DHARMAKUTAM
YOL. II.
AYODHYAKANDA
PART I.
BY
TRYAMBAKARAYA MAKHI.
SRIRANGAM :
SRI VANI VILAS PRESS.
[[1924]]
Copyright Registered.
॥ श्रीः ॥
॥ धर्माकृतम् ॥
तञ्जानगराधीशस्य कोजिमहाराजस्य मन्त्रिणो गङ्गाधरा- व्aरिणः पुत्रेण शहजिशरभोजिमहीपालयोरमात्येन त्र्यकराय मखिना
विरचितम्
२. अयोध्याकाण्डः
( प्रथमो भागः । )
छन
श्रीरङ्गम्
श्रीवाणीविलासमुद्रायन्त्रालयः ।
॥ श्रीः ॥
॥ धर्माकूतम् ॥
अयोध्याकाण्डः ॥
अथ श्रीरामचरितवर्णनमुखेन धर्मनिरूपणाय प्रवृत्तो भगवान्वाल्मीकिः, भगवतो दाशरथेरवतरणप्रभृतिदार- परिग्रहपर्यन्त चरितवर्णन मुखेन धर्मान्प्रतिपाद्य तदनन्त- रचरितवर्णनमुखेन धर्मान्प्रतिपादयितुम योध्याकाण्डमार- न्धवान् । तत्र प्रथमे सर्गे-
गच्छता मातुलकुलं भरतेन तदानवः । शत्रुघ्नो नित्यशत्रुघ्नो नीतः प्रीतिपुरस्कृतः ॥
एवं प्रीतिपुरस्कृतेन शत्रुन्नेन सह मातुलकुलं गतो भरतः मातुलेनाश्वपतिना तत्तत्समयोचिताभीष्टप्रदानादिना पुत्राधिकस्नेहेन लालितस्तत्रैव सुखमुवास । श्रीरामो-
VOL. II. D 1
धर्माकूते
ऽपि प्रीतिविषयेषु चतुर्ष्वपि पुत्रेषु, स्वयंभूरिव गुणव- त्तरः उदीर्णरावणवधायावतीर्णः, परिचर्यादिना पितु- रत्यन्तं प्रीतिकरो बभूव ॥
स हि रूपोपपन्नश्च वीर्यवाननसूयकः । भूमाषनुपमः सूनुर्गुणैर्दशरथोपमः ॥
स तु नित्यं प्रशान्तात्मा मृदुपूर्व च भाषते । उच्यमानोऽपि परुषं नोत्तरं प्रतिपद्यते ॥
कथंचिदुपकारेण कृतेनैकेन तुष्यति । न स्मरत्यपकाराणां शतमप्यात्मवत्तया ॥
शीलवृद्धैर्वयोवृद्धैर्ज्ञानवृद्धैश्च सज्जनैः । कथयन्नास्त वै नित्यमस्त्रयोग्यान्तरेष्वपि ॥
बुद्धिमान्मराभाषी पूर्वभाषी प्रियंवदः । वीर्यवान्न तु वीर्येण महता स्वेन विस्मितः ।-
न चानृतकथो विद्वान्वृद्धानां प्रतिपूजकः । अनुरक्तः प्रजाभिश्च प्रजाश्चाप्यनुरञ्जते ॥
अयोध्याकाण्डः ।
सानुक्रोशो जितक्रोधो ब्राह्मणप्रतिपूजकः । दीनानुकम्पी धर्मात्मा नित्यं प्रग्रहवाञ्शुचिः ॥
कुलोचितमतिः क्षात्रं धर्म स्व बहु मन्यते । मन्यते परया कीर्त्या महत्स्वर्गफलं ततः ॥
नाश्रेयसि रतो विद्वान्न विरुद्धकथारुचिः । उत्तरोत्तरयुक्तौ तु वक्ता वाचस्पतिर्यथा ॥
अरोगस्तरुणो वाग्मी वपुष्मान्देशकालवित् । लोके पुरुषसारज्ञः साधुरेको विनिर्मितः ॥
स तु श्रेष्ठैर्गुणैर्युक्तः प्रजानां पार्थिवात्मजः । बहिश्वर इव प्राणो बभूव गुणतः प्रियः ॥
॥
सम्यग्विद्याव्रतस्नातो यथावत्साङ्गवेदवित् । इष्वत्रे च पितुः श्रेष्ठो बभूव भरताग्रजः ॥
कल्याणाभिजनः साधुरदीनः सत्यवागृजुः । वृद्धैरभिविनीतश्च द्विजैर्धर्मार्थदर्शिभिः ॥
धर्माकूते
धर्मकामार्थतत्त्वज्ञः स्मृतिमान्प्रतिभानवान् aitha समयाचारे कृतकल्पो विशारदः ॥
अप्रधृष्यश्च संग्रामे क्रुद्धैरपि सुरासुरैः ।
।
निभृतः संवृताकारो गुप्तमन्त्रः सहायवान् ॥
अमोघक्रोधहर्षश्च त्यागसंयमकालवित् । हृढभक्तिः स्थिरप्रनो नासग्राही न दुर्वचाः ॥
निस्तन्दिरप्रमत्तश्च स्वदोष परदोषविर । शास्त्रश्शश्च कृतज्ञश्च पुरुषान्तरकोविदः ॥
यः प्रभानुधायोर्यथान्यायं विचक्षणः । सत्संग्रहप्रग्रहणे स्थानविनिग्रहस्य च ॥
आयकर्मण्युपायज्ञः संदृष्टव्यय कर्मवि । श्रेष्ठ्यं शास्त्रसमूहेषु प्राप्तो व्यामिश्रकेषु च ॥
अर्थधर्मौ च संगृह्य सुखतभ्वो न चालसः । वैहारिकाणां शिल्पानां विज्ञातार्थविभागवित् ॥
अयोध्याकाण्डः ।
आरोहे विनये चैव युक्तो वारणवाजिनाम् । धनुर्वेदविदां श्रेष्ठो लोकेऽतिरथसंमतः ॥ अभियाता प्रहर्ता च सेनान्यविशारदः । अनसूयो जितक्रोधो न दृप्तो न च मत्सरी ॥
न चावमन्ता भूतानां न च कालवशानुगः । एवं श्रेष्ठगुणैर्युक्तः प्रजानां पार्थिवात्मजः ॥ संमतस्त्रिषु लोकेषु वसुधायाः क्षमागुणैः । बुद्ध्या बृहस्पतेस्तुल्यो वीर्येणापि शचीपतेः ॥ तथा सर्वप्रजाकान्तैः प्रीतिसंजननैः पितुः । गुणैर्विरुरुचे रामो दीप्तः सूर्य इवांशुभिः ॥
तमेवं वृत्तसंपन्नमप्रधृष्यपराक्रमम् । लोकपालोपमं नाथमकामयत मेदिनी ॥
अत्र ऐवंगुणाढ्यस्यैव मेदिनीमनोविषयत्वप्रतिपादनेन एतादृश एव महीपतिः कर्तव्य इति सूचितम् । तथा च याज्ञवल्क्यः — ‘महोत्साहः स्थूललक्षः कृतज्ञो
धर्माकूते
वृद्धसेवकः । विनीतः सत्त्वसंपन्नः कुलीनः सत्त्ववाञ्शुचिः ॥ अदीर्घसूत्रो द्युतिमान्न क्षुद्रोऽपरुषस्तथा । धार्मिकोऽव्यस- नचैव प्राज्ञः शूरो रहस्यवित् ॥ स्वरन्ध्रगोप्तान्वीक्षिक्यां दण्डनीत्यां तथैव च । विनीतस्त्वथ वार्त्तायां कार्यश्चैव नराधिपः ’ इति । राजधर्मेऽपि - ‘कुलीनं शिक्षितं प्रानं ज्ञानविज्ञानपारगम् । सर्वशास्त्रार्थतत्त्वज्ञं सहिष्णु सहजं तथा ॥ कृतज्ञं बलवन्तं च क्षान्तं दान्तं जितेन्द्रियम् । अलुब्धं लब्धसंतुष्टं स्वामिमित्रबुभूष- कम् ॥ सचिवं देशकालज्ञं सत्त्रसंग्रहणे रतम् । सततं युक्तमनसं हितैषिणमतन्द्रितम् ॥ युक्ताचारं स्वविषये संधिविग्रहकोविदम् । राज्ञस्त्रिवर्गवेत्तारं पौरजानपद- प्रियम् ॥ खातकं व्यूहतत्त्वज्ञं बलहर्षणकोविदम् । इङ्गि- ताकारतत्वज्ञं पात्रापात्रविशारदम् ॥ हस्त्यश्वशिक्षात- त्त्वज्ञमहंकारविवर्जितम् । प्रगल्भं दक्षिणं दान्तं बलिनं युक्तिकारिणम् ॥ शुद्धं चौक्षसमाकीर्ण सुवेषं सुखदर्श- नम् । नायकं नीतिकुशलं गुणचेष्टासमन्वितम् ॥ अस्तब्धं प्रसृतं ऋक्ष्णं मृदुवादिनमेव च । धीरं ऋणं
अयोध्याकाण्डः ।
महधिं च देशकालोपपादकम् ॥ सचिवं यः प्रकुरुते न चैनमवमन्यते । तस्य विस्तीर्यते राष्ट्र ज्योत्स्ना ग्रहपते- रिव ॥ एतैरेव गुणैर्युक्तो राजा शास्त्रविशारदः । एष्टव्यो धर्मपरमः प्रजापालनतत्परः ॥ धीरोऽमर्षः शुचिस्तीक्ष्णः काले पुरुषकारवित् । शुश्रूषुः श्रुतवान् श्रोताप्यूहापोह - विशारदः । मेधावी धारणायुक्तो यथायुक्तोपपादकः । दान्तः सदा प्रियाभाषी क्षमावांश्व विपर्यये ॥ दानच्छेदे स्वयंकारी साध्वाचारः सुदर्शनः । आर्तहस्तप्रदो नित्यमा- सामात्यो नये रतः । नाहंवादी न निर्द्वन्द्वो न यत्किंचन- कारकः । कृते कर्मण्यमात्यानां कर्ता भृत्यजनप्रियः ॥ संगृ- हीतजनः स्तब्धः प्रसन्नवदनः सदा । सदा भृत्यजनावेक्षी अक्रोधी सुमहामनाः ॥ युक्तदण्डो न निर्दण्डो धर्मकार्यानु- शासकः । चारनेवः परावेक्षी धर्मार्थकुशलः सदा ॥ राजा गुणशताकीर्ण एष्टव्यस्तादृशो भवेत्’ इति । एवं धर्मप्रधानेषु स्मृतीतिहासपुराणेषूक्तगुणविशिष्टो राजैव एष्टव्य इत्युक्तम् । अर्थप्रधाने कामन्दकीये नीतिशास्त्रे- Sपि एते गुणा आवश्यकत्वेनोक्ताः - ‘कुलं सत्यं वयः
धर्माकूते
शीलं दाक्षिण्यं क्षिप्रकारिता । दैवसंपन्नता बुद्धिरक्षुद्रप- रिवारिता । शक्यसामन्तता चैव तथा च दृढभक्तिता । दीर्घदर्शित्वमुत्साहः शुचिता स्थूललक्षता । विनीत - ता धार्मिकता गुणाः साध्वाभिगामिकाः । वाग्मी प्रग- ल्भः स्मृतिमानुदयो बलवान्वशी ॥ नेता दण्डस्य नि- पुणः कृतविद्यः सुविग्रहः । पराभियोगप्रसहो दृष्ट सर्व- प्रतिक्रियः ॥ परच्छिद्रान्ववेक्षी च संधिविग्रहतत्त्ववित् । गूढमन्त्रप्रचार देशकालविभागवित् । आदाता सम्य- गर्थानां विनियोक्ता च पात्रवित् । क्रोध लोभभयद्रोह- स्तम्भचापवर्जितः ॥ परोपतापपैशुन्यमात्सर्येयनृता- तिगः । वृद्धोपदेश संपन्नः शुक्को मधुरदर्शनः ॥ गुणा- नुरागी स्मितवागात्मसंपत्प्रकीर्तिता । इत्यादिगुणसंपन्ने लोकयात्रा विदुः स्थिरा ॥ निर्वृतः पितरो वास्ते यत्र लोकः स पार्थिव’ इति । एते राजगुणाः श्रीराम एव तिष्ठन्ति नेतरत्र । अत एव सर्वोत्कृष्टे दशरथे धर्मतो राज्यं पुत्रवत्परिपालयितरि सत्यपि जनानां स्वत एव रामेऽभिलाषो बभूव । अयं चार्थो द्वितीयसर्गेअयोध्याकाण्डः ।
पौरवाक्यैः स्पष्टः । अत्र स हि रूपोपपन्नश्चेत्यारभ्य, अकामयत मेदिनीत्यन्तेन, श्रीरामभद्रस्य गुणाः साक- ल्येन प्रतिपादिताः । संस्कारास्तु सम्यग्विद्याव्रतस्नात इत्यादिना स्नानान्ताः कतिपया एव चचनप्रतिपादिताः । नन्वत्र ’ अग्निष्टोमादिभिर्यज्ञैरिष्टवानाप्तदक्षिणः’ इत्यादि युद्धकाण्डस्थ सीतावचनम् । तथापि तेषां राज्यपरिपाल~- नानुपयोगादिति चेत् तर्हि स्नानान्तानां संस्काराणां वा कथमुपयोग इति चेत्, स्नानान्तैः संस्कारैरसंस्कृतस्य रा- ज्यानर्हत्वात् आश्रमधर्मेष्वधिकाराभावाच्च सर्वत्र स्नानान्त- संस्कारा उपयुक्ता इति स्नानान्ता एव संस्काराः प्रतिपादि- ताः । स्नानान्तसंस्काराणां सर्वत्रोपयोगच आपस्तम्बाचार्यै- रुक्तः ‘सर्वेषामुपनयनप्रभृत्याचार्यकुले वासः सर्वेषामनुत्स-
विद्यायाः, बुद्धा कर्मणि यत्कामयेत तदारभेत ’ इति । अस्यार्थ :- सर्वाश्रमिणामुपनयनप्रभृत्याचार्यकुले वासः स- मानः । यतः सर्वाश्रमाणां विद्याया अपरित्यागोऽपेक्षितः । अतच आचार्यकुलाद्विद्यामधीत्य कर्माणि स्वरूपतः फल - - तोऽधिकारतच विविच्य बुद्धा स्वस्वशक्त्यानुष्ठेया इति ।
[[१०]]
धर्माकूते
‘एतदभिप्रायेणैव नैव स्नानान्तर संस्कारमात्रप्रतिपादनमत्र भगवता वाल्मीकिना कृतम् । गुणास्तु सर्वेऽपि राज्यपरि- पालनेऽपेक्षिता इति साकल्येन प्रतिपादिताः । न केवल- मैहिकराज्यपरिपालनार्था एव गुणाः संस्काराश्च, अपि तु, आमुष्मिक ब्रह्मलोकादिसाधका अपि भवन्ति । तथा च गौतम : - ‘गर्भाधानपुंसवनसीमन्तोन्नयनजातकर्म- नामकरणान्नप्राशनचौलोपनयनम्, चत्वारि वेदव्रतानि स्नानं सहधर्मचारिणीसंयोगः पश्वानां यज्ञानामनुष्टानं देवपितृमनुष्य भूतब्रह्मणामेतेषां चाष्टका पार्वणश्राद्धश्राव- प्याग्रहायणीचैत्र्याश्वयुजीति सप्तपाकयज्ञसंस्थाः अग्न्या- श्रेयमग्निहोत्रं दर्शपूर्णमासावाप्रयणम् चातुर्मास्यानि नि- रूढपशुबन्धः सौतामणीति सप्तहविर्यज्ञसंस्थाः अग्निष्टो- मोत्यग्निष्टोम उक्त्यः षोढशी वाजपेयोऽतिरात्रोऽप्तोर्याम इति सप्तसोमसंस्था इत्येते चत्वारिंशत्संस्काराः । अथा- ष्ट्रावात्मगुणाः - दया सर्वभूतेषु क्षान्तिरनसूया शौच- मनायासो मङ्गलमकार्पण्यमस्पृहेति । यस्यैते चत्वारिंशत्सं-
S
स्कारा न चाष्टावात्मगुणा न स ब्रह्मणः सालोक्यं च
अयोध्याकाण्डः ।
[[११]]
गच्छति । यस्य तु खलु चत्वारिंशत्संस्काराणामेकदे- शोऽपि अष्टावात्मगुणाः अथ स ब्रह्मणः सायुज्यं सालोक्यं च गच्छति’ इति । गौतमसूत्रस्यायमभिप्रायः- यस्य चत्वारिंशत्संस्कारा अष्टावात्मगुणास्तस्य ब्रह्मलो- कावाप्तिरनुक्तसिद्धैव । यस्य चत्वारिंशत्संस्कारा न चाष्टावात्मगुणा न तस्य ब्रह्मलोकावाप्तिः । चत्वारिं- शति संस्कारेषु गृहस्थ स्वाधिकारी । यस्त्वेतेषां साकल्येनानुष्ठानेऽशक्तः तस्य ब्रह्मचारिवानप्रस्थयतीनां च स्वस्वाश्रमविहितानां यथाशक्त्यवश्यानुष्ठानेऽपि दया- द्यात्मगुणानां साकल्येन सत्त्वे ब्रह्मणः सायुज्यं सा- लोक्यं च गच्छतीति । ननु आचार्यैः संस्काराणामे- कदेशोऽपीत्युक्तम्, शक्त्या सर्वेऽपि संस्काराः कर्त- व्या इति कथमुक्तमिति चेत्तत्र स्नानान्तसंस्काराणां सर्वाश्रमाधिकार संपादकत्वात् तेष्वेकदेशानुष्ठानेनाश्रमधर्मे- विकाराभावात्ते सर्वे अवश्यमनुष्ठेया एव । आश्रमप- रिग्रहोत्तरं तत्तदाश्रमे विहितसंस्काराणां मध्ये शक्यानां परित्यागे प्रत्यवायो भवति । तथा चाथर्वणी श्रुतिः-
[[१२]]
धर्माकूते
‘यस्याग्निहोत्रमदर्शम पौर्णमासमनाग्रयणमतिथिवर्जितं च अहुतमवैश्वदेवमविधिना हुतमा सप्तमांस्तस्य लोकान्हिन- स्ति’ इति । बोधायनोऽपि ‘यस्य नित्यानि लुप्तानि तथै- वागन्तुकानि च । विपथस्थो न हि स्वर्गे गच्छेत्तु पतितो हि सः’ इति । अतः स्वस्वाश्रमविहित संस्कारापरित्यागे- नावश्यानुष्ठेया इति शक्य सर्वानुष्ठानमेव सूत्रस्यैकदेश- शब्दार्थ इति न विरोधः । तथा च मनुः– ‘अधीत्य विधिवद्वेदान्पुत्रानुत्पाद्य धर्मतः । इष्ट्रा च शक्तितो यज्ञैर्मनो मोक्ष निवेशयेत्’ । अत्र सूत्रे पूर्वोक्तगुणमध्ये दयादीनां केषांचिदेव गुणानां कथनं सर्वाश्रमसाधार- क्या इत्यभिप्रायेण । तथा च विष्णुपुराणे - ‘दया’ समस्तभूतेषु तितिक्षा नातिमानिता । सत्यं शौचम- नायासो मङ्गलं प्रियवादिता ॥ मैत्री तथास्पृहा तद्वदकार्पण्यं नरेश्वर । अनसूया च सामान्या वर्णानां कथिता गुणाः ॥ आश्रमाणां तु सर्वेषामेते सामा- न्यलक्षणा’ इति । विशेषतस्तु राज्यपरिपालने संहि रूपोपन्नश्चेत्यादिना उक्ता अपि गुणाः अपेक्षणीया
अयोध्याकाण्डः ।
[[१३]]
इत्युक्तं नीतिशास्त्रे । एवं चोक्तप्रकारेण ऐहिकराज्यपरि- ‘पालनामुष्मिक ब्रह्मलोकावाप्त्योः आवश्यकसकलगुणा- नामवश्यिक स्नानान्तसंस्काराणां च प्रतिपादनं युक्त- मेव । ननु एवंगुणाढ्यत्वभिदानीं किमिति प्रतिपाद्यते, उत्पत्त्यनन्तरमेव एवंगुणाढ्य इति वक्तुं शक्यत्वादिति चेन्न, तदानीं सत्संग्रह प्रग्रहणसज्जन प्रतिपूजकत्वादिगुणानां - वक्तुमशक्यत्वात् । यद्यपि रूपोपपन्नत्वप्रशान्तात्मत्वादि- सहजगुणास्तदानीमपि वक्तुं शक्याः तथापि तेषां
गुणा- नां तस्मिन्कालेऽनुपयोगात्, एवमपि ब्रह्मचर्यसमये शा- न्त्यादिगुणानां संभवत्युपयोगः तथापि केषांचिदेवोप- योगो न सर्वेषां गृहस्थस्य तु सर्वगुणोपयोगो वर्तत इत्य- भिप्रायेण दानपरिग्रहसमनन्तरमेव सर्वे गुणाः प्रति- पादिताः । अत एव ’ आचार्यकुलाद्वेदमधीत्य यथाविधानं गुरोः कर्मातिशेषेणाभिसमावृत्य, कुटुम्बे शुचौ देशे स्वाध्यायमधीयानो धार्मिकान्विदधदात्मनि सर्वेन्द्रिक संप्रतिष्ठाप्य अहिंसन्सर्वभूतान्यन्यत्र तीर्थेभ्यः स खल्वेवं वर्तयन्यावदायुषं ब्रह्मलोकमभिसंपद्यते न च पुनरावर्तते
धर्माकूते
न च पुनरावर्तते’ इति च्छान्दोग्ये गृहस्थेनैवोपसंहारदर्श- नान तुरीयाश्रम इत्याशङ्कायां भगवान्बादरायणः – " कृत्स्नभावान्तु गृहिणोपसंहारः’ इति सूत्रेण ब्रह्मचा- रिणामुक्तसत्यवचनादेः : गृहस्थाश्रमोक्ताग्निहोत्रादिकर्मणां वानप्रस्थतुरीयाश्रमयोरुक्तशान्त्यादीनामपि कृत्स्नशः गृ- हस्थे संभवात् गृहस्थेनोपसंहारः न तुरीयाश्रमाभावादि- ति प्रतिपादितवान् । तस्मात्सर्वेऽपि गुणाः दारपरिग्रहा- नन्तरमेव स्वरूपत उपयोगतश्च सुलभा इति । उपपन्नमेवे- दानीं गुणवर्णनम् । ततो वृद्धो दशरथः सकलकल्याण- गुणालंकृतं श्रीरामं मन्त्रिभिः सह युवराजं निश्चित्य, पौरजानपदसंपूर्ण सभां प्रविवेश । द्वितीये – ततो धर्मतो राज्यपरिपालनेन परिश्रान्तोऽहं राममेव युवराजं कर्तुमिच्छामि ॥
यद्यप्येषा मम प्रीतिर्हितमन्यद्विचिन्त्यताम् । अन्या मध्यस्थचिन्ता तु विमर्दाभ्यधिकोदया ॥ इति वदन्तं राजानं पौरजानपदाः सानन्दमभिनन्द्य
अयोध्याकाण्डः ।
रामं हि युवराजानमभिषिञ्चस्व धार्मिकम् । इच्छामो हि महाबाहुं रघुवीरं महाबलम् । गजेन महता यान्तं रामं छत्रावृताननम् ॥
इत्यवोचन् । ततो राजा पौरजानपदाभिप्रायं जान- पि तन्मुखेन द्रढयितुमजानान इव धर्मतो राज्यं प्रशा- अति मयि किमिति राममेव युवराजमिच्छथ इत्यपृच्छत् ।
ते तमूचुर्महात्मानं पौरजानपदैः सह । बहवो नृप कल्याणा गुणाः पुत्रस्य सन्ति ते ॥
गुणान्गुणवतो देव देवकल्पस्य धीमतः । प्रियानानन्दनान्कृत्स्नान्प्रवक्ष्यामोऽथ ताञ्शृणु ॥
दिव्यैर्गुणैः शक्रसमो रामः सत्यपराक्रमः । इक्ष्वाकुभ्योऽपि सर्वेभ्यो ह्यतिरिक्तो विशांपते ।
रामः सत्पुरुषो लोके सत्यधर्मपरायणः । साक्षाद्रामाद्विनिर्वृत्तो धर्मश्चापि श्रिया सह ॥
[[१६]]
धर्माकृते
प्रजासुखत्वे चन्द्रस्य वसुधायाः क्षमा गुणैः । बुद्ध्या बृहस्पतेस्तुल्यो वीर्ये साक्षाच्छचीपतेः ॥
धर्मज्ञः सत्यसंधश्च शीलवाननसूयकः । क्षान्तः सान्त्वयिता शक्यः कृतशो विजितेन्द्रियः ॥
।
मृदुश्व स्थिरचित्तश्च सदा भव्योऽनसूयकः । प्रियवादी च भूतानां सत्यवादी च राघवः ॥
बहुश्रुतानां वृद्धानां ब्राह्मणानामुपासिता ।
तेनाहातुला कीर्त्तिर्यशस्तेजश्च वर्धते ॥
देवासुरमनुष्याणां सर्वास्त्रेषु विशारदः । सम्यग्विद्याव्रतखातो यथावत्साङ्गवेदवित् ॥
गान्धर्वे च विभुः श्रेष्ठो बभूव भरताग्रजः । यदा व्रजति संग्रामं ग्रामार्थे नगरस्य वा ॥
गत्वा सौमित्रिसहितो नाविजित्य निवर्तते । संग्राम गुनरागम्य कुञ्जरेण रथेन वा ॥
अयोध्याकाण्डः ।
पौरान्स्वजनवन्नित्यं कुशलं परिपृच्छति । पुत्रेष्वग्निषु दारेषु प्रेष्यशिष्यगणेषु च ॥
[[१७]]
निखिलेनानुपूर्व्याच्च पिता पुत्रानिवौरसान् । शुश्रूषन्ते च वः शिष्याः कश्चित्कर्मसु दंशिताः ॥
इति नः पुरुषव्याघ्रः सदा रामोऽभिभाषते । व्यसनेषु मनुष्याणां भृशं भवति दुःखितः ॥
उत्सवेषु च सर्वेषु पितेव परितुष्यति । सम्यग्योक्ता श्रेयसां च न विगर्ह्यकथारुचिः ॥
प्रजापालनसंयुक्तो न रागोपहतेन्द्रियः । शक्यस्त्रैलोक्यमप्येष भोक्तुं किं नु महीमिमाम् ॥
नास्य क्रोधः प्रसादश्च निरर्थोऽस्ति कथंचन । हत्येष नियमाद्वध्यान्यद्येष खलु कुप्यति । युनक्त्यथैः प्रहृष्टश्च तस्मै यत्र स तुष्यति ॥
VOL. II. D 2
[[१८]]
च,
धर्माकूते
इत्येवंविधैः कल्याणगुणैरनुरक्तानस्मानकरोत् । अपि
आशंसते जनः सर्वो राष्ट्रे पुरवरे तथा । आभ्यन्तरश्च बाह्यश्च पौरजानपदो जनः ॥
स्त्रियो वृद्धास्तरुण्यश्च सायं प्रातः समाहिताः । सर्वान्देवान्नमस्यन्ति रामस्यार्थे यशस्विनः ॥
राममिन्दीवरश्यामं सर्वशत्रुनिबर्हणम् । पश्यामो यौवराज्यस्थं तव राजोत्तमात्मजम् ॥
तं देवदेवोपममात्मजं ते
सर्वस्य लोकस्य हिते निविष्टम् । हिताय नः क्षिप्रमुदारजुष्टं
मुदाभिषेक्तुं वरद त्वमर्हसि ॥
इति सकललोकहितकर श्रीरामाभिषेकरूपमेव वरं प्रा- र्थयामासुः । अनेन सर्गेण सर्वप्रजाभ्यनुज्ञयैव अभि- षितो राजा । श्रेयान्भवतीति सूचितम् । तथा चअयोध्याकाण्डः ।
[[1]]
भारते आदिपर्वणि प्रकृतीः प्रति ययातिवचनम् ‘भवतोऽनुनयाम्येवं पूरू राज्येऽभिषिच्यताम्’ । प्रकृतय ऊचुः - ’ यः पुत्रो गुणसंपन्नो मातापित्रोर्हितः सदा । सर्वमर्हति कल्याणं कनीयानपि सत्तमः ॥ अर्हः पूरुरिदं राज्यं यः सुतः प्रियकृत्तव’ इति । तत्रैव स्थलान्तरेऽपि धमपुत्रमुद्दिश्य प्रकृतिवचनम् – ‘गुणैः समुदितान्दृष्ट्वा पौराः पाण्डुसुतास्तथा । कथयांचक्रिरे तेषां गुणा- न्संसत्सु भारत ॥ राज्यप्राप्तिं च संप्राप्तं ज्येष्ठं पाण्डु- सुतं तदा । कथयन्ति स्म संभूय चत्वरेषु सभासु च ॥ ते वयं पाण्डवं ज्येष्ठं तरुणं वृद्धशीलिनम् । अभिषिश्वाम साध्वय सप्तकारुण्यवेदिनम् । तत्रैव च दुर्योधनं प्रति धृतराष्ट्रवचनम् — ‘गुणवाऍलोकविख्यातः पौराणां च सुसंमतः । कथं स शक्यतेऽस्माभिरपाकर्तुं बलादितः । ते पुरा सत्कृतास्तात पाण्डुना नागरा जनाः । कथं युधिष्ठिरस्यार्थे न नो हन्युः सबान्धवान्’ इति ॥ तृतीये- ततो राज्ञा प्रजाभिप्रायमवलोक्य,
अभिषेकाय रामस्य यत्कर्म सपरिच्छदम् ।
[[२०]]
धर्माकूते
तदद्य भगवान्सर्वमाज्ञापयितुमर्हसि ॥
इति समुदीरितो वसिष्ठः-
सुवर्णादीनि रत्नानि बलीन्सर्वोषधीरपि । शुक्लमाल्यानि लाजांश्च पृथक मधुसर्पिषी ॥ अहतानि च वासांसि रथं सर्वायुधान्यपि । चतुरङ्गबलं चैव गजं च शुभलक्षणम् ॥
चामरे व्यजने शुभ्रे ध्वजं छत्रं च पाण्डरम् । हिरण्यशृङ्गं वृषभं समग्रं व्याघ्रचर्म च ॥
शतं च शातकुम्भानां कुम्भानामग्निवर्चसाम्। उपस्थापयत प्रातरग्न्यगारं महीपतेः ॥ यदन्यत्किंचिदेष्टव्यं तत्सर्वमुपकल्प्यताम् । अन्तःपुरस्य द्वाराणि सर्वस्य नगरस्य च ॥
चन्दनस्रग्भिरर्यन्तां धूपैश्च प्राणहारिभिः । प्रशस्तमनं विधिवद्दधिक्षीरोपसेचनम् ॥
अयोध्याकाण्डः ।
द्विजानां शतसाहस्रे यत्प्रकाममलं भवेत् । सत्कृत्य द्विजमुख्यानां श्वः प्रभाते प्रदीयताम् ॥
[[1]]
[[૨]]
घृतं दधि च लाजांश्च दक्षिणाश्चापि पुष्कलाः । सूर्येऽभ्युदितमात्रे च भविता स्वस्तिवाचनम् ॥
ब्राह्मणाश्च निमन्त्र्यन्तां कल्प्यन्तामासनानि च । आबध्यन्तां पताकाश्च राजमार्गश्च सिच्यताम् ॥
सर्वे च तालावचरा गणिकाश्च स्वलंकृताः । कक्ष्यां तृतीयामासाद्य तिष्ठन्तु नृपवेश्मनः ॥
देवायतनचैत्येषु सान्नभक्षाः सदक्षिणाः । उपस्थापयितव्याः स्युर्माल्ययोग्याः पृथक्पृथक् ॥
दीर्घालिबद्धयोधाश्च संनद्धा मृष्टवाससः । महाराजाङ्गणं सर्वे प्रविशन्तु महोदयम् ॥
इत्येवं समादिश्य राजकीयान्यथानिदेशं सुविहित- मेति निवेदयामास । अनेन सुवर्णादीनि रत्नानीत्यादि
[[२२]]
धर्माकूते
प्रविशन्तु महोदय मित्यन्तेन सर्वौषधिरत्नादीनां राजा- भिषेके सामग्रीत्वमुक्तं भवति । यथा च सामविधान- ब्राह्मणे- ‘राजानमभिषेचयेत्तिष्येन श्रवणेन वा । श्री- हियवैस्तिलमाषैर्दधिमधुसुम नो जातरूपैर्यशस्विनीभ्यो न- दीभ्यः समुद्राचोदकान्याहृत्योदुम्बरे भद्रासने वैयाघ्रे चर्म- प्युत्तरलोम्न्यासीनं जीवन्तीनां गवां शृङ्गकोशैरभिषि- वेत् । अभ्रातृव्य इति रहस्येन यं कामयेतैकराजः स्यान्नास्य चक्रं प्रतिहन्येतैकवृषेणाभिषिश्चेत् । अभि- षेत्रे दद्याद्वामवरं दासीशतं सहस्रं तदधीनश्च भवेत् ’ इति । ततश्च राजनियुक्तेन सुमन्त्रेण समानीतो राम- भद्रः स्वावलोकनमात्रेण समुदितानन्दसंदोहमांसलं दश- रथमवलोक्य
स प्राञ्जलिरभिप्रेत्य प्रणतः पितुरन्तिके । नाम स्वं श्रावयन् रामो ववन्दे चरणौ पितुः ॥
अनेन बद्धाञ्जलिपुटः सन्नुपसृत्य स्वनाम संकीर्त्य गुर्वा- द्यभिवादनं कुर्यात् इति सूचितम् । तथा च गौतम :-
अयोध्याकाण्डः ।
[[२३]]
