाश्रम- प्रागात् ।
ततस्त्वाश्रममासाद्य मुनेर्देर्शनकाङ्क्षिणौ । सीतयानुगतौ वीरौ दूरादेवावतस्थतुः ॥
D. Pt. V-1

PE
धमांकूते
स प्रविश्य महात्मानमृर्षि शिष्यगणैर्वृतम् ।
संश्रितव्रतमेकानं तपसा लब्धचक्षुषम् ॥
हृताग्निहोत्रं दृष्टेव महाभागं कृताञ्जलिः ।
रामः सौमित्रिणा सार्धं सीतया चाभ्यवादयत् ।
ז
अत्र रामेण अग्निहोत्रसमये दूरेऽवस्थाय हुताग्निहो- तस्य ऋषेर्नमस्कारकरणं कर्मकालेऽभिवादननिषेधेन त- दर्शनसमनन्तरमेव स्वेनाभिवादनस्य कर्तुमशक्यतया, ऋषेश्वाविध्यभ्यनुज्ञापूर्वक होमः कर्तव्य इत्येतादृशोपरो-
परिहाराय चेति द्रष्टव्यम् । तथा चापस्तम्बः- ‘यस्योद्धृतेष्वहुतेष्वग्निष्वतिथिरभ्यागच्छेत्, स्वयमेनम- भ्युदेव प्रब्रूयाद्वात्या तिसृज होण्यामीत्यतिसृष्टेन होत- व्यम् । अनतिसृष्टश्चेज्जुहुयाद्दोषं ब्राह्मणमाह’ इति । कर्मकालेऽभिवादननिषेधः प्रागेवाभिहितः ‘जपं होर्म च कुर्वाणो नाभिवाद्यस्तथा द्विजः’ इति । ततः कृताग्नि- होत्रं भरद्वाजमभिवाद्य सस्रीतः सलक्ष्मणो रामः स्वाग- मनवृत्तान्तं महर्षये भरद्वाजाय कथयामास ।
तस्य तद्वचनं श्रुत्वा राजपुत्रस्य धीमतः । उपानयत धर्मात्मा ग्रामर्घ्यमुदकं ततः ॥
अयोध्याकाण्डः ।
नानाविधानन्नरसान्वन्यमूलफलाश्रयान् ।

३७.७
तेभ्यो ददौ तप्ततपा वासं चैवाप्यकल्पयत् ॥
अनेन ब्राह्मणेनापि राज्ञां मधुपर्कादिना पूजा कर्त- व्येति सूचितम् । तथा चाश्वलायनः – ‘ऋत्विजो वृत्वा मधुपर्कमाहरेत् स्नातकायोपस्थिताय राज्ञे चाचार्याय च श्वशुरपितृव्यमातुलानां च’ इति । छन्दोगानां गृह्येपि ’ आचार्य ऋत्विक स्नातको राजा विवाह्यः प्रिय इति षडर्ष्याः प्रतिवत्सरमईयेत् पुनर्यज्ञविवाहयोश्च’ इति । बोधायनोऽपि ‘अथैते अर्ध्या : ऋत्विक् श्वशुरः पितृव्यो मातुल आचार्यो राजा प्रियो वरोऽतिथिः संवत्सर- पर्यागतेभ्य एतेभ्य एव कुर्याद्विवाहे वराय ऋत्विग्भ्य+ कर्मणि कर्मणि ददाति ।’ मनुरपि - ‘राजत्विक्श्नातक- गुरून्प्रियश्वशुरमातुलान् । अईयेन्मधुपर्केण परिसंव- त्सरान्पुनः ॥ ’ गौतमोऽपि - ‘ऋत्विगाचार्य श्वशुरपितृ- व्यमातुलानामुपस्थाने मधुपर्कः संवत्सरे पुनः पूजिताः यज्ञविवाहयोरर्वाक् राज्ञश्च श्रोत्रियस्याश्रोत्रियस्यासनों- दके’ इति । अस्यायमर्थः - प्रथमं स्वगृहमागतानामृ- त्विगादीनां मधुपर्कः कर्तव्यः संवत्सरानन्तरं तु पुनरा-
[[३७८]]
धर्माकृते
गमनेऽपि कर्तव्य एव यज्ञविवाहयोस्तु संवत्सरात्प्रागपि पुनरागतानां मधुपर्कः श्रोत्रियस्य राज्ञस्तु प्रत्यागमनं मधुपर्कः अश्रोत्रियस्य तु राज्ञः आसनोदकादिकमेवेति । तमः प्रयागकृतावासो भरद्वाजः रामभद्रम्,
अवकाशो विविक्तोऽयं महानद्योः समागमे । पुण्यश्च रमणीयश्च वसत्विह भवान्सुखम् ॥ इत्यवादीत् । प्रयागस्य पुण्यत्वं च वनपर्वणि धौम्यः ‘गङ्गायमुनयोवीर संगमं लोकविश्रुतम् । यत्वायजत भूतात्मा पूर्वमेव पितामहः ॥ प्रयागमिति विख्यातं तस्माद्भरतसत्तम । पुलस्त्यतीर्थयात्रायाम् — ‘ततो गच्छेत राजेन्द्र प्रयागमृषिसंस्थितम् । यव ब्रह्मादयो देवा दिशश्च सदिगीश्वराः ॥ लोकपालाश्च सिद्धाश्च नियताः पितरस्तथा । सरितः सागराश्चैव गन्धर्वाप्स- रसस्तथा ॥ हरिश्व भगवानास्ते प्रजापतिपुरस्कृतः । तत्र श्रीण्यग्निकुण्डानि तेषां मध्ये च जाह्नवी ॥ प्रयागादपि निष्क्रान्ता सर्वतीर्थपुरस्कृता । तपनस्य सुता तत्र त्रिषु लोकेषु विश्रुता ॥ यमुना गङ्गया साधे संगता लोकपावनी !
अयोध्याकाण्डः ।
*
[[1]]
गङ्गायमुनयोर्मध्वं पृथिव्या जघनं स्मृतम् । प्रयागं जब- नस्थानमुपस्थमृषयो विदुः ॥ प्रयागं सप्रतिष्ठानं कम्बला- श्वतरावुभौ । तीर्थे भोगवती चैव वेदिः प्रोक्ता प्रजापतेः । तत्र वेदाश्च यज्ञाश्च मूर्तिमन्तो युधिष्ठिर ॥ प्रजापतिमुपा- सन्त ऋषयश्च महाव्रताः । यजन्ते क्रतुभिर्देवास्तथा सूर्यादये नृप । ततः पुण्यतमं नास्ति त्रिषु लोकेषु भारत । प्रयागं सर्वतीर्थेभ्यः प्रवदन्त्यधिकं विभो ॥ श्रवणान्तस्य तीर्थस्य नाम संकीर्तनादपि । मृत्तिकालम्भनाद्वापि सर्व- पापैः प्रमुच्यते ॥ तत्राभिषेकं यः कुर्यात्संगमे संशित- व्रतः । पुण्यं स महदाप्नोति राजसूयाश्वमेधयोः । एषा यजनभूमिर्हि देवानामपि सत्कृता । दत्तं तत्र स्वल्पमपि महद्भवति भारत । चातुर्विधे च यत्पुण्यं सत्यवादिषु चैव यत् ॥ स्नात एव तदाप्नोति गङ्गायमुन संगमे । दश तीर्थ- सहस्राणि षष्टिकोट्यस्तथापराः । एषां सांनिध्य मत्रैव कीर्तितं कुरुनन्दन । न वेदवचनात्तात न लोकवचना- दपि ॥ मतिरुत्क्रमणीं याते प्रयागे मरणं प्रति । एतदुप- म्भिका श्रुतिरपि ‘सिताखिते सरितौ यत्र संगते तत्र ताम्रो दिवमुत्पतन्ति एवैतन्वां विसृजन्ति धीरास्ते
[[३८०]]

जनासीऽमृतत्वं भजन्ते’ इति । कालिदासोऽपि - ‘समुद्रपत्न्योर्द्वय संनिपाते पूतात्मनां तत्र किलाभिषेकात् ।
वावबोधेन विनापि सद्यस्तनुत्यजां नास्ति शरीर- बन्धः ॥’ प्राचीना अपि - ’ मा गवरश्वमेधिन्मखक- दहमिति मन्मा च भैषीनोऽस्मीति पुण्ये महति च दुरिते को मदः का च भीतिः । माघे मासि प्रयागे मकरगतraौ मज्जतां सज्जनानां यद्विन्दुर्वा धुनीले मदमपि भयमप्यत्र वेदाः प्रमाणम् ॥’ इति । ततः प्रेक्षकागमनशकुया नाविदूरेऽस्माकं वासो युक्ततरः-
एकान्ते पश्य भगवशाश्रमस्थानमुत्तमम् । रमते यत्र वैदेही सुखार्हा जनकात्मजा ॥
इति वदन्तं रामभद्रं भरद्वाजः समभाषत-
दशक्रोश इतस्तात गिरिर्यत्र विवत्स्यति । महर्षिसेवितः : पुण्यः सर्वतः सुखदर्शनः ॥
चित्रकूट इति ख्यातो गन्धमादन संनिभः । यावता चित्रकूटस्य नरः शृङ्गाण्यवेक्षते ॥
अयोध्याकाण्डः ।
कल्याणानि समाधत्ते न पापे कुरुते मनः । ऋषयस्तत्र बहवो विहृत्य शरदां शतम् ॥ तपसा दिवमारूढाः कपालशिरसा सह । प्रविविक्तमहं मन्ये तं वासं भवतः सुखम् ॥
[[३८१]]
इति । चित्रकूट महिमातिशयः भारते वनपर्वणि-
। ’ ततो गिरिवरश्रेष्ठे चित्रकूटे विशांपते । मन्दाकिनीं समासाद्य नदीं पापप्रमोचनीम् ॥ तत्राभिषेकं कुर्वाणः पितृदेवार्चने रतः । अश्वमेधमवाप्नोति गति च परमां ब्रजेत् ॥’ तो महर्षिकृत विविधोपचारैः सकलर्षिकथित- विविधकथाश्रवणेन च संजातविस्मयो रामभद्रः, भरद्वाजाश्रमे रम्ये तां रात्रिमवसत्सुखम् ।
पञ्चपञ्चाशे - ततः प्रभाते कृतपूर्वाह्निकौ रामलक्ष्म- जौ ऋषिमभिवाद्य तदुपदिष्टमार्गेणैव गच्छन्तावासाद्य कलिन्दनन्दिनीम्,
तौ काष्ठसंघाटमथो चक्रतुस्तु महालवम् । शुष्कैर्वशैः समास्तीर्णमुशीरैश्च समावृतम् ॥
आरोप्य सीतां प्रथमं संघाटं परिगृह्य तौ ।
[[૨૦૧]]
धर्माकूते
ततः प्रतेरतुर्यतौ वीरौ दशरथात्मजौ ॥
अनेन बाहुभ्यां नदीतरणं न कर्तव्यम् इति सूचि- तम् । तथा चापस्तम्बः- ‘वर्जयेद्वाहुभ्यां च नदीतरणं नावं च सांशयिकीम् ।’ मनुरपि ‘न बाहुभ्यां नदीं तरेत्’ इति । अथ महता प्लवेन समुत्तीर्य यमुनाम्,
न्यग्रोधं तमुपागम्य वैदेही वाक्यमब्रवीत् । नमस्तेऽस्तु महावृक्ष पारयेन्मे व्रतं पतिः ॥ कौसल्यां चैव पश्यामः सुमित्रां च यशस्विनीम् । इति सीताञ्जलिं कृत्वा पर्यगच्छद्वनस्पतिम् ॥ अनेन मार्गस्थितो महान्वनस्पतिः नमस्कारादिपूर्वकं प्रार्थनीय इति सूचितम् । तथा चापस्तम्बः – ‘अर्थ- प्राथ्वस्य परिक्षवे परिकाशने च अप उपस्पृश्य उत्तरे यथालिङ्गं जपेत् । एवमुत्तरैर्यथालिङ्गं चित्रियं वनस्पति शकद्रीति स्विग्वातं शकुनिमिति । अवानाकुला —- अध्वानं प्रस्थितः प्राध्वः अर्थः प्रयोजनं यत्किचित्प्रयो- जनमुद्दिश्य योऽध्वानं प्रस्थितः तस्य अर्थप्राश्वस्य परिक्षवे परितः सर्वतः स्थितैर्जनैः क्षवे क्षुते परिकासने सर्वतोअयोध्याकाण्डः ।
.३८३.
विद्यमानः निष्ठीवने च अप उपस्पृश्य प्रायश्चित्ततया अनु- हवं परिहवं परिवाद परिक्षवं दुःखनं दुरुदितं तद्विषयो दिशाम्यहम् अनुहूतं परिहूतं शकुनेर्यदशाकुनं मृगस्य मृत- मक्ष्णा या तद्विषयो दिशाम्यहमिति जपेत् तत्र पृष्ठ आह्वानमनुहवः सर्वत आह्वानं परिहवः परिवादोऽभिशं सनं परिक्षण उक्तः दुःस्वप्रः प्रसिद्धः दुरितमल्पायुरादि अनुहूतं परिहूतमिति शकुनेरशोभनवागुच्यते । अशाकुनं अनिमित्तं भूतं मृगस्य सृगालादेः अक्ष्णया सृतं तिर्यग्गम- नमपसव्यादि । एतेषामेकस्मिन्नपि निमित्ते द्वयोरपि म- न्त्रयोर्जपः कार्यः । एवमुत्तरैर्यथालिङ्गं चित्रियं वनस्पति शकद्रीति सिग्वातं शकुनिमिति । एवमित्यनेन अर्थप्राध्व- स्येति च अप उपस्पृश्येति चजपेत् इति चापेक्षते चित्रियः प्रसिद्धो वनस्पतिः तमासाद्य अप उपस्पृश्य असते अग्निरस्त्वात्परशुरस्तु ते निवाते त्वाभिवर्षतु स्वस्ति तेऽस्तु वनस्पते’ इति ऋचानुमन्त्रयते । नमः शकृत्लद इति शकृद्रीतिशकृतो रेखां उपतिष्ठते सिगलीति सिग्वा- तं वाससा कृतो वातः सिग्वातः तमन्यकृतमात्मस्पृष्टं उपतिष्ठते शकुनिं शुभवाचं पक्षिणं उद्गातेव शत्रुने साम
धर्मकृते
गायसीति ऋचा उपतिष्ठते । अंशुभवचने प्रागुक्त अनु- हवमित्यादिमन्त्रद्वयजपः इति । ततो यमुनावन स्थिते- विचित्रफलपुष्प । दिभिर्जानकीमनो विनोदयन्संहृत्य मृगंध- तुष्टयमादाय च तदामिषं अस्ताचल मारूढमंशुमन्तं चाव-
डोक्य,
समं नदीवप्रमुपेत्य संमतं
निवासमाजग्मुरहीनदर्शनाः ।
षट्पञ्चाशे – ततः प्रभाते कृतपूर्वाह्निको रामभद्रः महर्षि समादिष्टेन मार्गेण रमणीयतरं चित्रकूटमासाद्य तत्र स्थितं कुलपति भगवन्तं वाल्मीकिमभिवाद्य,
बहुमूलफलो रम्यः स्वाजीवः प्रतिभाति मे । अयं वासो भवेत्तावद्वयं यत्र रमेमहि । मुनयश्च महाभागा वसन्त्यस्मिन्शिलोचये ॥ इति प्रार्थितवान् । अनेन एतादृश एव देशे वासः कर्तव्य इति सूचितम् । तथा च गौतमः — ’ एधोदकय- वस कुशमाल्योपनिष्क्रमणमार्थजनभूयिष्ठमनलख समृद्धं बा- र्मिकाधिष्ठितं निकेतमावखितुं यतेत’ इति । ततो लक्ष्म- छणेन विधिवन्निर्मितां पर्णशालामवलोक्य,
अयोध्याकाण्डः ।
[[३८५]]
ऐणेयं मांसमाहत्य शालां यक्ष्यामहे वयम् । कर्तव्यं वास्तुशमनं सौमित्रे चिरवासिभिः ॥ कर्तव्यः शास्त्रदृष्टो हि विधिधर्ममनुस्मरन् । ऐणेयं श्रपयस्वैतच्छालां यक्ष्यामहे वयम् ॥ त्वर सौम्य मुहूर्तेऽयं ध्रुवश्च दिवसो ह्ययम् । इति रामभद्रः समादिदेश । ततो लक्ष्मणेन समाहृत- मैणेयं मांसं सुनिष्टतमवलोक्य रामः,
संग्रहेणाकरोत्सर्वान्मन्त्रान्सत्रावसानिकान् । इष्ट्रा देवगणान्सर्वान्विवेश सदनं शुचिः ॥ वैश्वदेवबलिं कृत्वा रौद्रवैष्णवमेव च । वास्तुसंशमनीयानि मङ्गलानि प्रवर्तयन् ॥

जपं च न्यायतः कृत्वा स्नात्वा नद्यां यथाविधि । पापसंशमनं रामश्चकार बलिमुत्तमम् ॥ वेदिस्थल विधानानि चैत्यान्यायतनानि च । आश्रमस्यानुरूपाणि स्थापयामास राघवः ॥ वन्यैर्माल्यैः फलैर्मूलैः पक्कैर्मासैर्यथाविधि । अद्भिर्जपैश्व वेदोकैर्दर्भैश्व ससमिद्रणैः ॥
[[૩૮૬]]
धर्माते
तौ तर्पयित्वा भूतानि राघवौ सह सीतया । तदा विविशतुः शालां सुशुभां शुभलक्षणैः ॥
स रम्यमासाद्य तु चित्रकूटं
नदीं च तां माल्यवतीं सुतीर्थाम् । ननन्द रामो मृगपक्षिजुष्टां
जहौ च दुःखं पुरविप्रवासात् ॥
अत्र विधिवद्द्रहं निर्माय वास्तुशमनभूतबलिप्रदाना- दिपूर्वकं स्थिरे मुहूर्ते प्रवेशः कर्तव्य इति सूचितम् । तथा चाश्वलायन :- ‘अथो वास्तुपरीक्षा अनूषरमविव- दिष्णु भूमौषधिवनस्पत्तिमत् यस्मिन्कुशवीरणं प्रभूतं कष्ट- किचीरिणस्तु सामूलान्परिखायोद्वासयेदपामार्गः शाक- स्तित्वकः परिव्याध इति चैतानि यत्र सर्वत आपो मध्यं समेत्य प्रदक्षिणं शयनीयं परीत्य प्राच्य स्यन्देरन- प्रपतत्वस्तत्सर्वसमृद्धं समवस्त्रवे भक्तशयनं कारयेद्द्दनं द भवति । दक्षिणाप्रवणे सभां समापयेत्सा द्यूताहि भवति युवानस्तस्यां कितवाः कल हिनः प्रमायुका भवन्ति यत्र सर्वत आपः प्रस्कन्देरन्सा स्वस्त्ययनी अद्यूता च अयेतै- वस्तु परीक्षेत जानुमात्रं गत्वा खात्वा तैरेव पांसुभिः
अयोध्याकाण्डः ।
[[1]]
[[૨૮૭]]
परिपूरयेत् अधिके प्रशस्तं समे वा तन्न्यूने गर्हितम् । अस्तमिते अपां पूर्ण परिवासयेत्सोदके प्रशस्तम्, आर्द्रे वातशुष्के गर्हितम् । श्वेतं मधुरास्वादं विकतोन्तरं ब्राह्मणया लोहितं क्षत्रियस्य पीतं वैश्यस्य तत्सहस्रसीतकृत्वा यथा दिक् समचतुरस्रं मापयेत् । आयतचतुरश्रं वा तच्छमी- शाखयोदुम्बरशाखया च शन्तती येन त्रिः प्रदक्षिणं परिव्रजन्प्रोक्षत्यविच्छिन्नया चोदकधारया आपोहिष्ठा मयो भुव इति ऋचा वंशान्तरेषु शरणानि कारयेद्गतैब्व- वकां शीफालमित्यवधापयेन्नास्पदाहुको भवतीति शीफाल मध्यस्थूणाया गर्ने वाधाय प्रागयोदगग्रान्कुशानास्तीर्य व्रीहिमतीरप आसेवयेदच्युताय भौमाय स्वाहेति । अथै- नामुष्वीयमाणमनुमन्त्रयेत इव तिष्ठ निमिता तिला- स्तामिरावती मध्ये पोषस्व तिष्ठन्तीं मा त्वा प्रापं नवा पचः आ त्वा कुमारस्तंरुण आ वत्स्यो जयता सह आ त्वा परिश्रितः कुम्भ आदघ्नः कलशौ ग्यमिति वंशमाधीय- मानम् ऋतेन स्थूणामधिरोह वंशद्राघीय आयुः प्रातरं दधाना ’ इति सुदुर्वासु चतसृषु शिलासु मणिकं प्रतिष्ठा- पयेत्पृथिव्या अधिसंभवेति भरतरो वा वदन्तीति वा
३.८८
धर्माते
मथास्मिन्नप आसेचयेदैतु राजा वरुणो रेवतीभिरस्मि- स्थाने तिष्ठतु मोदमानः । इरां वहतो घृतमुक्षमाणः मित्रेण साकं सह संविशन्तु इति । अथैनच्छमयति व्रीहियवमतीभिरद्भिर्हिरण्यमवधाय शन्तातीयेन त्रिः प्रदक्षिणं परिव्रजन्प्रोक्षति अविच्छिन्नया चोदकधारया आपो हिष्टा मयोभुव इति तृचेन मध्येऽगारस्य स्थाली- पाकं श्रपयित्वा वास्तोष्पते प्रतिजानीह्यस्मानिति चत- सृभिः प्रत्यृचं हुत्वा ब्राह्मणान्भोजयित्वा शिवं वास्त्विति वाचयतोक्तं गृहप्रदनं बीजवतो गृहान् प्रपद्येत’ इति । आपस्तम्बोऽपि ‘दक्षिणात्प्रत्यक् प्रवणमवगारावकाशामु- हृत्य पालाशेन शमीमयेन वो दूरे चैतामेव दिशमुत्तरयो दूइत्येवं एवं त्रिः क्लममुत्तरयाभिमृश्य प्रदक्षिणं स्थूणाग- तन् खनयित्वाभ्यन्तरं पांसूनुदुष्य उत्तराभ्यां दक्षिणां द्वारस्थूणामवदधाति एवमुत्तरां यथाखातमितरा अन्वव- धाय वंशमाधीयमानमुत्तरेण यजुषाभिमन्त्रयते मितमुत्त- रैर्यथालिङ्ग पालाशं शमीमयं वेध्ममादीय उत्तरयाग्निमु हृत्य उत्तरेण यजुषागारं प्रपाथ उत्तरपूर्वदेशेऽगारस्योत्त- रयामि प्रतिष्ठापयन्ति । तस्मादक्षिणमुदधानायतनं
[[३९०]]
है
धर्माकृते
वीरसूः सुभगा विधवस्त्रीकं शिवं पुण्यं वास्तु भवति चतुर्षु मासेषु प्रयोगः संवत्सरे पुनः प्रयोगः इति । खादि- रगृह्येऽपि ‘गौरे भूमिभागे ब्राह्मणः लोहिते क्षत्रियः कृष्णे वैश्यः अवस्रानं जोषयेत्समं लोमशमनिरिणम शुष्कं यत्रोदकं प्रत्यगुदीचीं प्रवर्तते क्षीराः कण्टकिनः कटुकाश्च अनौषधयो न स्युः संमितं ब्रह्मवर्चस्यं बृहत्तृणैर्बल्यं मृदुतृणैः पशव्यं शत्तांभिर्मण्डलद्वीपिभिर्वा यत्र वा स्वयं कृत्वा श्वभ्राः सर्वतोऽभिमुखाः स्युः । प्राग्द्वारं धन्वं यशस्यं चोदग्द्वारं पुत्रियं पशव्यं च दक्षिणद्वारे सर्वे कामाः अनुद्वारं गेहद्वारं अराल्लोकी पायसो हविः कृष्णा च गौः अजो वा श्वेतः पायस एव वा मध्ये वेश्मनो वसन् पायसं चाज्येन मिश्रमष्टगृहीतं जुहुयात् वास्तोष्पत इति । याश्च पराः सप्तालक्ष्मी निर्णोदे तामिव हुत्वा दिशां बलीन्नयेत् । अवान्तरदेशो- मासां चैवं संवत्सरे संवत्सरे इति ॥ सप्तपञ्चाशाष्टप - भाशयोः, ततो गङ्गावतरणभरद्वाजाभिगमनपर्णशाला- निर्माणादिकं सर्व गुहमुखेन विज्ञायापृच्छय च गुहं ग्थवरमास्थाय ततः सायाह्नसमये तृतीयेऽहनि सारथिः,
अयोध्याकाण्डः ।
[[३९१]]
अयोध्यां समनुप्राप्य निरानन्दां ददर्श सः । ततः पुत्रशोकाकुलं राजानमभिवाद्य रामलक्ष्मणसं- देशमेवमकथयत् ।
सूत मद्वचनात्तस्य तातस्य विदितात्मनः । शिरसा वन्दनीयस्य वन्दे पादौ पुनः पुनः ॥ सर्वमन्तःपुरं वाच्यं सूत मद्वचनात्त्वया । आरोग्यमविशेषेण यथार्हमभिवादनम् ॥ माता च मम कौसल्या कुशलं चाभिवादनम् । अप्रमादं च वक्तव्या ब्रूयाश्चैनामिदं वचः ॥ देवि देवस्य पादौ च देववत्परिपालय । कुमारे भरते वृत्तिर्वर्तितव्या च राजवत् ॥ भरतः कुशलं वाच्यो वाच्यो मद्वचनेन च । अतिक्रान्तवया राजा मा स्मैनं त्वमुपारुधः ॥ मातेव मम माता ते द्रष्टव्या पुत्रगर्धिनी । इति । लक्ष्मणोऽपि लघुतरकैकेयी शासनमात्रेण रामविवासनं सर्वधानुचितमेत्र निर्दुष्टं सर्वप्रजाभिरामं रामं प्रव्राज्य,
सर्वलोकं विरुध्येमं कथं राजा भविष्यसि ।
D. Pt. V-2
[[35]]
धर्माकृते
इत्यवादीत् । अनेन सकलजनोद्वेगकरो राजा राज्यं न प्राप्नोत्येव, कथंचित्प्राप्तराज्योऽपि तस्माद्भूश्यतीति सूचि- तम् । तथा चोद्योगपर्वणि - ‘यस्मात्ते यान्ति भूतानि मृगव्याधान्मृगा इव । सागरान्तामपि महीं लब्ध्वा सा परिहीयते ॥ एकोनषष्टितमे - ततस्तद्वचनसमाकर्णनसमा - कुछहृदयो राजा सुमन्त्रमेवमवोचत् -
कैकेय्या विनियुक्तेन पापाभिजनभावया । मया न मन्त्रकुशलैर्वृद्धैः सह समर्थितम् ॥ न सुहृद्भिर्न चामात्यैर्मन्त्रयित्वा न नैगमैः । मयायमर्थः संमोहात्स्त्रीहेतोः सहसा कृतः ॥ भवितव्यतया नूनमिदं वा व्यसनं महत् । कुलखास्य विनाशाय प्राप्तं सुत यदृच्छया ॥
अनेन मन्त्रिपुरोहितसुहृज्जनैरनालोच्य स्वेनैव विचा र्य करणे महाननर्थो भवतीति सूचितम् । तथा च सभा- पर्वणि युधिष्ठिरं प्रति चतुर्दशराजदोषेषु एक चिन्तनमपि परिगणितं नारदेन — ‘नास्तिक्यमनृतं क्रोधं प्रमादं दीर्घसूखताम् । अदर्शनं ज्ञानवतामा लस्यं क्षिप्तचिश्चताम् ॥अयोध्याकाण्डः ।
•રૂ
लाघवादिविचारपूर्वमेव कर्म कर्तव्यं न तु अविचार्येति सूचितम् । तथा च भारते— ‘आदावेव मनुष्येण वर्ति-
। तव्यं यथाक्षमम् । यथा वातीतमर्थं वै पश्चात्तापेन युज्यते । मधुराः केवलं दृष्ट्वा प्रपातं नानुपश्यति ॥ स भ्रष्टो मधुलोभन शोचत्येव यथा भवान् । तत्रैच किं नु मे स्यादिदं कृत्वा किं न मे स्यादकुर्वतः । इति कार्याणि संचिन्त्य कुर्याद्वा पुरुषो न वा’ इति । अभि- युक्ता अपि ’ उचितमनुचितं वा कुर्वता कार्यजातं परि- णतिरवधार्या यत्नतः पण्डिनेन । अतिरसकृतानां कर्म- णामाविपत्तेर्भवति हृदयदाही शल्यतुल्यो विपाकः’ इति । पुरा खलु शब्दवेदीति लब्धशब्दोऽहं मृगयामटन ।
व्यायामकृतसंकल्पः सरयूमन्वगां नदीम् । अथान्धकारे त्वषं जले कुम्भख पूयर्तः । अचक्षुर्विषये घोषं वारणस्येव नर्दतः ॥ अमुञ्चं निशितं बाणमहमाशीविषोपमम् । तस्मिन्निपतिते बाणे वागभूत्तत्र मानुषी ॥ ऋषेर्हि न्यस्तदण्डस्य वने वन्येन जीवतः । को वधेन ममार्थी स्यात्किं वास्यापकृतं मया ॥
[[४०४]]
धर्माकूते
इति । ततो मदीयशरसंताडितो मुनिकुमारकः ससं- भ्रमं समीपमागतं मामवलोक्य पिपासितयोरन्धयोर्गुबर- म्भोग्रहणाय समागतं मामनपराधिनमकारणं नता त्वया द्वावन्धी निहतौ वृद्धौ माता जनयिता च मे । पितुस्त्वमेव मे गत्वा शीघ्रमाचक्ष्व राघव ॥ न त्वामनुदहे क्रुद्धो वनं वह्निरिवैधितः । विशल्यं कुरु मां राजन्मा भूत्ते मनसो व्यथा ॥ ब्रह्महत्याकृतं पापं हृदयादपनीयताम् । शूद्रायामस्मि वैश्येन जातो जनपदाधिप ।
इत्यवादीत् । तद्वचनाच्च समुद्धृतशल्यो मुनिकुमारकः दिष्टां गतिमगात् ॥ चतुष्षष्टितमे – ततो मुनिकुमारकोप- दिष्टमार्गेण तमेव जलपूर्णकुम्भमादायाश्रमं प्रविशतः मम पदशब्दश्रवणमात्रेण
किं चिरायसि मे पुत्र पानीयं क्षिप्रमानय । इति । तावन्धौ तत्पितरौ इत्यवगत्य, क्षत्रियोऽहं दशरथो नाहं पुत्त्रो महात्मनः । भगवंस्वापहस्तोऽहं सरयूतीरमागतः ॥
अयोध्याकाण्डः ।

[[४०५]]
r
जिघांसुः श्वापदं किंचिनिपानेनागतं गजम्। तत्र च जले पूर्यतः कुम्भस्य शब्देन गजभ्रमाच्छब्द-
वेदिना,
अज्ञानाद्भवतः पुत्रः सहसाभिहतो मया । शेषमेवं गते यत्स्यात्तत्प्रसीदतु मे मुनिः ॥ इत्यवोचम् । अनेन महत्स्वपराधं कृतवता तत्प्रसादनं कर्तव्यमिति । तथा च पैठीनसिः ‘त्वंकाराहंकारापगुरण- पातन लोहितप्रवर्तनोत्तरजयेषु प्रणिपात करात्रोपवासः कृ- च्छ्रातिकृच्छ्रं चरित्वा प्रसादयेद्यथालिङ्गम्’ इति । अथा- शनिपातसंनिभं तद्वचनमाकर्ण्य ऋषिरेवमवोचत् - यद्येतदशुभं कर्म न स्म मे कथयेः स्वयम् । फलेन्मूर्धा तव राजन्सद्यः शतसहस्रधा ॥
अनेन महत्स्वपराविना अप्रसादने महाननर्थो भव- तीति सूचितम् । अत एव तपस्यतः शमीकस्य कण्ठे सृतं सर्प परिक्षिप्य तमप्रसाद्य गतस्य परिक्षितः शृङ्गि- शापादनर्थः संपन्नः इति ।
क्षत्रियेण वधो राजन्वानप्रस्थे विशेषतः ।
[[४०६]]
धर्माकूते
ज्ञातपूर्वः कृतः स्थानाच्च्यावयेदपि वज्रिणम् ॥ सप्तधा तु फलेन्मूर्धा मुनौ तपसि तिष्ठति । ज्ञानाद्विसृजतः शस्त्रं तादृशे ब्रह्मवादिनि ॥
अनेन ज्ञानाज्ञानकृतयोः पापयोः वैलक्षण्यमस्तीति सूचितम् । तथा च मनुः -’ इयं विशुद्धिरुदिता प्रमादा- त्कामतो द्विजम् । कामतो ब्राह्मणवधे निष्कृतिनैव विद्यते । ततः स मामवलम्ब्य पुत्र निकटमागतः सभार्यो मुनिर्बहुविधं सकरुणं विलप्य,
अपापस्त्वं यथा पुत्र निहतः पापकर्मणा । तेन सत्येन गच्छाशु ये लोकाः शस्त्रयोधिनाम् ॥ यान्ति शूरा गतिं यां च संग्रामेष्वनिवर्तिनः । हतास्त्वभिमुखाः पुत्र गतिं तां परमां व्रज ॥ अनेन युद्धेष्वपरावर्तिनां शस्त्रतानामुत्तम लोकप्राप्ति- शखहतानामुत्तमलोकप्राप्ति- भवतीति सूचितम् । तथा च यजुरारण्यके - ‘ये युद्धय- न्ते प्रधनेषु शूरासो ये तमुत्यजः ये वा सहस्रदक्षिणाः तांश्च देवापि गच्छतात् ।’ मनुः - ‘आहवेषु यदन्योन्यं जिघांसन्तो महीक्षितः । युद्धयमानाः परं शक्त्या स्वर्ग
अयोध्याकाण्डः ।
[[४०७]]
यान्त्यपराङ्मुखाः ॥ द्वाविमौ पुरुषौ लोके सूर्यमण्डल- भेदिनौ । परिव्राड् योगयुक्तश्च रणे चाभिमुखो हतः ॥ यत्र यत्र हतः शूरः शत्रुभिः परिवेष्टितः । अक्ष- य्याल्लभते लोकान्यदि क्लीबं न भाषते । यस्तु भभेषु सैन्येषु विद्रवत्तु समन्ततः । परित्राता यदा गच्छेत्स च ऋतुफलं लभेत् । यस्य च्छेदात्तं गात्रं शर- मुद्रस्यष्टिभिः । देवकन्यास्तु तं वीरं हरन्ति रमयन्ति च । देवाङ्गनाः सहस्राणि शूरमायोधने हृतम् । त्वरमाणाः प्रधावन्ति मम भर्ता ममैव च । ये यज्ञस्तपसा च विप्राः स्वर्गेषु शीघ्रेण यथैव यान्ति । क्षणेन यान्त्येव हि तत्र वीराः प्राणान्सुयुद्धेन परित्यजन्तः ॥’ आनुशास- निके- ‘ये रणाग्रे महीपालाः शूराः समिति शोभनाः । बध्यन्तेऽभिमुखाः शक्र ब्रह्मलोकं व्रजन्ति ते ॥ ’
या गतिः सर्वसाधूनां स्वाध्यायात्तपसा च या । भूमिदस्याहिताग्नेश्चाप्येकपत्नीव्रतस्य च ॥
गोसहस्त्रप्रदातृणां या या गुरुभृतामपि । देहन्यासकृतां या च तां गतिं गच्छ पुत्रक ।
D. Pt. V-3
[[४०८]]
धर्माकूते
अनेन सर्वसाधुभूमिदानकर्त्रादीनामपि उत्तमश्लोकप्रा- प्तिर्भवतीति सूचितम् । तथा च विष्णुपुराणे - ‘सर्व- लोकहितं कुर्यान्नाहितं कस्यचिद्दिजः । मैत्री समस्तसत्त्वेषु ब्राह्मणस्योत्तमं धनम् ॥ प्राणि रत्ने च पारक्ये समबुद्धि- र्भवेद्विजः । तद्वर्णबन्धमुक्तोऽसौ लोकान्प्राप्नोत्यनुत्तमान् । ’ इति । स्वाध्यायवतामुत्तमलोकविषये श्रुतिः ‘यं यं ऋतु- मधीते तेन तेनास्येष्टं भवत्यन्नेर्बायुरादित्यस्य सायुज्यं गच्छति’ इति । स्मृतिरपि - ‘यः स्वाध्यायमधीतेऽब्दं विधिना नियतेन्द्रियः । तस्य नित्यं क्षरत्येष पयो दधि घृतं मधु’ इति । तपस्विनामुत्तमलोकप्राप्तिविषये श्रुतिः तपसा देवा देवतामय आपन् तपसर्षयः स्वरन्वविन्दन् ’ इति । मनुरपि - ‘कीटाश्वाहिपतङ्गाश्च पशवश्च वयां- सि च । स्थावराणि च भूतानि दिवं यान्ति तपोबलात् ’ इति । भूमिदातुरुत्तम लोकावाप्तौ संवर्त :- ‘भूमिं सस्य- वतीं श्रेष्ठां ब्राह्मणे वेदपारगे । गां दत्त्वापि प्रसूतां च स्वर्गलोके महीयते ॥ अग्नेरपत्यं प्रथमं सुवर्ण भूर्वैस्थावि- सुताश्च गावः । लोकास्त्रयस्तेन भवन्ति दत्ता यः काञ्चनं गां च महीं च दद्यात्’ इति । आहिताग्नेरुत्तमलोकावाप्तौ
<
अयोध्याकाण्डः ।
[[१०९]]
आनुशासनिके भीष्मः ’ शतवर्षजीवी यश्च भृगो मनुष्यो बेदाध्यायी यश्च यव्वाप्रमन्तः एवं ते सर्वे शक्रलोकं व्रज- न्ति परं गन्ता धृतराष्ट्रो न तत्र’ इति । एकपत्नीत्रतं द्विवि- धम् एकः पतिर्यखाः सा एकपत्नी तस्याः व्रतमेकपनी- व्रतम्। एका च सा पत्नी च एकपत्नी सैव व्रतं येषां एकपत्नीव्रताः इति । तथा च स्त्रियाः परपुरुषवि मुखत्वं पुरुषस्य परदारविमुखत्वं च । तदुभयत्रापि मनुः— ‘आसीता मरणात्क्षान्ता नियता ब्रह्मचारिणी । यो धर्म एकपत्नीनां कान्ती तमनुत्तमम् । अनेकानि सह- स्राणि कौमारब्रह्मचारिणाम् । दिवं गतानि विप्राणाम- कृत्वा कुलसंततिम् ॥ मृते भर्तरि साध्वी स्त्री ब्रह्मचर्ये व्यवस्थिता । स्वर्गे गच्छत्यपुत्रापि यया ते ब्रह्मचारिणः । संयोगं पतितैगत्वा परस्यैव च योषितः । अपहृत्य तु विप्र- स्वं भवन्ति ब्रह्मराक्षसाः’ इति । गोसहस्रप्रदातृणामुत्तम- लोकप्राप्ति प्रति आनुशासनिके भीष्मः - ‘सर्वेषामिह दानानां यत्फलं परिकीर्तितम् । तदेवाप्नोति विप्रेभ्यो गोसहस्रप्रदानतः ॥ अनेन विधिना यस्तु गोसहस्रप्रदो नरः । सर्वपापविनिर्मुक्तः सिद्धचारणसेवितः ॥ विमाने
[[४१०]]
धर्माकृते
नार्कवर्णेन किंकिणीजालमालिना । सर्वेषां लोकपालानां लोके संपूज्यते नरः । प्रतिमन्वन्तरं तिष्ठेत्पुत्रपौवसुमा- निवः ॥ सप्तलोकानतिक्रम्य ततः शिवपुरं व्रजेत् । शत- मष्टोत्तरं तद्वत्पितॄणां तारयेत्कुलम् । तद्रोमसंख्यावर्षाणि स्वर्गे लोके महीयते’ इति । गुरुभृतामुत्तमलोकप्राप्ति- विषये देहन्यासं कृतवत उत्तमलोकप्राप्तावानुशासनिके– ‘आत्मानमुपजीवन्यो दीक्षां द्वादशवार्षिकीम् । हुत्वाग्नौ देहमुत्सृज्य वह्निलोके महीयते’ इति । तता मुनिकुमा- रकः शक्रेण सह पितरावाश्वास्थ,

स्थानमस्मि महत्प्राप्तो भवतोः परिचारणात् । भवन्तावपि च क्षिप्रं मम मूलमुपैष्यतः ॥
इत्यभिधाय स्वकृतकर्मभिर्दिव्यविमानारूढो दिवमा- करोह । ततः पुत्रवियोगजनितखेदमसहमानस्तपस्वी
पुत्रव्यसनजं दुःखं यदेतन्मम सांप्रतम् । एवं त्वं पुत्रशोकेन राजन्नन्तं करिष्यसि ॥ इति शप्तवान् । यद्यपि ‘शूद्रायामस्मि वैश्येन जात : ’ इति मुनिकुमारकवचनेन मुनिकुमारकस्य करणजात्यव -
अयोध्याकाण्डः ।
[[४११]]
गमात् बुद्धिपूर्वकं तद्वधेऽपि न ब्रह्महत्या प्रसक्तिरस्ति । तथापि - ‘विप्रे तु सकलं देयं पादोनं क्षत्रिये स्मृतम् । वैश्ये पाद एकस्तु शूद्रजातिषु शस्यते ’ इति बृहद्विष्णु- वचनपर्यालोचनया कामतः क्षत्रियकर्तृके शूद्रजातिवधे ब्रह्महत्या चतुर्थांशप्रायश्चित्तविधानात् मुनिकुमारकस्य शूद्रापेक्षया करणत्वेन अधिकत्वात् पितृमातृशुश्रूषादि- स्वकर्मनिरतत्वेन गुणवस्वाच्च तादृशस्य कामतो वधे प्रा- यश्चित्ताधिक्येन ब्रह्महत्येति व्यपदेशः युक्त एव । ततः मत्कृतां चितां समधिरुह्य स्वर्ग गते सभायें तस्मिंस्तप- स्विाने कुमारकवधं तन्निमित्तं शापं च मुहुर्मुहुर्मनास विचिन्तयन् स्वनगर मागतोऽस्मि ।
तस्यायं कर्मणो देवि विपाकः समुपस्थितः । अपथ्यैः सह संभुक्ते व्याधिरन्नरसं यथा ।

अनेन समशनाध्यशनविषमाशने सति व्याधिर्भवति । अतस्तत्परित्यजेदिति । तथा च वाग्भटे - ‘मिश्रं पथ्य- मपथ्यं च भुक्तं समशनं मतम् । विद्यादध्यशनं भूयो भुक्तस्योपरिभोजनम् ॥ अकाले बहु पाल्यं वा भुक्तं तु
धर्माकूते
विषमाशनम् । त्रीण्यप्येतानि मृत्युं वा घोरान्ध्याधीन्स-
जन्ति च ॥
तदहं पुत्रशोकेन संत्यक्ष्याम्यद्य जीवितम् । चक्षुर्भ्यां त्वां न पश्यामि कौसल्ये साधु मा स्पृश ॥
न तन्मे सदृशं देवि यन्मया राघवे कृतम् । सदृशं तत्तु तस्यैष यदनेन कृतं मयि ॥
कश्च प्रव्राज्यमानो वा नासूयेत्पितरं सुतः । हा राघव महाबाहो हा ममायासनाशन ।
हा पितृप्रिय मे नाथ हा ममासि गतः सुत ।
इति रामस्य मातुश्च सुमित्रायाश्च संनिधौ राजा दशरथः शोचन् जीवितान्तमुपेयिवान् ॥ पञ्चषष्टिषट्ष- टयोः-
  • ततः प्रभातसमये यथापूर्वे स्तुवत्सु वन्दिषु पठत्सु पाठकेषु समानीतेषु खानीयमङ्गलालम्भनादिषु. प्रबोधनचतुराः राजमहिष्यः गतसत्त्वं निश्चेष्टं राजानं विचिन्त्य वेपमानहृदयाः
    तदा प्रचुक्रुशुर्दीनाः सवरं ता वराङ्गनाः ।अयोध्याकाण्डः ।
    करेणव इवारण्ये स्थानप्रच्युतयूथपाः ॥ तासामाक्रन्दशब्देन सहसोद्गतचेतने । कौसल्या च सुमित्रा च त्यक्तनिद्रे बभूवतुः ॥
    [[४१३]]
    ततः कोसलेन्द्रतनया गतचेतनं राजानमवलोक्य दुः- सहशोकानला कुलितहृदया सुमित्रादिभिर्नृपवधूभिः सह कृत बहुविधप्रलापा सकरुणमिदमुवाच –
    विहाय मां गतो रामो भर्ता च स्वर्गतो मम । विपथे सार्थहीनेव नाहं जीवितुमुत्सहे ॥
    भर्तारं तं परित्यज्य का स्त्री दैवतमात्मनः । इच्छेज्जीवितुमन्यत्र कैकेय्यास्त्यक्तधर्मणः ॥
    साहमद्यैव दिष्टान्तं गमिष्यामि पतिव्रता । इदं शरीरमालिङ्गय प्रवेश्यामि हुताशनम् ॥
    इति । नन्वत्र पतिव्रतानां मृतं पतिमालिङ्गय अनुग- मनं धर्म्यमित्यवगम्यते । तदसंगतम् । आत्महत्या रूपा- नुमरणस्य निषिद्धत्वात् । तथा च श्रुतिः - ’ तस्मादुह न पुरायुषः प्रेयात्’ इति । ईशावास्येऽपि - ‘असूर्या नाम
    1 ।

    [[४१४]]
    धर्माकूते
    ते लोकाः अन्धेन तमसा वृताः । वांस्ते प्रेत्याभिगच्छन्ति ये के चात्महनो जनाः’ इति । तथा आङ्गिरसस्मृति- रपि - ’ या खी ब्राह्मणजाती या मृतं पतिमनुव्रजेत् । सा स्वर्गमात्मघातेन नात्मानं न पतिं नयेत्’ इति । व्याघ्रपादश्च – ’ न म्रियेत समं भर्त्रा ब्राह्मणी शोक- कर्शिता । न ब्रह्मगतिमाप्नोति मरणादात्मघातिनी’ इति । तस्मादात्मघातरूपानुमरणं कथं धर्मो भवेत्, प्रत्युत अवस्थानेनैव स्वर्गादिफलावगमेनावस्थानस्यैव युक्तत्वात्, तथा च पराशरः- ‘मृते भर्तरि या नारी ब्रह्मचर्यव्रते स्थिता । सा मृता लभते स्वर्गे यथा ते ब्रह्मचारिणः ॥ इति । मनुरपि - आसीता मरणात्क्षान्ता नियता ब्रह्म- चारिणी । यो धर्म एकपत्नीनां काङ्क्षन्ती तमनुत्तमम् ॥ अमेकानि सहस्राणि कौमारब्रह्मचारिणाम । दिवं गतानि विप्राणामकृत्वा कुलसंगतिम् ॥ मृते भर्तरि साध्वी स्त्री ब्रह्मचर्यव्रते स्थिता । स्वर्गे गच्छत्यपुत्रापि यथा ते ब्रह्म- चारिणः ॥’ इति । एवं च बहुफलमवस्थानं परित्यज्य प्रसिद्धमनुमरणं कथं करिष्यामीत्युक्तवती कौसल्या इति चेत् न, नियतया अवस्थाने फलावगमात् । अनुगमनेऽपि
    अयोध्याकाण्डः ।
    [[४१५]]
    वैधव्यावस्थाननिन्दापूर्वकं बहुफलप्रतिपादनात् । तथा च संग्रह - ’ जीवहीनो यथा देहः क्षणादशुचितां व्रजेत् भर्तृहीना तथा योषित्सुनाताप्य शुचिः सदा ॥ अमङ्ग- लेभ्यः सर्वेभ्यो विधवा ह्यत्यमङ्गलम् । विधवादर्शनात्सि द्धिः कापि तात न जायते ॥ विधाय मातरं चैकां सर्वम- ङ्गलवर्जिताम् । तदाशिषमपि प्राज्ञ त्यजेदाशीविषोपमम् ॥ कन्याविवाहसमये वाचयेयुरिति द्विजाः । भर्तुः सहचरी भूयाज्जीवतोऽजीवतोऽपि वा ॥ भर्त्रा सहानुयातव्यो देहा- बस्था यया सदा । चन्द्रमा ज्योत्स्नया तद्वद्विद्युत्वान्विद्युत’ यथा । अनुव्रजन्ति भर्तारं गृहात्पितृवनं मुदा ॥ पदे पदे- ऽश्वमेवस्य फलं प्राप्नोत्यसंशयम् । यमदूताः पलायन्ते सती- मालोक्य दूरतः ॥ अपि दुष्कृतकर्माणं समुत्सृज्य च तत्प- तिम्। न तथा बिभिमो वह्ने न तथा विद्युतो यथा ॥ आपत- न्तीं समालोक्य वयं दत्ताः पतिव्रताम् । तपनस्तपतेऽत्य- तं दहनोऽपि च दह्यते । कम्पन्ते सर्वतेजांसि दृष्ट्वा पाति- व्रतं महः ॥ यावत्स्वलोम संख्यास्ति तावत्कोट्ययुतानि च । भर्त्रा स्वर्गसुखं भुङ्क्ते रममाणा पतिव्रता’ इति । शङ्खोऽपि - ‘मृते भर्तरि या नारी समारोहेद्धुताशनम् ।
  • ४१६
    धर्माकूते
    सारुन्धतीसमा चारात्स्वर्गे लोके महीयते’ इति । पराश- रोऽपि - ‘तिस्रः कोट्यर्धकोटीश्च यानि रोमाणि मा- नुषे । तावन्त्यन्दसहस्राणि स्वर्गे लोके महीयते’ इति । व्यासोऽपि - ‘यदि प्रविष्टो नरकं पतिः पापैः सुदारुणैः । संप्राप्तो यातनास्थानं गृहीतो यमकिंकरैः ॥ तिष्ठतो ह्य- वशो दीनो वेष्टमाणः स्वकर्मभिः । व्यालग्राही यथा व्यालं बलाद्गृह्णात्यशङ्कितः ॥ तद्वद्भर्तारमादाय दिवं याति च सा बलात् । या भर्तृपरमा नित्यं स्तूयमानाप्सरोगणैः ॥ क्रीडते पतिना सा यावदिन्द्राचतुर्दश । ब्रह्मन्नो वा - कृतघ्नो वा मित्रघ्नो वा भवेत्पतिः ॥ पुनात्यविधवा नारी
    तमादाय मृता तु या इति । एवं च उदाहृतशास्त्रबला- द्भत्र सह अनुगमनं धर्म एव । तथैवाचारोऽपि पतित्र- तानाम् ; यथा विष्णुपुराणे - ‘रेवती चैव रामस्य देह- मालिष्य सत्तम । विवेश ज्वलितं वद्धिं तत्संगाह्लादशीत- लम् ॥’ इति । तत्रैव स्थलान्तरे जनकतनयमालिङ्गय काशीराजतनयानुमरणं कृतवतीति प्रतिपादितम् । ’ तत- श्चितिस्थं भूयोऽपि भर्तारं सा शुभेक्षणा । अन्वारुरोह विधिवद्यथापूर्व मुद्दा पतिम् ॥ ततोऽवाप तया सार्धं
    !
    अयोध्याकाण्डः ।
    [[४१७]]
    राजपुत्र्या स पार्थिवः । ऐन्द्रानतीत्य वै लोकाल्लोका- कामदुहोऽक्षयान् ॥ स्वर्गक्षयत्वमतुलं दाम्पत्यमतिदुर्ल- भम् । प्राप्तं पुण्यफलप्राप्यं संशुद्धिं तां द्विजोत्तम’ इति । मौसल पर्वण्यपि - ‘श्वोभूते तु ततः शौरिर्वसुदेवः प्रता- पवान् । त्यक्त्वात्मानं महातेजा जगाम गतिमुत्तमाम् । तं देवकी च भद्रा च रोहिणी मदिरास्तथा ॥ अन्वारो- हन्त च तदा भर्तारं योषितां वराः’ इति । यदुक्तं प्राक श्रुतिविरोध इति तन्न, आत्महत्या निषेधपरायाः श्रुतेर्विहि- तानुमरणव्यतिरिक्तात्म हिंसा विषयत्वात् ;
    [[1]]
    अन्यथा-
    ‘सितासिते सरितो यत्र संगते’ इत्यादिश्रुतिविहिततनु त्यागोऽपि । तस्माद्ये युद्धयन्ते प्रधनेषु शूरासः’ इति श्रुतिविहितशरीरपरित्यागोऽपि युद्धे न स्यात्, तथा दैक्ष- पश्वालम्भनमपि न स्यात् । तस्या हिंसारूपत्वात् । यदि च निषेधशास्त्रस्य विहितस्य व्यतिरिक्तपरत्वात् प्रयागम- रणादिकमुपपन्नमिति तदा प्रकृतेऽपि तुल्यमिति । यदपि चोक्तम् या स्त्री ब्राह्मणजातीयेत्यादिस्मृतिविरोध इति तन्न, तस्याः स्मृतेः ब्राह्मणी पृथक् चितिमारुह्य न गच्छेदित्येतत्परत्वात् । तथा च ब्रह्मकैवर्ते — ‘पृथक् चिति
    धर्माकूते
    समारुह्य न विप्रा गन्तुमर्हति’ इति । तस्मादनुगमनाव- स्थानयोरुभयोरपि शास्त्रीयत्वात् विकल्प एव; अत एवं उभयविधा चारोऽपि पतिव्रतानाम; यथा आदिपर्वणि- ‘अहं ज्येष्ठा धर्मपत्नी ज्येष्ठवर्मफलं मम । अवश्यंभाविनो भावान्मा मां माद्री निवर्तय ॥ अन्वेष्यामीह भवरमहं प्रेतवशं गतम् ।’ इति वदन्तीं कुन्तीम्- ‘दारकेष्व प्रमत्ता च भवेथाश्च हिता मम । अतोन्यं न प्रपश्यामि संदेष्टव्यं हि किंचन । इत्युक्त्वा तं चिताग्निस्थं धर्मपत्नी नरर्षभ । मद्रराजसुता तूर्णमन्वारोहद्यशस्विनी’ इति कुन्त्याः अत्र- स्थानं माद्याः सहगमनं च प्रतिपादितम् । तथा मौलले- Sपि - ‘इन्द्रप्रस्थे ददौ राज्यं बजाय परवीरहा । वत्रे- णाकरदारास्तु वार्यमाणाः प्रवत्रजुः ॥ रुक्मिणी त्वथ गान्धारी शैल्या हैमवतीत्यपि । देवी जाम्बवती चंव विविशुर्जातवेदसम् ॥ सत्यभामा तथैवान्या देव्यः कृष्णस्य संमताः । वनं प्रविविशू राजंस्तापस्ये घृतनिश्चयाः’ इति । एवमितिहासपुराणेषु पतिव्रताभिरनुगमनं कृतम् अत्र- स्थितं च इति प्रतिपादनेन उभयविधशास्त्रानुरोधेन च, उभयमपि धर्म्यं तुल्यकल्पं च तुल्यफलत्वात्, तुल्यफलत्वं
    [[1]]
    अयोध्याकाण्डः ।
    [[४१९]]
    [[८]]
    ’ -
    च ब्रह्मचर्येणावस्थितायाः कुन्त्या अनुगमनं कृतवत्या मा- द्याश्च पतिलालोक्यप्रतिपादकेन स्वर्गारोहणिके त्रीभ्यां सहितः पाण्डुर्महेन्द्रसदनं ययौ ।’ इति वचनेना- वगम्यते । तस्मात्कौसल्येोक्तमनुगमनं नानुपपन्नम् । अत एव अवस्थानस्यापि शास्त्रीयत्वात्कौसल्या अनुगमन- मकृत्वा स्थितेत्येतदप्युपपन्नमेव । ततो गतचेतनं राजान- मालिङ्गय परिदेवयमानां कौसल्यां विविधसान्त्वनशतैः कथं चिदपनीय,
    तैलद्रोण्यामथामात्याः संवेश्य जगतीपतिम् । राज्ञः सर्वाण्यथादिष्टाश्चकुः कर्माण्यनन्तरम् ॥ न तु संकलनं राज्ञे विना पुत्रेण मन्त्रिणः । सर्वशाः कर्तुमीषुस्ते ततो रक्ष्यन्ति भूमिपम् ॥ इति ।
    अनेन संस्कारविलम्बे मृतशरीरं तैलद्रोण्यादिषु नि- क्षिप्य रक्षणीयमिति सूचितम् । तथा चापस्तम्बः — ‘आहिताग्निं जने प्रमीतं तैलद्रोण्यामवधाय शकटेन हरन्ति ’ इति । ‘न तु संकलनं राज्ञो विना पुत्रेण मन्त्रिणः ’ इत्यनेन सपुत्रस्य पुत्रेण विना अन्येन संकलनं न कारयि-
    [[४२०]]
    धर्माकूते
    तव्यमिति सूचितम् । तथा च स्मृत्यन्तरे - ’ पुत्रेषु विद्य- मानेषु नान्यो वै कारयेत्स्वधाम् । पुत्रा विहिंसितास्ते न यस्त्वेवं कुरुते नरः’ इति ॥ सप्तषष्टितमे, तत उदयशिखर- मारूढे भगवति सवितरि समेत्य मन्त्रिपुरोहिताः कुलपु- रोहितं वसिष्ठमेवमवोचन् -
    इक्ष्वाकूणामिहाद्यैव कश्चिद्राजा विधीयताम् । अराजकं हि नो राष्ट्रं न विनाशमवाप्नुयात् ॥ नाराजके जनपदे विद्युन्माली महास्वनः । अभिवर्षति पर्जन्यो महीं दिव्येन वारिणा ॥ अराजके जनपदे बीजमुष्टिः प्रकीर्यते । नाराजके पितुः पुत्रो भार्या वा वर्तते वशे ॥ अराजके धनं नास्ति नास्ति भार्याप्यराजके । इदमत्याहितं चान्यत्कुतः सौख्यमराजके ॥
    नाराजके जनपदे कारयन्ति सभां नराः । उद्यानानि च रम्याणि दृष्टाः पुण्यगृहाणि च ॥ नाराजके जनपदे यज्ञशीला द्विजातयः । सत्नाण्यन्वा ते दान्ता ब्राह्मणाः संशितव्रताः ॥
    अयोध्याकाण्डः ।
    नाराजके जनपदे महायज्ञेषु यज्वनः । ब्राह्मणा वसुसंपूर्णा विसृजन्त्याप्तदक्षिणाः ॥ नाराजके जनपदे सिद्धार्था व्यवहारिणः । कथाभिरनुरज्यन्ते कथाशीलाः कथाः प्रियैः ॥ नाराजके जनपदे वाहनैः शीघ्रगामिभिः । नरा निर्यान्त्यरण्यानि नारीभिः सह कामिनः । नाराजके जनपदे धनवन्तः सुरक्षिताः । शेरते विवृतद्वाराः कृषिगोरक्षजीविनः ॥ नाराजके जनपदे बद्धघण्टाविषाणिनः । अदन्ति राजमार्गेषु कुञ्जराः षष्टिहायनाः ॥ नाराजके जनपदे शरान्सततमस्यताम् । श्रूयते तिलनिर्घोष इष्वस्त्राणामुपासने ॥ नाराजके जनपदे वणिजो दूरगामिनः । गच्छन्ति क्षेममध्वानं बहुपण्यसमाचिताः ॥ नाराजके जनपदे चरत्येकचरो वशी । भावयन्नात्मनात्मानं यत्र सायंग्रहो मुनिः ॥ नाराजके जनपदे योगक्षेमः प्रवर्तते ।
    [[૪૩]]
    धर्माकूते
    न चाप्यराजके सेना शत्रून्विषहते युधि ॥
    नाराजके जनपदे हृष्टैः परमवाजिभिः । नराः संयान्ति सहसा रथैश्च परिमण्डिताः ॥ नाराजके जनपदे नराः शास्त्रविशारदाः । संवदन्तोऽवतिष्ठन्ते वनेषूपवनेषु च ॥ नाराजके जनपदे चन्दनागरुरूषिताः । राजपुत्रा विराजन्ते वसन्त इव शाखिनः ॥
    यथा ह्यनुदका नद्यो यथा वाप्यतृणं वनम् । अगोपाला यथा गावस्तथा राष्ट्रमराजकम् ॥ ध्वजो रथस्य प्रज्ञानं धूमो ज्ञानं विभावसोः । तेषां यो नो ध्वजो राजा स देवत्वमितो गतः ॥ नाराजके जनपदे स्वकं भवति कस्यचित् । मत्स्या इव नरा नित्यं भक्षयन्ति परस्परम् ॥ ये हि संच्छिन्नमर्यादा नास्तिकाभ्छिन्नसंशयाः । तेऽपि भावाय कल्पन्ते राजदण्डनिपीडिताः ॥ यथा दृष्टिः शरीरस्य नित्यमेव प्रवर्तते । तथा नरेन्द्रो राष्ट्रस्य प्रभवः सत्यधर्मयोः ॥अयोध्याकाण्डः ।
    [[४२३]]
    राजा सत्यं च धर्मश्च राजा कुलवतां कुलम् । राजा माता पिता चैव राजा हितकरो नृणाम् ॥ यमो वैश्रवणः शक्रो वरुणश्च महाबलः । विशेष्यन्ते नरेन्द्रेण वृतेन महता ततः ॥
    अहो तम इवेदं स्यान्न प्रज्ञायेत किंचन । राजा चेन भवेल्लोके विभजन्साध्वसाधु वा ॥ जीवत्यपि महाराजे तवैव वचनं वयम् । नातिक्रमामहे सर्वे वेलां प्राप्येव सागरः ॥
    स नः समीक्ष्य द्विजवर्यवृत्तं
    नृपं विना राज्यमरण्यभूतम् । कुमारमिक्ष्वाकुसुतं वदान्यं
    त्वमेव राजानमिहाभिषिञ्च ॥
    अनेन लौकिक विहारव्यवस्थासिद्धयर्थं प्रजा- भिः राजा अवश्यकर्तव्य इत्युक्तम् । तथा च मनुः– ‘अराजके जनपदे सर्वतो विद्रुते भयात् । रक्षार्थमस्य सर्वस्य राजानमसृजत्प्रभुः ॥’ इति । अत एव राजधमें- णाराजके देशे वासप्रतिषेधपूर्वकं लौकिकवैदिकव्यव- हारयोग्त्वयव्यतिरेकाभ्यां राजाधीनत्वं प्रतिपाद्य व्यव-
    D. Pt. V-4
    [[३११]]
    धर्माकूते
    हारसिद्धपर्थ तपश्चर्यादिना ब्रह्माणं प्रसाद्य राजानं मनुं संपाद्य तस्मै भागं परिकल्पितवन्तः इत्युक्तं युधिष्ठिरं प्रति भीष्मेण - ‘राष्ट्रस्य यत्कृत्यतमं राज्ञ एवाभिषेचनम् । अनिद्रमबलं राष्ट्रं दस्यवोऽभिभवन्त्युत । अराजकेषु रा- ष्ट्रेषु धर्मो न व्यवतिष्ठते । परस्परं च खादन्ते सर्वथाधिक- राजकम् । इन्द्रमेव प्रणमते यद्राजानमिति श्रुतिः ॥ यथैवेन्द्रस्तथा राजा संपूज्यो भूतिमिच्छता । नाराजकेषु राष्ट्रेषु वस्तव्यमिति वैदिकम् ॥ नाराजकेषु राष्ट्रेषु हव्यं वहति पावकः । अथ चेदभिवर्तेत राज्यार्थी बलवत्तरः ॥ अराजकानि राष्ट्रानि हृतराज्यानि वा पुनः । प्रत्युद्र- म्याभिपूज्यः स्यादेतदत्र सुमन्त्रितम् ॥ न हि राज्यात्पाप- तरमस्ति किंचिद्रराजकात् । वसेत्समनुपश्येत समग्रं कुशलं भवेत् ॥ बलवान्हि प्रकुर्वीत कुर्यान्नि शेषतामिह । भूयांसं लभते क्लेश या गौर्भवति दुर्दुघा । अथवा सुदुघा भवति नैव तां विनयस्य च । यदत्तप्रणमते नमते यो बलीयसे ॥ तस्माद्राजैव कर्तव्यः सततं भूतिमिच्छता । न धनार्थों न दानार्थस्तेषां येषामराजकम् ॥ तृप्यते हि हरन्पापः परवित्तमराजकम् । यदस्य तद्धरत्यन्ये तदा राजानमि-
    अयोध्याकाण्डः