" स्वं नाम प्रोच्या महमित्यभिवादः’ इति । मनुरपि — ‘अभिवादात्परं विप्रो ज्यायान्समभिवादयन् । असौ ना- माहमस्मीति स्वनाम परिकीर्तयेत् ॥ भोःशब्द कीर्तये- दन्ते स्वस्वनाम्नोऽभिवादने’ नम इति अभिवादये इति शब्दमुच्चार्य पञ्चानामाहं भोः इति ब्रूयादित्यर्थः । प्रत्य- भिवादनानभिज्ञस्य नाभिवादनं कर्तव्यमित्याह मनुः - ‘यो न वेत्यभिवादस्य विप्रः प्रत्यभिवादनम् । नाभिवाद्यः स विदुषा यथा शूद्रस्तथैव सः’ इति । प्रत्यभिवादनप्र- कारोऽपि मनुना दर्शितः — ‘आयुष्मान्भव सौम्येति वा- च्यो विप्रोऽभिवादने । अकारश्वास्य नाम्नोऽन्ते वाच्यः पूर्वाक्षरप्लुतः’ इति । यस्तु जानन्नपि प्रत्यभिवादं न करोति, तस्य दोषमाह स एव - ‘अभिवादे कृते यस्तु न करोत्यभिवादनम् । आशिषं वा कुरुश्रेष्ठ स याति नरकान्बहून्’ इति । यमोऽपि —’ अभिवादे तु यः पूर्व- माशिषं न प्रयच्छति । यद्दुष्कृतं भवेत्तस्य स तस्याचं प्रपद्यते ॥ तस्मात्पूर्वाभिभाषी स्याच्चण्डालस्यापि धर्म- वित् । सुरां पिवेति वक्तव्यमेवं धर्मो न हीयते’ इति ।
[[२४]]
धर्माकूते
ब्राह्मणादिषु कर्तव्यपूर्वाभिभाषणे विशेषमाह मनुः - ‘ब्राह्म णं कुशलं पृच्छेत्क्षत्रबन्धुमनामयम् । वैश्यं क्षेमं समा- गम्य शूद्रमारोग्यमेव च’ इति । आपस्तम्बस्तु — ’ कुश- लमवरवयसं वयस्यं वा पृच्छेत्’ ‘अनामयं क्षत्रियम् ’ ‘अनष्टं वैश्यम् ’ ’ आरोग्यं शूद्रम्’ इति । चतुर्णामपि वर्णानां पूर्वभाषणे विशेषमाह यमः - ‘स्वस्तीति ब्राह्म- णो ब्रूयादायुष्मानिति भूमिपः । वर्धतामिति वैश्यस्तु शूद्रस्तु स्वागतं वदेत्’ इति । स्त्रियं प्रति पूर्वभाषणे विशेषमाह मनुः – ’ परपत्नी तु या स्त्री स्यादसंबद्धा तु योनितः । तां ब्रूयाद्भवतीत्येव सुभगे भगिनीति च इति । अभिवादने तु वनाहापस्तम्बः - ‘न सो- पानद्वेष्टितशिरा अवहितपाणिर्वाभिवादयीत’ इति । स एवाह - ’ अप्रयतेन नाभिवाद्यम्’ इति । शङ्खोऽपि - ‘नोदकुम्भहस्तोऽभिवादयेद्वैक्षं चरत्रक्तपुष्पान्नहस्तो ना- शुचिर्न जपन्न शयानः’ इति । अभिवाद्येषु वर्ज्यानाह आपस्तम्बः - ’ विषमगतायागुरवे नाभिवाद्यम्, प्रयताय ’ इति । तथान्यत्रापि स एव – ‘समित्पुष्पकुशा-
तथा-
अयोध्याकाण्डः ।
[[1]]
[[२५]]
ज्यार्घ्यमृदन्नाक्षतपाणिकः । जपं होमं च कुर्वाणो नाभि- वाद्यास्तथा द्विजाः । पाषण्डं पतितं त्रात्यं महापातकिन शठम् । नास्तिकं चाकृतनं च नाभिवादेत्कथंचन ॥ धावन्तं च प्रमत्तं च मूत्रोचारकृतं तथा । भुञ्जानमातुरं मार्गे नाभिवादेद्दिजोत्तमः ॥ वमन्तं जृम्भमाणस्य कुर्व- न्तं दन्तधावनम् । अभ्यक्तशिरसं चैव स्नास्यन्तं नाभि- वादयेत् ॥ स्रक्पाणिकमनाज्ञातमशक्तं रिपुमातुरम् । यो- गिनं च तपःसक्तं कनिष्ठं नाभिवादयेत्’ । शातातपो- ऽपि – ’ उदक्यां सूतिकां नारीं भर्तृनीं गर्भघातिनीम् । अभिवाद्य द्विजो मोहादहोरात्रेण शुध्यति’ । इदं चाभि- वादनं ज्यायस एव कर्तव्यम् । तथा च मनुः – ‘अभि- वादपरो विप्रो ज्यायांसमभिवादयेत्’ इति । तत्र कि- यत्ता ज्यायस्त्वमित्यत्र विशेषमाहापस्तम्ब :- दशवर्ष पौर- सख्यं पञ्चवर्षे तु चारणम् । त्रिवर्षपूर्वः श्रोत्रियः अभि-
। वादनमईति ’ इति । गौतमोऽपि - ‘दशवर्षवृद्धः पौरः पञ्चभिः कलाभरः श्रोत्रियस्त्रिभिः’ इति । मनु- रपि– ‘दशाब्दाख्यं पौरसख्यं पञ्चाब्दाख्यं कलाभृ
t
[[२६]]
धर्माकूते
ताम् । व्यब्दपूर्व श्रोत्रियाणां स्वल्पेनापि स्वयोनिषु’ इति । अस्यार्थः - समानपुरवासिनामश्रोत्रियाणां दशभिर्वर्षैः पूर्वः सखा भवति ततोऽधिको ज्यायान् । कलाभृतां गीतादि- विद्यावतां पञ्चाब्दपूर्वः सखा भवति ; ततोऽधिको ज्याया- न् । श्रोत्रियाणां वेदाध्यायिनां त्र्यब्दपूर्वः सखा भवति, त- तोऽधिको ज्यायान् । स्वयोनिषु भ्रात्रादिषु स्वल्पेनापि वय-
• सा पूर्वः सखा भवति ; ततोऽधिको ज्यायान् इति । स्त्रीणां ज्यायस्त्वे विशेषमाहापस्तम्बः — ’ पतिवयसः स्त्रियः’ इति । यवीयस्यपि पत्युर्वयसा ज्यायसी अभिवाद्या । अप्रयतो न प्रत्यभिवदेदित्याहापस्तम्बः — ‘अप्रयतश्च न प्रत्यभिवदेत्’ इति । नमस्कार्याणामपि श्वशुरमातुलादीनां यवीयस्त्वे वि- शेषमाह गौतम : – ’ ऋत्विक्श्वशुर पितृव्यमातुलानां तु यवी- यसां प्रत्युत्थानम् । अनभिवाद्या’ इति । बोधायनस्त्वाह– ऋत्विक्वशुरपितृव्यमातुलानां तु प्रत्युत्थानमभिभाष- णम्’ इति । आपस्तम्बोऽपि — ‘ऋत्विक्श्वशुरपितृव्यमा- तुलानवरवयसः प्रत्युत्थायाभिवदेत्’ इति । अत्र अभि- वादोऽभिभाषणम् ; एतश्चाभिवादनं सर्वैरपि ब्राह्मणानां
अयोध्याकाण्डः ।
।
[[4]]
कर्तव्यम् । तथा च शातातपः– ‘अभिवाद्यो नम-
। स्कार्यः शिरसा वन्द्य एव च । ब्राह्मणः क्षत्रियाद्यैस्तु श्रीकामैः सादरं सदा ॥ ववसाधिकोऽपि क्षत्रियो ब्राह्म- णेन नाभिवाद्य इत्याहापस्तम्बः – ‘दशवर्षस्तु ब्राह्मणः शतवर्षस्तु क्षत्रियः । पितापुत्रौ च तौ विद्धि तयोस्तु ब्राह्मणः पिता’ इति । शातातपोऽपि – ‘नाभिवाद्यास्तु विप्रेण क्षत्रियाद्याः कथंचन । ज्ञानकर्मगुणोपेता यद्य- प्येते बहुश्रुताः’ इति । प्रमादादनभिवाद्यानामभिवादने प्रायश्चित्तमाह देवलः – ‘अभिवाद्य द्विजः शूद्रं सचेलं स्नानमाचरेत् । ब्राह्मणानां शतं सम्यगभिवाद्य विशु- व्यति’ इति । सभासु नाभिवादनं किं तु नमस्कार एवे - त्याह विष्णुः - ’ सभासु चैव सर्वासु यज्ञे राजगृहेषु च । नमस्कारं प्रकुर्वीत ब्राह्मणान्नाभिवादयेत्’ इति । गुर्वाद्यभिवादने विशेषमाह गौतम :– ’ गुरोः पादोपसंग्र- हणं प्रातर्ब्रह्मानुवचनं च इति । आपस्तम्बोsपि - ‘उदिते त्वादित्ये आचार्याय समेत्योपसंग्रहणं सदैवा- भिवादनम् ’ इति । उपसंग्रहणप्रकारमाह मनुः - ‘व्य-
I
[[૨૮]]
धर्माकूते
I
त्यस्तपाणिना कार्यमुपसंग्रहणं गुरोः । सव्येन सव्यः स्पष्टव्यो दक्षिणेन तु दक्षिणः ’ इति । बोधायनोऽपि - ‘श्रोत्रे संस्पृश्य मनः समाधायाघस्ताज्जान्वोरा पद्धयाम् ’ इति उपसंग्रहणं कुर्यादिति शेषः । आपस्तम्बोऽपि - ‘दक्षि- णेन पाणिना दक्षिणं पाणिमधस्तादभ्यधिमृश्य सकुष्टि- कमुपसंगृह्णीयात् ’ ’ उभाभ्यामेवोभावभिपीडयत उप- संग्राह्यावित्येके ’ इति । एकहस्तेनाभिवादने दोषमाह विष्णुः - ‘जन्मप्रभृति यत्किञ्चेितसा धर्ममाचरेत् । सर्व तं निष्फलं याति एकहस्ताभिवादनात् ’ इति । उपसं- ग्रहणं गुर्वादिपत्नीनामपि कर्तव्यम् । तथा च मनुः—- ‘गुरुवत्प्रतिपूज्याः स्युः सवर्णा गुरुयोषितः । असवर्णास्तु संपूज्याः प्रत्युत्थानाभिभाषणैः’ इति । भ्रातृभार्यादिषु स- वर्णासूपसंग्रहणे विशेषमाह मनुः — ’ भ्रातृभार्योपसंग्राह्या सवर्णाहन्यहन्यपि । विप्रोष्य तूपसंग्राह्या ज्ञातिसंबन्धि- योषितः ’ इति । एवं सर्वासां गुरुभार्याणां प्राप्ते विशे- षमाह मनुः - ‘गुरुपत्नी तु युवतिर्नाभिवाद्येह पादयोः । पूर्णविंशतिवर्षेण गुणदोषौ विजानता ॥ अभ्यखनं
।अयोध्याकाण्डः ।
[[२९]]
स्नापनं च गातोद्वर्तनमेव च । गुरुपत्न्या न कार्याणि केशानां च प्रसाधनम्’ इति । गौतमोऽपि ‘नोच्छिष्टा- शनस्नापनप्रसाधनपादप्रक्षालनोन्मर्दनोपसंग्रहणानि विप्रो- ष्योपसंग्रहणं गुरुभार्याणां नैके युवतीनाम्’ इति । किं तर्हि तव कर्तव्यमिति अपेक्षायामाह मनुः - ‘कामं तु गुरुपत्नीनां युवतीनां युवा भुवि । विधिवद्वन्दनं कुर्या - दसाहमिति ब्रुवन् ॥ विप्रोष्य पादग्रहणमन्वहं चाभि- वादनम् । गुरुदारेषु कुर्वीत सतां धर्ममनुस्मरन्’ इति । अत्र यrपि गुरुपत्न्या युवत्याः भूमावेव वन्दनं कुर्या - दिति कथनात्, जनन्या अपि भूमावेव वन्दनं प्राप्नोति । तथापि अप्रे
पुत्रस्ते वरदः क्षिप्रमयोध्यां पुनरागतः । कराभ्यां मृदुपीनायां चरणौ पीडयिष्यति ।
इति कौसल्यां प्रति सुमित्रावचनपर्यालोचनया जनन्याः पादयोरेवाभिवादनमवगम्यते । भार्यया क्रियमाणे भर्तृ– नमस्कारे विशेषमाह गौतमः - ‘स्त्रीपुंयोगेऽभिवादतो.
[[1]]
[[३०]]
धर्माकूते
नियममेके’ इति । अस्यार्थ :- अभिवादने क्रियमाणे अभि- वादनीयनाम्ना अभिवादननियमो नास्ति किं तु तत्त- कालोपस्थितव्यवहारोपयुक्तयत्किचिन्नान्नाभिवादनं कर्त- व्यम्’ इति । एतादृशाभिवादनस्य फलमाह मनुः– ‘अभिवादनशीलस्य नित्यं वृद्धोपसेविनः । चत्वारि तस्य वर्धन्ते ह्यायुः प्रज्ञा यशो बलम्’ इति । आपस्त- म्बोsपि ’ स्वर्गमायुश्चेप्सन्’ इति स्वर्गायुषोः फलत्व- -माह । श्रीरामभद्रोऽपि एवमकरणे प्रत्यवायकरं करणे
अभ्युदयकरं नमस्कारं कृतवान् । ततः
।
तस्मै चाभ्युदितं दिव्यं मणिकाञ्चनभूषितम् । दिदेश राजा रुचिरं रामाय परमासनम् ॥
तदासनवरं प्राप्य व्यदीपयत राघवः । स्वयैव प्रभया मेरुमुदये विमलो रविः ।
अनेन गुर्वाद्यभ्यनुज्ञयैव तत्संनिधौ आसने उपवेष्ट- -व्यमिति सूचितम् । तथा च मनुः – ‘आस्यतामिति
चोक्तः सन्नासीताभिमुखो गुरोः’ इति ।
अयोध्याकाण्डः ।
तं पश्यमानो नृपतिस्तुतोष प्रियमात्मजम् । अलंकृतमिवात्मानमादर्शतलसंस्थितम् ॥
[[३१]]
अत्र पुत्रः पितुः प्रतिबिम्ब इत्युक्तं भविष्यति इति । तथा च शाकुन्तलोपाख्याने दुष्यन्तं प्रति शकुन्तलाव - चनम् ’ त्वदङ्गेभ्यः प्रसूतोऽयं पुरुषात्पुरुषोऽपरः । सरः- स्वाल आत्मानं द्वितीयं पश्य वै सुतम् । यथा ह्याहवनीयोऽग्निर्गार्हपत्यात्प्रणीयते । तथा त्वत्तः प्रसूतो-
यमेकः सद्विधा कृतः’ इति ।
स तं सस्मितमाभाष्य पुत्रं पुत्रवतां वरः । उवाचेदं वचो राजा देवेन्द्रमिव कश्यपः ॥
ज्येष्ठायामसि मे पत्त्यां सदृश्यां सदृशः सुतः । उत्पन्नस्त्वं गुणैः श्रेष्ठो मम रामात्मजः प्रियः ॥
अब ज्येष्ठायां पत्न्यां सदृश्यामिति विशेषणत्रयेण सुतो गुणाढ्य आत्मजः प्रिय इति विशेषणचतुष्टयेन च अज्येष्ठाजाताद्यपेक्षयापि ज्यैष्ठिनेयादीनां प्राबल्यमुक्तं भ-
[[૧]]
धर्माकूते
वति । तथा च ज्येष्ठभार्याजातस्य उद्धाराधिक्यकथनेन प्राबल्यमाविष्करोति मनुः - ‘पुत्रः कनिष्ठो ज्येष्ठायां कनिष्ठायां च पूर्वजः । कथं तत्र विभागः स्यादिति चेत्संशयो भवेत् । एकं वृषभमुद्धारं संहरेत स पूर्वजः । ततोऽपरे ज्येष्ठवृषास्तदूनानां स्वमातृतः ॥ ज्येष्ठस्तु जातो ज्येष्ठायां हरेद्वृषभषोडशाः । ततः स्वमातृतः शेषा भजेर- निति धारणा’ इति । गौतमोऽपि ‘वृषभोऽधिको ज्येष्ठस्य वृषभषोडशा ज्यैष्ठिनेयस्य’ इति । कनिष्ठायामुत्पन्नस्य ज्येष्ठस्य एको वृषभः, ज्यैष्ठिनेयस्य वृषभाधिकाः पञ्चदश गाव इत्यर्थः, कनिष्ठायामुत्पन्नस्त्र ऋषभोद्धारेण विना ज्येष्ठायामुत्पन्नयवीयसा समो भाग इति वदन् ज्येष्ठा- प्राबल्यमाविष्करोति गौतम एव - ’ समं वा अज्यैष्ठिने- येन यवीयसामिति, कनिष्ठायामुत्पन्नेन जन्मतो ज्येष्ठेन ज्येष्ठायामुत्पन्नानां यवीयसां समो भाग इत्यर्थः । प्रवा- सप्रकरणे त्रिकाण्डमण्ड नोऽपि - ‘ज्येष्ठा चेदग्निसंयुक्ता ह्यन्या गच्छेद्यथासुखम् । यजमानेन सहिता यद्वा ता एव केवलाः’ । तत्रैव स्थलान्तरे- ‘भार्याः सन्तीह याव-
।
अयोध्याकाण्डः ।
[[३३]]
त्यस्ताभिः सर्वाभिरन्वितः । यद्वाधानादुपव्यूढ कामपत्नी- विवर्जितः ॥ आधानानन्तरोढा सवर्णापि कामपत्नी- त्यर्थः इति । कात्यायनोऽपि - ‘प्रथमा धर्मपत्नी स्याद्दि- तीया रतिवर्धनी । दृष्टमेव फलं तत्र नादृष्टमुपपद्यते ’ इति । अत्र ज्येष्ठाप्राबल्यकथनात्चत्पुत्रस्य श्रेष्ठत्वमर्थसि - द्धम् । एवं ज्यैष्ठिनेयप्रावल्यमुक्तं पत्न्यामिति विशेषणाच । पत्नी पाणिगृहीती, तस्यामुत्पन्न एव प्रबल इति गम्यते । तथा चापस्तम्बः तस्यैव भागार्हत्वं धर्म्यत्वं चाह- ‘सवर्णा पूर्वशास्त्रविहितायां यथर्तु गच्छतः पुत्रांस्तेषां क- मेभिः संबन्धः ’ ’ दायेनाव्यतिक्रमचोभयोः’ इति ॥ स- वर्णा च अनन्यपूर्वा च शास्त्रोक्तविवाहसंस्कृता च या भार्या तखामुत्पन्न एव धम्र्यो रिक्थभाक्चेत्यर्थः । स एवापरिणीतायामुत्पन्नस्य दोषमप्याह - ‘पूर्ववत्वामसं- स्कृतायां वर्णान्तरे च मैथुने दोषः ’ ‘तत्रापि दोषवान्पुत्र एव’ अतिशयेन दोषवानित्यर्थः ॥ तथा च पत्न्यामुत्पन्नः प्रबलः । सदृभ्यामिति विशेषणेन सवर्णाजातः प्रबलः । तथा च बोधायनः - ‘द्वितीय आत्मा जीवता दृष्टव्यो यः
VOL. II. D 3
[[३४]]
धर्माकूते
पुत्रमुत्पादयति स तथा भवति तस्मान्नात्मा क्वचिदक्षेत्र समुत्स्रष्टव्यः आत्मानमेव मन्यते हि यो यथात्मानमु- त्पादयति स तथा भवति तस्मादादित एव क्षेत्रमन्त्रि- च्छेत् । सवर्णे संस्कृतमुपदेशेन तस्मिन्दारसंयोगे प्रजा- मुत्पादयेदौषधमन्त्रसंयोगेन ’ इति । भारतेऽपि - ’ एवं जा- तिषु सर्वासु सवर्णाः श्रेष्ठतां गताः । पत्युः शरीरशु- श्रूषां धर्मकार्य च नैत्यकम् ॥ स्वास्वैव कुर्यात्सर्वेषां ना- सजातिः कथंचन’ । कात्यायनोऽपि — ‘अग्निहोत्रादिशु- श्रूषां बहुभार्यः सवर्णया कारयेत्तद्बहुत्वे च ज्येष्ठया गर्हिता न चेत्’ इति । मनुरपि – ’ सवर्णा द्विजा- तीनां प्रशस्ता दारकर्मणि । कामतस्तु प्रवृत्तानामिमाः स्युः क्रमशो वराः’ इति । भारते अनुशासनिके- ’ तिस्रः कृष्ण पुरो भार्याः पञ्चाद्विन्देत ब्राह्मणीम् । सा ज्येष्ठा सा च पूज्या स्यात्सा च भार्या गरीयसी ॥ स्नानं प्रसाधनं भर्तुर्दन्तधावनमञ्जनम् । हव्यं कव्यं च यच्चान्यद्धर्मयुक्तं गृहे भवेत् ॥ न तस्यां जातु तिष्ठन्त्यामन्या तत्कर्तुम- ईति । ब्राह्मणी त्वेव कुर्याद्वै ब्राह्मणस्य युधिष्ठिर ॥ अन्नं
अयोध्याकाण्डः ।
[[३५]]
पानं च माल्यं च वासांस्याभरणानि च । ब्राह्मण्ये- तानि देयानि भर्तुः सा हि गरीयसी ॥ अथ चेदन्यथा कुर्याद्यदि कामाद्युधिष्ठिर । यथा ब्राह्मणचण्डालपूर्व- दृष्टस्तथैव सः’ इति । याज्ञवल्क्योऽपि - ‘सत्यामन्यां सव- र्णायां धर्मकार्य न कारयेत् ॥ सवर्णासु विधौ धर्मे ज्येष्ठया न विनेतराः’ इति । सवर्णाज्जातस्य उद्धारप्र- तिपादनेन प्राबल्यमाविष्करोति मनुः - ’ बह्वीषु चैकजा- तानां नानास्त्रीषु निबोधत । ब्राह्मणस्यानुपूर्व्येण चतस्रः स्युर्यदि स्त्रियः । तासां पुत्रेषु जातेषु विभागेऽयं विधिः- स्मृतः । कीनाशो गोवृषोयानमलंकारश्च वेश्म च । विप्र- स्यौद्धारिकं देयमेकांशश्व प्रधानतः ॥ त्र्यंशं दायाद्धरेद्विप्रो द्वावंश क्षत्रियासुतः । वैश्याजोऽध्यर्धमेवांशम शूद्रा- सुतो हरेत् ॥ सर्वे वा रिक्थभागं तं दशधा प्रविभज्य तु । धर्म्य विभागं कुर्वीत विधिनानेन धर्मवित् ॥ चतु. रोशान्हरेद्विप्रस्त्रीनंशान्क्षत्रियासुतः । वैश्यापुत्रो हरे- हृयंशमंशं शूद्रासुतो हरेत् । यद्यपि स्यात्सपुत्रस्तु यद्यपुत्रोऽपि वा भवेत् । नाधिकं दशमाद्दद्याच्छूद्रापु-
[[૩૬]]
धर्माकूते
त्राय धर्मवित् ॥ भारतेऽपि पूर्ववर्णोत्पन्नपुत्रासत्त्वेऽपि वा शूद्रपुत्राय दशममेव भागं दद्यात् इत्युक्तम् । ‘अविद्यमा- नमृक्थं तु संप्रवक्ष्यामि भारत । लक्षण्यं गोवृषो यानं यत्प्रधानतमं भवेत् ॥ ब्राह्मण्यास्तद्धरेत्पुत्र एकांशं वै पितुर्धनात् । शेषं तु दशधा कार्ये ब्राह्मणस्वं युधिष्ठिर । तत्र तेनैव हर्तव्यश्वत्वारोंशाः पितुर्धनात् । क्षत्रि- यायास्तु यः पुत्रो ब्राह्मणः सोऽप्यसंशयः ॥ स तु मातृविशेषेण त्रीनंशान्हर्तुमर्हति । वर्णे तृतीये जातेन वैश्यायां ब्राह्मणादपि । द्विरंशस्तेन हर्तव्यो ब्रह्मणः स्या- युधिष्ठिर ॥ शूद्रायां ब्राह्मणाज्जातो नित्यदेयधनः स्मृतः । अल्पं वापि प्रदातव्यं शूद्रपुत्राय भारत ॥ दशधा प्रविभक्तस्य धनस्यैष भवेत्क्रमः । सवर्णासु च जातानां समान्भागान्प्रकल्पयेत् ॥ एष एव क्रमो हि स्यात्क्षत्रि- याणां युधिष्ठिर । अष्टधा तु भवेत्कार्य क्षत्रियस्वं जना - चिप ॥ क्षत्रियाया हरेत्पुत्रश्चतुरोंशान्पितुर्धनात् । युद्धाय हारिकं यच पितुः स्यात्स हरेत तत् । वैश्यापुत्रस्तु भागांस्त्री शूद्रापुत्रस्तथाष्टमम् । सोऽपि दत्तं हरेलित्रा
[[३८]]
धर्माकूते
वान्हि शेषाणां भर्ता भवति’ इति । पतितज्येष्ठांशं प्र- त्याह मनुः– ‘ज्येष्ठांशं प्राप्नुयात्तस्य यवीयान्गुणतोऽधि- कः’ इति । भापस्तम्बोsपि - ‘सर्वे हि धर्मयुक्ता भा- गिनः ’
’ यस्त्वधर्मेण द्रव्याणि प्रतिपादयति ज्येष्ठोऽपि तमभागं कुर्वीत’ इति । गौतमोऽपि - ‘राजन्यापुत्रो ज्ये- ष्ठो गुणसंपन्नस्तुल्यभाक्’ इति निर्गुणज्येष्ठेन ब्राह्मणीपुत्रेण राजन्यापुत्रः कनिष्ठोऽपि गुणसंपन्नस्तुल्यभागी इत्यर्थः । स एव ‘अवैद्येभ्यो वैद्यः कामं न दद्यात्’ इति । अविदुषे विद्वान्दद्याद्वा न वेत्यर्थः । गौतमोऽपि सवर्णापुत्रोऽप्य- न्यायवृत्तो न लभत एकेषाम् । अन्यायवृत्तः निन्दित- वृत्तिः, सवर्णापुत्रोऽपि रिक्थं न लभते इत्येके । भार- तेऽपि ‘सर्वे चापि विकर्मस्था भांगं नार्हन्ति सोदराः ’ इति । आत्मज इत्यनेन च औरसः प्रबल इत्युक्तम् । तल्लक्षणमाह बोधायानः- ‘सवर्णायां संस्कृतायां स्वय- मुत्पादितमौरसं पुत्रं विद्यात्’ । प्राबल्यमप्याह मनुः - ‘स्वक्षेत्रे संस्कृतायां तु स्वयमुत्पादयेद्धि यम् । तमौरसं वि- जानीयात्पुत्रं प्रथमकल्पितम् ॥ एक एवौरसः पुत्रः पित्र्य-अयोध्याकाण्डः ।
[[३९]]
स्य वसुनः प्रभुः । शेषाणामानृशंस्यार्थं प्रदद्यात्तु प्रजी- वनम् । नियुक्तायामपि पुमान्नार्थी जातोऽविधानतः । नैवाईः पैतृकं रिक्थं पतितोत्पादितो हि सः ॥ नियुक्ता ह्यन्यतः पुत्रं देवराद्वाप्यवाप्नुयात् । तं कामजमरिक्थाह मिध्योत्पन्नं प्रचक्षते ’ इति । एवं च औरसः प्रबलः । प्रियस्य लाध्यत्वे, ‘योsस्य पुत्रः प्रियस्यात्तं प्रति पूर्ण- मुन्नयेत्’ इत्याश्वलायनः । आपस्तम्बोsपि - ‘प्रियस्य पुवस्य नाम गृह्णाति तामाशिषमाशा से तं शतव इत्यना- तस्य अमुष्मा इति जातस्येत्यग्निहोत्रप्रकरणे दर्शपूर्णमा- सयोरपि ज्योतिषे तं तवोद्वासाचनुमातन्वच्छिन्नो देव्य- स्तन्तुर्मा मनुष्यः छेदि देव्याद्धानो मा चिच्छि मानुषा- दिति प्रियस्य पुत्रस्य नाम गृह्णाति’ इति । तस्मादुक्तसर्व- विवश्रैष्ठयसत्त्वात् श्रीराम एव राज्याई इति सिद्धम् ॥
गुणवत्यपि तु स्नेहात्पुत्र वक्ष्यामि ते हितम् ।
अनेन गुणवानपि पुत्रः पित्रानुशासनीय इत्युक्तम् । तथा च बृहदारण्यके – ’ तस्मात्पुत्रमनुशिष्टं लोक्यमाहु-
।
धर्माकूते
स्वस्मादेनमनुशासते’ इति । आपस्तम्बोऽपि - ‘पुत्रमिवै- नमनुकाङ्क्षन् सर्वधर्मेष्वनपच्छादयमानः सुयुक्तो विद्य ग्राहयेत् ’ इति । अस्यार्थः– एनं शिष्यं पुत्रमिव सर्व- धर्मेष्वगूहमानो विद्यां ग्राहयेत् इति । अत्र सूत्रे पुत्रानु- शासनं सिद्धवत्कृत्य तद्दृष्टान्तेन शिष्योऽनुशासनीय इत्यु- क्तम् । तथा च्छान्दोग्येऽपि - ‘श्वेतकेतुर्दारुणेय आस तं ह पितोवाच श्वेतकेतो वस ब्रह्मचर्य न वै सोम्यास्म - कुलीनोऽननूच्य ब्रह्मबन्धुरिव भवतीति’ इति । तथा ‘ज्येष्ठाय पुत्राय पिता ब्रह्म प्रब्रूयात्’ इति । राजधर्मे-
। ऽपि - ‘विदितं हि यथा सर्वे लोकवृत्तमिदं तव । विदिते चापि वक्तव्यं सुहृद्भिरनुरागतः ’ इति ।
‘भूयो विनयमास्थाय भव नित्यं जितेन्द्रियः । कामक्रोधसमुत्थानि त्यजेथा व्यसनानि च ॥
परोक्षया वर्तमानो वृत्त्या प्रत्यक्षया तथा । अमात्यप्रभृतीः सर्वाः प्रकृतीचानुरञ्जय ॥
अयोध्याकाण्डः ।
कोष्ठागारायुधागारैः कृत्वा संनिचयान्बहून् । तुष्टानुरक्तप्रकृतिर्यः पालयति मेदिनीम् ॥
तस्य नन्दन्ति मित्राणि लब्ध्वामृतमिवामराः । तस्मात्वमपि चात्मानं नियम्यैवं समाचर ॥
अनेन प्रजापालनं कुर्वतो राज्ञ एताहशा गुणा अपे- क्षिता इत्युक्तं भवति । तत्र विनयस्यावश्यकत्वे मनु- विनीतानभिधायाह- ‘तेभ्योऽधिगच्छेद्विनयं विनी - तात्मापि नित्यशः । विनीतात्मा हि नृपतिर्न विनश्यति कर्हिचित् ’ ! विनयाविनययोः फलमाह स एव ‘बह- वोऽविनयान्नष्टा राजानः सपरिच्छदाः । वनस्थाश्चैव रा- ज्यानि विनयात्प्रतिपेदिरे ॥ वेनो विनष्टोऽविनयान्नहुषश्चैव पार्थिवः ॥ सुदासो यवनचैव सुमुखो निमिरेव च ॥ पृथुस्तु विनयाद्राज्यं प्राप्तवान्मनुरेव च । कुबेरश्च धनैश्वर्य ब्राह्मण्यं चैव गाधिजः ’ । तथा च कामन्दकोऽपि - ‘भव- ति हि विनयो ह बृहतो नृपतिपदाय शमाय च क्षमः । अविनय रतमादराहते वशमवशं च नयन्ति विद्विषः ॥
ર
।
धर्माकूते
श्रुतविनयविधिः समाश्रितस्तनुरपि नैति पराभवं कचित् । इति स्म राजा विनयं नयान्वितो निषेवमाणो नरदेव- सेवितम् । पदं समाक्रामति भास्वरं श्रियः शिरो महारत्न- गिरेरिवोन्नतम् ॥ इयं हि लोकोक्तिरलोकवर्तिनी स्व- भावतः पार्थिवता समुद्धता । बलात्तदैनां विनयेन यो- जयेन्नयस्य सिद्धौ विनयः पुरःसरः । परं विनीतः समु- पैति सेव्यतां महीपतीनां विनयो हि भूषणम् । प्रवृत्तदानो मृदुसंचरत्करः करीव भद्रो विनयेन शोभते ॥ नयवि- क्रम संपन्नः सूत्थानञ्चिन्तयेच्छिवम् । नयस्य विनयो मूलं विनयः शास्त्रनिश्चयः ॥ विनयो हीन्द्रियजयस्तद्युक्तः शास्त्रमृच्छति । तन्निष्टस्य हि शास्त्रार्थाः प्रसीदन्ति ततः श्रियः’ इति । एवं विनयस्यावश्यिकत्वमुक्तम् । इन्द्रिय- जयस्यावश्यकत्वे मनुः - ‘इन्द्रियाणां जये योगं समातिष्ठेद्दिवानिशम् । जितेन्द्रियो हि शक्नोति वशे स्थापयितुं प्रजाः’ । कामन्दकोऽपि - जितेन्द्रियस्य नृपते- नीतिमार्गानुसारिणः । भवन्त्युज्ज्वलिता लक्ष्म्यः कीर्त्त - यश्व नभःस्पृशाः ॥ प्रकीर्णे विषयारण्ये धावन्तं वि-
अयोध्याकाण्डः ।
દરે
प्रमाथिनम् । ज्ञानाङ्कुशेन कुर्वीत वश्यमिन्द्रियदन्ति- नम् ॥ एकस्यापि नयः शक्तो मनसः संनिबर्हणे । महीं सागरपर्यन्तां स कथं नु विजेष्यति ॥ क्रियावसान- विरसैर्विषयैरपहारिभिः । गच्छत्याक्षिप्तहृदयः करीव नृप- तिर्ब्रहम् । सज्जमानोऽप्यकार्येषु विषधीविकृतेक्षणः । आव- हत्युग्रभयदां स्वयमेवापदं नृपः । शब्दः स्पर्शश्व रूपं च रसो गन्धश्च पञ्चमः । एकैकमलमेतेषां विनाशप्रतिपत्तये ॥ शुचिरापाङ्कराहारो विदूरक्रमणक्षमः । लुब्धकाद्गीतिलो- भेन मृग मृगपतेर्वधम् ॥ गिरीन्द्रशिखराकारो लीलयो- न्मूलितद्रुमः । करिणीस्पर्श संमोहादालानं याति वारणः ॥ स्निग्धदीपशिखालोक विलोभितविलोचनः । मृत्युमृच्छत्य- संमोहात्पतङ्गः सहसा पतन् । दूरेऽपि हि भवन्दृष्टेरगाधे सलिले चरन् । मीनस्तु सामिषं लोहमास्वादयति मृत्यवे ॥ गन्धलुब्धो मधुकरो दानासवपिपासया । अभ्येत्य सुखसं- चारान्गजकर्णझलझलान् । कामो द्यूतं तथा पानं गर्हिता- नि महीभुजाम् । दृष्टास्तेभ्यस्तु विपदः पाण्डुनैषधवृष्णिषु’ इति व्यसनपरित्यागस्यावश्यिकतोक्ता । प्रजारञ्जने काम-
કર
धर्माकूते
न्दकः – ’ प्राधान्येन हि सर्वत्र सर्वा वै रञ्जयेत्प्रजाः । तासां तु रञ्जनाद्राजा सर्वाङ्गीं श्रियमश्नुते ॥ सदानुरक्त- प्रकृतिः प्रजापालनतत्परः । विनीतात्मा हि नृपतिर्भू- यसीं श्रियमश्नुते’ इति । मार्कण्डेयपुराणेऽपि - ‘वत्स राज्याभिषिक्तेन प्रजारञ्जनमादितः । कर्तव्यमविरोधेन स्वधर्मस्य महीभृता’ । कामन्दके —- ’ क च नरपतिगर्वः संग्रहः क प्रजानां मधुरवचनयोगा लोकमभ्याददीत । अधुरवचनपाशैरायतालानितः सन्पदमपि न हि लोकः पुस्थितेर्भेदमेति’ । कामक्रोधजयविषये कामन्दकः- ‘कामः क्रोधस्तथा लोभो हर्षो मानो मदस्तथा । षडुर्गमु- सृजेदेनं यस्मिंस्त्य के सुखी भवेत् ॥ दाण्डस्यो नृपतिः कामात्क्रोधाच जनमेजयः । लोभालस्तु राजर्षिर्वातापि - तोऽसुरः ॥ पौलस्त्यो राक्षसो मानान्मदादम्भोद्भवो नृपः । प्रयाता निधनं ह्येते शत्रुषड्वर्गमाश्रिताः ॥
षड्वर्गमुत्सृज्य जामदग्न्यो जितेन्द्रियः । षश्च नाभागो बुभुजाते चिरं महीम् ’ ।
अम्ब-
काम-
के द्रव्य संग्रहे- ‘कोष्टागारेऽभियुक्तः स्यात्तदायत्तं हि
अयोध्याकाण्डः ।
जीवितम् । नान्याय्यं च व्ययं कुर्यात्प्रत्यवेक्षेत चान्वहम् ॥ कृषिर्वणिक्पथो दुर्गे सेतुः कुञ्जरबन्धनम् । खन्याकरं वनादानं शून्यानां च निवेशनम् ॥ अष्टवर्गमिमं साधु स्वच्छवृत्तो विवर्धयेत् । बह्वादानोऽल्पनिस्रावः ख्यातः पूजितदैवतः ॥ ईप्सितद्रव्यसंपूर्णो हृचैराप्तैरधिष्ठितः । मुक्ताकनकरत्नाढ्यः पितृपैतामहोच्छ्रितः । धर्मार्जितो व्य- यसहः कोशः कोशज्ञसंमतः । धर्महेतोस्तथार्थाय भृत्या- ना भरणाय च ॥ आपदर्थे च संरक्ष्यः कोशः कोश- वता सदा’ । जनानुरागे कामन्दकः - ‘जितेन्द्रियत्वं विनयस्य लक्षणं गुणप्रकर्षो विनयादवाप्यते । गुणाधिके पुंसि जनोऽनुरज्यते, जनानुरागप्रभवा हि संपदः’ इति ।
ततः
तच्छ्रुत्वा सुहृदस्तस्य रामस्य प्रियकारिणः । त्वरिताः शीघ्रमभ्येत्य कौसल्यायै न्यवेदयत् ॥
सा हिरण्यं च गाचैव रत्नानि विविधानि च । व्यादिदेश प्रियाख्येभ्यः कौसल्या प्रमदोत्तमा ।
धर्माकूते
अनेन प्रियाख्यातृभ्यः प्रीतिदानं कर्तव्यमिति सूचि- तम् । तच बालकाण्डे रामोत्पत्तिप्रकरणे प्रपश्वितम् । ननु खियाः धनाभावात्कथं दानेऽधिकारः ? तथा च मनुः - ’ भार्या पुत्रव दासच त्रय एतेऽधनाः स्मृताः । यचे समधिगच्छन्ति यस्यैते तस्य तद्धनम्’ इति । ’ तस्मात्त्रियो निरिन्द्रिया अदायादाः’ इति श्रुतिश्चेति चेत्, न, अस्ति तासामपि न्यायतो धनागमः । तथा च मनुः - ’ अध्यग्न्यध्यावाहनिकं दत्तं च प्रीतिकर्म- णि । मातृभ्रातृपितृप्राप्तं षड्विधं स्त्रीधनं स्मृतम्’ इति । अब कात्यायनः – ’ विवाहकाले यत्स्त्रीभ्यो दीयते ह्य- मिसंनिधौ । तदध्यग्निः स्मृतं सद्भिः स्त्रीधनं परिकीर्ति- तम्’ इति । ’ यत्पुनर्लभते नारी नीयमाना हि पैतृकात् । अव्यावहनिकं नाम स्त्रीधनं परिकीर्तितम् ’ इति च । एवं न्यायप्राप्तस्य स्त्रीधनस्य विभागविशेषमाह मनु- चतुर्भिः श्लोकः – ‘अन्वाधेयं च यद्दत्तं पत्या प्रीतेन चैव यत् । पत्यौ जीवति वृत्तायाः प्रजायास्तद्धनं भ- वेत्’ । अस्यार्थमाह कात्यायनः – ‘विवाहात्परतो यत्तु
।
अयोध्याकाण्डः ।
लब्धं भर्तृकुले स्त्रियः । अन्वाधेयं तदुक्तं तु सर्वबन्धुकुले तथा’ इति । ‘ब्राह्मदेवार्षगान्धर्वप्राजापत्येषु यद्धनम् । अप्रजायामतीतायां भर्तुरेव तदिष्यते ॥ यत्त्वस्याः स्या- द्धनं दत्तं विवाहेष्वासुरादिषु । अप्रजायामतीतायां माता- पित्रोस्तदिष्यते ॥ स्त्रियाश्च यद्भवेद्वित्तं पित्रा दत्तं कथं- चन । ब्राह्मणी तद्धरेत्कन्या तदपत्यस्य वा भवेत्’ इति । स्त्रियाः धनस्वामित्वाभाववचनं तु भर्तृकुले साधारण- द्रव्यपरं भर्तृद्रव्यपरं च । तथा च स एवाह - ‘न नि- हरिं स्त्रियः कुर्युः कुटुम्बाद्वहुमध्यगात् । स्वकादपि च वित्ताद्धि स्वस्य भर्तुरनाज्ञया’ । अत्र ‘निहरः ’ आदा- नम, ‘कुटुम्बाद्बहुमध्यगात्’ इति देवरादिसाधारणद्र- व्यात्, ‘स्वकादपि च वित्तात्’ इति भर्तुः स्वस्य च साधारणादर्थात् । आपस्तम्बोऽपि न हि भर्तुर्विप्र-
‘न - वासे नैमित्तिके दाने स्तेयमुपदिशन्ति’ इति । अस्यार्थः- भर्तुरनुज्ञया नित्यदाने दोषप्रसक्तिरेव नास्ति । नैमित्तिके पूर्णपात्रादिषु भर्तुराज्ञाविरहेऽपि न दोषः, अन्यथा कर्म - ‘वैगुण्यापत्तेः’ इति, एवं च भर्तुराज्ञां विना कर्मानुपयुक्त
ટ
धर्माकूते
यथेच्छ्रप्रदाने स्तेयदोषोऽस्त्येव । तस्मात्स्त्रिया अपि न्यायतो धनागमस्तत्र स्वामित्वं च । अत एव अग्रे श्री- रामं प्रति लक्ष्मणवचनमपि —
कौसल्या बिभृयादार्या सहस्रमपि मद्विधात् । यस्याः सहस्रं ग्रामाणां संप्राप्तमुपजीवनम् ॥
तदात्मभरणे चैव मम मातुस्तथैव च ।
पर्याप्ता मद्विधानं च भरणाय यशस्विनी ॥
इति । एवं स्त्रिया अपि धनसत्वात्कौसल्याकृतं प्रीतिदानं युक्तमेव ॥
अथाभिवाद्य राजानं रथमारुह्य राघवः । aat स्वं द्युतिमद्वेश्म जनौधैरभिनन्दितः ॥
अनेन गमनसमयेऽपि गुरवोऽभिवादनीया इत्युक्तं भवति । तथा च भारते आदिपर्वणि– ‘पाण्डवास्तु रथान्युक्ता- सदर निलोपमैः । आरोहमाणा भीष्मस्य पादौ जगृहु- वत् ॥ राज्ञश्च धृतराष्ट्रस्य द्रोणस्य च महात्मनः ।अयोध्याकाण्डः ।
[[४९]]
अन्येषां चैव वृद्धानां कृपस्य विदुरस्य च ॥ एवं सर्वान्कुरून्वृद्धानभिवाद्य यतव्रताः । समालिनय समा- नांव बालैश्वाप्यभिवादिताः । गुरूनप्यर्चयित्वा च कृत्वा चैव प्रदक्षिणम् । सर्वाः प्रकृतयश्चैव प्रययुर्वारणावतम् ’ इति । चतुर्थे - ततो मन्त्रिभिः सह संमन्त्र्य राममान- येति राज्ञा नियुक्तः सुमन्त्रः शारदनीरदपाण्डरमभ्रंकष - शिखरं राममन्दिरमयासीत् ॥
द्वाःस्थैरावेदितं तस्य रामायागमनं पुनः । प्रवेश्य चैनं त्वरितं रामो वचनमब्रवीत् ॥
अनेन अतिपरिचितोऽपि राजाभ्यनुज्ञामन्तरेण राज- भवनं न प्रविशेदिति सूचितम् । तथा च उद्योगपर्वणि द्वाःस्थं प्रति विदुरवाक्यम्- ‘प्रहितो धृतराष्ट्रेण दूतः क्षत्तारमब्रवीत् । ईश्वरस्त्वां महाराजो महाप्राज्ञो दिह- क्षति ॥ एवमुक्तस्तु विदुरः प्राप्य राजनिकेतनम् । अब्रवीद्धृतराष्ट्राय द्वाःस्थं मां संनिवेदय ॥ द्वाःस्थ उवाच- ‘विदुरोऽयमनुप्राप्तो राजेन्द्र तव शासनात् । द्रष्टुमिच्छति
VOL. II. D 4
[[५०]]
धर्माकूते
ते पादौ किं करोतु प्रशाधि माम् ॥ धृतराष्ट्रः– ‘प्रवेशय महाप्राज्ञं विदुरं दीर्घदर्शनम् । अहं हि विदुरस्यास्य नाकल्पो जातु दर्शने ॥ द्वाःस्थ उवाच — प्रविशान्तः पुरं क्षत्तर्महाराजस्य धीमतः । न हि ते दर्शने कल्पो जातु राजानवीद्धि माम् ॥ वैशम्पायनः - ’ ततः प्रविश्य विदुरो धृतराष्ट्रनिवेशनम् । अब्रवीत्प्राञ्ज- लिर्वाक्यं चिन्तयानं नराधिपम्’ इति । विनाज्ञां प्रवे- टुर्निन्दामाह स एव ‘अनाहूतः प्रविशति अपृष्टो बहु भाषते । भविश्वस्ते विश्वसिति मूढचेता नराधमः ॥ ततः सुमन्त्रवचनेन ससंभ्रममुपदीकृतप्रणामं रामभद्रं परि- ध्वज्य निर्दिष्टासनमुपविशन्तमवलोक्य दशरथ आह-
राम वृद्धोऽस्मि दीर्घायुर्भुक्ता भोगा मयेप्सिताः । अन्नवद्भिः क्रतुशतैर्यथेष्टं भूरिदक्षिणैः ॥
जातमिष्टमपत्यं मे त्वमद्यानुपमं भुवि । दत्तमिष्टमधीतं च मया पुरुषसत्तम ॥
अयोध्याकाण्डः ।
अनुभूतानि चेष्टानि मया वीर सुखान्यपि । देवर्षिपितृविप्राणामनृणोऽस्मि तथात्मनः ॥
न किंचिन्मम कर्तव्यं तवान्यन्त्राभिषेचनात् ॥
[[५१]]
अन न्यायार्जितधन धर्माविरोधेन भुक्तभोगः अपा- कृतऋणषट्कः पुत्राय वृत्तिं कल्पयेदित्युक्तं भवति । तथा च शङ्खलिखितौ - ‘पुत्रमुत्पाद्य संस्कृत्य वेदमध्याप्य वृत्ति विधाय दारैः संयोज्य गुणवति पुत्रे कुटुम्बमा वेश्य कृतप्रस्थानलिङ्गो वृत्तिविशेषाननुक्रमेत्’ इति । प्रजा- गरे धृतराष्ट्रं प्रति विदुरः- ‘उत्पाद्य पुत्राननृणांश्च कृत्वा वृत्तिं च तेभ्योऽनुविधाय कांचित् । स्थाने कुमारीः प्रतिपाद्य सर्वा अरण्यसंस्थोऽथ मुनिर्बुभूषेत्’ इति । मनुरपि - ‘महर्षिपितृदेवानां गत्वानृण्यं यथाविधि । पुत्रे सर्व समावेश्य व सेन्माध्यस्थ्यमाश्रितः’ इति । भारते मोक्ष- धर्मेऽपि – ‘देवर्ण्यतिथिभृत्येभ्यः पितृभ्यश्चात्मनस्तथा । ऋणवाजायते मर्त्यस्तस्मादनृणतां व्रजेत् ॥ स्वाध्यायेन महर्षिभ्यो देवेभ्यो यज्ञकर्मणा । पितृभ्यः श्राद्धदानेन नृणा-
[[1]]
[[५२]]
धर्माकूते
मभ्यर्चनेन च ॥ पाकशेषाच्च भृत्यानां पालनेनात्मनो- ऽपि च’ इति ।
अपि चाद्याशुभान्राम स्वप्नान्पश्यामि दारुणान् । सनिर्घाता महोल्का च पतितेह महाखना ॥
अवष्टधं च मे राम नक्षत्रं दारुणैर्ग्रहैः । आवेदयन्ति देवाः सूर्याङ्गारकराहुभिः ॥
प्रायेण च निमित्तानामीदृशानां समुद्भवे । राजा वा मृत्युमाप्नोति घोरां वापदमृच्छति ॥
अनेन दुष्टस्वप्रदर्शनस्य दुर्निमित्तानां च अनिष्टफल- सूचकत्वमुक्तम् । तथा च बह्वृचारण्यके’ स यश्चायम- शरीरः प्रज्ञात्मा यच सा चादित्य एकमेतदित्यवोचाम तौ यख विहीयेते चन्द्रमा इवादित्यो दृश्यते न रश्मयः प्रादुर्भवन्ति लोहिनी द्यौर्भवति यथा मञ्जिष्ठा व्यस्तः पायुः काककुलाय गन्धिकमस्य शिरो वायति संपरेतो- ऽस्यात्मा न चिरमिव जीविष्यतीति विद्यात् अथापि
अयोध्याकाण्डः ।
[[५३]]
ra for sवादित्यो दृश्यते रथानाभिरिवाभिख्यायेत छिद्रां वा च्छायां पश्येत्तदप्येवमेव विद्यादथाप्यादर्श बोदके च । वाजिमशिरसं वात्मानं पश्येद्विपर्यस्ते वा कन्याके जिलेन वा दृश्येयातां तदप्येवमेव विद्यादथाप्यपिधाया- क्षिणी उपेक्षेत तद्यथा वटरकाणि संपतन्तीव दृश्यन्ते तानि यदा न पश्येत्तदप्येवमेव विद्यादथाप्यपिधाय कर्णा- वुपशृणुयात्स एषोऽग्निरिव प्रज्वलतो रथस्येवोपद्विस्तं यदा न शृणुयात्तदप्येवमेव विद्यादथापि यत्र नील इवा- भिर्दृश्यते यथा मयूरग्रीवामेवे वा विद्युतं पश्येन्मध्ये वा विद्युतं न पश्येन्महामेघे वा मरीचीरिव पश्येत्तदप्येवमेव विद्यादथापि यत्र भूमिं ज्वलन्तीमिव पश्येत तदप्येवमेव विद्यादिति प्रत्यक्षदर्शनान्यथा स्वप्ताः पुरुषं कृष्णं कृष्ण- दन्तं पश्यति स एनं हन्ति वराह एनं हन्ति मर्कट एन- मास्कन्दयति । आशु वायुरेनं प्रवहति सुवर्ण खादित्वा- पगिरति मध्वश्नाति बिसानि भक्षयति एकं पुण्डरीकं धारयति खरैर्वराहैर्युक्तैर्याति कृष्णां धेनुं कृष्णवत्सां नल- दमाली दक्षिणामुखो वाजयतीति’ ॥
[[५४]]
धर्माकूते
अतस्त्वामभिषेक्ष्यामि यौवराज्ये परंतप । तस्मात्त्वयाद्य व्रतिना निशेयं नियतात्मना । सह वध्वोपवस्तव्या दर्भप्रस्तरशायिना ॥
अनेन यत्किचिद्विहितं कर्म भार्यया सहैव कर्तव्य- मित्युक्तं भवति । तथा चापस्तम्बः- ‘पाणिग्रहणाद्धि सहत्वं कर्मसु तथा पुण्यफलेषु द्रव्यपरिग्रहेषु च’ इति ।
सुहृदस्त्वप्रमत्तास्त्वां रक्षन्त्वद्य समन्ततः ।
अनेन राज्ञां स्वापकालेष्वाप्तैः संरक्षणं कर्तव्यमिति सूचितम् । तथा च कामन्दके– ’ अन्तर्वेशिक सैन्यं च संनद्धं साधु संमतम् । रक्षेदायुक्त कुशलमन्तःपुरगतं नृपम् ॥ विचार्य सर्वावयवान्दिनक्षये विसृज्य लोकं प्रम- दादृतक्रियः । अशस्त्रवध्येन हि साधु पाणिना स्वप्यादसक्तं परमाप्त रक्षितः’ इति ।
भवन्ति बहुविघ्नानि कार्याण्येवंविधानि हि ’
श्रेयसां बहुविघ्नत्वं लोकप्रसिद्धम् ॥
अयोध्याकाण्डः ।
विप्रोषितश्च भरतो यावदेव पुरादितः । तावदेवाभिषेकस्ते प्राप्तकाले मतो मम ॥
[[५५]]
अत्र ‘विप्रोषितच भरतः’ इत्यादिना भरतागमे रामाभिषेकप्रतिबन्धो भवेत् भरतागमनात् प्रागभिषेकः कर्तव्यमिति चोत्युक्तं तदनुपपन्नम् ।
श्रुतेन बालस्थानेन जन्मना भवतो ह्यहम् । स कथं पालयिष्यामि भूमिं भवति तिष्ठति ॥
इति चित्रकूटे श्रीरामं प्रति भरतवचनेन इक्ष्वाकूणां हि सर्वेषां राजा भवति पूर्वजः । पूर्वजेनावरः पुत्रो ज्येष्ठो राज्येऽभिषिच्यते ॥
स राघवाणां कुलधर्ममात्मनः
सनातनं नाद्य विहातुमर्हसि । प्रभूतरत्नामनुशाधि मेदिनीं
प्रभूतरतां पितृवन्महायशाः ॥
[[५६]]
धर्माकृते
तत्रैव वसिष्ठवचन–
‘रामो राज्ञः सुतो ज्येष्ठो यौवराज्यमतोऽर्हति’
इति कैकयीवचनेन, —
,
‘तस्माज्ज्येष्ठो हि कैकयि राज्यतन्त्राणि पार्थिवाः। स्थापयन्त्यनवद्याङ्गि गुणवत्स्वितरेष्वपि ’
इति मन्थरावचनेन च; न्यायतो रामस्यैव राज्याभि- षेकावगमेन अभिषेकप्रतिबन्धशङ्काया एवाभावादिति चेन्न ।
पुरा भ्रान्तः पिता नः स मातरं ते समुद्वहन् । मातामहे समश्रौषीद्राज्यशुल्कमनुत्तमम् ॥
इति चित्रकूटे भरतं प्रति रामवचनेन भरतस्यापि राज्याधिकारसंभवात्तदागमनात्प्रागारम्भो युक्त एव । न चैवं प्राक्प्रतिश्रतराज्याप्रदाने धार्मिकस्य राज्ञः सत्यप्रतिज्ञत्वभङ्गः प्रसज्येतेति वाच्यम् । विवाहादिषु
अयोध्याकाण्डः ।
प्रतिज्ञाया असत्यत्वेऽपि दोषाभावात् । तथा च भारते- " विवाहकाले रतिसंप्रयोगे प्राणात्यये सर्वधनापहारे । विप्रस्य चार्थेऽप्यनृतं वदेत पञ्चानृतान्याहुरपातकानि ’ इति । मनुरपि - ‘कामिनीषु विवाहेषु गवां भक्त तथे- न्धने । ब्राह्मणस्य विपत्तौ च शपथे नास्ति पातकम् इति । अत एवाग्रे भरतराज्याभिषेकोपायं वदन्त्या कुन्ज- या विवाहकालीनप्रतिज्ञाया असत्यत्वमाशङ्कमानया युद्ध- काले प्रतिश्रुतवरद्वयेनैव राज्यं प्रार्थयस्वेत्यभिहिता कैकेयी चरद्वयमेव प्रार्थितवती । तर्हि धार्मिकभरतसंनिधानेऽपि रामाभिषेकस्य निर्वर्तयितुं शक्यत्वादिदमयुक्तमिति चेन्न ।
किं तु चित्तं मनुष्याणामनित्यमिति मे मतिः । सतां च धर्मनित्यानां कृतशोभि च राघव ॥ तावदेवाभिषिञ्चस्व चला हि प्राणिनां मतिः ।
इति दशरथवचनेन स्वस्य भरतस्य च मनश्चापत्यसंभ- वेन तत्परिहाराय प्रागारम्भ उपपन्न एव ।
VOL. II. D 5
[[५८]]
धर्माकूते
इत्युक्तः सोऽभ्यनुज्ञातः श्वोभाविन्यभिषेचने । व्रजेति रामः पितरमभिवाद्याभ्ययाद्गृहम् ॥ ततो दाशरथिर्मातृगृहमागत्य श्रुतयौवराज्याभिषेकाम्
तत्र तां प्रवणामेव मातरं क्षौमवासिनीम् । वाग्यतां देवतागारे ददर्शायाचतीं श्रियम् ॥
प्रागेव चागता तत्र सुमित्रा लक्ष्मणस्तदा । सीता चानायिता श्रुत्वा प्रियं रामाभिषेचनम् ॥
अत्र कौसल्यया देवताध्यानादिकं कृतमित्यवगम्यते, तन्न संघटते । स्त्रीणां पतिशुश्रूषणमेव धर्मः तस्मादेव च
[[1]]
सर्वफलवाप्तिः इतरधर्मानुष्ठाने स्वस्य च भर्तुश्वानिष्टं स्वस्थ
पातित्यं च । अत्रैव कौसल्यां प्रति रामवचनम् -
शुश्रूषामेव कुर्वीत भर्तुः प्रियहिते रता । एष धर्मः पुरा दृष्टो लोके वेदे श्रुतः स्मृतः ॥
इति । अत्रैवअयोध्याकाण्डः ।
भर्तुः शुश्रूषया नारी लभते स्वर्गमुत्तमम् । अपि या निर्नमस्कारा निवृत्ता देवपूजनात् ॥
[[५९]]
इति । मनुरपि – ’ नास्ति स्त्रीणां पृथग्धर्मो न व्रतं नाप्युपोषणम् । पतिं शुश्रूषते या तु तेन स्वर्गे महीयते ’ इति । आश्वलायनोऽपि — ‘शूद्राणां द्विजशुश्रूषा विहिता ब्रह्मणा यथा । स्त्रीणां स्वभर्तुः शुश्रूषा तथैव विहिता सदा’ । शङ्खलिखितावपि - ‘न व्रतोपवासनियमेज्या- दानं दमो बानुग्रहकारः स्त्रीणामन्यत्र पतिशुश्रूषायाः इति । स्कान्देऽपि — ‘नास्ति स्त्रीणां पृथग्धर्मो न व्रतं
। - नाम्युपोषणम् । भर्तृशुश्रूषयैवैता लोकानिष्टाञ्जयन्ति हि इति । अत्रिरपि-‘न व्रतेनोपवासेन धर्मेण विविधेन च । नारी स्वर्गमवाप्नोति प्राप्नोति पतिपूजनात् ’ इति । यद्देवेभ्यो यश्च पित्रादिकेभ्यः कुर्याद्भर्ताभ्यर्चनं स- त्रियां च । तस्य ह्य सा फलं नान्यचित्ता नारी भुङ्क्ते भर्तृशुश्रूषणेन’ इति । तथा अन्यधर्मफलावाप्तिः पतिशुश्र- यैव । तथा च स्कान्दे, अत्रैव’व्रतोपवासनिरता या नारी परमोत्तमा । भर्तारं नानुवर्तत तखाः पापा गतिर्भ-
[[1]]
[[1]]
धर्माकूते
वेत्’ इति । पराशरोऽपि - ’ पत्यौ जीवति या नारी उपोष्य व्रतचारिणी । आयुष्यं हरते भर्तुः सा नारी नरकं व्रजेत्’ इति । मनुरपि - ‘जपस्तपस्तीर्थयात्रा प्रव्रज्या मन्त्रसाधनम् । देवताराधनं चेति स्त्रीशूद्रपत- नानि षट् ’ इति । तस्मात्स्त्रीणां पतिशुश्रूषणमेव धर्मः नान्यदिति । किं बहुना, काले स्वामिनावन्नार्थिनं न प्रत्याचक्षीयाताम् । अतिथिः पूजितो यद्धि ध्या- यते मनसा शुभम् । न तत्क्रतुशतेनापि तुल्य- माहुर्मनीषिणः । पात्रं त्वतिथिमासाद्य शीलाढ्यं यो न पूजयेत् ॥ स दत्त्वा दुष्कृतं तस्य पुण्यमादाय गच्छति । तस्माद्गृहाश्रमस्थस्य नान्यदैवतमस्ति वै ॥ ऋते- ऽतिथिम्’ इत्यादिशास्त्रपर्यालोचनयावश्यकर्तव्यातिथि - पूजनादपि स्त्रीणां भर्तृशुश्रूषणस्यैव श्रेष्ठयमुक्तम् । अर- ण्यपर्वणि तपश्चरणाय ऋष्याश्रमे संचरन्कौशिकः तरुमू- लमुपाश्रित्य वेदानुच्चारयन्स्वशिरसि पुरीषमुत्सृजन्तीं बलाकामवलोक्य क्रोधाकुलहृदयः समपाध्यायत् । तत अपध्यानमात्रेण गतसत्त्वां पुरतो निपतितां बलाकामभि-
अयोध्याकाण्डः ।
[[૬૧]]
वीक्ष्य भृशं संतप्तहृदयः सकरुणं विलप्य भैक्षार्थी गृहा- गृहं संचरन् कयाचित्त्रिया भैक्ष्यप्रदानाय निमन्त्रितः । तदागमनसमयं प्रत्यपालयत् । ’ एतस्मिन्नन्तरे राजन्क्षुधासं- पीडितो भृशम् । भर्ता प्रविष्टः सहसा तस्या भरतसत्तम ॥ सा तु दृष्ट्वा पति साध्वी ब्राह्मणं व्यपहाय तम् । पाद्य- माचमनीयं च ददौ भर्तुस्तदासनम् ॥ प्रह्वा पर्यचरश्चापि भर्तारमसितेक्षणा । आहारेणाथ भक्ष्यैश्च भोज्यैः सुम- धुरैस्तथा । उच्छिष्टं भाविता भर्तुर्भुङ्गे नित्यं युधिष्ठिर । दैवतं च पतिं मेने भर्तुश्चित्तानुसारिणी । कर्मणा मनसा वाचा नान्यचित्तात्यगात्पतिम् ॥ तं सर्वभावोपगता पति- शुश्रूषणे रता । साध्वाचारा शुचिर्दक्षा कुटुम्बस्य हितै- षिणी ॥ भर्तुश्चापि हितं यत्तत्सततं सानुवर्तते । देवताति- थिभृत्यानां श्वश्रूश्वशुरयोस्तथा । शुश्रूषणपरा नित्यं सततं संयतेन्द्रिया । सा ब्राह्मणं तदा दृष्ट्वा संस्थितं भैक्षकाङ्क्षिणम् । कुर्वती पतिशुश्रूषां सम्माराथ शुभे- क्षणा ॥ व्रीडिता साभवत्साध्वी तदा भरतसत्तम । भिक्षामादाय विप्राय निर्जगाम यशस्विनी’ । ततश्चिरेण
धर्माकूते
भैक्ष्यमादाय समागतां स्त्रियमवलोक्य संजातकोपेन द्वि- जवरेण ‘ब्राह्मणा न गरीयांसो गरीयांस्ते पतिः कृतः । अवलिप्ते न जानीषे वृद्धानां न श्रुतं त्वया’ इत्यधिक्षिप्ता स्त्री समभाषत- ‘क्षन्तुमर्हसि मे विद्वन्भर्ता मे दैवतं महत् । स चापि क्षुधितः श्रान्तः प्राप्तः शुश्रूषितो मया’ । ब्राह्मणः - ‘ब्राह्मणा न गरीयांसो गरीयांस्ते पतिः कृतः । गृहस्थधर्मे वर्तन्ती ब्राह्मणानवमन्यसे ॥ इन्द्रोऽप्येषां प्रणमते किं पुनर्मानवा भुवि । अवलिप्ते न जानीषे वृद्धानां न श्रुतं त्वया ॥ ब्राह्मणा ह्यग्निसदृशा दहेयुः पृथिवीमपि ’ । स्त्र्युवाच - ‘नाहं बलाका विप्रे- न्द्र त्यज क्रोधं तपोधन । अनया क्रुद्धया दृष्ट्या क्रुद्धः किं मां करिष्यसि । नावजानाम्यहं विप्रा- न्देवैस्तुल्यान्मनस्विनः । अपराधमिमं विप्र क्षन्तुम- हसि मेऽनघ ॥ जानामि तेजो विप्राणां महाभाग्यं च धीमताम् । अपेयः सागरः क्रोधात्कृतो हि लवणो- दकः ॥ तथैव दीप्ततपसां मुनीनां भावितात्मनाम् । येषां starfaraiपि दण्डके नोपशाम्यति ॥ ब्राह्मणानां परि-
अयोध्याकाण्डः ।
।
[[६३]]
भवाद्वातापिः सुदुरात्मवान् । अगस्त्यमृषिमासाद्य जीर्णः क्रूरो महासुरः । बहुप्रभावाः श्रूयन्ते ब्राह्मणानां महा- त्मनाम् । अस्मिंस्त्वतिक्रमे ब्रह्मन्क्षन्तुमर्हसि मेऽनघ ॥ पतिशुश्रूषया धर्मो यः स मे रोचते द्विज । दैवतेष्वपि सर्वेषु भर्ता मे दैवतं परम् । अविशेषेण तस्याहं कुर्यो धर्मे द्विजोत्तम । शुश्रूषायाः फलं पश्य पत्युर्ब्राह्मण यादृशम् । बलाका हि त्वया दग्धा रोषात्तद्विदितं मम’ ! ब्राह्मणः– ‘प्रीतोऽस्मि तव भद्रं ते गतः क्रोधश्व शोभने ॥ उपालम्भस्त्वयात्युक्तो मम निःश्रेयसं परम् । स्वस्ति तेऽस्तु गमिष्यामि शाधयिष्यामि शोभने’ । मार्कण्डेयः - ’ तया विसृष्टो निर्गत्य स्वमेव भवनं ययौ ॥ विनिन्दन्स स्वमात्मानं कैशिको द्विजसत्तमः’ इति । अतः स्त्रियाः भर्तृशुश्रूषणव्यतिरिक्तधर्मेषु कुत्रा - प्यनधिकारात्कथं कौसल्यया देवताराधनं कृतमिति चेन्न । भर्त्रनुज्ञया धर्माचरणे पूर्वोक्तदोषाभावात् । तथा च शङ्खलिखितौ ’ कामं तु भर्तुरनुज्ञया व्रतोपवासनियमा- दीनामभ्यासः’ । स्त्रीधर्मे कात्यायनोऽपि —‘भार्या
[[६४]]
धर्माकूते
भर्तृमतेनैव ब्रतादीनाचरेत्सती’ इति । आदित्यपुराणे ‘नारी खल्वननुज्ञाता भर्त्रा वापि सुतेन वा । विफलं तद्भवेत्तस्य यत्करोत्यौर्ध्वदेहिकम्’ इति । और्ध्वदेहिकं पारलौकिकम् । भर्तुरनन्तरं पुत्राज्ञा । कात्यायनः — ‘भार्या पत्युर्मतेनैव व्रतादीनाचरेत्सदा’ इति । तस्मा- द्भर्तुरनुज्ञया तच्छ्रुश्रूषानुरोधेनैव यत्किंचिद्धर्माचरणे दो- षो नास्तीत्यत्यल्पमिदमुच्यते । तदाज्ञया पातित्याधाय- ककर्माचरणमपि श्रेयः साधनमित्युक्तम् । ‘अपत्यं धर्म- फलदं श्रेष्ठं विन्दन्ति मानवाः । आत्मा शुक्रादपि पृथे मनुः स्वायंभुवोऽब्रवीत् । तस्मात्प्रहेष्याम्यद्य त्वां हीनः प्रजननात्स्वयम् ॥ सदृशाच्छ्रेयसो वा त्वं विद्धयपत्यं यशस्विनि । शृणु कुन्ति कथा - मेतां शारदण्डायनीं प्रति ॥ सा वीरपत्नी गु- रुणा नियुक्ता पुत्रजन्मनि । पुष्पेण प्रयता स्नाता निशि कुन्ति चतुष्पथे ॥ वरयित्वा द्विजं सिद्धं हुत्वा पुंसवनेऽनलम् । कर्मण्यवखिते तस्मिन्सा तेनैव सहाव- सत् । तत्र श्रीञ्जनयामास दुर्जयादीन्महारथान् । तथा
अयोध्याकाण्डः ।
६५.