    ति ॥ पापान्यपि सदा क्षेमं न लभन्ते कथंचन । एतस्य तद्वै हरतो द्वयोश्च बहवोऽपरे ॥ न दासः क्रियते दासो हियन्ते च बलात्त्रियः । एतस्मात्कारणादेवाः प्रजापालं प्रचक्रिरे ॥ राजा चेन्न भवेल्लोके पृथिव्यां दण्डधारकः । शूळे मत्स्यानिवाधक्ष्य दुर्बलान्बलवत्तराः ॥ अनायकाः प्रजाः पूर्व विनेशुरिति नः श्रुतम् । परस्परं भक्षयतो मत्स्या मत्स्यानिवाबलान् ॥ ताः समेत्य मिश्र- श्चक्रुः समयानिति नः श्रुतम् । यः क्रूरो दण्डपुरुषो यश्च
    । स्यात्पारदारिकः ॥ यश्च नः समयं भिन्द्यात्त्याज्या न- स्तादृशा यदि । विश्वालनार्थं वर्णानां सर्वेषामविशेषतः ॥ तास्तथा समयं कृत्वा समये नावतस्थिरे । सहितास्ताः समा- जग्मुरसुखार्ताः पितामहम् ॥ अनीश्वरा विनश्यामो भगव शीश्वरं दिश । यं पूजयेम संभूय यश्च नः परिपालयेत् ॥ ताभ्यो मनुं व्यादिदेश मनुना तेऽभिनन्दिताः ।’ मनुरु बाच — ‘बिभेमि कर्मणः क्रूराद्राज्यं हि भृशदुष्करम् । विशेषतो मनुष्येषु मिध्यावृत्तेषु नित्यदा ॥’ भीष्म उवाच — ‘तमब्रुवन्प्रजा मा भर्विधास्याम धनं तव । पशूनामथ पञ्चानां हिरण्यस्य तथैव च ॥ धान्यस्य दशमं
    [[1]]
    [[४२६]]
    धर्माांकूर्त
    भागं दद्मि ते कोशवर्धनम् । मुच्ये न चातपत्रेण ये मनु- ध्याः प्रधानतः । भवन्तं तेऽनुयास्यन्ति महेन्द्रमिव देव- ताः । स त्वं जातबलो राजन्दुष्प्रधर्षः प्रतापवान् ॥ मुखे शास्यसि नः सर्वान्कुबेर इव नैऋतान् । यं च धर्मं चरि- व्यन्ति प्रजा राज्ञा सुरक्षिताः ॥ चतुर्थे तस्य धर्मस्य राज्ञ एव भविष्यति । तेन धर्मेण महता सुखलब्धेन भा- वितः । पाह्यस्मान्सर्वतो राजन्देवानिव शतक्रतुः । विजया- याभिनिर्याहि प्रतीपं मघवानिव । मानं विधम शत्रूणां
    मैं जनयतः सदा ॥ भीष्म उवाच - ’ स निर्ययौ महातेजा बलेन महता वृतः । महाभिजन संपन्न तेजसा प्रज्वलन्निव । तस्य तां महिमां दृष्ट्वा महेन्द्रस्येव देवताः । अथ तत्रसिरे सर्वे स्ववेषेऽवददुर्मनः ॥ वर्णिनं चाश्रम चैव म्लेच्छाः सर्वे च दस्यवः । सतो महीं परिययौ पर्ज- न्य इव वृष्टिमान् ॥ शमयन्सर्वतः पापान्सुकर्मसु च यो- जयन् । ये ये भूमिमिहेच्छेयुः पृथिव्या मानवाः कचित् ॥ कुर्य राजानमेवादौ प्रजानुग्रहकारणात् । नमस्येयुश्च तं भक्त्या शिष्या इव गुरुं सदा ॥ देवायुजसहस्राक्षं नररा- जानमन्तिकात्। स्वकृतं स्वजनेनेह परोऽपि बहु मन्यते ॥
    अयोध्याकाण्डः ।
    GKG
    स्वजनेन त्वज्ञानं परे परिभवन्ति च । राज्ञः परैः परि- भवः सर्वेषामसुखावहः । तस्माच्छत्रे च पुत्रं च वाखां- स्याभरणानि च । भोजनान्यथ पानानि राज्ञो दद्युर्गृहा-
    फ्युत ॥ आसनान्यथ शय्याश्च सर्वोपकरणानि च ।’ अष्टषष्टितमे, वसिष्ठोऽपि सिद्धार्थविजयजयन्तावशोक-
    नन्दनानूजनवर रान्द्वादशानाहूय,
    कोशे यानि च वासांसि भूषणानि वराणि च । क्षिप्रमादाय राशश्च भरतस्य च गच्छत ॥ त्यक्तशोकैरिदं वाच्यं शासनाद्भरतो मम । पुरोहितरत्वा कुशले प्राह सर्वे च मन्त्रिणः ॥ त्वरमाणश्च निर्याहि कृत्यमात्ययिकं त्वया । मा चास्मै प्रोषितं रामं मा चास्मै पितरं मृतम् ॥ इति शंसथेत्यवोचत् । ततो दूता वसिष्ठाभ्यनुज्ञया पुरान्निर्गम्य संतीर्य विविधनदीरतिक्रम्य च नानाविवा- जनपदान्क्रमेण क्लान्तवाहना गिरिव्रजं पुरवर मस्तंगते भगवति सवितर्याजग्मुः ॥ एकोनसप्ततितमे-
    यामेव रात्रिं ते दूताः प्रविशन्ति स्म तां पुरीम् । भरतेनापि तां रात्रिं स्वप्नो दृष्टोऽयमप्रियः ॥
    રઢ
    धर्माकृते
    ब्युष्टामेव तु तां रात्रिं दृष्ट्रा तं स्वप्नमप्रियम् । पुत्रो राजाधिराजस्य सुभृशं पर्यतप्यत ॥ तप्यमानं समाज्ञाय वयस्याः प्रियवादिनः । आयासं हि विनेष्यन्तः सभायां चक्रिरे कथाः
    वादयन्ति तथा चान्ये लासयन्ति तथापरे । नाटकान्यपरे प्राहुर्लास्यानि विविधानि च ॥ स तैर्महात्मा भरतः सखिभिः प्रियवादिभिः । गोष्ठी हास्यानि कुर्वद्भिर्न प्राहृष्यत राघवः ॥ तमब्रवीत्प्रियसखो भरतं सखिभिर्वृतम् । सुहृद्भिः पर्युपासीनः किं सखे नानुमोदसे ॥ एवं ब्रुवाणं संदृष्टं भरतः प्रत्युवाच ह । शृणु त्वं यनिमित्तं मे दैन्यमेतदुपागतम् ॥ स्वमे पितरमद्राक्षं मलिनं मुक्तमूर्धजम् । पतन्तमद्रिशिखरात्कलुषे गोमये हृदे ॥ ध्रुवमानश्च मे दृष्टः स तस्मिन्गोमये हदे । पिबन्नञ्जलिना तैलं हसन्नपि मुहुर्मुहुः । ततस्तिलोदनं भुक्त्वा पुनः पुनरधः शिराः ॥
    अयोध्याकाण्डः ।
    तैलेनाभ्यक्तसर्वाङ्गस्तैलमेवावगाहत ।
    स्वप्नेऽपि सागरं शुष्कं चन्द्रं च पतितं भुवि ॥ उपरुद्धां च जगतीं तमसेव समावृताम् ।
    औपवाह्यस्य नागस्य विषाणं शकलीकृतम् ॥
    [[१२९]]
    सहसा चापि संशान्तं ज्वलितं जातवेदसम् । अवतीर्णा च पृथिवीं शुष्कांश्च विविधान्दुमान् ॥ अहं पश्यामि विध्वस्तान्सधूमांश्चापि पर्वतान् । पीठे काष्र्णायसे चैनं विषण्णं कृष्णवाससम् ॥ प्रदहन्ति स्म राजानं प्रमदाः कृष्णपिङ्गलाः । स्वरमाणश्च धर्मात्मा रक्तमाल्यानुलेपनः । रथेन खरयुक्तेन प्रयातो दक्षिणामुखम् । प्रहसन्तीव राजानं प्रमदा रक्तवासिनी ॥ प्रकर्षता मया दृष्टा राक्षसी विकृतानना । एवमेतन्मया दृष्टमिमां रात्रिं भयावहाम् ॥ अहं रामोऽथ वा राजा लक्ष्मणो वा मरिष्यति । नरो यानेन यः स्वप्ने खरयुक्तेन याति हि ॥ अचिरात्सस्य धूमाग्रं चितायां संप्रदृश्यते ।
    [[४३०]]
    धर्माकूते
    एतन्निमित्तं दीनोऽहं तन वः प्रतिपूजये ॥ शुष्यतीव च मे कण्ठो न स्वस्थमिव मे पुनः । न पश्यामि भय स्थानं भय चैवोपधारये ॥ भ्रष्टश्च खरयोगो मे च्छाया चोपहता मम । जुगुप्स इव चात्मानं न च पश्यामि कारणम् ।
    इमां हि दुःस्वप्नमति निशाम्य ता- मनेकरूपामवितर्कितां पुरा । भयं महत्तहृदयान्न याति मे
    विचिन्त्य राजानमचिन्त्यदर्शनम् ॥
    "
    अत्र भरतेन स्वनदर्शनस्य ’ अहं रामोऽथ वा राजा लक्ष्मणो वा मरिष्यति’ इति फलप्रतिपादनात् येन या- दृशस्वप्नो दृष्टः तस्य तादृशं फल भवतीति सूचितम् । तथा च स्वप्नाध्याये बृहस्पतिः ‘स्वप्नाध्यायं प्रवक्ष्या- मि नानास्वप्नसमुदये। स्वस्तु प्रथमे यामे संवत्सर- विपाकिनम् ॥ द्वितीये चाभिस्त्रिभिर्मा स्त्रिया- मिकम् । चातुर्थे यामिके स्वप्ने मासैकेन फलं भवेत् ॥ अरुणोदयवेलायां दशाहेन फलं भवेत् । एवं चानुदिते काले त्रिरात्रं तु भविष्यति ॥ गवां दोहनवेलायां सद्यः-
    अयोध्याकाण्डः ।
    [[४३१]]
    स्वप्नफलं भवेत् । अत ऊर्ध्व प्रवक्ष्यामि स्वप्नपुण्यफलं ध्रुवम । वातकं पित्तकं चैव चिन्तितं चानुवर्जयेत् ॥ अतिदीर्घे दिवा दृष्ट्वा स्वप्नं तं परिवर्जयेत् । यस्तु पश्यति स्वप्नान्ते राजानं कुञ्जरं हयम् । सुवर्ण वृषभं गावः कुटुम्बं तस्य वर्धते । आरोहणं गोवृषकुञ्जराणां प्रखादर्शलाप्रवनस्पतीनाम् । विष्ठानुलेपो रुदितं मृतं च स्वप्नेषु गम्यागमनं च धन्यम् ॥ क्षीरिणं फलिनं वृक्षमेकाकी योऽधिरोहति । तत्र तस्य विबुद्धस्य मृत्यु- रित्येव निर्दिशेत् । यस्तु श्वेतेन सर्पेण दंशितो दक्षिणो भुजः । सहस्तलाभस्तस्य स्यादपूर्ण दशमे दिने । उरगो वृाधिको वापि जलूका दृश्यते यदि । अव्ययं चार्थसिद्धि च पुत्रं तस्य विनिर्दिशेत् । प्रासादशैलमारुह्य समुद्र तरते नाः । अपि दासकुले जातः सोऽपि राजा भविष्यति ॥ यस्तु मध्ये तटाकस्य भुङ्क व घृतपायसम् । अखण्डे पुष्करे पत्रे तं विद्यात्पृथिवीपतिम् ॥ बलाकां कुक्कुटीं कौवीं लब्ध्वा यः प्रतिबुध्यते । सत्कुलाश्च लभेत्कन्यां भार्यौ च प्रियवादिनीम् ॥॥ अनिलैर्बध्यते यस्तु बाहुपाशेन वा पुनः । पुत्रो वा जायते तस्य प्रतिष्ठा तस्य वृद्धये ॥
    -४३२
    धर्माकूते
    आसने शयने याने शरीरे वाहने गृहे । ज्वलमानो तु बुध्येत तस्य श्रीरावर्ती मुखी ॥ आदित्यमण्डलं स्वप्ने चन्द्रं वा यदि पश्यति । व्याधितो मूल्यरोगी रोगी श्रि- यमाप्नुयात् ॥ रुधिरं पित्रते स्वप्ने सुरां वा पिबते यदि । ब्राह्मणस्तु लभेद्विद्यामितरस्तु धनं लभेत् ॥ अभिधावन्सि सं स्वप्ने शृङ्गणो दंष्ट्रिणोऽपि वा । वानरो वा वराहो वा भवेद्राजकुलाद्भयम् ॥ सलिलं दधि ताम्बूलं शङ्खं चन्द- नमौक्तिकम् । जातीवकुलपुष्पं च उत्पलं वा धनागमः । केशा यत्र विशीर्यन्ने दन्ताश्च प्रपतन्ति वा । अर्थनाशो भवेत्तस्य अपत्यं वापि नश्यति । वमते यस्तु स्वप्नान्ते अथ वा तु विरेचते । वमिते तु महाव्याधिर्धननाशो वि- रोचने। अशोकं करवीरं वा पालाशं वाथ पुष्पितम् । स्वप्नान्ते यस्तु पश्येत नरः शोकमवाप्नुयात् ॥ रक्ता- म्बरधरा नारी रक्तगन्धानुलेपना । अवगूहति यं स्वप्ने ब्रह्महत्यां विनिर्दिशेत् । कृष्णाम्बरधरा नारी पीतवर्णा- नुलेपना । अवगूहति यं स्वप्ने कुष्ठ नस्य विनिर्दिशेत् ॥ पीताम्बरधरा नारी पीतवर्णानुलेपना । अवगूह- सि यं स्वप्ने कुष्ठं तस्य विनिर्दिशेत् । श्वेताम्बरधरा
    /अयोध्याकाण्डः ।
    [[४३३]]
    नारी श्वेतगन्धानुलेपना । अवगूहति यं स्वप्ने तस्य श्रीः सर्वतोमुखी ॥ सर्वाणि कृष्णान्यपि निन्दि- वानि गोहस्तिदेव द्विजवा जिवर्जम् । सर्वाणि शुक्लान्यपि शोभनानि कार्पास भस्मास्थिाववर्जितानि । ओदन- तकलवण पिष्टचूर्ण वर्जम् । तैलाभ्यङ्गं शरीरे तु रसेन च चुनेन च ॥ स्नेहेन वा तथान्येन व्या ितस्य विनि- दिशेत् ॥ गोवृषं रथसंयुक्तमेकाकी योऽधिरोहति । तत्र तस्य विबुद्धस्य धनं शीघ्नं विनिर्दिशेत् ॥ खरोष्ट्ररथ संयुक्तमेकाकी योऽधिरोहति । तत्र तस्य विबु द्धस्य मृत्युं सद्यो विनिर्दिशेत् ॥ अथवा-नावमा रोहये- द्यस्तु भिन्नां यः समुत्तरेत् । अथ वा निर्मलं तीर्थमध्वानं तस्य निर्दिशेत् ॥ पादुकोपानहच्छत्रं लब्ध्वा यः प्रतिबु- ध्यति । अध्वानं निर्दिशेत्तस्य शीघ्रं च पुनरागमः । दधि- लाभे ध्रुवं धर्मो घृतलाभे ध्रुवं यशः । घृताशने ध्रुवं केशो यशस्तु दधिभक्षणे ॥ दवि दृष्ट्वा भवेद्वृद्धिगौधूमैथ वनागमः । यधैर्यज्ञागमं विद्याल्लाजाः सवार्थसिद्धिदाः ॥ फलिते च फलं विद्यारदुष्पिते वृत्तिरुत्तमा । धूमायते भवेन्मृत्युः प्रज्वलंश्च श्रियावहः ॥ दीपं मूलं फलं पद्म
    [[૩૨૪]]
    धर्माकूते
    कन्या च्छत्रं ध्वजं रथः । एतानि यो लभेत्स्वप्ने यक्षि- न्तयति तद्भवेत् ॥ मानुष्याणि च मांसानि स्वप्नान्ते यस्तु भक्षयेत् । हरितानि च पक्कानि शृणु तस्यापि यत्फ- कम् । हरितेन शतं विद्यात्पक्केन मरणं ध्रुवम् । पाढ़े पञ्चशतं लाभः सहस्रं बाहुभक्षणे ॥ राज्यं च शतसा- हस्रं भवेच्किरसि भक्षणे । भक्षयेन्मद्यमांसानि तस्य ला- भोऽयुतं स्मृतम् । पुत्रैस्तु वेष्टितो यो वै नगरे स्वगृहेऽपि वा ॥ गेहे माण्डलिको राजा नगरे पार्थिवो भवेत् । देवता यत्र नृत्यन्ति प्रहसन्ति रुदन्ति च । आस्फोट- यन्ति धावन्ति यत्र देशो विनश्यति । देवताश्च द्विजा गावः पितरो ललना नृपाः । यद्वदन्ति नरं स्वप्ने तत्तथैव फलं भवेत् । नागपत्रं लभेत्स्वप्ने कर्पूरमगरं तथा । चन्दनं श्वेतवस्त्रं च तस्य श्रीः सर्वतोमुखी । यो माळां लभते स्वप्ने फलं वा लभते यदि । कन्यालाभो भवेत्तस्य क्षिप्रमेव न संशयः । क्षीरं पिबति यः स्वप्ने फेनदो- हतिने स्थितम् । सोमपानं भवेत्तस्य वक्ताहारोऽप्यने- कशः । हसिते कल्हारं प्राप्तं मूके रोदनमादिशेत् । अखने नेत्ररोगं च रोमहर्षे धनक्षयः । यो लिङ्गमर्चितं
    अयोध्याकाण्डः ।

दृष्टा अन्यां वा यदि देवताम् ॥ व्यवहारे जयस्तस्य जयो राजकुलेषु च । करालो विकटो मुण्डः पुरुषः कृष्ण- पिङ्गलः ॥ हसितो नानकश्चैव तस्य कालो भविष्यति ॥ स्वप्नाध्यायमिमं पुण्यं प्रातरुत्थाय यः पठेत् । दुःस्वप्नं नाश- येत्तस्य सुस्वनं च भविष्यति’ इति बृहस्पतिप्रणीतस्वना- ध्यायः ॥ अग्नित्रयं त्रीणि च पुष्कराणि नामत्रयं त्रीणि पदानि विष्णोः रुद्रत्रिनेव त्रिपथा च गङ्गा एता विदुः स्वप्नविनाशनानि । यत्फलं गोजहस्रस्य सुवर्णालं- क्रतस्थ च । त्रिवारं पठतस्तस्य स ददाति बृहस्पतिः ॥ तथा चोद्योगपर्वणि श्रीकृष्णं प्रति कर्णवाक्यम् – ‘सह- स्रपादं प्रासादं स्वप्नान्ते तु युधिष्ठिर । अधिरोहन्मया दृष्टः सह भ्रातृभिरच्युत ॥ श्वेतोष्णीवाश्च दृश्यन्ते सर्वे ते शुक्लवाससः । आसनानि च शुभ्राणि सर्वेषामुपलक्षये । त्वं चापि मया दृष्टः स्वप्नान्ते रुधिराविलः । आवेज पृथिवी दृष्टा परिक्षिप्ता जनार्दनः । अस्थिसंचयमारूढ• श्रामितौजा युधिष्ठिरः । सुवर्णपात्र्यां संहृष्टो भुक्तवा- घृतपायसम् । युधिष्ठिरो मया दृष्टो ब्रसमानो वसुंधराम् ॥ उच्चपर्वतमारूढो भीमकर्मा वृकोदरः । गदापाणिर्नर-
[[૪]]
धर्माकूते
व्याघ्रो प्रसन्निव महीमिमाम् ॥ क्षपयिष्यति नः सर्वा- न्सुव्यक्तं स महारणे । विदितं मे हृषीकेश यतो धर्म- स्ततो जयः ॥ पाण्डुरं गजमारूढो गाण्डीवी सधनं- जयः । त्वया साधे महाबाहो श्रिया परमया ज्वलन् ॥ यूयं सर्वान्हनिष्यध्वमत्र मे नास्ति संशयः । पार्थिवा- न्समरे कृष्ण दुर्योधनपुरोगमान् । नकुलः सहदेवश्च स्वात्यकिश्च महारथः । शुक्लकेयूरकण्ठान्ताः शुकुमाल्या- म्बरावृताः ॥ अधिरूढा नरव्याघ्रा हयवाहनमुत्तमम् । एत एवं मया दृष्टाः पाण्डुरक्षत्रवाससः ॥ श्वेतोष्णी- बाश्च दृश्यन्ते नय एते जनार्दन । धार्तराष्ट्रस्य सैन्येषु तान्विजानीहि माधव ॥ अश्वत्थामः कृपश्चेव कृतवर्मा च खात्वतः । रथेोष्णीषाश्च दृश्यन्ते सर्वे माधव पा- र्थिवाः । उष्णप्रयुक्तमारूढौ भीष्मद्रोणौ जनार्दन । मया सार्धं महाबाहो धार्तराष्ट्रेण वै विभो ॥ अगस्त्यशास्तां च दिशं प्रयातौ भो जनार्दन । अचिरेणैव कालेन प्राप्स्या- मो यमसादनम् ॥ अहं चान्ये च राजानो यचैतत्क्षत्र- मण्डलम् । गाण्डीवानिं प्रवेक्ष्याम इति मे नास्ति संशयः ॥ श्रीभगवानुवाच ‘उपस्थितविनाशेयं नून–
अयोध्याकाण्डः ।
४३७..
मद्य वसुंधरा । तथा हि मे वचः कर्ण नोपैति हृदयं तव । सर्वेषां तात भूतानां विनाशे प्रत्युपस्थिते । अन– बो नयसङ्काशी हृदयानापसर्पति ।’ इति । अत एव सुन्दरकाण्डे सुस्वप्नदुःस्वप्रयोस्तत्तदनुरूपं फलं प्रतिपा- दितं त्रिजटया–
स्वप्नो ह्यद्य मया दृष्टो दारुणो रोमहर्षणः । राक्षसानामभावाय भर्तुरखा जयाय च ॥ एवमुक्तास्त्रिजटया राक्षस्यः क्रोधमूर्च्छिताः । सर्वा एवाब्रुवन्भीतात्रिजटां तामिदं वचः ॥ कथयस्व त्वया दृष्टः स्वप्नोऽयं कीदृशो निशि । तासां श्रुत्वा तु वचनं राक्षसीनां मुखाच्च्युतम् - उवाच वचनं काले त्रिजटा स्वप्नसंश्रितम् । गजदन्तमयीं दिव्यां शिबिका मन्तरिक्षगाम् ॥ युक्तां हंससहस्रेण स्वयमास्थाय राघवः । शुक्लमाल्याम्बरधरो लक्ष्मणेन सहागतः ॥ स्वप्ने चाद्य मया दृष्टा सीता शुक्लाम्बरावृता । सागरेण परिक्षिप्तं श्वेतं पर्वतमास्थिता ।
रामेण संगता सीता भास्करेण प्रभा यथा ।
*
धर्माकूते
राघवञ्च मया दृष्टश्चतुर्दन्तं महागजम् ॥ आरूढः शैलसंकाशं चचाल सह लक्ष्मणः । ततस्तौ नरशार्दूलौ दीप्यमानौ स्वतेजसा ॥ शुक्लमाल्याम्बरधरौ जानकों पर्युपस्थितौ । ततस्तस्य नगस्याग्रे ह्याकाशस्थस्य दन्तिनः ॥ भत्र परिगृहीतस्य जानकी स्कन्धमाश्रिता । भर्तुरङ्कात्समुत्पत्य ततः कमललोचना ॥ चन्द्रसूर्यौ मया दृष्टौ पाणिना परिमार्जती । ततस्ताभ्यां कुमाराभ्यामास्थितः स गजोत्तमः । सीतया च विशालाक्ष्या लङ्काया उपरि स्थितः । पाण्डुरर्षभयुक्तेन रथेनाष्टयुजा स्वयम् । इहोपयातः काकुत्स्थः सीतया सह भार्यया । लक्ष्मणेन सह भ्रात्रा विमाने पुष्पके स्थितः । साण्डं त्रिभुवनं भीमं सर्वतः सचराचरम् ॥ सर्वे ग्रस्तं मया दृष्टं रामेणाक्लिष्टकर्मणा । क्षीरोदधिजले मध्ये श्वेतः शैलः समुच्छ्रितः ॥ तस्य मूर्ध्नि ततः श्वेतश्चतुर्दन्तो महागजः । तस्य पृष्ठे स्थितः श्रीमान्ामो राजीवलोचनः ॥
अयोध्याकाण्डः ।
आसीनः प्राङ्मुखः श्रीमानासने परमे शुभे । अभिषिकस्तु काकुत्स्थः सर्वदेवैर्नमस्कृतः ॥ सब्रह्मर्षिगणैः सिद्धैः सर्वतीर्थजलेन च । शुक्लमाल्याम्बरधरः शुक्लगन्धानुलेपनः ॥ सीता तत्र पृथुश्रोणी रराज जनकात्मजा । ततो देवाः सगन्धर्वाः सिद्धाश्च परमर्षयः । ब्रह्माणमग्रतः कृत्वा रामं तत्र ववन्दिरे ॥ पुनरेव मया दृष्टो रामो रमयतां वरः । विष्णुरेव स्वयं भूत्वा तस्मिन्नास्ते वरासने ॥ परं ब्रह्म परं सत्यं परं ज्ञानं परं तपः । परं बीजं परं क्षेत्रं परं कारणकारणम् ॥ शङ्खचक्रधरः श्रीमान्पुण्डरकिायतेक्षणः । श्रीवत्सवक्षा नित्यश्रीरक्षय्यः शाश्वतो ध्रुवः ॥ एवंभूतो महातेजा रामः कमललोचनः । सर्वलोकेश्वरः श्रीमान्रराज रघुनन्दनः ॥ ततो महेन्द्रः पितरो मुनीन्द्रा
गन्धर्वविद्याधरपन्नगेश्वराः ।
D. Pt. V-5

[[३४०]]
धर्माकूते
कृताभिषेकं परिचार्य रामं
प्रतुष्टुवुः प्राञ्जलयः प्रहृष्टाः ॥
नृत्यन्ति गायन्ति समेत्य तत्र
वाद्यं प्रकुर्वन्ति सुरेन्द्रनार्यः । वंशाश्च वीणाप्रमुखाश्च भेर्यो
नदन्ति शङ्खाः पणवाश्च सर्वे ॥
ततोऽन्यत्र मया दृष्टो रामः सत्यपराक्रमः । लक्ष्मणेन सहभ्रात्रा सीतया सह भार्यया # आरुह्य पुष्पकं दिव्यं विमानं सूर्यसंनिभम् । उत्तरां दिशमालोक्य जगाम पुरुषोत्तमः ॥ लक्ष्मणेन सह भ्रात्रा सीतया सह बीर्यवान् । एवं स्वप्ने मया दृष्टो राम्रो विष्णुपराक्रमः ॥ न हि रामो महातेजाः शक्यो जेतुं सुरासुरैः । राक्षसैर्वापि चान्यैर्वा स्वर्गः पापजनैरिव ॥ रावणश्च मया दृष्टः क्षितौ तैलसमुक्षितः । रक्तवासाः पिबन्मत्तः करवीरकृतत्रजः ॥ विमानपुष्पकादद्य रावणः पतितो भुवि ।
कृष्यमाणः स्त्रिया दृष्टो मुण्डः कृष्णाम्बरः पुनः ॥
अयोध्याकाण्डः ।
रथेन खरयुक्तेन रक्तमाल्यानुलेपनः । पिवंस्तैलं इसन्नृत्यन्त्रान्ताचिन्ताकुलेन्द्रियः । गर्दभेन गयौ शीघ्रं दक्षिणां दिशमास्थितः ॥ युनरेव मया दृष्टो रावणो राक्षलेश्वरः । पतितोऽवाक्शिरा भूमौ गर्दभाद्भयमोहितः । सहसोत्थाय सम्भ्रान्तो भयात मदषिकः । उन्मत्त इव दिग्वासा दुर्वाक्यं प्रलपन्वड । दुर्दग्धं दुःसहं घोरं तिमिरं नरकोपमम् । मलपङ्कं प्रविश्याशु मनस्तत्र तु रावणः ॥ कण्ठं बढ़ा दशग्रीवं प्रमदा रक्तवासिनी । काली कर्दमलिप्ताङ्गी दिशं यां यां प्रकर्षति एवं तत्र मया दृष्टः कुम्भकर्णो निशाचरः । रावणस्य सुताः सर्वे दृष्टास्तैलसमुक्षिताः ॥ वराहेण दशमीवः शिंशुमारेण चेन्द्रजित् । उष्ट्रेण कुम्भकर्णश्च प्रयातो दक्षिणां दिशम् ॥ एकस्तत्र मया दृष्टः श्वेतच्छत्रो विभीषणः । हरूमाल्याम्बरधरः शुक्लगन्धानुलेपनः ॥ शङ्खदुन्दुभिनिर्घोषैर्नृत्तगेयैरलंकृतः ।
Exa

धर्माकूते
मरुा मेघसंकाशं मेघस्तनितनिःस्वनम् ॥ चतुर्दन्तगजं दिग्यमास्ते तब विभीषणः । चतुर्भिः सचिवैः सार्धं वेदाद्य समुपस्थितः ॥ समाजश्च महान्दृष्टो गीतवादित्रनिःस्वनः । पिबतां रक्तमाल्यानां रक्षसां रक्तवाससाम् ॥ लङ्का चब पुरी रम्या सवाजिरथसंकुला । सागरे पतिता दृष्टा भग्नगोपुरतोरणा ॥ लङ्का दृष्टा मया स्वप्ने वानरेण तरस्विना । निर्दग्धा नगरी सर्वा रावणेनाभिपालिता ॥ पीत्वा तैलं प्रनृत्ताश्च प्रहसन्त्यो महास्वनाः । लङ्कायां भस्मरूपायां प्रविष्टा राक्षसस्त्रियः ॥ कुम्भकर्णादयश्चेमे सर्वे राक्षसपुङ्गवाः । रक्तं विवसनं गृह्य प्रविष्टा गोमयहदे ॥ इति ॥
सप्ततितमे ततः स्वप्रकथनसमय एवं सभां प्रविभ्य
,
कृत नमस्कारा दूताः सर्वसुहृज्जनेषु कुशलं पृच्छन्तं भर-
तम्-
कुशलास्ते नरव्याघ्र येषां कुशलमिच्छसि । श्रीश्च त्वां वृणुते पद्मा युज्यतां चापि ते रथः ॥अयोध्याकाण्डः ।
**
इत्यवदन् । ततस्तदानीतधनवस्त्राभरणादिभिः स्वमा- तामहमातुलादीनभिपूज्य तैश्च विविधवसनभूषणादिप्र- दानपूर्वकं कृताभ्यनुज्ञः रथमारुह्य भरतः शत्रुन्नसहितो ययौ ॥ एकसप्ततितमे – ततो भरतः क्रमेण समतीत्य जनपदानुत्तीर्य नदीनदानतिक्रम्य पर्वतानासाद्य चोपव- नमवलोक्य च नगरं सारथिमेवमवादीत्-
श्रुता नो यादृशः पूर्व नृपतीनां विनाशने । आकारांस्तानहं सर्वानिह पश्यामि सारथे । संमार्जनविहीनानि परुषाण्युपलक्षये । असंयतकवाटानि श्रीविहीनानि सर्वशः ॥ बलिकर्मविहीनानि धूपसंमोदनेन च । अनाशित कुटुम्बानि प्रभाहीनजनानि च ॥ अलक्ष्मीकानि पश्यामि कुटुम्बिभवनान्यहम् । अपेतमाल्यशोभानि असंमृष्टाजिराणि च ॥ देवागाराणि शून्यानि न च भान्ति यथापुरम् । देवतार्चाः प्रविद्धाश्च यज्ञगोष्ठयस्तथाविधाः ॥ माल्यापणेषु राजन्ते नाद्य पण्यानि वा तथा ।
धर्माकूते
जयन्ते वणिजोऽप्यद्य न यथापूर्वमद्य वै ॥
महदया नष्टव्यापारयन्त्रिताः ।
देवतायतनचैत्येषु दीनाः पक्षिगणाः स्थिताः ॥ मलिनं चाश्रुपूर्णाक्षं दीनं ध्यानपरं कृशम् । सखीपुं च पश्यामि जनमुत्कण्ठितं पुरे ॥
इत्येव वा भरतः सूतं तं दीनमानसः । तात्परिष्टान्ययोभ्यायां प्रेक्ष्य राजगृहं ययौ । द्विसप्ततितमे – ततः प्रविश्य नगरमासाद्य राजभवनं समतीत्य कक्षात्रयमनवलोक्य राजानम्,
जगाम भरतो द्रष्टुं मातरं मातुरालयम् ।
ततः स्वसंदर्शन समनन्तरमेव समुत्सृज्य सौवर्णमासनं सरभसं प्रत्युद्च्छन्तीं स्वमातरमभिवाद्य तत्रापि पित्रद- निदूयमानमानसः समागतोऽहं पितुः पादावभिवादवितुं तमाख्याहीति मातरमवदत् ।
तं प्रत्युवाच कैकयी प्रियवद्वोरमप्रियम् । या गतिः सर्वभूतानां तां गतिं ते पिता गतः ॥ तद्वाक्यश्रवणमात्रेणैव भूमौ निपत्य चिरमार्तस्वरेण
अयोध्याकाण्डः ।
विलपन्भरतः तेतैः सान्त्वनवचनैः सान्वयन्तीं जननों प्रत्युवाचेदं शोकैर्षहुभिरावृतः -
[[2]]
अभिषेक्ष्यति रामं तु राजा यज्ञं नु यश्यते । इत्यहं कृतसंकल्प हृष्टो यात्रामयालिषम् ॥ अम्ब केनात्यगाद्राजा व्याधिना मय्यनागते । धम्या रामादयः सर्वे यैः पिता संस्कृतः स्वयम् ॥ न नूनं मां महाराजः प्राप्तं जानाति कीर्तिमान् । उपजिघ्रद्धि मां मूर्ध्नि ततः संगम्य सत्वरम् ॥ यो मे भ्राता पिता बन्धुर्यस्य दासोऽस्मि धीमतः । तस्य मां शीघ्रमाख्याहि रामस्याक्तिकर्मणः ॥ पिता हि भवति ज्येष्ठो धर्ममार्यस्य जानतः । तस्य पादौ ग्रहीष्यामि ल हीदानों गतिर्मम ॥ पितुरनन्तरं ज्येष्ठभ्रातैव गतिरित्येतत्प्राक्प्रपचितम् ॥ आर्याः किमब्रवीद्राजा पिता मे सत्यविक्रमः । पश्चिमं साधु संदेशमिच्छामि श्रोतुमात्मनः ॥ इति । अनेन चरमकाले पित्रा पुत्रोऽनुशासनीय इति उक्तं अवति । तथा च बृहदारण्यके— ‘अथातः संप्रतिर्यदा
[[6]]
धर्माते
प्रैष्यन्मन्यते अथ पुत्रमाह’ इत्यारभ्य ’ तस्मात्पुत्रमनुशिष्टं लोक्यमाहुस्तस्मादेनमनुशासति’ इत्यन्तेन अयमर्थः । एव- मानुशासनिकेऽपि वैशंपायन :- ‘एवमुक्तस्तु गाङ्गेयः पाण्ड- वानिदमब्रवीत् । धृतराष्ट्रमुखांश्चापि सर्वोच्च सुहृदस्तथा ॥ प्राणानुत्स्रष्टुमिच्छामि ते मानुज्ञातुमर्हथ । सत्येषु यति- तव्यं वः सत्यं हि परमं बलम् ॥ आनृशंस्यपरैर्भाव्यं सदैव नियतात्मभिः । ब्राह्मण्यैर्धर्मशीलैश्च तपोनित्यैश्व भारताः ॥ इत्युक्त्वा सुहृदः सर्वान्संपरिष्वज्य चैव च । पुनरेवाब्रवीद्धीमान्युधिष्ठिरमिदं वचः ॥ ब्राह्मणाश्चैव ते नित्यं प्राज्ञाश्चैव विशेषतः । आचार्यऋत्विजश्चैव पूज- नीया जनाधिप ’ ॥ इति । अत एवाश्रमवासाय प्रस्थितो धृतराष्ट्रः राज्यपालनप्रकारमुपदिश्य ‘भीष्मेण सर्वमुक्तो- डास कृष्णेन विदुरेण च । मयाप्यवश्यं वक्तव्यं प्रीत्या ते नरसत्तम’ इति युधिष्ठिरं प्रति उक्तवान् ।
इमां तु पश्चिमां वाचं व्याजहार पिता तव । सिद्धार्थास्ते नरा राममागतं सीतया सह । लक्ष्मणं च महाबाहुं द्रक्ष्यन्ति पुनरागतम् ।
अयोध्याकाण्डः ।
इत्यकथयत् ॥ ततः ‘कैकेथि, केदानीं सलक्ष्मणो रामः’ इति वदन्तं भरतम्,
स हि राजसुतः पुत्र चीरवासा महावनम् । दण्डकान्सह वैदेह्या लक्ष्मणानुचरो गतः ॥ इत्यब्रवीत् । तद्वचनसमनन्तरम्,
कञ्चिन्न ब्राह्मणधनं हृतं रामेण कस्यचित् । कचिन्नाढ्यो दरिद्रो वा तेनापापो विहिंसितः । न रामः परदारांश्च चक्षुर्भ्यामपि पश्यति । इति तेन पृष्टा सा-
मया तु पुत्र श्रुत्ववं रामस्यैवाभिषेचनम् ॥ याचितस्ते पिता राज्यं रामस्य च विवासनम् । स स्ववृतिं समास्थाय पिता ते तत्तथाकरोत् । रामश्च सह सौमित्रिः प्रोषितः सह सीतया तमपश्यन्प्रियं पुत्रं महीपालो महायशाः । पुत्रशोकपरिद्यूनः पञ्चत्वमुपपेदिवान् ॥
तत्पुत्र शीघ्रं विधिवद्विधित्रै-
वसिष्ठमुख्यैः सहितो द्विजेन्द्रः ।
+
[[३१८]]
धर्माकुले
संकारथ राजानमदीनसत्त्व-
मात्मानमुन्यमभिषेचयस्व ॥
इत्यवदत् ॥ त्रिसप्ततिचतुःसप्ततितमयोः – ततो भरतः पितृमरणराम विषासननिदानभूतां राज्यकामुकां कैकेयी-
· मेवमवदत् -
किं तु कार्य हतस्येह मम राज्येन शोचतः । बिहीनस्याप्यपित्रा च भ्राता पितृसमेन च ॥ ननु त्वार्योऽपि धर्मात्मा त्वयि वृत्तिमनुत्तमाम् । वर्तते गुरुवृत्तिशो यथा मातरि वर्तते ॥ तथा ज्येष्ठा हि मे माता कौसल्या दीर्घदर्शिनी । त्वयि धर्म समास्थाय भगिन्यामिव वर्तते ॥ तस्याः पुत्रं कृतात्मानं चीरवल्कलवाससम् । प्रस्थाप्य वनवासाय कथं पापे न शोचसि ॥ अहं हि पुरुषव्याघ्रावपश्यन्रामलक्ष्मणौ । केन शक्तिप्रभावेण राज्यं रक्षितुमुत्सहे ॥
अथ वा मे भवेच्छक्तियोंगैर्बुद्धिबलेन वा । सकामां न करिष्यामि त्वामहं पुत्रगृद्धिनीम् ॥
अयोध्याकाण्डः ।
[[१४९]]
अस्मिन्कुले तु पूर्वेषां ज्येष्ठो राज्येऽभिषिच्यते । अपरे भ्रातरस्तस्मिन्नवर्तन्ते समाहिताः ॥
निवर्तयित्वा रामं च तस्याहं दीप्ततेजसः । दासभूता भविष्यामि सुस्थितेनान्तरात्मना ॥ भ्रूणहत्यामाल प्राप्ता कुलस्यास्य विनाशनात् । कैकेयि नरकं गच्छ मा च भर्तुः सलोकताम् ॥ सा त्वमग्निं प्रविश वा स्वयं वा दण्डकान्त्रज । रज्जुं बद्धाथ वा कण्ठे न हि तेऽन्यत्परायणम् ॥

ननु ’ आचार्यश्च पिता चैव माता भ्राता च पूर्वजः । नार्वेनाप्यवमन्तव्याः’ इत्यादिमनुवचनपर्यालोचनया मा- तृनिन्दायाः प्रतिषेधावगमात् भरतेन कथं माता निन्दि- ता इति चेन्न । अधर्ममार्गप्रवृत्ता गुर्वादयोऽपि राज्ञा शिक्षणीयाः । तथा च मनुः – पिताचार्यः सुहृन्माता भार्या पुत्रः पुरोहितः । नादण्ड्यो नाम राज्ञोऽखि यस्त्त्रधर्मेण तिष्ठति ॥ ’ इति । राजधर्मेऽपि ‘गुरोरप्यव- लिप्तस्य कार्याकार्यमजानतः । उत्पथं प्रतिपन्नस्य कार्य भवति शासनम् ॥ इदं च कैकेयी भर्तृमरणसंपादक राम-
[[५५०]]
धर्माकूते
विवासनकरणात् महापराधवतीति तस्या दण्डो युक्तः । तस्य च – ’ गुरून्पुरोहितान्विप्रान्प्राग्दण्डेनैव दण्डयेत् । विवादिनो नरांश्चान्यान्दोषिणोऽर्थेन दण्डयेत् । महा- पराधयुक्तांश्च वधदण्डेन दण्डयेत् ॥’ इति बृहस्पतिवच- नेन गुर्वादिभेदेन दण्डस्य व्यवस्थापितत्वात्, मातुः कैकेय्या गुरुत्वात् वाग्दण्डनं यत्कृतं तद्युक्तमेव ॥ पच- सप्ततितमे - अथ कौसल्या सकरुणं विलपतो भरतस्या- कोशश्रवणेन समागतं भरतमवगत्य तदर्शनसमुत्सुका बभूव । भरत शत्रुघ्नावपि समासाद्य कौसल्यां स्वसंदर्शन- समसमयमाधिकशोकवशेन भूमौ चेष्टमानाम्,
पर्यष्वजेतां दुःखात पतितां नष्टचेतनाम् ।
ततः,
भरतं प्रत्युवाचेदं कौसल्या भृशदुःखिता । इदं ते राज्यकामस्य राज्यं प्राप्तमकण्टकम् प्रस्थाप्य चीरवसनं पुत्रं मे वनवासिनम् । कैकेयी कं गुणं तत्र पश्यन्ती क्रूरदर्शिनी ॥ क्षिप्रं ममापि कैकेयी प्रस्थापयितुमर्हति ।
[[11]]
अयोध्याकाण्डः ।
अथ वा स्वयमेवाहं सुमित्रानुचरा सुखम् ॥ अग्निहोत्रं पुरस्कृत्य प्रस्थास्ये यत्र राघवः ।
L
ननु ‘अग्निहोत्रं पुरस्कृत्य प्रस्थास्ये यत्र राघवः ’ इत्युक्तम् । तदनुपपन्नम् । मृते भर्तरि तत्संकारस्यावश्य- कर्तव्यत्वेन संस्कार्यस्य राज्ञः संस्कारकर्तुर्भरतस्य च संनिधाने तावानाहत्य वनं प्रत्यग्निहोत्रनयनस्य अयुक्त- त्वात् । न च ज्येष्ठस्यैवाधिकारात्, ‘भरतः प्रेतकार्याणि मा स्म काषद्वितायुषः ’ इति पित्रा प्रतिषिद्धस्य भरत- स्यानधिकाराच्च भर्तृशरीरं गृहीत्वा रामसमीपं गच्छामी- त्येतदभिप्रायेणोक्तमिति वाच्यम् । तर्हि अग्रेऽपि भरतेन संस्कारो न कर्तव्यः स्यात् । किं च, कैकेयीं परित्यज्य कौसल्या सुमित्राभ्यामपि नयनमनुपपन्नम् । अश्वमेधादि- ऋतुसंबन्धेन पत्नीत्वात्, अतः केवलानीनां संस्कार्यसहि- तानां वनं प्रति नयनमनुपपन्नमेवेति चेन्न । प्रियं चेद्भर- तस्यैव तद्रामप्रत्राजनं भवेत् । ’ मा स्म मे भरतः कार्थी- स्प्रेतकृत्यं गतायुषः’ इति राजवचनात् रामगमनमङ्गी- कुर्वतो भरतस्य पितृसंस्कारेऽनधिकारात् भरतकृतशप-
[[1]]
[[४५२]]
धर्माकूते
थात्प्राक्तदाशयस्याज्ञानात् रामसमीपमेव संस्कार्येण स- हाग्नीनां नयनं युक्तम् । यथोक्तं कैकेय्या अपि पत्नी- त्वात्तया विना कथमनीनां नयनम् इति तदपि न । कौसल्याया ज्येष्ठत्वात् ‘ज्येष्ठा चेदग्निसंयुक्ता ह्यन्या गच्छेद्यथासुखम्’ इति वचनेन ज्येष्ठाया एवाभिसंब- न्वावगमात् ‘अगृह्णां यच्च ते पाणिमर्ध्नि पर्यणयं च यत् । अनुजानामि तत्सर्वमस्मिल्लोके परत्र च ॥ केवलार्थ परां हित्वा त्यक्तधर्मं त्यजाम्यहम्’ इत्यादिवचनपर्यालो- चनया कैकेय्याः परित्यागावगमाच्च तां परित्यज्या- प्यग्नीनां नयने बाधकाभावात् । तस्मात् ’ अग्निहोत्रं पुरस्कृत्य प्रस्थास्ये यत्व राघवः’ इति वचनं युक्तमेव । अत एवाग्रे भरतकृतशपथैरवगततदाशया कौसल्या भर- तकृतं भर्तृसंस्कारमभ्युपेत्य वनं न गतवती इति ।

इत्यादिबहुभिर्वाक्यैः क्रूरैः संभत्सितोऽनघः । कौसल्यां प्रत्युवाचेदं शोकैर्बहुभिरावृताम् ॥
कृता शास्त्रानुगा बुद्धिर्मा भूत्तस्व कदाचन । सत्यसन्धः सतां श्रेष्ठो यस्यार्थोऽनुमते गतः ॥अयोध्याकाण्डः ।
४५३.
अनेन सच्छास्वाविश्वासः पापाधायक इत्युक्तं भवति ।
तथा चानुशासनिके ’ यः प्रवृत्तां श्रुतिं सम्यक्शां वा मुनिभिः कृतम् । दूषयत्यनभिज्ञाय तं विद्याद्रक्ष- घातकम्’ इति ।

प्रेष्यं पापीयसां यातु सूर्ये च प्रति मेहतु । हन्तु पादेन गां सुप्तां यस्यार्थोऽनुमते गतः ॥


अत्र पापीयसां निकृष्टानां सेवनं पापाधायक- मित्यवगम्यते । तथा उद्योगपर्वणि ‘उत्तमानेव सेवेत प्राप्तकाले तु मध्यमाम् । अधमांस्तु न सेवेत यदीच्छे. इतिमात्मनः ॥ ’ इति । द्वितीयचरणेन सूर्याभि- मुखतया विण्मूत्रविसर्जनं पापाधयकम् । तथा च परा- शरः – ’ प्रत्यादित्यं प्रत्यनलं प्रतिगाश्च प्रतिद्विजम् । ये मूत्रयन्ति पथि च ते भवन्ति गतायुषः’ इति । ’ हन्तु ते भवन्ति गतायुषः’ इति । ‘हन्तु पादेन गाम्’ इत्य- नेन गवां पदा ताडनं पापाधायकम् । अथ पदा स्पर्शमणिः प्रतिषेधति । एवं आपस्तम्बोऽपि ‘देवतानां राज्ञश्व ब्राह्मणस्य गोरिति पदोपस्पर्शनं वर्जयेत्’ इति ।
[[१५४]]
धर्माकूते
कारयित्वा महत्कर्म भर्ता भृत्यमनर्थकम् । अधर्मों यस्य सोऽस्यास्तु यस्यार्थोऽनुमते गतः ॥
अनेन कर्मकराणां भृत्यादाने महान्दोष इति सूचि- तम् । अत एव भृत्यानां भृतिदाने कालातिक्रमणेऽप्य- नर्थ उक्तः । सभापर्वणि ‘कालातिक्रमणाचैव भक्त- चेतनयोर्भूताः । भर्तुः कुप्यन्ति दौर्गत्या सोऽनर्थः सुम- हान्स्मृतः’ इति ॥
परिपालयमानस्य रानो भूतानि पुत्रवत् । ततस्तु द्रुह्यतां पापे यस्यार्योऽनुमते गतः ॥
इत्यनेन सम्यक्परिपालनं कुर्वतो राज्ञो द्रोहो न कर्तव्यः इति सूचितम् । आनुशासनिके ‘भर्तृपिण्डमुपाश्रन्यो राजद्विष्टानि सेवते । सोऽपि मोहसमापन्नो मृतो जायेत वानरः’ इति । गारुडपुराणे ऽपि ‘गुरुमिबद्रुहः पापा ये च स्वामिद्रुहो जनाः । अमेध्ये क्रिमयः सर्वे मृगव्याधा भवन्ति ते ॥
बलिषड्भागमुद्धृत्य नृपस्यारक्षतः प्रजाः । अधर्मो योऽस्व सोऽस्यास्तु यस्यायनुमते गतः॥
अयोध्याकाण्डः ।
[[१५५]]
इत्यनेन षड्भागं गृहीत्वा धर्मेण प्रजा अरक्षतो राज्ञो महान्दोष इति सूचितम् । तथा च मनुः - ’ अरक्षितारं राजानं बलिषड्भागहारिणम् । तमाहुः सर्वलोकस्य समग्रमलहारिणम्’ इति ॥
संश्रुत्य च तपस्विभ्यः सत्रे वै यक्षदक्षिणाम् । तां विप्रलपतां पापं यस्यार्योऽनुमते गतः ॥
इत्यनेन द्विजेभ्यः प्रतिश्रुत्य अदाने दोष इत्युक्तं भवति । तथा च माधवीये– ‘प्रतिश्रुत्य द्विजेभ्यश्च अदत्वा मद्दुको भवेत्’ इति । यज्ञे उपदिष्टदक्षिणाया अदाने प्रत्यवायो भवतीत्युक्तम् । तथा चापस्तम्बः— ‘योऽदक्षिणेन यज्ञेन स यज्ञः प्रक्षामो नायुरुपदयात् यथादिष्टां दक्षिणामन्तरि या दुर्वारा प्रतिष्ठिता या देया- सां प्रायश्चित्तिः’ इति ॥
उपदिष्टं सुसूक्ष्मार्थ शास्त्रं यत्नेन धीमता । स नाशयतु दुष्टात्मा यस्यार्थोऽनुमते गतः ॥
इत्यनेन सद्गुरुणोपादिष्ट वेदशास्त्रादिपरित्यागे प्रत्यवा-
D. Pt. v6
[[४५६]]
धर्माकूते
यो भवतीत्युक्तम् । तथा च मनुः - ‘ब्रह्मोन्झता वेदनि- न्हा कौटसाक्ष्यं सुहृद्वधः । गर्हिताना द्ययोर्जग्धिः सुरापानसमानि षट्’ इति ॥
पायसं कसरं छागं वृथा सोऽश्नातु निर्घृणः । गुरुश्चाप्यवजानातु यस्यार्थोऽनुमते गतः ॥
इत्यनेन पायसाद्युत्तमान्नं देवब्राह्मणादिभ्योऽदत्त्वा न भक्षणीयमित्युक्तं भवति । तथा च मनुः - ‘वृथा कसरसंयावं पायसापूपमेव च । अनुपाकृतमांसं च प्रयत्नेन विवर्जयेत्’ इति । गुरूंश्चाप्यवजानात्वित्यनेन गुर्वाद्यवमानं न कर्तव्यमिति सूचितम् । तथा च मनुः- ’ आचार्य मृत्विजश्चैव गुरूंश्चैव तपस्विनम् । मुनींश्चा- प्यवमन्यन्ते ते भवन्ति हि राक्षसाः ॥
[[6]]
गाश्च स्पृशतु पादेन गुरून्परिवदेत च । मिने दुह्येत सोऽत्यन्तं यस्यार्थोऽनुमते गतः ॥
इति गवां पादस्पर्शने दोषः । तथा चानुशासनिके- पादमुद्यम्य यो मर्त्यः स्पृशेद्राश्च सुदुर्मतिः । ब्राह्मणं वा
अयोध्याकाण्डः ।
[[४५७]]
महाभागं दीप्यमानं तथानलम् ॥ तस्य दोषान्प्रवक्ष्या- मि तच्छृणुध्वं समाहिताः । दिवं स्पृशत्यशब्दोऽस्य बश्यन्ति पितरच वै ॥ वैमनस्यं च देवानां कृतं भवति पुष्कलम् । पावकश्च महातेजा हव्यं न प्रति- गृह्णाति । आजन्मनां शतं चैव नरके पच्यते तु सः । निष्कृितिर्न च तस्यापि अनुमुह्यन्ति कर्हिचित् । तस्माद्वा- वो न पादेन स्पष्टव्या वै कदाचन । ब्राह्मणञ्च महातेजा दीप्यमानस्तथानः ॥ श्रद्दधानेन मर्त्येन आत्मनो हित- मिच्छता’ इति । गुरून्परिषदेत चेत्यनेन गुर्वादीनां तिर- स्कारो न कर्तव्य इति सूचितम् । तथा च पराशरः- ‘गुरुं स्वकृत्य हुकृत्य विप्रं निर्जित्य वादतः । अरण्ये निर्जले देशे भवति ब्रह्मराक्षसः’ इति । ‘मित्रे दुह्येत’ इत्यनेन मित्रद्रोहो न कर्तव्य इति सूचितम् - तथा च गारुडपुराणे - ’ गुरुमित्रद्रुहः पापा ये च स्वामिहो जनाः । अमेध्ये क्रिमयः सर्वे मृगव्याघ्रा भवन्ति ते ॥ " इति !
विश्वासात्कथितं किंचित्परिवादं मिथः क्वचित् । विवृणोतु स दुष्टात्मा बस्यार्थोऽनुमते गतः ॥
[[४५८]]
धर्माकूते
इत्यनेन विश्वासेन कथितं परिवादं न विवृणुयात् इति सूचितम् । तथा च सामविधानब्राह्मणे ‘गुह्यं प्रका- शयन्नधर्मभाक् भवति’ इति । आनुशासनिकेऽपि ‘वि- श्वासहर्ता तु नरो मीनो जायेत दुर्मतिः । भूत्वा मीनो ऽष्टवर्षाणि मृगो जायेत भारत’ इति ॥
पुत्रदारैश्च भृत्यैश्च स्वगृहे परिवारितः । स एको मृष्टमनातु यस्यार्थोऽनुमते गतः ॥ इत्यनेन पुत्रादिभिः परिवृतः तान्परित्यज्य स्वयमेव मृष्टानं नाभीयादिति सूचितम् । तथा च वामनपुराणे- बुभुक्षितेषु भृत्येषु य एकोऽश्नाति मानवः । श्वयोनिं स समासाद्य चण्डालो जायते नरः ॥’ इति ॥
अप्राप्य सहशान्दाराननपत्यः प्रमीयताम् । अनवाप्तक्रियाधर्मो यस्यार्थोऽनुमते गतः ॥
इत्यनेन सदृशदाराद्यप्राप्तिः पापस्य फलमिति सूचि- तम् । तथा च माधवीये - ’ अपकारं तु यः कुर्यादुपक- तरि यन्नरः । श्वासकासीज्जरीसर्वगात्ररोगी मृतप्रजः ॥ मृतपुत्रोऽथ वन्ध्यः स्याचो द्वेष्टि परसंततिम् ’ इति ।
अयोध्याकाण्डः ।
[[४५९]]
तत्र सदृशदारा प्राप्तौ मार्कण्डेयपुराणे— ‘ब्राह्मणः क्षत्रि यो वैश्यः स्ववर्णे पाणिसंग्रहम् । अकृत्वा त्वन्यजायायाः पतन्ति नृप संग्रहात् ॥
राजस्त्रीबालवृद्धानां बधे यत्पापमुच्यते । भृत्यत्यागे च यत्पापं तत्पापं प्रतिपद्यताम् ॥
इत्यनेन राजादिवधे भृत्यत्यागे च महान्दोष इत्युक्तं भवति । राजन्यवेरिहन्ता च तथैव गुरुतल्पगः । तप्तकुम्भे स्वस्रागामी हन्ति राजभटांश्च यः’ इति विष्णुपुराणे । तत्रैव, ‘स्त्रियं हत्वा तु दुर्बुद्धिर्यमस्य विषयं गतः । बहू- नकुशान्समासाद्य संसारांश्चैकविंशतिम् ’ ॥ इति । बाल- कन्यां यदा हन्यात्तदा तेनैव कारयेत् । शिशुं हत्वा पदा शूद्रो गर्भमानं यदा हरेत् । हस्तद्वयं तदा च्छित्वा निर्वा स्यो विषयाद्वहिः ।’ इति । भृत्यत्यागे आनुशासनिके भीष्मः - ’ उपाध्यायांश्च भृत्यांश्च भक्तांश्च भरतर्षभ । ये त्यजन्ति विकारां श्रीं ते वै निरयगामिनः ॥ ’ संग्रामे समुपोढे तु शत्रुपक्षभयङ्करे । पलायमानो वध्येत यस्यार्थोऽनुमते गतः ॥
[[૬૦]]
धर्माकूते
इत्यनेन शत्रु संमुखतयैव मर्तव्यं परावृत्य मरणे महान्दोष इति सूचितः । तथा च मनुः - ‘यश्चास्य सुकृतं किंचि- दमुत्रार्थमुपार्जितम् । भर्ता तत्सर्वमादत्ते परावृत्य इतस्य च’ इति !!
कपालपाणिः पृथिवीमटतां चीरसंवृतः भिक्षमाणो यथोन्मत्तो यस्यार्थोऽनुमते गतः ॥

इत्यनेन ब्रह्महत्याप्रायश्चित्तंसूचककपालपाण्यादिकथ- नात् ब्रह्महत्यादोषः सूचितः । तथा च मनुः– ‘ब्रह्महा द्वादशाब्दानि कुटीं कृत्वा वने वसेत् । भैक्ष्याश्यात्मनि- शुद्धयर्थं कृत्वा सर्वशिरोध्वजम् ’ ॥ हेमाद्रौ मार्कण्डेयः- अज्ञानाद्ब्राह्मणं इत्वा चीरवासा जटी भवेत् । स्वेनैव इतविप्रस्य कपालमपि धारयेत् ॥ तदभावे मुनिश्रेष्ठ क- पालं चान्यमेव वा । बन्याहारो भवेन्नित्यमेकाहारो मि- वाशनः ॥ तीर्थान्युपवस्त्रेश्चैव पुण्यक्षेत्राश्रमाणि च । यदि वन्येन जीवेत ग्रामे भिक्षां समाचरेत् ॥ ततः शुद्धिम- वाप्नोति ब्रह्महा रघुनन्दन ’ इति ॥
पाने प्रसक्तो भवतु स्त्रीपक्षेषु च नित्यशः ।
अयोध्याकाण्डः ।
कामक्रोधाभिभूतश्च यस्यार्थोऽनुमते गतः ॥

ET
इत्यनेन मद्यख्याद्यासक्त्या पापमित्युक्तं भवति । तथा च मनुः- स्त्रियोऽक्षा मृगपापानां वाक्पारुष्ये च पञ्चमम् । महच्च दण्डपारुष्यमर्थदूषणमेव च ॥ एता- न्दोषान्नरः प्राज्ञो बुद्धया बुद्धया विवर्जयेत्’ इति । काम- क्रोधयोस्तु गीतायाम् -‘त्रिविधं नरकस्येदं द्वारं ना- शनमात्मनः । कामः क्रोधस्तथा लोभः तस्मादेतत्रयं त्यजेत्’ इति ॥
मा स्म धर्मे मनो भूयादधर्म स निषेवते । अपात्रवर्षो भवतु यस्यार्थोऽनुमते गतः ॥
इत्यनेन धर्मे द्वेषः, अधर्मे स्नेहः, अपात्रे प्रदानं च पापफलमित्युक्तं भवति । तथा चानुशासनिके— ‘ये नास्तिका निष्क्रियाश्च गुरुशास्त्रातिलङ्घिनः । अधर्मज्ञा दुराचारास्ते भवन्ति गतायुषः ’ इति । अपात्रदानं प्रति- षेधति गौतम : – ’ प्रतिश्रुत्याप्यधर्मसंयुक्ते न दद्यात् ’ इति । मनुरपि - ‘न चाण्वपि प्रयच्छेत्तु बैडालव्रतिके द्विजे । न बकबतिके पापे नावेदविदि धर्मवित् ॥ त्रिष्व-


[[४६२]]
धर्माकूते
प्येतेषु दत्तं हि विधिनाप्यार्जितं धनम् । दातुर्भवेदनर्थाय परत्रादातुरेव च ॥ इति ॥
उभे संध्ये शयानस्य यत्पापं परिकल्प्यते । तच्च पापं भवेत्तस्य यस्यार्थोऽनुमते गतः ॥
इत्यनेन संध्ययोर्निद्रा न कर्तव्या इति सूचिता । तथा च मनुः - ‘नाश्नीयात्संधिवेलायां न गच्छेन्नापि संवि- शेत ।’ इति ॥
यदग्निदायके पापं यत्पापं गुरुतल्पगे । मित्रद्रोहे च यत्पापं तत्पापं प्रतिपद्यताम् ॥
इत्यनेन गृहादिदाहे महत्पातकं भवतीत्युक्तम् । तथा चानुशासनिके— ‘आश्रमे वा वने वापि ग्रामे वा नगरे पुरे । अग्निं समुत्सृजेन्मोहान्तं विद्याद्ब्रह्मघातकम् ॥ इति । गुरुतल्पगे माधवीये – ‘मनसापि गुरोर्भार्या यः शिष्यो याति पापकृत् । श्वयोनौ च स संभूतस्त्रीणि वर्षाणि जीवति । तत्रापि निरयं प्राप्तः क्रिमियोनौ प्रजायते ॥’ इति । मित्रद्रोहे पूर्वमेवोदाहृतम् ॥
,अयोध्याकाण्डः ।
[[४६३]]
देवतानां पितॄणां च मातापित्त्रोस्तथैव च । मा म कार्षीत्स शुश्रूषां यस्यार्योऽनुमते गतः ॥ इत्यनेन देवतादीनां शुश्रूषाविद्वेषे पापं भवतीति सूचितम् । तथा च मनुः - ’ तेषां त्रयाणां शुश्रूषा परमं तप उच्यते । अनादृतास्तु यस्यैते सर्वास्तस्याफलाः क्रियाः ॥ ’ इति ॥ ॥’
सतां लोकात्सतां कीर्त्याः सज्जुष्टात्कर्मणस्तथा । भ्रश्यतु क्षिप्रमद्यैव यस्यार्योऽनुमते गतः ॥
इत्यनेन सत्कर्मपरित्यागः पापाधायक इत्युक्तो भवति । तथा च माधवी - ‘देवकार्यमकृत्वा तु पितृकार्यमथापि वा । अनिर्वाय नरो ह्यवन्मृतो जायति वायसः ॥ ऋतुस्नातां सतीं भार्यामृतुकालानुरोधिनीम् । भतिवर्तेत दुष्टात्मा यस्यार्थोऽनुमते गतः ॥

इत्यनेन ऋतुकालाभिगमने दोष इत्युक्तम् । तथा च
याज्ञवल्क्यः — ’ ऋतुस्नातां तु यो भार्या संनिधौ नोप- गच्छति । घोरायां भ्रूणहत्यायां युज्यते नात्र संशयः ॥
इति !!
[[४६६]]
धर्माकूते
तृषार्त सति पानीये विप्रलम्बेन योजयेत् । यत्पापं लभते तत्स्याद्यस्यार्थोऽनुमते गतः ॥
इत्यनेन तृषार्तस्य पानीयविप्रलम्बो न कर्तव्य इस्यु - कम । तथा चानुशासनिके– ‘गोकुलस्य तृषार्तस्य जलार्थे वसुधाधिप । उत्पादयति यो विघ्नं तं विद्याद्ब्रह्म- घातकम् !!’ इति ॥
विहीनां पतिपुत्राभ्यां कौसल्यां पार्थिवात्मजः । एवमाश्वासयन्नेव दुःखार्तो निपपात ह तथा तु शपथैः क्लिष्टैः शपमानमचेतनम् । भरतं शोकसंतप्तं कौसल्या वाक्यमब्रवीत् ॥ मम दुःखमिदं पुत्र भूयः समुपजायते । शपथैः शपमानो हि प्राणानुपरुणत्सि मे ॥ दिष्टया न चलितो धर्मादात्मा ते सह लक्ष्मणः । वत्स सत्यप्रतिशो मे सतां लोकानवाप्स्यसि ॥
अनेन सर्गेण प्राप्तं संशयं शपथेनापि परिहरेदिति सूचितम् । तथा च बिसस्तैन्यसंशयः सप्तर्षिभिः शपथेन निवर्तित इति प्रतिपादितमानुशासनिके— ‘श्रमेण महता
,
अयोध्याकाण्डः ।
[[४६७]]
कृत्वा ते बिसानि कलापराः । तीरे निक्षिप्य पद्मिन्या- स्तर्पणं चकुरम्भसा । अथोत्थाय जलात्तस्मात्सर्वे ते समुपागमन् । नापश्यंश्चापि ते तानि बिसानि पुरुषर्ष- भाः । ऋषय ऊचुः – ‘केन क्षुधा परीतानामस्माकं पापकर्मणा । नृशंसेनापनीते बिसान्यां हारकाङ्क्षि- णाम् । ते शङ्कमानास्त्वन्योन्यं पप्रच्छुर्द्विजसत्तमाः ॥ ते ऊचुः समयं सर्वे कुर्म इत्यरिकर्शन । तदुक्त्वा बाढमि- त्येवं सर्व एव तदा समम् ॥ क्षुधार्ताः सुपरिश्रान्ताः शपथायोपचक्रमुः । अत्रिरुवाच – ‘स गां स्पृशतु पादेन सूर्ये च प्रतिमेहतु । अनध्यायेष्वधीयेत बिस- स्तैन्यं करोति यः । शरणागतं हन्तु सखं स्वसुतां चोपजीवतु ॥ अर्थान्कारक्षतु कीनाशाद्विसस्तैन्यं क- रोति यः । ’ कश्यपः सर्वत्र सबै लपतु न्यासलोप
करोतु च। कूटसाक्षित्वमध्येतु विसस्तैन्यं करोति यः । वृथा मांसाशनश्चास्तु वृथा दानं
यातु स्त्रियं दिवा चैव विश्वस्तन्यं
करोतु च 1
करोति यः । भरद्वाज उवाच - ‘नृशंसस्त्यक्तधर्मास्तु स्त्रीषु ज्ञातिषु गोषु च । ब्राह्मण्यं चापि जयतां बिसस्तैन्यं क-
धर्माकूते
रोति यः । उपाध्यायमधः कृत्वा ऋचोऽध्येतु यजूंषि च। जुहोतु च स कक्षानौ बिस्रस्तैन्यं करोति यः ॥’ जमदग्निरुवाच- ‘पुरीषमुत्सृजत्वप्सु हन्तु गां चैव द्रुतु । अनृतौ मैथुनं यातु विसस्तैन्यं करोति यः ॥ द्वेष्यो भार्योपजीवी स्याद्दूरबन्धुश्च वैरवान्। अन्योन्यस्या- तिथिश्चास्तु बिस्रस्तैन्यं करोति यः ॥ गौतमः – ‘अ- वीत्य वेदांस्त्यजतु त्रीनग्नीनपविध्यतु । विक्रीणातु तथा सोमं बिस्रस्तैन्यं करोति यः । विश्वामित्र उवाच - ‘जीबतो वै गुरून्भृत्यान्भरन्त्वस्य परे जनाः । अग- तिर्बहुपुत्रः स्याद्विसस्तैन्यं करोति यः । अशुचिर्ब्रह्मकू - टोऽस्तु ऋद्धया चैवाप्यहंकृतः । कर्षको मत्सरी चास्तु बिसस्तैन्यं करोति यः ॥ वर्षाचरोऽस्तु भृतको राज्ञ- श्चास्तु पुरोहितः । अयाज्यस्य भवेदृत्विग्बिसस्तैन्यं क- रोति यः ॥’ अरुन्धत्युवाच — ’ नित्यं परिभवेच्छुश्रूं भर्तु- भवतु दुर्मनाः । एका स्वादु समश्नातु विसस्तैन्यं करोति या ॥ ज्ञातीनां गृहमध्यस्था सक्तूनतु दिनक्षये । अभाग्यावीर शूरास्तु विसस्तेन्यं करोति या ॥’ गण्डो- वाच - ‘अनृतं भाषतु सदा बन्धुभिश्च विरुध्यतु ।
[[5]]
अयोध्याकाण्डः ।
[[४६९]]
ददातु कन्यां शुल्केन विसस्तैन्यं करोति या बाब- यित्वा स्वयं प्राश्यायस्य जीर्यतु चैव ह । विकर्मणा प्रमीयेत बिस्रस्तैन्यं करोति या ॥’ पशुसख उवाच- ‘दास एव प्रजायेतामप्रसूतिरकिंचनः । दैवतेष्वनमस्कारो बिस्रस्तैन्यं करोति या ।’ शुनसख उवाच - ‘अध्वर्यवे दुहितरं दातु छन्दोगे वा चरितब्रह्मचर्ये । अथवणं वेद- मधीत्य विप्रः स्नायीत वा यो हरते बिसानि ॥’ ऋषय ऊचुः ‘इष्टमेतद्द्विजातीनां योऽयं ते शपथः कृतः त्वया कृतं बिस्रस्तैन्यं सर्वेषां नः शुनः सखः ॥’ ‘न्यस्त- मद्य नपश्यद्भिर्यदुक्तं कृतकर्मभिः । सत्यमेतन्न मिथ्यैत- द्विसस्तैन्यं मया कृतम् । मया ह्यन्तर्हितानीह विसानि वा विपश्यत ॥ परीक्षार्थं भगवतां कृतमेतन्मयानघाः ’ इति । तथा पुष्करस्तन्ये भृग्वादिभिः शपथेन संशयो निवारित इति प्रतिपादितम् । तत्रैव ते निश्चितास्तत्र महर्षयस्तु संपश्यन्तो धर्ममेतन्नरेन्द्राः । ततोऽशपन्त शप- थान्पर्यायेण सहैव ते पार्थिवपुत्रपौत्रैः ॥ भृगुरुवाच

प्रत्यक्रोशे दिहाक्रुष्टस्ताडितः प्रतिताडयेत् । खादेश्च पृष्ठ- मांसानि यस्ते हरति पुष्करम् ॥’ वसिष्ठ उवाच- ‘आ-
धर्माकूते
स्वाध्याय परे लोके श्वानं च परिकर्षतु । पुरे च भिक्षु-
। भवतु यस्ते हरति पुष्करम् ॥’ कश्यप उवाच - सर्वत्र सर्व लपतु न्यासे लोभं करोतु च । कूटसाक्षित्वं च यातु यस्ते हरति पुष्करम् ॥’ गौतम :- ‘जीवत्वहंकृतो बुद्धया विषमेण समेन सः । कर्षको मत्सरी चास्तु यस्ते हरति ‘पुष्करम् ॥’ अङ्गिरा उवाच- ‘अशुचिर्ब्रह्मकूटस्तु श्वानं च परिकर्षतु । ब्रह्महा निकृतिश्चास्तु यस्ते हरति पुष्क- रम् ॥’ –
धुन्धुमार उवाच - ‘अकृतज्ञस्तु मित्राणां शूद्राणां च प्रजायतु । एकः संपन्नमश्नातु यस्ते हरति पुष्करम् ॥’ पुरुरुवाच - ‘चिकित्सायां प्रचरतु भार्यया चैव पुष्यतु । श्वशुरात्तस्य वृत्तिः स्यायस्ते हरति पुष्करम् । दिलीप उवाच - ‘उदपानप्लवे ग्रामे ब्राह्मणो वृषलीपतिः । तस्य लोकान्स व्रजतु यस्ते हरति पुष्करम्’ शुक उवाच - ’ वृथा मांसं समश्नातु दिवा गच्छतु मैथुनम् । प्रेष्यो भवतु राजश्च यस्ते हरति पुष्करम् ॥ जमदग्निरुवाच- ‘अनध्यायेष्वधीयीत मित्रं श्राद्धे च भोजयेत् । श्राद्धे शूद्रस्य चाश्नीयाद्यस्ते हरति पुष्करम् ॥ शिबिरुवाच- ‘अनाहिताभिश्रियतां यज्ञे विघ्नं करोतु
अयोध्याकाण्डः ।
[[४७१]]
[[2]]
च । तपस्विभिर्विरुध्येच यस्ते हरति पुष्करम् ॥’ यया- तिरुवाच – ‘अनृतौ व्रती जटी चैव भार्यायां स प्रजा- यतु । निराकरोतु वेदांश्च यस्ते हरति पुष्करम् ॥ नहुष उवाच - ‘अतिथिगृहसंस्थोऽस्तु कामवृत्तस्तु दी क्षितः । विद्यां प्रयच्छतु भृतेर्यस्ते हरति पुष्करम् ॥ नारद उवाच - ’ गृहज्ञानी बहिः शाखं पठतां विस्वरं पदम् । गरीयसोऽवजानातु यस्ते हरति पुष्करम् ॥’ ना- भाग उवाच - ‘अनृतं भाषतु सदा सद्भिश्चैव विरुध्यतु । शुल्केन कन्यां ददातु यस्ते हरति पुष्करम् ॥’ कबिरुवाच- ‘पद्भयां स मां ताडयतु सूर्ये च प्रतिमेहतु । शरणागतं संत्य- जतु यस्ते हरति पुष्करम् ॥’ विश्वामित्र उवाच- ‘करोतु भूतको वर्षो राज्ञश्चास्तु पुरोहितः । ऋत्विगस्तु झया- न्यस्य यस्ते हरति पुष्करम् ’ ॥ पर्वत उवाच - ’ आमे चाधिकृतः सोऽस्तु खरयानेन गच्छतु । शुनः कर्षतु वृत्यर्थं यस्ते हरति पुष्करम् ॥’ भरद्वाज उवाच- ‘सर्वपाप- समादानं नृशंसे चानृतेयतु । तत्तस्यास्तु सदा पापं यस्ते हरति पुष्करम् ॥’ अष्टक उवाच - ’ स राजास्त्वकृत- प्रज्ञः कामवृत्तस्तु पापकृत् । अधर्मेणाभिशास्तूर्वी यस्ते ह-
D. Pt. v-7
કર

धर्माकृते
रति पुष्करम् # १. गाल उवाच — ‘पापिष्ठेभ्यस्तु सो- ईिः स नरोऽस्तु स्वपाककृत् । दत्त्वा दानं कीर्तयतु यस्ते हरति पुष्करम् ॥’ अरुन्धत्युवाच- ‘श्वश्वापवादं वस्तु भर्तुर्भवतु दुर्मनाः । एका स्वादु समाश्रातु या ते हरति पुष्करम् ।’ वालखिल्या ऊचुः - ‘एकपादेन वृत्त्यर्थ प्रामद्वारे स तिष्ठतु । धर्मज्ञस्त्यक्तवर्मोऽस्तु यस्ते हरति पुष्करम् ॥’ शुनः स्रख उवाच – ‘अग्निहोत्रमनादृत्य स सुखं स्वपतु द्विजः । परिव्राट् कामवृत्तोऽस्तु यस्ते हरति पुष्करम्। सुरभ्युवाच - ‘वालजेन निदानेन कांस्य भवतु दोहनम् । दुह्येत परवत्सेन यस्ते हरति पुष्करम् ’ इति ॥
9.
षट्सप्ततितमे - ततः शोकसंतप्तहृदयो भरतः नायं केशकालः प्राप्तं कालमौर्ध्वदेहिकम् झटिति प्रक- त्र्त्यतामिति वसिष्ठानुज्ञया राजानं तैलसंरोधादुद्धृत्य रत्न- परिष्कृते शयनीये संवेश्य,
ऋत्विक्पुरोहिताचार्यांस्त्वरयामास सर्वशः ॥
अयोध्याकाण्डः ।
ये त्वग्नयो नरेन्द्रस्य अग्न्यागाराद्वहिताः । ऋत्विग्भिर्वाजचैव ते हिवन्त यथाविधि ॥
[[२०३]]
हरणाविधिमाहापास्तम्बः - ‘अथोल्मुकः प्रथमाः प्रतिपद्यन्ते न हीनमन्वाहरेयुः ’ इति । गौतमोऽपि - ‘पूर्वमग्निं संस्कर्ता मुक्तशिखः बम्यतः शवमनुपृष्ठ संभा- रानितरे’ । ततः शिविकायामारोप्य नीयमाने राजनि,
हिरण्यं च सुवर्णे च वासांस्याभरणानि च । प्रकिरन्तो राजमार्गे नृपतेरग्रतो ययुः ॥
ततश्चन्दनागरुकाष्ठैः सुनिचितां चितामधिरोप्य
तथा हुताशनं कृत्वा जेयुस्तस्य तदर्त्विजः । जगुश्च ते यथाशास्त्रं तत्र सामानि सामगाः ॥
सामगानकरणे गौतमः – ’ अथो प्रस्थानं नाके सुपर्णमिति प्रामे गायेत्, धूम उदिते त्वेषस्ते धूम ऋण- वीति, प्रज्वलिते अभे मृडमहां आखीति द्वाभ्यां भग- न्मज्योतिरिति च अनुगीतो ब्रह्मलोकमवाप्नोति वामदेव्यं
?!?