त्वमपि कल्याणि ब्रह्मणात्तपसाधिकात् । मन्नियोगा- द्यतः क्षिप्रमपत्योत्पादनं प्रति ॥ अथ त्विदं प्रवक्ष्यामि धर्मतत्वं निबोध मे । पुराणमृषिभिर्दृष्टं धर्मविद्भिर्महा- त्मभिः ॥ अनावृताः खलु पुरा स्त्रिय आसन्वरानने । कामचारविहारिण्यः स्वतन्त्राश्चारुलोचने । तासां व्यु- चरमाणानां कौमारात्सुभगे पतीन् । नाधर्मोऽभूद्वरारोहे स हि धर्मः सनातनः ॥ अद्याप्यनुविधीयन्ते कामद्वेष- विवर्जिताः । प्रमाणदृष्टो धर्मोऽयं पूज्यते च महर्षिभिः ॥ श्वेतकेतोः किल पुरा समक्षं मातरं पितुः । जग्राह ब्राह्मणः पाणौ गच्छाव इति चाब्रवीत् ॥ ऋषिपुत्रस्ततः कोपं चकारामर्षचोदितः । क्रुद्धं तु तं पिता दृष्ट्वा वेप - मानमुवाच ह । मा तात कोपं कार्षीस्त्वमेष धर्मः सना- तनः । अनावृता हि सर्वेषां वर्णानामङ्गना भुवि । यथा गावः स्थितास्तात स्वे स्वे वर्णे तथा प्रजाः । ऋषिपुत्रस्तु तं धर्मं श्वेतकेतुर्न च । चकार चैव मर्यादामिमां स्त्री- पुंसयोर्भुवि ॥ मानुषेषु महाभागे न त्वेवान्येषु जन्तुषु । तदाप्रभृति मर्यादास्थितेऽयमिति नः श्रुतम् ॥ भ्रूणहत्या -
-६६
धर्माकूते
कृतं पापं भविष्यत्यसुखावहम् । व्युचरन्त्याः पतिं नार्या अद्यप्रभृति पातकम् ॥ भार्या तथा व्युञ्चरतः कौमारब्रह्मचा- रिणीम् । पतिव्रतामेतदेव भविता पातकं भुवि । पत्या नियुक्ता या चैव पत्नी पुत्रार्थमेव च । न करोति वचस्तस्य भविष्यत्येतदेव हि ॥ इति तेन पुरा भीरु मर्यादा स्था- पिता बलात् । उद्दालकस्य पुत्रेण धर्म्या वै श्वेतकेतुना ॥ सौदासेन च रम्भोरु नियुक्तापत्यजन्मनि । मदयन्ती जगामर्षि वसिष्ठमिति नः श्रुतम् ॥ तस्माल्लेभे च सा पुत्रमश्मकं नाम भामिनी । एवं कृतवती सा तु भर्तुः प्रियचिकीर्षया ॥ अस्माकमपि ते जन्म विदितं कमलेक्षणे । कृष्णद्वैपायनाद्भीरु कुरुवंशविवृद्धये ॥ अत एतानि सर्वाणि कारणानि समीक्ष्य वै । ममैतद्वचनं धर्म्यं कर्तुमर्हस्यनिन्दिते । ऋतावृतौ राजपुत्रि स्त्रिया भर्ता पतिव्रते । नातिवर्तव्य इत्येवं धर्म धर्मविदो विदुः ॥ शेषेष्वन्येषु कालेषु स्वातन्त्र्यं स्त्री किलार्हति । धर्ममेतं जनाः सन्तः पुराणं परिचक्षते । भर्ता भार्या राजपुत्रि धयै वाधर्म्यमेव वा ॥ यद्भूयात्तत्तथा कार्यमिति धर्म-
I
अयोध्याकाण्डः ।
[[६७]]
• विदो विदुः । मन्नियोगात्सुकेशान्ते द्विजातेस्तपसाधिका- त् ॥ पुत्रान्गुणसमायुक्तानुत्पादयितुमर्हसि । त्वत्कृतेऽहं पृथुश्रोणि गच्छेयं पुत्रिणां गतिम्’ इति । गुरुतल्पं हि गुर्वर्थे न दूषयति मानवम् । उद्दालकः श्वेतकेतुं जनया- मास शिष्यतः । एवमेवासूत कुन्ती पाण्डुं परपुरंजयम् । प्रत्युवाच वरारोहा भर्तुः प्रियहिते रता ॥ त्वयाहमभ्य- -नुज्ञाता विद्धयस्मिन्कर्मणि स्थिताम् । तथा आनुशास- निके सुदर्शनोपाख्याने धर्मपुत्रं प्रति भीष्मः, अग्नि- सकाशात्सुदर्शनायामुत्पन्नः सुदर्शनाख्योऽग्निपुत्रः नृग- राजस्य वंशजामोघवतीं कन्यां परिणीय– ‘कुरुक्षेत्रे- Sवसद्राजन्नौघवत्या समन्वितः । गृहस्थश्वावजेष्यामि मृत्युमित्येव स प्रभो । प्रतिज्ञामकरोद्धीमान्दीप्ततेजा विशांपते । तामथौघवतीं राजन्स पावकसुतोऽब्रवीत् । अतिथेः प्रतिकूलं ते न कर्तव्यं कथंचन ॥ येन येन च तुष्येत नित्यमेव त्वयातिथिः । अध्यात्मनः प्रदानेन न ते कार्या विचारणा ॥ एतद्वतं मम सदा हृदि संपरि- वर्तते । गृहस्थानां च सुश्रोणि नातिथेर्विद्यते परम् ॥
धर्माकूते
प्रमाणं यदि वा मोहवचस्ते मम शोभने । इदं वचन- मन्या हृदि त्वं धारयेः सदा ॥ निष्क्रान्ते मयि कल्याणि तथा संनिहितेऽनघे । नातिथिस्तेऽवमन्तव्यः प्रमाणं यद्यहं तव । तमब्रवीदौघवती तथा मूर्ध्नि कृता- ञ्जलिः । न मे त्वद्वचनात्किचिन्न कर्तव्यं कथंचन । जिगीषमाणस्तु गृहें तदा मृत्युः सुदर्शनम् । पृष्ठतो- ऽन्वगमद्राजन्रन्धान्वेषी तदा तदा ॥ इध्मार्थे तु गते तस्मिन्नग्निपुत्रे सुदर्शने । अतिथिर्ब्राह्मणः श्रीमांस्तामाहौ घवतीं तदा ॥ आतिथ्यं कर्तुमिच्छामि त्वयाद्य वरवर्णिनि । प्रमाणं यदि धर्मस्ते गृहस्थाश्रमसंम- तम् ॥ इत्युक्त्वा तेन विप्रेण राजपुत्री यशस्विनी । विधिना प्रतिजग्राह वेदोक्तेन विशांपते । आसनं चैव पाद्यं च तस्मै दत्त्वा द्विजातये । प्रोवाचौघवती विप्रं केनार्थः किं ददामि ते । तामब्रवीत्तदा विप्रो राजपुत्रीं सुदर्शनीम् ॥ त्वया ममार्थः कल्याणि निर्विशङ्केतदा- चर । यदि प्रमाणं धर्मस्ते गृहस्थाश्रमसंमतम् । प्रदानेना- त्मनो राज्ञि कर्तुमर्हसि मे प्रियम् । स तया च्छन्द्यमानो-अयोध्याकाण्डः ।
[[६९]]
ऽन्यैप्सितैर्नृपकन्यया ॥ नान्यमात्मप्रदानात्स तस्या वो वरं द्विजः । सा तु राजसुता स्मृत्वा भर्तुर्वचनमादितः ॥ तथेति लज्जमाना सा तमुवाच द्विजर्षभम् । ततो विहस्य विप्रर्षिः सा चैवाथ विवेश ह ॥ संस्मृत्य भर्तुर्वचनं गृह- स्थाश्रमकाङ्क्षिणः । अथेध्मं समुपादाय स पावकिरुपागमत् ॥ तस्मै प्रतिवचः सा च भत्रे न प्रददौ तदा । कराभ्यां तेन विप्रेण स्पृष्ट्वा भर्तृमती सती ॥ उच्छिष्टा- स्मीति मन्वाना लज्जिता भर्तुरेव च । तूष्णीभूताभव- त्साध्वी न चोवाचाथ किचन ॥ अथ तां पुनरेवेदं प्रो- वाच स सुदर्शनः । कुतः साध्वी क सा याता गरीयः किमतो मम । पतिव्रता सत्यशीला नित्यं चैवार्जवे रता । कथं न प्रत्युदेत्यद्य समयमाना यथा पुरा । उटजस्थस्तु तं विप्रः प्रत्युवाच सुदर्शनम् ॥ अतिथि विद्धि संप्राप्तं ब्राह्मणं पावकं च माम् । अनया च्छन्द्यमानोऽहं भार्यया तव सन्तम । तैस्तैरतिथिसत्कारैर्ब्रह्मन्नेषा वृता मया । अनेन विधिना सेयं मामृच्छति शुभानना । अनुरूपं यदत्रान्यतद्भवान्कर्तुमर्हति । कूटमुद्गरहस्तस्तु मृत्युस्तं वै
धर्माकृते
समन्वगात् । हीनप्रतिज्ञमत्रैनं वधिष्यामीति चिन्तयन् । सुदर्शनस्तु मनसा कर्मणा चक्षुषा गिरा । त्यक्तेर्यस्त्य- कमन्युश्च स्मयमानोऽब्रवीदिदम् । सुरतं तेऽस्तु विप्राग्र्य प्रीतिर्हि परमा मम ॥ गृहस्थस्य हि धर्मोऽग्र्यः संप्राप्ता- तिथिपूजनम् । अतिथिः पूजितो यस्य गृहस्थस्य तु गच्छ- ति ॥ नान्यस्तस्मात्परो धर्म इति प्राहुर्मनीषिणः । प्राणा हि मम दाराश्च यच्चान्यद्विद्यते वसु ॥ अतिथिभ्यो मया देयमिति मे व्रतमाहितम् । निःसंदिग्धं यथा वाक्यमेतन्मे समुदाहृतम् ॥ तेनाहं विप्र सत्येन स्वयमात्मानमालभे । पृथिवी वायुराकाशमापो ज्योतिश्च पञ्चमम् ॥ बुद्धिरात्मा मनः कालो दिशचैत्र गुणा दश । नित्यमेव हि पश्यन्ति देहिनां देहसंश्रिताः । सुकृतं दुष्कृतं चापि कर्म धर्मभृतां वर । यथैषां नानृता वाणी मयाद्य समुदीरिता । तेन सत्येन मां देवाः पालयन्तु दहन्तु वा ॥ ततो नादः समभवद्दिक्षु सर्वासु भारत । असकृत्सत्यमित्येव नैतन्मिथ्येति सर्वतः ॥ उटजान्तु ततस्तस्मान्निश्चक्राम स वै द्विजः । वपुषा यांच
अयोध्याकाण्डः ।
भूमिं च व्याप्य वायुरिवोद्यतः ॥ स्वरेण विप्रः शैत्रयेण चील्लोकाननुनादयन् । उवाच चैनं धर्मझं पूर्वमामन्त्र्य नामतः ॥ र्मोऽहमस्मि भद्रं ते जिज्ञासार्थं तवानघ । प्राप्तः सत्यं च ते ज्ञात्वा प्रीतिर्मे परमा त्वयि ॥ विजि- तश्च त्वया मृत्युर्योऽयं त्वामनुगच्छति । रन्ध्रान्वेषी तब सदा त्वया धृत्या वशीकृतः । न चास्ति शक्तिस्त्रैलोक्ये कस्यचित्पुरुषोत्तम । पतिव्रतामिमां साध्वीं तवोद्वीक्षितु- मप्युत ॥ रक्षिता त्वगुणैरेषा पतिव्रतगुणैस्तथा । अधृष्या यदिदं ब्रूयात्तत्तथा नान्यथा भवेत् । एषा हि तपसा स्वेन संयुक्ता ब्रह्मवादिनी ॥ पावनार्थे च लोकस्य सरिच्छ्रेष्ठा भविष्यति । अनेनैव च देहेन लोकांस्त्वमिह पत्स्यसे ॥ अर्थेनौघवती नाम त्वामर्थेनानुयास्यति । शरीरेण महा- भागा योगो ह्यस्या वशे स्थितः । अनया सह लोकांच गन्तासि तपसार्जितान् ॥ यत्र नावृत्तिमभ्येति शाश्वतां- स्तान्सनातनान् । अनेनैव च देहेन लोकांस्त्वमभिप- त्स्यसे ॥ निर्जितश्व त्वया मृत्युरैश्वर्य च तवोत्तमम् । पश्च भूतान्यतिक्रान्तः स्ववीर्याच मनोजवः ॥ गृहस्थ-
[[७२]]
धर्माकूते
धर्मेणानेन कामक्रोधौ च ते जितौ । स्नेहो रागश्च तन्द्री च मोहो द्रोहच केवलः ॥ तव शुश्रूषया राजन्राजपुत्र्या विनिर्जिता’ इति । अतश्च - पतिशुश्रूषावत्तदाज्ञापन- परिपालनमपि मुख्यो धर्मः । तथा च विज्ञानेश्वरीये ‘स्त्रीभिर्भर्तुर्वचः कार्यमेष धर्मः सनातनः’ । एतदुभया- करणेऽपि प्रत्यवायः, करणे तु ऐहिकामुष्मिकसकलकला. वाप्तिरित्यवगतम् । एवं च वनं प्रति गमनसमये सीतां प्रति सकलपतित्रताधर्मोपदेशेन स्वकीयनिष्ठुरभाषणप्र युक्तदोषपरिहाराय बहुधा भर्तुः प्रसादनेन च सकलप- तिव्रताधर्माभिज्ञा कौसल्येत्यवगम्यते । रामेणापि
शुश्रूषामेव कुर्वीत भर्तुः प्रियहिते रता ।
-इति धर्मान्तरं निराकुर्वतः
अकार्येषु च सदा सुमनोभिश्च देवताः । पूज्यास्ते मत्कृते देवि ब्राह्मणाश्चैव सुव्रताः ॥ नियतानियताहाराः भर्तृशुश्रूषणे रताः ।
अयोध्याकाण्डः !
[[७३]]
इति धर्मान्तराचरणस्याभ्यनुज्ञानेन कौसल्यायाः धर्मान्त- राचरणे भर्तुराज्ञास्तीत्यवगम्यते । अतः भर्तुराज्ञां विना स्वतन्त्रता धर्माचरणं न करिष्यति, दासीच सखी- वच मातृवद्भगिनीवञ्च भार्यावच्चोपतिष्ठत इत्यादि दशरथ- वचनगतपतिशुश्रूषणानुरोधेन तदनुज्ञयैव ध्यानादिधर्माच- रणं कृतवतीति न किंचिदनुपपन्नम् । अत एव
उवाच रामो वचनं हर्षयंस्तामनिन्दिताम् । अम्ब पित्रा नियुक्तास्मि प्रजापालनकर्मणि ॥
यानि यान्यत्र योग्यानि श्वोभाविन्यभिषेचने । तानि मे मङ्गलान्यद्य वैदेह्याश्चापि कारय ॥
{
इत्यभिहितवान् । ततश्च संजातसंतोषया कौसल्यया
वत्स राम चिरं जीव हतास्ते परिपन्थिनः । ज्ञातीन्मे त्वं श्रिया युक्तः सुमित्राया नन्दय ॥
कल्याणे बत नक्षत्रे मया जातोऽसि पुत्रक । येन त्वया दशरथो गुणैराराधितः पिता ॥
VOL. II. D 6
BA
धर्माकूते
अमोघं बत मे क्षान्तं पुरुषे पुष्करेक्षणे । येsयमिक्ष्वाकुराज्यश्रीः पुत्र त्वां संश्रयिष्यति ॥
सततं प्रियकामा मे प्रियपुत्र प्रियंवद । न मया सत्कृता देवी सत्कारार्हा कृते तव ॥’
इति । भक्त्या शुश्रूषमाणा कौसल्या सत्काराहपि त्वत्कृते न मया सत्कारैरभिनन्दितेत्यये कैकेयीविवाह- समये राज्यस्य शुल्कत्वेन प्रतिज्ञया च राज्यश्रीः परमप्रे- मास्पद कैकेयीपुत्रस्यैवेति निश्चितापि मत्कृततपश्चर्या- संतुष्टपुष्करेक्षणप्रसादपात्रभूतेन कल्याणनक्षत्रोत्पन्नेन त्व- या स्वगुणाराधितपितृप्रीतिवशादधिगतेत्युक्तम् । तथा चादिपर्वणि पूर्वयायाते राज्यानर्हस्य कनिष्ठस्यापि स्व- गुणैः पित्राराधनजनितपितृप्रीत्या राज्यप्राप्तिरुक्ता । मातापित्रोर्वचनकृद्धितः पथ्यच यः सुतः । स पुत्रः पुत्रवद्यश्च वर्तते पितृमातृषु ॥ यदुनाहमनुज्ञातस्तथा तुर्वसुनापि च । द्रुह्युना चानुना चैव मय्यवज्ञा कृता भृशम् ॥ पुरुणानुकृतं वाक्यं मानितं च विशेषतः ।
अयोध्याकाण्डः ।
[[७५]]
कनीयान्मम दायादो धृता येन जरा मम ॥ भवतोऽनु- नयाम्येवं पुरु राज्येऽभिषिच्यताम्’ इति राज्ञा पृष्टाः प्रकृतय ऊचुः - ’ यः पुत्रो गुणसंपन्नो मातापित्रोर्हितः सदा । सर्वमर्हति कल्याणं कनीयानपि सत्तमः ॥ अर्हः पूरुरिदं राज्यं यः सुतः प्रियकृत्तव ’ इति । ततो रामः पार्श्वतः समासीनं प्राञ्जलिं लक्ष्मणमवलोक्य-
लक्ष्मणेमां मया सार्धं प्रशाधि त्वं वसुंधराम् । द्वितीयं मेऽन्तरात्मानं त्वामियं श्रीरुपस्थिता ॥
सौमित्रे
व भोगांस्त्वमिष्टान्राज्यफलानि च ।
जीवितं च हि राज्यं च त्वदर्थमभिकामये ॥
अनेन श्रीरामस्य ऐश्वर्याद्युपभोगो भ्रातृभिः सहैवा- भिमतः’ इति गम्यते । तथा च बालकाण्डे
सर्वप्रियकरस्तस्य रामस्यापि शरीरतः । लक्ष्मणो लक्ष्मिसंपन्नो बहिः प्राण इवापरः ॥
धर्माकूते
न च तेन विना निद्रां लभते पुरुषोत्तमः । सृष्टमन्नमुपानीतमश्नाति न हि तं विना ॥
तथा अप्रेsपि चित्रकूटे भरतागमे ससंभ्रमं ल- क्ष्मणं प्रति
इच्छामि भवतामर्थे एतत्प्रतिशृणोमि ते । भ्रातृणां संग्रहार्थं च सुखार्थं चापि लक्ष्मण ।
राज्यमप्यहमिच्छामि सत्येनायुधमालभे । यद्विना भरतं त्वां च शत्रुघ्नं चापि मानद । भवेन्मम सुखं किंचिद्भस्म तत्कुरुतां शिखी ।
इति । एवं च, इतरैरपि संप्राप्तमैश्वर्य भ्रातृभ्यो दत्त्वैव भोक्तव्यमित्युक्तं भवति । तथा च भारते राजधर्मे युधि- ष्ठिरं प्रति व्यासः - ’ धर्ममर्थं च कामं च भ्रातृभिः सह भारत । अनुभूय ततः पश्चात्प्रस्थातासि विशां पते’ इति । स्वर्गारोहणकेऽपि ‘भीमं च भीमविक्रान्तं प्राणेभ्योऽपि प्रियं मम । अर्जुनं चेन्द्रसंकाशं यमौ चैव यमोपमौ ॥
अयोध्याकाण्डः ।
द्रष्टुमिच्छामि तां चाहं पाञ्चालीं धर्मचारिणीम् । न चेह स्थातुमिच्छामि सत्यमेव ब्रवीमि वः ॥ किं मे भ्रातृवि- हीनस्य स्वर्गेऽपि सुरसत्तमाः । यत्र ते मम सर्गो वा अयं स्वगौ मतो मम ॥ न तैरहं विना रंश्ये भ्रातृभि- ज्ञातिभिस्तथा’ इति ।
इत्युक्त्वा लक्ष्मणं रामो मातरावभिवाद्य च । अभ्यनुज्ञाप्य सीतां जगाम स्वं निवेशनम् ॥
पश्चमे— ततो राजनियोगेन ब्राह्मं रथं समास्थाय कक्षात्रयमपि रथेनैव संप्राप्तं कुलपुरोहितं वसिष्ठमुपश्रुत्य ससंभ्रममुपागतो रामभद्रः
ततोऽवतारयामास परिगृह्य रथात्स्वयम् ।
अनेनान्यैरपि एवमेव गुर्वादीनां पूजा कर्तव्या इति सूचितम् । तथा च मनुः – ’ प्रतिश्रवणसंभाषे शयानो न समाचरेत् । नासीनो न च भुञ्जानो न तिष्ठन्न परा- ङ्मुखः ॥ आसीनस्य स्थितः कुर्यादभिगच्छंस्तु तिष्ठ-
[[७८]]
धर्माकूते
तः । प्रत्युद्गम्य त्वाव्रजतः पञ्चाद्धावस्तु धावतः ॥ परा- ङ्मुखस्याभिमुखो दूरस्थस्यैत्य चान्तिकम् । प्रणम्य तु शयानस्य निदेशे चैव तिष्ठतः ॥ नीचं शय्यासनं चास्य नित्यं स्याद्गुरुसंनिधौ । गुरोश्च चक्षुर्विषये न यथेष्टासनो भवेत्’ इति । गौतमोऽपि - ‘गुरुदर्शने चोत्तिष्ठेद्रच्छ-
।
न्तमनुव्रजेत्’ इति । स एवान्यत्र ‘गुरुदर्शने कर्णप्रावृ- तावसक्थिकापाश्रयणपादप्रसारणानि च’ इति । आप स्तम्बोऽपि — ‘देवमिवाचार्यमुपासीत ’ इति । विष्णु- पुराणेऽपि ’ स्थिते तिष्ठेद्रजेद्याति नीचैरासीतवासिते ॥ शिष्यो गुरुं नरश्रेष्ठ प्रतिकूलं न संचरेत्’ इति । तत आसनार्घ्यपाद्यादिभिः समागतमाचार्यमभिपूज्य तद- नुज्ञया स्वयमप्यासन उपविवेश । ततो वसिष्ठोऽपि
उपवासं भवानद्य करोतु सह सीतया । प्रातस्त्वामभिषेक्ता हि यौवराज्ये नराधिपः ॥
इत्युक्त्वा स तदा राममुपवासं यतव्रतम् । मन्त्रवत्कारयामास वैदेह्यासहितं मुनिः ॥अयोध्याकाण्डः ।
अनेन राज्याभिषेकात्पूर्वदिने विहितं कर्मजातं कारि- तमित्युक्तम् । तत्र अभिषेकात्पूर्वदिनकृत्यमाह बोधायनः ‘अथातो राजाभिषेकविधिं व्याख्यास्यामः — पूर्वपक्षस्य पञ्चम्यां त्रयोदश्यां विषये श्रोणायां वा यानि चान्यानि शुभनक्षत्राणि तेषु पूर्वेद्युरेव युग्मान्ब्राह्मणान्भोजयेत् । आशिषो वाचयित्वा योनिगोत्रश्रुतवृत्तसंपन्नं ब्राह्मणं पु- रोहितं वृणीत ‘आकूत्यै त्वा कामाय त्वा समृधे त्वेति पुरो- हितो जपति-आकुतिमस्यावसे काममस्य समृद्धयै इन्द्रस्य युञ्जते धियः’ इति । स्वयं जपति– आकूतिं देवीं मनसः पुरोदधे यज्ञस्य माता सुहवा मे अस्तु । यदिच्छामि मनसा कामो विदेयमेनहृदये निविष्टमिति । अथास्तमित आ- दित्ये पद्माकृतिं मण्डपं कृत्वा उपकल्पयते, व्रीहियवैस्ति- लमाषैः पञ्चगव्यैः सामुद्राश्वापो नद्याश्चौदुम्बरं भद्रा- सनं व्याघ्रचर्म हेमकलशैगशृङ्गैश्व संभृत्य सह साद- यति यत्सह सर्वाणि मानुषाणीत्येतस्माद्ब्राहाणात् उत्तरपूर्व- देशेऽगारस्य पाकयज्ञविधानेन ब्रीहिभिर्यवैस्तिलमाषैर्व्या- हृतिभिः सावित्र्या च त्र्यम्बकेनाष्टसहस्रं जुहोति । अथ
[[८०]]
धर्माकृते
दक्षिणा श्रीसूक्तविधानेन श्रीदेवीमाराध्य मकुटं प्रक्षाल- यति । ’ गायत्र्या गृह्य गोमूत्रं गन्धद्वारेति गोमयम् । आप्यायस्वेति च क्षीरं दधिक्रावति वै दधि शुक्रमसीत्याज्यं देवस्य त्वेति कुशोदकम्’ इति मकुटं प्रक्षाल्य प्रतिसरं बध्नाति ‘प्रतते अद्य शिपिविष्ट ’ इति । राजानं राजवाहनं चाभिषि- वेदेतां रात्रिमुपविशेत्संविशेद्वा’ इति । ततो यथा- वद्रामेण समभ्यर्चितो वसिष्ठः रामाभिषेकश्रवणसमय- समुदितानन्दसंदोहतुन्दिलपौरजनावलोकन जनितहर्षप्रक- र्षः सर्वे सुविहितमिति राज्ञे निवेद्य तदनुज्ञया स्वभाव- नमाससाद । षष्ठे-