  • धर्माकूते
    त्रिचे गायेदिति । ततः समागतनारीणां सकरुणं विळ- पन्तीनां कौश्रीनामिव निनदश्रवणेन द्विगुणीकृतशोका. वेगो भरतः सरयूतीरमाजगाम ।
    कृत्वोदकं ते भरतेन सार्धं
    नृपाङ्गना मन्त्रिपुरोहिताश्च । पुरं प्रविश्यापरीतनेवा
    भूमौ दशाहं व्यनयन्त दुःखम् ॥
    अनेनाशौचिभिर्यावदाशौचं निवापाञ्जलिं प्रदाय अक्षारलवणाशनभूशयनादिनियमवद्भिः स्थेयमिति सू- चितम् । तथा च मनुः - ’ अक्षारलवणाः स्युर्निमज्जेयुश्च
    । ते त्र्यहम् । मांसाशनं तु नाश्रीयुः शयीरंश्व पृथक् क्षितौ’ इति । बोधायनोऽपि - ‘ज्योतिष्कृत्वागारं
    । प्रविशन्त्येक रात्रमुपोष्य तेषामचारलवण भोजनमधः शयनं ब्रह्मचर्यमा दशरात्रात्’ इति । प्रेतपल्या विशेषमाहा- पस्तम्बः ‘यावज्जीवं प्रेतपत्नी ब्रह्मचर्य क्षारलवणवर्जनं ’ इति । मनुरपि - ‘आसीता मरणात्क्षान्ता नियता ब्रह्मचारिणी’ इति । संग्रहेऽपि विधवाधर्माः -
    अनुअयोध्याकाण्डः ।

    co
    याति न भर्तारं यदि दैवात्कथंचन तथापि शीलं संरक्ष्यं शीलभङ्गात्पतत्यथः ॥ तद्वैगुण्यादपि स्वर्गात्पतिः पतति नान्यथा । तस्याः पिता च माता च भर्तृवर्गस्तथैव च ॥ पत्यौ मृते च या योषिद्वैधव्यं पालयेत्कचित् । सा पुनः प्राप्य भर्तारं स्वर्गभोगान्समश्नुते ॥ विधवाकबरीबन्धो भर्तृबन्धाय जायते । शिरखो वपनं तस्मात्कार्य विधवया सदा ॥ एकाहारः सदा कार्यो न द्वितीयः कदाचन । त्रिरात्रं पञ्चरात्रं वा पक्षव्रतमथापि वा ॥ कृच्छ्रं पराकं वा कुर्याचान्द्रायणमथापि वा । यवान्नैर्वा फलाहारैः शा- काहारैः पयोव्रतैः । प्राणयात्रां प्रकुर्वीत यावत्प्राणः स्वयं व्रजेत् ॥ पर्यङ्कुशायिनी नारी विधवा पातयेत्पतिम् । तस्माद्भूशयनं कार्य पतिसौख्यसमीहया ॥ नैवाङ्गोद्वर्तनं कार्य स्त्रिया विधवया क्वचित् । गन्धद्रव्यस्य संयोगो नैव कार्यस्तथा पुनः ॥ विष्णोस्तु पूजनं कार्ये पतिबुद्धधा च नान्यथा । पतिमेव सदा ध्यायेद्विष्णुरूपधरं शिवम् ॥ यद्यदिष्टतमं लोके यच पत्युः समाहितम् । तत्तद्रूणवते देयं पतिप्रीणनकाम्यया ॥ नाधिरोहेदनाहं प्राणैः कण्ठग• तैरपि । कञ्चुकं न परीदध्याद्वासो न विकृतं वसेत् । अष्पृष्ट्व
    -२७६
    धर्मा
    च सुतान्किंचिन कुर्यात्परा । एवं चर्यापरा नित्यं विव- वापि शुभा मता । एवं धर्मसमायुक्ता विश्ववापि पति- व्रता । पतिलोकमवाप्नोति न भवेत्कापि दुःखिता ॥ न गङ्गया तथा भेदो या नारी पतिदेवता । उमा शिव- समा साक्षात्तस्मात्तां पूजयेदुधः ॥ ’ हरिवंशे - पतिं संकल्पयित्वा चित्रस्थं वापि मृण्मयम् । तस्य पूजां सदा कुर्यात्सतां धर्ममनुस्मरन्’ इति । मार्कण्डेयपुराणे तु तिलोदक पिण्डदानशयनादीनां फलविशेषोऽपि प्रति- पादितः । तत्र यद्वान्धवास्तोयं प्रयच्छन्ति तिलैः सह । यच पिण्डं प्रयच्छन्ति नीयमानस्तदनुते ॥ भूमौ स्वप- द्विर्नात्वर्य केशमाप्नोति बान्धवैः । दानं ददद्भिश्व तथा जन्तुराप्यायते तथा ॥ तैलाभ्यङ्ग बान्धवानां गात्रसंवा- हेनं स पश्यति । उपभुङ्क्ते तथा दन्तं तोयपिण्डोदकं भुवि ’ इति ॥ सप्तसप्ततितमे-
    ततो दशा विगते कृतशौचो नृपात्मजः । द्वादशेऽहनि संप्राप्ते श्राद्धकर्माण्यकारयत् ।
    अत्र ‘द्वादशेऽहनि श्राद्धकर्माण्यकारयत्’ इत्येतत्
    अयोध्याकाण्डः ।
    संस्कारात्प्राक् तैलद्रोण्यामनेकदिन संस्थापितस्यापि त- स्थापि आहिताग्नित्वात् संस्कार दिवसमारभ्येति ज्ञेयम् । तथा च उशना ’ दाहाद्याशौचं कर्तव्यं द्विजातीनामग्नि- होत्रिणां सपिण्डानां तु मरणे मरणादीतरेषु ‘व’ इति । पैठी- नसीरपि - ‘अनग्निमत उत्क्रान्तेराशौचादि द्विजातिषु । दाहादभिमतो विद्याद्विदेशस्थे मृते सति’ इति । ब्राझेऽपि - दाहादेव तु कर्तव्यस्तस्य वैतानिको विधिः’ इति । ननु- ‘शुद्धो विप्रो दशाहेन द्वादशाहेन भूमिपः । कैयः पञ्चदशाहेन शूद्रो मासेन शुध्यति ।’ शावमाशौ- चदशरात्रमनृत्विक दीक्षितब्रह्मचारी सपिण्डानामेका- दशरात्रं क्षत्रियस्य द्वादशरात्रं वैश्यस्यार्धमासमेकमासं शूद्र- स्व’ इति मनुगतमवचनपर्यालोचनया क्षत्रियाणामेका- दशाहद्वादशाहपर्यन्तसूतकस्य विद्यमानत्वेन तदनन्तर- मेव सूतकनिवृत्तिदर्शनात्, ‘ततो दशाहेंऽतिगते कृतशौचो नृपात्मजः’ इति कथमुक्तमिति चेन्न सर्वेषामेव वर्णानां सूतके मृतके तथा । दशाहाच्छुद्धिरेतेषामिति शातातपोऽब्रवीत्’ इति शातातपवचनपर्यालोचनया सर्व- वर्णसाधारण्येन दशाहानन्तरमेव सूतकनिवृत्त्यवगमेन
    [[४७८]]
    धर्माकूते
    तदभिप्रायकत्वेन विरोधाभावात् । द्वादशेऽहनि कर्तव्य- श्राद्धानि च सपिण्डीकरणादीनि इति ज्ञेयमिति । ब्राह्मणेभ्यो ददौ रत्तं धनमत्रं च पुष्कलम् । वासांसि च महार्हाणि रत्नानि विविधानि च । हास्तिकं बहु शुल्कं च गाश्चापि शतशस्तथा ! दासीदासं च यानं च वेश्मानि सुमहान्ति च । ब्राह्मणेभ्यो ददौ पुत्रो राशस्तस्यौर्ध्वदेहिकम् ।
    अनेन परलोकं गतस्योत्तम लोकप्राप्त्यर्थ दानानि क- र्तव्यानि इति सूचितम् । अत एव धृतराष्ट्रेण परलोक- गतान्भीमादीनुद्दिश्य दानानि कृतानि इति प्रतिपादि- तमाश्रमवासिके पर्वणि ‘ततोऽभिरूपान्भीष्माय ब्रा- ह्मणानृषिसत्तमान् । पुत्रार्थे सुहृदश्चैव स समीक्ष्य सह- स्रशः । कारयित्वान्नपानानि यानान्याच्छादनानि च । सुवर्णमणिरत्नानि दासीदासमजाविकम् । कम्बलानि च रत्नानि प्रामान्क्षेवानजाविकान् ॥ सालंकारान्गजान- श्वान्कन्याश्चैव वरस्त्रियः । उद्दिश्योद्दिश्य सर्वेभ्यो ददौ स नृपसत्तमः । द्रोणं संकीर्त्य भीष्मं च सोमदत्तं च माह्निकम् । दुर्योधनं च राजानं पुत्रांश्चैव पृथक् पृथक् ॥
    अयोध्याकाण्डः ।
    [[१७९]]
    जयद्रथपुरोगांश्च सुहृदश्वापि सर्वशः । स श्राद्धयज्ञो ववृधे बहुशो धनदक्षिणः ॥ अनेकधनरत्नौघो युधिष्ठि- रमते तदा । इति । ततस्त्रयोदशे दिवसे चितासंशो- वनार्थमुपगतोऽतिदुःखितो भरतः

दृष्ट्वा भस्मारुणं तच्च दग्धास्थिस्थानमण्डलम् । स तु दृष्टा रुदन्दीनः पपात धरणीतले । तमवलोक्य भगवान्वसिष्ठ एवमवोचत्- त्रयोदशोऽयं दिवलः पितुर्वृत्तस्य ते प्रभो । सावशेषास्थिनिचये किमिह त्वं विलम्बसे ॥
नन्वत्र त्रयोदशे दिवसे अस्थिसंचयनं कर्तव्यत्वेन प्रतीयते तदनुपपन्नम् ’ अपरेद्युस्तृतीयस्यां पञ्चम्यां सप्त- म्यां वा अस्थीनि संचिन्वन्ति’ इत्यापस्तम्बसूत्रेण द्वितीय- पञ्चमसप्तमदिनेष्वेव कर्तव्यत्वेन प्रतिपादितस्य अस्थिसं- चयनस्य त्रयोदशेऽहनि कर्तुमशक्यत्वादिति चेन्न । द्वि- सीयादिदिवसेषु अस्थि संचयनस्य कर्तव्यत्वेऽपि तच्छेष- भूतलोष्टचयनस्य त्रयोदशे दिवसे करणसंभवात् लोष्ट- चयनस्यसं चयनशेषत्वं त्रयोदश दिनकर्तव्यत्वं चाहापस्त
धर्माभूते
स्वः- ‘दिष्टगमनादयुक्ष्वहः सु अर्धमासमासकर्तृषु संवत्सरे वा निदधाति’ इति । अत्र कपर्दिभाष्यम् - दिष्टगमनं दश- ममहः तस्मादयुत्तु विषमेष्वहः सु अहोरात्रेषु तस्मादेकाद- शाहप्रभृति तदहे पथ्याहे अयुतु अर्धमासप्रभृतिषु वा निदधाति कोचितं करोतीत्यर्थः । केचिद्दिष्टगमनं त- स्मादयुत्तु इति तदनुपपन्नम् । दशाहे अन्यकर्म श्रवणात् अन्यच विरुद्धम् । दानप्रतिग्रहणे प्रतिषिध्येत इति धर्मशास्त्रे तथा भोजनं च । तस्माद्दशरावेऽतीत एव इति । अतः संचयनशेषभूतलोष्टचयनस्य त्रयोदशो दि- बसः काल एवेति न किंचिदनुपपन्नम् ।
श्रीणि द्वन्द्वानि भूतेषु प्रवृत्तान्यविशेषतः । तेषु चापरिहार्येषु नैवं भवितुमर्हसि ॥
इति भरतं परिसान्त्य सावशेषं क्रियाकलापं कारया- मास । अनेन केशसमये महद्भिः शोकपरिहारोपयोगि- नीभिः कथाभिः समाधानं कर्तव्यमिति सूचितम् । तथा च याज्ञवल्क्यः– ‘कृतोदकान्समुत्तीर्णान्मृदुशाड़- संस्थितान् । स्नातानपवदेयुस्ता नितिहासैः पुरातनैः ॥
अयोध्याकाण्डः ।
[[1]]
मानुष्ये कदलीस्तम्भनिःसारे सारमार्गणम् । करोति यः स संमूढो जलबुदुदसंनिभे ॥ पञ्चधा संभृतः कायो योऽयं पञ्चत्वमागतः । कर्मभिः स्वशरीरस्यैस्तन का परिदे- वना । गन्त्री वसुमतीनाशमुदविर्देवतानि च ॥ फेन- प्रख्यः कथं नाम मर्त्यलोके प्रयास्यति । कात्यायनो- Sपि एवं कृतोदकान्सम्यक् सर्वान् शाडुसांस्थितान् । आप्लुतान्पुनराचान्तान्वदेयुस्त्वनुयायिनः ॥ मा शोकं कुरुतानित्ये सर्वस्मिन्प्राणधर्मिणि । धर्म कुरुत यत्नेन यो वः सह करिष्यति ॥ शोके दोषोऽपि याज्ञवल्क्येन दर्शितः– ‘लेष्माश्रुर्बान्धवैर्मुक्तं प्रेतो भुङ्क्ते यतोऽवशः । अतो न रोदितव्यं हि क्रियाः कार्याः प्रयत्नतः’ इति ॥ अष्ट- सप्ततितमे ततः सकलमरणराम विवास ननिदानभूतां
सकलमरणरामविवास विचकर्ष तदा कुब्जां क्रोशन्ती धरणीतले । स बली बलवत्क्रोधाद्गृहीत्वा पुरुषर्षभः । कैकेयीमभिनिर्भर्त्स्य बभाषे परुषं वचः ।
अथ भरतः शत्रुघ्नवचनश्रवणसमनन्तरमेव भयच- किस हृदयां शरणमभिकाङ्क्षन्ती कैकेयीमवलोक्य तामि- दमवोचत् ।
સર
धर्माकूते
अवध्याः सर्वभूतानां प्रमदाः क्षम्यतामिति । हम्यामहमिमां पापां कैकेयीं दुष्टचारिणीम् ॥ यदि मां धार्मिको रामो नासूयेन्मातृघातकम् । इमामपि हतां कुब्जां यदि जानाति राघवः । त्वां च मां च हि धर्मात्मा नाभिभाषिष्यते ध्रुवम् ।
"
इति । तद्वचनाच शत्रुघ्नेन परित्यक्तां मन्थरां कैकेयी समाश्वासयति स्म ॥ एकोनाशीतितमे ततः प्रव्राजिते रामभद्रे दिवमारूढे दशरथे शरणमभिकाङ्क्षमाणानस्मा- न्परिपालयितुमात्मानमभिषेचयेति वदतो राज्यकर्तृव्ज- नान्बहुप्रकारमुपालभ्य प्रदक्षिणीकृत्य चाभिषेचनिकं भा- ण्डं वनगमनकृतनिश्चयो भरतः
ज्येष्ठस्य राजता नित्यमुचिता हि कुलस्य नः । नैषं भवन्तो मां वक्तुमर्हन्ति कुशला जनाः ॥ रामः पूर्वो हि नो भ्राता भविष्यति महीपतिः । अहं त्वरण्ये वत्स्यामि नव वर्षाणि पञ्च च ॥ आनयिष्याम्यहं ज्येष्ठं भ्रातरं राघवं वनात् ।
इत्यभिधाय मार्गसमीपकरणाय चतुरं शिल्पवर्गम-
अयोध्याकाण्डः ।
[[૪૮૩]]
चिरादेव प्रेषयामास । राज्यकर्तारोऽपि भरतवचनमा-
कर्ण्य
एवं ते भाषमाणस्य पद्मा श्रीरुपतिष्ठताम् । यस्त्वं ज्येष्ठे नृपसुते पृथिवीं दातुमिच्छसि । इत्यवदन् ॥ अशीतितमे - तदनु भरत निदेशेन भूप्रदेशाभिज्ञैः खनकयन्त्रककर्मान्तिक वर्ष किवृक्षतक्षक कू- पकारसुधाकारादिभिर्विविधशिल्पिभिर्निम्नोन्नतधरणी- सरणिसमीकरणाय टकुलवित्रखनित्रपरशुकुद्दाला दिविवि- वायुधैः पुरः प्रस्थापितैः कचिदति गहन गुल्मलतापाषा- जानुच्छिन्दद्भिः कचिदवृक्ष क्षितिभागे क्षणेन वृक्षानुप- क्षिपद्भिः कचन पांसुपटलैरदभ्रकूपश्वभ्राणि पूरयद्भिः कच- न समुज्जृम्भमाणाम्भोनिधिसंभ्रमकारिणो जलाशयान् खनद्भिः समीकृतः तत्र तत्र च नवविधविमलतरमणि- गणविरचितकुट्टिम प्रदेशभूषितः, दरविकसितकुसुम समु- दयसमुदयदनुपम बहलपरिमल परिमिलद लिकुलदलितनव- किसलयनिवहरुचिरतरूपटलजटिलः, कचिदमन्दचन्दन- जलसं सेकसुर भिलः, तत्र तत्र च विरचितविशाल संनिवेश- मण्डपः, कचिदम्बरचुम्बिसौधशिखरसमासक्तपताकापव-
धमभूते
नकम्पिततारकगणः, शुभशिल्पिनिर्मितो नरेन्द्रमार्गः स- मधिकं विरराज ॥ एकाशीतितमे – ततः प्रभाते यथापून स्तुवतां सूतमागधवन्दीनां सुवर्णकोणाभिहतानां दुन्दु- भीनां वीणावेणुमृदङ्गादिमङ्गलवाद्यानां च शब्दश्रवणेन द्विगुणशोक संतप्तान्तःकरणो भरतः ‘नाहं राजोपचार- योग्यः’ इति ससंभ्रममुत्थाय मन्त्रिजनसमाकीर्णा शात- कुम्भस्तम्भखचितरनकिरण समुद्दयोतितामपरामित्र सुध- म धर्मात्मा समां समाजगाम । दूयशीतितमे - तस्यां च सभायां काञ्चनमयं सुखास्तरणसंवृतमाखनमध्या- सीनो भरतः सकलजगती संरक्षण विचक्षणस्त्वमात्मान- मभिषिच्य सातङ्कं महीमण्डलं निरातङ्कं कर्तुमईसीति कुछपुरोहितेन वसिष्ठेन समुदीरितं वचनमाकर्ण्य सवा- ष्पकण्ठमिदमभाषत -
चरितचर्यस्य विद्यास्नातस्य धीमतः । धर्मे प्रयतमानस्य को राज्यं मद्विधो हरेत् ॥ कथं दशरथाज्जातो भवेद्राज्यापहारकः । राज्यं चाहं च रामस्य धर्मे वक्तुमिहार्हसि ॥अयोध्याकाण्डः ।
मनार्यजुष्टमस्वर्ग कुर्यो पापमहं यदि । इक्ष्वाकूणामहं लोके भवेयं कुलपांसनः ॥
સુપ
तदलमनेन निरर्थकसमारम्भेण मार्गसमीकरणाय प्रागेव प्रस्थापिता विष्टकर्मान्तिकाः तदधुनैव चतुरङ्गन
परिवारेण रामानयनाय वनगमनमेव समीहन्ताम् इत्व- भिधाय सकलबलोयोजनाय सुमन्त्रं प्रेषयामास । य- शीतितमे - ततः प्रभातायां शर्वर्यामुदिते च दिनकर- मण्ड के सज्जं रथवरमास्थायाभिप्रयान्तं भरतं मन्त्रिपुरो- धसः उत्तमाधोपेतान्स्थानास्थायाप्रतः प्रययुः पृष्ठतश्च रामानयन संजातहर्षाः कौसल्या कैकेयी सुमित्रादिमातरः समाजग्मुः । अन्वगेव पौरजानपदाः सकलकलाकुशलाः कर्मान्तिकाश्च निर्ययुः । एवं महान्तमध्वानं परिक्रम्य क्रमेण च गङ्गामासाद्य रमणीये शृङ्गिबेरपुरे सचिवा- नुमत्या सेनानिवेशं कारयामास ॥ चतुरशीतितमे- अथ शृङ्गिवेरपुरेश्वरः निषधाधिपतिर्गुहः गङ्गातीरे परि- सरवर्तियां कोविदारध्वजं भरतरथमवलोक्य ’ किमयं निःसपत्नां राज्यश्रियमभिलषन्, वनवासिनावपि रामल- क्ष्मणौ हन्तुमायाति आहोस्विदस्मदहितमाचरिष्यति उत
જર્
धर्माकूते
दाशान्वा बाधितुमयमुयोगः तद्यावदेव नायमभिपताल तावदेव संनद्धेन मया भवितव्यमिति निश्वित्य प्रत्येकं कैवर्तशत संकुलां नौकापभ्वशतीमत्रैव संनिधापयत ।
यदा दुष्टस्तु भरतो रामस्येह भविष्यति । नेयं स्वस्तिमती लेना गङ्गामद्य तरिष्यति ॥ इति स्वीयजनानाज्ञाप्य मधुमांसाद्युपायनानि चादाय
अभिचक्राम भरतं निवादाधिपतिर्गुहः ।
अनेन पूज्यानां दर्शनं रिक्तहस्तेन न कर्तव्यमिति सूचितम् । तथा च भारते - ’ धर्ममर्थ च कामं च वितयं योऽभिकाङ्क्षति । रिक्तपाणिर्न पश्येत राजानं देवतं गुरुम्’ इति । सुमन्त्रस्तु दूरादेव समायान्तं गुहं भरताय निवेदयामास । अथ कृताञ्जलिर्गुहः सविनय- मुपसृत्य राजन् तवायं देशः, वयमपि भवदीया एव समुपाहृतं कन्दमूलफलमुच्चावचमाशुष्क मांसं चाङ्गीकृत्य अत्रैव विभावरीं नीत्वा श्वः काल्यमाप्रतो गन्तासीति सादरमभाषत ॥ पश्चाशीतितमे - अथ निषादाधिपत्यु- दीरितवचनमाकर्ण्य समुपाहृतमुपायनमभिनन्द्य गहनोऽयं
अयोध्याकाण्डः ।
[[४८७]]
देशः गङ्गानूपो दुरत्ययः कतरेण पथा भरद्वाजाश्रमगमनं तदाख्यातु भवानित्यवदत् । तद्वचनश्रवणसमनन्तरं प्र- यानिलसमाहतोर्मिमालासमाकुलेव ते सेना महतीं शङ्कां जनयति । यदि रामभद्रे न दोषमभिलषसि तदा अहमेव धन्विनः सुसमाहितान्दाशान्पुरस्कृत्य त्वामनुगमिष्यामि तद्विस्पष्टमाख्यातु भवानित्यभिभाषमाणं गुहम् अतिनि- र्मलान्तःकरणो भरतः एवमब्रवीत् ।

राघवः स हि मे भ्राता ज्येष्ठः पितृसमो मतः । तं निवर्तयितुं यामि काकुत्स्थं वनवासिनम् ॥
बुद्धिरन्या न ते कार्या गुह सत्यं ब्रवीमि ते । इति तद्वचनसमाकर्णन संजातसंतोषो गुहः
धन्यस्त्वं न त्वया तुल्यं पश्यामि जगतीतले । अयनादागतं राज्यं यस्त्वं त्यक्तुमिहेच्छसि ॥ शाश्वती खलु ते कीर्त्तिलोंकाननुचरिष्यति । यस्त्वं कृच्छ्रगतं रामं प्रत्यानयितुमिच्छासे ॥ इत्येवमभिभाषमाणयोस्तयोः
D. Pt. v-8
*
धर्माकूते
बभौ नष्टभ्रमः सूर्यो रजनी चाभ्यवर्तत । षडशीतिप्रभृतिनवतिपर्यन्तम् – ततो गुहमुखेना- वगतरामवृत्तान्तो भरतः तत्रैव तां रजनीमतिवाह्याप्र- भातायां शर्वर्थी गुहानीतपञ्चशत नौका समुत्तारितसक- लसेनागणः स्वयमपि गङ्गां समुत्तीर्य समभिगम्य प्रया- गवनं भरद्वाजाश्रमं दृष्ट्वा क्रोशादेव नरर्षभः बलं सर्व- मवस्थाय जगाम सह मन्त्रिभिः ।
}
पद्भ्यामेव हि धर्मशो स्वशस्त्रपरिच्छदः । वसानो वाससी क्षौमे पुरोधाय पुरोहितम् ॥
ततः संदर्शने तस्य भरद्वाजस्य राघवः । मन्त्रिणस्तानवस्थाप्य जगामानुपुरोहितम् ॥
अनेन राज्ञा तपोवनानि विनीतवेषेणैव पुरोहितं पुर- स्कृत्य प्रवेष्टव्यानीति सूचितम् । तथा चादिपर्वणि शकुन्त- लोपाख्याने दुष्यन्तः - ‘ध्वजिनीमश्वसंबाधां पदाति- जनसंकुलाम् । अवस्थाप्य वनद्वारि सेनामिदमुवाच सः ॥ मुनिं विरजस्रं द्रष्टुं गमिष्यामि तपोवनम् । काश्यपे स्थी- यतामत्र यावदागमनं मम ॥ सामात्यो राजलिङ्गानि प्रो.
अयोध्याकाण्डः ।
[[४८९]]
ऽपनीय नराधिपः । पुरोहितसहा यश्च जगामाश्रममुत्तमम् इति । अथ भगवान् भरद्वाजः समागतौ वसिष्टमरतावभि- गम्य संपूज्यासनपाद्यादिभिः आपृच्छ्य च कुशलम्, स- मासीनं भरतं चावलोक्य, शत्रुशेषमुन्मूल्य निःसपत्नां राज्यश्रियमभिलषत इव चतुरङ्गबलपरिवृतस्य भवतः स मागमनमतितरां संशयमुत्पादयति तद्विस्पष्टमाचक्ष्वेत्यव- दत । तदाकर्ण्य कलुषितान्तःकरणो भरतो महर्षिमेव- मन्त्रवीत् ।
अहं तु तं नरव्याघ्रमुपयातः प्रसादकः । प्रतिनेतुमयोध्यां च पादौ तस्याभिवन्दितुम् ॥
त्वं मामेवंगतं मत्वा प्रसादं कर्तुमर्हसि । इति ।

ततो धार्मिकमरतवचनाकर्णन संजातहर्षो महर्षिः, ककु- स्थकुलसंभवस्य तव धर्मानपेतबुद्धिविभवं जानन्नेव तद्दृढी- करणाय मयेदमुक्तं तदत्रैव निशीथिनीमपनीय श्वः समीहितं कुर्वित्यवदत् ॥ एकनवतितमे - इति बहुतरादर- मेदुरवचसस्तस्यानतिलङ्घनीयशासनस्य भगवतो महामुने- भरद्वाजस्य वचनैः समुदितप्रमोदतरङ्गितान्तरङ्गः तत्प्र-
૪૩.
धर्माकूते
सादलाभरतो भरतो महानयमस्माकमनुग्रह इति तदाश्रम एव तन्निशानिवासाय मतिं चकार ।
कृतबुद्धिं निवासाय तत्रैव स मुनिस्तदा । भरतं कैकेयीपुत्रमातिथ्येन न्यमन्त्रयत् ॥
तदनु तदनुगतजनभोजन संविधानसमुज्जृम्भितं संर- म्भमवलोक्य विनयावनतेन भरतेन भगवन्नलमलममुना महता भवदपूर्वोपचाररचनेन । ननु वयं भवत्कृतायेपा. द्यायुपचारेण पुण्यारण्यवाससुलभैः कन्दमूलफलैरपि मधुरमधुरसस्राविण्या भगवतो वाण्या च संप्राप्तातिथ्य- सत्कार एव । तदलमनयोपचारयन्त्रणयेति बहुधा प्रत्या- ख्यातोऽपि प्रख्याततपा भरद्वाजः प्रहसन्निदमवादीत् !
जाने त्वां प्रीतिसंयुक्तं तुभ्येस्त्वं येन केनचित् । सेनायास्तु तवैतस्याः कर्तुमिच्छामि भोजनम् ॥
अनेन समागतस्य राज्ञः सानुचरस्यैव आतिथ्यं कर्त - व्यमिति सूचितम् । तथा च तैत्तिरीयश्रुतिः – ’ याव द्भिर्वै राजानुचरैरागच्छति सर्वेभ्यो वै तेभ्य आतिथ्यं
अयोध्याकाण्डः ।
[[४९१]]
क्रियते ’ इति । ऐतरेय ब्राह्मणेऽपि - ‘यावन्तः खलु वै राजानमनुयान्ति तेभ्यः सर्वेभ्य आतिथ्यं क्रियते ’ इति । तदधुना विपुलरथगजतुरगपदातिसमूहांततां चमूमप- हाय किमिति परिमित परिजनेन सह समागतोऽसीति वदन्तं भगवन्तं भरद्वाजम् ।
भरतः प्रत्युवाचेदं प्राञ्जलिस्तं तपोधनम् । ससैन्येनोपयातोऽस्मि भगवन्भगवद्भयात् ॥