गते पुरोहिते रामः स्नातो नियतमानसः । सह पत्न्या विशालाक्ष्या नारायणमुपागमत् ॥
अब ’ स्नात’ इत्यनेन विशेषणेन कर्माङ्गं स्नानम्- क्तम् । तथा च बोधायनः — ‘वेदकर्माणि प्रयोक्ष्यन्ना- दित एव तीर्थे स्नात्वा’ इति । गौतमोऽपि मनः
’
अयोध्याकाण्डः ।
प्रसादात्सत्योक्त्या तपसा स्नानकर्मणा । आचान्त्या च मनःशुद्धिं कृत्वा कर्म समारभेत्’ इति । विष्णुपुराणे- ऽपि - ‘नित्यक्रियार्थ स्नायीत गिरिप्रस्रवणेषु च ’ इति । व्यासोऽपि - ’ न हि स्नानं विना पुंसां प्रायत्यं कर्मसु स्मृतम् । होमे जप्ये विशेषेण तस्मात्स्तानं समा- चरेत्’ इति । ‘नियतमानसः’ इत्यनेन निगृहीतान्तः कर-
न कर्म कर्तव्यमित्युक्तं भवति ।
।
प्रगृह्य शिरसा पात्र हविषो विधिवत्तदा । महते दैवतायाज्यं जुहाव ज्वलितेऽनले ॥
अत्र ‘ज्वलितेऽनले’ इत्यनेन प्रज्वलितेऽग्नावेव होमः कर्तव्यो न धूमाद्यवस्थायामित्युक्तम् । तथा चाथर्वणी श्रुतिः - ‘यदा लोलायते ह्यर्चिः समिद्धे हव्यवाहने । तदान्यभागावन्तरेणाहुतीः प्रतिपादयेत्’ इति । आ- पस्तम्बोऽपि - ‘यदा वीतार्चिर्लोलायतीवाग्निरथाहुतीः ’ इति । विष्णुरपि - ‘बहुशुष्केन्धने चाग्नौ सुसमिद्धे हुताशने । विधूमे लेलिहाने च होतव्यं कर्मसिद्धये ’
VOL. II. D 7
*
धर्माकूते
इति । स एवानचिषि होमे अनिष्टफलमाह—‘योऽन- चिषि जुहोत्यमौ व्यङ्गारे चैव मानवः । मन्दाभिराम- यावी व दरिद्रवोपजायते’ इति ।
।
शेषं च हविषस्तस्य प्राश्याशास्यात्मनः प्रियम् ।
अत्र हुतशिष्टस्य भक्षणादिना प्रतिपत्तिः कर्तव्या इत्युक्तं भवति । तथा च बृहदारण्यके– ‘अथाभिप्रात- रेव स्थालीपाकावृताज्येन चेष्टित्वा स्थालीपाकस्योपघातं जुहोत्यग्नये स्वाहानुमतये स्वाहा देवाय सवित्रे सत्यप्रसवाय स्वाहा इति हुत्वोद्धृत्य प्राश्नाति’ इति । ‘सच्छेषेऽप्यायु- ष्यचरौ अपरेणाग्मिं प्राङ्मुख उपविश्य, वाग्यतः स्थाली- पाकं सगणः प्राश्नाति इति । तैत्तरीयश्रुतिरपि हवि- दनिने- ‘ग्रावभिरभिषुत्याहवनीये हुत्वा प्रत्यभ्यः परेत्य सदसि भक्षयन्ति’ इति । आपस्तम्बोऽपि ‘अत्रैव ऋत्वि- जो हविःशेषान्भक्षयन्ति यजमानपश्वमा इडां प्राश्य इति सोमान्हविःशेषान्’ इति, ‘सुत्येऽहनि भक्षयति’ इति च । बोधायनोऽपि – ’ एतस्मिन्काल आग्नीधे यजमानः-
अयोध्याकाण्डः ।
पुरोडाशानां प्राश्नाति ’ । आश्वलायनोऽपि - ‘हविरु– च्छिष्टं सर्वे प्राश्नीयुः’ इति । ‘आशास्यात्मनः प्रियम्’ इत्यनेन फलवति कर्मणि फलप्रार्थनं कर्तव्यमित्युक्तम् ॥ तथा च बोधायनापस्तम्बौ - ‘ऋत्वादौ ऋतुकामं काम- येत यज्ञाङ्गादौ यज्ञाङ्गकामम्’ इति, ‘हुत्वा ध्यायेद्यत्का- मः स्यात्’ इति च ।
ध्यायनारायणं देवं स्वास्तीर्णे कुशसंस्तरे ।
अत्र सत्कर्मसु परमेश्वरण्यानं कर्तव्यमित्युक्तम् । तथा च गोपालकारिकायाम् - ‘ईश्वरो नित्यकालात्मा चि- न्तनीयः सुकर्मसु ’ इति । ‘स्वास्तीर्णे कुशसंस्तरे’ इत्य- नेन तदिने खट्टादिवर्जनपूर्वकं कुशेषु शयनं कर्तव्य- मित्युक्तम् । तथा च बोधायनः – ‘नासन्द्यां शयीत ’ इति । आपस्तम्बोऽपि - ’ उपरित्वे न शयीत’ इति । यमो ऽपि - ‘खट्टासनं च शयनं वर्जयेद्दन्तधावनम् 1 स्वपेदेकः कुशेष्वेव न रेतः स्कन्दयेत्कचित्’ इति ।
वाग्यतः सह वैदेह्या भूत्वा नियतमानसः ।
[[८४]]
धर्माकूते
’ जपकाले न भाषेत व्रतहोमादिकेषु च’ इति ।
श्रीमत्यायतने विष्णोः शिश्ये नरवरात्मजः ॥
अनेन लक्ष्मीपूजां कृत्वा पट्टाभिषेकपूर्वदिने देवतागृहे शयनं कर्तव्यमित्युक्तम् । अयमर्थः- ’ श्रीदेवीमारा- ध्यैतां रात्रिमुपविशेत्संविशेद्वा’ इति पूर्वोदाहृतबोधायनसूत्रे
स्पष्टः ।
एकयामावशिष्टायां रात्र्यां प्रतिविबुध्य सः । अलंकारविधि कृत्स्नं कारयामास वेश्मनः ॥
अत्र सूर्योदयात्प्रागेव गृहस्य संमार्जनाद्यलंकरणं कार- यितव्यमित्युक्तम् । गृहस्यालंकरणादिविधिः स्त्रिया कर्त- व्यमित्युक्तं मार्कण्डेयपुराणे - ‘स्त्रीधर्मः परं शृणु त्वं स्त्री- धर्मान्ननु विस्तरात् । उदुम्बरे वसेन्नित्यं भावनी सर्वदेवता ॥ ततः सा प्रत्यहं पूज्या गन्धपुष्पाक्षतादिभिः । अशून्या देहली कार्या प्रातःकाले विशेषतः। यस्याः शून्या भवे- त्सा तु शून्यं तस्याः कुलं भवेत् ॥ पादस्य स्पर्शनं तल
अयोध्याकाण्डः ।
[[८५]]
असंपूज्या च लङ्घनम् । कुर्वनरकमाप्नोति तस्मात्तत्परिवर्ज- येत् ॥ प्रातःकाले स्त्रिया कार्य गोमयेनानुलेपनम् । प्रत्यहं सदने तस्मान्नैव दुःखिनि पश्यति ॥ स्पृशन्ति रश्मयो यस्य गृहं संमार्जनादृते । भवन्ति विमुखास्तस्य पितरो देवमातरः ॥ निशायाः पश्चिमे यामे धान्यसंस्करणादि- कम् । क्रियमाणं हि नारीणां सर्वश्रेयोधनावहम् ॥ संध्याकाले तु संप्राप्ते धान्यसंस्करणादिकम् । कुरुते या तु मोहेन वन्ध्या जन्मनि जन्मनि । संध्याकाले तु संप्राप्ते मार्जनं न करोति या । भर्तृहीना भवेत्सा तु निःस्वा जन्मनि जन्मनि ॥ अकृतस्वस्तिका या तु कामेल्लिप्तां च मेदिनीम् । तस्यास्त्रीणि विनश्यन्ति वित्तमायुर्य- शस्तथा ॥ मार्जनीं चुल्लिकां काष्ठं दृषदश्वोपलांस्तथा । नाक्रमेदङ्घ्रिणा जातु पुत्रदारधनक्षयात् ॥ उलूखलं च मुसलं तथा चैव घरट्टकम् । पदाक्रमणात्पापी यो नाप्नुयादुत्तमां गतिम् ’ । तथा संग्रहे- ‘यद्गुहं राजते नित्यं रङ्गवल्यानुलेपनैः । तगृहे वसते लक्ष्मीर्नित्यं पूर्णकलान्विता ॥
धर्माकूते
तत्र शृण्वन्सुखा वाचः सूतमागधवन्दिनाम् ।
अत्र सुखा वाचः शृण्वन्प्रतिविबुध्येत्युक्त्या सुखसं- सुप्तोऽस्य राजा श्रुतिसुखवीणावेणुमृदङ्गशब्दैः स्तुतिभि- वोषसि प्रवोध्यः इति सूचितम् । तथा च भारते आ- दिपर्वणि-‘मधुरेणैव गीतेन वीणाशब्देन चैव ह । प्रबो- थ्यमानो बुबुधे खुतिभिर्मङ्गलैस्तथा’ इति । शान्तौ राजधर्मेऽपि - ’ ततः प्रविश्य भवनं प्रशिश्ये मधुसूदनः । याममात्रावशेषायां यामिन्यां प्रत्यबुध्यत ॥ संज्ञानपदमा- विश्य सर्वज्ञानानि माधवः । अवलोक्य ततः पश्चाद- यौ ब्रह्म सनातनम् ॥ सूताः स्तुतिपुराणज्ञा रक्तकण्ठाः सुशिक्षिताः । अस्तुवन्विश्वकर्माणं वासुदेवं प्रजापतिम् ॥ पठन्ति पाणिस्वनिनो गाथा गायन्ति गायकाः। शङ्खा- नकमृदङ्गाश्व प्रावाद्यन्त सहस्रशः ॥ वीणापणववेणूनां स्वनश्वापि मनोरमः । प्रभात इव विस्तीर्णः शुश्रुवे तस्य वेश्मनि । तथा युधिष्ठिरस्यापि राज्ञो मङ्गलसं- निभाः । उचेरुर्मधुरा वाचो गीतवादित्रसंयुताः । तत उत्थाय दाशार्हः स्नातः प्राञ्जलिरच्युतः’ इति ।
अयोध्याकाण्डः ।
कालिदासोऽपि - ‘तं कर्णभूषणनिपीडितपीवरांसं श- य्योत्तरच्छद विमर्दकृशाङ्गरागम् । सूतात्मजाः सवयसः प्रथितप्रबोधं प्राबोधयन्नुषसि वाग्भिरुदारवाचः’ इति ।
एकयामावशिष्टायां रात्र्यां प्रतिविबुध्य सः ।
S
इत्यनेन ब्राह्मे मुहूर्ते उत्थाय कर्तव्यहितचिन्तनादि- कर्मोक्तं भवति । तथा च मनुः- ‘ब्राह्मे मुहूर्ते बुध्येत धर्मार्थावनुचिन्तयेत् । कायक्लेशांश्च तन्मूलान्वेद तत्त्वार्थ- मेव च ’ इति । याज्ञवल्क्योऽपि - ’ ब्राह्मे मुहूर्ते चो- त्थाय चिन्तयेदात्मनो हितम् । धर्मार्थकामान्स्वे काले यथाशक्ति न हापयेत्’ इति । विष्णुपुराणेऽपि - ‘ब्रा- झे मुहूर्त चोत्थाय मनसा मतिमान्नृप । विबुद्धश्चिन्तये- द्धर्ममर्थं चाप्यविरोधिनम् ॥ अपीडया तयोः काममुभ- योरपि चिन्तयेत् । परित्यज्य चार्थकामौ धर्मपीडाकरौ नृप ॥ धर्ममध्यसुखोदर्क लोकविद्विष्टमेव च ’ इति । कूर्मपुराणेऽपि - ब्राह्मे मुहूर्ते उत्थाय धर्मार्थावनुचिन्त- येत् । कायक्लेशं तदुद्धन्तं ध्यायीत परमेश्वरम् ’ इति ।
[[८८]]
धर्माकूते
तत्र सूर्योदयादर्वार्धप्रहरः द्वौ मुहूतौं, तवाद्येो ब्राह्मः, द्वितीयो रौद्रः, तत्राद्यस्य लक्षणमुक्तं स्मृतिभास्करे– ‘रात्रेस्तु पश्चिमे यामे मुहूर्तो ब्राह्म उच्यते ’ इति । तत्र गुर्वादीनामपि स्मरणं कर्तव्यमित्याह शौनकः - ‘गुरुं विष्णुं नमस्कृत्य मातापित्रोस्तथैव च ’ इति । स्मृत्यन्तरे- ऽपि - ’ षोढा विभज्य रजनीं चरमांशे प्रबोधिताः । पन्या सह हरिं ध्यात्वा धर्ममर्थे च चिन्तयेत्’ इति । ध्यानप्रकारमाह व्यासः- ब्रह्मासुरारिस्त्रिपुरान्तकश्च भानुः शशी भूमिसुतो बुधश्च । गुरुश्च शुक्रः शनिराहु- केतवः कुर्वन्तु सर्वे मम सुप्रभातम्’ इति । तदा दर्शनी- यानाह कात्यायनः - ‘श्रोत्रियं सुभगं गां च अभिमनि- चितं तथा । प्रातरुत्थाय यः पश्येदापद्भयः स प्रमुच्यते ’ इति । अदर्शनीयानप्याह — ‘पापिष्ठं दुर्भगं मद्यं नम्रमु- त्कृत्तनासिकः । प्रातरुत्थाय यः पश्येत्तु तत्कुरूपलक्षणम्’ इति । नोपरुद्धः क्रियाश्चरेदित्यादिवचनैर्मलमूत्राद्युपरुद्ध- स्य कर्मानधिकारदर्शनादुत्सर्गप्रकारमाह अङ्गिराः –
[[1]]
‘उत्थाय पश्चिमे रात्रौ तत आचम्य चोदकम् । अन्त–अयोध्याकाण्डः ।
८९.
धय तृणैर्भूमिं शिरः प्रावृत्य वाससा । वाच नियम्य यत्नेन ष्ठीवनोच्छ्रासवर्जितः । कुर्यान्मूत्रपुरीषे तु शुचौ देशे समाहितः’ इति । आपस्तम्बोऽपि - ‘शिरः प्रावृत्य मूत्रपुरीषे कुर्याद्भूम्यां किंचिदन्तर्धाय ’ इति । तृणविशेषा- नाह अङ्गिराः ’ शिरः प्रावृत्य कुर्वीत शकृन्मूत्रविसर्ज- नम् । अयज्ञियैरनार्द्रैश्च तृणैः संच्छाद्य मेदिनीम्’ इति अत्र निवीतमाह बोधायनः - ‘नक्तमुष्णीषी मूत्रपुरी- बोत्सर्गेषु च निवीती’ इति । अङ्गिरास्तु ’ कृत्वा यज्ञो- पवीतं तु कण्ठतः पृष्ठलम्बितम् । विण्मूत्रं तु गृही कुर्या - द्यद्वा कर्णे समाहितम्’ इति । कर्णनिधानमेकवस्त्रविषयम् ;- तथा च सांख्यायनः — ‘यद्येकवस्त्रो यज्ञोपवीतं कर्णे कृत्वा मूत्रपुरीषोत्सर्ग कुर्यात् ’ इति । कर्णविशेषमाह स एव ‘यज्ञोपवीतं कर्णे च दक्षिणे च निधाय च । कुर्या - न्मूत्रपुरीषे तु शुचौ देशे समाहितः’ इति । तत्र कालमे- देन दिनियममाह गौतमः - ‘मूत्रपुरीषे दिवा कुर्यादु- दङ्मुखः संध्ययोश्च रात्रौ तु दक्षिणामुखः’ इति । यमस्तु - ‘प्रत्यवस्तु पूर्वाह्णे सायाह्ने प्राङ्मुखस्तथा । उदब्बु –
धर्माकूते
वस्तु मध्याह्ने निशायां दक्षिणामुखः’ इति । एतद्वचनं सूर्याभिमुखत्वनिवृत्तिपरम् । तथा च भारते ‘प्रत्या- दित्यं प्रत्यनलं प्रति गां च प्रति द्विजम् । मेहन्ति चेत्प- तिष्यन्ति भवन्ति च गतायुषः’ इति । मनुरपि - ‘मू- त्रोचारसमुत्सर्गे दिवा कुर्यादुदपुखः । दक्षिणाभि- मुखो रात्रौ सन्ध्ययोश्च यथा दिवा’ इति । विण्मूत्रादि च दूरादेव कर्तव्यम् । तथा च मनुः – ‘दूरादावसथान्मूत्रं दूरात्पादावसेचनम् । उच्छिष्टान्ननि- षेकं च दूरादेव समाचरेत्’ इति । स एव वर्ज्यदेशविशेषा- नाह- ‘न श्मशाने न च पथि न भस्मनि न गोत्रजे । न फालकुष्टे न जले न चित्यां न च पर्वते ॥ न जीर्ण- देवायतने न वल्मीके कदाचन । ससत्त्वेषु च गर्तेषु न गच्छन्नापि वा स्थितः ॥ न नदीतीरमासाद्य न च पर्व - तमस्तके । वाय्वग्निविप्रानादित्यमपः पश्यन्त्रियश्च गाः ॥ न कदाचन कुर्वीत विण्मूत्रस्य विसर्जनम्’ इति । गौतमोऽपि - ‘न भस्मकरीषकृष्टच्छायापथिकाम्येषु ’ इति । न वाय्वग्निविप्रादित्यापोदेवता गाव प्रतिपश्यन्त्रा
अयोध्याकाण्डः ।
[[११]]
मूत्रपुरीषामेध्यान्व्युदस्येत्’ इति च । आपस्तम्बोऽपि — न सोपानविण्मूत्रपुरीषे कुर्यात्कृष्ट पथ्यप्सु च च्छायायां मूत्रपुरीषयोः कर्म वर्जयेत्, अग्निमादित्यमपो ब्राह्मणं गोदेवताच्चाभिमुखो मूत्रपुरीषयोः कर्म वर्जयेत्’ इति । तदनन्तरकृत्यमाह याज्ञवल्क्यः — ‘गृहीतशिश्रश्वोत्थाय रिद्धृतोदकैः । गन्धलेपक्षयकरं शौचं कुर्यादत- न्द्रितः’ इति । देवलोsपि - ‘आशौचान्नोत्सृजेच्छिश्रं प्रस्रावोचारयोरपि । गुदं हस्तं च निर्मृज्य मृदम्भोभिर्मुहु- मुहुः’ । गौतमोऽपि - ‘लेपगन्धापकर्षिणे शौचमध्यस्य तदद्भिः पूर्व मृदा च’ इति । दक्षोऽपि - ’ तीर्थ शौचं न कुर्वीत कुर्वीतोद्धृतवारिणा’ इति । अपामुद्धरणासंभवे विशेषमाह विवस्त्रान् - ’ रत्निमात्रं जलं त्यक्त्वा कुर्या -
feature- च्छोचमनुद्धृते । पश्चाच्छोधयेत्तीर्थमन्यथा ह्यशुचिर्भवेत् ’ इति । शौचयोग्यां मृदमाह यमः - ’ आह रेन्मृत्तिकां विप्रः कूलात्ससिकता तथा’ इति । तत्रैव विशेषमाह मरीचिः– विषे शुक्ला तु मृत्प्रोक्ता रक्ता क्षत्रे विधीयते । हारि- द्रवर्णा वैश्यस्य शूद्रे कृष्णेति निर्दिशेत्’ उक्तविशेषा-
[[२२]]
धर्माकूते
भावे या काचन ग्राह्या । तथा च मनुः ’ यस्मिन्देशे तु यत्तोयं या च यत्रैव मृत्तिका । सैव तत्र प्रशस्ता स्यात्तया शौचं विधीयते ’ इति । विष्णुपुराणे वर्ज्या मृदो दर्शिताः – ’ वल्मीकमूषिकोत्खातां मृदमन्तर्जलां तथा । शौचावशिष्टां गेहाच नादद्याल्लेपसंभवाम् ॥ अणु प्राण्युपपत्रां च फालोकान्तां न कर्दमाम्’ इति । देवलो- Sपि - ’ अङ्गारतुषकीटास्थिशर्करावालुकान्विताम् । ग्राम- बाह्यान्तरालस्थां वालुकापांसुरूपिणीम् । आहृतामन्यशौ- चार्थमाददीत न मृत्तिकाम्’ इति । हस्तनियममाह देवलः- ‘धर्मविद्दक्षिणं हस्तमधः शौचे न योजयेत्’ । मृत्सरिमाण- माह शातातपः- ‘आर्द्रामलकमात्रास्तु प्रासा इन्दुव्रते स्थि- ताः । तथैवाहुतयः सर्वाः शौचार्थे याच मृत्तिकाः’ इति । स एव मृत्संख्यामाह - ‘एका लिने करे सव्ये तिस्रो द्वे हस्तयोर्द्वयोः । मूत्रशौचं समाख्यातं शकृति द्विगुणं भवेत्’ इति । मनुरपि - ‘एका लिने गुदे तिस्रः तथैकन करे दश । उभयोः सप्त दातव्याः मृदः शुद्धिमभीप्सता । एतच्छौषं गृहस्थस्य द्विगुणं तु ब्रह्मचारिणः । त्रिगुणं
॥
अयोध्याकाण्डः ।
[[९३]]
वनस्थस्य यतीनां तु चतुर्गुणम्’ इति । स्त्रीशूद्रयोरर्घ- शौचम् । तथा चादित्यपुराणे - ‘स्त्रीशूद्रयोरर्धमानं प्रोक्तं शौचं मनीषिभिः । दिवा शौच निश्य पथि पाद विधीयते ॥ देशं कालं तथात्मानं द्रव्यं द्रव्यप्रयोजनम् । उपपत्तिमवस्थां च ज्ञात्वा शौचं प्रकल्पयेत्’ इति । उक्त- संख्या गन्धलेपनिवृत्तौ मनुः - ‘यावन्नापैत्यमेध्याक्ता- द्वन्धो लेपश्च तत्कृतः । तावन्मृद्वारि देयं स्यात्सर्वद्रव्य- विशुद्धिषु’ । मनस्तुष्टयभावे देवलः – ’ यावत्तु शुद्धिं मन्येत तावच्छौचं विधीयते ’ इति । शौचस्यावश्यकर्त- व्यतामाह दक्षः– ‘शौचे यत्नः सदा कार्यः शौचमूलो यतो द्विजः । शौचाचारविहीनस्य समस्ता निष्फलाः क्रियाः’ इति । तत आचमनमाह पराशरः – ‘कृ- त्वाथ शौचं प्रक्षाल्य पादौ हस्तौ च मृज्जलैः । निबद्ध- शिखकच्छ्रस्तु तत आचाममाचरेत् ॥ कृत्वोपवीतं सव्येन वाङ्मनः कायसंयतः’ इति । आचमनप्रकारमाह आप- स्तम्बः – ‘आसीनस्त्रिराचामेद्धृदयंगमाभिरद्भिः’ इति । याज्ञवल्क्योऽपि - ’ अन्तर्जानुः शुचौ देशे उपविष्ट
[[१४]]
धर्माकूते
W
उदङ्मुखः । प्राग्वा ब्राह्मेण तीर्थेन द्विजो नित्यमुपस्पृ- शेत्’ इति । गौतमोऽपि - ‘शुचौ देशे आसीनो दक्षिणं बाहुं जान्वन्तरा कृत्वा यज्ञोपवीत्या मणिबन्धात्पाणी प्र- क्षाल्य वाग्यतो हृदयस्पृशस्त्रिश्चतुर्वाप आचामेत्’ इति । खादिरगृह्येऽपि ‘त्रिराचम्यापो द्विः परिमृजीत पा दावभ्युक्ष्य शिरोऽभ्युक्ष्येन्द्रियाण्यद्भिः संस्पर्शयेदन्ततः प्रत्युपस्पृश्य शुचिर्भवति’ इति । ‘ब्राह्मण तीर्थेनोप- स्पृशेत्’ इत्युक्तम् ; तत्र ब्राह्मादितीर्थलक्षणमाह याज्ञव- ल्क्यः - ‘कनिष्ठादेशिन्यकुष्ठमूलान्ययं करस्य तु । प्रजा- पतिपितृब्रह्मदेवतीर्थान्यनुक्रमात् ’ इति । एतदेव शङ्ख- लिखिताभ्यां स्पष्टीकृतम् । ’ अङ्गुष्ठमूलस्योत्तरतः प्राग- प्रायां ब्राह्मं तीर्थं प्रदेशिन्यङ्गुष्ठयोरन्तरा पित्र्यं कनिष्ठातलयोरन्तरा प्राजापत्यं पूर्वेणा लिपर्वणि दैवम्’ इति । आचमनार्थमुदकं विशिनष्टि पराशरः- ‘अद्भिः समुद्धृताभिस्तु हीनाभिः फेनबुद्बुदैः । वह्निना च न तप्ताभिरक्षाराभिरुपस्पृशेत्’ इति । याज्ञवल्क्यो- ऽपि ‘अद्भिस्तु प्रकृतिस्थाभिः हीनाभिः फेनबुद्बुदैः ।
अयोध्याकाण्डः ।
९५.