राज्ञा च भगवन्नित्यं राजपुत्रेण वा सदा । यक्षतः परिहर्तव्या विषयेषु तपखिनः ॥ तदमी दृढतररथचरणरयभरविरचितधरणीस्यन्दनाः स्यन्दनाः, संचरदवनिधर समुन्नतिशिखरिशिखर सौभाग्य- गलहस्तिनो मदहस्तिनः पटुतरसादिजनकलितविविध- गतिशिक्षानुरूपचतुरगाश्च तुरगाः, निजभुजयुगल समा- जितयशः संपत्तयः पत्तयश्व, निखिलमपि महीवलयमा- वाद्य स्वच्छन्दमुञ्चलन्तः भैरवपरित्रासितविविधवन्य- सत्त्वाः चिरपरिवर्धिततरुनिकरपरिभवेण निखिल तपो- धन सज्जनमज्जनादिसाधन विमलसरोवर परिसरोपरोधेन कु-
धर्माकूते
शतृण विटपिविटपघटितोटजपाटनेन च भगवदाश्रमोपद्रवं विधास्यन्तीति दूरत एव तान्निधाय कतिपयपरिवारेण भगवद्भ्यामभ्यगांमिति वदन्, सहसा समानयेति तेन मुनिना समाज्ञप्तः क्षणेन तद्वढं समाचकर्ष । अथ किल भगवानाङ्गिरसकुलावतंस्रो महर्षिरङ्गीकृतातिथ्य निमन्त्रणे भरते तदनुगत विपुलबलविविधान्नपानादिसंतर्पणाय दर्पण- विमलाशयः सम्यगाचम्य सौम्याननः समुज्जलदुज्जलज्व- लनत्रयज्वालाविनिःसरदच्छत रच्छ विच्छुरितदशदिशाव- काशाम्, अनवरतहुतहव्यां हव्यभागग्रहणागतशत मखमुख मखाशनधाविताम्, उपरितनभागविलसलदृस्थलस्थापित-’ विविध समित्कुश पलाशशाखा भरदृढल नपृषदाज्य घूम रेखा- मू, दर्शनमात्रेणैव सकलपापापनोदिनीं विशालाममिशालां प्रविश्य विचित्रकर्म निर्माणालंकर्माणं विश्वकर्माणम् अ- नल्पशिल्पकल्पन पारावारपारद्रष्टारं त्वष्टारम्, अन्यानपि शतमन्युपुरोगमानुपहरे समाहूयन्, समाधिंगतो मुनि- रित्थं विदथ्यौ । याः किल क्षित्यन्तरिक्षयोः प्राक्प्रत्य- क्प्रवाहिन्यो वाहिन्य इहैकमत्यमित्यागत्य काश्चन सृ- जन्तु मैरेयं काश्वन परिस्रवन्तु मधुरां सुरां काश्चन वहन्तु
अयोध्याकाण्डः ।
स्खण्डितपुण्ड्रकाण्डविनिस्रुत रसलह रिमाधुरीचोदकं चो- दकम् अपि च मया समाहूता विश्वावसुहाहाहूहूप्रभृतयः सर्वेऽपि देवगन्धर्वाः घृताचीप्रमुखाश्चाप्सरोगणाः, ना- गदन्तादिमा गन्धर्वसुन्दर्यः पुरन्दरपुरालयाः सरसि रुहासनसदनगताश्च दिव्यवारवनिताः सर्वा अपि तुम्बु- रुणा सह मदाश्रम एव सहसा समायान्तु यच्चोत्तरासु कुरुभूमिषु दिव्यवसनभूषणपत्रहृद्यमुद्यानं यदपि च राज- राजपुरोपकण्ठे दिव्यनारीफलम् अतिमृदुलफलकिसलय- परिचर्वण समुदितमदभर विकस्वरस्वरमधुरशुकपिकनिक- रावरपावनं वनं तदपि सत्वरं मदाश्रमचत्वरेषु संनिधत्ताम्, अपि च भगवान्सोमः भक्ष्यभोज्य चोष्यलेह्यादिविविधा- नराशीन उत्तमरसोत्तनानिह विदधानः अमूल्या नि पादपगलितानि माल्यानि यथोचितरुचिरपाकानि मांस- शाकानि च संविधत्ताम ।
एवं समाधिना युक्तस्तेजसाप्रतिमेन च । शीक्षाखरसमायुक्तं तपसा चाब्रवीन्मुनिः ॥
मनसा ध्यायतस्तस्य प्राङ्मुखस्य कृताञ्जलेः । आजग्मुस्तानि सर्वाणि दैवतानि पृथक्पृथक् ॥
[[1998]]
धर्माकूते
तदनु शनैः शनैर्गन्धसिन्धुर कठोरगण्ड पिण्डकण्डूयन- निर्घृष्टमलय महीधरकन्दरमन्दिरचन्दनतरु संघ संघर्षणस्र- मुन्मिषितगन्धबन्धुरोदर विदलदर विन्दकुन्द माकन्दमलित- लुजमालतीकुटजपाटलीवकुलमुकुल बहलथि निर्गलदमन्दम- करन्द बिन्दु संदोह वहन परिश्रमेणेव मन्दमन्दपरिस्पन्दे, अशेषजनखेदापनोदिनि, तदाश्रमसमीपेषु संचरति ग- न्धवहनस्तनन्धयेन घनाघनोऽपि गगनतलात् अदभ्रमधु- संभ्रमपरिभ्रमत् परपराजितपवन विधुत विसृत्व र परागप- टलान्धकारितदिगन्तरेषु विकीर्यमाणेषु, सुरभिलसुरतरु- वरकुसुमवर्षेषु अति स्निग्धमधुरोदारगम्भीरघोषेषु वाद्यमा- नेषु देवदुन्दुभिषु देवदूतैः करतलविनिहितमणिमयवीणेषु गायत्सु सिद्धविद्याधरगन्धर्वेषु निरुपमनित्यनिजयौवनम- यभूषणपुनरुक्तमणिभूषणाः प्रतिपुरुषसविधमपि रम्भा - दिमा बहवो ननृतुरप्सरोगणाः । तदनन्तरमनन्त चमत्का- रकर्मणो विश्वकर्मणः कौशलादा सप्त योजनमभिनववैडूर्य- संनिभशाडुरच्छन्नाम्, अपरिमितबहुपचेलिमफलभ- रविनमितकपित्थ पनसबीजपूरकामलक सहकारविपुलशा- खाशतकृतप्रच्छायशीतलतलाम्, उत्तरकुरुसमागतलोको-अयोध्याकाण्डः ।
?
[[४९५]]
त्तरवनकलित दिव्योपभोगाम, उभयतटगततरुगणपरि- णामनिपतितबहुलकुसुम किञ्जल्कपुञ्जपिश्ञ्ज रितमन्दाकि नीतरङ्गशीकरानुषङ्गिसमीरणपरिहृतपरिश्रमाम्, मणिख- चितशातकुम्भस्तम्भ सहस्रनिर्मित विशालचतुः शालसुन्दर- मन्दुरागजशालिकाम् अभ्रंषशुभ्र शिखर रम्यहर्म्यप्रा- सादवलभिनिबद्धमणितोरणाम, पदे पदे दिव्यचन्दनरस- समुक्षितभित्तिभिर्महार्हो पवई मृदुलत लिमोपशोभितस्फ- टिकमयशयनासनैः सदनैरुपशोभिताम्, अवाङ्मनसगो- चरविचित्रचमत्काराम्, मनोहराम्, तत्तादृशीं विश्वक- मेनिर्माणचातुरीमवलोकयन्, क्रमेण भगवता भरद्वाजेन समाज्ञप्तः नूतन नवरत्नखचित सोपान सीम गोपान सीमनोह- रसौधशिखरम्, उपकल्पितराजाधिराजोचितसिंहासनम्,
अतिनिबिडजनसंचारनीरन्ध्रनिरुद्धमार्गसंरक्षण विचक्ष- कञ्चुकि कलितार्भारप्रदर्शितपदवी विकासम्, महेन्द्र- मन्दिरोपमम्, विराजमानराजमन्दिरं निजपरिवारेण सह प्रविवेश भरतः । ततस्तदद्भुतसदन संविधान निध्यान- जनितकौतुकैः मन्त्रिभिः शारदसमयमुदितसुधाकरमण्ड- उपाण्डरमातपत्रम्, तन्मरीचिनिचयरुचिरे चामरे च स-
[[१९६]]
धर्माकूते
त्रयामं श्रीरामचन्द्रं भद्रासनाय विनिवेध स्वयमपि स- चिवासने निविशमानो भरतः क्षणादेव मुनिशासनादु- पागता नवसुधारसमधुरपायसकर्दमाः सरितः सुवर्णमणि- मौक्तिकप्रवालादिदिव्यभूषणभूषिताः सरसिजा धनधना- विनाथप्रेषिताः विंशतिविंशतिसहस्र संख्याकाः दिव्यवा- रसुन्दरी : चिप्रमद्राक्षीत् । अथ तेषु दर्शनमात्रेणैव पुरु- बोन्मादकारिरूपधेयेषु नन्दनवनागतेषु अलम्बुसाद्य सरो- गणेषु नृत्यत्सु महाराजभरतोपकण्ठे गायत्सु नारदतुम्बुरु- गोपप्रमुखेषु गन्धर्वराजेषु नन्दनचैत्ररथगताखिलमाल्येषु प्रयागभूमिमागतेषु भरद्वाजतपोमहिना चित्रमिदमेकमु- दजृम्भत । यत्खल्बमी बिल्वशाखिनः स्थावरा अपि सृढ़- #वादकताम अश्वत्थशाखिनो नर्तकताम्, सरलताल- तिलकनक्तमालक श्च कुव्जवामन तामङ्गीचक्रुः । अपि च किंशुकामलकजम्बूमल्लिकामालतीप्रभृतिका लतिकाः सक- लयुवजनहृदयह रिणवागुरायमाणनवयौवनालंकृताम् प्र- मदाकृतिमवलम्ब्य विलासमन्थरमितस्ततः चरन्त्यः सा- दरं भो भो बुभुक्षिताः यावदपेतं भक्षयत पायसम्, भो भोः सुराभिलाषिणः पिबत सुराघटान्, मांसार्थिनः खा-
,
mer
,
अयोध्याकाण्डः ।
[[१९७]]
दत मांसानि इति परितोषितारतरमुदुष्यन्त्यः, कांश्चिद- भ्यञ्जनसंजनितादरानञ्जसा समभ्यज्य मञ्जुलेषु सरि- तीरनिकुजेषु स्नापयन्त्यः, प्रतिपुरुषमपि सप्तांष्टा वारा- ङ्गनाः कलाचिकावहह्नवीटिकावितरणचरण संवाहनादि शुश्रूषया परिचरन्त्यः महीतल एव तस्य बलस्य निरर्गलं सौवर्गसुखं प्रदर्शयामासुः । तदनु निरवद्यहृद्यमद्यनिषेव- णमुषितधिषणाः कैश्चन पुरुषैरिनुखण्डमधुला जखण्डशर्क- राचणकादिभिः संभोजित गजहयखरोष्ट्रकाः सैनिकाः घनघनसारमृगमदकुङ्कुमपङ्कसंकलित चन्दन संरूषितावय- वाः, समुन्नतपृथुलकुचकुम्भ संघर्षण मुखकमलचुम्बनसर - सभाषणादिसमुदाचता कलकिश्विताभिरप्सरोभिः का- श्वनमयमभ्येषु पचेषुवशंगताः देवादतर्कितोपनतम- प्राकृतं सुखमनुभवन्तः न गमिष्यामोऽयोध्यां नाक्रमि- व्यामोऽयोध्यां नाक्रमिष्यामो दण्डकावनम् अस्तु कुशलं
महाराजभरतस्य भरतस्य भवतु च तथा सुखम् महा- राजरामभद्रस्येति प्रमदवशादुच्चावचानि वचनानि मुञ्च- न्तः किमयं स्वर्ग एवास्माभिरुपभुज्यते किमानन्दभूम्ना अयमेवापवर्ग इति मनसा वितर्कयन्तः कतिचनमदिरा-
[[४९८]]
धर्माकूते
स्वादसमुदितमदवशादत्यन्तं नृत्यन्तः इसन्तश्चाट्टहासं गा- यन्तो विविधगानवाद्यानि परिधावन्तो निष्कारणमुच्छि- दन्तः प्रसून माल्यानि चिरमासांबभूवुः । अथ कथंचन किंचिदिव विगलितमदपारवश्याः चेटादयश्च पलाशयतया समन्तादुद्वीक्ष्य भक्ष्यराशीन् अक्षुधिता अपि भक्षयित्वा परां तृप्तिमभ्यागमन् । इत्थमानिरतमुनि साधारणाश्चर्य- तपश्चर्याधुर्यस्य मुनेस्तपोबलेन संपादितैः सकलकामैरुप- तर्पिताः भरतानुयायिनः परितोऽपि प्रमुदितकुञ्जराश्व- खरोष्ट्रगोमृगपशुपक्षिगणं कचिदपि अदृश्यमानकच्चराम्ब- रास्तमितक्षुरक्षामगन्धम् असंभावित रजोधूसर केशनखम् आजवाराहनिष्ठानवरसंचयाधिष्ठितं फलनिर्यूह निर्यद्धूपग- न्धादिवाचितम् अतिमधुरपाय सकर्दमितकूपं सकलजन- विविधमनोरथपरिपूरण निकामनिपुणकामधेनुकं सततनि- ध्वन्दमानमधुरमधुरासवासरवर्षदुर्दिन निखिलशाखिकद- म्बकं कचन रुचिरमैरेयपूरपूरितवापिका समीपनिविष्टसु- सृष्टमां सनिश्चयम् कचिदपि प्रतप्तपिठरजठरपापच्यमानरु- च्यहरिणवर्हिणचरणायुधादिमांसम् दधिमधुघृतदुग्धादिप- रिपूरितशातकुम्भकुम्भकरम्भिकास्थाली सहस्रपरिस्थगित-
अयोध्याकाण्डः ।
[[४९९]]
स्थलम् कचिदपि च पचेलिम कपित्थर सालफलसुमहा- नदी परिसर परिदृश्यमानमृदुलशर्करापूर सैकतम् तत्र तत्र च नखंपचलघुविमलसलिलवा हित्रहिनीतीरघटितविशा- लस्फटिकसोपानवीधिकासु कचिदुल्लसितमल्लिगन्धफली- कुसुमगन्धित तैलपूरितभृङ्गावशोभितम्, कचिदपि निर्णे- जनचूर्ण संपूर्ण कनकचषकालंकृतम् कचिदपि निक्षिप्तरद- नशोधन साधनघवलखदिरस मिलता संचयम् कचिदनेकव- र्णविभक्तिचित्रितचित्रकम्बलस्थापितपत्रोर्णराजिराजितम् कचिदपि हाटकघटित संपुटकोदरनिक्षिप्तचन्दन क्षोदम् क- चिदपि शरदम्बराडम्बरविडम्बि परिशोधितादर्श दर्शनीयम् कचिदपि संनिहितमसृणपादुकायुगलपरंपरम् कचिदपि वधूजनप्रसादनकनककङ्कतकूर्चम खुलाञ्जनकरण्डमण्डित- म् कचिदपि समरकामुकमहावीरकमनीयकार्मुकशर भरि- तशरविविचित्रतनुत्रशोभितम् कश्चित्कचिदुत्फुल्लकहारस- रस्स्रीरुहवीथिकासंचरत्वमदसार सारसित मेदुरैर्निजसह- चरीचञ्चुपुटाञ्चलकण्डूयन सुखित कारण्डव चक्रवाककुलैः स्फटिकमणिमुकुरोदर खलिलविसृत्वरदरदलितारविन्दमक- रन्दबिन्दु चन्द्रकप्रकरैः क्रीडासरोभिरुपशोभितं स्वप्नेऽप्य-
[[५००]]
धर्माकृते
दृष्टचरम् अश्रुतपूर्वमपूर्वरूपं परितोषितस्य मुनेराश्रमेोद्देश- मवलोकयन्तः किं महानयं विलोक्यते स्वप्नः किमुताय- मस्माभिरनुभूयते चित्तविभ्रमः किमुत केनापि प्रयुक्तेऽयं शाम्बरी माया किमिदं गन्धवपुरार्वजृम्भितम् भवतु यथा- कथंचित् अस्तु तदिदं सत्यमाचन्द्रतारकम् । अहो मह- दिदं संविधानमातिथ्यविधेः अहो तपःप्रभावो भरद्वाजं- मुनेः अहो कौशलं विश्वकर्मणः अहो जनुरद्य सफलम- स्माकमिति मिथः कथयन्तः सर्वेऽप्यानन्दविस्मयस्तव्धह- दयाः संजज्ञिरे ॥ द्विनवतितमे - ततः प्रभातायां रजन्यां हुताग्निहोत्रं भरद्वाजमासाथ रामसंदर्शनसमुत्सुकस्य सम कतरेण मार्गेण गमनमतिसुकरं कियद्दरं तदाश्रमः क वा वर्तते तदाख्यातुमर्हति भवानित्यवदत् । इतः त्रिषु योज- नेषु चित्रकूटो गिरिरतिरम्यकाननः तत्परिसरे समारचितां पर्णशालामधिवसति रामभद्रः तदनेनैव सव्यदक्षिणमा- र्गेण सेवां संचालयेति वदन् कौसल्याप्रमुखराजदारैः पीड्यमानचरणकमलः तद्विशेषज्ञानाय भरतमपृच्छत् । ततः इयं कौसल्या रामजननी इयमपरा लक्ष्मणशत्रुन्नज- ननी सुमित्रा इयमपि,
.
अयोध्याकाण्डः ।
क्रोधनामकृतप्रशां दप्तां सुभगमानिनीम् । ऐश्वर्यकामां कैकेयीमनार्यामार्यरूपिणीम् ॥
यतोमूलं हि पश्यामि व्यसनं महदात्मनः । मम तां मातरं विद्धि नृशंसां पापनिश्चयाम् ॥
इति वदन्तं भरतम्,
प्रत्युवाच महाबुद्धिमिदं वचनमर्थवत् । न दोषेणावगन्तव्या कैकेयी भरत त्वया ॥
[[५०१]]
रामप्रत्राजनं ह्येतत्सुखोदर्क भविष्यति । ततस्तदाज्ञामध्यादाय आमन्त्र्य बलाध्यक्षानारोप्य चोत्तमयानेषु मातृः समारुह्य शिबिकां सकलबलपरिवृतः चित्रकूट मार्गाभिमुखः प्रतस्थे ॥ त्रिनवतितमे— ततो महर्षिसमादिष्टेन मार्गेण संतीर्य नदीनदान अतिक्रम्य वाश्रमोपवनानि व्यक्तं प्राप्ताः स्म तं देशं भरद्वाजो य मत्रवीत् इति कुलपुरोहितं वसिष्ठमभिधाय तदनुमत्या रामलक्ष्मणगवेषणाय चतुरांश्चारान् संचारयामास ॥ चतु- नवतितमे - रामोऽपि तत्र चित्रकूटगिरौ जनकजामनो- विनोदवरमणीयचरणीवर शिखरगतान् विविधवनभूमिभा-
યુર
धर्माकूते
गान् प्रदर्शयन् इदमवोचत् ।
न राज्याशनं भद्रे न सुहृद्भिर्विना भवः । मनो मे बाधते दृष्टा रमणीयमिमं गिरिम् ॥
अनेन वनवासेन मया प्राप्तं फलद्वयम् । पितुश्वानृण्यता धर्मे भरतस्य प्रियं तथा ॥
इदमेवाहृतं प्राहू राशि राजर्षयः परे । वनवासं भवार्थाय प्रेत्य मे प्रपितामहाः ।
इति ॥ पञ्चनवतितमे – ततोऽवतीर्य, चित्रकूटशिख- रात् शुभसलिलां मन्दाकिनी प्रदर्शयन्
मन्यस्व वनिते नित्यं सरयूवदिमां नदीम् । लक्ष्मणचैव धर्मात्मा तन्निदेशे व्यवस्थितः ॥
त्वं चानुकूला वैदेहि प्रीतिं जनयतो मम । नायोध्यायै न राज्याय स्पृहयेऽद्य त्वया सह ॥
इत्यभिधाय रम्यं गिरिवरमारुरोह ॥ षण्णवतितमे- अथ कदाचित् चित्रकूटशिखरमारूढो रामभद्रः सुनिष्ट प्लेन स्वादुना पिशितेन जानकीं विनोदयन् भरतानुयायि-
अयोध्याकाण्डः ।
[[५०३]]
सेनागजतुरगपदातिकलित कोलाहला कर्णनभयच कितप लायमानवन महिषवराहमृगयूथदर्शनानुमिवर राजमृगयावि- हारो लक्ष्मणमाहूय किंनिमित्तोऽयमकाण्ड एव मृगयूथ- पलायन मित्यवधारयतु भवानित्यवोचत् । ततः समुन्नतं सालवृक्षमारुह्य लक्ष्मणो दिनु विदितु च चक्षुर्विक्षिपन् ऊत्तरस्यां दिशि रथगजतुरगपदातिसमाकुलां महतीं चमू- मवलोक्य रामाय निवेदयामास । अथ कस्येयं रिति वदन्तं रामभद्रं कोविदारध्वजानुमितभरतागमः सरोषमिदमुवाच -
संपन्नं राज्यमिच्छंस्तु व्यक्तं प्राप्याभिषेचनम् । आवां हन्तुं समभ्येति कैकेय्या भरतः सुतः ॥ असौ हि सुमहान्स्कन्धो विटपी च महाद्रुमः । विराजति महासैन्ये कोविदारध्वजो रथे ॥
गृहीतधनुषौ चावां गिरिं वीर श्रयावहे। अथ वेदैव तिष्ठाव संनद्धावुद्यतायुधौ ॥
अपि द्रक्ष्यामि भरतं यत्कृते व्यसनं महत् । त्वया राघव संप्राप्तं सीतया च मया तथा ॥
D. Pt. v – 9
चमू-
[[५०४]]
धर्माकूते
भरतस्य वधे दोषं नाहं पश्यामि राघव । पूर्वापकारिणां त्यागे न ह्यधर्मो विधीयते ॥
इत्यवादीत् । अनेन त्यक्तधर्मस्य पूर्वापकारिणो वधे दोषो नास्तीति सूचितम् । तथा चापस्तम्बः - ‘यो हि साथै असिक्रान्तं हन्ति मन्युरेव मन्यु स्पृशति न तस्मि न्दोष इति पुराणे’ इति ॥ सप्तनवतितमे - ततो भरत- समागमन संजातको पकलुषितान्तःकरणं लक्ष्मणमाश्वा- सयन् रामभद्रः सदयमिदमाचष्टे-
किमत्र धनुषा कार्यमसिना वा सचर्मणा । महेष्वासे महाप्राज्ञे भरते स्वयभागते ॥
पितुः सत्यं प्रतिश्रुत्य हत्वा भरतमागतम् । किं करिष्यामि राज्येन सापवादेन लक्ष्मण ॥
अनेन लोकापवादकरं कर्म नरकादायमिति सूचितम् । तथा च वनपर्वणि ‘अकीर्त्तिः कीर्त्यते लोके यस्य भूतस्य कस्यचित् । स पतत्यधमाल्लोकान्यावच्छन्दः प्रकीर्त्यते ’ इति । यद्द्रव्यं बान्धवानां वा मित्राणां वा क्षये भवेत् । नाहं तत्प्रतिगृह्णीयां भक्षान्विषकृतान्यथा । अनेन मित्र-अयोध्याकाण्डः ।
[[५०५]]
चान्धवादीन्हत्वा तदीयं द्रव्यं न प्राह्यमित्युक्तम् । तथा च गीतायां कृष्णं प्रति अर्जुनवाक्यम्- ‘न च श्रेयोऽनुप- श्यामि हत्वा स्वजनमाहवे । न काढते विजयं कृष्ण न च राज्यं सुखानि च ॥ किं नो राज्येन गोविन्द किं भोगैर्जीवितेन वा । येषामर्थे काङ्क्षितं नो राज्यं भोगाः सुखानि च । त इमेऽवस्थिता युद्धे प्राणांस्त्यक्त्वा धनानि च । एतान्न हन्तुमिच्छामि नतोऽपि मधुसूदन ॥ अपि त्रैलोक्यराज्यस्य हेतोः किं नु महीकृते । तस्मा- नाही वयं हन्तुं धार्तराष्ट्रान्सबान्धवान् ॥ स्वजत हि कथं हत्वा सुखिनः स्याम माधव । इति ।
धर्ममर्थ च कामं च पृथिवीं चापि लक्ष्मण । इच्छामि भवतामर्थे एतत्प्रतिशृणोमि ते ॥ भ्रातॄणां संग्रहार्थं च सुखार्थ चापि लक्ष्मण । राज्यमप्यहमिच्छामि सत्येनायुधमालभे ॥
यद्विना भरतं त्वां च शत्रुघ्नं चापि मानद । भवेन्मम सुखं किंचिद्भस्म तत्कुरुतां शिखी ॥
इत्यभिधाय मरतोऽपि पितृभ्यां प्रब्राजितं मामाक
धर्माकूते
शोकाकुलान्तःकरणः परुषतरं कैकेथ निर्भर्त्स्य संप्राय पितरं मामपि प्रसादयितुमागतः स्यात् ।
अस्मासु मनसाप्येष नाहितं किंचिदाचरेत् । विप्रियं कृतपूर्व ते भरतेन कदा नु किम् ॥
कथं नु पुत्राः पितरं हन्युः कस्यचिदापदि । भ्राता वा भ्रातरं हन्यात्सौमित्रे प्राणमात्मनः ॥
यदि राज्यस्य हेतोस्त्वमिमां वाचं प्रभाषसे । वक्ष्यामि भरतं दृष्ट्रा राज्यमस्मै प्रदीयताम् ॥ उच्यमानो हि भरतो बाढमित्येव वक्ष्यति । न हि ते निष्ठुरं वाच्यो भरतो नाप्रियं वचः ।
अहं ह्यप्रियमुक्तः स्यां भरतस्याप्रिये कृते । इत्यवदत् ।
तथोको धर्मशीलेन भ्रात्रा तस्य हिते रतः । लक्ष्मणः प्रविवेशेव स्वानि गात्राणि लज्जया ॥
अथ रामो ब्रीडासमाक्रान्तहृदयं लक्ष्मणमवगत्य सीतया सह वने वसन्तौ सुखोचितौ मन्यमानो दशरथो गृहान्प्र-
अयोध्याकाण्डः ।
[[५०५]]
तिनेतुमायाति । एतौ वायुवेगसमौ जवनौ तुरङ्गमौ एष तातस्य शत्रुश्खयोऽतिवृद्धो नागराजः अत्र हि पाण्डुर- मातपत्रमानवलोक्य शङ्काकलङ्कितं मे मनः । तदवतीर्य सालाभात् मन्निकटमायातु भवानित्यवदत् । भरतोऽपि आश्रमसंमदों मा भूदिति दूरत एव सेनानिवेशं कार यामास ॥ अष्टनवतिनवनवतितमयोः पदातिरेव भ्रातर- मन्विष्यन् भरतश्चित्रकूट समीपमागम्य तदाश्रमसमुद्रतधू- मलेखादर्शनेन संनिहितं तमवगत्य ससंभ्रमं कुलपुरोहि- तमाहूय सत्वरमानीयतां मातृवर्गः संनिहितोऽयमल भवानरविन्दलोचनो रामभद्रः इत्यादिश्यामतो गच्छन् इदमेव हि आश्रममुपेयुषो रामभद्रस्य वृक्षे कुश- चीरकृतमभिज्ञानमवलोक्य एते मृगमहिषकरीष संचयाः, इमानि च लक्ष्मणेनाग्रबद्धानि चीराणि, इयमस्रौ रामचन्द्रावगाहनानुकूला मन्दाकिनी, परिसरो जलार्द्रा लक्ष्मणगमनमार्गः, इयमप्रे महात्मनः तस्य पुण्या पर्णशाला, इमौ चार्करश्मिप्रतीकाशौ शरभरितोदराव - क्षय्यौ तूणीरौ, इयं च प्रागुदकप्रवणा प्रदीप्तपावका विशाला वेदिः इति दर्शयन्नेव
[[२०८]]
धर्माकूते
निरीक्ष्य स मुहूर्त तु ददर्श भरतो गुरुम् । उबजे राममासीनं जटामण्डलधारिणम् ॥
सिंहस्कन्धं महाबाहुं पुण्डरीकनिभेक्षणम् । तमवलोक्य स बाष्पगदं सकरुणं विलपन्
पादावप्राप्य रामस्य पपात भरतो रुदन् । शत्रुनश्चापि रामख ववन्दे चरणौ रुदन् ॥ तावुभौ स समालिङ्गय रामश्चाश्रूण्यवर्तयत् ।
ततः सुमन्त्रेण गुहेन चैव
समीयतु राजसुतावरण्ये । दिवाकरश्चैव निशाकरश्व
यथाम्बरे शुक्रबृहस्पतिभ्याम् ॥
शततमे —
जटिलं चीरवसनं प्राञ्जलिं पतितं भुवि । भ्रातरं भरतं रामः परिजग्राह बाहुना ॥
आघ्राय रामस्तं मूर्ध्नि परिष्वज्य च राघवः । अङ्के भरतमारोप्य पर्यपृच्छत्समाहितः ॥
अयोध्याकाण्डः ।
[[५०९]]
क्व नु तेऽभूत्पिता तात यदारण्यं त्वमागतः । न हि त्वं जीवतस्तस्य वनमागन्तुमर्हसि ॥ कीश्वत्सौभ्य न ते राज्यं भ्रष्टं बालख शाश्वतम् । इति । अनेन बालेनाविष्ठितं राज्यं नश्यतीति सूचितम् ॥ तथा च विदुरनीतौ – ‘यत्र स्त्री यत्र कितवो बालो यत्रानुशास्त्रिता । मज्जन्ति तेऽवशा राजन्नद्यामश्मलवा इव ॥’ इति ।
कच्चिच्छुश्रूष से तात पितरं सत्यविक्रमम् ।
अनेन पितृशुश्रूषा कर्तव्येति सूचिता ॥ तच्छुश्रूषणफलं राजधर्मे – ‘शुश्रूषते यः पितरं न चासूयत्कदाचन । मातरं भ्रातरं वापि गुरुमाचार्यमेव च । तस्य राजन्फलं विद्धि स्वलोंके स्थानमर्चितम् । न च पश्येत नरकं गुरु- शुश्रूषयात्मवान् ॥’ तथा च पितरमाचार्य चोपक्रम्य मनुः - ‘तेषां खयाणां शुश्रूषा परमं तप उच्यते’ इति तच्छ्रुश्रूषाफलम् ॥
स कच्चिद्राह्मणो विद्वान्धर्मनित्यो महाद्युतिः । इक्ष्वाकूणामुपाध्यायो यत्तथा तात पूज्यते ॥
[[५१०]]
धर्माकूते
अनेनोपाध्यायः पूजनीय इति सूचितम्। तथा च राज- धर्मे - ‘गुरवोऽर्चयितव्याश्च पुराणं धर्ममिच्छता । येन प्रीणात्युपाध्यायस्तेन स्याझ पूजितम् ॥’
कच्चिद्विनयसंपन्नः कुलपुत्त्रो बहुश्रुतः । अनसूयुरनुद्रष्टा सत्कृतस्ते पुरोहितः ॥
अनेन पुरोहितः पूजनीय इति सूचितम् । तथा च राजधर्मे - ‘ऋत्विक्पुरोहिताचार्या सत्कृत्या नवमत्य च । यदा सम्यक्प्रगृह्णाति स राज्ञो धर्म उच्यते ॥ '
कच्चिदग्निषु ते युक्तो विधिशो मतिमानृजुः । हृतं च होप्यमाणं च काले वेदयते सदा ॥
अनेन बहुज्ञेन ऋत्विजा भवितव्यमिति सूचितम् । तथा च मनुः - ’ नैव कन्या न युत्रतिनल्पवियो न बालिशः । होता स्यादग्निहोत्रस्य नाव नासंस्कृतस्तथा । नरके हि पतन्त्येते जुह्वतः स च यस्य तत् ॥ तस्माद्वैतानकुशलो होता स्याद्वेदपारगः’ इति ।
कच्चिद्देवान्पितृन्मातुर्गुरुन्पितृसमानपि ।
वृद्धश्व तात वैद्यांश्च ब्राह्मणांश्चाभिमन्यते ।
"
भयोध्याकाण्डः ।
[[५१३]]
अनेन सर्वैः पितृभृत्यगुरुवृद्धवैद्यब्राह्मणानां बहुमानः क र्तव्य इति सूचितम् । तथा च राजधर्मे - ‘आदावेव कुरु- श्रेष्ठ राज्ञा रञ्जन मिच्छता । देवतानां द्विजानां च वर्तितव्यं यथाविधि ॥ दैवतान्यर्चयित्वापि ब्राह्मणांश्च कुरूद्वह । आ- नृण्यं याति धर्मस्य श्लोकेन च समश्नुते ॥ धर्मनिष्ठाञ्श्रु- तवतो वेदव्रतसमाहितान् । अर्चयित्वा यजेतापि तांस्ता- गुणवतो द्विजान् ॥ प्रत्युत्थायोपसंगृह्य चरणावभिवाद्य च । अथ सर्वाणि कुर्वीथाः कार्याणि सपुरोहितः ॥’ इति ।
इष्वस्त्रवर संपन्नमर्थशास्त्रविशारदम् । सुधन्वानमुपाध्यायं कश्चित्वं तात मन्यसे । अनेनोपाध्यायः पूजनीय इति अनुपदमेव सूचितम् ! कश्चिदात्मसमाः शूराः श्रुतवन्तो जितेन्द्रियाः । कुलीनाश्चेङ्गितशाश्च कृतास्ते तात मन्त्रिणः ॥
मन्त्रो विजयमूलं हि राज्ञां भवति राघव । सुसंवृतो मन्त्रधनैरमात्यैः शास्त्र कोविदैः ॥
अनेन स्वस्य श्रेयसे बहुज्ञो मन्रगोप्ता मन्त्री कार्य इति सूचितम् - अयमर्थः प्रागपि प्रपश्वितः ।
[[५१२]]
धर्माते
कश्चिन्निद्रावशं नैषीः कश्चित्काले प्रबुध्यसे । कश्चिचापररात्रेषु चिन्तयस्यर्थनैपुणम् ॥
अनेन यथाकालं स्वापप्रबोधौ कर्तव्यौ अपररात्रे उत्थायार्थागमप्रकारश्च चिन्तनीय इति सूचितम् । तथा च मनुः - ’ विशेष यथाकालमुत्तिष्ठेद्विगतकुमः । एत. दृतिं समातिष्ठेदरोगः पृथिवीपतिः ।’ इति । व्यासः — ’ ब्राझे मुहूर्ते चोत्थाय धर्ममर्थ च चिन्तयेत् ।’ इति ।
कञ्चिन्मन्त्रय से नैकः कचिन्न बहुभिः सह । कश्चित्ते मन्त्रितो मन्त्रो राष्ट्रं न परिधावति ॥
अनेक एवार्थे न चिन्तयेत् न बहुभिः मन्त्रश्च गोप- नीय इति सूचितम् । तथा चोद्योगे - ‘एकः स्वादु न भुञ्जीत एकः स्वार्थ न चिन्तयेत्’ इति । षट्कर्णो भिद्यते मन्त्रश्चतुष्कर्णो न भिद्यते । द्विकर्णस्य तु मन्त्रस्य ब्रह्माण्यन्तं न गच्छति । राजधर्मे – ‘बुद्धया संवृतमन्त्रश्च राज्ञा भवितुमर्हति । यस्य मन्त्रं न जानन्ति समागम्य पृथग्जनाः । स कृत्स्नां पृथिवीं भुङ्क्ते कोश- हीनोऽपि पार्थिवः ॥’ इति ।
अयोध्याकाण्डः ।
कश्चिदर्थे विनिश्चित्य लघुमूलं महोदयम् । क्षिप्रमारभले कर्तुं न दीर्घयसि राघव ॥
[[५१३]]
अनेन राज्ञा अल्पायासकं बहुफलं कार्य निश्चित्याविल- म्वेनैतत्कर्तव्यमिति सूचितम् । तथा चोद्योगे - ’ कांश्चि- दर्थान्नरः प्राज्ञो लघुमूलान्महाफलान् । क्षिप्रमारभते कर्तुं न विनयति तादृशाम् ’ इति ।
कश्चित्तु सुकृतान्येव कृतरूपाणि वा पुनः । विदुस्ते सर्वकार्याणि न कर्तव्यानि पार्थिवाः ॥
अनेन राज्ञा कृतानि कृतप्रायाणि वा कर्माणि अन्ये राजानो जानीयुर्न तु कर्तव्यानीति सूचितम् । तथा चोद्योग एव ‘यस्य कृत्यं न जानन्ति मन्त्रं वा मन्त्रितं परे । कृतमेवास्य जानन्ति स वै पण्डित उच्यते ॥’ इति । कालिदासोऽपि - ’ तस्य संवृतमन्त्रस्य गूढाकारेङ्गितस्य च। फलानुमेयाः प्रारम्भाः संस्काराः प्राक्तना इव’ इति ।
कश्चिन्न तर्कैर्युक्तया वा ये चाप्यपरिकीर्तिताः । त्वया वा तत्र वामात्यैर्बुध्यते तात मन्त्रितम् ॥
[[५१४]]
धर्माकूते
अनेन राजमन्त्रितो मन्त्रः परैस्तर्कादिना यथा न ज्ञायते तथा गूढं मन्त्रितव्यमित्ययमर्थः स चानुपदमेव
प्रपञ्चितः ।
कच्चित्सहस्रान्मूर्खाणामेकमिच्छसि पण्डितम् । पण्डितो ह्यर्थकृच्छ्रेषु कुर्यान्निःश्रेयसं महत् ॥ सहस्राण्यपि मूर्खाणां य उपास्ते महीपतिः । अथ वाप्ययुतान्येव नास्ति तेषु सहायता ॥
एकोऽप्यमात्यो मेधावी स्थूललक्षो विचक्षणः । राजानं राजपुत्रं वा प्रापयेन्महतीं श्रियम् ॥
अनेन पण्डित एकोऽपि मन्त्री श्रेयोमूलम् । न मूर्ख- सहस्रमपीति सूचितम् । तथा च राजधर्मे - ‘यस्त्वेको बहुभिः श्रेयान्कामं तेन गणं त्यजेत् । श्रेयसो लक्षणं त्वेतद्विक्रमो यस्य दृश्यते । कीर्तिप्रधानो यच स्यात्समये यस्य तिष्ठति । समर्थान्पूजयेद्यश्च स्पर्धे स्पर्धयते च यः ॥ न च कामाद्भयात्क्रोधाल्लोभाद्वा धर्ममुत्सृजेत् । अमानी सत्यवाग्दान्तो जितात्मा मानसंयुतः । स ते मन्वसहायः स्यात्सर्वावस्थं परीक्षितः । इति ।अयोध्याकाण्डः ।
कञ्चिन्मुख्या महत्स्वेव मध्यमेषु च मध्यमाः । जघन्यास्तु जघन्येषु भृत्याः कर्मसु योजिताः ॥
५.१५
अनेन उत्तममध्यमाधमेषु कर्मसु तादृशा एव भृत्या नियोजनीया इति । तथा चोद्योगे - ‘त्रिविधाः पुरुषा राजन्नुत्तमाधममध्यमाः । नियोजयेद्यथायोगं त्रिविधेष्वेव कर्मसु ’ इति । राजधर्मेऽपि - ’ भृत्या ये यत्र योग्याः स्युस्तत्र स्थाप्याः सुरक्षिताः । आनुरूपाणि कर्माणि भृत्येभ्यो यः प्रयच्छति । स भृत्यगणसंपन्नो राजा फल- मुपाश्नुते । शरभः शरभस्थाने सिंहः सिंह इवोर्जितः । व्याघ्रो व्याघ्र इव स्थाप्यो द्वीपी द्वीपी यथा तथा ॥ कर्मविहानुरूपेषु न्यसेत्यान्यथाविधि ॥ प्रतिलोमं न भृत्यास्ते स्थाप्याः कर्मफलैषिणा । यः प्रमाणमतिक्रम्य प्रतिलोमं नराधिपः । भृत्यान्स्थापयतेऽबुद्धिर्न स रज- यते प्रजाः’ इति ।
अमात्यानुपधातीतान्पितृपैतामहाञ्शुचीन् । श्रेष्ठाश्रेष्ठेषु कच्चित्त्वं नियोजयसि कर्मसु ॥
अनेन कुलपरंपरागताञ्शुचीन्मन्त्रिण उत्तमेषु कार्येषु
[[५१६]]
धर्माकूते
नियोजयेदिति सूचितम् । तथा च राजधर्मे
‘भक्तं
भजेत नृपतिः सदैव सुसमाहितः । अप्रकीर्णेन्द्रियं प्राज्ञ- मत्यन्तानुगतं शुचिम् । शक्तं चैवानुरक्तं च युज्यान्महति कर्मणि ।’ इति ।
कच्चिन्नोग्रेण दण्डेन भृशमुद्वे जितप्रजम् । राज्यं तवानुजानन्ति मन्त्रिणः केकयसुत ॥
अनेनोप्रदण्डेनाधिकारिणा उद्वेजियं राष्ट्रं मन्त्रिभिः न सोढव्यमिति सूचितम् । तथा च राजधर्मे -’ धर्मज्ञः सचिवः कश्चित्तत्प्रपद्येदतन्द्रितः । जिघांसवः पापकामाः परस्वादायिनः शठाः । रक्षोभ्यधिकृता नाम तेभ्यो रक्षे- दिमाः प्रजाः ॥ इति ।
कच्चित्वां नावजानन्ति याजकाः पतितं यथा । उग्रप्रतिग्रहीतारं कामयानमिव स्त्रियः ॥
अनेन पतितं यजमानं याजका इव तर्जनादिनोप- भोक्तारं पुरुषं स्त्रिय इव प्रजाः प्रमादिनं राजानं परिभवन्तीति सूचितम् । तथा च राजधर्मे- प्रमादिनं हि राजानं लोकाः परिभवन्त्युत ।’ इति ।
अयोध्याकाण्डः ।
उपायकुशलं वैद्यं भृत्यसंदूषणे रतम् । शूरमैश्वर्यकामं च यो न हन्ति स वध्यते ॥
[[५१०]]
अत्रोक्तविशेषणविशिष्ठं भृत्यं यो न हन्यात्स एव दध्यत इति सूचितम् । तथा च कामन्दकः - ‘तुल्यार्थ तुल्यसामर्थ्य मर्मज्ञ व्यवसायिनम् । अर्थराज्यहरं भृत्यं यो हन्यात्स हतः स्वयम् ।’ इति ।
कच्चिद्धृष्टश्च शूरश्च मतिमान्धृतिमान्शुचिः । कुलीनश्चानुरक्तश्च दक्षः सेनापतिः कृतः ॥ अनेनोक्तगुणविशिष्टः सेनापतिः कार्य इति सूचि- तम् । तथा च राजधर्मे — ‘धर्मशास्त्रार्थतत्त्वज्ञः सन्धि- विग्रहको भवेत् । मतिमान्स्मृतिमान्ही मान्यहस्यविनि- गूहिता । कुलीनः शीलसंपन्नः शुक्लामात्यः प्रशस्यते । एतैरेव गुणैर्युक्तस्तथा सेनापतिर्भवेत् । व्यूहयन्त्रायुधानां च तत्त्वज्ञो विक्रमान्वितः । वर्षशीतोष्णवातानां सहिष्णुः पररन्ध्रवित् ।’ इति ।
बलवन्तश्च कच्चित्ते मुख्या युद्धविशारदाः । दृष्टापदाना विक्रान्तास्त्वया सत्कृत्य मानिताः ।
[[५८]]
धर्माकृते
अनेन बलाध्यक्षाः कृतपरीक्षा एव दानमानादिना सत्कृत्य स्थापनीया इति सूचितम् । तथा च राजधर्मे- ‘अनीकं ये न भिन्दन्ति भिन्नं संस्थापयन्ति च । समा- नासनयानास्ते कार्या द्विगुणचेतनाः । देशाधिपतयः कार्याः शताधिपतयस्तथा । ततः सहस्राधिपतिं कुर्या - च्छूरमतन्द्रितः ।’ इति ।
कच्चिद्बलस्य भक्तं च वेतनं च यथोचितम् । संप्राप्तकालं दातव्यं ददासि न विलम्बसे । कालातिक्रमणाच्चैव भक्तवेतनयोर्भूताः । भर्तुः कुप्यन्ति दुष्यन्ति सोऽनर्थः सुमहान्स्मृतः ॥
अनेन भृत्यानां यथोचितभक्तवेतनदानं यथाकालं कर्तव्यमिति सूचितम् । तथा च मनुः ’ राजा कर्मसु युक्तानां स्त्रीणां प्रेष्यजनस्य च । प्रत्यहं कल्पयेहृत्ति स्थानकर्मानुरूपतः ।’ इति ।
कच्चित्सर्वेऽनुरक्तास्त्वां कुलपुत्राः प्रधानतः । कच्चित्प्राणांस्तवार्थेषु संत्यजन्ति समाहिताः ॥
अनेन स्वाम्यर्थे त्यक्तव्यप्राणभया एव संपादनीया
[[1]]
अयोध्याकाण्डः ।
[[1]]
[[५१९]]
इति सूचितम् । तथा चोद्योगे - ‘संग्रामादपयातानां भ्रमानां शरणैषिणाम् । पौरुषं दर्शयन्शूरो यस्तिष्ठेद- व्रतः पुमान् ॥ क्रीणीयान्तं सहस्रेण एतन्नीतिमतां मत- म्’ इति । कामन्दकेऽपि प्रियेण दानेन च संगृहीता- स्त्यजन्ति रक्ष्याण्यपि जीवितानि । राजधर्मेऽपि - ‘त्यज- न्ति दारान्प्राणांश्च मनुष्याः प्रतिपूजिताः ॥’
काच्चजानपदो विद्वान्दक्षिणः प्रतिभानवान् । यथोक्तवादी दूतस्ते कृतो भरत पण्डितः ॥
अनेन प्रत्युत्पन्नमतिश्चतुरो यथोक्तवादी च दूतः संपादनीय इति सूचितम् । तथा च मनुः – ’ दूतं चैव प्रकुर्वन्ति सर्वशास्त्रविशारदम् । इङ्गिताकारचेष्टनं शुचि दक्षं कुलोद्गतम् ॥’ इति ।
कच्चिदशदशान्येषु स्वपक्षे दश पञ्च च । त्रिभिस्त्रिभिरविज्ञातै वेत्सि तीर्थानि चारकैः ॥ अनेन शत्रुपक्षेऽष्टादश तीर्थानि स्वपक्षे तु पञ्चदश बहुभिचारैः परस्परमविज्ञातै राज्ञा विज्ञातव्यानीति सूचितम् । तीर्थशब्दार्थमाह हलायुधः – ‘योनौ जल्ला -
D. Pt. 7-10
[[५२२]]
धर्माकूते
ब्राह्मणैः क्षत्रियैर्वैभ्यैः स्वकर्मनिरतैः सदा । जितेन्द्रियै महोत्साहैर्वृता मार्यैः सहस्रशः ॥
प्रासादैर्विविधाकारैर्वृतां
वैद्यजनाकुलाम् ।
कचित्समुदितां स्फीतामयोध्यां परिरक्षसे ॥ कच्चिच्चैत्यशतैर्जुष्टः सुनिविष्टजनाकुलः । देवस्थानैः प्रपाभिश्व तडाकैश्वोपशोभितः ।
प्रहृष्टवरनारीकः समाजोत्सवशोभितः । सुकृष्टसीमा पशुमान्हिंसाभिः परिवर्जितः ॥
अदेवमातृको रम्यः श्वापदैः परिवर्जितः । परित्यक्तो भयैः सर्वैः खनिभिश्चोपशोभितः ॥
विवर्जितो नरैः पापैर्मम पूर्वैः सुरक्षितः । कश्चिजनपदः स्फीतः सुखं वसति राघव ॥
अनेन पुरराष्ट्ररक्षणं कर्तव्यमिति सूचितम् । तथा च राजधर्मे – ‘राज्ञा सप्तैव रक्ष्याणि तानि चैतानि बोध मे। आत्मामात्यश्च कोशश्च दण्डो मित्राणि चैव ह । तथा जनपदाश्चैत्र पुरं च कुरुनन्दन । एतत्सतात्मकं
अयोध्याकाण्डः ।
[[५१६]]
राज्यं परिपाल्यं प्रयत्नतः ॥ यदा रक्षति राष्ट्राणि यदा दस्यूनपोहति । यदा जयति संग्रामे स राज्ञो धर्म उच्य-
ते ॥ ’ इति ।
कच्चित्ते दयिताः सर्वे कृषिगोरक्षजीविनः । वार्त्तायां संश्रितास्तात लोको हि सुखमेधते ॥ तेषां गुप्तिपरीहारैः कच्चित्ते भरणं कृतम् । रक्ष्या हि राज्ञा धर्मेण सर्वे विषयवासिनः ॥
अनेन पौरजानपदाः सर्वे जना राज्ञा नियमेन रक्ष- णीया इति सूचितम् । तथा च मनुः - ‘युक्तश्चैवाप्रम
। तव परिरक्षेदिमाः प्रजाः । ’ इति । राजधर्मेऽपि - पौरजानपदाश्चैव गोप्तत्र्याश्च यथा प्रजाः । ’ इति । कच्चित्त्रियः सान्त्वयसि कच्चित्तास्तेऽनुरक्षिताः । कच्चिन्न श्रद्दधास्यासां कच्चिद्गुह्यं न भाषसे ॥
अनेन स्त्रियः दानमानसत्कारैः पोष्याः, तासु विश्वा- सोऽपि न कर्तव्यः, गुह्यं च न भाषणीयमिति । तथा चोद्योगे - ’ आनीर्षुर्गुप्तदारश्चेत् संविभागी प्रियंवदः ।
[[५२४]]
धर्माकूते
श्लक्ष्णो मधुरवाक् स्त्रीणां न चासां वशगो भवेत् ॥ ’ इति । रक्षणे उद्योगे — ‘पूजनीया महाभागाः पुण्याश्च गुहदीप्तया । खियः श्रियो गृहस्योक्तास्तस्माद्रक्ष्या विशे- घतः ॥’ विश्वासो न कर्तव्य इत्यत्रापस्तम्बः- ’ दारे प्रजायां चोपस्पर्शनभाषा विस्रम्भपूर्वाः परिवर्जयेत् ।’ इति । भोजनीतौ — ‘अर्हन्ति नैव विश्वासमर्थकामपराः त्रि- यः । तासु तत्त्वेन न ब्रूयान्नाति स्निह्येत्सदा सुधीः ॥ ’ इति । उद्योगेऽपि - ‘स्त्रीषु राजसु सर्वेषु स्वाध्याये शत्रु- सेविषु । भोगेष्वायुषि विश्वासं कः प्राज्ञः कर्तुमर्हति ॥’ इति ।
कच्चिन्नागवनं गुप्तं कच्चित्ते सन्ति धेनुकाः । कच्चिन्न गणिकाश्वानां कुञ्जराणां च तृप्यसि ॥
अनेन गजोत्पत्तिस्थानानि रक्षणीयानि । गजाश्वा- दिप्राप्तौ तृत्या न भवितव्यमिति सूचितम् । तथा च राजधर्मे - ‘आकरे लवने शुल्के तले नाम वने तथा । न्यसेदमात्यान्नृपतिः स्वाप्तान्वा पुरुषान्हितान् ॥ ’ इति । असंतुष्टौ राजधर्मे - ‘नं पूर्णोऽस्मीति मन्येत धर्मतः
अयोध्याकाण्डः ।
[[५२५]]
कामतोऽर्थतः । बुद्धिजो मन्त्रितश्चापि सततं वसुधाधिप ॥’
इति ।
कच्चिद्दर्शय से नित्यं मनुष्याणां विभूषितः । उत्थायोत्थाय पूर्वाह्णे राजपुत्र महारथ ॥
अनेन सर्वाभरणभूषितो राजा प्रत्यहं पूर्वाह्न एव प्रयोजनापेक्षिणां जनानां चतुर्विषयो भूयादिति सूचि- तम् । तथा चाश्रमवासिके पर्वणि तथैवालंकृतः काले सिष्ठेया भूरिदक्षिण ॥’ इति ।
कच्चिन्न सर्वे कर्मान्ताः प्रत्यक्षास्तेऽविशङ्कया । सर्वे वा पुनरुत्सृष्टा मध्यमे वात्र कारणम् ।
अनेन सेवकैः शिल्पिभिर्वा अतिपरिचितिः अत्यन्ता- परिचितिर्वा न कर्तव्या, किं तु मध्यमेनैव वर्तितव्यमिति सूचितम् ।
कच्चित्सर्वाणि दुर्गाणि धनधान्यायुधोदकैः । यत्रैश्च परिपूर्णानि तथा शिल्पिधनुर्धरैः ॥
अनेन दुर्गवर्गों निरर्गलं धनधान्यादिसकलवस्तु समृद्धः
[[५२६]]
धर्माकूते
कर्तव्य इति सूचितम् । तथा च मनुः- दुर्गमुपक्रम्य, ‘तत्स्यादायुधसंपन्नं धनधान्येन वाहनैः । ब्राह्मणैः शि ल्पिभिर्यन्त्रैर्यवसेनेोदकेन च ॥ ’ इति ॥
आयस्ते विपुलः कच्चित्कच्चिदल्पतरो व्ययः । अपात्रेषु न ते कच्चित्कोशो गच्छति राघव ॥ अनेनाल्पव्ययः कर्तव्यः, अल्पव्ययोsपि अपात्रे न कर्तव्य इति सूचितम् । राजबमें - ‘सदैव याचमानेषु तथा दम्मान्वितेषु च । यत्तेषु दक्षिणा दत्ता दावाना- विव दुईतम् ।’ कामन्दके - ‘अपात्रवर्षणं जातु न कुर्यात्सद्विगर्हितम् । अपात्रवर्षणं किं स्यादन्यत्कोश- क्षयाहते’ इति ।
देवतार्थे च पित्रर्थे ब्राह्मणाभ्यागतेषु च । योधेषु मित्रवर्गेषु कश्चिद्गच्छति ते व्ययः ॥ अनेन देवताद्यर्थेषु नियमेन व्ययः कर्तव्य इति सूचि- तम् । तथा च कामन्दके — ‘धर्मार्थ क्षीणकोशस्व कृशत्वमपि शोभते । सुरैः पीतावशेषस्य शरद्धिमरुचे- रिव’ इति ।अयोध्याकाण्डः ।
[[५१७]]
कच्चिदार्यो विशुद्धात्मा क्षारितश्चोरकर्मणा । अपृष्टः शास्त्र कुशलैर्न लोभाद्वध्यते शुचिः ॥ अनेन अनपराधिनं मन्त्रिभिरनालोच्य न दण्डनी-
यमिति सूचितम् ।
गृहीतश्चावमृष्टश्च काले दृष्टः सकारणः । कश्चिन्न मुच्यते चोरो धनलोभान्नरर्षभ ॥
अनेन चोरो धनलोभान्न विसर्जनीय इति सूचितम् । तथा च राजधर्मे — ’ निहन्यात्सर्वतो दस्यून्न कामा- स्कस्यचित्क्षमेत्’ इति ।
व्यसने कच्चिदाढ्यस्य दुर्गतस्य च राघव ॥
दरिद्रस्य व्यवहारे प्राप्ते लोभादिना व्यवहारो न कर्तव्य इति सूचितम् । अत एव विपक्षे दण्ड उक्तो मनुना -’ लोभाद्दण्ड सहस्रं तु मोहात्पूर्वं तु साहसम् ’ इति । उमामहेश्वरसंवादेऽपि – ‘अधर्मे धर्ममित्याहुर्ये च मोहवशागताः । ते त्वकालहतोद्योगाः संभवन्ति हि मानुषे ॥ निर्होमा निर्वषट्कारास्ते भवन्ति गतायुषः ’ इति ।
[[५२८]]
धर्माकूते
यानि मिथ्याभिशप्तानां पतन्त्यश्रूणि राघव । तानि पुत्रपशून्नन्ति प्रीत्यर्थमनुशासतः ॥
अनेन परकृत मिथ्यापवादं पुरस्कृत्य तत्प्रीत्यै अनु- शासनं न कर्तव्यमिति सूचितम् । तथा च राजधर्मे- कामकारेण दण्डं तु यः कुर्यादविचक्षणः । स इहा- कीर्त्तिसंयुक्तो मृतो नरकमाप्नुयात् । न परस्य प्रवादेन परेषां दण्डमर्पयेत् ॥ ’ इति ।
कच्चिद्वृद्धांश्च बालांश्च वैद्यमुख्यांश्च राघव । दानेन मनसा वाचा त्रिभिरतैर्बुभूषसे ॥
अनेन वृद्धादीन्वैद्यान्दानमानमस्कारैर्विभूषयेदिति सू- चितम् । तथा च मनुः– ’ श्रोत्रियं व्याधितात च बालवृद्धाव किंचन । महाकुलीनमार्ये च राजा संपूजये- त्सदा ॥ ’ इति ।
कच्चिदर्थेन वा धर्ममर्थ श्रर्मेण वा पुनः । उभौ वा प्रतिलोभेन कामेन च न बाधसे ॥
अनेन धर्माधर्मयोः परस्परोपमर्दः कामेन तयोरुप-
अयोध्याकाण्डः ।
[[५२९]]
मर्दश्व न कर्तव्य इति सूचितम् । तथा च वनपर्वणि- ‘सर्वथा धर्मनित्यं तु पुरुषं धर्मदुर्बलम् । त्यजतस्तात धर्मार्थी प्रेतं दुःखसुखे यथा ॥ अतिवेलं हि योऽर्थाथीं नेतरावनुतिष्ठति । स वध्यः सर्वभूतानां ब्रह्महेव जुगु- प्तिः ॥ तस्य धर्मार्थहीनस्य कामतो निधनं ध्रुवम् । कामतो रममाणस्य मीनस्येवाम्भसः क्षये ॥ सर्वार्था धर्ममूलोऽथ धर्मश्चार्थपरिग्रहः । इतरेतरयोनीत विद्धि मेघोदधी यथा । न धर्मपर एव स्यात् न चार्थपरमो नरः । न कामपरमो वा स्यात् सर्वान्सेवेत पण्डितः ॥ ’ इति । राजधर्मेऽपि - ’ कामक्रोधौ पुरस्कृत्य योऽर्थ
राजानुतिष्ठति । न स धर्मे न चाप्यर्थ प्रतिगृह्णाति बालिशः ॥’ इति ।
कच्चिदर्थं च धर्मे च कामं च जयतां वर । विभज्य काले कालन सर्वान्भरत सेवसे ॥
अनेन धर्मार्थकामा यथोचितकाले सेवनीया इत्युक्तम् । तथा च वनपर्वणि ‘धर्म कार्य च कामं च यथाव- द्वदतां वर। विभज्य काले कालज्ञ सर्वान्सेवेत पण्डितः ॥
[[५३०]]
धर्माकृते
धर्मे पूर्व धनं मध्ये जघन्ये काममाचरेत् । अहन्यनु- चरेदेवमेष शास्त्रकृतो विधिः ॥’ इति ।
कच्चित्ते ब्राह्मणाः शर्म सर्वशास्त्रार्थकोविदाः । आशंसन्ते महाप्राज्ञाः पौरजानपदैः सह ॥
अनेन विषयावसिनो ब्राह्मणादयो यथाशर्माशंसेरन् तथा पालनीया इति सूचितम् । तथा च राजधर्मे- ’ तस्माद्विजातीन्रक्षेत ते हि रक्षन्ति रक्षिताः । आशी- रेषा भवेद्राजन्राज्ञां सम्यक्प्रवर्तताम् ॥’ इति ।
नास्तिक्यमनृतं क्रोधं प्रमादं दीर्घसूत्रताम् । अदर्शनज्ञानवता मालस्यं पञ्चवृत्तिताम् ॥
एकचिन्तनमर्थानामनर्थशैश्च मन्त्रणम् । निश्वितानामनारम्भं मन्त्रस्यापरिरक्षणम् ।
मङ्गलान्यप्रयोगं च प्रत्युत्थानं च सर्वशः । कच्चित्त्वं वर्जयस्येतान्राजदोषांश्चतुर्दश ॥
पश्चावृत्तितां पञ्चेन्द्रियवशतां प्रत्युत्थानं च सर्वशः अनेन एते दोषा राज्ञा वर्जनीया इति सूचितम् ।
अयोध्याकाण्डः ।
दशपञ्चचतुर्वर्गा-सप्तवर्गीश्च तत्त्वतः । अष्टवर्ग त्रिवर्गे च विद्यास्तिस्रश्च राघव ॥
इन्द्रियाणां जयं बुद्धा षाड्गुण्यं दैवमानुषम् । कृत्यं विशन्ति वर्ग च तथा प्रकृतिमण्डलम् ॥
यात्रादण्डविधानं च द्वियोनी संधिविग्रहों । कच्चिदेतान्महाप्राज्ञ यथावदनुमन्यसे ॥
[[५६१]]
अनेन नीतिशास्त्रप्रसिद्धा दशवर्गादयो राज्ञा उपा- देयत्वेन हातव्यत्वेन च सूचिताः । तथा च मनुः- ‘दश कामसमुत्थानि तथाष्टौ क्रोधजान्यपि । व्यसनानि दुरन्तानि प्रयत्नेन विवर्जयेत् । व्यसनस्य च मृत्यो व्यसनं कष्टमुच्यते । व्यसन्यधोऽधो व्रजति स्वर्यात्य- व्यसनी नृप ॥ ’ इति । तत्र दशवर्गादयो मनुना दर्शिताः - ’ मृगयाक्षा दिवास्वापः परिवादः खियो मदः । तौर्यत्रिकं वृथाध्वा च कामजो दशको गणः ॥ इति । कामन्दकेनापि ‘लुब्धः क्रूरोऽलसोऽमत्यः प्रमादी भीरुरस्थिरः । मूढोऽनेयोऽवमन्ता च सुखच्छेयो रिपु- मतः’ इति दशवर्गः । अथ पश्चवर्गः, अत्र काम-
પર
i
धर्मा कूते
न्दकः – ‘सापनं वास्तुजं बीजं वाग्जातमपराधजम् । वैरप्रभेदनिपुणैर्वैरं पञ्चविधं स्मृतम् ॥’ इति । संप्रा- ह्योऽपि पश्यवर्गः तत्र मनुः - ‘औदकं पार्वतं वाक्ष मैरिणं धान्वनं तथा । शस्तं प्रशस्तमतिथिर्दुर्गे दुर्गोप- चिन्तकैः ॥ ’ इति । अथ चतुर्वर्गः, अत्र कामन्दकः - ‘साम दानं च भेदश्च दण्डश्चेति चतुर्विधम् ॥’ इति । अथ सप्तवर्गः, तत्र कामन्दकः - ‘स्वाम्यमात्यश्च राष्ट्रं च दुर्गे कोशो बलं सुहृत् । परस्परोपकारीदं राज्यं सप्ताङ्गमुच्यते ।’ इति । अथाष्टवर्गः तत्र मनुः – ‘पैशुन्यं साहसं द्रोहमीर्ष्यासूयार्थदूषणम् । वाग्दण्डयोश्च पारुष्यं क्रोधजोऽपि गणोऽष्टकम् ॥ ’ इति । काम- न्दकेऽपि कृषिर्वणिक्पथो दुर्गे सेतुः कुञ्जरबन्धनम् खन्याकरं करादानं शून्यानां च निवेशनम् । अष्ट- वर्गमिदं प्राहुः स्वस्थचित्तो विवर्धयेत् ॥ ’ इति । अथ त्रिवर्गः, तत्र कामन्दकः – ’ वस्तुध्वशक्येषु समुद्यमं च शक्येषु मोहादसमुद्यमं च । शक्येष्वकार्येषु समुद्यमं च त्रीण्येव कार्ये व्यसनं वदन्ति ।’ यद्वा, धर्मार्थकामाः । अथ तिस्रो विद्याः प्रभुमन्त्रोत्साहशक्तयः, त्रयी
अयोध्याकाण्डः ।
પર
वार्ता दण्डनीतिर्वा । अथ षाड्गुण्यम्, षाड्गुण्यं षड्- गुणाः, तत्र मनुः - ‘सन्धि च विप्रहं चैव यानमासन- मेव च । द्वैधीभावं संश्रयं च षड्गुणांश्चिन्तयेत्सदा ॥ " इति । दैवमानुषम्, दैवं च मानुषं चैव दैवमानुषं व्यस- नम् । हुताशनो जलं व्याधिदुर्भिक्षं मरकस्तथा । मरको दस्युप्रभृतिजनितोपद्रवः ॥’ इति बध्यविधं देवं व्यसनम् ; मानुषं परम् ’ आयुक्तकेभ्यश्चोरभ्यः शत्रुभ्यो राज- वल्लभात् । पृथिवीपतिलोमाच्च प्रजानां पञ्चधा भयम् ॥’ आयुक्ताः, अधिकारिणः । कृत्यं कृत्यवर्ग भेद्यवर्गम्; अन कामन्दकः – ‘अलब्धवेतनो लुब्धो मानी चाप्यव मानितः । क्रुद्धश्व कोपितोऽकस्मात्तथा भीतश्च भीषितः ॥ यथाभिलषितैः कामैर्भिन्यादेतांश्चतुर्विधान् ।’ इति । अथ विंशतिवर्गः असंधेयविंशतिवर्गः कामन्दकः - ‘बालो वृद्धो दीर्घरोगी तथा ज्ञातिबहिष्कृतः । भीरुको भीरुज- नको लुब्धो लुब्धजनस्तथा ॥ विरक्तप्रकृतिश्चैव विषये- व्यतिशक्तिमान् । अनेकचित्तमन्त्रश्च देवब्राह्मणनि- न्दकः ॥ दैवोपहतकचैत्र देवचिन्तक एव च । दुर्भिक्षव्य- सनोपेतो बालव्यसनसं कुतः ॥ अदेशस्थो बहुरिपुयुक्तः
[[५३४]]
धर्माकूते
काले नयश्च सः । सत्यधर्मव्यपेतश्च विंशतिः पुरुषा अमी ॥ एतैः संधिं न कुर्वीत विगृह्णीयात्तु केव- लम् ॥’ इति । यद्वा, ‘राज्य स्त्रीस्थानदेशानां ज्ञातीनां
च धनस्य च । अपहारो मदो मानं पीडा वैषयिकी तथा ॥ ज्ञानार्थशक्तिवर्माणां विघातो देवमेव च । मित्रा- श्रश्वावमानश्च तथा बन्धुविनाशनम् ॥ भूतानुग्रहवि. च्छेदस्तथा मण्डलदूषणम् । एकार्थाभिनिवेशत्वमिति विप्र- योनयः ॥ ’ इति । प्रकृतिमण्डलम् प्रकृतयो मण्डलं च । प्रकृतयस्तावत्, अमात्यराष्ट्रदुर्गाणि कोशो दण्डश्च पश्यामः । एताः प्रकृतयस्तज्ज्ञैर्विजिगीषोरुदाहृताः ॥ ’ इतेि । मण्डलं तु, आरमित्रमरेर्मित्रं मित्रं मित्रमतः परम् । तथारिमित्रं मित्रं च विजिगीषोः पुरः स्मृतम् ॥ पाष्णिग्राहस्ततः पश्चादाक्रान्तस्तदनन्तरम् । असारोप- चयश्चैव विजिगीषोस्तु मण्डलम् ॥ अरेश्च विजिगी - बोश्च मध्यमो भूम्यनन्तरः । अनुग्रहे संहतयोस्तयो- निग्रहे प्रभुः ॥ मण्डलाद्वहिरेतेषामुदासीनो बलाधिकः । अनुग्रहे संहतानां व्यस्तानां निप्रहे प्रभुः ॥ ’ इति । यात्रा, यानम् । तच्च पञ्चविधम् । तथा च कामन्दकः-
अयोध्याकाण्डः ।
[[૫]]
[[៥]]
‘विगृह्य संधाय तथा संभूयाथ प्रसंगतः । उपेक्ष्य चेति निपुणैर्यानं पञ्चविधं मतम् ॥’ इति । दण्डविधानं सैन्यविधानम् । द्वियोनी संधिविग्रहौ । द्वयोयोनी हि- बोनी कारणभूतां संधिविग्रहौ । तत्र संधिः, द्वेषीभाव- समाश्रययोयनिः । विग्रहस्तु - यानासनयोः । काम- न्दुकः- ’ संघेश्च विग्रहस्यैव द्वैगुण्यमिति चक्षते । यानासने विग्रहस्य रूपं संधेः परं द्वयम्’ इति ।
मन्त्रिभिस्त्वं यथोद्दिष्टैश्चतुर्भिस्त्रिभिरेव वा । ‘कञ्चित्समस्तैश्च समं मन्त्रं मन्त्रयले मिथः ॥
अनेन कृत्यजातं सर्व राज्ञा मन्त्रिभिरालोच्यैव कर्त- व्यमिति सूचितम् । तथा च मनुः- ‘तैः सार्धं चिन्त- येन्नित्यं सामान्यं संधिविग्रहम् । स्थानं समुदयं गुप्तिं छत्वा प्रशमनानि च ॥ तेषां खं स्वमभिप्रायमुपलभ्य पृथक्पृथक्। समस्तानां च कार्येषु विद्ध्याद्धितमात्मनः ॥’ इति ।
• 4
कच्चित्ते सफला वेदाः कश्चित्ते सफलाः क्रियाः कच्चित्ते सफला दाराः कच्चित्ते सफलं श्रुतम् ॥
D. Pt. v-11 ·
સર
धर्माकूते
अनेन वेदादयः फलपर्यवसायिनः कर्तव्या इति सूचि- तम् । तथा च सभापर्वणि युधिष्ठिरं प्रति नारदः - ‘अग्निहोत्रफला वेदा दत्तभुक्तफलं धनम् । रतिपुत्रफला द्वाराः शीलपुत्रफलं श्रुतम् ॥’ इति ।
कञ्चिदेषैव ते बुद्धिर्यथोक्ता मम राघव । अपुष्पा च यशस्या च धर्मकामार्थसंहिता ॥
कच्चित्स्वादु कृतं भोज्यमेको नाश्नासि राघव । कच्चिदाशंस मानेभ्यो मित्रेभ्यः संप्रयच्छति ॥
अनेन मृष्टमनं नैकेन भोक्तव्यमिति सूचितम् । तथा चोद्योगपर्वणि ‘एको न मृष्टमश्नीयादेकः स्वा- न चिन्तयेत् ॥ ’ इति । तत्रैव एकः संपन्नम- श्नाति वस्ते वासश्च शोभनम् । योऽसंविभज्य भृत्येभ्यः को नृशंसतरस्ततः ॥’ अत्र श्रीरामचन्द्रेण स्वसंदर्शनार्थ समागतस्य भरतस्य कुशलप्रश्न व्याजेन सर्वेषां धर्माणां प्रतिपादनात् महद्भिः स्वष्टजनस्य समागमे कुशल- प्रश्नपूर्वकं धर्मोपदेशः कर्तव्य इति सूचितम् । तथा च सभापर्वणि धर्मपुत्र प्रति नारदवचनम् । वैशंपायनः—-
,अयोध्याकाणः ।
[[५६७]]
‘अथ तत्रोपविष्टेयु पाण्डवेषु महात्मसु । लोकान्परिभ्र- मन्सर्वोस्तत्रागमत्सभामुषिः ॥ नारदः स महातेजा ऋ- चिभिः सहितस्तदा । सभास्थान्पाण्डवान्द्रष्टुं प्रीयमाणो मनोजवः । सहसा पाण्डवो ज्येष्ठः प्रत्युत्थायानुजैः सह । अभ्यवादयत प्रीत्या विनयावनतस्तदा ॥ सोऽर्चितः पाण्डवैः सर्वैर्महर्षिर्वेदपारगः । धर्मकामार्थसंयुक्तं पत्र- च्छेदं युधिष्ठिरम् । नारदः - ‘कञ्चिदर्थाश्च कल्प्यन्से धर्मे च रमते मनः । सुखानि तव जायन्ते मनश्च न विहन्यते ॥ कञ्चिदाचरितां पूर्वैर्नरदेव पितामहैः । वर्तसे वृत्तिमक्षीणां धर्मार्थसहितां त्रिषु ॥ कञ्चिदर्थेन वा धर्म धर्मेणार्थमथापि वा । उभौ चाप्रीतिसारेण न कामेन प्रबाधसे । कञ्चिदर्थं च कामं च धर्मे च जयतां वर । विमज्य काले कालज्ञ सदा वरद सेवसे ॥ कच्चिद्राज- न्गुणैः सद्भिः सप्तोपायांस्तथानघ । बलाबलं तथा सम्ब- कचतुईश परीक्षसे ॥ कचिदात्मानमन्वीक्ष्य परांश्च जयतां वर । तथा संधाय कर्माणि अष्टौ भारत सेवसे ॥ कञ्चित्प्रकृतयः सप्त न लुप्ता भरतर्षभ । आच्यास्तथाव्यास - निनः स्वनुरक्ताश्च सर्वशः । कञ्चिन्न तकें धूर्तेर्वा ये चाप्यपरि-
१५३.८
धर्माकृते
सहिताः ॥ त्वचो वा तव वामात्यभिद्यते तानमन्त्रितम् । कचित्संधिः यथा कालं विग्रहं चोपमेवसे ॥ कंशि- तिमुदासीने मध्यमे चानुवर्तसे । कचिदात्मसमा बुद्धाः शुचयो जीवितक्षमाः ॥ कुलीनाश्चानुरक्ताश्च कृतास्ते चीर मन्त्रिणः । विजयो मन्त्रमूलो हि राज्ञां भवति मारत । सुसंवृतो मन्त्रिवरैरमात्यः शास्त्रकोविदैः । राष्ट्र सुरक्षितं तात शत्रुभिर्न च लुप्यते ॥ कचिनिद्रावशं
॥ नैषीः कञ्चित्काले विबुध्यसे । कशिश्चापरतन्त्रेषु चिन्त- यस्यर्थमनुवन् । कञ्चिन्मन्यसे नैकः कञ्चिश्च बहुभिः सहं ॥ कचित्ते मन्त्रितो मन्त्रो राष्ट्रं न परिधावति । कच्चिदर्थान्विनिश्चित्य लघुमूलान्महोदयान् ॥ क्षिप्रमार- भसे कर्तु न विन्नयसि तादृशान् । कञ्चित्सर्वे न कर्मान्ताः परोक्षास्ते विशङ्किनाः ॥ सर्वे वा पुनरुत्सृष्टाः संसृष्टं चात्र कारणम् । आप्तैरलुब्धैः क्रमिकैस्ते च कच्चिदनुष्ठिताः । कञ्चिद्राजन्कृतान्येव कृतप्रायाणि वा पुनः। विदुस्ते वीर कर्माणि नानवाप्तानि कानिचित् । कञ्चित्कारणिकाः सर्वे सर्वशाखेषु कोविदाः । कारयन्ति कुमारांश्च योधमुख्यांश्च सर्वशः । कचित्सहर्खाणा-
अयोध्याकाण्डः ।
}
[[५३९]]
मेकं क्रीणासि पण्डितम् । पण्डितो हार्थ कृच्छ्रेषु कुर्या निःश्रेयसं परम् ॥ कच्चिद्दुर्गाणि सण धनधान्यायु- वोदकैः । यन्त्रैश्च परिपूर्णानि तथा शिल्पिधनुर्धरैः ॥ एकोऽप्यमात्यो मेधावी शूरो दान्तो विचक्षणः । राजानं राजपुत्रं वा प्रापयेन्महतीं श्रियम् ॥ कञ्चिदष्टा- दशान्येषु स्वपक्षे दश पथ च । त्रिभिस्त्रिभिरभिज्ञातै- वेरिस तीर्थानि चारकैः ॥ कच्चिद्विषामविदितः प्रतिपन्नश्च सर्वदा । नित्ययुक्तो रिपून्सर्वानीक्षसे रिपुसूदनम ॥ कच्चिद्विनयसंपन्न कुलपुत्रो बहुश्रुतः । अनसूयुरनप्रष्टा संस्कृतस्ते पुरोहितः ॥ कच्चिदग्निषु ते युक्तो विधिज्ञो मतिमानृजुः । हुतं च होयमाणं च काले वेदयते सदा ॥ कञ्चिदङ्गेषु निष्णातो ज्योतिर्विद्याविशारदः । उत्पातेषु च सर्वेषु देवज्ञकुशलस्तव । कच्चिन्मुख्या महत्स्वेव मध्यमेषु च मध्यमाः । जघन्याश्च जवन्येषु भृत्यास्त तात योजिताः ॥ अमात्यानुपधातीनान्पितृपैतामहा- शुचीन्। श्रेष्ठाश्रेष्ठेषु कच्चित्वं नियोजयसि कर्मसु ॥ कच्चिन्नोद्रेण दण्डेन भृशमुद्वेजित प्रजाः । राष्ट्रं तवानु- जानन्ति मन्त्रिणो भरतर्षभ ॥ कच्चित्वां नावजान-
धर्माकूते
न्ति याजकाः पतितं यथा । उग्रप्रतिगृहीतारं कामयानमिव स्त्रियः ॥ कच्चिद्धृष्टश्च शूरश्च मतिमान्धृतिमान्कविः । कु- छीनश्वानुरक्तश्च दक्षः सेनापतिस्तव । कच्चिद्बलस्य ते मुख्याः सर्वे युद्धविशारदाः ॥ धृष्टा वदान्या विक्रान्ता- स्त्वया सत्कृत्य मानिताः । कचित्रस्य भक्तं च वेतनं च यथोचितम् ॥ संप्राप्तकालं दातव्यं ददासि न विक- बसि । कालातिक्रमणाच्चैते भक्ता वेतनयोर्भूताः ॥ भर्तुः कुप्यन्ति दौर्गत्या सोऽनर्थः सुमहान्स्मृतः । कच्चि - त्सर्वेऽनुरक्तास्त्वां कुलपुत्राः प्रधानतः ॥ कच्चित्प्राणां- स्तवार्थेषु संत्यजन्ति सदा युधि । कञ्चिन्नैको बहून- सर्वशः सपरायिकान् ॥ अनुशास्ति यथाकामं कामात्मा शासनातिगः । कच्चित्पुरुषकारेण पुरुषः कर्म भावयन् ॥ लभते मानमात्मीयं भूयो बा भक्तवेतनम् । कच्चिद्विद्या विनीतांश्च नराज्ञानविशारदान ॥ यथाई गुणतश्चापि दानेनाभ्युपपद्यसे । कच्चिद्दारान्मनुष्यार्णा तवार्थे मृत्युमीयुषाम् । व्यसनं चाभ्युपेतानां बिभर्षि भरत- र्षभ । कच्चिद्भयादुपतं क्लीवं रिपुमुपागतम् । युद्धे वा विजितं पार्थ पुत्रवत्परिरक्षसि । कच्चित्वमस्याः सर्वस्याः
अयोध्याकारः ।
[[५११]]
पृथिव्याः पृथिवीपते । समश्च नाभिशङ्कयश्च यथा माता यथा पिता ॥ कच्चिद्वयसनिनं शत्रुं निशम्य भरतर्षभ । अभियासि जवेनैव समीक्ष्य त्रिविधं बलम् । पाणिमूलं च विज्ञाय व्यवसायं पराजयम् बलस्य तु महाराज दवा वेतनमग्रतः । कच्चिच्च बलमुख्येभ्यः परराष्ट्रे परंतप । उपच्छन्नानि रत्नानि प्रयच्छसि यथाईतः । कचिदा- स्मानमेवाग्रे विजित्य विजितेन्द्रियः । पराजिगीषसे पार्थ प्रमत्तान जितेन्द्रियान् । कच्चित्ते यास्यतः शत्रून्पूर्व बान्ति स्वनुष्ठिताः ॥ साम दानं च भेदश्च दण्डश्च विधिवद्गुणाः । कच्चिन्मूलं दृढं कृत्वा यात्रां याि विशांपते । तांश्च विक्रमसे जेतुं जित्वा च परिरक्षसि । कच्चिष्टाङ्गसंयुक्ता चतुर्विधबला चमूः ॥ बलमुख्ये सुनीता च द्विषतां प्रतिवर्धिनी । कच्चित्वं च मुि च परराष्ट्र परंतप । अविहाय महाराज निहंसि समरे रिपून् । कचित्स्वपुररष्ट्रेषु बहवोऽधिकृतास्तव । अर्था- समनुतिष्ठन्ति रक्षन्ति च परस्परम् । कच्चिद- *यवहाराणि गात्रसंस्पर्शनानि च । पेयानि च महाराज रक्ष्यन्तेऽनुमतास्तव । कचित्काष्ठं च कोशं
+
[[५१३]]
धर्माते
च वाहनं द्वारमायुधम् ॥ आयश्च कृतकल्याणैः तव भक्तिरनुष्ठितः । कच्चिदाभ्यन्तरेभ्यश्च बाह्ये- भ्यश्च विशांपते । रक्षम्यात्मानमेत्राप्रे तांश्च स्वे- भ्यो मिथश्च तान् । कच्चिन्न पाने द्यूते वा क्रीडासु प्रमदासु च ॥ प्रतिजानन्ति पूर्वाह्न व्ययं व्यसनजं तव । कच्चिदायस्य चार्थेन चतुर्भागेन वा पुनः । पादभागे- भिर्वापि व्ययः संशुध्यते तव । कचिज्ज्ञातीन्गुरून् शुद्धान्वणिजः शिल्पिनः श्रितान् ॥ अभीक्ष्णमनुगृहासि धनधान्येन दुर्गतान् ॥ कच्चिदायव्यये युक्तः सर्वे गणक- लेखकाः ॥ अनुतिष्ठन्ति पूर्वा नित्यमायव्ययं तव ! काच्चदर्थेषु संप्रौढान्हितकामाननुप्रियान् ॥ नापकर्षसि कर्मभ्यः पूर्वमप्राप्य किल्विषम् । कच्चिद्विदित्वा पुरुषा- मुत्तमाधममध्यमान् ॥ त्वं कर्मस्वनुरूपेषु नियोजयति भारत । कच्चिन्न लुब्धाचौरा वा वारिणो वा विशांपते । मप्राप्यव्यवहारा वा तवं कर्मस्वनुःष्ठताः । कच्चिन्न
सर्व लुब्धैश्चोरैर्वा कुमारैः श्रीबलेन वा ॥ त्वया वा पीड्यते राष्ट्रं कच्चिन्तुष्टाः कृषीवलाः । कच्चिद्राष्ट्रे तडागानि पूर्णानि च महान्ति च । भागशो में निविष्टानि न
अयोध्याकाण्डः ।
५-३
कच्चिदू-
कृषिर्देवमातृका ॥ कच्चिद्दीजं च भक्तं च कर्षकायाक- खीदते । प्रत्येकं च शतं वृद्धथा ददास्यृणमनुग्रहम् ॥ कच्चित्स्वनुष्ठिता तात वार्त्ता ते साधुभिर्जनैः । वार्त्तायां संश्रितस्ताव लोकोऽयं सुखमेचते । कच्चिच्छूराः कृतप्रज्ञाः पवस्वनुष्ठिताः । क्षेम कुर्वन्ति संहत्य राजन् जन- पदे तव । कच्चिन्नगरगुप्त्यर्थे ग्रामा नगरवत्कृताः ॥ प्रामवच कृता रक्षा ते च सर्वे त्वदर्पणाः । कच्चि दूबे नानुयाताः समानि विषमाणि च ॥ पुराणि चौरानि- नन्ति चरन्ति विषये तव । कच्चित्त्रियः सान्त्वयसि कच्चित्ताश्च सुरक्षिताः । कच्चिन्न श्रद्दधास्यास कच्चिद्रुह्यं न भाषसे । कच्चिचागन्निशि श्रुत्वा तत्कार्य- मनुचिन्त्य च । प्रियाण्यनुभव शेषे विचिन्त्याभ्यन्तरं मनम् ॥ कच्चिहौ प्रथमो यामौ राज्यां सुप्त्वा विशां- यते । संचिन्तयसि धर्मार्थों याम उत्थाय पश्चिमे ॥ कच्चिद्दर्शय से नित्यं मनुष्यान्समलंकृतान् । उत्थाय काले कालज्ञ सह पाण्डव मन्त्रिभिः । कच्चिद्रक्का- म्बरधराः खड्गहस्ताः खलङ्कृताः । अभितस्त्वामु- पासन्ते रक्षणार्थमरिंदम । कच्चिद्दण्डवेषु यमवत्पू-
[[1]]
[[५४४]]
धर्माकूते
ज्येषु च विशांपते । परीक्ष्य वर्तसे सम्यगप्रियेषु प्रियेषु च ॥ कच्चिच्छारीरमात्राश्रमौषधैर्नियमेन वा । मानसं वृद्धसेवाभिः सदा पार्थापकर्षसि ॥ कच्चिद्वैद्याश्चिकि- त्सायामष्टाङ्गायां विशारदाः । सुहृदश्चानुरक्ताश्च शरीरे ते हिताः सदा ॥ कच्चिन्न मानान्मोहाद्वा कामाद्वापि विशांपते । अर्थिप्रत्यर्थिनः प्राप्तान्नापास्यसि कथचन ॥ कश्चिन मोहालोमाद्वा विस्रंभारपणयेन वा । आश्रि- तानां मनुष्याणां वृत्तिं त्वं निरुणत्सि च ॥ कच्चित्पौ- राणसहिता ये च ते राष्ट्रवासिनः । त्वया सह fas- भ्यन्ते परैः क्रीताः कथंचन ॥ कच्चिन्न दुर्बल शत्रु- शेन परिपीडितः । मन्त्रेण बलवान्कञ्चिदुभाभ्यां वा युधिष्ठिर ॥ कच्चित्सर्वेऽनुरकाम्यां भूमिपालाः प्रधा नतः । कच्चित्प्राणांस्तवार्थेषु संत्यजन्ति स्वयादृताः ॥ कच्चित्ते सर्वविद्यासु गुणतोऽर्चा प्रवर्तते । ब्रह्मणानां च साधूनां तव निःश्रेयसे शुभा । कच्चिद्ध में त्रयीमूळे पूर्वैराचरितं जनैः ॥ वर्तमानस्तथा कर्तुं तस्मिन्कर्मणि वर्तसे । कच्चित्तव गृहेऽन्नानि स्वादून्यश्नन्ति वै द्विजाः ॥ गुणवन्ति गुणोपेतास्तवाध्यक्षं सुदक्षिणम् । कच्चिन्
[[1]]
अयोध्याकाण्डः ।
[[1]]
[[५४५]]
कुरुषे राजन्वाजपेयांश्च सर्वशः ॥ पौण्डरीकांश्च का- स्स्न्येन यत से कर्तुमात्मवान् । कञ्चिज्ज्ञातीन्गुरुम्बुद्धान्दे- बतांस्तापसानपि । चैत्यांश्च वृक्षान्कल्याणान्ब्राह्मणांच नमस्यसि ॥ कच्चिच्छोको न मन्युर्वा त्वया चोत्पाद्यतेऽनघ । आयुष्या च यशस्या च धर्मकामार्थदर्शिनी । एतया वर्तमानस्य बुध्या राष्ट्रं न सीदांते । विजित्य च महीं राजा सोऽत्यन्तं सुखमेधते ॥ कच्चिदाय विशुद्धात्मा च्छा- दितश्चोर कर्मणि । अदुष्टः शास्त्रकुशलैर्न लोभाद्वध्यते शुचिः ॥ तुष्टो गृहीतस्तत्कारी प्राज्ञेर्दुष्टः सकारुणः । कच्चिन्न मुच्यते स्तेनो द्रव्यलोभान्नरर्षभ ॥ उत्पन्नान्क- च्चिदान्यस्य दरिद्रस्य च भारत । अर्थान्न मिध्या पश्य- न्ति तवामात्या हुवा धनैः ॥ नास्तिक्यमनृतं क्रोषं प्रमादं दीर्घसूत्रताम् । अदर्शनं ज्ञानवतामाजस्यं क्षिप्त- चित्तताम् ॥ एकचिन्तनमर्थानामनर्थज्ञैश्च चिन्तनम् । निश्चितानामनारम्भं मन्त्रस्यापरिरक्षणम् ॥ मङ्गल्य- स्याप्रयोगं च प्रसङ्गं विषयेषु च । कच्चित्वं वर्ज- यस्येतान्राजदोषांश्चतुर्दश ॥ प्रायशो यैर्विनश्यन्ति कृतमूलोऽपि पार्थिवः । कचित्ते सफला वेदाः कच्चि
धर्माकूते
ते स्रफलं धनम् ॥ कचिन्ते सफला दाराः कच्चिते सफलं श्रुतम् ॥ युधिष्ठिरः । कथं वै सफला वेदाः कथं वै सफलं धनम् । कथं वै सफला दाराः कथं वै सफलं श्रुतम् ॥ नारदः – आनहोत्रफला वेदा दत्तभुक्तफलं धनम् । रतिपुत्रफला नारी शीलवृत्तफलं श्रुतम् ॥ वैश- म्पायनः – एतदाख्याय स मुनिर्नारदः सुमहातपाः । पप्रच्छानन्तरमिदं धर्मपुत्रं युधिष्ठिरम् । नारदः- कच्चिदभ्यागता दूता वणिजो लोभकारणात् । यथोक्त- मपहार्यन्ते शुल्कं शुल्कोपजीविभिः । कच्चित्तं पुरुषा राजन्पुरे राष्ट्रे च मानवाः । उपनयन्ति पुण्यानि उप- धाभिर्न वञ्चिताः । कच्चिच्छृणोषि मर्त्यानां धर्मार्थ- सहिता गिरः ॥ नित्यमर्थविदां तात तथा कर्मानुदर्शि- नाम् । कच्चित्ते कृषितन्त्रेषु गोषु पुण्यफलेषु च ॥ धर्मार्थ द्विजमुख्येभ्यो दीयते मधुसर्पिषी । द्रव्योपकरणं किंचित्सर्वदा सर्वशिल्पिषु । चातुर्मास्यवरं सम्यङ्नि- यतं संप्रयच्छसि । कच्चित्कृतं विजानीषे कर्तारं च प्रशंससि ॥ सतां मध्ये महाराज सत्करोषि च पूजयन् । कच्चित्सूत्राणि सर्वाणि गृह्णाति भरतर्षभ । हस्तिसू-अयोध्याकाण्डः ।
श्राश्वसूत्राणि ब्रह्मदण्डश्च भारत । विषयोगाश्च सर्वे ते विदिताः शत्रुनन्दनाः ॥ कच्चिदग्निमयाच्चैव सर्प- व्यालभयात्तथा । रोगरक्षोभयाच्चैव राष्ट्रं स्वं परिर- क्षसि ॥ कचिदधांश्च पंगूंश्च मूकान्ध्यङ्गानबान्धवान् । पितेव पासि धर्मज्ञ तथा प्रब्राजितानपि ॥ षडनर्था महाराज कच्चित्ते पृष्ठतः कृताः । निद्रालस्यं भयं क्रोधो मार्दवं दीर्घसूत्रताम् ॥ एवं यो वर्तते राजा चातुर्वर्ण्यस्य रक्षणे । स विहृत्येह सुसुखी शक्रस्यैति सलोकताम्’ इति ॥ एकशततमेतदनु तदनुजो भरतः कुशलप्रश्न- मिषेण नानाविधान्राजधर्मानुपदिशन्तं रामभद्रं प्रत्यु-
बाच
किं से धर्माद्विहीनस्य राजधर्मः करिष्यति ।
अवश्य कर्तव्य ज्येष्ठानतिक्रमणरूपधर्माद्विहीनस्य राज- धर्मः अर्किश्चित्कर इत्यर्थः । तदेवाह -
शाश्वतोऽयं सदा धर्मः स्थितोऽस्मासु नरर्षभ । ज्येष्ठे पुत्रे स्थिते राजन्न कनीयान्नृपो भवेत् । सुसमृद्धां मया सार्धमयोध्यां गच्छ राघव ॥
[[५४८]]
धर्माकूते
तदस्मत्कुलश्रेयोऽभिवृद्धये त्वमात्मानमभिषेचय ।
राजानं मानुषं प्राहुर्देवश्व संमतं मम । यस्य धर्मार्थसहितं वृत्तमाहुरमानुषम् ॥
अनेन अमानुषचरितत्वाद्राजा देव एव । अदर्शितामा- नुषचरित्रत्वं च मनुना दर्शितम् —’ चन्द्रस्यार्कस्य वातस्य यमस्य वरुणस्य च । इन्द्रस्याः पृथिव्याश्च तेजो वृ नृपश्चरेत् ॥ वार्षिकांश्चतुरो मासान्यथेन्द्रोऽङ्गिः प्रव- पंति । तथाभित्रषेत्स्वं राष्ट्रं कामैरिन्द्रतं चरन् ॥ अष्टौ मासान्यथादित्यस्तोय हरति रश्मिभिः । तथा हरेत्करं राष्ट्रान्नित्यकर्मत्रतं चरन् ॥ प्रविश्य सर्वभूतानि यथा चरति मारुतः । तथा चारैः प्रवेष्टव्यं वनमेनद्धि मारुतम् ॥ यथा यमः प्रियद्वेष्य प्राप्ते काले नियच्छति । तथा राज्ञा नियन्तव्याः सर्वे तद्धि यमव्रतम् ॥ वारुणेन यथा पारौ- वैष्यते पापकृन्नरः । तथा पापान्निगृहीया इनमेतद्धि वारु- नम् ॥ परिपूर्ण यथा चन्द्रं दृष्ट्वा हृष्यन्ति मानवाः । तथा प्रकृतयो यस्मिन्सचन्द्रव्रतको नृपः ॥ प्रतापयुक्त - स्तेजखी नित्यं स्यात्पापकर्मसु । दुष्टसामन्तर्हित्रश्च तदा-
अयोध्याकाण्डः ।
[[५१९]]
झेयत्रतं स्मृतम् ॥ यथा सर्वाणि भूतानि धरा धारयते समम् । तथा सर्वाणि भूतानि विभ्रतः पार्थिवं व्रतम् ॥ इति । दशरथोऽपि मयि केकयदेशनिवाखिनि, स्वयि चारण्यमाश्रिते त्वद्विवासनजनित गुरुतरशोक भारविदी- हृदयः स्वर्गमार्ग परिष्कृतवान् । उचिष्ट तदधुना पितुरौर्ध्वदेहिकमुदकं कुरु । प्रागेव शत्रुघ्नेन सहाह- मुदकमकरवम् ।
प्रियेण खलु दत्तं हि पितृलोकेषु राघव । अक्षम्यं भवतीत्याहुर्भवांश्चैव पितुः प्रियः ॥
अब, ‘पुत्राणां मध्यमो वापि कनिष्ठो ज्येष्ठ एव वा । पितुर्यस्तु प्रियतमः सर्वे तेनैव कारयेत् ॥’ इवि ऋष्यशृङ्गवचनपर्यालोचनया सत्यपि ज्येष्ठे प्रियपुत्रस्यैश पितुरोर्ध्वदेहिकाधिकारप्रतिपादनेन प्रियज्येष्ठपुत्रदत्तं पि- तुरक्षय्यं भवतीति अनुक्तसिद्धम् ॥ द्विशततमे - पितृमरणसमाकर्णनममधिकशोक संतप्तहृदयो रामभद्रः चान्नगारिका निसृष्टकुलिशसदृशं भरतवदन विनिर्गतं वच- नमाकर्ण्य परशुसंनिकृत्तसालपोत इव भूमौ निपपात ।
[[५५०]]
धर्माकूते
वदनु तदनुजाः कशाघातपरिश्रमेण प्रसुप्तं गजराजमिव नयनजेन जलेन निषिचुः । अथ मुहूर्तात्संज्ञामुपलभ्य उत्फुल्लागंविन्दसमाकाराभ्यां नयनाभ्यां मुहुर्मुहुरुष्ण मास्रमु-
सृजन्
उवाच भरतं वाक्यं धर्मात्मा धर्मसंहितम् । किं करिष्याम्ययोध्यायां ताते दिष्टां गतिं गते ।
कस्तां राजवरादीनामयोध्यां पालयिष्यति । किं नु तस्य मया कार्ये दुर्जातेन महात्मनः ॥
यो मृतो मम शोकेन मया चापि न संस्कृतः । महो भरत सिद्धार्थो येन राजा त्वयानघ ॥
शत्रुघ्नेषु च सर्वेषु प्रेतकृत्येषु संस्कृतः ।
अनेन पितुः चरमसंस्कारकर्तेव धन्य इति सूचितम् । सोऽहमिदानी लोकान्तरगते पितरि,
निवृत्त वनवासोऽपि अयोध्यां गन्तुं नोत्सहे ।
हा जनकनन्दिनि श्वशुरेण विना कृतासि । लक्ष्मण
अयोध्याकाण्डः ।
[[५५१]]
त्वमपि पितृविहीनः कथमिदानीं वर्तिष्यस इति सकरुणं परिदेवयमानं रामभद्रमवलोक्य तदनुजाः,
अब्रुवन् जगतीभर्तुः क्रियतामुदकं पितुः ।
अथ श्वशुरवियोगेन विद्यमानमानसां सीतां सान्त्व-
यित्वा,
आनयेदिपिण्याकं चीरमाहर चोत्तरम् । जलक्रियार्थं तातस्य गमिष्यामि महात्मनः ॥
सीता पुरस्ताद्वजतु त्वमेनामभितो व्रज ।
अहं पश्चाद्रमिष्यामि गतिषा सुदारुणा ॥
इति राम्रो लक्ष्मणमभिधाय अनुजैः सह मन्दाकि- नीतीरपरिसरमभिससार । अव अपः स्नानार्थं गच्छतायं विधिः सूचितः । तथा चापस्तम्बः— ‘उदकोपस्पर्शने आरोहणे इति सर्वत्र कनिष्ठकप्रथमा अनुपूर्वा इतरे स्त्रीयोगे’ इति ।
ते तु तीर्थ ततः कृच्छ्रादुपगम्य यशस्विनः । सिषिचुस्तुदकं राज्ञे वै भवत्विति ॥
D. Pt. v-12
[[५५२]]
धर्माकूते
प्रगृह्य च महीपालो जलपूरितमञ्जलिम् । दिशं याम्यामभिमुखो रुदन्वचनमब्रवीत् ॥
एतते राजशार्दूल विमलं तोयमक्षयम् । पितृलोकं गतस्यार्थे महत्तमुपतिष्ठः ॥
इति यथाविधि जलाश्खलिमदात् । तं विधिमाहाप- स्तम्बः - ‘एकवासस्रो दक्षिणामुखाः सकृदुपमज्ज्योतीर्य वासः पीडयित्वोपविशन्ति । एवं त्रिस्तत्प्रत्ययं तिलमिश्र- मुदकमुत्सिञ्चेत्’ इति । अब कृतौर्ध्वदेहिकस्यापि पितुः रामेण निवापोदकदानात् अन्येरपि देशान्तरस्यैः पुत्रैः कृतौर्ध्वदेहिकस्यापि पितुः निवापोदकदानादि कर्तव्य- मिति सूचितम् । तथा श्लोक गौतमः - ‘दहनादिसपि- ण्डान्तं कनिष्ठाद्यैः कृतं यदि । पित्रोर्देशान्तरज्येष्ठस्त- हत्वा श्रवणाहतः । कुर्यात्क्षौरादि शोके वा रात्रौ श्रुत्वा पराहतः । उत्पकेशो दशाहं तं दद्यात्रिंशदशैव वा ॥ तिलोदान्युत्पकेशादि ततः कुर्यात् ’ इति ।

ततो मन्दाकिनीतीरात्प्रत्युत्तीर्य स राघवः । पितुश्चकार तेजस्वी निवापं भ्रातृभिः सह ॥
अयोध्याकाण्डः ।
ऐकुदं बदरीमिक्षं पिण्याकं दर्भसंस्तरे । म्यस्य रामः सुदुःखात रुदन्वचनमत्रवी ॥
इदं भुश्व महाराज प्रीतो यदशना वयम् ।
[[५५३]]
ननु अनेन वचनेन स्नानसमनन्तरमेव रामेण पिण्ड- दानं कृतमिति प्रतिपादितम् । तत्कि दशादमध्ये कर्तव्य - पिण्डदानात्मकम् उत सपिण्डीकरणात्मकम् ? नाथः, दशाहमध्य कर्तव्य पिण्डदानस्य कृतौर्ध्वदेहिक विषये पुनरा- वृत्तिप्रतिषेधात् । तथा च स्मृत्यन्तरे - ‘मुख्यकर्ता बिदे- शस्थः काले काले श्रुतौ यदि । तिलवारि प्रकुर्वीत पि- ण्डदानं विवर्जयेत् ॥’ काले एकोद्दिष्टसमये अकाले तद- नन्तरम् इति । न द्वितीयः – ‘पितरौ चेन्मृतौ स्यातां दूरस्थोऽपि हि पुत्रकः । श्रुत्वा तद्दिनमारभ्य दशाहं सूतकी भवेत् ॥’ इति पैठीनखिवचनपर्यालोचनया श्रवणदिनप्रभृतिदशाहपर्यन्तमाशौच सत्त्वेन ‘सर्वेषामेव ब- र्णानामाशौचान्ते सपिण्डनम्’ इति कात्यायनवचनपर्यालो- चनया आशौचान्ते कर्तव्यस्य सपिण्डीकरणस्य श्रवण- दिन एव अशुद्धेन कर्तुमशक्यत्वात् इति चेन्न । सपिण्डी-
[[1]]
[[५५४]]
धर्माकूते
करणप्रतिपादक एवायं पिण्डशब्दः । न च शुद्धयनन्तर- कर्तव्यस्य सपिण्डीकरणस्य श्रवणदिन एव कथमनुष्ठान- मिति वाच्यम् । प्रतिनः क्रियावतो राज्ञो रामभद्रस्य सद्यः शुद्धत्वेन श्रवणदिने स्नानसमनन्तरमेव कर्तुमश- क्यत्वात् । तथा च दक्षः– ‘गदार्थ यो विजानाति वेदमङ्गेः समन्वितम् । संकल्पं सरहस्यं च क्रियावांचेन सूतकम् । राजविंग्दीक्षितानां च बाले देशान्तरं तथा ॥ व्रतिनां सत्रिणां चैव सद्यः शौचं विधीयते ।’ इति । दशाहसूतकं तु ‘अस्नात्वा च जपो हुत्वा भुङ्क्ते दत्त्वा च यो द्विजः । एवंविधस्य विप्रस्य दशाहं सूतकं भवेत् ॥ ’ इति वचनात् स्नानाद्यभाववत्पुरुषविषयम् । ‘वृत्तस्वाध्याय- सापेक्षमघसंकोचनं तथा’ इत्युपक्रम्य ‘कलौ युगे विमान्ध- मन् वर्ज्यानाहुर्मनीषिणः । दशाह एव विप्रस्य सपिण्ड - मरणे सति ॥ कल्पान्तराणि कुर्वाणः कलौ व्यामोह- किल्बिषी । ’ इति हरीतः । ’ न कर्तव्यं न कर्तव्यं सद्यः संकोचनं कलौ ।’ इत्यादिवचनावगतोऽयं संकोचनिषेधस्तु कलियुगविषयः । परमपुरुषस्य कल्याणचरित्रस्य रामभद्रस्व तु त्रेतायुगवर्तित्वात्सद्यः शुद्धिर्भवत्येव । नन्वेवमपि भर-
अयोध्याकाण्डः ।
[[५५५]]
तेन प्रागेव सपिण्डीकरणस्य कृतत्वेन कथं रामेण पुनः करणमिति चेन्न । ‘यवीयसा कृतं कर्म प्रेतशब्दं विहाय
1 तु । तज्ज्यायसापि कर्तव्यं सपिण्डीकरणं पुनः’ इत्यादि- शास्त्रपर्यालोचनया देशान्तरस्थेन ज्येष्ठपुत्रेण कृतौर्ध्वदे- हिकस्यापि पितुः प्रेतशब्दं विहाय पुनः सपिण्डीकर्तव्य- स्वात् । न च सपिण्डीकरणस्य ब्राह्मणभोजनसापेक्षत्वात् इह च पिण्डदानमात्र श्रवणात् कथमिदं सपिण्डीकरणरूप- मिति वाच्यम्, उदाहृतवचनपर्यालोचनया सपिण्डी- करणस्यावश्यकर्तव्यत्वेन तदनुरोधात् । अत्रत्यपिण्डदा- नशब्दस्य ब्राह्मणभोजनोपलक्षकत्व संभवात्,
ऐकुदं बदरीमिश्रं पिण्याकं दर्भसंस्तरे । न्यस्य रामः सुदुःखार्तो रुदम्बचनमब्रवीत् ॥ यदन्नः पुरुषो लोके तदन्ना तस्य देवता ॥ इति । अनेन पुरुषस्य वर्णाश्रमोचितं यादृशमन्नं लब्धं स्वादु वा अस्वादु वा तदेव देवतातिथिपितृभ्यो देयमिति सूचितम् । देवताशब्दश्च देवपितृमनुष्यसाधारण संप्रदान- मात्रपरः अत्रैव पिण्डदानोद्देश्ये पितरि देवताशब्दप्रयो-
[[५५६]]
धर्माकूते
गात् । तथा तैत्तरीये वैश्वदेवग्रहब्राह्मणे ‘एतस्मिन्वा अपि ग्रहे मनुष्येभ्यो देवेभ्यः पितृभ्यः क्रियते’ इत्यनुक्रान्तेषु मनुष्यादिषु वाक्यशेषे ‘एतावती देवताः ताभ्य एवैनं सर्वाभ्यो गृह्णाति ’ इति देवताशब्दप्रयोगात् मनुष्यादि- साधारणो देवताशब्दः । तथा च मनुः - ‘यद्भक्षयेत्ततो दद्यात् बलिभिक्षां च शक्तितः । अम्मूलफलभिक्षाभिर- चयेदाश्रमागतान् ॥ ’ इति । यज्ञः पुरुषस्तु तच्छेष इत्यर्थः । तथा च गीतासु ‘इष्टान्भोगान्हि वो देवा दास्यन्ते यज्ञभाविताः । तैर्दत्तानप्रदायैभ्यो यो भुङ्क्ते स्तेन एव सः ॥ यज्ञशिष्टाशिनः सन्तो मुच्यन्ते सर्वकिल्बिषैः । ते स्वयं भुञ्जते पापा ये पचन्त्यात्मकारणात् ॥’ इति । देवलोऽपि
-‘देवार्थे ब्राह्मणार्थे वा पचमानो न लिप्यते । अघं स केवलं भुङ्क्ते यः पचत्यात्मकारणात् ॥ नात्मार्थ पचयेदनं नारमार्थ घातयेत्पशून् ।’ इति । मनुरपि – ‘भैक्षमन्नं गृहस्थस्य वर्णिनो भैक्षमेव च । आत्मार्थे पकमन्नं च स्वमांससदृशं भवेत् ॥’ इति । आपस्तम्बोऽपि - ‘अ- तिथीनेवाद्ये भोजयेद्रालान्वृद्वान्यरोग संबन्धान् श्रींश्चान्त- मीः’ इति ‘शेषभोज्य तिथीनां स्यान्न रसान्गृहे भुञ्जीतअयोध्यावः ।
[[1]]
[[५५०]]
नावशेषमतिथिभ्यो नात्मार्थमभिरूपमन्नं पाचयेत्’ इति च! बोबायनोऽपि - ‘भोजयेदतिथीनन्तर्व नीरनन्तरं बाल- वृद्धांस्तथा दीनान्व्यावितांश्च विशेषतः । अदत्त्वा तु य एतेभ्यः पूर्वे भुङ्क्ते यथाविधि । भुखानोऽपि न जानाति न स भुङ्क्ते न भुज्यते । पितृदैवतभृत्यानां मातापित्रोर्गु- रोस्तथा ॥ वाग्यतोऽथ समश्नीयादेष धर्मों विधीयते ।’ स एव – ’ न त्वेव कदाचिददत्वा भुञ्जीत’ अथाप्यवान- गीतौ श्लोकावुदाहरन्ति - ‘यो मामदत्त्वा पितृदेवताभ्यो मृत्यातिथीनां च सुहृज्जनस्य । संपन्नमश्नन्विषामन्ति मोहा- तमद्मयहं तत्र च मृत्युरस्मि ॥ हुताग्निहोत्रः कृतवैश्वदेवः पूज्यातिथीन्भृत्यजनावशिष्टम । तुष्टः शुचिः श्रद्दधदत्ति बो मां तस्यामृतं स्यां स च मां भुनक्ति ॥ ’ याज्ञवल्क्यो - ऽपि - ‘अन्नं पितृमनुष्येभ्यो देयमप्यन्वहं जलम् । स्वा- ध्यायं चान्वहं कुर्यान्न पचेदन्नमात्मनः ॥ ’ इति । बृहदा-
। रण्यके — ‘एकमस्य साधारणमितीदमेवास्य तत्साधारण- मिनीदमेवास्य तत्साधारणमन्नं यदिदमावते स एतदुपा- स्ते न स पाप्मनो व्यावर्ते मिश्रं ह्येतत्’ इति । तथा आग्रयणे श्रुतिः-’ आनीतो वा एष देवानां य आहिताग्निरदन्त्यस्य
[[५५८]]
धर्माकूते
देवा अनं यदकृत्वाप्रायणं नवस्याश्नीयात् । देवेभ्यो भागं प्रतिक्लप्तमद्या दार्तिमाच्छेत्’ इति । बोधायनोऽपि - ‘अना- हिताग्नेराप्रयणं कृत्वा वैश्वदेवं कृत्वा ब्राह्मणेभ्यो दत्त्वा प्राशनमेवमेतेन सर्वासामौषधीनामाप्रयणं व्याख्यातम्, अथ फलानां मूलानां भक्ष्याणां ब्राह्मणेभ्यो दत्वा प्राशनमेव पुष्पाणाम् अन्येषां च नवानां ब्राह्मणेभ्यो दवोपयोगः ’ इति । अथ वा यादृशमनं सृष्टमश्नाति पुरुषः देवता अप्यविशेषेण तदन्नाः न तत्र भेदः कार्य इति सूचितम् । तथा च देवत्तः– ‘मृष्टमन्नं स्वयं भुक्त्वा कदन्नन्तु ततो नरः । ब्राह्मणं भोजयेन्मूर्खो नरके चिरमावसेत् ॥ ’ इति । वसिष्ठोऽपि ‘मांसमन्नं तथा शाकं गृहे यद्वीप- पादितम् । न वै स्वयं तदश्रीयादतिथिं यन्न भोजयेत् ॥’ इति । देवलः – ‘अघृतं भोजयद्विप्रं यो गृहे सपिति सर्पिषी । परत्र निरयं घोरं गृहस्थः प्रतिपद्यते । ’ इति । मनुः– ‘नैव स्वयं तदश्रीयादतिथिं यन्न भोजयेत् । धन्यं यशस्यमायुष्यं स्वये चातिथिपूजनम् ॥’ इति । संवर्त :–’ यस्त्वेकपङ्ख्या विषमं ददाति स्नेहाद्भयाद्वा यदि वार्थहेतोः । क्रूरं दुराचारमनात्मवन्तं ब्रह्मन्नमेनं मुनयो

अयोध्याकाण्डः ।
[[1]]
[[५५९]]
वदन्ति ॥ पतिभेदी पृथक्पाकी नित्यं वै यतिनिन्दकः । ब्राह्मणे निन्दकश्चैव आदेशी वेदविक्रयी ॥ षडेते ब्रह्म- हन्तारो गतिस्तेषां न विद्यते ।’ इति । मार्कण्डेयपुराणे- ‘एकपङ्कया च ये विप्रमथवेतरवर्णजाम् । विषमं भोज- बन्तीह विड्भुजस्त इमे नृप । ’ इति । अथ वा पुरुषस्य यदप्रतिषिद्धमन्नं तदेव देवताभ्यो देयमिति सूचितम् । तथा च भरद्वाजः- ‘यदार्याणामभोजनीयं न तेऽ देवान्यजेत’ इति । कात्यायनः - ‘शिष्टभप्रतिषिद्धं दुष्टम् इति । आपस्तम्बोऽपि — ‘यदार्याणामभोजनीयं स्यात् न तेन यजेत’ इति तत्र अत्र भक्षणप्रतिषिद्धं जातिदुष्टं, क्रि- यादुष्टं, संसर्गदुष्टं निमित्तदुष्टं, कालदुष्टं, परिग्रहदुष्टं, पर्युषितम् इति सप्तविधम् । तत्र जातिदुष्टस्योदाहर- णमाह विष्णुपुराणे - ‘राजमाषानणूंश्चात्र मसूरांश्च विवर्जयेत् ।’ मनुः - ‘आविकं संधिनीक्षीरं विवत्सा- याश्च गोः पयः । आरण्यानां च सर्वासां मृगीणां महि- षीर्विना ॥ ’ इति । शङ्खः - सर्वासां द्विस्तनीनां क्षीर- मभोज्यमाजवर्ज्यम् ।’ इति। आपस्तम्बोऽपि - ‘सर्व मद्यमपेयं तथैकं पय उष्ट्रीक्षीरमृगी क्षीरसंधिनीक्षीर-

धर्माकूते
यमसूक्षीराणीति धेनोश्चानिर्देशायास्तथा कीललौष- धीनां च करपलण्डुपरालीका यश्चान्यत्परिचक्षते क्या- कभोज्यमिति हि ब्राह्मणमे कखुरोष्ट्रगवयग्राम सूकरशरभ- गवां कुक्कुटो विकिराणां लवः प्रतुदां क्रयादो हं- सभासचक्रवाक सुपर्णाश्च क्रुभ्वक्रभ्ववार्घाण लक्ष्मण- वर्ज पञ्चनखानां गोभा कच्छपश्वाविच यक खङ्गशश पू- तिखषवर्जमभक्ष्यश्चेटो मत्स्यानां सर्पशीर्षी मृदुरः - व्यादो ये चान्ये विकृता यथा मनुष्य शिरसः’ इति । संधिनी गर्भिणी कीललौषध्यः सुरासंधानद्रव्यं करंज. पलंडुपलालीका : रक्तश्वेत कृष्णलशुनं क्या कुत्राकम् । तथा च मनुः - ‘लशुनं गृञ्जनं चैव पलण्डु कवकानि च । अमक्ष्याणि द्विजातीनाममेध्य प्रभवानि च । लोहितान्वृ- क्षनिर्यासान्त्रश्चनप्रभवांस्तथा ॥ शेलुं गव्यं व पीयूषं प्रयत्नेन च वर्जयेत् । ’ इति । धर्मसुधानिधौ – ‘अलाबुं गृञ्जनं चैव पत्तण्डुं पिण्डमूलकम् । गान्धारककरम्भाणि लवणान्पौषराणि च ॥ आरक्तानपि निर्यासान्प्रत्यक्ष लव- णानि च । श्रश्वनप्रभवं सबै हिद्रव्यं विनैव तु ॥ भूतृणां शिग्लुकां चैव ब्राह्मणो नैव भक्षयेत् । ’ इति ।
अयोध्याकाण्डः ।
[[५६१]]
आपस्तम्बः – ’ विलपनं मथितं पिण्याकं मधु मांसं च वर्जयेत्कृष्णधान्यं शूद्रानं ये चान्ये नाश्यसंमता हविष्य- मनृतं क्रोधं येन च क्रोधयेत् । स्मृतिमिच्छन्यशो मेधां स्त्र पुष्टिं द्वादशैतानि वर्जयत्’ इति । गौतम :- ‘उद्ध- तस्नेह वित्तयनमथितपिण्याकप्रभृतीनि चान्तवीर्याणि ना- श्रीयात् । ’ इति । मनुः – ‘छत्राकं विडुराहं च लशुनं
। ग्रामकुकुटम् । पलण्डुं गृञ्जनं चैव मत्स्यान् जग्ध्वा पते- हिजः ॥ अमत्येतानि षज्जग्ध्वा कृच्छ्रं चान्द्रायणं चरेत् । यतिचान्द्रायणं चापि शेषेषूपवसेदहः ॥’ इति । देवलः
‘कण्डूरं श्वेतवृन्ताकं कूष्माण्डं च विवर्जयेत् । ये भक्षयन्ति पिण्याकं ते वै निरयगामिनः ॥’ इति । संप्रहे- ‘तण्डुलाम्मःकणं तद्वदन्नविस्रावमेव च । दग्धशाकोदनादीनि सर्वथा परिवर्जयेत् ॥ ’ इति । क्रि. यादुष्टत्वे, आपस्तम्बः - ‘पदा वोपहतं सिचा वा शुना वा पोत्रेण वा स्पृष्टं मनुष्यैश्वघातम्, अन्यैर्वा मेध्यैः इति । मनुः – ’ भ्रूणघ्नावेक्षितं चैव संघुष्टं चाप्यदुक्यया । पतत्रिणावलीढं च शुना संस्पृष्टमेव च ॥ गवा चान्नमव- प्रातं घुष्टानं च विशेषतः । ’ इति । आपस्तम्बः - ‘ना-
N
!
[[५६२]]
धर्माकूते
पणीयमन्नमश्रीयात्तथा रसानाम्, आममांसमधुलवणा- नीति परिहाप्य’ इति । बोधायनः - ‘भोदनं तु पुनः
। पक्कं नारिकेलरखं तथा । तथा तोयमभूमिष्ठं ब्राह्मणो नैव भक्षयेत् ॥’ इति । आपणीयनिषे त्रस्यापवादमाह शङ्खः - ‘अपूपाः सक्तवो धानास्तक्रं दधि घृतं मधु । एतत्पण्येषु भोक्तव्यं भाण्डलेपो न चेद्यदि ।’ संसर्ग दुष्ठे आपस्तम्बः–’ अप्रयतेनोपहतमप्रयसं न त्वभोज्यं अप्र- यतेन तु शूद्रेणोपहृतमभोज्यं यस्मिंश्चान्ने केशः स्यादन्यद्वा- मेध्य अमेध्यैरवमृष्टं कीटो वाऽमेध्यसेवी मूषकलाङ्गवेति । मूषकला मूषिकापूरीषं अनंवा पुच्छादि । मनुः - ‘मत्त- क्रुद्वातुराणां च न भुब्जीत कदाचन । केशकीटावपनं च पदास्पृष्टं च कामतः ॥ ’ इति । स्मृतिसारे - ’ क्षीरे तु लवणं दत्तमुच्छिष्टेऽपि च यद्वृतम् । स्नानरजकतीर्थेषु ताम्बे गम्यं सुरासमम् ॥’ इति । वृद्धहारीतः सं- स्कांस्यं नालिकेलाम्बु कांस्ये च रसमैक्षवम् । ताम्रपात्रे वृतं गव्यं क्षीरं च लवणान्वितम् ॥ घृतं लवणसंयुक्तं सुराकल्पं विवर्जयेत् । प्रत्यक्षलवणं नाद्यात् अन्नं परगृ- हागतम् ॥ ’ इति । स्मृत्यन्तरे - ‘नालिकेरोदकं कांस्ये
अयोध्याकाण्डः ।
[[५३३]]
ताने पात्रे च संस्थितम् । मधु ताम्रस्थितं गव्यं मलतुल्यं घृतं विना ॥ ’ इति । संसर्गस्यापवादमाह मनुः — ‘पक्षिज- ग्धं गयाघ्रातमवधूतमवत्तुतम् । केशकीटावपन्नं च मृत्प्रक्षे- पेण शुध्यति ॥ ’ इति । बोधायनः - ’ एवं सिद्धहविषां
। महतां श्ववायखप्रभृत्युपहतानां तं देशं पुरुषान्नमुत्सृज्य पवमानः सुवर्जन इत्येतेनानुवाकेनाभ्युक्षणम् ।’ इति । निमित्तदुष्टे आपस्तम्बः - ‘यस्य कुले म्रियेत न तत्रा- निर्दशभोक्तव्यं तथामुत्थितायां सूतिकायामन्तः शवे ‘च’ इति । अन्तःशवे ग्रामे शवे सति । स एव ’ हिंसार्थेना- सिना मांसं छिन्नमभोज्यम् ।’ इति । उशना – ’ यस्तेषामन्नमश्नाति सकृदेवापि कामतः । तदाशौचनि वृत्तौ तु स्नानं कृत्वा विशुध्यति ॥ यावत्तदन्नमश्नाति दुर्भिक्षाभिहतो नरः । तावन्त्यहान्यशुद्धः स्यात्प्रायश्चित्तं ततश्चरेत् ॥’ इति । कालदुष्टे मनुः - ’ वीर्यहानिर्य- शोहानिः प्रज्ञाहानिस्तथैव च । भवेद्यस्मात्ततो रात्रौ धात्री यत्नेन वर्जयेत् ॥ धानाः खादेन च तथा दविस- क्तूंस्तथा निशि । सर्वे च तिलसंबन्धं नाद्यादस्तायां प्रतितितार्द्रकं दधि च श्राणां तिलशाकानि निश्यदन् ॥

પર
धर्माभूते
त्यज्यते रूपवाक्श्रीभिः पुष्पितस्त्रीरताद्यथा । ’ इति । स्मृत्यन्तरे – ‘भानुवारे दिवारात्रं सप्तम्यां च तथैव च । धात्रीफलं नरः खादनलक्ष्मीको भवेत्सदा ॥ ’ इति । स्मृतिसारे - ‘आमलक्याः फलं चैव जम्बीरं तिन्त्रि- णीफलम् । प्रज्ञाप्रतापलक्ष्मीवान्सदैतद्वर्जयेन्निशि ॥’ इति । अस्यापवादमाह, आग्नेयपुराणे- ‘कल्याणे चोत्सवे विष्णोर्ब्राह्मणानां समागमे । तिथिवार निषिद्धं यन्न दोषस्तस्य भक्षणे ॥’ इति । परिप्रहदुष्टे आप- स्तम्बः - ‘चिकित्सकस्य मृगयोः शल्यकृन्तस्य पा- शिनः । कुलटायाः षण्डकस्य च तेषामन्नमनाद्यम् ॥ ’ इति । स एव - ‘प्रकृत्या ब्राह्मणस्य भोक्तव्यमिति प्रायश्चित्तवति प्रायश्चित्तं कर्म न सेवते । सङ्गान्नमभोज्यं परिकुष्ठं च सर्वेषां च शिल्पजीविनाम् ॥
शिल्पजीविनाम् ॥ ये शस्त्रमा- जीवन्ति ये चार्चि भिषग्वार्धुषिको दीक्षितोऽक्रीतरा- जकोऽमीषोमीय संस्थायामेव हुतायां वा वपायां दीक्षि- तस्य भोक्तव्यं यज्ञार्थे वा निर्दिष्टे शेषाद्भुञ्जीरन्निति हि ब्राह्मणम् । क्लीबो राज्ञां प्रेषकरोऽहविर्याजी चार्यविधिना च प्रब्रजितो यश्चाग्नीनपास्यति यश्च सर्वान्वर्जयते सर्वानी
अयोध्याकाण्डः ।
च श्रोत्रियो निराकृतिर्वृषलीपतिर्मच उन्मन्तो बद्धोऽणि- कः प्रत्युपविष्टो यश्च प्रत्युपवेशयते तावन्तं कालम्’ इति । सङ्घानं गणान्नं, परिक्रुष्टं उच्चैराक्रुष्टं, आधिः स्वगृहे परा- न्वासयित्वा तेभ्यो भृतिग्रहणं, अहविर्याजी रक्तादिना याजी, चारी चरः, अविधिना प्रब्रजितः अविधिना संन्यासं कृतवतः, निराकृतिः निःस्वाध्यायः, अणिकः पुत्राच्छ्रुतग्राही । अस्यापवादमाह गौतमः - ‘एधोदक-
यवसमूलफलमधु अभयमभ्युच्चतशय्यासनावसथयानप-
सर्वेषां

योदधिशपरिप्रियस्रकमार्गशाकान्यप्रणोद्यानि पितृदेवगुरुभृत्यभरणे चान्यत् । ’ इति । बोधायनः - ‘खलक्षेत्रेषु यद्धान्यं कूपवापीषु यज्जलम् । अभोज्यादर्पि तोव्यं यश्च गोष्ठगतं पयः ॥’ इति । पर्युषिते आपस्तम्बः– ’ कृतानं पर्युषितमखाद्या पेयानाथं शूकं च।’ मनुः - ‘शुक्तं पर्युषितं चैव शूद्रस्योच्छिष्टमेव च। श्रीक्षीरं चैव वर्ज्यानि सर्वशूक्तानि चैव हि ॥’ गौतमः – ‘भावदुष्टं शूक्तं केवत्तमदधि न भोज्यमित्यर्थः । पर्युषितापवादमाह मनुः - ‘यत्किचित्स्नेह संयुक्तभक्ष्यभो- ज्यमगर्हितम् । तत्पर्युषितमप्याद्यं हविःशेषं च यद्भवेत् ॥
[[५६६]]
धर्माकूते
चिरस्थितमपि त्वाद्यं स्नेहयुक्तं द्विजातिभिः । यवगोधू- मर्क सर्वे पयसश्चैव विक्रियः’ इति । याज्ञवल्क्यः- ‘अन्नं पर्युषितं भोज्यं स्नेहाक्तं चिरसंस्थितम् । अस्नेहा अपि गोधूमयवगोरसविक्रिया ॥ ’ इति । आपस्तम्बः - ‘फा- णितपृथुकतण्डुलकर म्भभरुज सत्तुशाकमांसपिष्टक्षीरवि- कारौषधिवनस्पतिमूलफलवजे शूक्तं चापरयोगम् ।’ इति । फाणितः इतुरसः करम्भः दधिसत्तुसमूहः भरुजः भृष्टयवः क्षीरविकारो दध्यादि । गौतमः - ’ पर्यु - षितमशाकभक्षस्नेहमांसमधूनि ’ इति । शङ्खः - ऋजीषपकं भक्ष्यं स्यात्सर्पियुक्तमिति स्थितिरिति । एवमादिप्रतिषिद्ध- भक्षणे दोषमाह मनुः — ’ अनभ्यासेन वेदानीमाचारस्य च वर्जनात् । आलस्यादन्नदोषाच्च मृत्युर्विप्राञ्जिघांसति ’ इति । व्यासोऽपि - ‘अभक्ष्यभक्षणाच्चित्तमशुद्धं भवति स्वतः । तस्माद्भक्ष्यं यत्नेन दूरतः परिवर्जयेत् ॥ ’ इति । अभक्षनिवृत्तौ फलमाह स एव - ‘अभक्ष्यस्य निवृत्त्या तु विशुद्धं हृदयं भवेत् । आहारशुद्धौ चित्तस्य विशुद्धिर्भ- वति स्वतः ॥’ इति । तदनु पर्णशालाभ्यर्णमागम्य सक- रुणं विलपतां तेषां भ्रातॄणां गिरिवरगुहासु प्रतिध्वनिसमा -
।अयोध्याकाण्डः ।
[[५६७]]
कर्णनेन विदितभरतसमागमवृत्तान्तेषु सैनिकेषु कतिचन गजवाजिरथैरन्ये नरयानैरपरे पादचारेणैव त्वरिततरं समागम्य पर्णशालाभ्यर्णमध्यासीनं रामचन्द्रमभिगम्य स्ववाष्पकण्ठा बभूवुः । तानपि स्वागतासनपरिष्वङ्गदाना- दिना यथाधिकारं परिगृह्य रामः समाश्वासयामास ॥ त्र्यधिकशततमे - अथ भरताज्ञया कुलपुरोहितं वसिष्ठं पुरस्कृत्य रामचन्द्रदर्शनतर्षया द्रुततरमभिचकुमतीषु रा - जपत्नीषु संजातशोकशल्या कौसल्या सुमिवामिदमवो- चत् - ‘अयि सुमित्रे रामभद्राय अनुदिनमुदकमाहरतो लक्ष्मणस्येयं पदपङ्किः, अयमसौ इङ्गुदीपिण्याकमयो दक्षिणाग्रेषु कुशेषु राममद्रेण प्रत्तः पिण्डः, इयमप्रे लक्ष्मणनिर्मिता विशाला पर्णशाला, अयममे परिपूर्णच- द्रवदनो मन्नयनानन्दकरो रामचन्द्रः, तदेहि गच्छाव - त्वरिततरम्’ इति परिक्रम्य सकल सपत्नीभिः सह राम- समीपमाजगाम । अथ मातृदर्शनसमनन्तरमेव ससंभ्रम- मुत्थाय यथाक्रममभिवादयन्तं रामभद्रम,
ताः पाणिमिः शुभस्पशैर्मृडलिवलैः शुभैः । प्रममार्जू रजः पृष्ठाद्रामत्यायतलोचनाः ॥
D. Pt. vi – 1
પઢ
धर्माकूते
तदनु कृताभिवादने लक्ष्मणे समनन्तरमभिवन्दमानां अनकनन्दिनीमवलोक्य कौसल्या सकरुणमिदमब्रवीत्-
विदेहराजस्य सुता स्नुषा दशरथस्य च । रामपत्नी कथं दुःखं संप्राप्ता निर्जने वने ॥ मुखं ते प्रेक्ष्य मां शोको दहत्यग्निरिवाश्रयम् । भृशं मनासे वैदेहि व्यसनारणिसंभवः ॥
अथ कुलपुरोहितं वसिष्ठमप्यभिवाद्य तेन सहैव समु- पविष्टे रामभद्रे मन्त्रिभिः पुरप्रधानैः सैनिकेतरैरपि धर्मप्रधानपुरुषैः सह भरतोऽपि समुपाविशत् ॥ चतुरधि- कशततमे तदनु गुरुवत्सलं वक्तुकामं भरतमवगम्य विनिमित्तोऽयमखिलबलेन सहागमन संभ्रमः, कुतो वा प्राज्यं राज्यं परित्यज्य कृष्णाजिनजटाधारणमिति वदन्तं रामचन्द्रं प्रति विनयेन प्राञ्जलिर्भरतः समुदाजहार । आर्य पापसमाचारया कैकेय्या वश्वितो दशरथः स्वयशो- हरं कर्म कृतवान् । अतः सेयमनार्या राज्यफलमप्राप्य स्वकर्मफलमनुभविष्यति । भवानपि पितृपैतामहीं महीं परिपालयितुं प्रसादमभिकाङक्षन्तीनां प्रकृतीनामना -
अयोध्याकाण्डः ।
[[५६५]]
थानां मातृणां च मनोरथान्पूरयितुं दासभूतं मां च दयया रक्षितुं स्वात्माभिषेचनेन प्रसादं कर्तुमईतीत्यभि- धाय पदयोर्निपपात ।
तं मत्तमिव मातङ्कं निश्वसन्तं पुनः पुनः । भ्रातरं भरतं रामः परिष्वज्येदमब्रवीत् ॥ कुलीनः सत्त्वसंपन्नस्तेजस्वी चरितव्रतः । राज्यहेतोः कथं पापमाचरेत्वद्विधो जनः ॥ न दोषं त्वयि पश्यामि सूक्ष्ममप्यरिसूदन । न चापि जननीं बाल्यात्त्वं गर्हितुमर्हसि ॥ कामकारो महाप्राज्ञ गुरूणां सर्वदानघ । उपपन्नेषु दारेषु पुत्रेषु च विधीयते ॥

वने वा चीरवसनं सौम्य कृष्णाजिनाम्बरम् । राज्ये वापि महाराजो मां वासयितुमीश्वरः ॥ यावत्पितरि धर्मश गौरवं लोकसत्कृतम् । तावद्धर्मभृतां श्रेष्ठ जनन्यामपि गौरवम् ॥
त्वया राज्यमयोध्यायां प्राप्तव्यं लोकसत्कृतम् । वस्तव्यं दण्डकारण्ये मया वल्कलवाससा ॥
धर्माकूते
एवं कृत्वा महाराजो विभागं लोकसंनिधौ । व्यादिश्य स महातेजा दिवं दशरथो गतः ॥
स च प्रमाणं धर्मात्मा राजा लोकगुरुस्तव । पित्रा दतं यथाभागमुपभोक्तुं त्वमर्हसि ॥ इति ॥
पश्चाधिकशततमे — इति सशोकमभिभाषमाणानां तेषामतिखेदेन सा रात्रिरत्यवर्तत । प्रभातायां रजन्यामुदिते व दिनकर मण्डले निर्वर्तितजपहोमा दिनैयत्यिकविधिभरतः सविनयमुपसृत्य रामभद्रमेवमुवाच -
सान्विता मामिका माता दत्तं राज्यमिदं मम । तद्ददामि पुनस्तुभ्यं भुङ्क्ष्व राज्यमकण्टकम् ॥
खर इव जात्यश्वस्य पतत्रीव पतगराजस्य प्रबलरयभि- अजलसेतु संनिभराज्यखण्डसंरक्षण विचक्षणस्य भवतो ग- तिमहमनुगन्तुमशक्तोऽस्मि ।
सुजीवं नित्यशस्तस्य यः परेरुपजीव्यते । राम ते न तु दुर्जीवं यः परानुपजीवति ॥
अनेन परानुपजीविनः बहूपजीव्या पुरुषस्य जीवनं
अयोध्याकाण्डः ।

लाध्यमित्युक्तम् । तथा च दक्षः - ‘सुजीवति स एको
। बन्धुभिश्वोपभुज्यते । जीवन्तोऽपि मृतास्त्वन्ये पुरुषाः स्वोदरंभराः’ इति । तदतिप्रयत्न संवर्धितः सुपुष्पितस्तरु- रिव न भवान्फलम विदर्शयन् इष्टजनान् संतापयितुमर्हति । तदधुनैव च तुरगबलपरिवृतः स्वनगरमभिगम्यात्मानम- भिषेचयेति नानाविधनयवचनशतानुनीतोऽपि पित्राज्ञाप- रिपालनैकतानमानसो रामचन्द्रः तमेवम्,
नात्मनः कामकारोऽस्ति पुरुषोऽयमनीश्वरः । इतश्च परतश्चैनं कृतान्तः परिकर्षति ॥
अनेन पुरुषः स्वेच्छया न कर्म करोति किं तु देवा- भीन एवेत्युक्तम् । तथा चोद्योगपर्वणि - ‘जानामि धर्मे न च मे प्रवृत्तिर्जानाम्यधर्म न च मे निवृत्तिः । केनापि देवेन हृदि स्थितेन यथा नियुक्तोऽस्मि तथा करोमि ॥’ इति ।
सर्वे क्षयान्ता निचयाः पतनान्ताः समुच्छ्रयाः । संयोगा विप्रयोगान्ता मरणान्तं च जीवितम् ॥
अत्र निचयो बुद्धिः, समुच्छ्रयः औन्नत्यम्, संयोगः
[[૩૦૨]]
धर्माकूते
इष्टवस्तुभिः जीवितं जीवनम् एतेषां चतुर्णामन्ते क्ष-
याद्यवश्यंभाव उक्तः ।
यथा फलानां पकानां नान्यत्र पतनाद्भयम् । अनेन पतनान्ताः समुच्छ्रया इत्ययमंशी व्याख्यातः । एवं नरख जातस्य नान्यत्र मरणाद्भयम् ॥ आत्मानमनुशोच त्वं किमन्यमनुशोचास । आयुस्ते हीयते यस्य स्थितस्य च गतस्य च ॥ नन्दन्त्युदित आदित्ये नन्दन्त्यस्तमिते रवौ । मात्मनो नावबुध्यन्ते मनुष्या जीवितक्षयम् ॥ अनेन मरणान्तं च जीवितमित्यय मंशो व्याख्यातः । यथा काष्ठं च काष्ठं च समेयातां महार्णवे । समेत्य च व्यपेयातां कालमासाद्य कंचन ॥ एवं भार्याश्च पुत्राश्च ज्ञातयश्व धनानि च । समेत्य व्यवधावन्ति ध्रुवो ह्येषां विनाभवः ॥ अनेन संयोगा विप्रयोगान्ता इत्ययमंशो व्याख्यातः । एवं पूर्वैर्गतो मार्गः पितृपैतामहो ध्रुवः । तमापन्नः कथं शोचेद्यस्य नास्ति व्यतिक्रमः ॥
अयोध्याकाण्डः ।
[[५७३]]
एवं संक्षेपविस्तराभ्यां प्रपश्वितेषु पूर्वैरप्यनतिक्रमणी- येषु निचयादिषु प्राप्तेषु हर्षविषादादिकं न कर्तव्यमित्यु- कम् । तथा च गीतायाम् —’ अन्तवन्त इमे देहा नित्यस्योक्ताः शरीरिणः । जातस्य हि ध्रुवो मृत्युर्ध्रुवं जन्म मृतस्य च ॥ तस्मादपरिहार्येऽर्थे न त्वं शोचितु- मईसि । अव्यक्तादीनि भूतानि व्यक्तमध्यानि भारत ॥ अव्यक्तनिधनान्येव तत्र का परिदेवना ’ इति । एवं पूर्वैर्गतो मार्गः पितृपैतामहो ध्रुवः । तमापन्नः कथं शोचेत्यस्य स राजापि विहितदक्षिणान् अनेकमखाना- हृत्य अर्थिसार्थ समीहितप्रपूरणेन च निरतिशयं धर्म संपाद्य बान्धवामित्रभृत्यादिस्वेष्टजनानपि समुचित भाग्य- प्रदानोपचारवचनशतैः समाहितान्तरङ्गान्विधाय परि- पाल्य च पुत्रनिर्विशेषं प्रकृतीः ब्रह्मलोकनिवासिनीं देवी संपदमवाप ।
तं तु नैवंविधः कश्चित्प्राशः शोचितुमर्हति । त्वद्विधो मद्विधश्वापि श्रुतिमान्बुद्धिमत्तर ।
[[५०४]]
धर्माकृते
पते बहुविधाः शोका विलापरुदिते तथा । वर्जनीया विशेषेण सर्वावस्थासु धीमता ॥ न मया शासनं तस्य त्यक्तुं न्याय्यमरिंदम । तत्त्वयापि सदा मान्यं स वै बन्धुः स नः पिता ॥
तदधुना पितृवचनपरिपालनमेव गरीयान्धर्म इति नि- चित्य भवता मया च राज्यपरिपालनं दण्डकारण्यवासय कर्तव्यः ।
धार्मिकेणानृशंसेन नरेण गुरुवर्तिना । भवितव्यं नरव्याघ्र परलोकं जिगीषता ॥
तदधुनैव सहसा विनिवर्तस्येति बभाषे ॥ षडधिक- शततमे - तदनु तदनुजो भरतस्तमेवमवादीत्, सकल- वृद्धजनोपदेश निरस्त समस्त संशयस्य निखिलनिगमागम- विचाराचारां धर्मसमृद्धां गिरमुदाहरतो भवतो दूरत एव दुःखलेशवार्तापि
यथा मृतस्तथा जीवन्यथासति तथा सति । यस्यैष बुद्धिलाभः स्यात्परितप्येत केन सः ॥
अयोध्याकाण्डः ।
[[५७५]]
अनेन सर्व समदर्शिनः कापि परितापो न भवतीति
सूचितम् ।
धर्मबन्धेन बद्धोऽस्मि तेनेमां नेह मातरम् । हन्मि तव्रिण दण्डेन दण्डाह पापकारिणीम् ॥ कथं दशरथाज्जातः शुद्धाभिजनकर्मणः । जानन्धर्ममधर्मिष्ठं कुर्या कर्म जुगुप्सितम् ॥ तथा प्रियजन संतोषणाय धर्मविहीनमसदृशमतिनि- घृणं कर्म कृतवन्तं तातमपि देवतामिति न परिगमि । अन्तकाले हि भूतानि मुह्यन्तीति पुरा श्रुतिः । राशैव कुर्वता लोके प्रत्यक्षा सा श्रुतिः कृता ॥ साध्यर्थमभिसंधाय क्रोधान्मोहाच साहसात् । तातस्य यदतिक्रान्तं प्रत्याहरतु तद्भवान् ॥ पितुर्हि समतिक्रान्तं पुत्रो यः साधु मन्यते । तदपत्यं मतं लोके विपरीतमतोऽन्यथा ॥
अनेन पिता अन्यथा कृतमपि कुकर्म समीकर्तुरेव पुत्रस्य पुत्रत्वमिति सूचितम् । तथा च बृहदारण्यके- ‘सपद्यनेन किंचिदक्ष प्रयाकृतं भवति स एतस्मात्पुत्रो
[[५७८]]
धर्माकृते

पितृश्राद्धेऽतिथीन मैर्भूतानि बलिकर्मणा ॥’ इति । भारतेऽपि – ‘यथा मातरमाश्रित्य वर्तन्ते सर्वजन्तवः । तथैव गृहिणं सर्वे वर्तन्त इतराश्रमाः ॥ स्वाध्वाये नित्य- युक्तः स्वादेवे चैव ह कर्मणि । दैवे कर्मणि युक्तो हि बिभतं चराचरम् ॥ अनौं प्रस्ताहुतिः सम्यगादित्यमु- पतिष्ठते आदित्याज्जायते । वृष्टिर्वृष्टरनं ततः प्रजाः ॥ ’ इति । आदिपर्वण्यपि ‘अस्य काव्यस्य कवयो न समर्था विशेषणे । साधोरिव गृहस्थस्य शेषास्त्रय इवाश्रमाः ॥ ’ शान्तिपर्वण्यपि युधिष्ठिरं प्रत्यर्जुनवाक्यम्- ‘आश्र- मांस्तुलया सर्वान्धृतानाहुर्मनीषिणः । एकतश्च त्रयो राजन्गृहस्थाश्रम एकतः’ इति । मोक्षधर्मेतद्धि स- र्वाश्रमाणां मूलमुदाहरन्ति गुरुकुलवासिनः परिव्राजका ये चान्ये संकल्पितव्रतनियमधर्मानुष्ठायिनस्तेषामप्यत एव भिक्षाबलिसंविभागा वर्तन्ते । वानप्रस्थानां च द्रव्योप- स्कार इति प्रायशः खल्वेते साधवः साधुपथ्योदनाः स्वाध्यायप्रसङ्गिनस्तीर्थाभिगमनदेशदर्शनार्थं पृथिवीं पर्य-
टन्ति । तेषां प्रत्युत्थानाभिगमनाभिवादनानंसूयावाक्प्र- दान सुखशय्यासनसुखशयनाभ्यवहारसत्क्रिया चेति । भ
1अयोध्याकाण्डः ।
[[५७९]]
वति चात्र श्लोकः- ’ अतिथिर्यस्य भग्नाशो गृहान्प्रति निवर्तते । स दवा दुष्कृतं तस्मै पुण्यमादाय गच्छति ॥’ अपि चात्र यज्ञक्रियाभिर्देवताः प्रीयन्ते, निवापादिना पितरो विद्याभ्यासश्रवणधारणेन ऋषयः, अपत्योत्पादनेन प्रजापतिरिति । श्लोकौ चात्र भवतः - वत्सल्याः सर्वभूतेभ्यः श्राव्याः श्रोत्रसुखा गिरः । परितापोपघातश्च पारुष्यं चात्र गर्हितम् । अवज्ञानमहंकारो दम्भश्चैव विगर्हितः । अहिंसा सत्यमक्रोधः सर्वाश्रमगतं तपः ॥ अपि चात्र माल्याभरणवस्त्राभ्यङ्गनित्योपभोगनु सगीतवादिनश्रुति- सुखनयनाभिरामदर्शनानां प्राप्तिर्भक्ष्यभोज्यलेह्यपेयचो- व्याणामभ्यवहार्याणां विविधानामुपभोगः स्वविहार- संतोषः कामसुखावाप्तिरिति । ‘त्रिवर्गगुण निर्वृत्तिर्यस्य नित्यं गृहाश्रमे । स सुखान्यनुभूयेह शिष्टानां गति - माप्नुयात् ॥ उच्छवृत्तिर्गृहस्थो यः स्वधर्मचरणे रतः । त्यक्तकर्मसुखारम्भः स्वर्गस्थस्यातिदुर्लभः । इति । विष्णुपुराणेऽपि - ‘निवापेन पितॄन चैद्यज्ञैर्देवांस्तथाति- थीन् । अनेर्मुनीश्च खाध्यायैरपत्येन प्रजापतिम् ॥ बलिकर्मणा च भूतानि वात्सल्येनाखिलं जगत् । प्राप्नोति

धर्माकूते
लोकान्पुरुषः निजकर्मसमार्जितान् ॥ भिक्षाभुजश्च ये केचित्परिब्राब्रह्मचारिणः । ते चाप्यत्रैव तिष्ठन्ति गाईस्थ्यं तेन वै परम् । वेदाहरणकार्येण तीर्थस्नानाय वै प्रभो । अटन्ति पृथिवीं विप्राः पृथिवीदर्शनाय च । अनिकेता ह्यनाहारा यत्र सायंप्रहास्तु ये । तेषां गृहस्थः सर्वेषां प्रतिष्ठा योनिरेव च ॥’ इति ।
श्रुतेन बालस्थानेन जन्मना भवतोऽप्यहम् । स कथं पालयिष्यामि भूमिं भवति तिष्ठति ॥ अथैतत्पृष्ठतः कृत्वा वनमेव भवानितः । गमिष्यति गमिष्यामि भवता सार्धमप्यहम् ॥

इति वदन्पदयोर्निपपात । तदनु तदनुयायिजनोऽपि निखिलजनशुभरतेन भरतेन नानाविधानुनयस प्रणाम- प्रसादयाचनादिभिः प्रसाद्यमानमपि रामभद्रं पितृवचन- परिपालनैकतानमानसमवलोक्य न यात्ययोध्यामिति दुःखितोऽभवत् स्थिरप्रतिज्ञत्वमवेक्ष्यहर्षितः सप्ताधिक- शततमे - केकयवंश संभूतायां कैकेय्यां राजसत्तमाद्दशर- थात् उत्पन्नस्य तव नेदमतिचमत्कारकारि वचनम् । किंतु,
अयोध्याकाण्डः ।
[[५०३]]
पुरा भ्रातः पिता नः स मातरं ते समुद्रहन् । मातामहे समाश्रौषीद्राज्यशुल्कमनुत्तमम् ॥ देवासुरे च संग्रामे जनन्यै तव पार्थिवः । संप्रहृष्टो ददौ राजा वरमाराधितः प्रभुः ॥ तदधुना तव जनन्या संप्रार्थितो नरेन्द्रः, निखिल- महीमण्डल संरक्षणाय त्वां नियुक्तवान् मामपि चतुर्दश- वर्षाणि वने वासाय ।
सोऽहं वनमिदं प्राप्तो निर्जनं लक्ष्मणान्वितः । भवानपि तथेत्येव पितरं सत्यवादिनम् ऋणान्मोचय राजानं मत्कृते भरत प्रभुम् । श्रूयते हि पुरा तात श्रुतिर्गीता यशखिना ॥ मयेन यजमानेन गयेष्वेव पितृन्प्रति पुनाम्नो नरकाद्यस्मात्पितरं त्रायते सुतः ॥ तस्मात्पुत्र इति प्रोक्तः पितॄन्यत्पाति वै सुतः । एष्टव्या बहवः पुत्रा गुणवन्तो बहुश्रुताः ॥ तेषां वै समवेतानामपि कश्चिद्भयां व्रजेत् ।
अनेन गयायां श्राद्धकरणमतिप्रशस्तमिति सूचितम् ।
[[५४९]]
धर्माकूते
तथा च विष्णुपुराणे- ‘गयामुपेत्य यः श्राद्धं करोति पृथिवीपते । म्रफलं तस्य तज्जन्म जायते पितृतुष्टिदम् ॥’ इति । तन्माहात्म्यमपि तत्रैव श्रूयते चापि पितृभिर्गाथा गीता महीपते । इक्ष्वाकोर्मनुपुत्रस्थ कल पोपवने पुरा । अपि नस्ते भविष्यन्ति कुले सन्मार्गशीलिनः । गयामु- पेत्य ये पिण्डान्दास्यन्त्यस्माकमादरात् । ’ इति । ब्रह्म- कैवर्तेऽपि - ‘गयाशीर्षे यदा पिण्डं नाम्ना येषां प्रकुर्वते । नरकस्था दिवं यान्ति स्वर्गस्था मोक्षमाप्नुयुः । तत्राक्षय्य- वटो नाम त्रिषु लोकेषु विश्रुतः । पितॄणां तत्र व दत्त- मचाय्यं भवति प्रभो । वटवृक्षं समासाद्य शाकेनाप्युदकेन वा ॥ एकस्मिन्भोजिते विप्रे कोटिर्भवति भोजिता ।’ इति । उशना अपि - ‘गयायामक्षयं श्राद्धं प्रयागे- Sमरकण्टके । गायन्ति पितरो गाथां कीर्तयन्ति मनीषिणः । एष्टव्या बहवः पुत्राः शीलवन्तो गुणा- न्विताः ॥ तेषां च समवेतानां यद्येकोऽपि गयां व्रजेत् । गयां प्राप्यानुषङ्गेण यदि श्राद्धं समाचरेत् । तारिताः पितरस्तेन स याति परमां गतिम् ॥ वनपर्व- ण्यपि शुककष्णावुभौ पक्षौ गयां यो बोऽवसेन्नरः ।
[[1]]
अयोध्याकाण्डः ।
[[५८३]]
घुनात्यासप्तमं राजन्कुलं नास्त्यत्र संशयः । एष्टव्या बहवः पुत्रा यद्येकोऽपि गयां व्रजेत् ॥ इति । तत्रैव- तपस्विजनजुष्टां च ततो वेदिं प्रजापतेः । जग्मुः पाण्डु- सुता राजन्ब्राह्मणैः सह भारत ॥ ततो महीधरं जग्मु- धर्मज्ञेनाभिसंस्थितम् । राजर्षिणा पुण्यकृता गयेनानु- प्रपद्यते ॥ नगो गयशिरो यत्र पुण्या चेत्र महानदी । चानीरमालिनी रम्या नदी पुलिनशोभिता । दिव्यं पवित्रकूटं च पवित्रधरणीधरम् । ऋषिजुष्टं सुपुण्यं च सौर्य ब्रह्मसरोत्तमम् । अगस्त्यो भगवान्यत्र गवो वैवस्वतं प्रति । सर्वासां सरितां चैव समुद्भेदो विशां पते । यत्र संनिहितो नित्यं महादेवः पिनाकधृक् ॥ वत्र वे पाण्डवा वीराचातुर्मास्यैस्तथेोजेरे । ऋषिर्यज्ञेन महता यत्राक्षय्यवटो महान् । अक्षय्यो देवयजने अक्ष- ज्यं यत्र वै फलम् ॥ ते तु तत्रोपवासांस्तु चक्रुर्निश्चि-
वै तमानसाः ॥ इति । गयामाहात्म्येऽपि - ’ यन्नाम्ना पावयेत्पिण्डं तं नयेद्ब्रह्म शाश्वतम् ॥ शमीपत्र प्रमाणेन पिण्डं दद्याद्वयाशिरे । उद्धरेत्त गोत्राणि कुलमेकोत्तर शतम् ॥’ इति ।
D. Pt. vi - 2
[[५८४]]
धर्माकूते
एवं राजर्षयः सर्वे प्रतीता राजनन्दन । ‘तसाचाहि नरश्रेष्ठ पितरं नरकात्प्रभो ॥
त्वं राजा भव भरत स्वयं नराणां
वन्यानामहमपि राजरामृगाणाम् । गच्छ त्वं पुरवरमद्य संप्रहृष्टः
संहृष्टस्त्वहमपि दण्डकान्प्रवेश्ये ॥
शत्रुघ्नः कुशलमतिस्तु ते सहायः
सौमित्रिर्मम विदितः प्रधानमित्रम् । चत्वारस्तनयवरा वयं नरेन्द्र
सत्यस्यं भरत वराम मा विषादम् ॥
अष्टोत्तरशततमे – वैदिक सार्वभौमोऽपि जाबालि : पिताज्ञया वनं प्रस्थितस्य रामस्य वैदिकमार्गेण निवर्तनो- पायमपश्यन् अवैदिकमार्गमेव तदुपायं मन्वानः प्रत्यक्ष- मेव प्रमाणं देह एव आत्मेति वदतश्चार्वाकस्य मतमव-
लम्ब्य
उवाच रामं धर्मशं धर्मापेतमिदं वचः । साधु राघव मा भूत्ते बुद्धिरेवं निरर्थिका ।
अयोध्याकाण्डः ।
प्राकृतस्य नरस्येव ह्यार्यबुद्धेर्मनस्विनः ।
पटप
कः कस्य पुरुषो बन्धुः किमाप्यं कस्य केनचित् ॥ यदेको जायते जन्तुरेक एव विनश्यति । तस्मान्माता पिता चेति राम सज्जेत यो नरः ॥
उन्मन्त इति स शेयो नास्ति कश्चिद्धि कस्यचित् । यथा ग्रामान्तरं गच्छन्नरः कञ्चित्कचिद्वसेत् ॥ उत्सृज्य च तमावासं प्रतिष्ठेतापरेऽहनि । एवमेव मनुष्याणां पिता माता गृहं वसु ॥
भावासमानं काकुत्स्थ सज्जन्ते नात्र सज्जनाः । पित्र्यं राज्यं परित्यज्य स नार्हसि नरोत्तम ॥
आस्थातुं कापथं दुःखं विषमं बहुकण्टकम् । समृद्धायामयोध्यायामात्मानमभिषेचय ॥ एकवेणीधरा हि त्वा नगरी संप्रतीक्षते । राजभोगाननुभवन्महान्पार्थिवात्मज ॥
विहर त्वमयोध्यायां यथा शक्रस्त्रिविष्टपे । न ते कश्चिद्दशरथस्त्वं च तस्य न कश्चन ॥
[[५८६]]
धर्माकूते
अन्यो राजा त्वमन्यश्च तस्मात्कुरु यथोच्यते । बीजमात्रं पिता जन्तोः शुक्लं रुधिरमेव च ॥ संयुक्तमृतुमन्मात्रा पुरुषस्येह जन्म तत् । गतस्य नृपतिस्तत्र गन्तव्यं यत्र तेन वै ॥ प्रवृत्तिरेषा मर्त्याणां खं तु मिथ्या विहन्यसे । अथ धर्मपरा ये ये तांस्ताञ्शोचामि नेतरान् ॥
ते हि दुःखमिह प्राप्य विनाशं प्रेत्य भेजिरे । अष्टका पितृदैवत्यमित्ययं प्रसृतो जनः ॥ अन्नस्योपद्रवं पश्य मृतो हि किमशिष्यति । यदि भुक्तमिहान्येन देहमन्यस्य गच्छति । दद्यात्प्रवसतां श्राद्धं न तत्पथ्यशनं भवेत् ॥ दानसंवनना होते ग्रन्था मेधाविभिः कृताः । यजस्व देहि दीक्षस्व तपस्तप्यस्व संत्यज ॥ स नास्ति परमित्येव कुरु बुद्धि महामते । प्रत्यक्षं यत्तदातिष्ठ परोक्षं पृष्ठतः कुरु ॥ अत्रास्मिन्सर्गे ‘अष्टकापितृदेवत्व इत्ययं प्रसृतो जनः । अन्नस्योपद्रवं पश्य मृतो हि किमशिष्यति’ इति अत्र
अयोध्याकाण्डः ।
सर्वश्राद्धप्रकृतिभूताष्टका ग्रहणेन सर्वाण्यपि श्राद्धान्युप- लक्षितानि । अष्टकायाः प्रकृतित्वं च बोधायनसूत्रेणा- वगम्यते । तथा हि अष्टका विधाय ‘एवमेव मासि श्राद्धमपरपक्षस्यान्यतमेऽहनि क्रियेत । एतावदेव नाना नानाष्टका होमो भवति’ इति । श्राद्धप्रकारमाहाश्वला- यनः – ‘हेमन्त शिशिरयोश्च तुर्णामपरपक्षाणामष्टमीष्त्र- ष्टका एकस्यां वा पूर्वेद्युः पितृभ्यो दद्यादोदनं कृसरं पायसं । चतुः शरावस्यबापूपान् उदीरतामवर उत्परास इत्यष्टकाभिर्हुत्वा यावतीभिर्वा कामयीताथ श्वोभूते- इष्टकाः पशुना स्थालीपाकेन वा अप्यनडुद्दो यवस- माहरेदमिना वा कक्षमुपोषेदेषा मेऽष्टकेति । न त्वे- वानष्टकः स्यात्तां हैके वैश्वदेवीं जुबत आग्नेयीमेके सौर्यामेके नक्षत्र देवतामेके रात्रिदेवतामेके ऋतुदेवता मे के प्राजापत्यामेके इत्यादि । तथा एतेन माध्यावर्षे प्रोष्ठपद्या अपरपक्षे मासि मासि चैवं वितृभ्योऽयुत्तु प्रतिष्ठापयेन्न- वावरान्भोजयेदयुजो वा युग्मान् वृद्धिपूर्तेषु अयुग्मानितरेषु’ इति । बोधायनोऽपि - ‘अष्टकाहो मस्तैषे मास्य पर पक्षस्या- टम्यां क्रियेतैवं माघ एवं फाल्गुने यदि विहृतो यद्युवै
બુઢ
धर्माकूते
समस्त उपरिष्टान्माच्याः पौर्णमास्या अपरपक्षस्य सप्त- स्यामष्टम्यां नवम्यामिति क्रियेत । अपि वा अष्टम्यामेव वः करिष्यामीति ब्राह्मणा निमन्त्रयते योनिगोवश्रुत- संपन्नानसंबन्धानित्येक कामं सबन्धानपि श्रुतवृत्त संप- नान् श्रुतवृप्तयोर्हि स्वचा निधीयत इत्युपदिशन्ति । तान् श्वोभूते श्मश्रुकर्माभ्यखनस्नानैर्यथोपपादं संपूज्य स्वयमा- छ्रुत्य शुचौ समे देशे देवयजनो लेखनप्रभृत्या प्रणीताभ्यः कृत्वा बहिंगदाय गामुपाकरोति पितृभ्यस्त्वा पितामहेभ्य- स्त्वा प्रपितामहेभ्यस्त्वा जुष्टामुपाकरोमि । तूष्णीमित्येके । अथैनामद्भिः प्रोक्षति पितृभ्यस्त्वा पितामहेभ्यस्त्वा प्रपि- तामहेभ्यस्त्वा जुष्टां प्रोक्षामीति । तूष्णीमित्येके । तामन्त्रैक प्रतीचीनशिरसं दक्षिणापदी संज्ञपन्ति । तस्यै संज्ञप्ताय आद्भिरभिषेकं प्राणानध्यायति तूष्णीम् वपामुत्विद्य हृदय- मुद्धरति । प्रज्ञातानि चावदानानि तान्येतेष्वेव शूलेषूप- निक्ष्येतस्मिन्नेवानौ श्रापयन्ति पृथयांसं चोदनं च अपूपश्च श्रपयन्ति । अन्यांश्च विशेषान् सर्वे सिद्धं समा- नीय अयुग्मान्ब्राह्मणान्सुप्रक्षालितपाणिपादानप आद- मय्य सदर्भोपक्लृप्तेष्वासनेषु प्रामुखानुपवेशयति । उदडू-भयोध्याकाण्डः ।
“५८९
मुखान्वा । यदि प्रामुखान्दक्षिणापवर्गः । यदखा- प्रागपवर्गः । प्राप्नोतु भवान् प्राप्नोतु भवान् इति । प्राप्नु- वानि प्राप्नुवानीति ते प्रत्याहुः । अथैनांस्तिलमिश्रा अपः प्रतिग्राहयति अमुष्मै स्वधा नमोऽमुष्मै स्वधा नम इति त्रिस्तिलोदकान्दद्यात् । भुक्तवत्सु च तृतीयम् अथैनान्व- स्त्रगन्धपुष्पधूपदीपमाल्यैर्यथोपपादं संपूज्य पृच्छत्युद्धिय- तामग्नौ च क्रियतां काममुद्भियतां काममनौ च क्रियता- मिति इतरे प्रत्याहुरपि चानौ करिष्यामीति कुरु- ब्बेतीतरे प्रत्याहुः । अथ अभ्यनुज्ञातः परिधानत्र- भृत्याग्निमुखात्कृत्वा शृतायां वपायां पञ्चसुवाहुतीर्जु- होति । ।
तत्पुरस्ताद्व्याख्यातम् । त्रेधा वपां वि- च्छिद्य औदुम्बर्या दर्ज्या जुहोति । तत्पुरस्ताद्वयाख्यातम् । अथाष्टका होमं जुहोति ‘इयमेव सा या प्रथमा व्यौच्छत्’ इति पञ्चदश ‘इयुष्टे ये पूर्वतरामपश्यन्’ इत्येकाम् । संवत्- रस्य प्रथमानमित्येकाम् ताः सप्तदश । अथापूपमष्टधा वि- च्छिद्य त्रीण्यवदानानि वपायाः कल्पेन हुत्वा अथेतराणि ब्राह्मणेभ्यो दत्वा भवैतान्यवदानानि इडासूने प्रतिच्छाबो- दनं मांखं यूषमित्याज्येन समुदायुत्योदुम्बर्या दव्य उपघात
૩.
धर्माकूते
दक्षिणार्धे जुहोति पितृभ्यः स्वधा नमः स्वाहा पितामहे- *यः स्वधा नमः स्वाहा प्रपितामहेभ्यः स्वधा नमः स्वाहा मातृभ्यः स्वधा नमः स्वाहा पितामहीभ्यः स्वधा नमः स्वाहा प्रपितामहीभ्यः स्वधा नमः स्वाहा । मातामहेभ्यः स्वधा नमः स्वाहा मातुः पितामहेभ्यः स्वधा नमः स्वाहा मातुः प्रपितामहेभ्यः स्वधा नमः स्वाहा । माता- महीभ्यः स्वधा नमः स्वाहा मातुः पितामहीभ्यः स्वधा नमः स्वाहा मातुः प्रपितामहीभ्यः स्वधा नमः स्वाहा । आचार्येभ्यः स्वधा नमः स्वाहा आचार्यपत्नीभ्यः स्वधा नमः स्वाहा गुरुभ्यः स्वधा नमः स्वाहा गुरुपत्नीभ्यः स्वधा नमः स्वाहा सखिभ्यः स्वधा नमः स्वाहा सखिपत्नीभ्यः स्वधा नमः स्वाहा ज्ञातिभ्यः स्वधा नमः स्वाहा ज्ञाति- पत्नीभ्यः स्वधा नमः स्वाहा अमात्येभ्यः स्वधा नमः स्वाहा अमात्यपत्नीभ्यः स्वधा नमः स्वाहा सर्वेभ्यः स्वधा नमः स्वाहा सर्वाभ्यः स्वधा नमः स्वाहा इति । अग्नये कव्य- वाहनाय स्विष्टकृते स्वधा नमः स्वाहेति दक्षिणार्थपूर्वार्धे । मांसोदनं पात्रेपूद्धृत्य विशेषानुपनिक्षिप्य हुतशेषेण संसृ- ज्य दक्षिणामेषु दर्भेषु सादयित्वा दक्षिणाप्रैर्दभैः प्रच्छाद्या-
अयोध्याकाण्डः ।
[[५९१]]
भिमृशति । पृथिवी ते पात्रं द्यौरपिधानं ब्रह्मणस्त्वा मुखे अमृतं जुहोमि ब्राह्मणानां त्वा विद्यावतां प्राणापानयो- र्जुहोमि अक्षितमसि मा पितॄणां पितामहानां प्रपिताम- हानां क्षेष्टाः अमुत्रामुष्मिल्ँलोके’ इति । अथतानि ब्राह्मणेभ्य उपनिक्षिप्य ब्राह्मणस्याङ्गुष्ठेना नखेनानुद्दिशति अमुष्मै स्वधा नम इति भुखानान्समीक्षते प्राणे निविष्टोऽमृखं जुहोमीति पथचाभिः ब्रह्मणि मात्मामृतत्वायेत्यात्मानं न च तत्र ऊर्ध्व निरीक्षते हीका हि पितर इति विज्ञायते सर्वैः कामैस्तर्पयन् स्वधायुक्तानि ब्रह्माणि अभिश्रात्र- येत् । राक्षोघ्नानि नैर्ऋतानि च । तृप्तानप आचम्य आश- येष्वन्नशेषान् संप्रकिरति ये अग्निदग्धा जाता जीवाः येऽप्यदग्धाः कुले मम भूमौ दत्तेन तृप्यन्तु तृप्ता यान्तु परां गतिमिति । संक्षालनेनावकीर्य दक्षिणाभिरागघ- यति । सुवर्ण हिरण्य प्राणिवस्त्रलोह भूमिभाण्डेगऽश्वाजा- विकहस्तिदासपुरुषव्रीहियवमाषतिलदण्डोपनिच्छत्र कम- ण्डलुयानासनशयनोपधानैः सर्वोपकरणैर्यथोपपादं संपूज्य अक्षय्यं वाचयित्वोपसंगृह्य स्वधां वाचयित्वोत्थाप्य प्रसाद्य संसाद्य प्रदक्षिणीकृत्य शेषमनुज्ञाप्य एतेनैव यथेतमेत्यान्न-
[[५९२]]
धर्माकूते
[[1]]
शेषान्निवेदयते ते यथा ब्रूयुस्तथा कुर्यात् । तैरस्वभ्यनुज्ञा- तो दक्षिणाग्नि दक्षिणाप्रान्दर्भान्त्संस्तीर्य तेष्वन्नशेषैः पिण्डान्ददाति । पितृभ्यः स्वधा नमः स्वाहा इति चतुर्वि शतिः । संक्षालनेन त्रिरपसव्यैः परिषिध्वति । ऊर्ध्वं वह- तीरमृतं घृतं पयः कीलालं परिसृतं स्वधास्थ तर्पयत मे पितृन् तृप्यत इति । जयप्रभृति सिद्धमा धेनुवरप्रदानात् । आचमने चाग्निमुखे वाभिश्रावणे चोपसंग्रहणेषु च पश्चा- डोमेषु च यज्ञोपवीत अथेतरत्र प्राचीनावीतमेव वो- भूते मांसशेषेण एवमेव श्वोभूते यदि व्यहं अथ यदि गां न लभते मेवमजं वालमते । आरण्येन वा मांसेन यथोपपन्नेन । खङ्गमृगमहिषमेवत्र राहपुषतशश रोहिशार्ङ्गति- तिरीकपोतकपिञ्जलवार्धाणमांसानामक्षय्यं तिलमधुसं- सृष्टं तथा मत्स्यस्य शतबलैः श्रीरोइनेन वा सूपोहनेन वा यद्वा भवत्यामेर्वा मूलफलैर्वा प्रदानमात्रं हिरण्येन वा- प्रदानमात्रं अपि वा गोप्रासमाहरेत अपि वानूचानेभ्य उदकुम्भानाहरेत् । अपि वा श्राद्धमन्त्रानाधीयीत अपि वारण्येऽग्निना कक्षमुपोषेत् । एषामेऽष्टकेति न त्वेवानष्टकः स्यात् सिकता श्राद्धे पवित्रं यद्यध्यवसानाय यद्यन्ववि-
}
अयोध्याकाण्डः ।
किरणाय कुशाः कुतपो दूर्वा इति श्राद्धे पवित्रं यद्या- सनाय यदि परिस्तरणाय यद्युत्पवनाय तिलाः श्राद्धे पवित्रं यदि दानाय यदि भोजनाय यद्यपां संमर्जनाय खङ्गः श्राद्धे पवित्रं यदि मांसं यद्यस्थिमयं पात्रं दौहित्रः श्राद्धे पवित्रं यदि भोक्ता यदि परिवेष्टा यद्यभिश्रावयिता इत्यष्टकाहोमो व्याख्यातः । एवं मासिश्राद्धमपरपक्ष- स्येतीति । खादिरगृह्येऽपि - ऊर्ध्वमाप्रहायण्यास्तिस्र- तमिस्रष्टस्योष्टका इत्याचक्षत इत्यादि । आपस्तम्बोऽपि - या माध्याः पौर्णमास्या उपरिष्टाद्वयष्टका तस्यामष्टमी ज्येष्ठया संपद्यते तामेकाष्टके त्याचक्षते इति । एवमन्यान्य- पि श्राद्धानि दर्शितानि । विष्णुपुराणे - ‘ब्रह्मेन्द्र रुद्रनास- त्यसूर्याद्मित्रसुमारुतान् । विश्वेदेवान्पितृगणान्वयांसि म- नुजान्पशून् ॥ सरीसृपानृषिगणानन्यद्वा भूतसंज्ञितम् । श्राद्धं श्रद्धान्वितः कुर्वन्प्रीणयत्यखिलं हि तत् ॥ माखि मास्यसिते पक्षे पञ्चदश्यां नरेश्वर । तथाष्टकासु कुर्वेत काम्यं कालं शृणुष्व मे ॥ श्राद्धाईमागतं द्रव्यं विशिष्ट- मथ वा द्विजम् । श्राद्धं कुर्वीत विज्ञाय व्यतीपातेऽयने तथा । विषुवे चापि संप्राप्ते ग्रहणे शशिसूर्ययोः । सम-
[[५९४]]
धर्माकूते
स्तेष्वपि भूपाल राशिध्वर्के तु गच्छति । नक्षत्र- ग्रहपीडासु दुष्टस्वमावलोकने । इच्छा श्राद्धानि कुर्वीत नव सस्यागमे तथा ॥ अमावास्या यदा मैल विशाखास्वातियोगिनी । श्राद्धे पितृगणस्तृप्तिमत्रा- नोत्यष्टवार्षिकीम् । अमावास्या यदा पुष्ये रौद्रे चक्षु पुनर्वसौ । द्वादशाब्दं तदा तृप्तिं प्रयान्ति पितरो- ऽर्चिताः । वासवा जैकपाद पितॄणां तृप्तिमिच्छता । वारुणी चाप्यमावास्या देवानामपि दुर्लभा । नवस्वर्थेष्व- मावास्या यदैतेष्ववनीपते । ददाति तृप्तिदं श्राद्धं पितॄणां शृणु चापरम् ॥ वैशाखमासस्य सिता तृतीया नवम्य-
कार्तिक शुक्लपक्षे । नभस्यमासस्य तमिस्रपक्षे त्रयो- दशी पञ्चदशी च माधे । उपलुवे चन्द्रमसो रवेश्च तित्रो- ष्टकास्वप्ययनद्वये च ॥ पानीयमप्यत्र तिलैर्विमिश्रं दद्या- त्पितृभ्यः प्रयतो मनुष्यः । श्राद्धं कृतं तेन समाः सहस्रं रहस्यमेतत्पितरो वदन्ति । माचासिते पश्च- दशी च कंचिदुपैति योगं सह वारुणेन । ऋक्षेण कालः स वरः पितॄणां स ह्यल्पपुण्यैर्नृप लभ्यते- इसौ । काळे धनिष्ठा यदि नाम तस्मिन् भवन्ति भूपाल
अयोध्याकाण्डः ।
[[५९५]]
तदा पितृभ्यः । दत्तं जतानं प्रददाति तृप्तिं वर्षायुतं तत्कुलजैर्मनुष्यैः । तत्रैव चेद्भाद्रपदास्तु पूर्वाः काले यदा तत्क्रियते पितृभ्यः । श्राद्धं परां तृप्तिमुपैति तेन युगं समग्रं पितरः स्वपन्ति ॥ गङ्गां शतद्रं यमुनां विपाशां सरस्वतीं नैमित्रगोमती वा । गतोऽवगाहाचनमादरेण कृत्वा पितॄणां दुरितानि हन्ति । गायन्ति चैवात्पतरः सदा नवर्षा धातृप्तिमवाप्य भूयः । माघानितान्ते शिवतीर्थतोयैर्यास्याम तृप्तिं तनयादिदन्तेः ॥ चित्रं च वित्तं च नृणां विशुद्धं शस्तश्च कालः कथितो वि- विश्व पात्रं यथोक्तं परमां च भक्ति नृणां प्रयच्छत्ल- भिवाञ्छितानि ’ इति । अपि धन्यकुले जायादस्माकं मतिमान्नरः । अकुर्वन्वित्तशाठ्यं यः पिण्डान्नो निर्व पिष्यते । रत्नवस्त्रमहायानं सर्वभोगादिकं वसु । विभवे सति विप्रेभ्यो योऽस्मानुद्दिश्य दास्यति । अनेन वा यथाशक्ति कालेऽस्मिन्भक्तिनम्रवीः । भोजयिष्यवि विप्राप्रांस्तन्मात्रविभवो नरः । असमर्थोऽन्नदानस्य घा न्यमामं स्वशक्तितः ॥ प्रदास्यति द्विजाप्रेभ्यः स्वरूपारूपां वापि दक्षिणाम् । तत्राप्यसामर्थ्ययुतः
धर्माकूते
कराप्राप्रस्थितांस्तुलान् ॥ प्रणम्य द्विजमुख्याय कस्मै - चिद्रूप दास्यति । तिलैः सप्ताष्टभिर्वापि समवेतां जला- ञ्जलिम् ॥ भक्तिनम्रः समुद्दिश्य भुव्यस्माकं प्रदा- स्यति । यतः कुतश्चित्संप्राप्य गोभ्यो वापि गवाह्निकम् ॥ अभावे प्रीणयन्नस्माञ्श्रद्धायुक्तः प्रदास्यति । सर्वाभावे वनं गत्वा कक्षमूलप्रदर्शकः । सूर्यादिलोकपालानामि- दमुचैः पठिष्यति । न मेऽस्ति वित्तं न धनं न चान्यच्छ्रा- द्धोपयोग्यं स्वपितृन्नतोऽस्मि । तृप्यन्तु भक्त्या पितरौ मयैतौ कृतौ भुजौ वर्त्मनि मारुतस्य ॥ एवं श्राद्धं बुधः कुर्यात्पेतं मातामहं तथा । श्राद्धैराप्यायिता दद्यः सर्वान्कामान्पितामहाः । त्रीणि श्राद्धे पवित्राणि दौहिसः कुपतिस्तिलाः । रजतस्य तथा दानं तथा संदर्शनादिकम् । वर्ज्यानि कुर्वता श्राद्धं कोपाध्य- गमनं त्वरा । भोक्तुरप्यत्र राजेन्द्र त्रयमेतन्नः शस्यते । विश्वेदेवा सपितरस्तथा मातामहा नृप । कुलं चाप्यायते सर्वं पुंसा श्राद्धं प्रकुर्वता । सोमाधारः पितृगणः योगा- धारस्तु चन्द्रमाः । श्राद्धे योगिनियुक्तस्तु तस्माद्भूपाल शस्यते । सहस्रादपि विप्राणां योगी चेत्पुरतः स्थितः ॥
अयोध्याकाण्डः ।
सर्वान्भोक्तृस्तारयति यजमानं तथा नृप । अपि नस्ते भविष्यन्ति कुळे सन्मार्गशालिनः । गयामुपेत्य ये पि- ण्डान्दास्यन्त्यस्माकमादरात् ॥ अपि नः स कुले जा- याद्यो नो दद्यात्त्रयोदशीम् । पायसं मधुसर्पिभ्यां वर्षासु च मघासु च’ इति । गौतमीये- अथ श्राद्धममावास्यायां पितृभ्यो दद्यात् पञ्चमीप्रभृति वापरपक्षस्य यथा श्राद्धं सर्वस्मिन् वा द्रव्यदेशत्राह्मणसंनिधाने वा कालनियमः शक्तितः । प्रकर्षेद्गुगसंस्कारविधीं नभस्य नवावरान् भोजयेदयुजो यथोत्साहं वा’ इति । श्राद्धे देयानि ब्रह्म- पुराणे - धेनुं श्राद्धेषु यो दद्याद्दृष्टि कुम्भोदोहनाम् । गा- वस्त मनुतिष्ठन्ति गवां पुष्टिं तथैव च । गन्धवन्ति वि- चित्राणि कुसुमानि शुभानि च। पूजयित्वा तु पात्राणि श्राद्धे सत्कृत्य दापयेत् ॥ गन्धवाहा महानद्यः सुखानि विविधानि च । दातारमुपतिष्ठन्ते सुनार्याश्च पतित्रताः शयनासनं च दानानि भूमयो वाहनानि च । श्राद्धेष्वे तानि यो दद्यात्सोऽश्वमेधफलं लभेत् । सर्पिः पूर्णाणि पात्राणि श्राद्धे सत्कृत्य दापयेत् ॥ कुम्भक्षीरदुहां शश्वत् सहस्रं लभते गवाम् । रम्यानावसथान्दत्त्वा राजसूयफला
[[1]]
[[५९८]]
धर्माकूते
र्थमाक् । तथाभरण संपूर्णो सोपधानां स्वलंकृताम् । शय्यां च विविधां दत्त्वा द्विजोऽग्निष्टोमभाग्भवेत् । दासीदासं च विविधं तथैवोष्ट्रमजाविकम् ॥ हस्त्यश्वर- थदानं च श्राद्धकर्मणि नित्यशः । तिलांश्च विविधां दत्त्वा लभते फलमक्षयम् ॥ पितृकर्मणि युक्तस्तु शालि- शोभनकृद्भवेत् । कूपारामतटाकानि क्षेत्रयोषिगृहाणि च ॥ दत्त्वा तु मोदते स्वर्गे नित्यमाचन्द्रतारकम् । स्वा स्तीर्णे शयनं दत्त्वा श्राद्धे रत्नविभूषितत् । पितरस्तस्य तुष्यन्ति स्वर्गे चानन्त्यमश्नुते । पट्टकौशेयपत्रोर्ण तथा प्र. च्छदकम्बलान् । अजिनं रौरवं पट्टं प्रवेणुं मृगरोमजम् ॥ दत्त्वा चैतानि विप्रेभ्यो भोजयित्वा यथाविधि । प्राप्नोति श्रद्दधानस्तु वाजपेयस्य तत्फलम् । कौशेयं क्षौममग्र्यं च दुकूल महतं तथा । श्राद्धेष्वेतानि यो दद्याल्लोकानाप्नोत्य- नुत्तमान्’ इति । श्राद्धस्वरूपं चोकं ब्रह्माण्डपुराणे- ‘देश काले च पात्रे च श्रद्धया विधिना च यत् । पितॄनु- द्दिश्य विप्रेभ्यो दत्तं श्राद्धमुदाहृतम्’ इति । तच्च द्विविधं पार्वणैकोद्दिष्टभेदात् । उभयोः स्वरूपमपि पुराणे दर्शितम्भयोध्याकाण्डः ।
[[५९९]]
त्रीनुद्दिश्य तु यच्छ्राद्धं पार्वणं तत्प्रकीर्तितम् । एक- मुद्दिश्य यच्छ्राद्धमेकोद्दिष्टं प्रचक्षते ॥ ’ इति । द्विविध- मपि पुनस्त्रिविधम् । नित्यं नैमित्तिकं काम्यं चेति । विश्वामित्रेण तु द्वादशविधत्वमुक्तम्- नित्यं नैमित्तिकं काम्यं वृद्धिश्राद्धं सपिण्डनम् । पार्वणं चेति विज्ञेयो गोष्ठ शुभ्यर्थमष्टमम् । कर्माङ्गं नवमं प्रोक्तं दैनिकं दशमः स्मृतम् ॥ यालास्वेकादशं प्रोक्तं पुष्ट्यर्थे द्वादशं स्मृतम् ॥ इति । नित्यमित्यहरहः श्राद्धमुच्यते । नैमित्तिकमित्ये- कोद्दिष्टम् । तदाह पारस्करः – अहन्यहनि छ्राद्धं त- नित्यमिति कीर्तितम् । वैश्वदेवविहितं तदशक्त उदकेन तु । एकोद्दिष्टं तु यच्छ्राद्धं तमित्यकमुच्यते । तदध्य- युग्मं कर्तव्यं ब्राह्मणान्नाशयेद्विजान् ॥ इति काम्यश्राद्धं नाम अभिमतार्थविध्यर्थम् । वृद्धिश्राद्धं तु पुराणे उक्तम् । पुत्रजन्मविबाहादौ वृद्धिश्राद्धमुदाहृतम् । द्वादशेऽहनि क्रियमाणं सपिण्डीकरणं प्रसिद्धम् । पर्वणि क्रियमाणं पार्वणम् विशिष्टब्राह्मणसमागमे क्रियमाणं गोष्ठं श्राद्धम् । श्राद्धदेशश्वोक्तः स्मृतिसंग्रहे- ‘दक्षिणाप्रवणादेशे ती- दो वा गृहेऽपि वा । भूसंस्कारादिसंयुक्त श्राद्धं कुर्या -
D. Pt. vi- 3
[[३००]]
धर्माकूते
त्प्रयत्नतः । स्वभूमौ च नदीतीरे देशे कालाद्यदूषिते । स्थ- ठीषु गिरिपृष्ठे च सरःस्वायतनेषु च ॥ गोष्ठेषु च विविक्तेषु तुष्यन्ति पितरः सदा ।’ इति । आषाढ्यदि पञ्चमापरप- ज्ञस्य कन्यास्थार्कान्वितत्वेन प्रशस्ततोक्ता जाबालिना । ‘आगतेऽपि खौ कन्यां श्राद्धं कुर्वीत सर्वदा । आषाढ्य- पञ्चमः पक्षः प्रशस्तः पितृकर्मसु । पुत्रानायुस्तथारोग्य- मैश्वर्यमतुलं तथा ॥ प्राप्नोति पञ्चमो दत्त्वा श्राद्धं कामान्यथापरान् ॥’ इति । अत्र आषाढीप्रभृति पश्चम- पक्षत्वेनैव प्रशस्तत्वं कन्यास्था कन्त्रितत्वेन च प्रशस्त- तरत्वम् । तथा च बृहन्मनुः - आषाढीमवधिं कृत्वा यः पक्षः पश्चामो भवेत् । तत्र श्राद्धं प्रकुर्वीत कन्यास्थाक भवेन्न वा । कन्यास्थार्कान्वितस्य प्रशस्ततरत्वं च पुराणे दर्शितम् । पक्षान्तरेऽपि – ‘कन्यास्थे वो श्राद्धं प्रशस्यते
। कन्यागते पश्चामे तु विशेषेणैव कारयेत्’ इति । पञ्चमाप- रपक्षस्य विशिष्टफलमाह मार्कण्डेयः कन्यागते सवि- तरि दिनानि दश पच च । पार्वणेनैव विधिना तत्र श्राद्धं विधीयते । प्रतिपद्धनलाभाय द्वितीया हि प्रजा- प्रदा । परवीरान् तृतीया च चतुर्थी शत्रुनाशिनी । श्रियं
अयोध्याकाण्डः ।
[[६०१]]
प्राप्नोति पञ्चम्यां षष्ठ्यां पूज्यो भवेन्नरः । गाणाधिपत्यं सप्तम्यामष्टम्यां बुद्धिमुत्तमाम् ॥ खियो नवम्यां प्राप्नोति दशम्यां पूर्णकामता । वेदांस्तथाप्नुयात्सर्वत्रैकादश्यां क्रियापरः ॥ द्वादश्यां हेमलाभं च प्राप्नोति पितृपूजकः । प्रजां मेवां पशून्पुष्टिं स्वातन्त्र्यं बुद्धिमुत्तमाम् ॥ दीर्घमा- युस्तथैश्वर्ये कुर्वाणस्तु त्रयोदशीम् । अवाप्नोति न संदेहः श्राद्धं श्रद्धापरो नरः ॥ युवानः पितरो यस्य मृता शस्त्रेण वै तथा । तेन कार्ये चतुर्दश्यां तेषामृद्धिमभी.
ताम् ॥ श्राद्धं कुर्वन्नमावास्यायां चैकः पुरुषः शुचिः । सर्वान्कामानवाप्नोति स्वर्ग्य चात्यन्तमश्नुते ॥ इति । एवं बहुविधसूत्र पुराणादिषु महाफलत्वेन आवस्यकत्वेन च प्रपचितमखिलमध्यष्टकादिश्राद्धम् । ‘जातं सर्वे अनोपद्र- वभूतमेव अन्यभुक्तेनान्नेनान्यस्थ तृप्त्यसंभवात् । अन्यथा प्रवसन्तमुद्दिश्य ब्राह्मणभोजनात् प्रभवतस्तृप्त्या पध्य- शनग्रहणं सर्वलोकविद्धं विलुप्यते । अतोऽनर्थकमेव श्राद्धमिति । अयमर्थः यदि भुक्तमिहान्येन देहमन्यस्य गच्छति । दद्यात्प्रवसतः श्राद्धं न तत्पध्यशनं भवेत् ॥ इत्यनेनोक्तद्दानं संवनता ह्येते प्रन्धा मेवावेिभिः कृताः ॥ *
[[३०२]]
धर्माकूते
इति । यजस्व देहि दीक्षस्व तपस्तप्यस्त्र संत्यज ॥ यजस्वेत्यनेन देवगुर्वादिपूजा विधायकशास्त्रजातं देहीत्य - नेन दानशास्त्रं कृत्स्नं दीक्षस्वेत्यनेन च क्रतुबोधकशास्त्र- जातं वपस्तप्यस्वेत्यनेन तपोविधायकशास्त्रजातं संत्यजे- अनेन सर्वसङ्गपरित्यागविधायकशास्त्रजातं च परवित्ता- पहरणाय परिकल्पितत्वादप्रमाणमेवेति उक्तम् । तत्र देवपूजा विधायकशास्त्राणि च स्मृतिषु बहुलमुपलभ्यन्ते । तत्र पराशरः – ’ संध्यास्नानं जपो होमो देवतानां च पूजनम् । आतिथ्यं वैश्वदेवं च षट्कर्माणि दिने दिने ॥ इति । मरीचिरपि - ‘विधाय देवतापूजां प्रातर्होमा - दनन्तरम् ।’ इति । हारीतोऽपि - ‘कुर्वीत देवता- पूजां जपयज्ञादनन्तरम् ॥’ इति । कूर्मपुराणेऽपि - ‘निष्पीड्य स्नानवस्त्रं वै सम्यगाचम्य वाग्यतः । स्वैर्मन्त्रे- रर्चयेद्देवान् गन्धपुष्पैस्तथाम्बुभिः ॥’ इति । नृसिंह- पुराणेऽपि - ‘पौरुषेण च सूक्केन ततो विष्णुं समर्च- येत्’ इति । शिवविष्ण्वोः पूजाप्रकारमाह बोधायनः - ‘अथातो महापुरुषस्य अहरहः परिचर्याविधि व्याख्या- स्यामः अथातो महादेवस्य परिचर्याविधि व्याख्यास्यामः’
अयोध्याकाण्डः ।
[[६०३]]
इत्यादिना । तदकरणे प्रत्यवायः कूर्मपुराणेऽभिहितः - यो मोहादथ वालस्यादकृत्वा देवतार्चनम् । भुङ्क्ते स याति नरकं सूकरेष्वभिजायते ॥’ इति । शिव- पूजायाः फलमाह नन्दी - ’ यः प्रयच्छेद्द्रवां लक्षं दो- ग्ध्रीणां वेदपारगे । एकाहमर्चयेल्लिङ्गं तस्य पुण्यं ततो ऽधिकम्’ इति । आग्नेयेऽपि - ’ अर्चन संप्रवक्ष्यामि विष्णोरमिततेजसः । यत्कृत्वा मुनयः सर्वे परं निर्वाण- माप्नुवन् ॥ अप्खनो हृदये सूर्ये स्थण्डिले प्रतिमासु च । षट्स्वेतेषु हरेः सम्यगर्चनं मुनिभिः स्मृतम् । अग्नौ क्रियावतां देवो दिवि देवो मनीषिणाम् । प्रति- मास्वल्पबुद्धीनां योगिनां हृदये हरिः’ । एवं दानविष- येsपि तत्र शाकल संहितायाम् — ‘उथा दिवि दक्षि जावन्तो अस्थुर्ये अश्वदाः सह वे सूर्येण हिरण्यदा अमृ- तत्वं भजन्ते वासोदा : बोम प्रतिरन्त आयुः । यजुर्वेद- ऽपि - ’ दानं यज्ञानां वरूथं दक्षिणा लोके दातारं सर्वभूतान्युपजीवन्ति । दानेनारातीरपानुदन्त दानेन द्विष- न्तो मित्रा भवन्ति दाने सर्व प्रतिष्ठितम् । तस्मादानं परमं वदन्ति’ इति । सामवेदेऽपि - ’ दानेन सर्वा-
}
[[६०४]]
धर्माकृते
न्कामानवाप्नोति चिरंजीवित्वं ब्रह्मचारी रूपवान् अ हिंस्र उपपद्यते ’ इति । गौतमोऽपि — ‘समद्विगुणसा- हस्रानन्तफलानि आब्राह्मण ब्राह्मणश्रोत्रियवेदपारगेभ्यः गुर्वर्थ निवेशोषधार्तवृत्तिक्षीणयक्ष्यमाणाध्ययनाध्यसंयोग- वैश्वजितेषु द्रव्यसंविभागोबहिर्वेदि भिक्षमाणेषु कृतान्न- मितरेषु ।’ इति । मनुरपि– ’ दानधर्मं निषेवेत नित्यं नैमित्तिक पौष्टिकम् । परितुष्टेन भावेन पात्रमासाद्य श- चितः ॥ यत्किचिदपि दातव्यं याचिते नानसूयया । अ- दाता पुरुषरत्यागी धनं संत्यज्य गच्छति ॥ दातारं कृपणं मन्ये मृतोऽप्यर्थं न मुञ्चति ॥ ’ इति । स्कान्देऽपि - ‘ग्रामादर्धमपि प्रासमर्थिभ्यः किं न दीयते । इच्छानु रूपो विभवः कदा कस्य भविष्यति ॥ ’ तदिदं दानं चतुर्विधमित्याह व्यासः – नित्यं नैमित्तिकं काम्यं विमलं चेति कथ्यते । अहन्यहनि यत्कििा च दीयतेऽनुप- कारिणे ॥ अनुद्दिश्य फलं तत्स्याद्ब्राह्मणाय तु नित्यकम् । यत्तु पापोपशान्त्यर्थं दीयते विदुषां करे ॥ नैमित्तिकं वदुद्दिष्टं दानं सद्भिरनुष्टितम् । अपत्यविजयैश्वर्यस्वर्गार्थ यत्प्रदीयते । दानं तत्काम्यमाख्यातमृषिभिर्धर्मचिन्तकैः ॥