हृत्कण्ठतालुकाभिश्च यथासंख्यं द्विजातयः । शुद्धेरस्त्री
{
च शूद्रश्व सकृत्स्पृष्टाभिरन्ततः’ इति । प्रचेता अपि —- अनुष्णाभिरफेनाभिः पूताभिर्वखचक्षुषा । हृताभिरर- ताभिखिचतुर्वाद्विराचमेत्’ इति । तत्रापवादमाह यमः - ‘रात्राववीक्षितेनापि शुद्धिरुक्ता मनीषिणाम् । तथो. ष्णेनोष्णपायिनाम्’ इति । उदकस्य ग्रहणप्रकारं परि-
माणं चाह भरद्वाजः ’ आयतं पर्वतः कृत्वा गोकर्णाकृ-
:-’
तिवत्करम् । संहताङ्गुलिना तोयं गृहीत्वा पाणिना द्वि- जः ॥ मुक्ताङ्गुष्ठकनिष्ठेन शेषेणाचमनं चरेत् । माषमज्जन– मात्रास्तु संगृह्य त्रिः पिबेदपः ’ इति । ‘सव्यपाणिर्द- क्षिणो द्रष्टव्यः विः पिबेदक्षिणेनाम्बु’ इति पुराणवचनात् । उदकपानानन्तरभाविनीमितिकर्तव्यतामाह दक्षः – ’ सं- हृत्याङ्गुलिमूलेन द्विः प्रमृज्य ततो मुखम् । संहताभि- चतसृभिः पूर्वमास्यमुपस्पृशेत्’ अङ्गुष्ठेन प्रदेशिन्या वाणं स्पृष्ट्वा त्वनन्तरम् । अङ्गुष्ठानामिकाभ्यां तु चक्षुः- श्रोत्रे ततः परम् । कनिष्ठाङ्गुष्ठयोर्नाभि हृदयं तु तलेन वै । सर्वाभिश्च शिरः पश्चाद्बाहू चात्रेण संस्पृशेत्’ इति ।
[[1]]
धर्माकूते
★
आपस्तम्बोऽपि - ‘त्रिष्टौ परिमृजेहिरित्येके सकृदुपस्पृ- शेदित्येके दक्षिणेन पाणिना सव्यं प्रोक्ष्य पादौ शिर- वेन्द्रियाण्युपस्पृशेचक्षुषी नासिके श्रोत्रे चाथाप उपस्पृ- शेत्’ इति । गौतमोऽपि द्विः परिमृज्य पादौ चाभ्यु- क्षेत्खानि चोपस्पृशे च्छीर्षण्यानि मूर्धानि च दद्यात् ’ इति । आचमननिमित्तान्याह मनुः – ’ कृत्वा मूत्रं पुरीषं च खान्याचान्त उपस्पृशेत् । वेदमध्येष्यमाणञ्च अन्नम-
।
[[1]]
श्व सर्वदा’ इति । आपस्तम्बोऽपि - ‘मूत्रं कृत्वा पुरीषं वा मूत्रपुरीषलेपानन्नलेपानुच्छिष्टलेपान्रेतसश्च ये लेपा- स्तान्प्रक्षाल्य पाणी पादौ चाचम्य प्रयतो भवति’ इति । स एवान्यत्र – ‘स्वप्ने क्षवथ शृङ्खाणिकाञ्चालम्भे लोहि- तस्य केशानावां ब्राह्मणस्य स्त्रियाश्रालम्भे महापथं च गत्वामेध्यं चोपस्पृश्याप्रयतं च मनुष्यं नीवीं च परि- ‘धायाप उपस्पृशेत्’ ‘आर्द्र वा शकृदोषधीर्भूमिं वा’ इति । सुवा क्षुत्वा च भुक्त्वा च निष्ठीव्योक्त्वानृतं वचः । रथ्यां श्मशानं चाक्रम्य आचामेत्प्रयतोऽपि सन् । बृहस्पतिस्तु ‘अधो वायौ समुत्कान्ते आक्रन्दे को संभवे । मार्जा-
।
अयोध्याकाण्डः ।
रमूषिकस्पर्शे प्रहासेऽनृतभाषणे ॥ निमित्तेष्वेषु सर्वेषु कर्म कुर्वन्नुपस्पृशेत्’ इति । यमोऽपि - ‘उत्तीर्योदक- माचामेदवतीर्य तथैव च । एवं स्यात्तेजसा युक्तो वरुणो- ऽपि तु पूजितः’ इति । आचमनासंभवे मार्कण्डेयः– ‘सम्यगाचम्य तोयेन क्रियाः कुर्वीत वै शुचिः । देवता- नामृषीणां च पितॄणां चैव यत्नतः ॥ कुर्वीतालम्भने चापि दक्षिणश्रवणस्य वा । यथा विभवतो ह्येतत्पूर्वाभावे ततः परम् ॥ न विद्यमाने पूर्वोक्ते उत्तरप्राप्तिरिष्यते’ इति । बोधायनोऽपि - ‘नीवीं विसृज्य परिधाय उपस्पृशेदा- तृणं भूमिं गोमयं वा संस्पृशेत्’ इति । पुनराचमननि- मित्तमाह याज्ञवल्क्यः - ’ स्नात्वा पीत्वा क्षुते सुप्ते भुक्त्वा रथ्योपसर्पणे । आचान्तः पुनराचामेद्वासो विपरिधाय च इति । कूर्मपुराणेऽपि प्रक्षाल्य पाणी पादौ च भुञ्जानो द्विरुपस्पृशेत् । शुचौ देशे समासीनो भुक्त्वा च द्वि-
। रुपस्पृशेत् ॥ ओष्ठावलोमको स्पृष्ट्वा वासो विपरिधाय च । रेतोमूत्रपुरीषाणामुत्सर्गेऽशुद्धभाषणे ॥ वीवि- त्वाध्ययनारम्भे कामश्वासागमे तथा । चत्वरं याम-
VOL. II. D 8
धर्माते
शानं वा समागम्य द्विजोत्तमः । सन्भ्ययोरुभयोस्तद्- दाचान्तोऽप्याचमेत्ततः’ इति । अशुद्धभाषणे निष्ठुर- भाषणे आचमनापवादमाह बोधायनः - ‘दन्तवद्दन्तल- प्रेषु धारणम्’ इति । दन्तप्रदन्तसक्तयोः निर्धार्यानि- हर्यरूपेण मेदः, अत एव देवलः – ‘भोजने दन्तळझानि निर्हत्याचमनं चरेत् । दन्तलनमसंहार्य लेपमन्ये तदन्त- वत् ॥ न तब बहुशः कुर्याधनमुये पुनः’ इति । अथाचमनफलमाह व्याघ्रपादः - ‘य एवं ब्राह्मणो नि- त्वमुपस्पर्शनमाचरेत् । ब्रह्मादिस्तम्बपर्यन्तं जगत्संपरितर्प- येत्’ इति । अथ दन्तधावनम् । तत्रात्रिः- ‘मुखे पर्युषिते नित्यं भवन्त्यप्रयता नराः । तदार्द्रकाष्ठं शुष्कं वा भक्ष- येन्तभावने’ इति । तत्र वृक्षविशेषमाह अङ्गिराः- ‘आम्रपुन्नागबिल्वानामपामार्गशिरीषयोः । भक्षयेत्प्रात- इत्थाय वाग्यतो दन्तधावनम्’ इति । स्मृत्यर्थसारे तु—
। अङ्गुल्या धावयेदन्तान्वर्जयेत्तु प्रदेशिनीम् । मध्यमाना- मिकाधैर्दन्तदा भवत्यपि ’ । वर्ज्यानाह उशना :– अङ्गुलीभिर्दन्तान्प्रक्षाळयेदिति रिक्तविषयम् । दक्षिणाभि-अमोध्याकाण्डः ।
मुखो भूत्वा नाद्यातिलकदम्बकम् ॥ तिन्दुकेदिबन्धूका- मोचामरज बिल्वकम् । कर्पासं दन्तकाष्ठं च विष्णोरपि इरेच्छ्रियम् ॥ न भक्षयेत पालाशं कार्पासं शाकुमेव च । एतानि भक्षयेद्यस्तु क्षीणपुण्यः स जायते’ इति । वर्ज्य- तिथीनाह विष्णुः-’ प्रतिपद्दर्शषष्ठीषु चतुर्दश्यष्टमीषु च । नवम्यां भानुवारे च दन्तकाष्ठं विवर्जयेत्’ इति । यमोऽपि - ’ श्राद्धे जन्मदिने चैव विवाहे जीर्णदोषतः । व्रते चैवो– पवासे च वर्जयेद्दन्तधावनम्’ इति । स्मृत्यन्तरे - ‘तृण- पर्णैः सदा कुर्यादम एकादशीं विना । तयोरपि च कुर्वीत जम्बूप्लक्षरसालकैः’ इति । अलामे दन्तकाष्ठानां निषि- द्धायां तिथौ तथा । अपां द्वादशगण्डूषैर्विदध्युर्दन्तधाव- नम्’ इति । ‘मुक्त्वा चानामिकाङ्गुष्ठौ वर्जयेद्दन्त- धावनम्’ इति च । अथ स्नानम्, तत्र कूर्मपुराणे - ’ प्रक्षाल्य दन्तकाष्ठं वै भक्षयित्वा यथाविधि । आचम्य प्रयतो नित्यं प्रातः स्नानं समाचरेत्’ इति । दक्षोऽपि - ‘अस्नात्वा नाचरेत्कर्म जपहोमादि किंचन । लालास्वेदस- माकीर्णः शयनादुत्थितः पुमान् ॥ अत्यन्तमलिनः कायो
व्यासः-
धर्माकूते
नवच्छिद्रसमन्वितः । स्रवत्येव दिवारात्रं प्रातः स्नानं विशो- धनम् ॥ प्रातः स्नानं प्रशंसन्ति दृष्टादृष्टफलं हि तत् । सर्वमईति शुद्धात्मा प्रातः स्नायी जपादिकम् ’ इति । ’ ऋषीणामृषिता नित्यं प्रातः स्नानान संशयः । अलक्ष्मीः कालकण्ठी च दुःस्वप्नदुर्विचिन्तनम् ॥ प्रातः स्नानेन पापानि पूयन्ते नात्र संशयः । अज्ञाना- यदि वा मोहाद्रात्रौ दुचरितं कृतम् । प्रातः स्नानेन तत्सर्वं शोधयन्ति द्विजातयः’ इति । स्नानप्रकारच चतुर्विंश- तिघा दर्शितः । स्नानमन्दैवतैर्मन्त्रैर्वारुणैश्व मृदा सह । कुर्याद्वयाहृतिभिर्वा यत्किचेदमुचापि वा ॥ दन्तान्प्रक्षा- स्य नद्यादौ गृहे चेदममन्त्रवत् । अमन्त्रवदिति मन्त्रसं- पोऽभिहितः । प्रातः संक्षेपतः स्नानं होमलोपावि- गर्हितः । कालनियममाह जाबालि : — ’ सततं प्रातरु- स्थाय दन्तावनपूर्वकम् । आचरेदुषसि स्नानं तर्पयेदेव- मानुषम् ’ इति । तत्र स्नाने अघमर्षणare afrकः- ’ नावाचान्त वारिमध्ये त्रिः पठेदघमर्षणम्’ इति । - स्नानानन्तरं वस्त्रनिष्पीनं कर्तव्यम् । तत्राह भार -
द्वाजः-
भयोध्याकाण्डः ।
[[१०१]]
वोदकमपेक्षन्ते ये मृता ज्ञानकर्मणि ।
dence प्रयत्न जलं भूमौ निपातयेत्’ । निष्पीडन- मन्त्रः– ‘ये के चास्मत्कुले जाताः अपुत्रा गोत्रिणो मृताः । ते गृहन्तु मया दतं वस्त्रनिष्पीडनोदकम् ’ इति । अत्र उक्तस्नानं द्विविधम् ; तथा च स्मृत्य- न्तरे- ‘स्नानं तु द्विविधं
►
दतः । तयोस्तु वारुणं मुख्यं
नित्यं नैमित्तिकं वाक्थं क्रिया
प्रोक्तं गौणमुख्यप्रभे- तत्पुनः षड्विधं भवेत् ॥
मळकर्षणम् । क्रिया-
स्नानं तथा षष्ठं षोढा स्नानं प्रकीर्तितम् ’ इति । एतेषां लक्षणमाह शङ्खः - ‘अस्नातस्तु पुमान्नाहों जप्याग्नि- हवनादिषु । प्रातः स्नानं तदर्थं तु नित्यस्नानं प्रकीर्ति- तम् । चण्डालशवधूमादि स्पृष्ट्वा स्नातां रजस्वलाम् । स्नानास्तु यदा स्नाति स्नानं नैमित्तकं हि तत् ॥ पुष्पस्नानादिकं यत्तु देवशविधिचोदितम् । तद्धि काम्यं समुद्दिष्टं नाकामस्तत्प्रयोजयेत् ॥ मलापकर्षणं स्नानम- भ्यङ्गादिप्रपूर्वकम् । मलापकर्षणार्थाय प्रवृत्तिस्तस्य नान्य- था ॥ जनुकामः पवित्राणि वर्चिष्मान्देवताः पितॄन् ।
ક્
धर्माकूते
g
स्नानं समाचरेद्यस्तु क्रियाङ्गं तत्प्रकीर्तितम् ॥ सरःसु देवखातेषु तीर्थेषु च नदीषु च । क्रियास्नानं समुद्दिष्टं स्नानं तत्र मता क्रिया’; स्नानमेव क्रिया कार्यतया विहिता इत्यर्थः । अथ प्रसङ्गान्माध्याह्निकस्नानम् । तब बोधा- यनस्त्वाह- ’ ततो मध्याह्नसमये पुनः स्नानं समाच- रेत् । सूर्यस्य चाप्युपस्थानं जपहोमादिकं ततः ’ । तत्र वि- शेषमाह विष्णुः- ‘प्रातः स्नातोऽपि विधिवत्स्नानं मध्यंदिने चरेत् । शक्तश्चेदन्यथा रोगी शाट्या संमार्जनं चरेत् इति । तत्राश्रमभेदेन व्यवस्थामह दक्षः – ‘प्रातर्मध्या- हृयोः स्नानं वानप्रस्थगृहस्थयोः । यतेस्रिषवणं स्नानं सकृत्तु ब्रह्मचारिणाम्’ इति । स्मृत्यर्थसारे तु - ’ सर्वे वापि सकृत्कुर्युरशक्तौ चोदकं विना’ इति । एतच्च मध्या- इस्नानं सावकाशतया समन्त्रकं कर्तव्यम् । तत्र मन्त्रस्नानावश्यिकतामाह व्यासः- ‘मन्त्रपूतजलैः स्नानमाहुः स्नानफलप्रदम् । न वृथा वारिमग्नानां यादसामिव तत्फलम्’ इति । विष्णुस्तु ‘ब्रह्मक्षत्र- विशां चैव मन्त्रवत्स्नानमिष्यते । तूष्णीमेत्र तु शूद्रस्य
अयोध्याकाण्डः ।
[[१०३]]
स्त्रीणां च कुरुनन्दन’ इति । बोधायनोऽपि ‘अपो- अवगाहनं स्नानं विहितं सार्ववर्णिकम्’ ‘मन्त्रवत्प्रोक्षणं चापि द्विजातीनां विशिष्यते’ इति । स्नानाईजलमाह मनुः - ‘नदीषु देवखातेषु तटाकेषु सरित्सु च । स्नानं समाचरेन्नित्यं गर्तप्रस्रवणेषु च’ इति । वर्ज्यान्याह स एव - ‘परकीयनिपानेषु स्नायाद्वै न कदाचन । पञ्चपि- डान्समुद्धत्य स्नायाद्वा संभवे पुनः’ इति । समुद्रस्नानं प्रशस्तमित्युक्तं भारते- ‘आजन्मशतसाहस्रं यत्पापं कुरुते कचित् । मुच्यते सर्वपापेभ्यः स्नात्वैव ळवणाम्भसि’ इति । अथ नैमित्तिकखानमाह मनुः– ‘दिवाकीर्त्यमु दक्यां च पतितं सूतिकां तथा । शवं तत्स्पृष्टिनं चैव स्पृष्ट्वा ज्ञानेन शुध्यति’ । दिवाकीर्त्यः चण्डालः । गौतमोऽपि - ‘पतितचण्डालसूतिकोदस्यावस्पृष्टितत्स्पृट्युपस्पर्शने स- चेल उदकोपस्पर्शनाच्छुच्छेत् । शुनश्चेति पतितादिस्पृ- ष्टिनं समारभ्य तृतीयख सचेलं स्नानं न चतुर्थस्य उदको- पस्पर्शनमेव । तथाह मरीचिः – ’ उपस्पृशेश्चतुर्थस्तु तदू प्रोक्षणं भवेत्’ इति । संग्रहकारस्त्वाह- ‘अबुद्धिपूर्वसं-
[[1]]
अयोध्याकाण्डः ।
०५.
च यत्तैलं पुष्पवासितम् । अन्यद्रव्ययुतं तैलं न दुष्यति कदाचन’ इति । उक्तसर्वविधस्नानमपि उष्णोदकेन न कर्तव्यम् । तथा च शङ्खः – ’ स्नातस्य वह्नितप्तेन तथैव परवारिणा । शरीरशुद्धिर्विज्ञेया न तु स्नानफलं भवेत्’ इति । याज्ञवल्क्योऽपि ‘वृथा तूष्णोदकस्नानं वृथा जप्यमवैदिकम् । वृथा त्वश्रोत्रिये दानं वृथा भुक्तमसाक्षि- कम्’ । अशक्तानामुष्णोदक स्नानमनुजानाति यमः - ‘आ- दित्यस्य करैः पूतं पुनः पूतं च वह्निना । आम्नातमातुर- खाने प्रशस्तं तु शृतोदकम् ’ इति । स्मृत्यर्थसारेऽपि - ‘वायां कूपे तटाके च पारक्ये चोष्णवारिणि । प्रातः स्नानं नरः कुर्यादुष्णेनैव सदातुरः’ इति । ‘अशक्तौ शोभनगृहे शोभनाहे च सर्वथा । न शीतलजलस्नानं कायै चैवोष्णसेचनम्’ इति च । नद्याद्यभावे अनातुरस्यापि स एवाह - ‘नित्यं नैमित्तिकं चैव क्रियाङ्ग मलकर्ष- णम् । तीर्थाभावे तु कर्तव्यमुष्णोदकपरोदकैः’ इति । तत्र विशेषमाह व्यासः - ‘शीतास्वप्सु निषिच्योष्णा मन्त्र- संभारसंभृताः । गेहेषु शस्यते स्नानं तद्धीनमफलं बहिः ’
VOL. II. D 9
[[१०६]]
इति । एतच स्नानं रात्रौ नद्यादिषु न कर्तव्यम् । तथा स्मृत्यर्थसारे ‘क्रियास्नानं च काम्यं च पारक्यो- ष्णेषु वर्जयेत् । नद्यां नास्तमिते स्नायाद्विशेषान्मध्यया- मोः ॥ अग्नि प्रज्वाल्य वा स्नायाद्वाप्यादिषु महा- जळे । राहुदर्शनसंक्रान्तिविवाहोत्कान्तिवृद्धिषु ॥ स्नान- दायादिकं कार्य निशि काम्यत्रतेषु च । अस्पृश्यस्पर्शनं स्नानं निश्युष्णेन जलेन च’ इति । उक्तस्नानस्यापवा- दसाह स एव ‘न स्नायादुत्सवेऽतीते माङ्गल्यं विनि- वर्त्य च । अनुब्रज्य सुहृद्वन्धूनर्चथित्वेष्टदेवताः’ इति । केषां चिशिरस्कं स्नानमाह स एव – ‘यत्र पुंसः सचेलं स्यात्स्नानं तव सुवासिनी । कुर्वीतैवाशिरः स्नानं शिरो - रोगी जटी तथा इति । गौणस्नानान्याह व्यासः- ’ अशक्तावशिरस्कं वा स्नानमात्रं विधीयते । आर्द्रेण वाससा वाङ्गमार्जनं कापिलं स्मृतम् ॥ अप्रायत्ये समुत्पन्ने खानमेव समाचरेत् । ब्राह्मादीन्यथ वाशक्तौ स्ना- नात्याहुर्मनीषिणः ॥ ब्राह्ममाग्नेयमुद्दिष्टं वायव्यं दि- व्यमेव च । वारुणं यौगिकं चैव षोढा स्नानं प्र-
अयोध्याकाण्डः ।
कीर्तितम् ॥ ब्राह्मं तु मार्जनं मत्रैः कुशैः सोदक- बिन्दुभिः । आग्नेयं भस्मना स्नानं वायव्यं गोरजः स्मृतम् ॥ यत्तु सातपवर्षेण तत्स्नानं दिव्यमुच्यते । वारुणं चावगाहं च मानसं चात्मवेदनम् ॥ यौ- गिकं खानमाख्यातं योगो यद्विष्णुचिन्तनम् । आ- त्मतीर्थमिति ख्यातं सेवितं ब्रह्मवादिभिः’ इति । गौतमस्तु — ‘भस्मोद्धूलनमित्युक्तं प्रथमं मन्त्रसंयुतम् । वारुणं मानसं मन्त्रं भौमं स्नानं तु पञ्चमम् ॥
दिव्यं च वायव्यमष्टमं च कुशोदकम् । गोमूत्रं नवमं ज्ञेयं विप्रपादोदकं दश’ इति । तत्रैव ‘गुणा दश- स्नानपरस्य पुंसो रूपं च तेजश्च बलं च शौर्यम् । आयुष्यमारोग्यमलोलुपत्वं दुःस्वप्रनाशश्च तपश्च मेथाः ॥ स्नाने मनःप्रसादः खादेवा अभिमुखाः सुधीः । सौभाग्यं श्रीः सुखं पुष्टिः पुण्यं विद्या यशो धृतिः ॥ महापापान्यलक्ष्मीश्च दुरितं दुर्विचिन्तनम् । शोकदुः- खादिहरणं प्रातः स्नानं विशेषतः’ इति । ततो वस्त्र- धारणम्; तथा च मत्स्यपुराणे- ’ एवं स्नात्वा ततः
[[१०८]]
धर्माकूते
कुर्यादाचम्य च विधानतः । उत्थाय वाससी शुक्ले शुद्धेति परिधाय च’ इति । कुर्यादित्यव कर्मेति शेषः । वस्त्रविषये गौतमः - ‘सति विभवे न जीर्ण- मलवद्वासाः स्यात्’ ‘न रक्तमुल्बणमन्यधृतं बा वासो बिभृयात्’ इति । आपस्तम्बोsपि - ‘सर्वान्रागा- न्वाससि वर्जयेत्कृष्णं च स्वाभाविकमनूद्भासि वासो वसीत प्रतिकृष्टुं च शक्तिविषये ’ इति । अनूद्भाकि अबहुमूल्य मित्यर्थः । प्रतिकृष्टं निकृष्टं जीर्ण मलवत् स्थूलं च तद्विपरीतम्, अप्रतिकृष्टं तादृशं च वासो वसीत शक्तौ सत्यामित्यर्थः । योगयाज्ञवल्क्योऽपि — ’ स्नात्वैवं वाससी धौते त्वच्छिद्रे परिधाय च’ इति । तत्र विशेषमाह व्यासः – ‘नोत्तरीयमधः कुर्यानोपर्या- धस्त्यमम्बरम् । नान्तर्वासो विना जातु न वसेद्रसन बुधः’ इति । मार्कण्डेयपुराणे तु ‘अवमृज्यानं व स्नातो गात्राण्यम्बरपाणिभिः । न च निर्धुनिया- केशान्वासचैव न निर्ध्नुयात्’ इति । वखल- क्षणमाह- ‘ईषद्धौ नवं श्वेतं सदसंपन्नधारितम् ।
-*
अयोध्याकाण्डः ।
[[१०९]]
अहतं तद्विजानीयात्सर्वकर्मसु पावनम्’ इति । भृगुस्तु वर्णभेदेन वस्त्रविशेषमाह - ‘ब्राह्मणस्य सितं वस्त्रं नृपे रक्तमनुल्बणम् । पीतं वैश्यस्य शूद्रस्य नीलं मलवदि- यते ॥ क्षौमं वासः प्रशंसन्ति तर्पणे सदृशं तथा । काषायं धातुरक्तं वा नोल्वणं तत्र कर्हिचित्’ इति । बोधायनस्तु – ‘कर्तव्यमुत्तरं वासः पश्वस्वेतेषु कर्मसु । स्वाध्यायोत्सर्गदानेषु भुक्त्याचमनयोस्तथा’ इति । एतच सर्वकर्मोपलक्षणार्थम, अनुत्तरीयस्य कर्ममात्रनिषेधात् । तथा च विष्णुपुराणे - ‘होमदेवार्चनाद्यासु क्रियासु पठने तथा । नैकवत्रः प्रवर्तेत द्विज आचमने जपे’ इति । नग्नस्यानधिकारमाह भृगुः - ‘विकच्छोऽनुत्तरीयञ्च नन- sara एव च । श्रौतं स्मार्त तथा कर्म न नग्नचि- न्तयेदपि’ इति । नग्नलक्षणमाह व्यास एव - ‘नग्नो मलिनवस्त्रः स्यान्नमश्चार्द्र पटः स्मृतः । नग्नस्तु दग्धवस्त्रः स्याननः स्यूतपटस्तथा’ इति । अलाभे गौणवस्त्रमाह भृगुः – ‘अलाभे धौतवस्त्रस्य शाणाक्षौमाविकानि च । -कुतपं योगपट्टे च विवासास्तु न वै भवेत्’ इति । ‘कुतपं
[[140]]
धर्माते
योगपट्टे च धारयेत्’ इति शेषः ॥ ततः
पूर्वी संध्यामुपासीनो जजाप यतमानसः ।
अनेन काले प्राप्ते रामेण संध्योपासनात्सर्वैरपि काले प्राप्ते संध्योपासनं कर्तव्यमिति सूचितम् । सं- ध्यायाः कालं स्वरूपमनुष्ठानप्रकारं च प्रभप्रतिवचनाभ्यां ताण्डिनः समामनन्ति ‘ब्रह्मवादिनो वदन्ति कस्मा- ब्राह्मणः सायमासीनः संध्यामुपास्ते कस्मात्प्रातस्ति- छन्, का च संध्या कव संध्यायाः कालः किं च सं- ध्यायाः संध्यात्वं देवा वासुराश्चास्पर्धन्त ते सुरा आदि- त्यमभिद्रवन् स आदित्योऽबिभेत्तस्य हृदयं कर्मरूपेणा- तितिष्ठत् । स प्रजापतिमुपाधावत् । तस्य प्रजापतिरे- तद्वेषजमपश्यतं च सत्यं च ब्रह्म चोंकारं च त्रिपदां च गायत्रीं ब्राह्मणो मुखमपश्यत् । तस्माद्ब्राह्मणो रा- त्रस्य संयोगे संध्यामुपास्ते स ज्योतिष्याज्ज्योतिषो दर्शनात्सोऽस्य कालः, सा संध्या तत्संध्यायाः संध्या- त्वं यत्सायमासीनः संध्यामुपास्ते तया वीरस्थानं जयति अथ यदपः प्रयुङ्क्ते ता विशुषो वज्रीभवन्ति ता कि-
अयोध्याकाण्डः ।
श्रुषो वज्रीभूत्वासुरानपानन्ति ततो देवा अभवन्परासुरा भवति आत्मना परास्य भ्रातृव्यो भवति य एव वेदे इति यत्सायमासीनः संध्यामुपास्ते तथा वीरस्थानं वीर- स्थानं च संततमविच्छिन्नं भवति य एवं वेद’ इति । आश्वलायनोऽपि ‘नित्योदकः संध्यामुपासीत वा- ग्यतः सायमुत्तरमभिमुखः अन्वष्टयदेशमस्तमिते म ण्डलमा नक्षत्रदर्शनात् । एवं प्रातः प्रामुखस्तिष्ठना मण्डलदर्शनात्’ इति । आपस्तम्बोऽपि – ’ संध्योश्च बहिर्ग्रामादासनं वाग्यतंत्र्य’ इति । गौतमोऽपि - ‘बहिः संभ्यस्त्रं च तिष्ठेत्पूर्वमासीतोत्तरम्’ इति । अत्र संध्योपासने संध्यायां देवताभिध्यानं तथा च तैत्तरीयश्रुतिः - ‘उद्यन्तमस्तं यन्तमादित्यमभिध्यायन्त्रा- ह्मणो विद्वान्सकलं भद्रमतेऽसावादित्यो ब्रह्मेति ब्रह्मैव सन्ब्रह्माप्येति य एवं वेद’ इति । अस्यार्थः - ‘सव्याहृ-
। तिं सप्रणवामिति मन्वाद्युक्तप्रकारेण प्राणायामं कुर्व- न्यथोक्तनामरूपविशिष्टं संध्याशब्दवाच्यमादित्यं ब्रह्मेति ध्यायन्नैहिकामुष्मिकं च सकलं भद्रमभ्नुते । य एवभु-
[[११२]]
धर्माकूते
क्यानेन शुद्धान्तःकरणो ब्रह्म साक्षात्कुरुते स पूर्वमपि ब्रह्मैव सत्रज्ञानाज्जीवत्वं प्राप्तः यथोक्तज्ञानेनाज्ञानापगमे सति ब्रह्मैवाप्नोति’ इति । व्यासस्तु - ‘न भिन्नां प्रति- पथेत गायत्रीं ब्रह्मणा सह । सोऽहमस्मीत्युपासीत विधि- ‘ना येन केनचित्’ इति । तत्र संध्यास्वरूपमाह दक्षः– ‘अहोरातस्य यः संधिः सूर्यनक्षत्रवर्जितः । सा तु संध्या समाख्याता मुनिभिस्तत्त्वदर्शिभिः’ इति । तत्र भवा क्रिया वा संध्या, इयं च संध्या अहरहः कर्तव्या ; तथा च श्रुतिः ‘अहरहः संध्यामुपासीत’ इति । योग- याज्ञवल्क्यस्तु — ‘संध्योः संध्यामुपासीत नास्तमे नोद्रते खौ’ इति । देवताभेदपूर्वकं संध्यान्त्रैविध्यमाह व्यासः - ‘गायत्री नाम पूर्वाह्ने सावित्री मध्यमे दिने । सरस्वती च सायाहे सैव संध्या त्रिधा मता’ इति । एवं त्रि- विधापि संध्या कर्तव्येत्याहात्रिः– ‘संध्यात्रयं तु कर्त- व्यं द्विजेनात्मविदा सदा’ इति । संध्यानुष्ठानप्रकारमाह योगयाज्ञवल्क्यः– ’ प्राणानायम्य संप्रोक्ष्य विचैनान्दै- वतेन तु’ इति । बृहस्पतिरपि – ‘बध्वासनं नियम्यास-
अयोध्याकाण्डः ।
[[११३]]
स्मृत्वाचार्यादिकं तथा । संनिमीलितदृयौनी प्राणाया- -मान् समभ्यसेत्’ इति । प्राणायामलक्षणमाह मनुः – ‘सव्याहृर्ति सप्रणवां गायत्रीं शिरसा सह । विः ‘पठेदायतप्राणः प्राणायामः स उच्यते ’ इति । प्राणायाम- संख्या कूर्मपुराणे दर्शिता- ‘प्राणायामत्रयं कृत्वा ध्याये- संध्यामिति श्रुतिः’ इति । योगयाज्ञवल्क्यस्तु प्राणायाम- -प्रकारमाह– ‘भूर्भुवः स्त्रर्महर्जनस्तपः सत्यं तथैव च । प्रत्यकारसमायुक्तं तथा तत्सवितुः परम् ॥ ओमापो ज्यो- तिरित्येतच्छिरः पञ्चात्प्रयोजयेत् । त्रिरावर्तनयोगात्तु - प्राणायामस्तु शब्दितः’ इति । ततो मार्जनमाह व्यासः ‘आपोहिष्ठेत्यूचा कुर्यान्मार्जनं तु कुशोदकैः । प्रण- वेन तु संयुक्तं क्षिपेद्वारि पदे पदे । विप्रुषोऽष्टौ क्षिपेदू- मधो यस्य क्षयाय जित् । रजस्तमो मोहजाताखाग्र- - स्वप्नसुषुप्तिजान् । वाङ्मनः कायजान्दोषान्नवैतान्नवभिर्दहे - ‘तू’ इति । प्रजापतिरपि - ‘ऋगन्ते मार्जनं कुर्यात्पादान्ते वा समाहितः । अर्धचन्तेऽथ वा कुर्याच्छिष्टानामीदृशं स- मम्’ इति । उक्तमार्जने तीर्थविशेषमाह व्यासः - ‘मार्जना-
/
[[११४]]
धर्माकूते
चनाकर्मभोजनानि देवतीर्थेन कुर्यात्’ इति । मार्ज- मानन्तरं सूर्यश्वेत्याचमनं कर्तव्यम् । तथा च भारद्वाजः- " सायममिव मेत्युक्त्वा प्रातः सूर्येत्यपः पिबेत् । आपः घुनन्तु मध्याह्ने ततञ्चाचमनं चरेत्’ इति । कात्यायनोऽपि ‘शिरसो मार्जनं कुर्यात्कुशैः सोदकबिन्दुभिः । प्रणवो भूर्भुवः स्वर्वो गायत्री च तृतीयकम् ॥ अब्दैवत्या ऋच चैव चतुर्थमिति मार्जनम्’ इति । मार्जनानन्तरं कर्त- व्यमाह प्रजापतिः ’ जलपूर्ण तदा हस्तं नासिकाभे सम- र्पयेत् । ऋतं चेति पठित्वा तु तज्जलं तु क्षितौ क्षिपेत् इति । एवं प्रोक्षणमन्त्राचमनादिना परिपूतेनार्घ्यप्रदानं कर्तव्यम् । अर्घ्यप्रदानप्रकारस्तैत्तिरीये- ‘तानि ह वा एतानि रक्षांसि गायत्र्याभिमन्त्रितेनाम्भसा शाम्यन्ति तदुह वा एते ब्रह्मवादिनः पूर्वाभिमुखाः संध्यायां गाय- व्याभिमन्त्रिता आप ऊर्ध्वे विक्षिपन्ति ता एता आपो श्रीभूत्वा तानि रक्षांसि मन्देहारुणे द्वीपे प्रक्षिपन्ति ’ इति । व्यासोऽपि - ‘कराभ्यां तोयमादाय गायत्र्या चाभिमन्त्रितम् । आदित्याभिमुखस्तिष्ठत्रिरूर्ध्वमथ क्षिपे-
अयोध्याकाण्डः ।
११५.