अयोध्याकाण्डः ।

ईश्वरप्रीणनार्थं यद्ब्रह्मविद्भ्यः प्रदीयते ॥ चेतसा भक्तियु- केन दानं तद्विमलं शुभम् ॥’ गीतायां तु सात्त्विक राजस- तामसभेदेन दानत्रैविध्यमुक्तम्- ‘दातव्यमिति यद्दानं दीयते- ऽनुपकारिणे । देशे काले च पात्रे च तद्दानं सात्त्विकं स्मृ- तम् ॥ यत्तु प्रत्युपकारार्थं फलमुद्दिश्य वा पुनः । दीयते यत्परिक्लिष्टं तद्राजसमुदाहृतम् ॥’ इति । प्रदेयाविशेषेण फलविशेषानाह मनुः - ‘वारिदस्तृप्तिमाप्नोति सुखमंक्ष- य्यमन्नदः । गृहदोऽग्रयाणि वेश्मानि रूप्यदो रूप्यमुत्त- मम् ॥ वासोदश्चन्द्रसालोक्यमश्विसालोक्यमश्वदः । अन डुद्दः श्रियं जुष्टां गोदो ब्रघ्नस्य विष्टपम् ॥ यानशय्याप्रदो भार्यामैश्वर्यमभयप्रदः । धान्यदः शाश्वतं सौख्यं ब्रह्मदो ब्रह्मसाष्टिताम् !! सर्वेषां तु प्रदानानां ब्रह्मदानं विशि- ध्यते । वार्यन्नगोमद्दीवासस्तिलकाभ्व नसर्पिषाम् । येन येन तु भावेन यद्यद्दानं प्रयच्छति । तत्ततेनैव भावेन प्राप्नोति प्रतिपूजितः ॥’ इति । संवतऽपि - ‘औषध’ स्नेहमाहारं स्नेहाढ्यं सपरिच्छदम् । यः प्रयच्छति रोगभ्यः स भवेद्व्याधिवर्जितः ॥ देवागारे द्विजातीनां दीपं दत्त्वा चतुष्पथे । सविज्ञानेन संपन्नश्चक्षुष्मांच
[[६०६]]
धर्माकूते
सदा भवेत् ॥’ इति । मत्स्यपुराणे सूतः - ‘अथातः संप्रवक्ष्यामि दानधर्मानुकीर्तनम्। दानधर्मेऽपि यत्प्रोकं विष्णुना प्रभविष्णुना ॥ यत्तु षोडशधा प्रोक्तं वासुदेवेव भूतये । पुण्यं पवित्रमायुष्यं सर्वपापहरं शुभम् । पूजितं देवताभिश्व ब्रह्मविष्णुहरादिभिः ॥ आद्यं तु सर्वदानानां तुला पुरुष संज्ञितम् । हिरण्यगर्भदानं च ब्रह्माण्डं तदन- न्तरम् ॥ कल्पपादपदानं च गोसहस्रं च पश्चमम् । हिरण्यकामधेनुश्च हिरण्याभ्वं तथैव च ॥ हिरण्याश्व- रथस्तद्वद्धे महस्तिरथस्तथा । पश्वलाङ्गलकं तद्वद्दारादानं तथैव च । द्वादशं विश्वचक्रं च ततः कल्पलतात्मकम् ॥ सप्तसागरदानं च रत्नधेनुस्तथैव च । महाभूतघटस्तद्वत्वो- डशः परिकीर्तितः’ इति । नृसिंहपुराणेऽपि ‘हिरण्य- गोप्रदानेन निरहंकारमाप्नुयात् । भूदानेन तु शुद्धेन ल- भते शान्तिसंपदम् ॥ गोदानेन तु यत्स्वर्ग लभते निर्मलं नरः । अश्वदानेन पुण्याहं कन्यादानेन मङ्गलम् ॥ द्विजे- भ्यस्तर्पणं कृत्वा दत्त्वा वस्त्राणि भक्तितः । अचिराल्लभते स्वर्ग यत्र गत्वा न शोचति ॥ कपिलागोप्रदानेन परमार्थे महीयते ।’ पद्मपुराणेऽपि पुलस्त्य : - ’ मेरोः प्रदान

अयोध्याकाण्डः ।
[[६०७]]
वक्ष्यामि दशधा मुनिसत्तम ॥ यत्प्रदानान्नरो लोकाना - प्नोति सुरपूजितान् ॥ पुराणेषु च वेदेषु यज्ञेध्वायतनेषु च । न तत्फलं तथैतेषु दत्त्वा शैलान्यदश्नुते ॥ प्रथमो धान्यशैलश्च द्वितीयो लवणाचलः । गुडाचलस्तृती- यस्तु चतुर्थी हेमपर्वतः ॥ पञ्चमस्तिलशैलः स्यात् षष्ठः कार्पासपर्वतः ! सप्तमो घृतशैलश्व रत्नशैलस्तथा- टमः ॥ रजतो नवमस्तद्वद्दशमः शर्कराचलः ॥’ इति । विष्णुधर्मोत्तरे - ‘तिलपर्वतदानं च तथा लवणपर्वतः । कार्पासश्च गुडश्चैव तथा सर्वपपर्वतः ॥ आषाढे कार्तिके चैव माघे वैशाखयोरपि । पौर्णमास्यां तु दातव्यं दान- मेतद्युधिष्ठिर । य एवं कुरुते भक्त्या शैलदानमनुत्तमम् । क्रीडाशैले महारम्ये क्रीडित्वा काममीप्सितम् ॥ धर्मेण पूज्यमानोऽथ शक्रलोकं स गच्छति । शक्रलोकान्नयेदन्ते कुल कोटिशतत्रयम् ॥ पश्चान्महोदये रम्ये शैलराजपुरो- चमे । रमित्वा वर्षकोटिं तु द्विगुगं परिसंख्यया ॥ भूयो जन्म भवेद्राज्यं भुङ्गे निहतकण्टकम्’ इति । तत्र अति- दानानि विविधानि । तथा च भारते— ‘श्रीण्याहुरति- दानानि कन्या पृथ्वी सरस्वती’ इति । तत्रैव प्रथमम
[[६०८]]
धर्माकूते
विदानमाह - ‘यो ब्रह्मदेयां तु ददाति कन्यां भूमिप्र- दानं च करोति विप्रे । ददाति चा विधिवञ्च यच स लोकमाप्नोति पुरंदरस्य ॥ मद्रराजश्च राजर्षिर्दत्त्वा कन्यां सुमध्यमाम् । सुवर्णहस्ताय गतो लोकान्देवैरभिष्टुतान् । रोमपादश्च राजर्षिः शान्तां दत्त्वा सुतां प्रभुः । ऋष्यशृ- ङ्गाय विपुले सर्वकामैरयुज्यत ॥’ मरीचिरपि - ‘गौरी ददन्नाकपृष्ठं वैकुण्ठं रोहिणीं ददत् । कन्या ददद्ब्रह्मलोकं रौरवं तु रजस्वलाम्’ इति । च्छन्दोगब्राह्मणे तु- श्रीण्याहुरतिदानानि गावः पृथ्वी सरस्वती । नरका- दुद्धरन्त्येते जपवापनदोहदानैः’ इति । तत्र गोदानं शिवरहस्ये - ‘सामान्यं सर्ववर्णानां गवां दानमनुत्त- मम् । चतुर्वर्गफलायालं यथावत्सुरसत्तमे ’ इति । दश- धेनुदानं च मात्स्ये - ’ प्रथमा गुडधेनुः स्याद्भूतधेनुस्त- थापरा । तिलधेनुस्तृतीया स्याच्चतुर्थी जलसंज्ञिता ॥ क्षीरघेनुश्व विख्याता मधुधेनुस्तथापरा । सप्तमी शर्करा- धेनुरष्टमी दधिधेनुका ॥ रसधेनुश्च नवमी दशमी स्या- त्स्वरूपतः ॥ समुपोष्य नरो दद्यात्सप्तम्यां तु दिने रवेः । दिनत्रयं यताहारो याति विष्णोः परं पदम् ॥ इहअयोध्याकाण्डः ।
[[६०९]]
लोकेऽपि सौभाग्यमायुरारोग्यवर्धनम् । वैष्णवं लोक- माप्नोति मरणं स्मरणं हरेः ॥ अर्बुदं च सहस्राणि दश चाष्टौ च धर्मवित् । न शोकदुःखमाप्नोति दौर्गत्यं जायते न च ॥’ इति । ब्रह्माण्डपुराणे तु ‘कृष्णा स्वर्गप्रदा ज्ञेया गौरी च कुलवर्धनी । रक्ता रूपप्रदा ज्ञेया पीवा दारिद्र्यनाशिनी । कृष्णसारा पुत्रदात्री नीलधर्म विव- घनी ॥ कपिला सर्वपापन्नी नानावर्णा च मोक्षदा ॥ ’ इति । मत्स्य पुराणेऽपि - ‘यश्वोभयमुखीं दद्यात्प्रभूतप्रभवां नरः । तद्दिनं पायसाहारं पयसा वापि वा हरेत् । सुवर्णस्य सहस्रेण तदर्थेनापि भामिनी ॥ तस्याप्यर्ध शतं वाथ पश्वाशच ततोऽर्घकम् । यथा शक्त्या प्रकर्तव्यं वित्त- शाठ्यविवर्जितम् ॥’ इति । याज्ञवल्क्यः उभयतो- मुखीस्वरूपं तद्दाने फलं चाह - ’ यावद्वत्सस्य पादौ मुखं योन्यां च दृश्यते । तावद्वौः पृथिवी ज्ञेया यावद्गर्भ न मुञ्चति ॥ सवत्सा रोमतुल्यानि युगान्युभयतोमुखी । दीप्ता स्यात्स्वर्गमाप्नोति पूर्वेण विधिना ददत् ॥’ इति । स्कान्दे—‘मुखतोऽर्ध वृषो धर्मो जघनं वृष उच्यते । चक्षुषी चन्द्रसूर्यौ च ब्रह्मा मूर्धानमाश्रितः ॥ जिह्वां च
[[1]]
[[६१०]]
धर्माकूते
तस्या वरुणो वायुरन्तश्चरः स्वयम् । पादे विष्णुर्भगश्चैव पूषा शक्रश्च संस्थितः ॥ जऽशेषस्तथादित्या ऊरू चैव समाश्रिताः ॥ रुद्राः कर्णौ च नासानं प्रीवोष्ठौ वसव- स्तथा । आयुधानि खुरास्तस्य चक्रवज्रौ च शृङ्गयोः ॥ अपाने च स्वयं मित्रः पुच्छं दासि स सर्वशः । अस्थीनि पर्वताः सर्वे पुरीषे श्रीरभूच्छिवा ॥ मूत्रं चास्य भवे- दिव्याममृतं चापि पावनम् । रोमाणि रश्मयः सर्वे नक्षत्राणि च सर्वशः ॥ ऋषयो देवयज्ञाश्च सत्त्वाच सफलानि च । अभवं स्वस्य मांसानि रुधिरं सर्वतो- ऽर्णवाः ॥ सप्तलोका मुखं ह्यासन् तथाप्रतिमतेजसः । हस्ता मरीचयश्चैव मज्जा ह्योषध्य एव च ॥ मन्त्रपूताश्च पशवे यकृत्स्नायूनि वीरुधः । वल्ल्यश्च वृक्षगुल्माश्च तथै- वास्ये नगाः शुभाः ॥ नागास्तस्याभवन्नास्ये वसवश्चैव मेहयोः । आमपकाशयौ तस्य तो देवावश्विनौ स्मृतौ ॥ मेघास्तस्याभवन्वक्षस्त टिन्माला विभूषिताः । पिशाचा राक्षसा यक्षा गन्धर्वाप्सरसस्तथा ॥ सिराधमन्योश्च मदो दर्पश्वाभिजज्ञिरे । मानुषा मातरश्चैत्र भूतानि विविधानि च ॥ रोमकूपा हि तस्यासन्वृषभस्य महा-
अयोध्याकाण्डः ।
€91
त्मनः ॥ एवं स भगवान्देवः परमैश्वर्यसंयुतः । सौर- भेयो महादेवः सर्वदेवमयोऽभवत् । उत्पाद्य संस्थानि तृणं चरन्ति तदेव भूयः सकलं वहन्ति । न भारखिनाः प्रवदन्ति किंचिदद्दो वृषैर्जीवति जीवलोकः ॥’ इति । तादृशस्यानडुहो दानमुक्तं महाभारते - ‘धृतिकण्ठ- मनड्डाहं सर्वरतैरलंकृतम् । दत्त्वा प्रजापतेर्लोकं विशोकः प्रतिपद्यते ॥ इति । द्वितीयमतिदानं भूदानम् तव महा- भारते भीष्मः - ‘अविदानेषु सर्वेषु पृथिवीदानमुत्तमम् । अचला हाक्षया भूमिर्दोग्ध्री कामाननुत्तमान् ॥ दोग्ध्रीं वासांसि रत्नानि पशून्त्रीहियवांस्तथा । भूमिदः सर्वभू- तेषु शाश्वतीर्मोदये समाः ॥ यावद्भूम्यामावपति ताव- द्भूमिद एघते । न भूमिदानादस्तीह परं किंचिद्युधिष्ठिर ॥ भूमिमेव ददुः पूर्व ये भूमिं भुञ्जतेऽधुना । स्वकर्म चोप- जीवन्ति नरा इह परत्र च ॥ य एनां दक्षिणां दद्यात्पृ- थिवीं पृथिवीपतिः । संग्रामे वा तनुं जह्याद्दद्याद्वा पृथि- वीमिमाम् ॥ इत्येतां क्षत्रबन्धूनां वदन्ति परमाशिषम् । पुनाति दत्ता पृथिवी दातारमिह शुश्रुमः । अपि पाप- समाचारं ब्रह्मन्नमथ वानृतम् ॥ सर्वपापात्पावयति सेव
[[६१२]]
धर्माकूते
पापात्प्रमुच्यति । अपि पापकृता राज्ञः प्रतिगृह्णन्ति साधवः ॥ पृथिवीं नान्यदिच्छन्ति पावनं ह्येतदुत्तमम् । घोराश्च वारुणाः प्राशा नानुसर्पन्ति भूमिदम् ॥ पितॄंश्च पितृलोकस्थान्देवलोकांश्च देवताः । संतर्पयति शान्तात्मा यो ददाति वसुंधराम् ॥ क्लिश्यमानाय चात्यर्थ वृत्ति- हीनाय सीदते । भूमिं वृत्तिकरीं दत्त्वा सत्री भवति मानवः ॥ यथा धावति गौर्वत्सं क्षरन्वी सततं पयः । एवमेतन्महाभाग भूमिर्धावति भूमिदम् ॥ गन्धर्वाप्सरसो यत्र तत्र गच्छन्ति भूमिदाः । मधुसर्पिः प्रवाहिण्यः पयो- दधिवहास्तथा ॥ सरितस्तर्पयन्तीह सुरेन्द्रवसुधाप्रदम् । सर्वदा पार्थिवेनेह सततं भूमिमिच्छता । भूदैया विधि- वच्छक्रपाले शंसमभीप्सता । अपि कृत्वा नरं पापं भूमिं दत्त्वा द्विजातये ॥ समुत्सृजति तत्पापं जीर्णी त्वचमि- मिवोरगः । अग्निष्टोमप्रभृतिमिरिष्टा यज्ञेः सदक्षिणैः ॥ न तत्फलमवाप्नोति भूमिदानाद्यदश्नुते ॥ दाता दशा- नुगृह्णाति दश हन्ति तथा क्षिपन् । ब्राह्मणाय गृहं दत्त्वा वसूनां लोकमश्नुते । प्रामदः स्वान्नरपतिः सम्राट् नग- रदो भवेत् । समप्रवसुधेशस्तु चक्रवर्ती च राज्यदः ॥
[[1]]
अयोध्याकाण्डः ।
भूमिं क्रीत्वापि यः कुर्याद्देवब्राह्मणसारः । स्वर्गलोक- मवाप्नोति पुरुषोऽपि सुदारुणः ॥ षष्टिं वर्षसहस्राणि स्वर्गे वसति भूमिदः ।’ इति ॥ बृहस्पतिरपि - ‘आ’ स्फोटयन्ति पितरः प्रवालन्ति पितामहाः । भूमिदो ऽस्मत्कुले जातः सोऽस्मान्संतारयिष्यति । पृथिव्यपहारे दोष उक्तो भारते- ‘पूर्वदत्तां हरन्भूमिं नरकायोप- गच्छति । नो ददाति प्रतिश्रत्य दत्त्वा वा हरते तु यः ॥ तौ बद्धा वारुणैः पाशैस्तप्येते मृत्युशासनात् । विन्ध्या- वीवतोयासु शुष्ककोटरवासकः । कृष्णसर्पास्तु जा- यन्ते ये हरेयुर्वसुधराम् । पतन्त्यभूणि रुदतां दीनाना- मपि सीदताम् । ब्राह्मणानां हृते क्षेत्रे हन्युखिपुरुषं कुलम् । अथ विद्यादानं गारुडे- ‘दानानामुत्तमं दानं विद्यादानं विदुर्बुधाः । आहुः समस्त विद्यानां श्रियमेवा- विदैवतम् ॥ यथा वरिष्ठो देवानां विष्णुः कारणपूरुषः । यथा स्वयोषित्प्रवरा कमला कमलालया ॥ वायुर्बलवतां श्रेष्ठो यथा ज्योतिष्मतां रविः । जलाशयानां प्रवरो यथा च सरितां पतिः । तथा विद्याप्रदः श्रेष्ठो गरीयांध गरीयसाम् । इहामुत्र सुखं क्षेममाहुर्विद्याधनं महत् ।
[[६१४]]
धर्माकूते

विद्ययामलया युक्तो मुक्ति याति स संयमी । विद्यया च सुखं गच्छेद्विद्यया च परां गतिम् । विद्याप्रतिष्ठा भूतानां विद्यायोनिश्च दैवतम् । तस्माद्विद्याप्रदो लोके सर्वदः प्रोच्यते बुधैः ॥’ इति । बृहस्पतिः - ‘सहस्रमेव धेनूनां श- तं बानडुहां समम् । दशानडुत्समं यानं दशयानसमो हयः । दशवाजिसमा कन्या विद्यादानं च तत्समम् । विद्यादानं परा विद्या ब्रह्मविद्या समीरिता । अतस्तद्दानतो राजन् सर्वदानफलं लभेत् । ’ इति । पात्रविशेषेण फलविशेष- माह मनुः - ‘सममब्राह्मणे दानं द्विगुणं ब्राह्मणब्रुवे । सहस्रं भोत्रिये दानमनन्तं वेदपारगे ।’ गौतमोऽपि - ‘समद्विगुण साहस्रानन्तफलानि अत्राह्मणब्राह्मणश्रोत्रिय- वेदपारगेभ्यः’ इति । वृहस्पतिरपि - ‘श्रोत्रिये चैव साहस्रमाचार्ये द्विगुणं ततः । आत्मनि शतसाहस्रमनन्तं त्वग्निहोत्रणि ॥ आहिताग्निं समाधाय कृशं भृत्यप्रिया- तिथिम् । वसुधा ये प्रयच्छन्ति नोपसर्पन्ति ते वयम् ॥ इति । गुरवे दत्त्वा पश्चात्पात्रानुसारेण अन्येभ्यो देयमि- त्याह व्यासः - ‘प्रथमं तु गुरोर्दानं दद्याच्छ्रेष्ठमनुक्रमात् । ततोऽन्येषां च विप्राणां दद्यात्पात्रानुसारतः ॥ गुरोरम के

अयोध्याकाण्डः ।

[[६१५]]
तत्पुत्रं तद्भार्यौ तत्सुतां तथा । पौत्रं प्रपौत्रं दौहित्रमन्यं वा तत्कुलोद्भवम् । तद्दानातिक्रमे दानं प्रत्युताधोगतिप्र- दम्’ इति । पावतारतम्यमाह मनुः – ‘अज्ञेभ्यो प्र- न्थिनः श्रेष्ठाः ग्रन्थिभ्यो धारिणो वराः । धारिभ्यो ज्ञानि- नः श्रेष्ठाः ज्ञानिभ्योऽव्यवसायिनः ॥ यमोऽपि - ‘विद्या- युक्तो धर्मशीलः प्रशान्तः शान्तो दान्तः सत्यवादी कृत- ज्ञः । स्वाध्यायवान् धृतिमान् गोशरण्यो दाता यज्वा ब्रा- झणः पात्रमाहुः । स्वाध्यायाढ्यं योनिमन्तं प्रशान्तं वैता- नस्थं पापभीरुं बहुज्ञम् । स्त्रीषु क्षान्तं धार्मिकाणां शरण्यं व्रतैः कान्तं तादृशं पात्रमाहुः । याज्ञवल्क्यः - ‘न वि- द्यया केवलया तपसा वापि पात्रता । यत्र वृत्तिमिमे चोमे तद्धि पात्रं प्रचक्षते’ । विष्णुपुराणे - ‘यद्यदिष्टतमं लोके यच्चान्यदपि वा गृहे । तत्तद्गुणवते देयं तदेवाचय्यमि- च्छता इति । अपात्रदाननिषेधं तत्र दोषं चाह मनुः - ‘न वार्यपि प्रयच्छेत्तु बैडालव्रतिके द्विजे । न बन्नति के नावेदविदि धर्मवित् । त्रिष्वप्येतेषु दत्तं हि विधिनाप्यार्जितं धनम् । दातुर्भवत्यनर्थाय पर- त्रादातुरेव च । यथा लवेनोपलेन निमज्जत्युदके
D. Pt. vi-4
[[६१६]]

धर्माकूते
तस्त्र । तथा निमज्जतोऽधस्तादज्ञौ दातृप्रतीच्छकौ ।’ पात्रभूतोऽपि अधर्मविनियोक्त्रे न देयमित्याह स एव- ‘पात्रभूतोऽपि यो विप्रः प्रतिगृह्य प्रतिग्रहम् । असत्समं नियुञ्जीत देयं तस्मै न किंचन ॥ संचयं कुरुते यश्व प्रतिगृह्य समन्ततः । धर्मार्थ नोपयुञ्जीत न वं तस्करमर्चयेत् । उत्पत्स्यते हि तत्पात्रं यत्तारयति सर्वतः ॥ ’ अथ यज्ञाः — ते च त्रिविधाः पाकयज्ञाः हविर्यज्ञाः, सोम- संस्थायेति । तत्र अष्टकादयः पाकयज्ञाः, हविर्यज्ञाः ज्यो- तिष्टोमादयः, खोमाः; तत्र सर्वसोमयागप्रकृतिज्योंतिष्टोमः तस्य सप्तसंस्था नित्याः तद्विकृतिभूता अपि पुनः ऋत- वविविधाः एकाहाद्दीनसत्रभेदात्, ते च छन्दोगब्राह्मणे चतुर्भिरध्यायैरेकाहास्त्रिभिरहीनाः त्रिभिश्च सत्राणि इति क्रमेणोक्ताः; आर्षेयककल्पेऽपि तेनैव क्रमेण प्रतिपादिताः । क्षुद्रकल्पे तु एकाहाहीनसत्राणां काम्यनैमित्तिकगुणवि- कारेण भेदा उक्ताः । अभिजित् विश्वजित, महाव्रतम्, चत्वारः साहस्राः, षट् साद्यस्काः, चत्वारो ब्रात्यस्तोमाः, षडग्निष्टुतः, सौमिकचातुर्मास्यानि, उपहव्यः, ऋतपेयः, शुनाशीर्यः, वैश्यस्तोमः, तीत्रसुत्, वाजपेयः, राजसूयः,
अयोध्याकाण्डः ।
राट्, विराट् औपसदः, सर्वतोमुखः पुनस्तोमः, चतु- ष्टोमो द्वौ उद्भिद्बलभिदौ, अपचितिपक्षिस्तोमो, ऋषभः, गोसवः, मरुत्स्तोमः, इन्द्राग्न्योः कुलायः, इन्द्रस्तोमः इन्द्राग्न्योः स्तोमः, निधनौ, संदंशः, वज्रः इति एकाहाः । अथ अहीनाः ज्योतिष्टोमातिरात्रः, सर्वस्वोमातिरात्रः, अप्तोर्यामः, नवसप्तदशातिरात्रः, विषुवदतिरात्रः, गो- ष्टोमातिरात्रः, आयुष्टोमातिरात्रः, अभिजिदतिरात्रः, विश्वजिदतिरात्रः, त्रिवृदतिरात्रः पश्चदशातिरात्रः, सप्तदशातिरात्रः, एकविंशातिरात्रः, इति त्रयोदशातिरा- त्राः । अङ्गिरसांद्विरात्रः, कापिवनद्विरात्रः, चैत्ररथद्वि- रात्रः । गर्गत्रिरात्रः, अश्वत्रिरात्रः, वैदत्रिरात्रः, छन्दोग- पवमान त्रिरात्रः, तुर्वसुतिरात्रः, पराकन्त्रिरात्रः, इति षद त्रिरात्राः । चतुर्वीर चतूरात्रः, जामदग्न्य चतूरात्रः, वष्टिस्य चतूरात्रः, विश्वामित्र संजय चतूरातः इति चत्वारश्वतूरात्राः । देवानां पश्वरात्रः, पञ्चशारदीय- पञ्चरात्रः, व्रतमध्यकपञ्चरात्रः, इति त्रयः पञ्चरात्राः । अथ षड्रात्रास्त्रयः - ऋतूनां बद्धातः, त्रिकद्रुक षड्रात्रः, अभ्यासङ्गय षड्रात्र इति । सप्त सप्तरात्राः- सप्तर्षिसप्तरात्रः,
[[२१८]]
धर्माकूते
प्राजापत्यसप्तरात्रः, छन्दोगपवमान सप्तरात्रः, जामदग्न्य- सप्तरात्रः, ऐन्द्र सप्तरात्रः, जनकसप्तरात्रः, पृष्ठस्तोम सप्त- रात्रः । नवरात्रौ द्वौ - आयुष्कामनवरात्रः पशुकाम- नवरात्रः इति । चत्वारो दशराबा :- त्रिकद्रुक- दशरात्रः, कुसुरुबिन्ददशरात्रः, छन्दोमदशरातः, पूर्व- शरातः इति । पौण्डरीकएकादशरात्रः इत्यहीनाः । द्वाद- शाहस्तावत् द्विविधः अहीनसत्रभेदात् । तावुभौ द्विविधौ व्यूढसमूढ भेदात् । द्वे त्रयोदशरात्रे षडूिंशो क्तं तृतीयम्; श्री- णि चतुर्दशरात्राणि; चत्वारि पञ्चदशरात्राणि; षोडश सप्तदश अष्टादश एकोनविंशति विंशति रात्राणि पञ्च ; द्वे एकविंशतिरात्रे ; द्वाविंशतिरात्रः ; त्रयोविंशतिरात्रः ; चतु- विंशतिरात्रे द्वे; पञ्चविंशतिषद्दिशति सप्तविंशति अष्टाविं शति एकान्नत्रिंशत् त्रिंशकदेकत्रिंशद्वात्रिंशद्रात्राणि ; त्रीणि त्रयस्त्रिंशद्रात्राणि चतुस्त्रिंशत् पश्चत्रिंशत् षट्त्रिंशत् सप्त- त्रिंशत् अष्टात्रिंशत् एकान्नचत्वारिंशच्चत्वारिंशद्रात्राणि ; सप्त एकान्नपञ्चाशद्रात्राणि एकषष्टिरात्रः शतरात्रः ; गवाम- नम्, आदित्यानामयनम्, अङ्गिरसामयनम् दृतिवातव तोरयनम, कुण्डपायिनामयनम्, तापश्चितामयनम्, प्रजा-अयोध्याकाण्डः
[[६१९]]
पतेर्द्वादश संवत्सरम् इति सत्राणि । एवमेते एकाहा- हीनसत्रा ब्राह्मणोक्ताः । आर्षेयकल्पे एकादशभिर- ध्यायैः क्लृप्ताः क्रतवः । अथ क्षुद्रकल्पोक्ताः - ‘प्रा- मकामयज्ञः प्रजाकामयज्ञः पश्वादिभेषजकामयज्ञः श्रेष्ठ्य कामयज्ञः मिथः शत्रु भूतबहुयजमानयज्ञः सुहृ- द्भूत बहुयजमानकयज्ञः दीक्षितमृतयज्ञः ज्योगामया वि- यज्ञः अभिशस्यमानयज्ञः राजयज्ञः राष्ट्रे ऋद्धिकामयज्ञः द्वियजमानकयज्ञः वृष्टिकामयज्ञः गोकामयज्ञः इति प्राप्तपदा अग्निष्टोमभेदाश्चतुर्दश । आभिचारयज्ञः पशु- कामयज्ञः ज्योगामयावियज्ञः प्रतिष्ठाकामयज्ञः प्रजाका- मयज्ञः लोककामयज्ञौ द्वौ भ्रातृव्ययज्ञः विभ्रष्टयज्ञः इति ब्राह्मसामिका नव योनैर्यज्ञः यज्ञायज्ञीय बहिष्पव - मानक एकः ऋद्धिकामोक्थ्यः पशुकामउक्थ्यः अन्नाद्य- काम उक्थ्यः ज्येष्ठकाम उक्थ्यः इत्युक्थ्यभेदाः सप्त । प्रतिष्ठाकामयज्ञः स्वर्गकामयज्ञः श्रुत्य संध्यक सामकपशुका- मयज्ञः इति पञ्चयज्ञः । अवकीर्णवप्रायश्चित्तयज्ञः, अति- वे प्रायश्वित्तयज्ञः, संसवप्रायश्चित्तयज्ञः, सोमापहरणप्राय- श्वित्तयज्ञः, कलशाहरणप्रायश्चित्तेऽनु सोमाति सोमादि-
[[६२०]]
धर्माकूते
रेकप्रायश्चित्तानि त्रीणि, अतिरात्रादतिरेके एकः सत्रिणां मध्ये दीक्षितप्रमीतियज्ञः ’ इति प्रायश्चित्तक्रतवः त्रयोवर्ण- कल्पा ब्राह्मणराजन्यवैश्यभेदात् । उभयसामाभिजित्प्रति- रूपः उभयसामविश्वजित्प्रतिरूपौ द्वौ ऋषभप्रतिरूपा- स्त्रयः पुरोहितयज्ञौ द्वौ यज्ञायज्ञीयानुरूप एकः षोडशसा- माग्निष्टोमौ द्वौ । अथाष्टौ गर्भियज्ञः तलवकारिशाखोक्त’ ज्योतिष्टोमभेदा एकत्रिंशत् एकादशाभिष्टोमाः पञ्चाशद- त्यग्निष्टोमाः पचोक्याः पञ्च षोडशिनः पश्चातिरात्राः । अथ प्रबईयज्ञाः आवापवानमिष्टोमः श्रीस्तोमाश्चत्वारः वाचस्तोम एकः ब्रह्मसामपृष्ठका हौ द्वौ इति ज्योतिर्वि कारः । अथ पृष्ठ्यषडविकाराः – पृष्ठ्यस्तोमः, नानापृ- ष्ठ्यः, परोक्षपृष्ठ्यः, सर्वपरोक्षपृष्ठ्यः, उभयपरोक्ष पृष्ठ्यः, अन्वाहार्यपृष्ठ्यः, अनन्तरावेव ईषद्विकृतावष्टमनवमौ, पुरस्ताज्ज्योतिः षड़हः, उपरिष्ठाज्ज्योतिः षडहः, बृहद्रथं- न्तरपुरस्ताज्ज्योतिः षडहः, बृहद्रथन्तर उपरिष्टाज्ज्योतिः- बडहः, परोक्षापर्क्यपृष्ठयः षडह, प्रत्यक्षापर्यपृष्ठ्यः षडहः, परोक्षप्राक् पृष्ठ्यः षडहः, प्रत्यक्ष प्राक्पृष्ठयः षडहः, बृहद्रथन्तर पृष्ठयः षडहः, अनुगृहीतपृष्ठयः षडहः, बृहद्र-
अयोध्याकाण्डः ।
६१ः
थंतरपृष्ठ्यो अनुगृहीत पृष्ठयः षडहः, बृहद्रथंतरपृष्ठयो अनु हीतपरोक्षपृष्ठ्यः षडहः, नानापृष्टयो अनुगृहीत बृहद्रथंतर- पृष्ठयः षडहः नानापृष्ठथोऽनुगृहीतबृहद्रथंतर परोक्षपृष्ठयः प- डहः इति द्वाविंशत् प्रभेदाः । एवं पृष्ठयस्तोम विश्व जिदतिरा- वः नानापृष्टष विश्वजिदतिरात्रः इत्येवंप्रकारेण विश्वजिद- तिरात्रा द्वाविंशतिभेदाः । अथ भरतद्वादशाहाः चत्वारः तत्र प्रथममाहापस्तम्बः - द्वादशाग्निष्टोमा रथंतर सामनः सभरतद्वादशाह इति उभयतोऽतिराम्रा दशाग्निष्टोमा रथंतरसामानः सभरतद्वादशाह इति उभयतोऽतिरात्रा दशाग्निष्टोमा द्वितीयः व्यत्यासेन रथंतरबृहत्पृष्ठका उभ- यतोऽतिरात्राः मध्यतो दशाग्निष्टोमाः तृतीयः अभितः षोडशमन्तौ अतिरात्रौ अभितोग्निष्टोमो अष्टौ मध्य उक्ता इति चतुर्थः द्वादशाग्निष्टोमा बृहत्पृष्ठाना कसदामय- नम् द्वादशोक्थ्यास्तद्विश्वेषां देवानामयनम् । द्वादशषोड- शिमतः तदिन्द्रस्यायनं द्वादशातिरात्रद्यावापृथिव्योः संव- त्सरप्रबर्हद्वादशाहः । अथ प्रबत्रिकद्वादशाहः तत्र प्रथमः अतिरात्रावभितो मध्यतो गो आयुषोरावृत्तिः अतिरा- श्रावभितोऽष्टौ गायुषी ज्योतिष्ठोमे प्रथमदशमेऽहनीति

धर्माकूते
द्वितीयः अतिरातावभितः त्रिकद्रुकमूर्ध्वानुपयन्ति ज्यो-
तिष्टोम दशममहः विष्ठोमदशममहः
इति तृतीयः एवमभितः त्रि रात्रं ज्योतिर्देशक मित्येकः
अभितोऽतिरात्रा आ-
युषां दशकमिति तृतीयः एवंप्रकारेण यावन्तोऽ- हीनैकाहाः तावन्तो द्वादशाहाः अन्नाद्यकामद्वादशाहः प्रजाकामद्वादशाह इत्येवमादिप्रकारेण अनन्ता द्वाद- शाहाः शाखान्तरे विहिताः । क्षुद्रकल्पे क्लृप्ताः तदुक्तं चतुर्दश प्रतिपादनिवैक ब्रह्मसामतः यज्ञायज्ञीयबहिष्प- वमानोऽपरः क्रतुः सप्तोक्थ्य विकृताः पञ्च संधिभेदाद्वाच- रिताः ॥ साम्युत्थितावभिव्युष्टावक् स्तुत्यागतिष्टवौ । संसवेऽपहते सोमे एकैकः ऋतु रिच्यते ॥ विशीर्णे कलशे द्वौ तु त्रयः सवनभेदतः । स्रोमातिरेकतः प्रोक्ता एको राज्यतिरेकतः ॥ प्रमीते दीक्षिते ग्रामभेदने वर्णभेदतः त्रयः कल्पास्तु वर्णानां द्वावग्निष्टोमसामतः । अनुष्टुभ- बृहद्वन्तो माध्यंदिनरथंतरः ॥ षट्कल्पिताः पुरोघेच्छो- द्वे यज्ञीयानुरूपकः । एकोऽष्टौ गर्भिणः सप्तप्रणः सव- नादितः ॥ दशाहा द्वादशाहाभ्यामेक आवापवानथ । वाच- स्वोमास्तु चत्वारो द्वौ पृष्ठब्रह्म नामतः ॥ एकं कल्पोदि-
अयोध्याकाण्डः ।
[[६२३]]
चैकाहाः पचाशीतिप्रभेदतः । द्वाविंशतिस्तु षडहाः पृष्ठतः कल्पितास्तथा ॥ अनन्ता द्वादशाहाश्च भरतप्रभु- वास्तथा’ इति । तपोविषये मनुः - ‘तपोमूलमिदं सर्व देवं मानुषकं सुखम् । तपो मेध्यं बुधैः प्रोक्तं तपो- ऽन्तं वेददर्शिभिः ॥ ब्राह्मणस्य तपो ज्ञानं तपः क्षत्रस्य रक्षणम् । वैश्यस्य तपो वार्ता तपः शूद्रस्य सेवनम् ॥ ऋषयः संशितात्मानः फलमूलानिलाशनाः । तपसैव प्रपश्यन्ति त्रैलोक्यं सचराचरम् ॥ औषधान्यगदो विद्या देवी च विविधा स्थितिः । तपसैव प्रसिद्धयन्ति तपस्तेषां हि साधनम् ॥ यहुस्तरं यद्दुरापं यद्दुर्ग य दुष्करम् । तत्सर्वं तपसा साध्यं तपो हि दुरतिक्रमम् ॥ महापातकिनश्चैव शेषाश्चाकार्यकारिणः । तपसैव सुतप्तेन मुच्यन्ते किल्बिषात्ततः ॥ कीटाश्चाद्दिपतङ्गाच पशवश्च वयांसि च । स्वराणि च भूतानि दिवं यान्ति तपो- चलात् ॥ यत्किंचिदेनः कुर्वन्ति मनोवाक्कायकर्मभिः । तत्सर्वं निर्दहन्त्याशु तपसैव तपोधनाः । तपसैव विशुद्धस्य ब्राह्मणस्य दिवौकसः ॥ इज्याश्च प्रतिगृह्णन्ति कामान्संवर्धयन्ति च । प्रजापतिरिदं शास्त्रं तपसैवासृज-
[[६२४]]
धर्माकूते
हासुः ॥ तथा च वेदानृषयस्तपसैव प्रपेदिरे । इत्येषं तप- सो देवा माहाभाग्यं प्रचक्षते ॥ सर्वस्यास्य प्रपश्यन्तस्त- पसः पुण्य उद्भवा’ इति । आनुशासनिकेऽपि तपसां विशेषः तत्फलविशेषश्च दर्शितः– ’ स्थण्डिलेषु शयनानां गृहाणि शयनानि च । चीरवल्कलसंवीते वासांख्याभर- जानि च । वाहनानि च यानानि योगात्मनि तपोधने । अग्निषूपशयानस्य राज्ञः पौरुषमेव च ॥ रसानां प्रतिसं- हारे सौभाग्यमनुगच्छति । आमिषप्रतिसंहारे पशून्पुत्रां- श्च विन्दति ॥ अर्वाक्शिरास्तु यो लम्बेदुदवासं च यो वसेत् । सततं चैकशायी यः स लभेतेप्सितां गतिम् ॥ वीरासनं वीरशय्यां वीरस्थानमुपागतः । अथ या- तस्य वै लोकाः सर्वकामगमास्तथा । धनं लभेत दानेन मौनेनाज्ञां विशांपते । उपभोगांश्च तपसा ब्रह्मचर्येण जी- वितम्। रूपमैश्वर्यमारोग्यम हिंसाफलमश्नुते ॥ फलमू- लाशिनो राज्यं स्वर्गः पर्णाशिनां भवेत् । प्रायोपवेशिनो राजन्सर्वत्र सुखमुच्यते । गवाढ्यः शाकदीक्षायां स्वर्ग- गामी नृणाशनः । स्त्रियस्त्रिषवणं स्नात्वा वायुं पीत्वा ऋतुं लभेत् । स्वर्ग सत्येन लभते दीक्षया कुलमुत्तमम् ॥
+
अयोध्याकाण्डः ।
[[६२५]]
[[6]]

सलिलाशी भवेद्यस्तु सदाभिः संस्कृतो द्विजः । मनुं साधयतो राज्यं नाकपृष्टमनाशके ॥ उपवासं च दीक्षा- यामभिषेकं च पार्थिव । कृत्वा द्वादशवर्षाणि वीरस्था- नाद्विशिष्यते ॥ अधीत्य सर्ववेदान्वे सद्यो दुःखाद्विमु- च्यते । मानसं हि चरन्धर्म स्वर्ग लोकमुपाश्नुते । तत्रैव स्थलान्तरे उमामहेश्वरसंवादे देवदेव उवाच - उपवा- सत्रतैर्दान्ता हिंस्राः सत्यवादिनः । सांसद्धाः प्रेत्य गन्ध- वैः सह मोदत्यनामयाः । मण्डूकयोगशयनो यथान्यायं यथाविधि । दीक्षां चरति धर्मात्मा स नागैः सह मोदते । शष्पं मृगमुखोच्छिष्टं यो मृगः सह सेवते ॥ दीक्षितो वै मुदा युक्तः संगच्छत्यमरावतीम् । शैवालं शीर्णपर्ण वा तद्रूती यो निषेवते । शीतयोगवहो नित्यं स गच्छे- स्परमां गतिम् । वायुभक्षोऽम्बुमनो वा फलमूलाशनो- ऽपि वा ॥ यतेष्वैश्वर्यमादाय मोदतेऽप्सरसां गणैः । अग्नियोगवह ग्रीष्मे विधिदृष्टेन कर्मणा । तीर्त्वा द्वाद- शवर्षाणि राजा भवति पार्थिवः ॥ आहारनियमं कृत्वा मुनिर्द्वादशवार्षिकम् । मनुं संसाध्य यत्नेन राजा भवति पार्थिवः । देहं चानशने त्यक्त्वा स खर्गे सुखमेधते ॥
[[६२६]]
धर्माकूते
स्थण्डिले शुद्धमाकाशं परिगृह्य समन्ततः । प्रविश्य च मुदा युक्तो दीक्षां द्वादशवार्षिकीम् ॥ स्थण्डिलस्य फला- न्याहुर्यानानि शयनानि च । गृहाणि च महार्हाणि चन्द्रशुभ्राणि भामिनी ॥ आत्मानमुपजीवन्यो नियतो नियताशनः । देहं वा शयने त्यक्त्वा स स्वर्ग समुपा- श्रुते ॥ आत्मानमुपजीवन्यो दीक्षां द्वादशवार्षिकीम् । त्यक्त्वा महार्णवे देहं वारुणं लोकमश्नुते । आत्मानमुपजीवन्यो दीक्षां द्वादशवार्षिकीम् ॥ अश्मना चरणौ भित्वा गुह्यकेषु स मोदते । साधयित्वात्मनात्मानं निर्द्वन्द्वो निष्परिग्रहः । तीर्त्वा द्वादशवर्षाणि दीक्षामेतां मनोहराम् । स्वर्गलोकमवाप्नोति देवैश्व सह मोदते ॥ आत्मानमुपजीवन्यो दीक्षां द्वादशवार्षिकीम् । हुत्वाग्नौ देहमुत्सृज्य वडिलोके महीयते ॥ यस्तु देवि यथान्यायं दीक्षितो नियतो द्विजः । आत्मन्यात्मानमाधाय निर्ममो धर्मलालसः ॥ तीर्त्वा द्वादशवर्षाणि दीक्षामेतां मनो- ऽनुगाम् । अरणीसहितं स्कन्दे बध्वा गच्छत्यनावृतः । वीराध्वा निरतो नित्यं वीरासनगतस्तथा । वीरस्थायी च सततं स वीरगतिमाप्नुयात् । स शक्रलोकगो नित्यं
अयोध्याकाण्डः ।
[[६२७]]
सर्वकामपुरस्कृतः । दिव्यपुष्पसमाकीर्णो दिव्यचन्दनभू- षितः । सुखं वसति धर्मात्मा दिवि देवगणैः सह ॥ वीरलोकगतो वीरो वीरयोगवहः सदा । सत्वस्थः सर्व- मुत्सृज्य दीक्षितो नियतः शुचिः ॥ वीराध्वानं प्रपद्येद्य- स्तस्य लोकाः सनातनाः । कामगेन विमानेन स वै चरति छन्दतः ॥ शक्रलोकगतः श्रीमान्मोदते च निरामयः । इति । संन्यासविषये मनुः – ‘चतुर्थमायुषो भागं संग त्यक्त्वा परिव्रजेत् । आश्रमादाश्रमं गत्वा हुतहोमो जि तेन्द्रियः । भिक्षाबलिपरिश्रान्तः प्रब्रजन्प्रेत्य वर्धते । ऋ- णानि त्रीण्यपाकृत्य मनो मोक्षे निवेशयेत् ॥ अनपाकृत्य माक्षं तु सेवमानो व्रजत्यधः । अधीत्य विधिवद्वेदान्पुत्रानु- स्पाद्य धर्मतः ॥ इष्टा च शक्तितो यज्ञैर्मनो मोक्षे निवेशये- त्। अनधीत्य द्विजो वेदाननुत्पाद्य तथा सुतान् ॥ अनिष्टा चैव यज्ञैस्तु मोक्षमिच्छन्त्रजत्यधः । प्राजापत्यां निरूप्ये- ष्टिं सर्ववेदसदक्षिणाम् ॥ आत्मन्यग्नीन्समारोप्य ब्राह्मणः प्रव्रजेद्गृहात् । यो दत्त्वा सर्वभूतेभ्यः प्रव्रजत्यभयं गृहात् । तस्य तेजोमया लोका भवन्ति ब्रह्मवादिनः । यस्मादण्वपि भूतानां द्विजान्नोत्पाद्यते भयम् । तस्य देहाद्विमुक्तस्य
[[६२८]]
धर्माकूते
भयं नास्ति कुतश्वन ॥ अगारादभिनिष्क्रान्तः पवित्रोप- चितो मुनिः । समुपोढेषु कामेषु निरपेक्षः परिव्रजेत् एक एव चरेन्नित्यं सिद्धयर्थमसहायकः । सिद्धिमेकस्य पश्यन्हि न जहाति न हीयते । अनग्निरनिकेतः स्याद्रा- ममन्नार्थमाश्रयेत् ॥ उपेक्षको संचयिको मुनिर्भावसम- न्वितः । कपालं वृक्षमूलानि कुचेलमसहायता ॥ समता चैव सर्वस्मिन्नेतन्मुक्तस्य लक्षणम् ॥ नाभिनन्देत मरणं नाभिनन्देत जीवितम् । कालमेव प्रतीक्षेत निर्देश भृतको यथा ॥ दृष्टिपूतं न्यसेत्यादं वस्त्रपूतं जलं पिबेत् । सत्यपूतां वदेद्वाचं मनःपूतं समाचरेत् ॥ अतिवादांस्ति- तिक्षेत नावमन्येत कंचन । न चैनं देहमाश्रित्य वैरं कुर्वीत केनचित् ॥ क्रुध्यन्तं न प्रीतक्रुध्दाकुष्टः कुशलं वदेत् । सप्तद्वारावतीर्णो च न वाचमनृतां वदेत् ॥ अध्यात्मर- तिरासीनों निरपक्षो निरामिषः । आत्मनैव सहायेन सुखार्ती विचरेदिह ॥ न चोत्पातनिमित्ताभ्यां न नक्षत्रा- ङ्गविद्यया । नानुशासनवादाभ्यां मिक्षां लिप्सेत कर्हिचित् ॥ न तापसैर्ब्राह्मणैर्वा क्योभिरपि पार्श्वभिः । आकीर्ण भिक्षु- कैर्वान्यैरगारमुपसंविशेत् । कृत्तकेशनखश्मश्रुर्दण्डी कुडुप-भयोध्याकाण्डः ।
[[६२९]]
वाशुचिः ॥ विचरेन्नियतो नित्यं सर्वभूतान्यपीडयन्’ इति । भारते चातुराश्रम्येऽपि परिव्राजकानां पुनराचारा विमुच्याभिधनकलत्रपरिबर्हणं सर्वेष्वात्मानं स्नेहपाशान- वधूय परिव्रजन्ति समलोष्टाश्मकांच नास्त्रिवर्गवृतेष्वसक्तबु- द्वयः । अरिमित्रोदासीनानां तुल्यदर्शनास्थावरजरायुजा- ण्डजस्वेदजोद्भिज्जानां भूतानां वाङ्मनः कर्मभिरनभिद्रोहि- णः अनिकेताः पर्वतपुलिनवृक्षमूलदेवतायतनान्यनुचरन्तो वासार्थमुपेयुर्नगरं प्रामं वा नगरे पश्च च रात्रिकाः ग्रामे चैकरात्रिकाः प्रविश्य च प्राणरक्षणार्थं द्विजातीनां भवनान्यसंकीर्ण कर्मणामुपतिष्ठेयुः । पात्रपतितायाचित- भैक्षाः कामक्रोधदर्पलोभ मोह कार्पण्यदम्भपरिवादाभि- मानहिंवानिवृत्त इति । भवन्ति चात्र श्लोकाः - अभयं सर्वभूतेभ्यो दत्त्वा यश्चरते मुनिः । न तस्य सर्वभूतेभ्यो भयमुत्पद्यते कचित् । कृत्वाग्निहोत्रं स्वशरीरसंस्थं शा- रीरमग्निं स्वमुखे जुहोति । विप्रस्तु भैक्षोपगतैर्हविर्भिश्चि- ताग्निनां संव्रजते हि लोकान् ॥ विष्णुपुराणेऽपि - पुत्रद्र- व्यकलत्रेषु त्यक्तस्नेहो नराधिप । चतुर्थमाश्रमस्थानं गच्छे- निर्धूतकल्मषः ॥ मित्रादिषु समो मैत्रः समस्तेष्वेव जन्तु-
[[३३०]]
धर्मा कूते
षु । जरायुजाण्डजादीनां वाङ्मनः कर्मभिः कचित् ॥ युक्तः कुर्वीत न द्रोहं सर्वसंगं च वर्जयेत् । प्राणयात्रानि- मित्तं च व्यङ्गारे भुक्तवज्जने ॥ काले प्रशस्तवर्णा- नां भिक्षार्थी पर्यटेगृहान् । एकरात्रस्थितिमेप- भ्रात्रस्थितिः पुरे । त्रैवर्गिकांस्त्यजेत्सर्वानारम्भान- वनपते ॥ ग्नि स्वमुखे जुहोति । विप्रस्तु मैक्षोपगतैर्हविर्भिश्चि- वाग्निनां स व्रजति स्म लोकान् । मोक्षाश्रमं यश्चरते यथोक्तं शुचिः सुसंकल्पितबुद्धियुक्तः । अनिन्धनज्योति- रिव प्रशान्तः स ब्रह्मलोकं श्रयते द्विजातिः ’ । इति । य- तिधर्मान्हेयानुपादेयांश्च संगृह्याह मेधातिथिः श्रद्धया परयो- पेतः परमात्मपरायणः । स्थूलसूक्ष्मशरीराभ्यां वियु- को दशषट्कवित् ॥ त्रिदण्डी कुण्डिकां कन्यां भैक्ष्यभा- जनमासनम् । कौपीनाच्छादनं वाचः षडेतानि परिप्र- हेत् ॥ स्थावरं जङ्गमं बीजं तैजस्रं विषमायुधम् । षडे- तानि न गृह्णीयाद्यतिर्मूत्रपुरीषवत् । रसायनं क्रियां वादं ज्योतिषं क्रयविक्रयम् ॥ विविधानि च शिल्पानि वर्जये - परदारवत् । भिक्षाशनं जपः स्रानं ध्यानं शौचं सुरार्च-
कृत्वाग्निहोत्रं स्वशरीरसंस्थं शरीरम-
अयोध्याकाण्डः ।
[[६३१]]
नम् ॥ कर्तव्यानि षडेतानि कर्तव्यं नृपदण्डवत् ॥ नटा- दिप्रेक्षणं द्यूतं प्रमदां सुहृदं तथा ॥ भक्ष्यां भोज्यमुदीत्यां च पण पश्येत्कदाचन । स्कन्धावारे खले सार्धे पुरे ग्रामेऽप्यसङ्गृहे ॥ न वसेत्तु यतिः सायं षट्सु स्थानेषु कर्हि चित् । रागं द्वेषं मदं मायां दम्भं मोहं मनागपि । षडेतानि यतिर्नित्यं मनसापि न चिन्तयेत् । मध्वकं शुक्रु- aj च स्त्रीकथा लौल्यमेव च । दिवा स्वापं च यानं च यतीनां पतनानि षट् ॥ संयोगं च वियोगं च वियो- गस्य च साधनम् ! जीवेश्वरप्रधानानां स्वरूपाणि विचि- न्तयेत् ॥ आसनं पात्र लोपश्च संचयः शिष्यसंग्रहः । दिवा स्वापो वृथा जल्पो यतेर्बन्धकराणि षट् ॥ एकाहा- सरतो ग्रामे पाहात्परतः पुरे । वर्षाभ्योऽन्यत्र च स्था- नमासनं तदुदाहृतम् ॥ उक्तानां यतिपात्राणामेकस्यापि न संग्रहः । भिक्षोर्मक्ष्यभुजश्चापि पात्र लोपः स उच्यते ॥ गृहीतस्य त्रिदण्डाद्वितीयस्य परिग्रहः । कालान्तरोप- भोगार्थ संचयः परिकीर्तितः ॥ शुश्रूषाला भपूजार्थं यशो- र्थं वा परिग्रहः । शिष्याणां न तु कारुण्यात्स ज्ञेयः शि- व्यसंग्रहः ॥ विद्यादीनां प्रकाशत्वादविद्या रात्रिरुच्यते ।
D. Pt vi- 5
[[६३२]]
धर्माकूते
विद्याभ्यासे प्रमादो यः स दिवा स्वाप उच्यते ॥ आ- ध्यात्मिक कथां हित्वा भैक्षचर्यासु यो रतिम् । अनुग्रहं पथि प्रश्नं वृथा जल्पोऽन्य उच्यते ॥ अजिह्नः पण्डकः परन्धो बधिर एव च । मुग्धश्च मुच्यते भिक्षुः षड्भि- रेतैर्न संशयः ॥ इदं मृष्टमिदं नेति योऽनन्नपि न सज्जते । हितं सत्यं मितं वक्ति तमजिह्नं प्रचक्षते ॥ अवजातं यथा नारीं तथा षोडशवार्षिकीम् । शतवर्षी च यो दृष्ट्वा निर्विकासः स पण्डकः ॥ भिक्षार्थमटनं यस्य विण्मूत्र- करणाय च । योजनान्न परं याति सर्वदा पङ्गुरेव सः ॥ तिष्ठतो गच्छतो वापि यस्य चक्षुर्न दूरतः । चतुर्युगाद्भयं त्यक्त्वा परिव्राट् सोऽन्ध उच्यते ॥ हिताहितं मनोरामं वचः शोकावहं तु यत् । श्रुत्वा यो न शृणोतीव बधिरः सं प्रकीर्तितः ॥ सांनिध्यविषयाणां यः समर्थों विकले- न्द्रियः । सुप्तवद्वर्तते नित्यं स भिक्षुर्मुग्ध उच्यते ॥ विशे- षमाह मनुः - ’ एककालं चरेद्वैशं न प्रसज्येत विस्तरे । । भैतप्रसक्तो हि यतिर्विषयेष्वपि सज्जति ॥ विधूमे सन्न- मुसले व्यंगारे भुक्तवज्जने । वृत्तेरारावसंबाधे भिक्षां नित्यं यतिश्चरेत् ॥ भिक्षा च पञ्चविधा ; तथा चोशनाः-
अयोध्याकाण्डः ।
કર
‘माधुकरम संकलनं प्राक्प्रणीतमयाचितम्। तात्कालिकोप- पन्नं च भैक्षं पञ्चविधं स्मृतम्’ इति । संन्यासिनः चतु- विधाः ; तदाह संवर्त :- ‘चतुर्विधा भितवस्तु कुटीचकबहूदकौ । हंसः परमहंसश्च यो यः प- श्वास उत्तमः ॥ वैराग्यभेदेन व्यवस्था दर्शिता पुराणे- विरक्तिद्विविधा प्रोक्ता तीत्रा तीव्रतरेति च । सत्वामेव तु तीव्रायां न्यसेद्योगी कुटी चके ॥ अशक्के बहूदको तीत्र- तरा या इंससंज्ञिते । मुमुक्षुः परमहंसे च साक्षाद्विज्ञान- साधनः । तत्र कुटी चकवृत्तिः स्कान्दे दर्शिता - ‘कुटी- श्वकस्तु संन्यस्य यः स्वद्मनि नित्यशः । भिक्षामादाय सुजीत स्वबन्धूनां गृहेऽथ वा ॥ शिखायज्ञोपवीती स्यात्रिदण्डी सकमण्डलुः’ इति । बोवायनोऽपि - ‘कुटीचकः परित्यज्य ज्येष्ठे वेश्मनि नित्यशः ॥ भिक्षां बन्धुभ्य आदाय भुखीता शक्तिसंक्षयात्’ इति । बहूद्दक- वृत्तिः पितामहेनोक्ता - ‘बहूदकस्तु विज्ञेयः सर्वसंग- विवर्जितः । बन्धुवर्गेण रक्षितः स्वभूमौ नैत्र संविशेत् ॥ निश्चलः स्थाणुभूतश्च सदा मोक्षपरायणः । न कुट्या - नोदके वासं कुर्याद्वत्रे च चेतसा ॥ नागरे नाखनेनान्ने
[[६३४]]
,
धर्माकूते
नांस्तरे न त्रिदण्डके । स्वमात्रायां न कुर्याद्वै रागं दण्डा- दिके यतिः ॥ ’ इति । हंसवृत्तिः स्कान्दे- ‘हंसः कम- ण्डलं शिक्यं भिक्षापात्रं तथैव च । कन्थां कौपीनमा- च्छाद्यमङ्गवखबहिः पटम् ॥ एकं तु वैणवं दण्डं धारये- नित्यमादरात् । देवतामभेदेन कुर्याद्वयानं समर्चयेत् इति । परमहंसवृत्तिश्व स्कान्दे- ‘कौपीनाच्छादनं वस्त्रं कन्थां शीतनिवारिणीम् । अक्षमालां च गृहीया- द्वैणवं दण्डमणम् ॥ माधूकरमथैकानं परमहंसः समा- चरेत्’ इति । एवं देवगुर्वादिपूजादानदीक्षात पस्त्याग- बोधकशास्त्रजातमखिलमपि दानसंवननरूपतया अप्रमा. णमेव । तथा यजस्वेत्यादिना चातुराश्रम्यमप्युपलक्षितम् । तथा हि मत्र यजस्वेत्यनेन प्राथम्याद्ब्रह्मचर्यमुच्यते । ब्रह्मचारिणच गुरूपासनं विना देवतान्तरोपासना ना- स्त्येव । तथा चापस्तम्बः — ‘न ब्रह्मचारिणो विद्यार्थ-
। स्य परोपवासोऽस्ति’ इति । स एवान्यत्र ‘देवमिवा- चार्यमुपासीत’ इति । श्रुतिरपि - ‘यस्य देवे परा भक्तिर्यथा देवे तथा गुरौ ’ इति । शैवपुराणेऽपि - ‘यो गुरुः स शिवः प्रोक्तः स शिवः स च शंकरः ।
अयोध्याकाण्डः ।
[[६३५]]
शिवविद्यागुरूणां च भेदो नास्ति कथंचन । शिवे मन्त्रे गुरौ यस्य भावना खदृशी भवेत् । भोगो मो- क्षश्च सिद्धिश्च शीघ्रं तस्य भवेद्ध्रुवम् । वस्त्राभरणमाल्या- नि शयनान्यासनानि च ॥ प्रियाणि चात्मनो यानि तानि देयानि वै गुरोः । तोषयेत्तं प्रयत्नेन मनसा कर्मणा गिरा’ इति । एवं च देवपूजार्थक ‘यज’
। धातुना ब्रह्मचारिणोऽवश्यकर्तव्य देवता भूतगुरुपूजाप्रति- पादनात् । अतः यजस्वेत्यनेन ब्रह्मचर्याश्रमोपलक्षणमु- तम् । देहि दीक्षस्वेत्याभ्यां गृहस्थाश्रम उपलक्षितः, दा- नदीक्षयोः गृहस्थे प्रधानतया अनुष्ठेयत्वात् । तपस्तप्य- स्वेत्यनेन च वानप्रस्थाश्रमः, वानप्रस्थैः प्राधान्येन तपखो- ऽनुष्ठेयत्वात् । संत्यजेत्यनेन तुरीयाश्रमः, तुरीयाश्रमस्यैः त्यागस्यैव प्राधान्येन कर्तव्यत्वात् । एवं ब्रह्मचर्या - श्रमासाधारणगुरुशुश्रूषणादिशास्त्रस्य, गृहस्थाश्रमावाधा- रणदानादिशास्त्रस्य, वानप्रस्थाश्रमासाधारणतपश्चरण- शास्त्रस्य, मोक्षाश्रमासाधारण सर्वसङ्गपरित्यागशास्त्रस्य अप्रामाण्यप्रतिपादनेन चतुर्णामाश्रमाणां तद्धर्माणां च विधायकशास्त्र जातमप्र पाणमित्युक्तं भवति । आश्रमाणां
[[६३६]]
धर्माकूते
तद्धर्माणां च विधायकशास्त्रजातं मोक्षधर्मे व्यासशुकसं- वादे व्यासः - ‘ब्रह्मचारी गृहस्थश्च वानप्रस्थोऽथ भि- क्षुकः । यथोक्तचारिणः सर्वे गच्छन्ति परमां गतिम् ॥ एको वाप्याश्रमानेतान्यो न तिष्ठेद्यथाविधि । अकामद्वेष- संयुक्तः स परन विधीयते ॥ चतुष्पदी हि निःश्रेणी त्र- ह्मण्येषा प्रतिष्ठिता । एतामारुह्य निःश्रेणीं ब्रह्मलोके म- हीयते ॥ आयुषस्तु चतुर्भागं ब्रह्मचार्यनसूयकः । गुरौ वा गुरुपुत्रे वा वसेद्धर्मार्थकोविदः ॥ जघन्यशायी पूर्व स्यादुत्थाय गुरुवेश्मनि । यच्च शिष्येण कर्तव्यं कार्य दासेन वा पुनः । कृतमित्येव तत्सर्वं कृत्वा तिष्ठेत पार्श्वतः । किंकरः सर्वकारी स्यात् सर्वकर्मसु को- विदः ॥ कर्मातिशेषेण गुरावध्येतव्यं बुभूषता । दक्षिणौ नयवादी स्यादाहूतो गुरुमाश्रयेत् ॥ शुचिदक्षो गुणोपेतो ब्रूयादिष्टमिवान्तरा । चक्षुषा गुरुमव्यग्रो निरीक्षेत जितेन्द्रियः । नाभुक्तवति चाश्रीयादपीतवति न पिबेत् ॥ नातिष्ठति तथासीत नासुप्ते प्रस्वपेत च । उत्तानाभ्यां च पाणिभ्यां पादावस्य मृदु स्पृशेत् ॥ दक्षिणं दक्षिणेनैव सव्यं सव्येन पीडयेत् । अभिवाद्य
अयोध्याकाण्डः ।
[[૧૦]]
गुरुं ब्रूयादधीष्व भगवन्निति । इदं करिष्ये भगवन्निदं चापि कृतं मया । ब्रह्मस्तदपि कर्तास्मि यद्भवान्वक्ष्यते पुनः । इति सर्वमनुज्ञाप्य निवेद्य च यथाविधि । कुर्या- त्कृत्वा च तत्सर्वमाख्येयं गुरवे नमः ॥ यांस्तु गन्धा- सान्वापि ब्रह्मचारी न सेवते । सेवेत तान्समावृत्त इति धर्मेषु निश्चयः । ये केचिद्विस्तरेणोक्ता नियमा ब्रह्मचारिणः ॥ तान्सर्वान्नाचरेन्नित्यं भवेच्चानयगो गुरोः । स एवं गुरवे प्रीतिमुपाइत्य यथाबलम् ॥ आश्रमादाश्रमे- ष्वेव शिष्यो वर्तेत कर्मणा । वेदव्रतोपवासेन चतुर्थे चायुषे गते ॥ गुरवे दक्षिणां दत्त्वा समावर्तेद्यथाविधि । धर्म- लुब्धैर्युतो दारैरनीनुत्पाद्य यत्नतः । द्वितीयमायुषो भागं गृहमेधी भवेद्रती ॥ द्वितीयमायुषो भागं गृहमेवी गृहे वसेत् । धर्मलुब्धैर्युतो दारैरमीनाहृत्य सुव्रतः ॥ गृहस्थवृत्तयश्चैव चतस्रः कविभिः स्मृताः । कुसूल- धान्यः प्रथमः कुम्भधान्यस्त्वतः परम् ॥ अश्वस्तनोऽथ कापोतीमाश्रितो वृत्तिमाहरेत् । येषां परः परो ज्याया - न्धर्मतो धर्मवित्तमः । षट्कर्मावर्तयत्येकः त्रिभिरन्यः प्रवर्तते ॥ द्वाभ्यामेकचतुर्थस्तु ब्रह्मसत्रे व्यवस्थितः ।
[[1]]

धर्माते
गृहमेधित्रतान्यव महान्तीह प्रचक्षते । नात्मार्थे पाशयेदन्नं न वृथा घातयेत्पशून् ॥ प्राणी वा यदि वाप्राणी सं- स्कारं यजुषार्हति । न दिवा प्रस्वपेज्जातु न पूर्वापररा- त्रिषु । न भुञ्जीतान्तरा काले नानृतावाह्वयेत्त्रियम् । नास्यानश्नन्गृहे विप्रो वसेत्कञ्चिदपूजितः ॥ तथास्या - तिथयः पूज्या हव्यकव्यवहाः सदा । वेदविद्याव्रतस्नाताः श्रोत्रिया वेदपारगाः । स्वधर्मजीविनो दान्ताः क्रिया- वन्तस्तपस्विनः । तेषां हव्यं च कव्यं चाप्यर्हणार्थं विधीयते । नखरैः संप्रयातस्य स्वधर्मज्ञापकस्य च ॥
1 अपविद्धाग्निहोत्रस्य गुरोर्वालीककारिणः । संविभा- गोऽत्र भूतानां सर्वेषामेव शिष्यते । तथैवापचमानेभ्यः प्रदेयं गृहमेधिना । विघसाशी भवेन्नित्यं नित्यं चामृत- भोजनः । अमृतं यज्ञशेषः स्याद्भोजनं हविषा समम् । भृत्यशेषं तु योऽश्नाति तमाहुर्विघसाशिनम् । विधखं भृत्यशेषं तु यज्ञशेषमथामृतम् ॥ स्वदारनिरतो दान्तो ह्यनसूयुर्जितेन्द्रियः । ऋत्विक्पुरोहिताचार्यैर्मातुलातिथि- संभृतैः । वृद्धबालातुरैवैधैर्ज्ञातिसंबन्धिबान्धवैः । माता- पितृभ्यां जामीभिर्भ्रात्रा पुत्रेण भार्यया ॥ दुहित्रा दास-अयोध्याकाण्डः ।
[[६३९]]

वर्गेण विवादं न समाचरेत् । एतान्विमुच्य संवादान्सर्व- पापैर्विमुच्यते । एतैर्जितश्च जयति सर्वाल्लोकान्न संशयः । आचार्यो ब्रह्मलोकेशः प्राजापत्ये पिता प्रभुः ॥ अतिथिस्विन्द्रलोकस्य देवलोकस्य चत्विजः । जाम- योऽप्सरखां लोके वैश्वदेवे तु ज्ञातयः । संबन्धिबान्धवा दिक्षु पृथिव्यां मातृमातुलौ ॥ वृद्धबालातुरकशास्त्वाकाशे प्रभविष्णवः । भ्राता ज्येष्ठः समः पित्रा भार्या पुत्रः स्वका तनुः ॥ छाया स्वा दासवर्गश्च दुहिता कृपणं परम् । तस्मादेतैरधिक्षिप्तः सहेन्नित्यमसंज्वरः । गृहधर्मपरो वि- द्वान्धर्मशीलो जितक्लमः । न चार्थबद्धः कर्माणि धर्म वा कंचिदाचरेत् । गृहस्थवृत्तयस्तिस्रस्तासां निःश्रेयसं परम् । परस्परं तथैवाहुश्चातुराश्रम्यमेव तत् । ये चोक्ता नियमा- स्तेषां सर्वे कार्य बुभूषता । कुम्भवान्यैरुञ्चशिलैः का पोतीं चास्थितास्तथा ॥ यस्मिंश्चैते वसन्त्यहस्तद्राष्ट्रम- भिवर्धते । पूर्वापरान्दशापरान्पुनाति च पितामहान् ॥ गृहस्थवृत्तीश्चाप्येता वर्तयेद्यो गतव्यथः ॥ स चक्रबरलो - कानां सदृशीमाप्नुयाद्गतिम् । जितेन्द्रियाणामथ वा ग- तिरेषा विधीयते ॥ स्वर्गलोको गृहस्थानामुदारमनसां

[[६४०]]
धर्माकूते
हितः । स्वर्गो विमानसंयुक्तो वेददृष्टः सुपुष्पितः ॥ स्व- र्गलोको गृहस्थानां प्रतिष्ठा नियतात्मनाम् । ब्रह्मणा वि- हिता योनिरेषा यस्माद्विधीयते । द्वितीयं क्रमशः प्राप्य
1 स्वर्गलोके महीयते ॥ अतः परं परमुदारमाश्रमं तृतीय- माहुस्त्यजतां कलेबरम् । वनौकसां गृहपतिनामनुत्तमं शृणुष्व संष्टिशरीरकारिणाम् ॥’ इति । ‘गृहस्थस्तु यदा पश्येद्वलीपलितमात्मनः । अपत्यस्यैव चापत्यं वन- मेव तदाश्रयेत् ॥ तृतीयमायुषेोभागं वानप्रस्थाश्रमे वसेत् । खानेवानी परिचरेद्यजमानो दिवौकसः । नियतो निय- ताहारः षष्ठभक्तोऽप्रमत्तवान् । तदग्निहोत्रं ता गावो यज्ञा- ङ्गानि च सर्वशः ॥ अफालकृष्टं व्रीहियवं नीवारं विघ खानि च । हवींषि संप्रयच्छेत मखेष्वत्रापि पञ्चसु ॥ वानप्रस्थाश्रमेऽप्येताश्चतस्रो वृत्तयः स्मृताः ॥ सद्यः प्रक्षाल- काः केचित्केचिन्मासिकसंचयाः । वार्षिकं संचयं के चि त्केचिद्दादशवार्षिकम् ॥ कुर्वन्त्य तिथिपूजार्थं यज्ञतन्त्रार्थ- मेव च । अभ्रावकाशा वर्षासु हेमन्ते जलसंश्रयाः ॥ प्रीष्मे चं पञ्चतपसः शश्वच्च मितभोजनाः । भूमौ विपरिवर्तन्ते विष्ठन्ति प्रमदैरपि ॥ स्थानासनैर्वर्तयन्ति सवनेष्वभिषि
अयोध्याकाण्डः

ञ्चते । दन्तोलूखलिकाः केचिदश्मकुट्टास्तथापरे ॥ शुक्ल- पते पिबन्त्येके यवागूं कथितां सकृत् । कृष्णपक्षे पिब- न्त्यन्ये भुञ्जते वा यथागमम् । मूलैरे के फलैरे के पुष्पैरे के दृढव्रताः ॥ वर्तयन्ति यथान्यायं वैखानसगतिं श्रिताः । एताश्चान्याश्च विविधा दीक्षास्तेषां मनीषिणाम् ॥ चतुर्थ चौपनिषदो धर्मः साधारणः स्मृतः । वानप्रस्था- गृहस्थाश्च ततोऽन्यः संप्रवर्तते ॥ अस्मिन्नेव युगे तात विप्रैः सर्वार्थदर्शिभिः । अगस्त्यः सप्तऋषयो मधुच्छन्दोऽ- घमर्षणः ॥ सांकृतिः सुदिवा दण्डि : यथावासोऽकृतश्रमः । अहोवीर्यस्तथा काव्यः ताण्ड्यो मेधातिथिर्बुधः ॥ बल- वान्कर्ण निर्वाकः शून्यपालः कृतश्रमः । एनं धर्म कृतव- न्तः ततः स्वर्गमुपागमन् ॥ तात प्रत्यक्षधर्माणस्तथा या- यावरा गणाः । ऋषीणामुग्रतपसां धर्मनैपुण्यदर्शिनाम् ॥ अन्ये चापरिमेयाश्च ब्राह्मणा वनमाश्रिताः । वैखानसा वालखिल्याः सैकताश्च तथापरे ॥ कर्मभिस्ते निरानन्दा धर्मनित्या जितेन्द्रियाः । गताः प्रत्यक्षधर्माणः ते सर्वे वनमाश्रिताः ॥ अनक्षत्रास्त्वनाधृष्या दृश्यन्ते ज्योतिषां गणाः । जरया च परिघूना व्याधिना परिपीडिताः ॥
[[६४२]]
धर्माकूते
चतुर्थे चायुषः शेषे वानप्रस्थाश्रमं त्यजेत् । सद्यस्कारां निः रूप्येष्टि सर्ववेदसदक्षिणाम् ॥ आत्मयाजी आत्मरतिरा- त्मक्रीडात्मसंश्रयः । आत्मन्यग्नीन्समारोप्य त्यक्त्वा स र्वपरिग्रहान् ॥ साद्यस्कांश्च यजेद्यज्ञानिष्टीश्चैवेह सर्वदा । यदैव याजिनां यज्ञादात्मनीज्या प्रवर्तते ॥ श्रीश्चैवाग्नी- न्यजेत्संयगात्मन्येवात्ममोक्षणात् । प्राणेभ्यो यजुषः पञ्च
। षट्प्राश्नीयादकुत्सयन् ॥ केशलोमनखान्वाप्य वानप्रस्थो मुनिस्ततः । आश्रमादाश्रमं पुण्यं पूतो गच्छति कर्मभिः ॥ अभयं सर्वभूतेभ्यो दत्त्वा यः प्रव्रजेद्दिजः । लोकास्तेजो- मयास्तस्य प्रेत्य चानन्त्यमश्रुते ॥ सुशीलवृत्तो व्यपनीत- कल्मषो न चेह नामुत्र च कर्तुमीहते । अरोषमोहो रात-
ग्रहो भवेदुदासीनवदात्मविन्नरः ॥ यमेषु चैवानु-
गतेषु न व्यथेत्स्वशास्त्र सूत्राहुतिमन्त्रविक्रमः । भवेद्यथेष्टा- गतिरात्मवेदिनि न संशयो धर्मपरे जितेन्द्रिये ॥ ततः परं श्रेष्ठमतीव सद्गुणैरधिष्ठितं तीनथ वृत्तिमुत्तमाम् । चतुर्थयुक्तं परमाश्रमं शृणु प्रकीर्त्यमानं परमं परायणम् ॥’ शुक उवाच - वर्तमानस्तथैवात्र वानप्रस्थाश्रमे यथा । योक्तव्योत्मा कथं शक्त्या वेद्यं वै काङ्क्षता परम् ।
भयोध्याकाण्डः ।
ક્ર
व्यास उवाच - प्राप्य संस्कारमेताभ्यामाश्रमाभ्यां ततः परम् । यत्कार्ये परमार्थे तु तदिहैकमनाः शृणु ॥ कषायं पाश्चयित्वा तु श्रेणिस्थानेषु च त्रिषु । प्रत्रजेच्च परं स्थानं परिव्राज्यमनुत्तमम् ॥ तद्भवानेवमभ्यस्य वर्ततां श्रूयतां तथा अनग्निरनिकेतश्च ग्राममन्नार्थमाश्रयेत् ॥ अश्वस्तन विधाता स्यान्मुनिर्भावसमन्वितः । लघ्वाशी नि- यताहारः सकृदन्ननिषेविता । कपालं वृक्षमूलानि कुचे- लमसहायता । उपेक्षा सर्वभूतानामेतावद्विलक्षणम् ॥ यस्मिन्वाचः प्रविशन्ति कूपे त्रस्ता द्विजा इव । न वक्तारं पुनर्यान्ति स कैवल्याश्रमे वसेत् ॥ नैव पश्येन्न शृणुयाद- वाच्यं जातु कस्यचित् । ब्राह्मणानां विशेषेण नैव ब्रूयात्कथंचन ॥ यद्ब्राह्मणस्य कुशलं तदेव सततं वदेत् । तूष्णीमासीत निन्दायां कुर्वन्भैषज्यमात्मनः ॥ येन पूर्ण - मिवाकाशं भवत्येकेन सर्वदा । शून्यं येन विना कीर्ण तं देवा ब्राह्मणं विदुः ॥ येन केनचिदच्छिन्नो येन केन - चिदाशितः । यत्रक्कचनशायी च तं देवा ब्राह्मणं विदुः । अहेरिव गणाद्भीता सौहित्यान्नरकादिव । कुणपादिव च स्त्रीभ्यः तं देवा ब्राह्मणं विदुः ॥ न क्रुध्येन्न प्रहृष्येच
[[६४४]]
धर्माकृते
मानितोऽमानितोऽपि वा । सर्वभूतेष्वभयदं तं देवा ब्रा- ह्मणं विदुः ॥ नाभिनन्देत मरणं नाभिनन्देत जीवि- तम् । कालमेव प्रतीक्षेत निदेशं भृतको यथा ॥ अन- भ्याहतचित्तः स्यादनभ्याहतवाग्भवेत्। निर्मुक्तः सर्वपापे- भ्यो निरमित्रस्य किं भयम् । अभयं सर्वभूतेभ्यो भूताना- मभयं यतः । तस्य मोहाद्विमुक्तस्य भयं नास्ति कुत- श्चन । यथा नागपदेऽन्यानि पदानि पदगामिनाम् ॥ सर्वाण्येवापि प्रियन्ते पदजातानि कौञ्जरे । एवं सर्वम- हिंसायां धर्मार्थमपि धीयते । अमृतः स नित्यं वस्रति यो हिंसां न प्रपद्यते । अहिंसकः समः सत्यो धृतिमान्नियते- न्द्रियः ॥ शरण्यः सर्वभूतानां गतिमाप्नोत्यनुत्तमाम् । एवं प्रज्ञानतृप्तस्य निर्भयस्य निराशिषः । न मृत्युरतिगो भावः स मृत्युमभिगच्छति ॥ विमुक्तं सर्वसंगेभ्यो मुनि- माकाशवत्स्थितम् । अस्वमेकचरं शान्तं तं देवा ब्रा- ह्मणं विदुः । जीवितं यस्य धर्मार्थ धर्मो हर्यर्थमेव च ।
अहोरावाश्च पुण्यार्थ तं देवा ब्राह्मणं विदुः ॥ निराशि- षमनारम्भं निर्नमस्कारमस्तुतिम् । निर्मुक्तं बन्धनैः सर्वै- स्तं देवा ब्राह्मणं विदुः ॥ सर्वाणि भूतानि सुखे रमन्ते
अयोध्याकाण्डः ।
કપ
सर्वाणि दुःखस्य भृशं त्रसन्ते । तेषां भयोत्पादनजात- खेदः कुर्यान कर्माणि हि श्रद्दधानः ॥ दानं हि भूताभय- दक्षिणायाः सर्वाणि दानान्यवितिष्ठतीह । वीक्ष्णां तनुं यः प्रथमं जहाति सोऽनन्त्यमाप्नोत्यभयं प्रजाभ्यः । उत्तान आस्ये न हविर्जुहोति लोकस्य नाभिर्जगतः प्रतिष्ठा । तस्याङ्गमङ्गानि कृताकृतं च वैश्वानरः सर्व- मिदं प्रपेदे ॥ प्रादेशमात्रे हृदि निःसृतं यत्तस्मिन्प्राणा- नात्मयाजी जुहोति । तस्याग्निहोत्रं हुतमात्मसंस्थं सर्वेषु लोकेषु सदेवकेषु ॥ दैवं विधातुं त्रिवृतं सुपर्ण ये विद्युरख्यां परमात्मतां च । ते सर्वलोकेषु महीयमाना देवाः समर्त्याः सुकृतं व्रजन्ति ॥ वेदांश्व वेद्यं च विधिं च कृत्स्नमथो निरुक्तं परमार्थतां च । सर्वे शरीरात्मनि यः प्रवेद तस्यैव देवाः स्पृहयन्ति नित्यम् ॥ भूमावसक्तं दिवि चाप्रमेयं हिरण्मयं योऽण्डजमण्डमध्ये । पतत्रिणं पक्षिणम- न्तरिक्षे यो वेद भोग्यात्मनि रश्मिदीप्तः ॥ आवर्तमानम- जरं विवर्तनं षण्णाभिकं द्वादशारं सुपर्व । यस्येदमास्यो- परि याति विश्वं तत्कालचक्रं निहितं गुहायाम् ॥ यः संप्रसादं जगतः शरीरं सर्वान्सलोकानधिगच्छतीह ।
[[३४६]]
धर्माकूते
तस्मिन्हि संतर्पयतीह देवान् ते वै तृप्तास्तर्पयन्त्या स्यमस्त्र ॥ तेजोमयो नित्यमजः पुराणो लोकाननन्तानुमयानुपैति । भूतानि यस्मान्न त्रसन्ते कदाचित्स भूतानां न त्रसते कदाचित् ॥ अगईणीयो न च गतेऽन्यान्स वै विप्रः परमात्मानमीक्षेत् । विनीतमोहो व्यपनीतकल्मषो न चेह नामुत्र च सोऽन्तमृच्छति ॥ अरोषमोहः समलोष्ट- काञ्चनः प्रहीणकोशो गतसंधिविग्रहः । अपेतनिन्दा- स्तुतिप्रियश्चरन्नुदासीनवदेष भिक्षुकः ॥ ’ इति । एवं सर्वाश्रमधर्मबोधकशास्त्रप्रामाण्यं सिद्धम् । स नास्ति परमित्यनेन परलोकाभाव उतः । ’ प्रत्यक्षं यत्तदातिष्ठ परोक्षं पृष्ठतः कुरु’ इत्यनेन प्रत्यक्षमात्रप्रामाण्यमुक्तम् । गतः स नृपतिस्तत्र गन्तव्यं यत्र तेन वै इत्यनेन भूतचतु-
संघात देहात्मकः पिता देहारम्भकतत्तद्भूतेषु गत इत्य- र्थकेन श्लोकेन ‘अथ धर्मपरा ये ये तांस्तान्शोचामि नेत- रान् । ते हि दुःखमिह प्राप्य विनाशं प्राप्य भेजिरे ’ इत्य- नेन च देहातिरिक्त आत्माभावश्चेत्येवमादयश्चार्वाकमत- सिद्धाः पदार्था उक्ताः । ते च इत्थमाचक्षते प्रत्यक्षसिद्ध- पृथिव्याधिभूतचतुष्टयमेव तत्त्वम् । प्रत्यक्षादृष्टं तु वस्तु ना.

अयोध्याकाण्डः ।
[[६४७]]
स्त्येव । तदुक्तम्- ‘लोकायतिकपक्षे तु तत्त्वं भूतचतुष्टयम् । पृथिव्यापस्तथा तेजो वायुरित्येव नापरः ॥ प्रत्यक्षगम्यते- वास्ति नास्त्यदृष्टमदृष्टतः । अदृष्टवादिभिश्चापि नादृष्टं दृष्टमुच्यते । कापि दृष्टमदृष्टं चेददृष्टं ब्रुवते कथम् । नि- त्यादृष्टं कथं तत्स्याच्छशशृङ्गादिसंनिभम्’ इति । ननु विचित्रसुखदुःखान्यथानुपपत्त्या धर्माधर्मावदृष्टरूपौ स्वी- कर्तव्याविति चेन्न । कोकिल कलरवमयूर पिञ्छवैचित्र्या- दिवत्स्वभावादेव उपपन्नस्य सुखदुःखवैश्वित्र्यधर्माधर्मफल- कत्वाभावात् । तदुक्तम्- ‘न कल्प्यौ सुखदुःखाभ्यां धर्माधम परैरिह । स्वभावेन सुखी दुःखी जनोऽन्यन्नैव कारणम् ॥ शिखिनश्चितयेत्को वा कोकिलान्कः प्रकूजयेत् । स्वभा- वव्यतिरेकेण विद्यते नास्य कारणम्’ इति । आत्मा तु पृथिव्यादिभूतचतुष्टय संघातो देह एव न तद्विलक्षणः स्थूलोऽहं कृशोऽहमिति स्थूलत्वादिसामानाधिकरण्येन देह एवात्मत्वानुभावात् । न च जडत्वात् कथं चैतन्यं संप- त्स्यत इति वाच्यम्, प्रत्येकं रागासमर्थानां चूर्णपर्णक्रमु- कादीनां योगे रागविशेषवत् मार्तण्डमण्डलमयूख संतप्तभ- स्वास्थितमद्यस्य स्वयमेवोत्पतननिपतनवत् किण्वादिभ्यो
1 D+ i 6
[[1]]