त्’ इति । ततः प्रदक्षिणं कर्तव्यम् ; तथा च तैत्तरीयश्रुतिः ’ यत्प्रदक्षिणं प्रक्रमन्ति तेन पाप्मानमवधून्वन्ति’ इति । प्रदक्षिणानन्तरमुदकस्पर्शनमप्युक्तं पुराणे- ‘सायं म– न्त्रवदाचम्य प्रोक्ष्य सूर्याय चाञ्जलिम् । दत्त्वा प्रदक्षिणं कृत्वा जलं स्पृष्ट्रा विशुध्यति इति । ततो देवताभि- ध्यानं कर्तव्यम् । तथा च तैत्तरीयश्रुतिः - ‘उद्यन्तमस्तं यन्तमादित्यमभिध्यायन्कुर्वन्ब्राह्मणो विद्वान्सकलं भद्र- मश्नुतेऽसावादित्यो ब्रह्मेति’ इति । अर्घ्यप्रदानान- न्तरं कर्तव्यमाह बोधायनः —- ‘दर्भेध्यासीनो दर्भान्धा- रयमाणः सोदकेन पाणिना प्रत्यङ्मुखः सावित्रीं सहस्रकृत्व आवर्तयेत्’ ‘प्राणायामशो वा शतकृत्वः’ ‘उभयतः प्रणवां सप्तव्याहृतिकां मनसा वा दशकृत्वस्त्रिभिश्व प्राणायामैः ’ इति । जपभेदोऽभिहितः पुराणे - ‘वाचिकच उपां- शुव मानसस्त्रिविधः स्मृतः । त्रयाणां जपयज्ञानां श्रेया- न्स्यादुत्तरोत्तरम्’ इति । तेषां च लक्षणानि ‘यदुच्चनीच- स्वरितः शब्दैः स्पष्टपदाक्षरैः । मन्त्रमुञ्चारयेद्वाचा वा चिकोऽयं जपः स्मृतः ॥ शनैरुच्चारयेन्मन्त्रमीषदोष्ठौ
I
[[११६]]
धर्माकूते
प्रचालयेत् । अपरैरश्रतं किंचित्स उपांशुजपः स्मृतः । ध्येया यदक्षर श्रेण्या वर्णाद्वर्ण पात्पदम् । शब्दार्थचिन्तनं भूयः कथ्यते मानसो जपः’ इति । त्रयाणां तारतम्यमपि —- ‘उत्तमं मानसं जप्यमुपांशुर्मध्यमं स्मृतम् । अधर्म वाचिकं प्राहुः सर्वमन्त्रेषु वै द्विजाः ॥ वाचि- कस्यैकमेकं स्यादुपांशोः शतमुच्यते । सहस्रं मानसे प्रोक्तः स चात्रिभृगुनारदैः’ । जपे नियममाह शौनकः- ‘कृत्वो - त्तानौ करौ प्रातः सायं चाधोमुखौ करौ । मध्यस्त - ब्धकराभ्यां तु जप एवमुदाहृतः । उपसंपदमाह मनुः- ‘मनः संतोषणं शौचं मौनं मन्त्रार्थचिन्तनम् । अव्य- प्रत्वमनिर्वेदो जपसंपत्तिहेतवः । पूर्वी संध्यां जपंस्तिष्ठे- त्सावित्रीमार्कदर्शनात् । पश्चिमां तु समासीनः सम्यगृ- क्षविभावनात्’ इति । मध्याह्ने जपनियममाह - ‘तथा मध्याहसंध्यायामासीनः प्राप्मुखो जपेत्’ इति । जप- समये वर्ज्यानाह - ‘न चकमन्न च हसन पार्श्वमव- लोकयेत् । नापश्रितो न जल्पश्च नाप्रावृतशिरास्तथा ॥ न पदा पादमाक्रम्य न चैव हि तथा करौ । न चासमा -
अयोध्याकाण्डः ।
[[११७]]
हितमना न च संश्रावयखपेत्’ इति । बोधायनो- ऽपि – ‘नामेरधः संस्पर्शनं कर्मयुक्तो वर्जयेत्’ इति । व्यासोऽपि - ‘जपकाले न भाषेत व्रतहोमादिकेषु च’ इति । वाग्यमलोपे प्रायश्चित्तमाह योगयाज्ञवल्क्यः – ‘यदि वाग्यमलोपः स्याज्जपादिषु कदाचन । व्याहरेद्वै- ष्णवं मन्त्रं स्मरेद्वा विष्णुमव्ययम्’ । संवर्तोऽपि - ‘लोकवार्तादिकं श्रुत्वा दृष्ट्रा स्पृष्ट्रा च दूषितम् । सं- ख्यां विना च यज्जप्यं तत्सर्वं निष्फलं भवेत् ॥ क्रोषं मान्धं क्षुधां निद्रां निष्ठीत्रनं विजृम्भणम् । दर्शनं च श्वनीचानां वर्जयेज्जपकर्मणि ॥ आचमेत्संभवे चैषां स्मरे- द्विष्णुं सुरार्चितम् ’ इति । ‘ज्योतींषि च प्रपश्येद्वा कुर्याच प्राणसंयमम् । ज्वलनं गाश्च विप्रांश्च यतिनोऽपि विशु- द्धये’ ।
ये ’ इति । देशनियममाह मनुः - ‘अपां समीपे नियतो नैत्यकं विधिमास्थितः । सावित्रीमप्यधीयीत गत्वारण्यं समाहितः ॥ याज्ञवल्क्योऽपि - ‘अग्न्यगारे जलान्ते वा जपेद्देवालयेऽपि वा । पुण्यतीर्थे गवां गोष्ठे द्विजः क्षेत्रेऽथ वा गृहे ’ इति । शङ्खोऽपि – ‘गृहे त्वेकगुणं
[[114]]
धर्माकूते
जप्यं नद्यादौ द्विगुणं स्मृतम् । गवां गोष्ठे शतगुणम- न्यमारे शताधिकम् ॥ सिद्धक्षेत्रेषु तीर्थेषु देवतायाश्च -संनिधौ । सहस्रशतकोटीनामनन्तं विष्णुसंनिधौ’ । कूर्म- पुराणेऽपि – ’ गुझका राक्षसाः सिद्धा हरन्ति प्रसभं यतः । एकान्ते तु शुभे देशे तस्माज्जप्यं समाचरेत्’ । जप- संख्यामाह मनुः — ’ सहस्रकृत्वस्त्वभ्यस्य बहिरेतत्रिकं द्विजः । महतोऽप्येनसो मासात्त्वचेवाहिर्विमुच्यते ’ इति । आश्रमभेदेन संख्याभेदमाह योगयाज्ञवल्क्यः – ‘ब्रह्म- चार्या हिताभिश्च शतमष्टोत्तरं जपेत् । वानप्रस्थो यतिश्चैव सहस्रादधिकं जपेत्’ इति । यतिः कुटीचकबहूदकावि- त्यर्थः । यमोऽपि - ‘सहस्रपरमां देवीं शतमध्यां दशा- वराम् । गायत्रीं तु जपेन्नित्यं सर्वपापप्रणाशिनीम्’ इति । बोधायनोऽपि - ‘दर्भेष्वासीनो दर्भान्धारयमाणः सोदकेन पाणिना प्रामुखः सावित्रीं सहस्रकृत्व आवर्त - -येच्छतकृत्वोपरिमितकृत्वो वा दशावरम्’ इति । तत उप- स्थानम् ; तथा च बोधायनः — ‘वारुणीभ्यां रात्तिमुपति- ते इमं मे वरुण तत्त्वायामीति द्वाभ्याम् । एवं प्रातः
।अयोध्याकाण्डः ।
[[११९]]
प्रामुखस्तिष्ठन्मैत्रीभ्यामहरुपतिष्ठते - मित्रस्य चर्षणी धृतः मित्रो जनान्यातयतीति द्वाभ्याम् इति । तस्य फलमाह—- ‘यदुपस्थकृतं पापं पद्भ्यां वा यत्कृतं भवेत् । बाहुभ्यां मनसा वापि वाचा वा यत्कृतं भवेत् । सायंसंध्यामुपस्थाय तेन तस्मात्प्रमुच्यते । राज्या चापि संधीयते न चैनं वरुणो गृह्णाति । एवमेव प्रातरुपस्थाय रात्रिकृतात्पापात्प्रमुच्यते । अहा चापि संघीयते मित्रश्चैनं गोपायति आदित्य चैनं स्वर्ग लोकमुन्नयति एवमेवाहरहोरावयोश्च संधिषूपतिष्ठ- मानो ब्रह्मपूतो ब्रह्मभूतो ब्राह्मणः शास्त्रमनुवर्तमानो ब्रह्म- लोकमभिजयतीति विज्ञायते । एवमुपस्थानस्य फलप्रतिपा- दनादिदमेव प्रधानमिति केचित् । अत एव च भारते- ते तथैव महाराज दंशिता रणमूर्धणि । संध्यागतं सहस्रां- शुमादित्यमुपतस्थिरे ’ इति । इतरत्सर्वं परित्यज्य उपस्थान- मेव कृतमिति प्रतिपादितम् । वस्तुतस्तु उपस्थानव- संध्याशब्दवाच्यादित्योद्देश्यकार्घ्यप्रदानादित्याभिध्याना- दित्यप्रतिपादकगायत्री जपानां संध्योपासनरूपत्वेन फल- त्वेन च अकरणे प्रत्यवायजनकत्वेन च प्राधान्यं वक्तुमु-
[[१२०]]
धर्माकूते
चितमिति चतुष्टयमपि प्रधानमेव । ’ ते सथैवेत्यादि ’ भारतवचनं तु असंभवत्त्रियाणां तत्करणमन्त्रजप एव ।
तु संभवन्तीनां तु स्वरूपेणानुष्ठानमिति। आपत्कालीना- नुकल्पाभिप्रायम् । अत एव क्रियाया असंभवे तन्मन्त्रजप- उक्त बोधायन में– ’ प्राणाग्निहोत्रमन्त्रांस्तु निरुद्धे भो- जने जपेत् । त्रेताग्निहोत्राणां द्रव्यालाभे यथा जपे ’ इति । अत एव आपदि अर्ध्याद्यसंभवे अर्थोपस्था- नादिकरणैः सर्वैरपि मन्त्रैरुपस्थानमेव कुर्यादित्याह व्यासः - ‘देशक्षोभे महापातौ मार्जनार्ष्याद्यसंभवे । संध्यागतं सहस्रांशुं मन्त्रैः कुर्यादुपस्थितम्’ इति । तस्माच्चतुर्णामपि प्राधान्ये न कोऽपि विरोधः । नतु अर्घ्यप्रदानाभिध्यान- गायत्रीजपोपस्थानात्मकं मार्जनादिसर्वाङ्गोपेतं संध्याव. न्दनं रामेण कृतमित्युक्तम् । तन्न संभवति ।
अग्निष्टोमादिभिर्यज्ञैरिष्टवानाप्तदक्षिणैः ॥
इति युद्धकाण्डस्थसीतावचनपर्यालोचनया रामस्य आहिताग्भित्वावगमेन संध्यावन्दनस्याग्निहोत्रस्य च एक- कालत्वेन तस्मिन्काले श्रौतस्यानिहोत्रस्य कर्तव्यत्वेन
मोष्ाकाण्डः ।
[[१२३]]
‘पुरादित्य-
संध्यावन्दनस्य कर्तुमशक्यत्वात् । संध्याकालेऽग्नि- star कर्तव्यत्वे मावळायनः- ‘अपराहे गा- ईपत्यं प्रज्वाल्येत्युपक्रम्य अस्तमिते होम इत्येवं प्रातर्व्युष्टायामिति प्रातरुद्धरणमुक्त्वा एवं प्रातरुपोदय व्युषित उदिते वा’ इति । बोधायनोऽपि स्यास्तमयात् गार्हपत्यमुपसमाधायान्वाहार्य पचनमाहत्या - हवनीयमुद्धरति तथा पुरादित्यस्योदयाद्गार्हपत्यम्’ इति । ‘कात्यायनोऽपि - ‘गार्हपत्यादाहवनीयस्य उद्धरणमन- - स्तमितानुदितयोः’ इति । भारद्वाजोऽपि ‘अस्त- मित आदित्ये नक्षत्रं दृष्ट्वा प्रदोषे वा सायमग्नि- होत्रं जुहोति व्युष्टायामुषसि वा प्रातरग्निहोत्रमुपो- दयमुदिते समयाविषिते वार्वाक् प्रवदेत्तर्हि होतव्यमित्ये- केषाम्’ इति । आपस्तम्बोऽपि-
आपस्तम्बोऽपि — ‘अधिवृक्षसूर्य अविः सूर्ये वेत्युपक्रम्य नक्षत्रं दृष्ट्वा प्रदोषे निशायां का सायम् उपयुपोदयं समयाविषित उदिते वा प्रातः ’ इति । तस्मात्संat sोतव्यमिति च । अनुदितादीनां
क्षणमाह व्यासः— ’ रात्रेस्तु बोदशे भागे ग्रह-
VOL. II. D 10
[[૨૨]]
धर्माकूते
नक्षत्रभूषिते । काले त्वनुदितं प्राहुहमं कुर्याद्विचक्षणः ॥ ततः प्रभातसमये नष्टनक्षत्रमण्डले । रविर्यावन्न दृश्येत समया विषितस्तु सः ॥ रेखामात्रस्तु दृश्येत रश्मि- भिस्तु समन्वितः । उदितं तद्विजानीयात्तत्व होमं प्रक- रूपयेत्’ इति । एवमादिवचनैः संध्याकालस्यैवाग्निहोत्र- कालत्वावगमात् संध्यावन्दनकाल एव प्रणयनेनामिहो- वस्य प्रक्रमे सति श्रौतेनाग्निहोत्रेण बाधात्संध्यावन्दनं कर्तुमशक्यमेवेति चेत्, न । ‘प्रदोषान्तो होमकालः सङ्ग- वान्तः प्रातर्नक्षत्रं दृष्ट्वा प्रदोषे निशायां वा सायं यहि वाक्प्रवदेत् वै तर्हि होतव्यम्’ इत्यादिवचनैः अग्निहोत्रस्य कालान्तरावगमेन सावकाशत्वात् संध्यावन्दनस्य च सक- लस्मृतिपर्यालोचनया कालान्तरभावेन निरवकाशत्वात् ‘सावकाशनिरवकाशयोर्निरवकाशं बलीयः’ इति न्यायेन स्वकाल एव संध्यावन्दनं कर्तव्यम् । अग्निहोतहोमस्तु पुरस्तात्परस्ताद्वा कर्तुं शक्य एव । नन्वेवमपि ‘अपराह्णे गार्हपत्यं प्रज्वलयेत्’ इति सूत्रपर्यालोचनया संध्यावन्दना- पूर्वे प्रणयनस्य कर्तव्यत्वावगमेन ’ यस्याग्निमनुद्धृतं सूर्यो -
अयोध्याकाण्डः ।
१२३.
ऽभिनिम्लोचति’ इत्यादितैत्तरीयश्रुत्या ’ तदाहुर्यस्याग्निहो वमनुद्धृत्य मादित्योऽभ्युदियाद्वाभ्यस्तमियाद्वा’ इत्यादि ऐ- तरेय ब्राह्मणेन ‘अथैकेषां यस्याग्निमनुद्धतं सूर्योऽभिनि- म्लोचेदभ्युदियाद्वा’ इत्यापस्तम्बसूत्रेण ‘यद्याहवनीयमप्र- णीतमभ्यस्तमित्याद्याश्वलायनसूत्रेण च उदयास्तमया- भ्यां पूर्वमनुद्धरणे प्रायश्चित्तान्नानेन च उदयात्प्रा- गेव प्रणयने अनुष्ठिते अत ऊर्ध्वमाहिताग्निर्ब्रतच- र्याहोमादनुदितहोमी चौदयादिसूत्रेण ‘नो एवाभ्युदि- यान्नास्तमियाद्वा’ इति सूत्रोक्तत्रिव्रतविधानेन आ हो- माद्विहारं विहाय बहिर्गन्तुमशक्यत्वात् ग्रामाद्बहिः कर्तव्या संध्या कथमनुष्ठातुं शक्येतेति चेत्, न । संध्या- वन्दना करणे बहुशः प्रत्यवायश्रवणात् सर्वकर्मसु अधि- कारसंपादकत्वादकृत संध्यावन्दनस्य श्रौतस्मार्तकर्मानधि- काराच्च संध्यावन्दनं कर्तव्यमेव । तत्र बोधायनः —- ‘अनागतां तु ये पूर्वामनतीतां तु पश्चिमाम् । संध्यां नो पासते विप्राः कथं ते ब्राह्मणाः स्मृताः । स्मृत्यन्त- रेऽपि ‘एकाहं जपहीनस्तु संध्याहीनो दिनलयम् ।
[[2]]
[[१२०]]
धर्माते
द्वादशाहमनग्निस्तु शूद्र एव न संशयः ’ ’ सायं प्रातः सदा संध्यां ये विप्रा न उपासते । कामं तान्धार्मिको
[[1]]
་
राजा शूद्रकर्मसु योजयेत्’ इति । मनुरपि - ‘नानुति- कृति यः पूर्व नोपास्ते यच पश्चिमाम् । सः शूद्रवद्बहिः कार्यः सर्वस्माद्दिजकर्मणः’ इति । विष्णुरपि — ‘उप- तिष्ठन्ति ये संध्यां ये न पूर्वो न पश्चिमाम् । व्रजन्ति ते दुरात्मानस्तामिनं नरकं नृप’ इति । कूर्मपुराणेऽपि- ‘योऽन्यत्र कुरुते यत्नं धर्मकायें द्विजोत्तमः । विहाय संध्याप्रणति स याति नरकायुतम्’ इति । याज्ञव- स्क्योऽपि - ‘अनार्थ उत्सृजेयस्तु स विप्रः शूद्रसंमतः । प्रायश्विन्ती भवेचैव लोके भवति निन्दितः’ इति । अभिरपि - ‘नोपतिष्ठन्ति ये संध्यां स्वस्थावस्थासु ते द्विजाः । हिंसन्ति वै सदा पापा भगवन्तं दिवाकरम् ’ वि ‘संध्याहीनोऽर चिनितमनः सर्वकर्मसु । य- कुते कर्म न तस्य फलभाग्भवेत्’ इति । तथा * त्वापरिहारार्थं कर्माधिकारसंपादनार्थी चस्मा- त्रियावन्दनमेव विवर्द्धतुः क
अयोध्याकाण्डः ।
[[१२५]]
हिरवस्थानं कामं बाध्यताम् । एतदभिप्रायेणैव भा- पस्तम्बाचार्यैरुक्तम्- ‘विप्रतिषेधे श्रुतिलक्षणं बलीयः " इति । ननु विरुद्धांशमपहायावशिष्टं संध्यावन्दनं कर्त- व्यमित्युक्तं तन्न संभवति । उदाहृतवचनबलाच्छ्रुतिवि- रुद्धस्मार्तस्य स्वरूपतः परित्यागावगमादिति चेन्न, एवं वदता वक्तव्यं श्रौतं कर्म कुर्वता स्मार्तकर्ममात्रं न कर्तव्यम्, उत संध्यावन्दनमेव न कर्तव्यम्, आहो- स्वित्संध्यावन्दनकरणे उक्तवचनयोर्विषयः क इति वा । न तावच्छ्रौतकर्म कुर्वता स्मार्त कर्म न कर्तव्यमिति वक्तुं शक्यम्, तथा निषेधवचनाभावात्, प्रत्युत स्मार्तकर्मकर- णस्याभ्यनुज्ञादर्शनात् । तथा चाथर्वणी श्रुतिः – ‘यस्या- ग्निहोलमदर्शपूर्णमा समनाप्रयणम तिथिवर्जितमहुतमवैश्व- देवमविधिनाहुतमासप्तमांस्तस्य लोकान्हिनस्ति’ इति । बोधायनोsपि ‘ब्राह्मणं प्रतिपद्याश्रीयात्’ इति । नापि संध्यावन्दनं न कर्तव्यमिति तद्वचनस्यार्थः, तद्वचने आहत्य संध्यावन्दननिषेधाभावात् प्रत्युत ‘संध्याहीनो- शुचिनित्यवाईः सर्वकर्मसु’ इत्यादिवचनैः अवश्यक-
[[१२६]]
धर्माकूते
Forearmarत् तदकरणे प्रत्यवायश्रवणात् । तथा च स्मृत्यन्तरेऽपि ‘एकाहं जपहीनस्तु संध्याहीनो दिनव- यम् । द्वदशाहमनग्निस्तु शूद्र एव न संशयः’ इति उक्तवचनयोर्विषयः क इति चेत्, यदंशे विरोधस्त- देशनिषेधविषयत्वेनाप्युपपत्तौ स्वरूपनिषेधस्य विषयत्वे मानाभावात् । न चैवम् ’ न हि कर्मणि कर्मान्तरारम्भः ’ इति न्यायात् श्रताग्निहोत्रस्यान्तराले स्मार्ते संध्या - न्दनं न कर्तव्यमेवेति वाच्यम्, ‘न हि कर्मणि -’ इति न्यायस्य सावकाश काम्यकर्मविषयत्वाच्छ्रौतकर्मणि स्मा- तैस्याभ्यनुज्ञानाच्च । तथा च बोधायनः - ‘प्राकृते तत्रे
। प्राकृतं न्यायमनधिगच्छन् ग्रामन्यायं प्रतीयादयमिहा- ईतां समारम्भः’ इति वदश्रौतकर्मणि नैमित्तिकं नानाचमनादि स्मार्तकर्म कर्तव्यमित्यनुज्ञातवान् । लौगा- क्षिरपि— ’ पक्षान्तं कर्म निर्वृत्य वैश्वदेवं तु साग्निकः । पिण्डयज्ञं ततः कुर्यात्ततोऽन्वाहार्यकं बुधः’ इति । बोधा- यनोऽपि - ’ वेदं करोति । प्रागुत्तरात्परिग्रहादथापराह्ने पिण्डपितृयज्ञेन चरति ’ इति । एवं श्रौतकर्मणि प्रवृत्ते श्रौ-
अयोध्याकाण्डः ।
[[१२७]]
तान्तरस्याप्यभ्यनुज्ञा । तथा च बोधायनः - ‘अथ सायं हुतेऽग्निहोत्रे उत्तरेण गाईपत्यं तृणानि संस्तीर्य’ इति, ‘अथ प्रातर्हुतेऽग्निहोत्रे हस्तौ संमृशेत’ इति च । आप- स्तम्बोऽपि - ‘प्रणीते चेदग्निहोत्रे काल एतस्मिन्नेवा- मिहोत्रं जुहुयादेवमन्यत्र विप्रक्रान्ते तन्वे’ इति । तस्मा- द्विरुद्धब हिरवस्थानांशमपहाय अवशिष्टं संध्यावन्दनरूपम- मित्रहोमे प्रक्रान्तेऽपि कर्तुं शक्यमिति यदुक्तं तयुक्त- मेव । तत्रायं क्रमः — ब्राझे मुहूर्ते उत्थायेष्टदेवतां ध्यात्वा -कृतशौचः नद्यादौ स्नातः, अर्घ्य प्रदायादित्यमभिव्याय तत्रैव दशावरं कृतगायत्री जपः गृहमभ्येत्य विहृत्याग्नी- न्त्रतचारी यजमानायतन उपविश्य गायत्रीजपं ध्यानं वा कृत्वा उदित आदित्ये उपस्थायाग्निहोत्रं जुहुयादित्युदित हो- मिनः । अनुदित होमिनस्तु स्नानार्व्यप्रदानाभिसंधानगा- यत्री जपप्रणयनाग्निहोत्र होमव्रताचरणगायत्रीजपोपस्थाना- नीति क्रमः । तत्र प्रमाणानि स्नानस्य सर्वकर्माधिकारसं- पादकत्वात्संध्यायाः पूर्वमुषःकाले कर्तव्यत्वमाह जाबा- लिः– ’ सततं प्रातरुत्थाय दन्तधावनपूर्वकम् । आचरेदु-
धर्माते
पास स्नानं तर्पयेद्देवमानुषान्’ इति । स्नानानन्तरं प्रातः- संध्योपासनकालमाह दक्षः- ’ रात्र्यन्तयामनाडी द्वे सं- वादिः काल उच्यते । दर्शनाद्रविरेखायास्तदन्तो मुनि- भिः स्मृतः’ इति । स्नानदेशे अर्घ्यप्रदानानन्तरं यथा- शक्ति जपकरणमाह गौतमः — ’ यस्मिन्देशे कृतं स्नानं तत्र संध्यां समाचरेत् । यत्र देशे कृता संध्या तत्रैव जपमाचरेत् । संध्याप्रदेशे तत्रैव यथाशक्ति जपेद्दिजः ’ इति । तदनन्तरं व्युष्टायां प्रणयनमाहाश्वलायनः - ’ एवं प्रातर्व्युष्टायाम्’ इति । तदनन्तरमग्न्यगारे गायत्री जप- माह याज्ञवल्क्यः – ’ अग्न्यगारे जलान्ते वा जपेदेवाल- येऽपि वा । पुण्यतीर्थे गवां गोष्ठे द्विजक्षेत्रेऽथवा गृहे इति । जपसंख्यामाह योगयाज्ञवल्क्यः – ‘ब्रह्मचार्या- हितामिव शतमष्टोत्तरं जपेत् । वानप्रस्थो यतिश्चैष सहस्रादधिकं जपेत्’ इति । उदयानन्तरमुपस्थानं कर्तव्यम् । तत्र पराशरः— ‘ततः सूर्यमुपस्थाय सम्य- गाचम्य च द्विजः’ इति । संध्यावन्दनाग्निहोत्रहोमयो- स्वच्छेषे पौर्वापर्यमाह बोधायनः– ‘कथमु खलु नित्या-अयोध्याकाण्डः ।
नामनुक्रमः’ इति संध्योपासनमग्न्युपासनं नित्यस्वाध्याय- गृहकर्मखानादित्योपस्थानतर्पणजपयज्ञगृहदेवार्चन वैश्वदे-
वपश्वमहायज्ञात्मयज्ञ संध्योपासनाग्निहोत्रात्मयज्ञसंवेशना- नीत्येतान्युदित होमिनोऽजत्रा मिहोत्रिणोऽनुदित होमिनो– ऽग्निहोत्रं संध्योपासनमिति क्रम एतानि नित्यान्यु- पव्युपमारभ्या संवेशनासिद्धम्’ इति । दक्षोऽपि - ‘संध्याकर्मावसाने तु स्वयं होमो विधीयते’ इति । यदि तीर्थस्य दूरतया बहिः संध्यावन्दनकरणे अग्निहोत्रप्रण- यनादिकालातिक्रमो भवेत्तदा गृह एव संध्यावन्दनद्वयं कर्तव्यम् । तथा च अत्रिः – ’ संध्यात्रयं तु कर्तव्यं द्विजेनात्मविदा सदा । उभे संध्ये तु कर्तव्ये ब्राह्मणैश्व गृहेष्वपि ’ इति । अयं क्रमः अनाहिताग्नेर्गृहस्थस्यापि तुल्यः । आवळायनाचार्यैः ‘तस्याग्निहोत्रेण प्रादुष्क- रणहोमकालौ व्याख्यातौ हौम्यं च मांसवर्जम्’ इति । औपासने अग्निहोत्रद्रव्यकालातिदेशात् । खादिरगृह्येऽपि ’ प्रागस्तमयोदयाभ्यां प्रादुष्कृत्यास्तमिते होम उदिते चा- नुदिते वा’ इति अग्निहोत्रकालस्यैव औपासनकालत्वेनः
[[१३०]]
धर्माकूते
विधानात् । स्मृत्यर्थसारेऽपि - ‘य आहिताग्नेर्धर्मः स्यात्स औपासनिकस्य तु’ इति अग्निहोविधर्मस्यातिदेशात् । एवं च संध्ययोश्च बहिर्ग्रामादित्यादि सूत्रं स्नातकनि- रग्निकवानप्रस्थकुटी चकप्रवासि विच्छिन्नोत्सृष्टा ग्नियाया- वरविधुरादिविषयं द्रष्टव्यमिति । एवं कृतपौर्वाह्निक- क्रियो दाशरथिः
तुष्टाव प्रणतश्चैव शिरसा मधुसूदनम् । विमलक्षौम संवीतो वासयामास च द्विजान् ॥ तेषां पुण्याहघोषोऽभूद्गम्भीरमधुरस्वरः । अयोध्यां पूरयामास सूर्य घोषानुनादितः ॥
अनेनाचारप्राप्तकर्मा स्वस्तिपुण्याहवाचनं कृतमिति सूचितम् । ततश्च रामाभिषेकमाकर्ण्य हर्षभरमेदुरैः पौरैरलंकृतेषु रथ्याचत्वरराजमार्गेषु पौरजानपदाः
कथयन्तो मिथस्तत्र प्रशशंसुर्नराधिपम् ॥
अहो महात्मा राजा मिक्ष्वाकुकुलवर्धनः । ज्ञात्वा यो वृद्धमात्मानं रामं राज्येऽभिषेक्ष्यति ॥
अयोध्याकाण्डः ।
सर्वे ह्यनुगृहीताः स्मो यत्रो रामो महीपतिः । चिराय भविता गोप्ता दृष्टलोकपरावरः ।
अनुद्धतमना विद्वान्धर्मात्मा मातृवत्सलः ॥ यथा च भ्रातृषु स्निग्धस्तथास्मास्वपि राघवः ।
चिरं जीवतु धर्मात्मा राजा दशरथोऽनघः ॥ यत्प्रसादेनाभिषिक्तं रामं द्रक्ष्यामहे वयम् ॥
[[१३१]]
इति । सप्तमे - ततश्च यदृच्छया सुबाधवलमत्युन्नतं प्रासा- दमारुह्य रथ्याचत्वरराजमर्गालंकरणसमुत्सुकपौरजनावलो- कनेन संजातविस्मयया मन्थरया किमिदमतिमात्रहर्षका- रणमकाण्डे इति पृष्टा धात्रीः ‘श्वः पुष्येण दशरथो राघवं यौवराज्येऽभिषेक्ष्यति तन्निमित्तश्चायं पौरजनप्रमोदः ’ इत्यवादीत् । ततो मन्थरा सरभस्रं भवने शयानां कै- केयीमभ्येत्य
उत्तिष्ठ मूढे किं शेषे भयं त्वामभिवर्तते । उपप्लुतमघौघेन किमात्मानं न बुध्यसे ॥
[[१३२]]
धर्मकृते
अक्षय्यं सुमहदेवि प्रवृत्तं त्वद्विनाशनम् । रामं दशरथो राजा यौवराज्येऽभिषेक्ष्यति ॥
धर्मवादी शठो भर्ता लक्ष्णवादी च राघवः । शुद्धभावे न जानीषे तेनैवमतिसंधिता ।
शत्रुः प्रतिप्रवादेन मात्रेव हितकाम्यया ॥ आशीविष इवाङ्केन वाले परिधृतस्त्वया ।
यथा हि कुर्यात्सर्पो वा शत्रुर्वा प्रत्युपेक्षितः ॥ राम्रा दशरथेनाद्य सपुत्रा त्वं तथा कृता । सा प्राप्तकालं कैकेयि क्षिप्रं कुरु हितं तव त्रायस्व पुत्रमात्मानं मां च विस्मयदर्शने ॥
इत्यवादीत् । एवं पापदर्शिन्या कुब्जया सामर्षमभि- हिताप्यकलुषितहृदया कैकेयी रामाभिषेकश्रवणसंजात-
प्रकर्षा तस्यै स्वहस्ताभरणं प्रदाय
न मे परं किंचिदितस्त्वया पुनः
प्रियं प्रियाई सुवचं वचोवरम् ।
अयोध्याकाण्डः ।
[[१३३]]
तथा ह्यवोचत्वमतः प्रियोत्तमं
परं वरं ते प्रददामि तं वृणु ॥
इत्यवादीत् । अष्टमे ततः स्वकृतपारितोषिकप्रदान- मसंमतं मन्वानां समुदचितकोपमुत्सृष्टाभरणां वाक्शरैः पुनः पुनर्मर्माणि विदारयन्तीं मन्थरां पुनरप्यवलोक्य राम- गुणाकृष्टहृदया कैकेयी तमेव भूयो भूयः प्रशशंस - धर्मो गुरुभिर्दान्तः कृतज्ञः सत्यवाक् चिः । रामो राशः सुतो ज्येष्ठो यौवराज्यमतोऽर्हति ॥
भ्रातृन्भृत्यांध दीर्घायुः पितृवत्पालयिष्यति । संतप्यसे कथं कुब्जे श्रुत्वा रामाभिषेचनम् ॥
भरतवापि रामस्य ध्रुवं वर्षशतात्परम् । पितृपैतामहं राज्यमवाप्य पुरुषर्षभः ॥