[[5]]
[[६४८]]
;
धर्माकृते
मदशक्तिवच प्रत्येकं भूतानां जडत्वेऽपि तत्सङ्घातरूपरूप देहस्य चैतन्यसंभवात् । किं च देहातिरिकात्म सद्भावें किं प्रत्यक्षं प्रमाणम् आहोस्विदनुमानं शब्दो वा ? नाथः, चक्षुरादिना घटादिवद्देहातिरिक्तात्मनोऽनुपल- म्भात् नापि द्वितीयः, सर्वत्रव्यभिचारशङ्कया व्याप्तिम- हानुपपत्तेः अनुमानस्यैवासंभवात् ; न तृतीयः, अनुमा नसापेक्षशक्तिप्रहमूलकत्वेन शब्दमात्रस्याप्रमाणत्वात् । न च पारलौकिक स्वर्गनरकान्यथानुपपत्त्या शरीरातिरिक्ता- मसिद्धिरिति वाच्यम्, परिदृश्यमानस्रक्चन्दनवनिता- दिजनितसुख कण्टकवेधा दिजनितदुःखव्यतिरकेण परलों- कोपभोग्यस्वर्गनरकयोरेवाभावात् मोक्षस्यापि शरीरप्रा- णवियोगव्यतिरिक्तस्याप्रामाणिकत्वाच्चः । स्वर्गनरक संप/- दनमपि कृषिगोरक्षादिदृष्टोपायैरेव भविष्यति । तपश्चरणं च. मूढकल्पितम्, पातिव्रत्य नियमो रतिदुर्बलकल्पितः, सु- वर्णदानान्नदानादिकं च दरिद्रतुत्क्षामकुक्षिभिक्षुककल्पि- तमः प्रपासत्र देवालयकूपारामादिनिर्माणं पान्थपरिक- ल्पितम् । अग्निहोत्रादिकं तु पौरुषहीनै जीवनार्थतया परि- कल्पितम् । अतः परलोकभ्रान्त्या कायक्लेशादिकं तिरअयोध्याकाण्डः
[[६४९]]
स्कृत्य ऋणा दिनापि घृतं संपाद्य शरीरमेव सर्वदा पोषणी- यम् । तदुक्तम्-स्थूलोऽहं तरुणो वृद्धो युवेत्यादि विशेषणैः । विशिष्टो देह एवात्मा न ततोऽन्यो विलक्षणः । जडभूतबि- कारेषु चैतन्यं यत्तु दृश्यते । ताम्बूलचूर्ण पूगानां योगाद्राग इवोत्थितम् । इहलोकात्परो नान्यः स्वर्गेऽस्ति नरकों न च । शिवलोकादयों मूढैः कल्प्यन्तेऽन्यैः प्रतारकैः । स्वर्गानुभूतिरिष्टातिर्द्वयष्टवर्षवधूरतिः । सूक्ष्मवत्र सुगन्ध- स्रक्चन्दनादिविभूषणम् । नरकानुभवो वैरिश- स्वव्याध्याद्युपद्रवः । मोक्षस्तु मरणं प्राणवायुस्रं- ज्ञानिवर्तनम् । नातस्तदर्थे संन्यासं कर्तुमईति पण्डितः । ततो व्रतोपवासाद्यैर्मूढ एत्र प्रशुष्यति । पातित्रत्यादिसं केतो बुद्धिमद्दुर्वलैः कृतः । सुवर्णभूमिदाना दिसृष्टामन्त्र- णभोजनम् ॥ क्षुत्क्षामकुक्षिभिलोंके दरिद्रैरुपवर्णितम् । देवालयप्रपासत्रकूपारामादिकर्मणाम् । प्रशंसां कुर्वते नित्यं पान्था एव न चापरे । अग्निहोत्रं त्रयो वेदात्रि- पुण्ड्रं भस्मकुण्ठनम् । बुद्धिपौरुषहीनानां जीक्केिति बृहस्पतिः । कृषिगोरक्षवाणिज्यं दण्डनीत्यादिभिर्बुधैः । दुष्टैरेव सदोपायैर्भोगाननुभवेद्भुवि ’ इति । न च दृष्टो-
[[६५०]]
[[1]]
धर्माकूते
पायजन्य भोगस्य दुःखसंभिन्नत्वात् न तस्य पुरुषार्थत्व- मिति वाच्यम्, दुःखमनादृत्य सुखमानोपभोग संभवात् । अत एवोक्तम्- त्यान्यं सुखं विषयसङ्गमजन्म पुंसा दुःखोपसृष्टमिति मूर्खविचारणैषा । व्रीहीजिहासति सि- वोत्तमतण्डुलाड्यान् को नाम भोस्तुषकणोपहितान्हि- तेषी ॥ तस्माद्दृष्टमेव पुरस्कार्य नादृष्टमस्तीति । अयमथ विष्णुपुराणेऽपि नैतद्युक्तिसहं वाक्यं हिंसा धर्माय ने- ध्यते । हवींष्यनलदग्धानि फलायेत्यर्भकोदितम् ॥ निह- तस्य पशोर्यज्ञे स्वर्गप्राप्तिर्यदीष्यते । स्वपिता यजमानेन किं नु तस्मान्नं हन्यते ॥ तृप्तये जायते पुंसः भुक्तमन्येन चेत्ततः । दद्याच्छ्राद्धं श्रद्धयानं न वहेयुः प्रवासिनः ॥ ’ राजधर्मेऽपि - ‘यदि संन्यासतः सिद्धिं राजन्कश्चिद- वाप्नुयात् । पर्वताश्च द्रुमाचैव क्षिप्रं सिद्धिमवाप्नुयुः ॥ एते हि नित्यसंन्यासादृश्यन्ते निरुपद्रवाः । अपरिग्रहव- न्तश्च सततं चात्र भाषिणः ॥’ इति । बोधायनचन्द्रोद- येऽपि - ’ मृतानामपि जन्तूनां श्राद्धं चेत्तृप्तिकारकम् । निर्वाणस्य प्रदीपस्य स्नेहः संबर्धयेच्खिाम् ॥ स्वर्गः- कर्तृक्रिया द्रव्यविनाशे यदि यज्वनाम् । ततो दावाग्निदग्धा-
अयोध्याकाण्डः । .
[[६५१]]
नां फलं स्याद्भूरि भूरुहाम्’ इति । ‘आत्मास्ति देहाव्यति- रिक्तमूर्तिर्भोक्ता स लोकान्तरितः फलानाम् । आशेय- माकाशतरोः प्रसूनात्प्रथीयसी स्वादुफलप्रवृत्तो ॥ यज्ञा- स्त्येव तदस्ति बस्त्विति मृषा जल्पद्भिरेवास्तिकैव चाले- बहुभिस्तु सत्यवचसो निन्द्याः कृता नास्तिकाः । हो पश्यत ततो यदि पुनश्छिन्नादितो वर्ष्मणो दृष्टः किं परिणामरूपितचितिर्जीवः पृथक्कैरपि ॥ तुल्यत्वे वपुषां मुखाद्यवयवैवर्णक्रमः कीदृशो योषेयं वसु चापरस्य यदमुं भेदं न विद्मो वयम् । हिंसायामथ वा यथेष्टगमने स्त्रीणां परस्वगृहे कार्याकार्यकथास्तथापि यदिमे निष्पौ- रुषाः कुर्वते ॥ कालिङ्गनं भुजनिपीडितबाहुमूलभुनोन- तस्तनमनोहरमायताक्ष्याः । भिक्षोपवासनियमार्कमरीचि - दाहेर्देहोपशोषणविधिः कुत्रियां क चैषः ’ इति । नैष- घेऽपि - ‘गुरुतल्पगतौ पापकल्पनां त्यजत द्विजाः । येषां वः पत्युरत्युच्चै गुरुदार महे ग्रहः ॥ यस्त्रिवेदी विदां वन्द्यः स व्यासोऽपि जजल्प वः । रामाया जातका- मायाः प्रशस्ता हस्तधारणा ॥ कः शमः क्रियतां प्राज्ञाः प्रियाश्रीतौ परिश्रमः । भस्मीभूतस्य भूतस्य पुनरागमनं
પર
धर्माकूते
कुतः ॥ कुरुध्वं कामदेवाज्ञां ब्रह्माद्यैरप्यलङ्घिताम् । वेदो- ऽपि देवकीयाज्ञा तत्राज्ञाः काधिकाईणा ॥ प्रावोन्मज- नवद्यज्ञफलेवि श्रुतिसत्यता का श्रद्धा तत्र धीवृद्धाः कामाध्वा यत्खिलीकृतः ॥ को हि वेदास्त्यमुष्मिन्वा लो- क इत्याह या श्रुतिः । तत्प्रामाण्यादमुं लोकं लोकः प्रत्येतु वा कथम् ॥ प्रतापमपि वेदस्य भागं मन्यध्व एव चेत् । केनाभोग्येन दुःखान्न विधीनपि तथेच्छथ ॥ जनेन जा- नतास्मीति कार्य नायं त्वमित्यसौ । त्याज्यते प्राह्यते चा- न्यदहो श्रुत्या विधूर्तया ॥ संदेहेऽप्यन्यदेहाप्तेर्विवर्ज्य वृजि - नं यदि । त्यजत श्रोत्रियाः सत्रं हिंसादूषण संशयात् ॥ किं ते वृन्तहृतात्पुष्पात्चन्मात्रे हि फलत्यदः । स्वस्यैव मूर्धनि न्यस्य न्यास्यमेवाश्मनो यदि ॥ स्वं च ब्रह्म च संसारे मुक्तौ तु ब्रह्म केवलम् । इति स्वोच्छित्तिमत्युक्ति- वैदग्धी वेदवेदिनाम् ॥ द्वारा हरिहरादीनां तन्मग्नमनस्रो भृशम् । किं न मुक्ताः कुतः सन्ति कारागारे मनोभुवः । देवश्वेदस्ति सर्वज्ञः करुणा भागवन्ध्यभाक् । तत्किं वा- ग्व्ययमानान्नः कृतार्थयति नार्थिनः’ इति । इयं चार्वा - केणोकम् तदिदं चार्वाकमतं जाबालिरुपन्यस्य ‘सतां
अयोध्याकाण्डः ।
[[६५३]]
बुद्धिं पुरस्कृत्य सर्वलोकनिदर्शिनीम् । राज्यं त्वं प्रति- गृह्णीष्व भरतेन प्रसादितः’ इत्यभिहितवान् ॥
नवोत्तरशततमे - अथ यथाकथंचिदयोध्यां प्रत्यानेतु- मधर्मोपबृंहितान्यपि वचनानि व्याहरतो जाबाले कर्ण्य वाक्यानि धर्मव्यवस्थापको रामभद्रस्तन्मतं निर्मर्यादस्तु पुरुष इत्यादिना दूषयामास ।
निर्मर्यादस्तु पुरुषः पापाचारसमन्वितः । मानं न लभते सत्सु भिन्नचारित्रदर्शनः ॥
अनेन पापसमाचारः पुरुषः सद्भिर्न बहुमन्तव्य इति सूचितम् । तथा राजधर्मे ’ श्लाघनीयेन चान्येन कर्मणा निरपत्रपः । उपेक्षितव्यो यत्नेन तादृशः पुरुषाधमः ॥
कुलीनमकुलीनं वा वीरं पुरुषमानिनम् । चारित्र्यमेव चाख्याति शुचिं वा यदि वाशुचिम् ॥ अनेन चारित्रमेव पुरुषस्य स्वभावज्ञापकमिति सूचितम् । तथा चानुशासनिके - ‘अनार्यत्वमना- चारः क्रूरत्वं निष्क्रियात्मता । पुरुषं व्यञ्जयन्तीह लोके कलुषयोनिजम् ॥ आर्यरूपसमाचारं चरन्तं कृतके पथि ।
[[६५४]]
धर्माकूते
सुवर्णमन्यवर्ण वा स्वशीलं शास्ति निश्चयः’ इति । कश्चेतयानः पुरुषः कार्याकार्यविचक्षणः। बहु मंस्यति मां लोके दुर्वृत्तं लोकदूषणम् ॥
अनेन लोकदूषिताचारं जनो न बहुमन्यत इति सूचि - तम् । तथा च मनुः - ’ दुराचारो हि पुरुषो लोके भवति निन्दितः । दुःखभागी च सततं व्याधितो ऽल्पायुरेव च’ इति ।
कामवृत्तस्त्ययं लोकः कृत्स्नः समुपवर्तते । यद्वृत्ताः सन्ति राजानस्तद्वृत्ताः सन्ति हि प्रजाः ॥
अनेन प्रजा राजवृत्तमनुसरन्तीति सूचितम् । राज- धर्मेऽपि ‘राज्ञा हि पूजितो धर्मस्ततः सर्वत्र पूज्यते । यद्यदाचरते राजा तत्प्रजाभ्यश्च रोचते ॥
J
सत्यमेवानृशंस्यं च राजवृत्तं सनातनम् । तस्मात्सत्यात्मकं राज्यं सत्ये लोकः प्रतिष्ठितः ॥ -
ऋषयश्चैव देवाश्च सत्यमेव हि मेनिरे ।
सत्यवादी हि लोकेऽस्मिन्परमं गच्छति क्षयम् ॥
अयोध्याकाण्डः ।
सत्यमेवेश्वरो लोके सत्यं पद्मा समाश्रिता । सत्यमूलानि सर्वाणि सत्यान्नास्ति परं पदम् ॥
[[६५५]]
अनेन सर्वधर्मापेक्षया सत्यमेव परमो धर्म इति सूचि-
तम् । अयमर्थः प्राक् प्रपचितः ।
असत्यसंघस्य सतश्चलस्यास्थिरचेतसः ॥ नैव देवा न पितरः प्रतीच्छन्तीति नः श्रुतम् ।
अनेन अनृतप्रतिज्ञेन चलचित्तेन च दत्तं हविर्देवाः पितरश्च न प्रतिगृह्णन्तीति सूचितम् ।
क्षात्रं धर्ममिमं त्यक्ष्ये ह्यधर्म धर्मसंहितम् । क्षुद्रैर्नृशंसैलुब्धैश्च सेवितं पापकर्मभिः ॥
नन्वत्र पितृवचनपालनातिक्रमरूपम् अधर्मसहितं रा- व्यपरिपालनं रामेण परित्यक्तमिति प्रतीयते; तदसङ्गतम् । अधर्मसहितत्वेऽपि स्वधर्मत्वेन राज्यपरिपालनस्यैव कर्त- व्यत्वात् । क्षत्रियाणां राज्यपरिपालनस्य स्वधर्मत्वे मनुः- ‘क्षत्रियस्य परो धर्मः प्रजानामेव पालनम्’ इति । किं च, वैगुण्यप्रसक्तावपि स्वधर्मस्यैव कर्तव्यत्वात् । तथा च गीतायाम् - ‘श्रेयान्स्वधर्मो विगुणः परधर्मात्स्वनुष्ठितात् '
[[६५३]]
धर्माभूते
"
इति । तव राज्यपरिपालने प्रसक्तानां पापानां यज्ञदाना- दिभिर्निर्वृतिसंभवाञ्च । तथा चारण्यके भीमः ’ न हि केवलधर्मात्मा पृथिवीं जातु कश्चन । पार्थिवो व्यजयद्राज- न्न भूतिं न पुनः श्रियम् ॥ जिह्वां दत्त्वा बहूनां हि लु- ब्धानां क्षुब्धचेतसाम् । निकृत्या लभते राज्यमाहारमिव शल्यकः ॥ भ्रातरः पूर्वजाताच सुसंवृद्धाश्च सर्वशः । निकृत्या निर्जिता देवैरसुराः पार्थिवर्षभ ॥ यदेनः कुरुते किंचिद्राजा भूमिमवाप्नुवन् । सर्वे तन्नुदते पश्चाद्यज्ञैर्विपु- लदक्षिणैः । ब्राह्मणेभ्यो ददद्रामान्गाश्च राजन्सहस्रशः ’ इति । एवं च विगुणखेऽपि अवश्यकर्तव्यं राज्यपरिपा- लनं परित्यज्य किमिति वनवासाय प्रस्थितो राम इति चेत्, सत्यम् राज्ञां प्रजापालनमेव परमो धर्मः । तथापि राज्यपरिपालनापेक्षया क्षत्रियस्य प्रतिज्ञातार्थनिर्वहणं श्रेष्ठो धर्मः । तथा च आरण्यके भीमं प्रति धर्मपुत्रवाक्यम्- ’ तं संधिमास्थाय सतां सकाशे को नाम जह्यादिह राज्यहेतोः । आर्यस्य मन्ये मरणाद्गरीयो यद्धर्ममुत्सृज्य महीं प्रशासेत् ॥ मम प्रतिज्ञां च निबोध सत्यां वृणे यथा धर्मभृताज्जीविताच्च ॥ राज्यं च पुत्राश्च यशो धनं च सर्व
अयोध्याकाण्डः ।
[[1]]
[[६५७]]
न सत्यस्य तुलामुपैति’ इति । किं च यदेनः कुरुते किं• चिद्राजा भूमिमवाप्नुवन् । सबै तन्नुदते पञ्चाद्यज्ञैर्वि- पुलदक्षिणैः’ इति वचनेन प्रजापरिपालनार्थतया संभावि- तदोषाणां यज्ञादिप्रायश्चित्तेन निवृत्तिः प्रतिपादिता ; प्रतिज्ञातार्थपालने तु संभावितधर्मव्यतिक्रमस्य दोषत्वमेव नास्तीति । अतोऽपि प्रजापालनापेक्षया प्रतिज्ञातार्थपा- लनमेवोत्कृष्टो धर्मः । तथा च गदापर्वणि गदायुद्धे नाभेरधः प्रहारनिषेधे सत्यपि भीमकृतदुर्योधनोरुभेद- दर्शनजनितक्रोधाविष्टं बलरामं प्रति कृष्णवचनम् - सुयो- धनस्य गदया भङ्क्षयाम्यूरु महाहवे । इति पूर्व प्रति- ज्ञातं भीमेन हि सभातले । आनृण्यं यातु वैरस्य प्रति- ज्ञायाश्च पाण्डवः । अतो दोषं न पश्यामि मा क्रुद्धस्त्वं बलं वहन् ’ इति । एवं च राज्यपरिपालनापेक्षया प्रतिज्ञातार्थपरिपालनस्य प्रबलधर्मत्वात्, तदर्थं राज्यं परित्यज्य रामस्य वनगमनं युक्तमेव । अमुमेवार्थं हृदि निघाय ‘क्षात्रं धर्ममहं त्यक्ष्ये’ इत्युक्तवान् इति ।
अकुहः श्रद्दधानः सन्कार्याकार्यविचक्षणः । कर्मभूमिमिमां प्राप्य कर्तव्यं कर्म यच्छुभम् ॥
[[६५८]]
धर्माकूते
अनेन कर्मभूमिं गतः पुरुषः सत्कर्माण्यवश्यं कुर्यादे- वेति सूचितम् । विष्णुपुराणे - अत्राजन्म बहस्राणां सह- सैरपि सत्तम । कदाचिल्लभते जन्तुर्मानुष्यं पुण्यसंच- यात् ॥ गायन्ति देवाः किल गीतकानि धन्यास्तु ये भारत भूमिभागे । स्वर्गस्यापवर्गस्यादमार्गभूते भवन्ति भूयः पुरुषाः सुरत्वात् ॥ कर्माण्यपि संकल्पिततत्फलानि संन्यस्य विष्णौ परमात्मरूपे । आवाप्य तां कर्म महीम- नन्ते तस्मिन्महीं ये त्वमलाः प्रयान्ति ॥ जानीम नैतत्क वयं विलीने स्वर्गप्रदे कर्मणि देहबन्धम् ॥ प्राप्स्याम धन्याः खलु ते मनुष्या ये भारतेनेन्द्रियशक्ति- हीनाः ’ इति । आरण्यके –’ इह यत्क्रियते कर्म तत्पर- त्रोपयुज्यते । कर्मभूमिरियं ब्रह्मन्फल भूमिरसौ मता ॥’
सत्यं च धर्म च पराक्रमं व
भूतानुकम्पां प्रियवादितां च । द्विजातिदेवातिथिपूजनं च
पन्थानमाहुस्त्रिदिवस्य सन्तः ॥
अनेन सत्यधर्मादीनां परलोक संपादकत्वमुक्तम् । तथा”
भयोध्याकाण्डः ।
[[६५९]]
च सत्यस्य स्वर्गार्थत्वे मनुः - " नास्ति सत्यात्परो धर्मो नानृतात्पातकं परम् । स्थितिश्च लोकधर्मश्व तस्मात्सत्यं विशिष्यते ॥ सत्यं स्वर्गस्य सोपानं पारावा- रस्य नौरिव ’ इति । धर्मस्य परलोकसाधनत्वे मनुः - ‘धर्म शनैः संचिनुयाद्वल्मीकमिव धार्मिक । परलोक- सहायार्थ सर्वभूतान्यपीडयन् ॥ धर्मप्रधानं पुरुषं तपसा हतकल्मषम् । परलोकं नयत्याशु भास्वन्तं खे शरीरिण- म् ॥ पराक्रमस्य उत्तम लोक संपादकत्वे राजधर्मे भीष्मः- ‘नित्योद्युक्तो दस्युवधे रणे कुर्यात्पराक्रमम् । ये च ऋतु- भिरीजानः श्रुतवन्तश्च पार्थिवाः । त एवाहवजेतारस्त एते लोकजित्तमाः ॥ पराशरोऽपि ये यज्ञसंधैस्त पसा च विप्राः स्वर्गेषु शीघ्रेण यथैव यान्ति । क्षणेन यान्त्येव हि तत्र वीराः प्राणान्सुयुद्धे च परित्यजन्तः ॥ ’ भूतानुकम्पायाः उत्तमलोकसंपादकत्वं राजधर्मे - ‘सर्व- भूतेष्वनुक्रोशं कुर्वतस्तव भारत । आनृशंस्ये प्रवृत्तस्य नियतः पुण्यसंचयः’ इति । प्रियवचनस्य परलोकसाध- नत्वे मनुः - ’ वाक्चैव मधुरा लक्ष्णा प्रयोज्या धर्ममी- पता । स वै सर्वमवाप्नोति वेदान्तोपगतं फलम् ॥ द्वि-
.
[[1]]
[[६६०]]
धर्माकूते
जातिदेवातिथिपूजायाः परलोकसाधनत्वे विष्णुपुराणे- ’ निवापेन पितृनचैद्यज्ञैर्देवांस्तथातिथीन् । अन्नैर्मुनींश्च स्वाध्यायैरपत्येन प्रजापतिम् ॥ बलिकर्मणा च भूतानि वात्सल्येनाखिलं जगत् । प्राप्नोति लोकान्पुरुषो निजक-
र्मसमाश्रितान् ।
निन्दाम्यहं कर्म पितुः कृतं त-
द्यस्त्वामगृह्णाद्विषमस्थबुद्धिम् । बुद्धधानयैवंविधमाचरन्तं
सुनास्तिकं धर्मपथादपेतम् ॥
ननु श्रीरामभद्रेण नास्तिक बुद्धिजाबा लिम्, ऋत्वि- क्त्वेन परिगृहीतवतः पितुर्वृत्तनिन्दा कृतेत्यवगम्यते, तद- नुपपन्नम् पितृनिन्दापरं लक्ष्मणं मातृनिन्दापरं भरतं च निषेधतो रामस्य पितृवृत्तनिन्दायां प्रवृत्त्यसंभवात्, पितृवृत्तनिन्दने दोषश्रवणाञ्च । तथा हि- ‘श्वपाक- पुल्कसादीनां कुत्सितानामचेतसाम् । कुलेषु तेऽभिजाय- न्ते गुरुवृत्तायमानिनः’ इति । न च वैदिकविरुद्धाचारं जाबालि संगृहतः पितुः कर्म निन्दामीत्येवंरूपस्य वच -
अयोध्याकाण्डः ।
[[६६१]]
नस्य विषमाचारजाबालिनिन्दापरत्वमेव न पितृनिन्दाप- रत्वमिति वाच्यम् । ‘परामप्यापदं प्राप्तो ब्राह्मणान्न प्रको पयेत् । देवान्कुर्युरदेवांश्च कः क्षिपंस्तान्समृध्नुयात्’ इवि सकलशास्त्रनिषिद्धायां ब्राह्मणनिन्दायां ब्रह्मण्यस्य राम- भद्रस्य प्रवृत्त्यसंभवादिति चेन्न, ब्राह्मणत्वेन ऋत्विक्त्वेन अनिन्द्यस्यापि जाबाले ः लोकायतिकमार्गप्रवृत्तत्वाकारेण निन्द्यत्व संभवात् । यथा भीष्मस्य गुरुत्वेन ब्राह्मणत्वेन च युद्धायोग्योऽपि परशुरामः क्षत्रधर्मपुरस्कारेण युद्धायोग्यः क्षत्रियत्वेन युद्धयोग्यत्वं च उद्योगपर्वणि ~ ‘एवे वेदाः शरीरस्था ब्राह्मण्यं यच ते महत् । तपश्च सुम- हत्तप्तं न तेभ्यः स्पृहयाम्यहम ॥ प्रहरे क्षत्रधर्मस्य यत्त्वं राम समाश्रितः । ब्राह्मणः क्षत्रियत्वं हि याति शस्त्रसमुद्यमात्’ इति । तस्माद्रामेण कृता निन्दा न पितुर्नापि जाबालेः, किं तु जाबालिकथितलो- कायतिकवृत्तस्यैव । अतः एव जाबालेर परित्यागः
पट्टाभिषेकादावुपयोगश्च । दृश्यते ननु अवैदिकस्य चार्वाकस्य वैदिकमतेन दूषणमनुपपन्नम तेन वेदप्रा- माण्यानङ्गीकारात्ः तदङ्गीकृतप्रमाणेनैव च दूषणीयत्वात्
[[६६२]]
धर्माकूते
इति चेन्न तदङ्गीकृतप्रमाणसहकारिभूतबुद्धिवैभवपरि- कल्पितयुक्तीनामप्रतिष्ठितत्वेन तावन्मात्रेण स्वपक्ष- स्थापनपरपचदूषणस्य निर्वाहात् । तदुक्तम् ’ यत्नात्प- रीक्षितोऽप्यर्थः कुशलैरनुमातृभिः । अभियुक्ततरैरन्यैर- न्यथैवोपपद्यते । अतस्तर्का प्रतिष्ठानात्पक्षसिद्धिनिरा- कृती । शुष्कतर्केण न स्यातामिति चेदनुशासनम् । अत एव चार्वाकमतं क्षपणकेन दूषितम्, क्षपणकमतं च माध्यमिकप्रभृतिभिबौद्धैः । तथा हि क्षपणकास्तावत् न प्रत्यक्षमात्रं प्रमाणमिति संभवति । तथात्वे, धूमदर्शन- समनन्तरं वह्निमनुमाय तदर्थतया प्रवृत्तिर्न स्यात् । तथा चस्त्रक्रिया व्याघातः । एवं नद्याखीरे पश्चफलानि सन्तीति वाक्यश्रवण समनन्तरमेव शब्दार्थज्ञानपूर्विका प्रवृत्तिर्न स्यात् । अतः प्रत्यक्षातिरिक्तमनुमानादिकं प्रमाणमङ्गी- कर्तव्यमेव । एवं च अनुमानागमाभ्यां प्रत्यक्षदृष्टमपि वस्तुजातं विध्यत्येव । यदुक्तं खभावादेव अग्न्यौष्ण्यादि- वद्वैचित्र्योपपतौ नादृष्टं प्रमाणमिति तन्मन्दं स्वभावस्य यावद्वस्तु स्थापितत्वेन कादाचित्कः सुखदुःखादिवैचि- त्र्यस्य स्वाभाविकत्वानुपपत्त्या च तदुपपादकत्वेन धर्मा-
भयोध्याकाण्डः ।
[[६६३]]
धर्मयोरावश्यकत्वात् । यदुक्तमपरिदृश्यमानपदार्थस- द्वावे प्रमाणमेव नास्तीति तदपि परास्तं सर्वज्ञाईतप्र- गीतागमबलादेव तत्सिद्धेः । अत एव न शशशृङ्गप्रति- बन्दि तदाहुः, अरौष्णीमपां शैत्यं कोकिले मधुरस्वरः । इत्याद्येकप्रकारं खात् स्वभावो नापरः कचित् । कादा- चित्कसुखं दुःखं स्वभावो नामो मतः । धर्माधर्मौ ततस्त्वाभ्यामदृष्टावपि निश्चितौ । अदृष्टमभिमादातुं धूमं दृष्ट्वा प्रधावता । धूमेनाग्नयनुमानं तु स्वयाप्यङ्गीकृतं ननु । प्रत्यक्षेणानुमानेन पश्यन्त्यत्रागमेन च । दृष्टादृष्टुं जनाः स्पष्टमाईतागमसंस्थिताः’ इति । एवं धर्माधर्मसिद्धो कृतहानाकृताभ्यागमदोषपरिहाराय शरीरातिरिक्त आ- त्मा अवश्यमङ्गीकर्तव्यः; स च त्रिविधः- सिद्धो बद्धो नारकीयश्चेति । सिद्धो मुक्तः, स द्विविधः परमसिद्धो मन्त्रौष सिद्धश्चेति । बद्धः संसारी; नारकीयो नरकानुभोक्ता तस्य च धर्माधर्मसहकारिवशेन पुद्रलाख्यैः परमाणुभिरारम्भः सेन्द्रियो देहः । तत्परिमाणच आत्मा न अणुः न विभुः स च मोहात् देहतादात्म्यमापन्नः हस्त्यादिपुत्तिकान्तेषु देहेष्ववतिष्ठते ।
D. Pt vi-7
[[६६४]]
धर्माकूते
तस्य च देहरूपावृत्तिर्बन्धः, अनावृत्तिर्मोक्षः, एतादृश- मोक्षप्राप्तिश्च दिगम्बरस्य मनोवाक्कायकर्मभिः प्राणि- हिंसा वर्जयतः मयूर पिञ्छधारणवीरासनादिनियमवतः लूनकेशस्य पाणिपात्रस्य क्षपणकाचार्योपदिष्टं मन्त्रं सा- घयतः शुद्धचित्तस्य कस्यचिदेव भवति । तथा चोक्तम्- सिद्धाबद्धा नारकीया इति स्युः पुरुषा स्त्रिधा । केचित्परम- सिद्धाः स्युः केचिन्मन्त्रौषधैरिह । गुरूपदिष्टमार्गेण ज्ञान- कर्मसमुच्चयात् ॥ मोक्षो बन्धनरिक्तस्य जायते भुवि कस्य- चित् । अर्हतामखिलं ज्ञातुं कर्मार्जितकलेबरैः ॥ आबृ- तिन्धनं मुक्तिर्निरावरणतात्मनाम् । पुद्गलापर संज्ञस्तु धर्माधर्मानुगामिभिः । परमाणुभिरारब्धाः देहाः सर्वे सहेन्द्रियैः ॥ स्वदेहमाना ह्यात्मानो मोहाद्देहाभिमा- निनः । क्रिमिकीटा दिइस्त्यन्त देहपश्रवर्तिनः । आत्मा- वरणदेहस्य वस्त्राद्यावरणान्तरम् ॥ न ग्राह्यं यदि गृह्णन्ति तस्यापीत्यनवस्थितिः । प्राणिजातमहिंसन्तो मनोवाक्कायकर्मभिः । दिगम्बराश्चरन्त्येव योगिनो ब्रह्म- चारिणः ॥ मयूरपिञ्छहस्तास्ते कृतवीरासनादिकाः । पाणिपात्रेण भुञ्जानाः लूनकेशाश्च मौनिनः । यथा
[[1]]
अयोध्याकाण्डः ।
[[६६५]]
क्षपणकाचार्यकृतमन्त्रा दुरासदाः । मुनयो विमलाः शुद्धाः प्रणताघौघमेदिनः । स वै विश्वसनीयः स्यात्स सर्वज्ञो जगद्गुरुः’ इति । एवं चार्वाकमवं क्षपणकैषि- तम् ; तदपि बौद्धाः दूषयन्ति । ते च बौद्धाधतुर्विधाः-मा- ध्यमिकः, योगाचारः, सौत्रान्तिको वैभाषिकश्चेति 1 तच्छास्त्रमपि तत्तद्धिभेदाच्चतुर्विधम् । तत्र माध्यमिकः सर्वशून्यतामाचष्टे । योगाचारस्तु विज्ञानमात्रास्तिताम- वोचत् । विज्ञानव्यतिरिक्तो बाह्यार्थोऽस्ति स च बुद्धधाकारेणानुमेय इति सौत्रान्तिकाः । वैभाषिकास्तु बाह्यार्थाः प्रत्यक्षप्राह्याः इति वर्णयन्ति । तदुक्तम्- बौद्धाः क्षपणकाचार्यप्रणीतमपि सांप्रतम् । पक्षं प्रतिक्षिपन्त्येव लोकायत मतं यथा ॥ चतुर्णां मतिभेदेन बुद्धशाखं चतुर्विधम् । अधिकारानुरूपेण तत्र तत्र प्रवर्तते ॥ ज्ञानमेव हि सा बुद्धिर्न चान्तःकरणं मतम् । जानाति बुध्यते चेति पर्यायत्वप्रयोगतः । वयाणामत्र बौद्धानां बुद्धिरस्त्य- विवादतः । बाह्यार्थोऽस्ति द्वयोरेव विवादोऽन्यत्र तद्यथा ॥ प्रत्यक्ष सिद्धं बाह्यार्थ बुद्धिं वैभाषिकोऽब्रवीत् । बुद्धयाका- रानुमेयोऽर्थो बाह्यः सौत्रान्तिकोदितः । बुद्धिमानं वदत्यन
[[1]]
[[६६६]]
धर्माकृते
;
योसारो न चापरः ॥ नास्ति बुद्धिरपीत्याह वादी माध्य- मिकः किल ॥ तत्र माध्यमिकाः शून्यमेव तत्वमिति वद- न्ति । तथा हि पृथिव्यादिवस्तुजातं किं सत् उतासत् उतो- यात्मकम् अथ वा अनुभवात्मकमिति । न तावदाद्यः, सतः उत्पत्त्यनुपपत्तेः, अन्यथा उत्पन्नोऽपि घटः पुनरुत्प येत । न द्वितीयः, शशशृङ्गस्यापि उत्पत्तिप्रसङ्गात् । न तृतीयः, एकस्य वस्तुनः विरुद्धो भयरूपत्वानुपपत्तेः । न तुरीयः, सदसद्भिन्नस्यापि वस्तुनः अलीकत्वात् । किं च व्यक्तिः किं परमाण्वाख्या, अथ वा परमाणुरूपा वा नायः, यणुकैस्त्रिभिः व्यणुकोत्पत्यङ्गीकारेण द्व्यणुक- वयोत्पादकानां च षण्णां परमाणूनां किं कार्त्स्न्येन संयोगः उत्तैकदेशेन । नाद्यः, षण्णां समानदेशत्वेन अणुत्वापत्त्या तदुपादानकप्रपश्वमात्रस्य अणुत्वापत्तेः । न द्वितीयः, निरवयवानां प्रदेशभेदाभावात् । अन्यथा नित्यत्वप्रसङ्गात् । एवं व्यक्तिगतं सामान्यमपि किं व्य- तितो भिन्नमभिन्नं वा । नाद्यः, भिन्नत्वे करचरणादिवत् पृथक् गृह्येत । न द्वितीयः, अनित्यव्यक्त्यभिन्नत्वे अनित्यत्वप्रसङ्गात् । तस्माज्जातिव्यक्तिनिरूपणा संभवेन
[[1]]
अयोध्याकाण्डः ।
[[६६७]]
ज्ञेयाभावे तद्विषयकज्ञानमपि न संभवति । अतः शून्य- मेव तत्त्वम् । तदुक्तम् -‘न सन्नासन्न सदसन्न चोभाभ्यां विलक्षणम् । चतुष्कोटिविनिर्मुक्तं तवं माध्यमिका विदुः । यदसत्कारणैस्तन्न जायते शशशृङ्गवत् । सतश्चोत्पत्ति- रिष्टा चेज्जनितं जनयेद्वटम् ॥ एकस्य सदसद्भावो न तरामुपपद्यते । एकस्य सदसद्धयोऽपि वैलक्षण्यं न युक्तिमत् । चतुष्कोटिविनिर्मुक्तं शून्यं तत्त्वमिव स्थि- तम् । जातिर्जातिमतो भिन्ना न वेत्यत्र विचारिते । भिन्ना चेत्सा च गृह्येत व्यक्तिभ्योऽङ्गुष्ठवत् पृथक् । अवि- चारितसंसिद्धा व्यक्तिः किं पारमाणुकी । स्वरूपं परमा- शूनां वाच्यं वैशेषिकादिभिः । षट्केण युगपद्योगे पर- माणोः षडंशता ॥ षण्णां समानदेशत्वे पिण्डः स्याद- मात्रकः । जातिव्यक्त्यात्मकोऽर्थोऽत्र नास्त्येवातो विचा- रिते । विज्ञानमपि नास्त्येव ज्ञेयाभावे विचारिते । अतो माध्यमिको वक्ति सर्व शून्यं विचारिते’ इति । इति माध्यमिकपक्षस्तृतीयः । विज्ञानवादी त्वाह-शून्यत्वसा- धकं प्रमाणं शून्यमेव, अथ वा अशून्यम् ; नाद्यः —- शून्येन प्रमाणेन अर्थसाधनानुपपत्तेः, न द्वितीयः
[[1]]
धर्माकूते
शून्यत्वसाधकप्रमाणस्य अशून्यत्वे सर्वशून्यत्वव्याहतिः । किं च स्वपक्षसाधनपरपक्ष दूषणादिसापेक्षवादकथायाम• विकारो वा तव कथं भवेत् । विपरीतसाधनं वा किमिति न भवेत् । अतः अशून्येन शून्यत्वसाधकेन प्रमाणेन भवित- व्यम् । तच्च क्षणिकविज्ञानरूपमेकं वस्तु । न चैवं घटबुद्धिः पटबुद्धिरिति भेदव्यवहारो न स्यादिति वाच्यम्, अना- दिवासनाबलात् भेदव्यवहारोपपत्तेः । तस्मात्क्षणिकवि- ज्ञानमेकमेव वस्तु । तच्चालयविज्ञानं प्रवृत्तिविज्ञानं चेति द्विविधम् । आलयविज्ञानमहमालम्बनम्, प्रवृत्तिवि- ज्ञानं तु घटाद्याकारम् ; तादृशस्य ज्ञानस्य अनादिवास- नोच्छेद एव मोक्षः । तदुपायश्च शून्यं कृत्स्नं वस्तु दुःखात्मकमित्यादिभावेनैव वर्णयन्ति । तदाहुः - अत्र माध्यमिकेनोक्तं शून्यत्वं शून्यवादिना । निरालम्ब- नवादी तु योगाचारो निरस्यति । त्वयोक्त सर्वशू- न्यत्वे प्रमाणं शून्यमेत्र ते । अतो वादेऽधिकारस्ते न परेणोपपद्यते । स्वपक्षस्थापनं तद्वत्परपक्षस्य दूषणम् । कथं करोत्यत्र भवान्विपरीतं वदेन किम् । अवि- भागो हि बुद्धधात्मा विपर्यासितदर्शनैः । प्राह्यग्राहकसं-अयोध्याकाण्डः ।
[[६६९]]
वित्तिभेदवानिव लक्ष्यते । बुद्धिस्वरूपमेकं हि वस्त्वस्ति परमार्थतः ॥ प्रतिभासस्य नानात्वात् न चैकत्वं विह- न्यते । परिव्राट्कामुकपशूनामेकस्यां प्रमदातनौ । कुणपः कामिनी भक्ष्यामिति तिस्रो विकल्पनाः ॥ तथाप्येकैव सा बाला बुद्धितत्त्वं तथैव च । यत्तदन्यत्तु जात्यादि तनि- राक्रियतां त्वया । क्षणिका बुद्धिरेवात्र त्रिधा भूतैर्विक- ल्पिता । स्वयं प्रकाशतत्त्वज्ञैर्मुमुक्षुभिरुपास्यते ’ इति योगाचारपक्षः । चतुर्थः सौत्रान्तिकास्तु
यदुक्तं बाह्यं वस्तु नास्तीति तदयुक्तम्, अन्तरस्य ज्ञानस्य बाह्यस्य चार्थस्य विरुद्धधर्माध्यस्तत्वेन अभेदानुपपत्त्या ज्ञान- व्यतिरिक्तपदार्थस्यावश्यमभ्युपगन्तव्यत्वात् । किं च नी- लाद्यर्थस्य ज्ञानाकारत्वे अहं नील इति प्रतीतिः स्यात् । न त्विदं नीलमिति प्रतिपत्तिर्विज्ञानस्य नीलाकारव्यति- रेकात् । न च ज्ञानस्वरूपोऽपि भ्रान्त्या बहिरवभासते । तदुक्तम्- ‘परिच्छेदान्तराद्योगभावो बहिरवस्थितः । ज्ञानस्याभे दिनोऽभेदप्रतिभासो ह्युपप्लवः । यदन्तर्ज्ञेयं तत्त- त्वं तद्बहिर्वश्न भासते ’ इति वाच्यम्, बहिर्वदित्युपमानस्य बाह्यार्थनिरूपितस्य बहिः पदार्थ निराकुर्वता उपपा-
[[६७०]]
धर्माकूते
दयितुमशक्यत्वात् । न हि वसुमित्रो वन्ध्यापुत्रव- दवभासते इति प्रेक्षावानाचष्टे । अतो ज्ञानादर्थों
। भिन्न एव । नन्वेवं क्षणिकज्ञाने असमानकालस्य अ- र्थस्य कथं ग्रहणम्, समानकालीनयोरेव प्राह्यग्राहक- भावदर्शनादिति चेन्न इन्द्रियसंनिकृष्टस्य विषयस्य उत्पाद्ये ज्ञाने स्वाकार समपर्कतया तत्समर्पितेन चाकारे बाह्यार्थस्य अनुमानग्राह्यत्वसंभवात् । तदुक्तम्- भिन्नकाले कथं प्राह्यमिति चेद्रह्यतां विदुः । हेतुत्वमेत्र युक्तिज्ञाः ज्ञाना- कारार्पणक्षमम्’ इति । यथा च पुष्टया भोजनमनुमीयते यथा च भाषया देशः यथा च संभ्रमेण स्नेहः तथा ज्ञानाकारेण ज्ञेयमनुमेयम् । तथा च बाह्यार्था- स्तित्वे अयं प्रयोगः- ये पदार्थाः चस्मिन्सति का- दाचित्काः ते सर्वे तदातिरिक्तक्षापेक्षाः अविवक्षति अजिगमिषति च मयि वचनगमन प्रतिभासाः विवक्षु- जिगमिषुपुरुषान्तर संतान सापेक्षाः । तथा च विवादा- ध्यासिताः प्रवृत्तिप्रत्ययाः सत्यध्यालयविज्ञाने कदाचिदेव नीलाद्युल्लेखिन इति । तत्र आलयविज्ञानं नाम अह- मास्पदं ज्ञानम् । नीलाद्युल्लेखि च प्रवृत्तिविज्ञानम् ।
अयोध्याकाण्डः ।
तदुक्तम् ’ तत्स्यादालयविज्ञानं यद्भवेदहमास्पदम् । तत्स्यात्प्रवृत्तिविज्ञानं यन्नीला दिकमुल्लिखेत्’ इति । तस्मादालय विज्ञान संतानातिरिक्तः कादाचित्कः प्रवृत्ति- विज्ञानहेतुः बाह्यार्थी ग्राह्य एव । न च वासनापरिपाकात् प्रत्ययकादाचित्कत्वे कदाचिदुत्पादयन्तीति वाच्यम् । विज्ञानवादिना वासनानामनेक संतानवर्तिनामालयविज्ञा- नानां तत्तत्प्रवृत्तिविज्ञानजननशक्तिः, तस्याश्च स्वकार्य प्रत्याभिमुख्यं परिपाकः तस्य च प्रत्ययः कारणं स्वसंता- नवर्तिपूर्वक्षणः कक्षी क्रियते । सन्तानान्तर निबन्ध- नत्वानङ्गीकारात् । ततश्च प्रवृत्तिविज्ञानजनकालयविज्ञाना- वर्तिवासनापरिपाकं प्रति सर्वेऽप्यालय विज्ञान संतानवर्तिनः क्षणाः समर्था एवेत्यङ्गीकर्तव्यम् । न चेदेकोऽपि न स- मर्थः स्यात् आलयविज्ञानसंतान वर्तित्वाविशेषात् सर्वे समर्था इति स्वीकारे कार्यक्षेपानुपपत्तेः । त तश्व कादाचित्कत्वनिर्वाहाय शब्दस्पर्शरूपरसग- न्धसुखादिविषयाः षडपि प्रत्ययाश्चतुरः प्रत्ययान्प्रतीत्यो- त्वद्यन्ते इत्यनिच्छताप्यहं मतिना स्वानुभूतिमनाच्छाद्य परिच्छेतव्यम् । ते च चत्वारः प्रत्यया प्रसिद्धाः आल-
[[६७२]]
धर्माकृते
म्बनसमनन्तरसहकार्याधिपतिरूपाः । आलम्बनं विषयः समनन्तरं पूर्वज्ञानं सहकारी आलोकः अधिपतिश्चक्षु- रादिः’ इति । तत्र ज्ञानपदवेदनीयस्य नीलाद्यवभास्र- रूपस्य च तस्य नीलाद्यालम्बनप्रत्ययात् नीलाकारता भवति । समनन्तरप्रत्ययात् प्राचीनज्ञानोद्बोधरूपता । सह- कारिप्रत्ययादालोकात्स्पष्टता चक्षुषो अधिपतिप्रत्ययात् विषयग्रहणनियमः उदितस्य ज्ञानस्य रसादिसाधारण्य- प्राप्तौ तन्नियामकं चक्षुरधिपतिर्भवति, लोके नियाम- कस्याधिपतित्वोपलम्भात् । एवं चित्तचत्तात्मकानां सुखा- दीनां च कारणानि द्रष्टव्यानि । सोऽयं चित्तचेदात्मकः स्कन्धः पञ्चविधः । रूपविज्ञानवेदनासंज्ञासंस्कारसं ज्ञकः । तत्र एभिर्विषया रूप्यन्ते इति करणव्युत्पत्त्या रूप्यन्ते इति कर्मव्युत्पत्या च सविषयाणीन्द्रियाणि रूपस्कन्धः । आलयविज्ञानप्रवृत्तिविज्ञानप्रवाहो विज्ञा- नस्कन्धः 1 प्रागुक्तस्कन्धद्वय संबन्धजन्यसुखदुःखा- दिप्रत्ययप्रवाहो वेदनास्कन्धः । गौरित्यादिशब्दो लेखि- सविषयकज्ञानप्रवाहः संज्ञास्कन्धः । वेदनास्कन्धो रागा- दयः क्लेशा उपक्केशाश्च मदमानादयो धर्माधर्मौ च
अयोध्याकाणः ।
[[૬૦૩]]
संस्कारस्कन्धः । तदुक्तं पञ्चस्कन्धा भवन्त्यत्र द्वादशा- यतनानि च । सर्वेषामपि बौद्धानां तथाष्टादश धातवः । ज्ञानसंस्कारसंज्ञानां वेदनारूपयोरपि । समूहः स्कन्धशब्दार्थतत्तत्संततिवाचकः । ज्ञानसंत तिरेवात्र वि ज्ञानस्कन्ध उच्यते । संस्कारस्कन्ध इत्युक्तो वासनानां च संततिः । सुखदुःखात्मिका बुद्धिस्तथापेक्षात्मिकी सदा ॥ वेदनास्कन्ध इत्युक्तः संज्ञास्कन्धस्तु नाम यत् । रूपस्कन्धो भवत्यत्र मूर्तभूतस्य संहतिः ॥ परिदृश्यमानस्तम्भ कुम्भा - दिकं तु रूपस्य मूर्तभूतस्योपचयः । तत्र तदात्मके स्तम्भ- कुम्भादौ पृथिव्यंशमादाय स्थैर्यरूपादिकं अवंशेन द्रवत्व- स्नेहा दिते जोशेनोष्णत्वादि वायुधातुना- अनुष्णाशीत वे- गादि । तदुक्तम् - रूपस्योपनयस्तम्भ कुम्भादि रणुकल्पितः । पृथिव्याः स्थैर्यरूपादि द्रवत्वादि भवेदपाम् । उष्णत्वं तेजस्रो धातोर्वायुधातोस्त्त्रशीतता । एवं चतुर्णी धातूनां वर्णग- न्धरसौजसाम् । पिण्डजाताः पृथिव्याद्याः परमाणुरूपा अमी । तदिदं सर्वे दुःखायतनं दुःखसाधनं चेति भाव- यित्वा तन्निरोधोपायं तत्त्वज्ञानं संपादयेत् । अत एवोक्तं दुःखसमुदाय निरोधमार्गाश्चत्वारः । आर्यस्य बुद्धस्याभि-
[[६७४]]
धर्माकूते
गतत्वान्निरूपितवानिति । तत्र दुःखं प्रसिद्धम् । समुदायो दुःखस्य कारणम् तद्विविधम् ; प्रत्ययोपनिबन्धो हेतूपनिब- न्धश्चेति । तत्र प्रत्ययोपनिबन्धः कारणसमवायः । यथा बीजहेतुरङ्कुरो घातूनां चतुर्णां समवायाज्जायते । तत्र पृथिवीधातुरङ्कुरस्य काठिन्यं गन्धं च जनयति । अप् तु स्नेहं रसं च, तेजोधातुःरूपमैौष्ण्यं च वायुधातुः स्पर्श चलनं च, आकाशधातुरवकाशं शब्दं च, ऋतुधातुर्यथा- योगं बुद्धयादिकमिति । हेतूपनिबन्धश्च कारणपरम्परया कार्योत्पत्तिः । यथा बीजादङ्कुरम्, अङ्कुरात्काण्डम्, काण्डानाम् नालाद्गर्भः, ततः शूकः, ततः पुष्पम् ततः फलमिति । एतादृशप्रत्यययोः निबन्धहेतूप निबन्धयो.. निरोधः । अभावः तस्मिन्सति विमलज्ञानोदयों वा मुक्तिः । तन्निरोधोपायो मार्गः । स च तत्त्वज्ञानम्, तच्च प्राचीनभावनाबलाद्भवतीति सौत्रान्तिकः पक्षः पथ्यमः । वैभाषिकास्तु बाह्यार्थीः प्रत्यक्षा इत्यवश्यमभ्युपगन्तव्यम् अन्यथा व्याप्तिसंवेदनस्थानालाभेन प्रत्यक्षतः हेतुसा- व्यव्याप्तिग्रहणपूर्वकं ज्ञेयानुमानप्रवृत्त्यनुपपत्तेः अनुभव- विरुद्धा चानुमेयता अतः प्रत्यक्षभूतो बाह्यार्थः । स च
अयोध्याकाण्डः ।
[[1]]
बाह्यार्थः परमाणुपुञ्ज एव न तु तदारब्धमवयव्यन्तरम् वनादिवत् । तदुक्तं प्रत्यक्षत्वं तु बाह्यस्य कचिदेवानुमेयता । पूर्वापरानुभावेन पुञ्जीभूताः सहस्रशः ॥ परमाणन एवात्र बाह्यार्थी बनवस्थिताः । दूरादेव वनं पश्यन् गत्वा तस्या- न्तिकं पुनः । न वनं पश्यति कापि वल्ली वृक्षातिरेकतः ॥ मही घटत्वमायाति कपास्तत्वं तु ते घटाः । कपालानि च चूर्णत्वं तत्पुनः परमाणुताम्’ इति । स द्विविधः ग्राह्योऽध्यवसे यश्चेति । तत्र ग्रहणमपि द्विविधम् निर्विकल्प- कम्, सविकल्पकं चेति । तत्राद्यं प्रमाणं तदुक्तम्- कल्पनापोढमभ्रान्तं प्रत्यक्षं निर्विकल्पकम् । विकल्पो वस्तुनिर्भासादसद्वादादपवः ॥ ग्राह्यवस्तुप्रमाणं हि ग्रहणं यदितोऽन्यथा । न तद्वस्तुनि तन्मानं शब्द- लिङ्गेन्द्रियादिजम्’ इति । ननु अप्रमाणभूतात्सवि- कल्पकात्कथं संवादप्रवृत्तिरिति चेत् इत्थं- मणि- प्रभायां मणिबुद्धया प्रवृत्तस्य मणिप्राप्तिवत्पारम्पर्यात् अर्धप्रतिबन्धोपपत्तेः । चतुर्णामपि बौद्धानामैक्यमध्या- त्मनिर्णये ॥ व्यावहारिकभेदेन विवदन्ते परस्परम् । बुद्धितत्त्वास्थिता बोधा बुद्धिवृत्तिर्द्विधा मता ॥
[[६७६]]
धर्माकूते
ज्ञानाज्ञानात्मिका चेति तत्र ज्ञानात्मिका निजा । मूलाज्ञाने निमित्तं तु स्कन्धायतनधातुषाः । शुद्ध- बुद्धयवशेषो हि मोक्षो बुद्धमुनीक्षितः ॥ तामन्तर्द्वयवर्जि- तां निरुपमामाकाशवनिर्मलाम् । प्राज्ञैरप्यमितां जनस्य जननीं शृण्वन्तु बुद्धयार्थिनः इति । हेयोपादेयतत्त्वं च मोक्षोपायं च वेत्ति यः । स एव नः प्रमा- णं स्यान्न सर्वज्ञस्त्वयेरितः । दूरं पश्यतु वा मा वा तत्व- मिष्टं प्रपश्यतु । प्रमाणं दूरदर्शश्चेत् वयं गृध्रानुपास्महे । देशे पिपीलिकादीनां संख्याज्ञः कश्चिदस्ति किम् । सर्व- कर्तृत्वमीशस्य कथितं नोपपद्यते ॥ यदि स्यात्सर्वकः र्तासो अधर्मेऽपि प्रवर्तयेत् । अयुक्तं कारयल्लोकान्कथं युक्ते प्रवर्तयेत् ॥ उपेक्ष्यैव हि साधूनां युक्ता साधौ क्रियागमे । न क्षतक्षारविक्षेपः साधूनां साधु चेष्टितम् ॥ ईश्वरेणैव शास्त्राणि सर्वाण्यपि कृतानि चेत् । कथं प्रमा- गं तद्वाक्यं पूर्वापरपराहतम् ॥ कारयेद्धर्ममात्रं चेदेष शास्त्रप्रवर्तकः । कथं प्रादेशिकस्यास्य सर्वकर्तृत्वमुच्यते । ईशः प्रयोजनाकाङ्क्षी जनान्सृजति वा न वा । काङ्क्षते चेदसंपूर्णः नो चेन्नैव प्रवर्तते । प्रवर्तते किमीहस्ते भ्रा-
अयोध्याकाण्डः ।
[[७७६]]
न्तयन्निष्प्रयोजने ॥ छागादीनां पुरीषादेः वर्तुलीकर- णेन किम् । क्रीडार्थोऽयं प्रवृत्तिश्चेत् क्रीडते किं तु बलवत् ॥ अजस्रं क्रीडतस्तस्य दुःखमेव भवत्य- लम् । तप्तलोहादितापाद्यैरीशेनाल्पसुखेच्छुना । प्राणिनो नरके कष्टे बलप्राणैर्वियोजिताः । वरप्रदानशक्तश्चेत् बृह्महत्यादिकारिणे ॥ स्वर्ग दद्यात्स्वतन्त्रः सन्नरकं सोमयाजिने । कर्मानुगुणदाता चेदीशः स्यादखिलो जनः । दाने स्वातन्त्र्यहीनः सन्सर्वेशः कथमु- च्यते ॥ एवं नैयायिकाद्युक्त सर्वज्ञेशनिराक्रिया । हेयोपादेयमात्रज्ञः प्राह्मो बुद्धमुनिस्ततः । चैत्यं वन्देत चैत्याद्या धर्मा बुद्धागमोदिताः । अनुष्ठेया न या-
। गाथा वेदाद्यागमचोदिताः । क्रियायां वेदतायां च योगे शून्यपदे क्रमात् ॥ वैभाषिकादयो बौद्धाः स्थिताश्चत्वार एव ते इति । एवं बुद्धिवैभवपरिकल्पितस्य यौक्तिकमार्ग उत्तरोत्तरदोषग्रस्तस्य मूलप्रमाणशून्यस्य अव्यवस्थिततया यौक्तिकमार्गमुपेक्ष्य वेदप्रामाण्यमीश्वरं चाभ्युपगम्यैव जाबालिप्रतिपादित चार्वाक मतदूषणन्या- जेन सकला वैदिकमतं रामो दूषितवान् । तत्र च एकः
'
धर्माकूते
पालयते लोकमेकः पालयते कुलम् । मज्जत्येको हि निरये एकः स्वर्गे महीयते’ इत्यनेन फलवैचित्र्यव्यव- स्थापat ahan अवश्यं स्वीकर्तव्याविति प्रतिपाद- नात् प्रत्यक्षमात्रप्रामाण्यवादिनः चार्वाकस्य दूषणम्। अग्निर्वायुश्च सोमश्च कर्मणां फलभागिनः । शतं क्रतू- नामाहृत्य देवराट् त्रिदिवं गतः इत्यादिना ऋत्वादीनां देहान्तरोपभोग्यफलत्व प्रतिपादनात् देहात्मवादस्य विहि- तयागादिक्रियाफलाभावस्य च निराकरणात् चार्वाकस्य क्षपणकस्य च मतदूषणम् ॥
यथा हि चोरस्तथाहि बुद्ध-
स्तथागतं नास्तिकमत्र विद्धि ।
इत्यनेन योऽन्यथा सन्तमात्मानमन्यथा प्रतिपद्यते । किं तेन न कृतं पापं चोरेणात्मापहारिणा इति स्मृति- सिद्धात्मापहारप्रयुक्ततया चतुर्णामपि बौद्धानां मतदू-
षणम् ।
सत्यं च धर्मे च पराक्रमं च
भूतानुकम्पां प्रियवादितां च ।·
अयोध्याकाण्डः
द्विजातिदेवातिथिपूजनं च
पन्थानमाहुस्त्रिदिवस्य सन्तः ॥ त्वत्तो जनाः पूर्वतरेऽवराश्च
शुभानि कर्माणि बहूनि चक्रुः । जित्वा सदेमं च परं च लोकं
तस्माद्दिजाः स्वस्ति हुतं कृतं च ॥
[[६५९]]
एतैः श्लोकैः अति परलोकः तत्साधनीभूतं वेदवि- हितं कर्मजातं तद्बोधकं शाखं च प्रमाणमिति प्रतिपाद नात् सर्वेषामवैदिकमतानां दूषणं चोक्तं भवति । तत्प्र- कारश्व- प्रमाणमेव वेदाः स्युः सर्वज्ञेशकृतत्वतः । स एव कर्मफलदो जीवानां पारिशोष्यतः । जीवा वा जीवकर्मा- णि प्रकृतिः परमाणवः । नेशते ह्यत्र जीवानां तत्र कार्यक लार्पणे ॥ जीवाः कर्मफलावाप्तौ शक्ताश्चेत्ससुखे रताः । अप्रार्थितानि दुःखानि वारयन्तु प्रयत्नतः ॥ अशक्तान्यत्र कर्माणि जीवानां स्वफलार्पणे अचेतनत्वावगतेः स्वर्गादि- फत्तभूमिषु ॥ नाचेतनत्वात्प्रकृतेः फलदातृत्वसंभवः । अचेतनाः फलं दातुमशक्ताः परमाणवः ॥ कालोऽप्यचे. तनस्तेषां न हि कर्मफलप्रदः । अतोऽन्यः फलदो लोके
D. Pt vi-8
[[૨૦૦]]
[[1]]
धर्माकूते
भवत्येभ्यो विलक्षणः ॥ स तु प्राणिविशेषांश्च देशानपि तदाश्रयान् । जानन्सर्वज्ञ एवेष्टो नान्यो बौद्धादिसंमतः । अंजानन्प्राणिनो लोकान्हेयोपादेयमात्रवित् । प्रादेशिको न सर्वज्ञो नास्मदादिविलक्षणः । वेदैकदेशं दृष्ट्वा तु दृष्टार्थं त्रैष्टभादिकम् । अदृष्टयोश्च विश्वासः कार्यः स्वर्गा- पवर्गयोः । कारीरीष्ट्यर्थ पुष्टिश्च द्रष्टव्या द्रव्यनिर्णये । ज्योतिःशास्त्रोक्तकालस्य ग्रहणं तन्निदर्शनम् । इष्टैकदेश- प्रामाण्यं यत्त्क्तं सौगतादिना ॥ तच्च वेदादपहृतं सर्व- लोकप्रतारकैः । मन्त्रव्याकरणं दृष्टा मन्त्रा विरचिताः पुनः । लिपिसंमिश्रजप्तास्ते सिद्धमन्त्रास्त्वया कृताः । बौद्धागमेभ्यो दृष्टार्था नाहता वैदिकैः कचित् ॥ वेद- स्यैव षडङ्गानि यतः शीक्षादिकानि वै । नान्यागमा-
ता तेषां न काप्युक्ता परैरपि । अतो वेदबलीयस्त्वं नास्तिकागमसंचयात् । तन्मतेन बाह्यार्थोऽपि न संभ- वति । परमाणुपुञ्जः परमाणुस्वरूपो वा तदतिरिक्तो वा । आये प्रत्यक्षत्वानुपपत्तिरेव । द्वितीये अधिष्ठातारं कंचन अपेक्ष्य पुञ्जीभवन्ति अनपेक्ष्य वा । आद्येऽपि अधि- ष्ठाता स्थायी क्षणिको वा । आद्ये अपसिद्धान्तः । द्वितीये
अयोध्याकाण्डः ।
[[1]]
[[६८१]]
अस्थिरस्य अन्याधिष्ठातृत्वानुपपत्तेः, अचेतनानां परमा- णूनामधिष्ठातारमन्तरा पुञ्जीभावानुपपत्तेश्च । किं च पर- माणुपुञ्जत्वे घटादेरकदेशस्थाकर्षणेन सर्वस्य अनाक- र्षणप्रसङ्गः । तस्मान्न परमाणुपु खो बाह्यार्थ इति सिद्धा- न्तः । जलानतपरीक्षादौ संवादो वेदवेदि । गलहस्तिना- स्तिक्य क धियं कुरुते नते । सत्येव पतियोगादौ गर्भा- देरधुनोदयात् । आक्षित्यरिनास्तिकाः । कर्म न किं मम भिनत्ति याचतः स्वगया श्राद्धं भूतस्याविश्य कंचन । नानादेशजनोपज्ञाः प्रत्येषि न कथाः कथम् । नीतानां यमदूतेन नामभ्रान्तेरुपागतौ । श्रद्धत्से संवदन्ती न पर- लोककथा कथम् । तस्मात् एवं वैदिकमतावलम्बनेन वैदिकमागौ न दूषणीयः । '
इति ब्रुवन्तं वचनं सरोषं
रामं महात्मानमदीनसत्त्वम् । उवाच तथ्यं पुनरास्तिकं च
सत्यं वचः सानुनयं च विप्रः ॥ न नास्तिकानां वचनं ब्रवीम्यहं
न नास्तिकोऽहं न च नास्तिकं च ।
કર
धर्माकृते
समीक्ष्य कालं पुनरास्तिकोऽभवं
भवेय काले पुनरेव नास्तिकः ॥ स चापि कालोऽयमुपागतः शनै-
यथा मया नास्तिकवागुदीरिता । निवर्तनार्थे तव राम कारणा-
त्प्रसादनार्थं च मयैतदीरितम् ॥
इति । दशोत्तरशततमे - तदनु विविधोपायैरपि अनि- वृत्तहृदयं कुपितं श्रीरामभद्रमवलोक्य कुलपुरोहितो वस्रि- ष्ठः आकाशप्रभवो ब्रह्मेत्यारभ्य इक्ष्वाकुकुल परम्परामुक्त्वा
इक्ष्वाकूणां हि सर्वेषां राजा भवति पूर्वजः ।
स राघवाणां कुलधर्ममात्मनः
सनातनं नाद्य विहातुमर्हसि । प्रभूतरतामनुशाधि मेदिनीं
प्रभूतराष्ट्रां पितृवन्महायशाः ॥
इति प्रसादयामास ॥
एकादशोत्तरशततमे-
वसिष्ठस्तु तदा राममुक्त्वा राजपुरोहितः । अब्रवीद्धर्मसंयुक्तं पुनरेवापरं वचः ॥
I
अयोध्याकाण्डः ।
[[६०३]]
पुरुषस्य हि जातस्य भवन्ति गुरवस्त्रयः । आचार्यश्चैव काकुत्स्थ पिता माता च राघव ॥ पिता ह्येनं जनयति पुरुषं पुरुषर्षभ । प्रशां ददाति चाचार्यः तस्मात्स गुरुरुच्यते ॥ सोऽहं ते पितुराचार्यस्तव चैव परंतप । मम त्वं वचनं कुर्वभातिवर्तेः सतां गतिम् ॥
इमा हि ते परिषदः श्रेणयश्च द्विजास्तथा । एषां तात चरन्धर्मे नातिवर्तः सतां गतिम् ॥ वृद्धाया धर्मशीलाया मातुर्नार्हस्य वर्तितुम् । अस्यास्तु वचनं कुर्वन् नातिवर्तेः सतां गतिम् ॥ एतेन गुरुमात्रादीनामभिमतं कुर्वन्पुरुषः सद्गतिं नाति- क्रामति । अतस्तेषां वचनमवश्यं कर्तव्यम् । तथा चा- नुशासनिके—’ पितुर्मातुर्गुरूणां च आचार्यस्य च सर्व- दा । हितं वाप्यहितं वापि तत्कार्यमविशङ्कया’ इति । इत्थमाचार्य प्रजामात्रादिवचनमन तिलङ्घनीयम् अतः समु- लुइयापि पितृवचनं मत्प्रार्थनां सफलीकुर्विति गुरुणा वसिष्ठेनको रामभद्रस्तमित्थमुवाच –
[[૬૪]]
धर्माकूते
यन्मातापितरौ वृत्तं तनये कुरुतः सदा । न सुप्रतिकरं तत्तु मात्रा पित्रा च यत्कृतम् ॥ यथाशक्ति प्रदानेन स्त्रापनाच्छादनेन च । नित्यं च प्रियवादेन तथा संवर्धनेन च ॥
[[1]]
इति । अयमर्थो मनुना दर्शितः ‘यन्मातापितरौ क्लेशं सहेते संभवे नृणाम् । न तस्य निष्कृतिः शक्या कर्तुं वर्षशतैरपि ॥ ’ इति ।
,
भरतस्य वचः कुर्वन्याचमानस्य राघव । आत्मानं नातिवतैस्त्वं सत्यधर्मपरायण ॥
अनुरक्तस्य भ्रातुर्वचनकरणे स्वात्महितमेव कृतं भव- तीत्युक्त्वा भ्रातुरात्मा भिन्नत्वं सूचितम् । तथा च मनुः- ‘आचार्यो ब्रह्मणो मूर्तिः पिता मूर्तिः प्रजापतेः । माता पितृव्या मूर्तिस्तु भ्रातरो मूर्तिरात्मनः ॥
स हि राजा जनयिता पिता दशरथेो मम । आज्ञातं यन्मया तस्य न तन्मिथ्या भविष्यति ॥
लक्ष्मीश्वन्द्रादयाद्वा हिमवान्या हिमं त्यजेत् । अतीयात्सागरो वेलां न प्रतिशामहं पितुः ॥
अयोध्याकाण्डः ।
[[६८५]]
नन्वस्मिन्वचने पित्राज्ञया प्रतिज्ञातमेव परिपालनीय- मिति प्रतीयते । तदनुपपन्नम्, अभिवादन प्रकरणस्थाने ‘आचार्य प्राचार्यसंनिपाते प्राचार्यायोपसंगृह्योपसंजिघृ- वेदाचार्य प्रतिषेधेदितरः ’ इति आपस्तम्बसूत्रेण प्राचा- र्यस्य प्राबल्यावगमेन तद्वचनस्यैव कर्तव्यत्वात् । एवं वनगमने पित्राज्ञामात्रं राज्याभिषेके तु प्राचार्य मातृप्रजा- दीनामनुज्ञेति । विप्रतिषिद्धधर्माणां समवाये भूयसां स्था- त्धर्मत्वमिति न्यायेन वसिष्ठा दिवाक्यस्यैव कर्तव्यत्वाश्च । अतः उभयथापि वसिष्ठवाक्यस्यैव कर्तव्यत्वेन कथं पि- तृवचनपरिपालनप्रतिज्ञेति चेन्न । आचार्याधीनः स्याद- न्यत्र पतनीयेभ्य इत्यापस्तम्बसूत्रेण पातित्यापादककर्म- व्यतिरिक्तकर्मण्येव आचार्याधीनत्वप्रतिपादनेन तस्मा- त्पितुर्वचः कार्य न विचार्य कदाचन । पातकान्यपि पूयन्ते पितुर्वचनकारिणः इति चिरकारिवचनात् पितृ- वाक्यकरणे पातकनिवृत्यवगमेन परशुरामादिभिः पि- ब्राज्ञया महापातकरूपमात्रादिवधकरणेन च भाज्ञावि- षये पितुरति प्रबलत्वात् तद्वचनमेव परिचालनीयम्। आचा- ये प्राचार्येत्यादिवचनं तु अभिवादनमात्रविषयम् । भत
[[46]]
धर्माकूते
एव रामेण ताटकावधे आचार्यस्य विश्वामित्रस्य वचनं पितृवचनगौरवादेव कृतमित्यवगम्यते । तथा हि-
पितुर्वचननिर्देशात्पितुर्वचन गौरवात् । वचनं कौशिकस्येति कर्तव्यमविशङ्कया ॥ अनुशिष्टोऽस्म्ययोध्यायां गुरुमध्ये महात्मना । पित्रा दशरथेनाहं नावज्ञेयं च तद्वचः ॥ सोऽहं पितुर्वचः श्रुत्वा शासनाद्ब्रह्मवादिनः । करिष्यामि न संदेहस्ताटका वधमुत्तमम् ॥’
इति । यदुक्तं भूयसोऽनुग्रहन्यायेन इति तन्न, तत्र मातुराज्ञाकरणे स्वातन्त्र्यं नास्तीति प्राक्प्रतिपादितम् । प्रजाभिरपि-
काकुत्स्थमभिजानीमः सम्यग्वदति राघवः । एषोऽपि हि महाभागः पितुर्वचसि तिष्ठति ॥ अत एव न शक्ताः स्म व्यावर्तयितुमञ्जसा । इत्यादिना वनगमनस्यैव अनुज्ञानाच्च भूयोऽनुग्रहन्या- यानवतारात् । तस्मात् पितृवचनमेव परिपालनीयमिति यदुक्तं तद्युक्तमेव । एवमनेकविधोपायैरप्यशक्य निवर्तनं
अयोध्याकाण्डः ।
[[६८७]]
रामभद्रमवलोक्य तत्प्रवादनोपायं कर्तुकामो भरतः सुम- न्त्रमिदमादिदेश-
इह में स्थण्डिले शीघ्रं कुशमास्तर सारथे । आर्य प्रत्युपवेश्यामि यावन्मे न प्रसीदति ॥ अनेन सर्वोपायेनापि गुरुजनः प्रसादनीय इति सूचि- तम् । तथा चोशना- ‘यो वाचयति या सूते येन विद्योपदिश्यते । ज्येष्ठ भ्राता च भर्ता च पचैते गुर- वस्तथा । आत्मनः सर्वयत्नेन प्राणत्यागेन वा पुनः । पूजनीया विशेषेण पचैते भूतिमिच्छता’ इति । अथा- श्रमकुटीपुरतः सुमन्त्रविरचितकुशास्तरणे प्रत्युपविष्टं भर- तमवलोक्य रामस्तमित्थमुदाजहार –
किं मां भरत कुर्वाणं तात प्रत्युपवेक्ष्यसि । ब्राह्मणो ह्येकपार्श्वेन प्राणाम्रोद्धुमिहार्हति ॥ न तु मूर्धावसिक्तानां विधिः प्रत्युपवेशने । अनेन प्रत्युपवेशनं दरिद्रैर्ब्राह्मणैरेव कार्य न मूर्भाव - सिक्तैरिति सूचितम् । अत एव भरतवचनम् -
अनाहारो निरालोको धनहीनो यथा द्विजः ।
[[६८८]]
धर्माकूते
इति । तत्समुत्तिष्ठ महाभाग भरत विसृज तदिदं दारुणं व्रतं प्रयाहि सत्वरं कुलपरंपरा परिपालितामस्मद्रा- जधानीमयोध्या मित्यभिहितो भरतो निजगाद - भो भोः पौरजानपदा जनाः किमिति वाचंयमतामवलम्ब्य तिष्ठथ यत्समुचितं तदार्यमनुशासथ इति । तदनु पितृ- वचनगौरवेण वनवासे कृतनिश्चयं रामं विनिवर्तयितुं न वयं पारयाम इति पौरजनसमुदीरितवचनमाकर्ण्य रामभद्रो भरतमेवमवादीत्-
एवं निबोध वचनं सुहृदां धर्मचक्षुषाम् । एतचैवोभयं श्रुत्वा सम्यक्संपश्य राघव ॥ उत्तिष्ठ त्वं महाभाग मां च स्पृश तथोदकम् ।
अत्र प्रत्युपवेशनप्रायश्चित्तत्वेन मां च स्पृश तथोदक- मित्युक्त्या अशुद्धित्वे निमित्ते गुरुजन संस्पर्शनमुदकोप- स्पर्शनं च प्रायश्चित्तमुक्तं भवति । तदनु कृतोदकस्पर्शो भरतः मन्त्रिपुरोहितादीनेवमवोचत्-
न याचे पितरं राज्यं नानुशासामि मातरम् । आर्य परमधर्मज्ञमभिजानामि राघवम् ॥अयोध्याकाण्डः ।
यदि त्ववश्यं वस्तव्यं कर्तव्यं च पितुर्वचः । अहमेव निवत्स्यामि चतुर्दश समा वने ॥
[[६८९]]
अत्र राज्यं मया न याचितं राज्यं प्रार्थनीयमिति मातरमपि नानुशासितवान् राज्याहों राम एव इति तु परं जानामि यदि पित्राज्ञया रामेण वने वस्तव्यमिति निर्बन्धः तदा तविष्य : अहमेव वने निवत्स्यामि रामस्तु राज्यं परिपालयत्विति कथनेन गुरुणा कर्तव्यं कर्म शिष्यहस्तात्कारितं चेत् गुरुणा कृतं भवतीति सूचितम् । विष्णुपुराणे - ‘पूर्वमेवं मुनिगणैः समयो यः कृतो द्विज । वैशम्पायन एवं तु तं व्यतिक्रान्तवां- स्तदा ॥ स्वस्तीयं बालकं सोऽथ यथाभ्रष्टमघातयत् । शिष्यानाह च हे शिष्याः त्रह्महत्यापहं व्रतम् । चरध्वं मत्कृते सर्वे न विचार्यमिदं ततः । ब्रह्महत्यात्रतं चीर्ण गुरुणा चोदितैस्तु यैः । चरकाध्वर्यत्रस्ते तु चरणान्मुनिस-
। त्तम’ इति । ततो भरतवचनेन संजातविस्मयो रामस्तं जनमिदमाह -
विक्रीतमाहितं क्रीतं यत्पित्रा जीवितं मम । न तल्लोपयितुं शक्यं मया वा भरतेन वा ॥
[[६९०]]
धर्माकूते
अनेन पुत्रक्रयविक्रयार्हता पितुरस्तीति सूचितम् । तथा च बोधायनः ’ शोणितशुलसंभवो मातापितृनिमि त्तकः तस्य प्रदानपरित्यागविक्रयेषु मातापितरौ भवतः इति ।
उपाधिर्न मया कार्यों वनवासे जुगुप्सितः ।
अत्र क्रयविक्रयादियोग्यैः पुत्रैः पितृकृतव्यवस्थाया- मेव स्थेयम्, न तु अतिजुगुप्सितप्रतिनिधिकरणेन तल्लोपः कर्तव्यः, तथा सति पितुरसत्यप्रतिज्ञत्वं लक्षणबाधकम- तीति तात्पर्यम् । अत एव भरतं प्रति विद्वर्षिवचनम् ।
कुले जात महाप्राज्ञ महाव्रत महायशः । ग्राह्यं रामस्य वाक्यं ते पितरं यद्यवेक्षसे ॥ सदानुणमिमं रामं वयमिच्छामहे पितुः । अनृणत्वाश्च कैकेय्याः स्वर्गे दशरथो गतः ॥ इति ।
जानामि भरतं क्षान्तं गुरुसत्कारकारिणम् । सर्वमेवात्र कल्याणं सत्यसंधे महात्मनि ॥
तदाहमपि निर्वर्तितवनवासः समागत्य निजराजधानी-
;
अयोध्याकाण्डः ।
ESS
मवश्यमनेन भ्रात्रा सह पृथिवीं पालयिष्यामि ॥ द्वादशो- तरशततमे - इति सरसतरमभिभाषमाणयोः श्रीरामभ- द्रभरतयोरन्यादृशं समागममवलोक्य विस्मितहृदयाः मह- र्षिविद्धविद्याधरगन्धर्वाः सानन्दमेवं प्रशशंसुः ।
स धन्यो यस्य पुत्रौ द्वौ धर्मशौ धर्मविक्रमौ । श्रुत्वा वयं हि संभाषामुभयोः स्पृहयामहे ॥
अथ पित्राज्ञापरिपालनेनानृणं रामभद्रं वयमिच्छामः तद्भवतापि पितृऋणमवेक्षमाणेन परिप्राझं रामवचन- मिति । दशकन्धरवधाभिलाषेण भरतमुपदिश्य यथागतं गतेषु महर्षिसिद्धगन्धर्वेषु तद्वचनश्रवणजनितहर्षनिर्भर- हृदयं श्रीरामं परित्रस्तगात्रो भरतः कृताब्जलिरिदमु-
वाच —.
राजधर्माननुप्रेक्ष्य कुलधर्मानुसंततिम । कर्तुमर्हसि काकुत्स्थ मम मातुश्च याचनाम् ॥ ज्ञातयश्च हि योधाश्च मित्राणि सुहृदस्तथा । त्वामेव प्रतिकाङ्क्षन्ते पर्जन्यमिव कर्षकाः ॥
अनेन धार्मिकमेव राजानं प्रजाः काङ्क्षन्तीति सूचि-
६.९२
धर्माकूते
तम् । तथा च कामन्दके ‘धार्मिकं पालनपरं सम्य- कपरपुरंजयम् । राजानमभिमन्यन्ते प्रजापतिमिव प्रजाः ’ इति । तदधुना त्वमेव राज्यं परिपालय त्वदनुरक्ताः प्रजाः समनुरञ्जयेति सादरमुदीर्य निजचरणारविन्दयोर्निपतितं दरदलितकुबलयोदरखोदरद्युतिम् अरविन्ददलसुन्दरलो- चनं भरतं समुत्थाप्य समुज्जृम्भितबाष्पपरिस्थगितकण्ठ- तया मन्तहंसस्वरो रामभद्रस्तमिदमाह -
आगता त्वामियं बुद्धिः स्वजा वैनयिकी च या । भृशमुत्सहसे तात रक्षितुं पृथिवीमपि ।
क्तम् । तथा च कामन्दके
अनेन विनीतात्मा नृपतिः श्रेयोभाजनं भवतीत्यु- ‘सदानुरक्तप्रकृतिः प्रजापा- लनतत्परः । विनीतात्मा हि नृपतिर्भूयसीं श्रियमश्नुते ’ इति ।
अमात्यैश्च सुहृद्भिश्च बुद्धिमद्भिश्च मन्त्रिभिः । सर्वकार्याणि संमन्त्रघ सुमहान्त्यपि कारय ॥
तदिदानीं कामलोभपरया कैकेय्या समाचरितं वृत्तं सर्वथा मनसि मा कुर्विति वदन्तं सकलभुवनाभिरामं
अयोध्याकाण्डः ।
रामं भरतः सविनयमिदमवादीत्-
[[1]]
[[६९३]]
अधिरोहार्य पादाभ्यां पादुके हेमभूषिते । एते हि सर्वलोकस्य योगक्षेमं विधास्यतः ॥ सोऽधिरुह्य नरव्याघ्रः पादुके ह्यवरुह्य च । प्रायच्छत्सुमहातेजा भरताय महात्मने ॥ स पादुके संप्रणम्य रामं वचनमब्रवीत् । चतुर्दश हि वर्षाणि जटाचीरधरो ह्यहम् ॥ फलमूलाशनो वीर भवेयं रघुनन्दन । तवागमनमाकाङ्क्षन्वसन्वै नगराद्वहिः ॥ तव पादुकयोर्न्यस्तराज्यतन्त्रः परंतप । चतुर्दशे हि संपूर्णे वर्षे हि रघुनन्दन । न द्रक्ष्यामि यदि त्वां तु प्रवेक्ष्यामि हुताशनम् ॥ अथ तथेति प्रतिज्ञाय सर्वथा मातरं प्रति कोपं मा कृथा मया च सीतया च शप्तासीति बाष्पपरीतलोचनेन रामचन्द्रेण समाज्ञप्तो भरतः महाराजोचितैराभरणैरलं- कृत्य पादुके नियोज्य च सविनयमञ्जसा शत्रुंजयकुञ्जर- कुम्भपीठे, कृतप्रदक्षिणप्रणामः तमामन्त्रयांचकार । तदनु रामभद्रोऽपि लक्ष्मणेन सह वसिष्ठादीनभिपूज्य
[[६९४]]
धर्माकूते
गुरुजनान्परिष्वज्य सुहृज्जनं प्रणम्य कैश्वन परिजनेंः शोकवेगविसृत्वरानुपरंपरापिहितलोचनकौसल्याद्या जन- नीः कथं कथंचित् सप्रणाममा मन्त्रय निजाश्रमकुटीरमेव प्रविवेश ॥ त्रयोदशचतुर्दशोत्तरशततमयोः तदनु शिरसा गृहीतरामपादुकः वसिष्ठवामदेवजाबालिमुखान् ऋत्विकपुरोहितान्मन्त्रिवृद्धानपि पुरत एव प्रहिण्वानः शत्रुघ्नेन सह रथमधिरूढः
प्रदक्षिणं च कुर्वाणश्चित्रकूटं महागिरिम् । पश्यन्धातुसहस्राणि रम्याणि विविधानि च ॥ प्रययौ तस्य पार्श्वेन स लैन्यो भरतस्तदा । अनेन पुण्यवनस्पति पर्वतादयः प्रदक्षिणनमस्कारा- दिभिः पूजनीया इति सूचितम् । तच्च प्रागेव प्रपञ्चितम् । तस्य च गिरेरदूरत एव भगवतो भरद्वाजस्य मुनेग श्रममवलोक्य रथादवरुह्य विनीतवेषः सह वसिष्ठादिभि- राश्रममासाद्य शिरोवतं स्वीकृत मुनिचरणारविन्दः तेन च प्रहृष्टचेतना मुनिना परिपृष्टरघुपतिसमागमवृत्तान्तो भरतः सविनयमखिलमाचचक्षे । अथ भरतवचनज- नितप्रमोदमेदुरहृदयः
अयोध्याकाण्डः ।
भरद्वाजः शुभतरं मुनिर्वाक्यमुवाच तम् । नैतचित्रं नरव्याघ्र शीलवृत्तवतां वर ।
यदार्य स्वयि तिष्ठेत्तु निम्ने वृष्टमिवोदकम् । अमृतः स महाबाहुः पिता दशरथस्तव । यस्य त्वमीदृशः पुत्रो धर्मशो धर्मवत्सलः ।
[[६९५]]
अनेन धार्मिकपुत्रेण सता पिता मृतोऽप्यमृत एवेति सूचितम् । तथा च श्रुतिः – ‘प्रजामनुप्रजायसे तदु ते मर्यामृतम्’ इति । इति प्रशंसन्तं स तं मुनिवतंसं सम- भिवाद्य निरवद्यास्तदाशिषः कृता अतिर्भरतसत्तमः आम- न्त्र्य मन्त्रयभिपतिपुरोहितसहितः परितः संचलदनेकच तुरङ्गबलचरणविदलितमहीतल सत्वरमुदित्वर विसृत्वरप- रागपरम्परापराकृतदिनकरकरप्रकरः पटुतरपटहपटपटार. वप्रबोधितपरिसरगिरिचरपर्यन्तदर्यन्तरशयित के सरिकृतो- र्जितच कितप्रधावित सैन्यकरेणुकलित कोलाहलैः बृंहितर- वोपबृंहितहेषितभटाट्टहासबधिरीकृतभुवनोदरैः सह चमू- समूहैः सकलसुरासुर सिद्धगन्धर्ववन्दितां कलिन्दनन्दि-
D. Pt. vi - 9
[[१९६]]
धर्माकृते
नीमुक्तीर्य क्रमेण भगीरथमनोरथपरिपूरणव्याजेन सक लजनपावनीकरणाय सकरुणमवनिमवतीर्णी दुरधिगमवि- विसदन सोधाधिरोहण सोपानवीथिकायमानतरङ्गपरंपरा- म्, शंकर विशकुटजट ( पटलघटितसुधा कर चिर सहवासव- शादिव नितान्तशीतल मधुरतोयाम्, शिशिरपवनवलन- दोधूयमान कमलवन डोला विहार सुखित कलहंस मालिका- मू, भगवती भागीरथीमपि समुत्तीर्य, शृङ्गबेरपुरं गतः, संनिकृष्टतया स्फुटतरपरिदृश्यमान समुत्तुङ्ग गोपुर सौधव- ङ्गाम्, सुरासुरैरप्ययोध्यामयोध्याम्, निध्यायन्नेव तां प्रविश्य, दुर्निरोधशोकवेग संतप्यमानमानसः सारथिमि दमुदीरयामास । सारथे पश्य पश्य या किल पुरा नगरी नवनवमनुदिनमपि विरचितमहोत्सवो- त्साहनिर्भर पौरजनगरीयसी सेवेयमधुना निरानन्दजना न मनागपि मम नयनानन्दमादधाति । तथा हि यत्र विचित्रमाल्यत्रसनभूषणाः तरुणाः घणघणरवमुखरमणि- मयकिंकिणीगणालंकृत स्कन्धाभिरूढनिपुणाधोरणाः मद- वारणाश्च विलासमन्थरमचरन् अधुना तत्र दिवसेध्यपि निशास्त्रिव निबिड बिडालपङ्कयः निर्भयमुलूकलोका च
अयोध्याकाण्डः ।
BE
संचरन्ति । हन्त किमिवोऽधिक कष्टतरं यदियं रघुपति- विरहजनितघन तरखेदपरिदूयमानजना दुर्निग्रहामहोदग्रम- हाग्रहगृहीता रोहिणीव शोचनीयरूपाणि दग्वसमय समुद- यदुर्कमयूख संपर्क परिक्कथितमितजलान्तरान्सनिलीयमान- मीनझषा कृशिता गिरिनदीव खेदद्दा यिनी हविः प्रक्षेपण- क्षणपरिक्षीणच्छविः अध्वरसमिद्धहुताशन शिखेव परिग- लितप्रभः समरदुर्मदरिपुनृपतिवीरविदलितपलायितपति- तरथगजहय भटविकीर्णकवचा भग्नचमूरिव विपत्तिमापन्ना याजकजननिर्वर्तितसुत्या वसानसमय प्रशान्तमन्त्रघोषा य- ज्ञभूमिरिव विलीनकोलाहला पुरी पुरेव न परिदृश्यते । अपि च समदवृषभविरहविधुरां धेनुमिव दुरन्तचिन्तासमाक्रान्तां दिनकरकरनिकरमतिकररुचि- निचयरुचिरमणिगणरहितां हारलतामिव प्रभाविकलां स्वकृत सुकृतक्षरणक्षणक्षण पतन विशीर्ण सौभाग्यान्तरा- मिव संप्राप्तदीनदशाम्, अकाण्डचण्डानिलदोधूयमान- दावानलशिखा कलापले लिह्यमान कुसुम समुद्रतमधुकराम्, वासन्तिकलतामिव परिम्लानरूपां रघुवरविवासनसमुज्जृ- म्भितशोकाम्भोनिधिकृनमज्जन वणिग्जन संक्षिप्त विपणा-
Na
धर्माते
पणतया निविडसमावृतधाराधरावळी विलीनतारागणां निशीथिनीनभस्थतीमिव निष्प्रकाशां निरादरपौरजना- समीकृतनिकोभत भूमिभागतया निदाघविगम समयशि पिलितां पानीयशालिकामिव परिष्कारहीनामिमामि- क्ष्वाकुकुलराजधानीमवेक्ष्य तूर्णमेव यद्म मे विदीर्ण मनः तन्नूनमायामेव । अपि च इयं हि सा राजधानी दशरथरामलक्ष्मण वियोग नितान्त संतप्तलोका स्वप्रियविप्रवासजनितखेदपर्याकुला कुलपालिकेव विठो- क्यते । अपि च विश्वित्रा विधातुरधरोत्तरीकरण चातुरीधु- रणता यदद्य तत्तादृशीष्वेव राजवीथीषु विळीनमिव वादित्र निःस्वनैर्वित्रस्तमिव वेदशास्त्रघोषैः अस्तमितमिव मांसमधगन्धैः प्रशान्तमिव चन्दनागरुगन्धवायैः प्रण- टमिव प्रकृष्टचतुरङ्गबल गर्जितैः प्रतारितमिव मङ्गलसंगी- तनिनदैः पलायितमिव महोत्सवैः प्रसुप्तभित्र पिहितक- वाटनिकेतनैः प्रस्थितमिव तरुणजन विलासयात्राभिः सर्वथा संमूढेव बधिरेव मूकेव न विराजते इति बहुविधं
पन् समद्रदपदमिदमवादीत् ।
Fअयोध्याकाण्डः ।
कदा नु खलु मे भ्राता महोत्सव स्वागतः । जनयिष्यत्ययोध्यायां हर्षे ग्रीष्म इवाम्बुदः ॥
तरुणैश्चारुवेषैश्च नरैरुन्नतगामिभिः ।
संपतद्भिरयोध्यायां न विभान्ति महापथाः ॥
K
इति समुद्र वाष्पनिःस्पन्दितलोचनो भरतः महाराज- निवेशनमेवाविवेश ॥
पश्चदशोत्तरशततमे-
ततो निक्षिप्य मानूः स अयोध्यायां दृढव्रतः । भरतः शोकसंतप्तो गुरुनिदमथाब्रवीत् ॥
नन्दिग्रामं गमिष्यामि सर्वानामन्त्रयेऽथ वः । तत्र दुःखमिदं सर्वे सहिष्ये राघवं विना ॥
गतश्च हि दिवं राजा वनस्थश्च गुरुर्मम । रामं प्रतीक्ष्ये राज्याय स हि राजा महायशाः ॥
इत्यादिवचनमत्यादरभरितमाकर्ण्य सहामात्यैः बलिष्ठ- मुखैः पुरोहितैरपि साधु साध्विति सश्लाघमभ्यनुज्ञातः शिरसि विनिहितरामपादुको भरतः सारथिसमानीयं
धर्माकूते
रथमारुह्य पुरस्कृत गुरुजनः तत्क्षणमनाहूत समागतैः सक- लसैनिकैरखिलैरपि पौरजनः सममभिगम्य नन्दिग्राम- मवतीर्य रथोत्तमात् अशेषजनहितवानिदमभिहितवान् ।
‘पतद्राज्यं मम भ्रात्रा दत्तं संन्यासवत्स्वयम् ।
योगक्षेमव चेमे पादुके हेमभूषिते ॥
भ्रात्रा हि मयि संन्यासो निक्षिप्तः सौहृदादयम् । तमिमं पालयिष्यामि राघवागमनं प्रति ।
क्षिप्रं संयोजयित्वा तु राघवस्य पुनः स्वयम् । चरणौ तौ तु रामस्य द्रक्ष्यामि सहपादुकौ ॥ ततो निक्षिप्तभारोऽहं राघवेण समागतः । निवेद्य गुरवे राज्यं भजिष्ये गुरुवृत्तिताम् ॥ राघवाय च संन्यासं दत्वेमे वरपादुके । राज्यं चेदमयोध्यां च धूतपापो भवामि च ॥
अभिषिक्ते तु काकुत्स्थे प्रहृष्टमुदिते जने । प्रीतिर्मम यशश्चैव भवेद्राज्याच्चतुर्गुणम् ॥ '
इति ॥
भयोध्याकाण्डः ।
७.
अथ विधृतजटावल्कलतया मुनिजनसमानवेषो भरतः भ्रातृसौहृदातिशयेन समुष्यमाणबिरुदावलीपीठे भद्र- पीठे-
पादुके स्वाभिषिच्याथ नन्दिग्रामेऽवसन्तदा । सवालव्यजनं छत्रं धारयामास स स्वयम् । भरतः शासनं सर्वे पादुकाभ्यां न्यवेदयत् ॥
यदा हि यत्कार्यमुपैति किंचि- दुपायनं चोपहृतं महाईम् । ल पादुकाभ्यां प्रथमं निवेद्य
चकार पश्चाद्भरतो यथावत् ॥
ननु पूर्वोक्तवचनैः रामभद्रदत्तपादुका पुरस्कारेण भरतो राज्यं कृतवानित्यवगम्यते । तत्र किं पादुकाप्रदाता रामो राजा अथ वा तद्दते पादुके अथ वा भरतः उत न को-
ऽपीति ; नाद्य,
भरतो भजतामद्य यौवराज्यमकण्टकम् ।
इति कैकेयीप्रार्थितस्वतन्त्रराज्य निर्वहणाभावेन पितुर सत्य-
[[७०२]]
धर्माकूते
प्रतिज्ञत्वं स्यात् । न च परिवेतृतादोषः अभ्यनुज्ञापूर्वक- त्याद्धिश्रमातृप्रसूतत्वाच । अभ्यनुज्ञातभिन्नमातृप्रसूततः दोषाभावः पराशरेणोक्तः ‘न्येष्ठो भ्राता यदा तिष्ठेदाधानं नैव चाश्रयेत् । अनुज्ञातस्तु कुर्वीत शङ्खस्य वचनं यथा ॥ पितृव्यपुत्रान्सापत्नान्या नारी तु सुतांस्तथा । दाराभि होत्रसंयोगे न दोषः परिवेदनः’ इति । न च पादुकाभि- षेकवैय्यर्थ्यम्, शास्त्रतः परिवेत्तृत्वदोषाभावेऽपि पामराणां ज्येष्ठे सति कनिष्ठेन भरतेन राज्यं कृतमिति स्वस्मिन्प- रिवेन्तृत्वशङ्का स्यात् तद्वारा रामोऽपि कृतश्रीपरिग्रह इति पामराणामपि स्वपरिवेत्तृशङ्का न भवेत् । न द्वितीयः, अचेतनायाः पादुकायाः दुष्ट निग्रह शिष्टपरिपालनात्मकचे- तनकार्याधिकारासंभवात् । न तृतीयः, ‘दाराग्निहोत्र- राज्यानि यः कुर्यादप्रजे स्थिते । परिवेत्ता स विज्ञेयः परिवित्तिस्तु पूर्वजः । स हि प्रथमजस्तस्मिन्नकृतश्रीप- रिप्रहे । परिवेत्तारमात्मानं मेने स्वीकरणाद्भुवः’ इति स्मृतिवचनकालिदासवचनाभ्यां परिवेत्तृदोषापत्तेः । तथा भरतस्य स्वातन्त्र्येण राज्यकर्तृत्वे
अयोध्याकाण्डः ।
पादुके त्वभिषिच्याथ नन्दिग्रामेऽवसन्तदा ॥
100%
[[३]]
इत्यादिवचनावगतपादुका पट्टाभिषेक बालव्यजनधारण- राज्यतन्त्र निवेदनादिकमप्यनुपपश्नं स्यात् । न तुरीयः, तथा सति राज्यस्य अराजकत्वापत्या ‘नाराजके जनपदे विद्युन्माली महास्वनः । अभिवर्षति पर्जन्यो मही दि- व्येन वारिणा ॥’ इत्यादीनामराजकराज्यधर्माणां प्रवृत्ति- प्रसङ्गादिति चेत् उच्यते - भरत एव स्वतन्त्रो राजा,
नन्दिग्रामेऽकरोद्राज्यं भरतो मन्त्रिभिः सह ।
इत्यादिवचनेन राज्यकरणप्रतीतेः । किं च,
पूजिता मामिका माता दत्तं राज्यमिदं मम । तद्ददामि पुनस्तुभ्यं यथा त्वमददा मम ॥
इति वचनेन भरतकर्तृकराम संप्रदानकराज्यप्रदानाव-
गमाथ । अन्यथा
भरतो भजतामद्य यौवराज्यमकण्टकम्
धर्माकूते
इति कैकेयीप्रार्थितवरनिर्वाहाभावेन पितुरसत्यप्रति- शत्वं स्यात् । रामश्वतुर्दश संवत्सरानन्तरं निःशङ्कमागत्य राज्यं यथाङ्गीकुर्यात् ।
एवं कनीयसा भ्रात्रा भुक्तं राज्यं विशांपते । भ्राता ज्येष्ठो वरिष्ठश्च किमर्थ नावमंस्यते ।
इति कौसल्यावचनागत कनिष्ठोपभुक्तराज्यप्रतिषेधो यथा न भवेत् यथा च कुल क्रमागत ज्येष्ठ युवराज्याभिषेक- रूपधर्मातिक्रमो न भवेत् लोकापवादश्च यथा न स्यात् इत्येतदभिप्रायकत्वात् । तस्माद्भरत एव राजा । अत एव,
स काममनवाप्यैव रामपादावुपस्पृशन् । नन्दिग्रामेऽकरोद्राज्यं रामागमनकाङ्क्षया ॥ इति वचनमपि संगच्छते ॥
षोडशोत्तरशततमे
तदनन्तरमनधिगतमनोरथे भ
रते निजराजधानीमविगते निरतिशयतपः प्रबन्धनिर्धूत- कलुषैः महर्षिभिः सह तपोवने निवसन् श्रीरामभद्रः तत्र चित्रकूटाश्रमेषु साशङ्कं स्वमालोक्य भ्रुकुटिरचन-
अयोध्याकाण्डः ।
[[७०५]]
नयनवलन कर झुली प्रदर्शनपुरःसरं किमपि किमपि शनैः शनैः कर्णपुटेषु मिथः कथयतां तपोधनानां तेषा- मौत्सुक्यमा लक्ष्य रामः स्वात्मनि शङ्कितः
कृताञ्जलिरुवाचेदमृर्षि कुलपति तदा ।
भगवमिदमृषिमण्डलमकाण्ड एव किंचिदपि अनावि- ष्कृतवचनमप्रकाशितानिदानं केवलमन्योन्यमेव रहः क- ‘नैः सावस्थिमुखवर्णैश्च नितान्तमाकुलमिव विलोक्य- ते, तद्ब्रवीतु भवान् प्रमादवशेन किं मया किंचिदतिका- न्यं किमुत लक्ष्मणेन महर्षिजनेषु निजाभिजनाननुरूपं किंचिदाचरितं किं नु वा मुनिजनशुश्रूषमाणेषु विदेहन- न्दिन्या किंचिदयुक्तमेव कर्म निर्वर्तितम् तद्भगवानौत्सु- क्यमूलकथनेन परिहरतु महतीं ममाशङ्कामिति प्रखाद-
यामास ।
अथर्षिर्जरया वृद्धस्तपसा च जरागतः । वेपमान इवोवाच रामं भूतदयापरम् ॥
धर्माकूते
वत्स रामचन्द्र त्रिलोकी विदितनयायाः जनकतन- यायाः ब्राह्मणेषु, विशिष्य तपोधनेषु परमस्मासु कुतो भवेदपकारलेश संभावना, परं तु वयं त्वनिमित्तमेव समु- त्सुकाः स्मः यदव विलसितत्रिभुवनः जनस्थानकृताव- स्थानः तापसरुधिरपारणपरायणो दशवदनानुजः खरो नाम नीचरजनीचरपतिस्त्वदागमनमारभ्य त्वद्दर्शनजनित- संभ्रमः स्वानुचरानिशाचरानादिश्य तापस्राश्रमेषु क. चिदाकस्मिकभीषणभाषणैः क्वचन विकटभ्रुकुटीरचनैः कचिदपि देवयजनभूमिषु रुधिरवर्षैः दुःसहतरैरितरैरु- पद्रवशतैरस्मानतीव परिबाधते । तदधुना तापसैः सह बहुमूलफलोदकमध्युषितचरमन्यमाश्रममाश्रयिष्ये यदि त वापि सममस्माभिरागमने मनः तदा सजानकीलक्ष्मणः सत्वरं प्रतिष्ठस्व सर्वथा समर्थस्यापि तव सकलत्रस्य न समुचितोऽत्र वने निवासः इत्यभिधाय कुलपतौ प्रस्थिते रघुपतिरपि मुनिजनविरहजनितखेदः स्वमाश्रमं समा-
श्रयत ॥
सप्तदशोत्तरशतवमाष्टादशोत्तरशततमयोः- तदनु राघवोऽपि प्रस्थितेषु तपोधनेषु दुरन्तचिन्तासमा-
अयोध्याकाण्डः ।
मान्यः भरत सैनिकस्कन्धावारनिवेशनैः तत्र तत्र पवि- तबिपुल गजवाजिकरी पराशिभिः कृतोपमर्दोऽयमाश्रमः भ्रात्रादिनिजेष्टजनसमागमस्थलदर्शनेन मुहुरपि शोचतो मम चैव स्मृतिरन्येति । तदधुना नायमाश्रमो वासयोग्य इति विचिन्तयन् जानकीलक्ष्मणसहितों महामुनेराश्र- ममाससाद ॥
सोऽनेराश्रममासाद्य तं ववन्दे महायशाः । तं चापि भगवानविः पातवत्प्रत्यपद्यत ॥
अथ भगवानत्रिमुनिः चिराय समागतस्य रामभद्रस्य ससंभ्रममर्घ्यपाद्य कन्दमूलफलोपहारेण सादरमातिथ्यवि- चिमभिनिर्वर्त्य कठोर तपश्चरणपरिशोषितदेहा अनितरस- वीजनसाधारण सौशील्यभूषितां अनसूयां प्रणमेति सीता भिचोदयन् रामाय तचरिताद्भुतानि स्वयं शशंस । अनया किल दशवर्षाण्यवर्षवशाद्दह्यमानेषु लोकेषु दयाविधेयह- दयया दुश्वरतपश्चरणमहिना विनिर्मितैः स्वादुतरमूलफ लैरहाय प्रवर्तितया जहुसुतया च चिरं सुखितः कृतोऽ- खिलो लोकः । किं च दशसहस्र वर्ष पर्यन्तमनुपम नियम-
[[७०८]]
धर्माकूते
नियमित प्रत्यूहमत्युग्रं
तपश्चरन्त्या त्रिदशकार्यनिमित्तं
दशरात्रं प्रवर्तिता रात्रिरेव ।
तामिमां सर्वभूतानां नमस्कार्यो तपस्विनीम् । अभिगच्छतु वैदेही वृद्धामक्रोधनां सदा ॥
इति । तस्य मुनेर्वचनमाकर्ण्य निखिललोकपावनच- रितामनुपमतपोराशिमयी मन्वर्थनामधेयामनसूयामभिग- च्छेति भर्तृवदनारविन्दविनिर्गलितं वचनमकरन्दमादरेण कर्णाञ्जलिपुटेन पिबन्ती मिथिलाधिराजतनया विगलि- तभूतरिवर्षितया शिथिलित कलावयवां जराघवलिमूर्ध- जां महाभागामनसूयां निजनामधेयकथनपूर्वक्रमभिप्रण- म्य बद्धाञ्जलिपुटा विनयेन सर्वत्र कुशलमप्राक्षीत् ।
ततः सीतां महाभागां दृष्ट्रा तां धर्मचारिणीम् । सान्त्वयन्त्यब्रवीद्धृष्टा दिष्ट्या धर्ममवेक्ष्य से ॥ त्यक्त्वा शातिजनं सीते मानवृद्धि च भामिनि । अवरुद्धं वने रामं दिष्ट्या त्वमनुवर्तसे ॥ नगरस्थो वनस्थो वा पापो वा यदि वा शुभः । यालां स्त्रीणां प्रियो भर्ता तासां लोका महोदयाः ॥अयोध्याकाण्डः ।
दुःशीलः कामवृतो वा धनैर्वापि विवर्जितः । स्त्रीणामार्यस्वभावानां परमं दैवतं पतिः ॥
नातो विशिष्टं पश्यामि बान्धवं विमृशन्त्यहम् । सर्वत्र योग्यं वैदेही तपः कृतमिवाव्ययम् ॥
न त्वेवमवगच्छन्ति गुणदोषमसत्त्रियः । कामवक्तव्यहृदया भर्तृनाथाश्चरन्ति याः ॥
प्राशुवन्त्ययशश्चैव धर्मभ्रंशं च मैथिलि । अकार्यवशमापन्नाः स्त्रियो याः खलु तद्विधाः ॥ त्वद्विधास्तु गुणैर्युक्ता दृष्टलोकपरावराः । खियः स्वर्गे चरिष्यन्ति यथा धर्मकृतस्तथा ॥
तदेवमेनं त्वमनुव्रता सती
पतिव्रतानां समयानुवर्तिनी । भवस्व भर्तुः सहधर्मचारिणी
यशश्च धर्मे च ततः समाप्स्यसि ॥
.
""
इदं तु पतिव्रतामाहात्म्यं प्रागेव प्रपन्चितम् । इत्थम- खिलखतीजनललामभूतया तयानसूयया सानुरागमभि-
H
हिता या मुसी सही स्वयमपि ता
मिदं वक्तुमुपाक्रमत-
[[25]]
नैतदाश्चर्यमार्याया यन्मां त्वमभिभाषसे । विदितं तु मयाप्येतद्यथा नार्याः पतिर्गुरुः ॥
यद्यप्येष भवेद्भर्ता ममायें व्रतवर्जितः । अद्वैधमुपवर्तव्यस्तथाप्येष यथा भवेत् ॥
Cy
I
किं पुनर्यो गुणश्लाघ्यः सानुक्रोशो जितेन्द्रियः । स्थिरानुरागो धर्मात्मा मातृवर्ती पितृप्रियः ॥
यां वृत्तिं वर्तते रामः कौसल्यायां महाबलः । तामेव नृपनारीणामन्यासामपि वर्तते ॥
सकदृष्टास्वपि स्त्रीषु नृपेण नृपवत्सलः । मातृवद्वर्तते वीरो मानमुत्सृज्य धर्मवित् ॥
तत्तादृशकल्याणगुणगणाभरणस्य पत्युर्नित्यमपि च-
अयोध्याकाण्डः ।
[[७१३]]
रणशुश्रूषणादृते किमुत्तमरामं तपः । पुरा हि जनकखदने पाणिग्रहणसमये सतीजनन्यायवेदिन्या जनन्या सम्य- गनुशिष्टास्मि कुलपरंपरागतमपि राज्यमुत्सृज्य पितृव- चनेन दण्डकारण्यगमनोन्मुख पतिमेवानुव्रजन्ती कौस- ल्ययापि सादरमुपदिष्टास्मि तदखिलमधुना निजदुहि- तृजनहितोपदेशनिर्विशेषैः भगवतीवचनैर्मम नवीकृत - मिति वदन्त्यै जनकनन्दिन्यै निरुपमनिजतपोबलार्जि- तम् अङ्गरागवसनभूषणादिकमनसूया प्रतिपादयामास ॥
प्रतिगृह्य च तत्सीता प्रीतिदानमनुत्तमम् । लिष्टाञ्जलिपुटा धीरा समुपास्त तपोधनाम् ॥
,
;
तदनु तथा सकलभुवनविनुतया ‘जानकी तव स्वयं- वरकथानिशमने जनितादमिव मे मनः । तत्कथय यथानुभूतमुदन्तमानुपूर्व्येण इति प्रचोदिता सीता वक्तुमारभत । अस्ति समस्त सामन्त राजचक्रमकुटमणि- मरीचिमण्डलाक्रान्तपादपीठः, संतत निगमान्तसिद्धा- न्तविचारचातुरीधुरीणः, ब्रह्मर्षिसमचरितो राजर्षिर्ज- नको नाम ।
D. Pt vi-10
[[७१२]]
धर्माकूते
तस्य लाङ्गलहस्तस्य कृषतः क्षेत्रमण्डलम् । अहं किलोत्थिता भिवा जगतीं नृपतेः सुता ॥
स मां दृष्ट्वा नरपतिर्मुष्टिविक्षेपतत्परः । पांसुकुण्ठितसर्वाङ्गीं जनको विस्मितोऽभवत् ॥
अत्र यद्यपि कृषिगोरक्षवाणिज्यं वैश्यं कर्म स्वभावज- मिति गीतास्थवचनपर्यालोचनया कर्षणं वैश्यधर्मः क्षत्रि- यस्य न धर्मः तथापि महाग्निचयनप्रकरणे षङ्गवेन कृषति द्वादशगवेन कृषतीति विधिसिद्धमग्निक्षेत्रकर्षणम् । अ मिक्षेत्रकर्षणं कर्माङ्गभूतं ब्राह्मणक्षत्रिययोरपि संभवतीति तैत्तिरीयश्रुतिः । अत एव मुष्टिविक्षेपतत्पर इति प्रति- पादितम् । मुष्टिविकरणमपि या जाता ओषधय इति चतुर्दशभिर्वपतीति विधिसिद्धग्राम्यारण्यौषधिमुष्टिविक्षे- घपरमिति न दोषः । तदनु हृद्रतवहलरजःपुञ्ज पिश्वरि- तावयवां मामवलोक्य विस्मयपरवशहृदयः निरपत्य- तथा नित्यमपि संतप्यमानो नरपतिः निजपर्यकुमधिरोप्य मां राजन्नियं तवैव धर्मतस्तनयेति नितान्तमन्तरिक्षगि- रापि सन्दानितानन्दः, निजावरोधभवनमासाद्य पुत्री
अयोध्याकाण्डः ।
[[१३]]
तवेषमागतेति
ज्यायस्यै प्रेयस्यै समर्पयामास ।
अथ वया मम जनन्या दुहितृस्नेह निबद्धहृदयतका वैसे- नैवोपलालन विशेषैः परिगलितशैशवायां मयि किचिदिव समुदतियौवनायां जनको मदीयरूपानुरूपवरवर मप- श्यन् नक्तंदिवमपि चेत्र विद्यमानः कंचिदुपायं चिन्त- यामास । अस्ति यदिदं मदीयभवने समस्तसुरासुर स्तुत- बारम्, अशेषभूमिपालैर संभावितठोलनम्, शांभवधनु- स्तदेतदुद्यम्य सम्यगवानपालेषु यः सज्यीकरिष्यति तदलं- क्रियेयं मदीयपुत्रेति प्रतिज्ञाय समावर्जितेषु मभ्यमलोक- पालेषु विलोक्य विन्ध्यमन्दरसमानसारं धनुर्वरमभि- वाद्य यथागतेषु न कोऽपि मौर्वासमारोपणपारीणो बभूव । तदनु बहोः काला जनकयज्ञदिदृक्षया समागतेन कौ- शिकमुनिना सह समागतः सलक्ष्मणो रामो मुनिवचन- मुदितजनक दर्शितं कार्मुकं सविलासमेव सज्यीचकार । अथ निवान्तसंतुष्टेन जनकेन
लाअन
दीयमानां न तु तवा प्रतिजग्राह राघवः । भविज्ञाय पितुश्च्छन्दमयोध्याधिपतेः प्रभोः ॥
[[७१४]]
धर्माकृते
भत्र जीवति पितरि तदाज्ञां विना न किमपि कर्त- व्यमित्युक्तोऽर्थः प्राक्प्रपचितः । ततः किल तरक्षणप्र- हितदूतवच नाकर्णनसमुदीर्ण पूर्णहर्षेण वसिष्ठादिभिः सह सत्वरमानीतेन दशरथेन समुज्जृम्भिते. विवाहसंरम्भे प्रहृष्टचेतसा
मम पित्रा त्वहं दत्ता रामाय विदितात्मने । मम चैवानुजा साध्वी ऊर्मिला प्रियदर्शना ॥
भार्यार्थे लक्ष्मणस्यापि पित्रा दत्ता मम स्वयम् । एवं द्रत्तास्मि रामाय तदा तस्मिन्स्वयंवरे ॥
इति यथातथमखिलमपि स्वयंवरवृत्तमनस्यायै नि- वेदयामास ॥
एकोनविंशत्यधिकशततमे – तदनु जनकनन्दिनीव- चनाभिनन्दिता भगवत्यनसूया परिष्वन्य बाहुभ्यामाघ्राय च मूर्धनि । सादरं भुवि भगवानरविन्दबान्धवः चरमा- चलशिखरं परिष्कुरुते ।
अयोध्याकाण्डः ।
GEE
संप्रवृत्ता निशा सीते नक्षत्र समलंकृता । ज्योत्स्ना प्रावरणश्चन्द्रो दृश्यतेऽभ्युदितेऽम्बरे ॥
गम्यतामनुजानामि रामस्यानुचरी भव ।
अनेन पत्न्या रात्रौ भर्तृसमीप एव शयनं कर्तव्य- मिति सूचितम् । तथा च तच्छेषो बोधायनः - ‘तस्याः सह पत्या पूर्वराक्षा उपसंवेशनम् अर्धरात्रादधः शयनम् आ ब्रह्ममुहूर्तात् । अथोपोत्थाय नित्यान्यारभते’ इति । भर्तुः समीपशयनाकरणेन दोषमाह मनुः - ‘पानं दुर्ज- नसंसर्गः पत्या च विरहोsटनम् । स्वप्नोऽन्वगेहवासश्च ना- रीणां दूषणानि षट् ॥’ इति । अस्यार्थः पानं मद्यादेः दुर्ज- नसंसर्गः परदारिक संभाषणादि पत्या च विरहः पतिश- यनदेशादन्यत्र शयनम् अटनम् परगृहादौ स्वतः अकाले अन्यगेहवासः स्फुटः इति । तदनुजानामि गम्यतां रघुवर परिसरमङ्गरागादिभिरलंकुरु तवाङ्गयष्टिमिति सीता- मुवाच । सीताप्यनसूयावचनेन दिव्याङ्गरागव सनभूषणा- दिभिरलंकृत निजतनुलता पुनरपि तामभिप्रणम्य रामा- न्तिकमागत्य सर्वमपि वृतं निवेदयामास । रामोऽपि
[[१६]]
धर्माते
तपस्विनीदत्तमुत्तमं प्रीतिदानमवलोक्य लक्ष्मणेन सह सहृष्टमनास्तदाश्रम एव तां निशां विगमय्य प्रभातायां निशीयिन्यां कृतपूर्वाह्निकः हुताग्निहोत्रान्मुनीन् गमना- यामन्त्रयामास । ततः प्रस्थितौ रामलक्ष्मणौ संवीक्ष्य
तावूचुस्ते वनचरास्तापसा धर्मचारिणः । रक्षांसि पुरुषादीनि नानारूपाणि राघव ॥
वसन्त्यस्मिन्महारण्ये व्यालाश्च रुधिराशनाः । उच्छिष्टं वा प्रमत्तं वा तापलं धर्मचारिणम् ॥
अदन्त्यस्मिन्महारण्ये तान्निवारय राघव ।
अत्रोच्छिष्टादिनिमित्ते सति पुरुषं रक्षांसि प्रधर्षय- न्तीति उक्तम् । तथा चानुशासनिके प्रमथान्प्रति देव- वचनम् - भवन्तो वै महाभागा अपरोक्ष निशाचराः । उच्छिष्टानशुचीन्नुद्रान् कथं हिंसथ मानवान् । श्रोतु- मिच्छामि युष्माकं सर्वमेतन्निशाचराः । प्रमथा ऊचुः - मैथुने सदोच्छिष्टाः कृते चैवाधरोत्तरे । मोहान्मांसानि
अयोध्याकाण्डः ।
[[१७]]
खादेत वृक्षमूले च यः स्वपेत् ॥ आमिषं शीर्षतो यश्व पाइतो यश्च सविंशेत् । एते उच्छिष्टकाः सर्वे
बहु च्छि- द्राश्व मानवाः ॥ उदके चाप्यमेध्यानि श्लेष्माणं च प्रमु- वति । एते भक्ष्याश्च वध्याश्च मानुषा नात्र संशयः । एवंशील समाचारान् धर्षयामो हि मानवान्’ इति । अतः पुरुषेणाशुचिना न भवितव्यमिति सिद्धम । तथा चापस्तम्ब : - ’ शक्तिविषयेन मुहूर्तमप्यप्रयतः स्यात्’ ।
इतीव तैः प्राञ्जलिभिस्तपस्विभिः
द्विजैः कृतस्वस्त्ययनः परंतपः । वनं सभार्यः प्रविवेश राघवः
सलक्ष्मणः सूर्य इवाभ्रमण्डलम् ॥
"
ये aafaaivaraयो ये वेदवेद्ये परे
पुंसि ब्रह्मणि मैथिलीसहचरे भक्का रघूणां वरे । ये वा कौतुकिनो रघुकथाशैली समाकर्णने
ये वा मर्मविदस्त एतदुररीकुर्वन्तु तैस्तैर्गुणैः ॥
D
धर्माकृते
प्रतिदिनमपि श्रीयज्ञेशप्रसादमुपेयुषा
गुरुवरकृपाधान्ना श्रीमस्त्रियम्बकयज्वना । महति रचितेऽयोध्याकाण्डे द्वितीय इहर्षिणा
प्रकटितमिदं धर्माकूतं यथामति गृह्यताम् ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये
चतुर्विंशतिसहस्रिकायां संहितायाम्
अयोध्याकाण्डः समाप्तः ॥