यथा मे भरतो मान्यस्तथा भूयोऽपि राघवः ।
तोऽतिरिक्तं स तु शुश्रूषते हि माम् ॥
[[१३४]]
धर्माकूते
राज्यं यदि हि रामख भरतस्यापि तत्तथा । मन्यते हि यथात्मानं तथा भ्रातॄंश्च राघवः ॥
इति । ततश्च मन्थरा सरलतरं कैकेयीवचनमाकर्ण्य
भविता राघवो राजा राघवस्य तु यः सुतः । राजवंशातु भरतः कैकेयि परिहास्यते ॥
न हि राजसुताः सर्वे राज्ये तिष्ठन्ति भामिनि । स्वाप्यमानेषु सर्वेषु सुमहाननयो भवेत् ॥
तस्माज्ज्येष्ठे हि कैकेयि राज्यतन्त्राणि पार्थिवाः । स्थापयन्त्यनवद्याङ्गि गुणवत्स्वितरेष्वपि ॥
यदा हि रामः पृथिवीमवाप्स्यति
ध्रुवं प्रणष्टो भरतो भविष्यति । अतो हि संचिन्तय राज्यमात्मजे
परस्य चाद्यैव विवासकारणम् ॥
इत्येवमादिभिर्वचनैः पुनरपि कैकेयीमनः क्षोभया-
अयोध्याकाण्डः ।
[[१३५]]
मास इति । नवमे – ततः तत्क्षणप्रसरदक्षिकषायभाव- विशदीकृतकोपया कैकेय्या भरताभिषेकरामवनवासयोः कमुपायं पश्यसीति पृष्टा मन्थरा समभाषत ‘पुरा खलु देवदानवसंग्रामे देवराजसाहाय्यमाचरन्दशरथः तिमि - ध्वजासुरेण सह कृते शस्त्राशस्त्रिसंप्रहारे संजातमूर्च्छा- पनोदकेन त्वत्कृतोपचारेण संतुष्टः सन्वरद्वयं प्रादात् ।
तौ वरौ याच भर्तारं भरतस्याभिषेचनम् । प्रवाजनं च रामस्य वर्षाणि नव पञ्च च ॥
चतुर्दश हि वर्षाणि रामे प्रत्राजिते वनम् । रूढश्व कृतमूलश्च शेषं स्थास्यति ते सुतः ॥
एवं प्रवाजितश्चैव रामोऽरामो भविष्यति । भरतश्च हतामित्रस्तव राजा भविष्यति ।
येन कालेन रामश्च वनात्प्रत्यागमिष्यति । तेन कालेन पुत्रस्ते कृतमूलो भविष्यति ॥
॥
अन चिरेण संजातप्रकृतिस्नेहस्य राज्ञो भरतस्य
[[१३६]]
धर्माकृते
‘स्थिरराज्यत्वकथनात्प्रकृतिध्वरूढमूलो राजा अचिरेण उच्छेत्तुं सुकर इति सूचितम् । तथा च संभवपर्वणि धृतराष्ट्रं प्रति दुर्योधनवचनम् - ‘एतत्कृत्यत्तमं राज- अस्माकं भरतर्षभ । भयं हि शकुनिर्वेद स विद्यामक्ष- संपदम् ॥ दृढमूला वयं राज्ये मित्राणि परिगृह्य च । सारवद्विपुलं सैन्यं सत्कृत्य च दुरासदम् । ते च त्रयो- दशे वर्षे पारयिष्यन्ति तद्व्रतम् । जेष्यामस्तान्वयं राज- न्रोचतां ते परंतप इति । कालिदासोऽपि ‘अचिराधि- छितराज्यः शत्रु प्रकृतिस्वरूढमूलत्वात् । न च संरो-
शिथिलस्तरुरिव सुकरः समुद्धर्तुम्’ इति ।
तथातिविद्धा महिषीति कुब्जया समाहता वागिषुभिर्मुहुर्मुहुः । निधाय हस्तौ हृदयेऽतिविस्मिता
शशास कुब्जां कुपिता पुनः पुनः ॥
अहं हि नंवास्तरणाणि न खजो
न खन्दनं नाञ्जनपानभोजनम् ।
अयोध्याकाण्डः ।
न किंचिदिच्छामि न चेह जीवितं
न चेदितो गच्छाते राघवो वनम् ॥
[[१३७]]
इत्यभिधाय कनकमयान्यभरणानि दिव्यानि च वा- सांसि सुरभीणि च माल्यान्यपनीय मलिनवासाः क्रोधा- गारं विवेश । अत्र अशनवसनादिना दशरथकृतपरिपा- लनमनालोच्य पतिदूषणपूर्वकमकारणादेव रामाभिषेकमस- हमानया मन्थरयाधर्मोपचितैस्तैस्तैर्हेतुवादेः कैकेयीचित्त- कालुष्यकरणात् मन्थरातिदुष्टा इति । तत्सहवासेन चोत्तमकुलोत्पन्नाया अपि कैकेय्या अमार्गप्रवृत्त्या अन
धायको दुष्टसहवासः सर्वथा परित्याज्य इत्यप्युक्तं भवति । तथा च भारते वनपर्वणि- ‘एकशीलच मित्रत्वं भजते पापकर्मणः । स तेन दुःखमाप्नोति प्ररत्र च विप- पद्यते’ । आदिपर्वणि ‘अन्याय्यमवदन्साधुर्यथा हि परितप्यते । तदा परिवदन्न्याय्यं दुष्टो भवति दुर्जनः ॥ अभिवाद्य यथा वृद्धान् सन्तो गच्छन्ति निर्वृतिम् । एवं सज्जनमाक्रुश्य मूर्खो भवति निर्वृतः ॥ सुखं जीवन्त्य- दोषज्ञा मूर्खो दोषानुदर्शिनः । यब वाच्यां परैः सन्तः
VOL. II. D 11
[[१३८]]
धर्माकूते
परानाहुस्तथाविधान् ॥ अतो हास्यतरं लोके किंचिदन्यन्न विद्यते । यत्र दुर्जन इत्याह दुर्जनः सज्जनं स्वयम्’ इति । कामन्दकेऽपि - ’ दीयते स्वस्थहृदयैः पिण्डो येनैव पा- णिना । मार्जार इव दुर्वृत्तस्तमेव हि विलुम्पति । असा- व्यं साधुमन्त्राणां तीव्रं वाग्विषमुद्रमन् । द्विजिह्वं वदनं धन्ते दुष्टो दुर्जनपन्नगः’ इति । प्राचीना अपि ‘विष- धरतोऽप्यतिविषमः खल इति न मृषा वदन्ति विद्वांसः । यदयं न कुलद्वेषी स कुलद्वेषी पुनः पिशुनः’ इति । तथा दुष्टसंगमपरित्यागे आदिपर्वणि- ‘सत्यधर्मच्युतात्पुंसः क्रुद्धयदाशीविषादिव । अनास्तिकोऽप्युद्विजते जनः किं पुनरास्तिकः ॥ तस्माद्दुर्जनसंसर्गः परित्याज्यो मनीषि- भिः’ इति । वनपर्वण्यपि युधिष्ठिरं प्रति पौरववचनम्– ‘वस्त्रमा पस्तिलान्भूमिं गन्धो वासयते यथा । पुष्पाणाम- धिवासेन तथा संसर्गजा गुणाः ॥ मोहजालस्य योनि- हिं मूढैरेव समागमः । असतां दर्शनात्स्पर्शात्संजल्पाच प्रहासनात् ॥ धर्माचाराः प्रहीयन्ते सिध्यन्ति न च मानवाः । बुद्धिश्व हीयते पुंसां नीचैः सह समागमात् ।अयोध्याकाण्डः ।
[[१३९]]
शुष्केणा दह्यते मिश्रभावात्तस्मात्पापैः सह सन्धि न कुर्यात्’ इति । कामन्दकेऽपि ‘तिला चम्पकसंश्लेषात्प्राप्नुव- न्त्यधिवासताम् । रसो न भक्षास्तद्गन्धं सर्वे साङ्का- मिका गुणाः ॥ अपां प्रवाहो गाङ्गोऽपि समुद्रं प्राप्य तसः । भवत्यपेयस्तद्विद्वान्न श्रियेदशुभात्मकम् ॥ ग्रीष्म- सूर्याशु संतप्तमुद्वेजनमनाश्रयम् । मरुस्थलमिवोदयं त्यजे- हुर्जनसंगतम् ॥ सतः शीलोपसंपन्नानकस्मादेव दुर्ज- नः । अन्तः प्रविश्य दहति शुष्कान्वृक्षानिवानलः ॥ वि- श्वासोद्गीर्ण हुतभुग्धूमधूश्रीकृताननैः । वरमाशीविषैः सङ्गं कुर्यान्न त्वेव दुर्जनैः’ इति ॥
दशमैकादशयोः – ततः अस्तंगते सवितरि संजा- तकामो दशरथो रत्यर्थं कैकेयीभवनमागत्य तत्र ताम- पश्यन् केदानीं मत्प्रियेति पृष्टया प्रतिहार्या निवेदितदे- वीक्रोधागारप्रवेशस्तद्भवनमागत्य
स वृद्धस्तरुणीं भार्या प्राणेभ्योऽपि गरीयसीम् ।
अपापः पापसंकल्पां ददर्श धरणीतले ।
[[१४०]]
धर्माकूते
ततस्तद्दर्शनसमुज्जृम्भित संभ्रमः करेण तां परिमृश्य ससान्त्वमेवमवादीत् देवि नाहमपराधमात्मकृतं कंचि- पश्यामि केन वा विमानितानि कस्य वाप्रियं कार्यम्,
करिष्यामि तव प्रीतिं सुकृतेनापि ते शपे ॥
इति सरळहृदयेन दशरथेन सादरमुदीरितं वचनमाक- र्ण्य कुटिलहृदया कैकेयी तद्वचनं द्रढीकर्तुकामा ‘प्रतिज्ञां प्रतिजानीष्व’ इति व्याजहार ।
तमुवाच महाराजः कैकेयीमीषदुत्स्मितः । अवलिप्ते न जानीषे त्वत्तः प्रियतमो मम ॥ मनुज मनुजव्याघ्राद्रामादन्यो न विद्यते । तेनाजय्येन मुख्येन राघवेण महात्मना ॥ शपे ते जीवनार्हेण ब्रूहि यन्मनसेच्छसि । यं मुहूर्तमपश्यंस्तु न जीवेयमहं ध्रुवम् ॥ तेन रामेण कैकेयि शपे ते वचनक्रियाम् । आत्मना वात्मजैश्चान्यैर्वृणे यं मनुजर्षभम् ॥
अयोध्याकाण्डः ।
तेन रामेण कैकेयि शपे ते वचनक्रियाम् । बलमात्मनि जानन्ती न मां शङ्कितुमर्हसि ॥ करिष्यामि तव प्रीतिं सुकृतेनापि ते शपे ।
JAT
इति । ततो दशरथकृतशपथसान्त्वनशतैरप्यसंभृतवि- सम्भा केकेयी ससंभ्रममुत्थाय
यथाक्रमेण शपसि वरं मम ददासि च ।
तच्छृण्वन्तु त्रयस्त्रिंशद्देवाः साग्निपुरोगमाः ॥
इति सर्वानपि देवान्साक्षीकृत्य काममोहितं राजानमेव- मवोचत् ।
वरौ यौ मे त्वया दत्तौ तदा देव महीपते । तौ तावदहमद्यैव वक्ष्यामि शृणु मे वचः ॥ योऽभिषेकसमारम्भो राघवस्योपकल्पितः । अनेनैवाभिषेकेण भरतो मेऽभिषिच्यताम् ॥ यो द्वितीयो वरो देव दत्तः प्रीतेन मे त्वया । तदा देवासुरे युद्धे तस्य कालोऽयमागतः ॥
[[१४२]]
धर्माते
नव पञ्च च वर्षाणि दण्डकारण्यमाश्रितः । चीराजिनजटाधारी रामो भवतु तापसः ॥
इति । अत्र निकामकामासक्तदशरथेन शपथं कार- यित्वा सर्वदेवता साक्षीकरणपूर्वकवरद्वयं प्रार्थितवतीति कथनात् स्त्रियोऽत्यन्तकामासक्तान्पुरुषान्वशमानीय स. कटे पातयन्ति । अतः तासु अतिस्नेह द्वेषविश्रम्भादिकं न कर्तव्यमिति सूचितम् । तथा च मनुः – ‘अविद्वांस-
। मलं लोके विद्वांसमपि वा पुनः । प्रमदा ह्युत्पथं नेतुं कामक्रोधवशानुगम्’ इति । कामन्दकेऽपि - ‘निकामास- मनसां कान्तामुखविलोकने । गलन्ति गलदभ्रूणां यौ- वनेन सह स्त्रियः । नामापि स्त्रीति संह्रादि विकरोत्येव मानसम् । किं पुनर्दर्शनं तस्या विलासोल्लासितभ्रुवः । रहः प्रचारकुशला मृदुगद्गदभाषिणी ॥ कं नु नारी न कुरुते रक्तं रक्तान्तलोचना । मुनेरपि मनोऽवश्यं सरागं कुरुतेऽङ्गना ॥ प्रसन्नकान्तिजननं संध्येव शशिमण्ड- लम् । मनः प्रह्लादयन्तीभिर्मन्दं यान्तीभिरप्यलम् ॥ महा- न्तोऽपि हि भिद्यन्ते स्त्रीभिरद्भिरिवाचलाः’ इति । प्रा.
[[1]]
अयोध्याकाण्डः ।
[[१४३]]
चीना अपि– ’ स्मितेन रागेण च लज्जया भिया परा- ङ्मुखैरर्धकटाक्षवीक्षणैः । वचोभिरीयकलहेन लीलया समस्तभावैः खलु बन्धनं खियः ॥ सन्तु विलोकनभा- षणविलासपरिहासकेलिपरिरम्भाः । स्मरणमपि कामि- नीनामलमिह मनसो विकाराय’ इति । आनुशासने विपुलोपाख्यानेऽपि - ’ नासां स्नेहो नरैः कार्यस्तथैवे - र्ष्या जनेश्वर । खेदमास्थाय भुञ्जीत धर्ममास्थाय चैव ह ॥ निहन्यादन्यथा कुर्वन्नरः कौरवनन्दन’ इति । कामन्दकेऽपि - ‘अत्यन्तवल्लभोऽस्मीति विस्रम्भं स्त्रीषु न व्रजेत् । देवी तु काशिराजानं निजघान रहोगतम् ॥ विषाक्तेन च सौवीरं मेखलामणिना नृपम् । नूपुरेण च वैरासं जाल्माषं दर्पणेन च ॥ वेण्यां शस्त्रं समाधाय तथा चापि विदूरथम्’ इति ॥
द्वादशे – ततः स राजा व्याघ्रीदर्शनसंत्रस्तो मृग इव क्षुभितान्तःकरणः कैकेयीमेवमवोचत्-
नृशंसे दुष्टचारित्रे कुलस्यास्य विनाशिनि । किं कृतं तव रामेण पापे पापं मयापि वा ॥
धर्माकूते
सदा ते जननीतुल्यां वृत्तिं वहति राघवः । atra Farara fकं निमित्तमिहोद्यता ॥
कौसल्यां वा सुमित्रां वा त्यजेऽहमपि वा श्रियम् । जीवितं वत्स नो रामं न त्वेव पितृवत्सलम् ॥ तिष्ठेल्लोको विना सूर्य सस्यं वा सलिलं विना । न तु रामं विना देहे तिष्ठेत्तु मम जीवितम् ॥ न हि किंचिदयुक्तं वा विप्रियं वा पुरा मम । अकरोस्त्वं विशालाक्षि तेन न श्रद्दधाम्यहम् ।
अनृतैर्बत मां सान्त्वैः सान्त्वयन्ती स्म भाषसे ॥ गीतशब्देन संरुध्य लुब्धो मृगमिवावधीः । अत्र - कैकेयी स्वपुत्रस्य राज्यप्राप्तिरूपवरलाभा- वधि पत्युर्विप्रियं कृतवतीति कथनात्स्त्रियः स्वभावतः अतिक्रूराः तासां पत्यौ स्नेहः स्वप्रयोजनायैव न तु स्वारसिक इति सूचितम् । तथा च शाकलसंहितायां पुरूरवसा प्रार्थ्यमाना ऊर्वशी तमाह– ’ न वै स्त्र-
·
अयोध्याकाण्डः ।
[[१४५]]
णानि सख्यानि सन्ति सालावृकाणां हृदयान्येताः’ इति । बृहदारण्यके मैलेयब्राह्मणेऽपि ‘न वा अरे पत्युः कामाय पतिः प्रियो भवति आत्मनस्तु कामाय पतिः प्रियो भवति’ इति । अस्य भाष्यम् - नवाशब्दः प्रसिद्धस्म- रणार्थः प्रसिद्धमेतल्लो के पत्युर्भर्तुः कामाय प्रयोजनायैव भार्यायाः पतिः प्रियो भवति’ इति । भाष्यदीपिकाया- मपि ‘मैत्रेयि जाया न हिता न पत्यौ मुदं विधत्ते पति- कामसिद्धये । किं त्वात्ममोदाय मुधा हिताभिर्लीलाभि- रानन्दयति स्म कान्तम् ॥ तावत्प्रियः स्यात्पतिरङ्गनानां सिध्यन्ति यावन्निखिलाः स्वकामाः । पूर्णेषु पूर्णेषु च तेषु योषा विगर्हयन्त्येनमथ द्विषन्ति ॥ यः प्रीणयेदन्वहमा - त्मजायां विलेपनालंकरणादिदानैः । न लग्नमस्या हृदयं यदि स्यादयं तृणायापि तया न गण्यः’ इति । आनुशा- सनिके विपुलोपाख्यानेsपि ‘असाध्याश्चापि दुर्वृत्ताः कुल- धन्यः पापनिश्चयाः । विज्ञेया लक्षणैर्दुष्टैः स्वगात्रसहजै - नृप । एता हि मनुजव्याघ्रतीक्ष्णास्तीक्ष्णपराक्रमाः । एताः कृत्याः स्वकार्याच कृताश्च भरतर्षभ ’ इति ।
VOL. II. D 12
[[१४६]]
धर्माकूते
रोचयस्यभिरामस्य रामस्य प्रियदर्शने । तव शुश्रूषमाणस्य किमर्थं विप्रवासनम् ॥
शुश्रूषां गौरवं चैव प्रणामं वचनक्रियाम् । कस्ते भूयस्तरां कुर्यादन्यत्र मनुजर्षभात् ॥
बहूनां स्त्रीसहस्राणां बहूनां चोपजीविनाम् । परिवादोऽपवादो वा राघवे नोपपद्यते ॥
सत्येन लोकाञ्जयति दीनान्दानेन राघवः । गुरुशुश्रूषया वीरो धनुषा युधि शात्रवान् ॥
सत्यं दानं तपस्त्यागो मित्रता शौचमार्जवम् । विद्या च गुरुशुश्रूषा ध्रुवाण्येतानि राघवे ॥
क्षमा यस्मिन्दमत्यागः सत्यं धर्मः कृतज्ञता । अविहिंसा च भूतानां तमृते का गतिर्मम ॥
तदलं त्यज्यतामेष निश्चयः पापनिश्चये । अपि ते चरणौ मूर्धा स्पृशाम्येष प्रसीद मे ॥
अयोध्याकाण्डः ।
[[१४७]]
मम वृद्धस्य दीनस्य गतान्तस्य तपखिनः । दीनं लालप्यमानस्य कारुण्यं कर्तुमर्हसि ॥ अञ्जलि कुर्मि कैकेय पादौ चापि स्पृशामि ते । शरणं भव रामस्य माधम मामिह स्पृशेत् ॥
इति दुःखाभिसंतप्तं विलपन्तमचेतनम् । घूर्णमानं महाराजं शोकेनाभिपरिप्लुतम् ॥
परं शोकार्णवस्याशु प्रार्थयन्तं पुनः पुनः । प्रत्युवाचाथ कैकेयी रौद्रा रौद्रतरं वचः ॥
यदि दत्त्वा वरौ राजन्पुनः प्रत्यनुतप्यसे । धार्मिकत्वं कथं वीर पृथिव्यां कथयिष्यसि ॥
यदा समेता बहवस्त्वया राजर्षयः सह । कथयिष्यन्ति धर्मज्ञास्तत्र किं प्रतिवक्ष्यसि ॥
किल्विषत्वं नरेन्द्राणां करिष्यसि नराधिप । यो दत्त्वा वरमद्यैव पुनरन्यानि भाषसे ॥
[[१४८]]
धर्माकूते
सत्यं धर्म परित्यज्य रामं राज्येऽभिषिच्य च । सह कौसल्यया नित्यं रन्तुमिच्छसि दुर्मते ॥ raaaa धर्मो वा सत्यं वा यदि वानृतम् । यत्त्वया संश्रुतं मह्यं तस्य नास्ति व्यतिक्रमः ॥
स्वप्राणविप्रयोगनिदानभूतरामविप्रवासनाद्विरमेति द- शरथेनासकृत्सकरुणमभियाचितापि परुषतराणि वच- नानि श्रावयन्ती कैकेयी भर्तृप्राणत्यागमविगणय्य भर- तस्य राज्याभिषेकः रामस्य च प्रव्राजनमिति वरद्वयं प्रार्थितवती इति कथनात् स्त्रीणां भत्रेपेक्षया पुत्रेषु स्नेहा- विशयः सूचितः । तथा चादिपर्वणि स्त्रियं जरितां प्रति मन्दपालवचनम् न हि भार्येति विश्वासः कार्यः पुंसा कथंचन । न हि कार्यमनुष्याति नारी पुत्रवती सती’ । तथा पुत्रोपरोधजनितकोपा देवी रहोगतं भर्तारं विलोभ्य एकभाजनस्थानविषयान् लाजान्स्वयं भक्षयन्ती विषमिश्रा ल्लाजान्भोजयित्वा जघानेत्याह कामन्दकः – ‘लाजाविषेण संयोज्य मधुनेति विलोभ्य तम् । देवी तु.अयोध्याकाण्डः ।
काशिराजेन्द्रं निजघान रहोगतम्’ इति ।
अहं हि विषमद्यैव पीत्वा बहु तवाग्रतः । पश्यतस्ते मरिष्यामि रामो यद्यभिषिच्यते ॥
एकाहमपि पश्येयं यद्यहं राममातरम् । अञ्जलिं प्रतिगृहन्ती श्रेयो ननु मृतिर्मम ॥
भरतेनात्मना चाहं शपेऽयं मनुजाधिप ॥ यथा नान्येन तुष्येयमृते रामविवासनात् ।
स्थाप्य राज्ये मम सुतं कृत्वा रामं वनेचरम् ॥ निःसपत्नां च मां कृत्वा कृतकृत्यो भविष्यसि ॥
[[१४९]]
एकाहमपि पौरजना खलीन्प्रतिगृह्णन्त्याः कौसल्या- या दर्शनात्प्राणत्यागो वरमिति रामप्रत्राजनपूर्वकं भरत- राज्याभिषेकेण निःसपत्नां मां कुर्विति कैकेयीवचसा स्त्रीणां सपत्नीवृद्धिरविदुः सहेति सूचितम् । तथा च भारते आदिपर्वणि पाण्डुना माद्रया पुत्रार्थे पुनः प्रचो- दिता कुन्ती तमाह– ’ उत्कासहून्द्रमेषा लभे तेनास्मि
[[१५०]]
[[1]]
धर्माकूते
afar । बिभेम्यस्याभिभवात्कुत्रीणां गतिरीदृशी ॥ नाज्ञासिषमहं मूढा द्वन्द्वाह्वाने फलद्वयम् । तस्मान्नाहं तु वक्तव्या स्वयैषोऽस्तु वरो मम’ इति । आदिप- णि तत्रैव सुभद्राविवाहानन्तरमर्जुनं प्रति द्रौपदी- वाक्यम्- ‘तत्रैव गच्छ कौन्तेय यत्र सा सात्त्वता- त्मजा । सुबद्धस्यापि भारस्य पूर्वबन्धः ऋथायते’ इति । तत्रैव खाण्डवदाहे जरितां द्वितीयभार्थी प्रति मन्दपालः- ‘न स्त्रीणां विद्यते किंचिदमुत्र पुरुषान्तरात् । सापत्न- कमृते लोके नान्यदर्थविनाशनम् ॥ बैराग्निदीपनं चैव भृशमुद्वेगकारि च । सुव्रता चापि कल्याणि सर्वभूतेषु विश्रुता ॥ अरुन्धती महात्मानं वसिष्ठं पर्यशङ्कत विशुद्धभावमत्यन्तं सदा प्रियहिते रतम् ॥ सप्तर्षिम- ध्यगं वीरमवमेने च तं मुनिम् । अपथ्यानेन सा तेन धूमारुणसमप्रभा । लक्ष्मलक्ष्या नाभिरूपा निमित्तमिह पश्यती ॥ अपत्यहेतोः संप्राप्तं तथा स्वमपि मामिह । इष्टमेवं गते हि त्वं सा तथैवाद्य वर्तते’ इति । पाण्डु प्रति माद्रीवचनम् ‘गान्धार्यां चैव नृपते जातं पुत्र-
अयोध्याकाण्डः ।
પ
शतं तथा । श्रुत्वा न मे तथा दुःखमभवत्कुरुनन्दन ॥ इदं तु मे महद्दुःखं तुल्यतायामपुलता’ इति ॥
भूतोपहतचित्तेव ब्रुवन्ती मां न लज्जसे । शीलव्यसनमेतत्ते नाभिजानाम्यहं पुरः ॥
बालायास्तत्विदानीं ते लक्षये विपरीतवत् । नृशंसे पापसंकल्पे क्षुद्रे दुष्कृतकारिणि ॥
यदा यदा हि कौसल्या दासीवच सखीव च । भार्यावद्भगिनीवञ्च मातृवश्चोपतिष्ठते ॥
सततं प्रियकामा मे प्रियपुत्रा प्रियंवदा । न मया सत्कृता देवी सत्काराह कृते तव ।
अत्र कौसल्याकृतशुश्रूषा संतुष्टेन दशरथेन दासीवत्स - खवद्भार्यावद्भगिनीवन्मातृवश्चोपतिष्ठत इति परोक्षे गुण- कथनात्स्त्रीणामेवमादिभिः पतिसंतोषणं परमो धर्म इति ।
न मया सत्कृता देवी सत्कारार्हा कृते तव ।
[[३५२]]
धर्माकूते
इति वचनेन सपत्नीप्रीत्यर्थ भर्त्रा कृतमसत्कारमविग-
भर्तृशुश्रूषणमेव कृतवत्याः कौसल्यायाः सत्कारा- करणस्य दोषत्वावगमात्पतिव्रतानां सत्कारपूर्वकं भरणं भर्तुर्धर्म इति सूचितम् । तथा च पतिव्रतानां धर्मजातं पूज्यत्वं व प्रतिपादितं धर्मशास्त्रेषु- तत्र पारिजाते आश्वलायनः – ‘शूद्राणां द्विजशुश्रूषा विहिता ब्रह्मणा यथा । स्त्रीणां स्वभर्तृशुश्रूषा तथैव विहिता सदा ॥ अप्रियेष्वप्रिया भर्तुः सुप्रियेषु प्रिया सती । भवेत्स मे समा नित्यं प्रत्यक्ष वा परोक्ष ॥ स्नेहं पुत्रेष्वपि त्यक्त्वा स्वदेहे चाङ्गना सती । भर्तृचि- चानुगा नित्यं भवेद्भर्तृहिते रता ॥ अशनादि च यत्पथ्यं भर्त्रा यच विवर्जितम् । स्वात्मनश्च तथा च स्याच्छयने चासने तथा ॥ न स्याज्जप- तपोहोमदानव्रतमखादिकम् । स्त्रीणां पतिपराणां तु पत्या जीवति किंचन । तदाज्ञया तु कर्तव्यमकार्य- रपि नेच्छया । श्वश्रूश्वशुरयोश्चैतत्कार्य भर्तृबदादरात् ॥ भर्ता यद्यप्यनुज्ञाता पित्रोस्तस्याङ्गना सती । शक्त्यां
अयोध्याकाण्डः ।
[[१५३]]
कुर्यात्परोक्षेऽपि हितान्यप्रिययोरपि ॥ जडं वा बधिरं पशुं काणमन्धं कुणिं तथा । कुष्ठिनं च कृशं वाढ्यं प्रियं वाप्रियमेव च ॥ सुरूपं वा विरूपं वा युवानं वृद्धमेव च । प्रत्यक्ष देववत्साध्वी भर्तारं पूजयेत्सदा ॥ कुणिस्तरहितः । गृहार्चनपरा नित्यं सम्यनिर्निक्त- भाजना । निर्मलालंकृता चैव शुश्रूषेत्पतिमीश्वरम् ॥ ने- क्षेत दुष्टचित्तानां दुःखीणां पापचेतसाम् । तस्मात्सं- कल्प्य चात्मानमनन्या स्यात्सदा सती ॥ परसक्ताः fast area asafeत्वा स्वकं पतिम् । निन्द्याः स्युः सर्वलोकैस्ता निरये च मृताश्चिरम् ॥ बाल्ये पितृवशा नारी दत्ता भर्तृवशा भवेत् । वृद्धा पुत्रत्रशा नारी न स्त्री स्वातन्त्र्यमर्हति ॥ भर्तुरप्यवलिप्तस्य कार्याकार्यमजानतः । पत्न्याथ कार्या तस्याज्ञा पतिस्तस्याश्च सर्वदा’ इति । विज्ञानेश्वरः- ‘स्त्रीभिर्भर्तृवचः कार्यमेष धर्मः सनातनः । अशुद्धे संप्रतीक्ष्यो हि महापातकदूषितः । संयतोऽम- स्करा दक्षादुष्टा व्ययपराङ्मुखी । कुर्याच्छुशुरयोः पादव- न्दनं भर्टतत्परा ॥ पतिप्रियहिते युक्ता स्वाचारविजिते-
[[३५४]]
धर्माकूते
न्द्रिया । सेह कीर्त्तिमवाप्नोति प्रेत्य चानुत्तमां गतिम् ’ इति । स्कान्दे- ’ पानं दुर्जनसंसर्गः पत्या च विरहोsट- नम् । स्वप्नोऽन्यगेहवासञ्च नारीणां दूषणानि षट्’ इति । दक्षिणाभिमुखा या तु या विदिक्संमुखापि वा । केशा- संस्कुरुते नारी धननाशं सुविन्दति । शङ्खः - ‘अनुक्तान्नानु- ग्रहान्नानुगच्छेन्नानुगच्छेन्नानुत्तरीयाश त्वरितं व्रजेत न परपुरुषमभिभाषेतान्यत्र वणिक्प्रत्रजित वैद्यविद्येभ्यो न नाभि दर्शयेदागुल्फाद्वासः परिदध्यान स्तनौ विवृतौ कुर्या- न हसेदपावृतं भर्तारं तद्बन्धून्वा न द्विष्यात् न गणिका- धूर्त्ताभिसारिणी प्रत्रजिता प्रेक्षणिकानाय कुहकारिका- रिकादुःशीलाभिः सहैकत्र बसेत्संसर्गेण चारित्रं दुष्यति’ इति । मनुः - ’ भर्तारं लङ्घयेद्या तु जातु स्त्री गुणदर्पिता । तां श्वभिः खादयेद्राजा संस्थाने बहुसंस्थिते’ इति । ब्रह्मपुराणे - ’ परित्याज्या व या भार्या भर्तुर्वचनल- विनी । तत्र दोषो न चास्तीति त्वं हि वेत्थ यथा- तथम् ॥ सर्वलक्षणयुक्तापि या तु भर्तुर्व्यतिक्रमम् । करोति सा परित्याज्या एष धर्मः सनातनः’ इति ।
अयोध्याकाण्डः ।
[[१५५]]
व्यासः- ‘कुरूपो वा कुवृत्तो वा दुःखभावेऽपि वा पतिः । रोगान्वितः पिशाचो वा मद्यपः क्रोधनोऽपि वा ॥ वृद्धो वाथ विदग्धो वा मूको वा बधिरोऽपि वा । आढयो वाथ दरिद्रो वा कदर्यः कुत्सितोऽपि वा ॥ कातरः कितवो वापि ललनालम्पटोsपि वा । सततं देवपूज्यो मनोवाक्कायकर्मभिः ॥ लोभितोऽपि परेणाथैः
[[11]]
[[1]]
सा सती लोकभूषणा । दैन्येन प्रार्थिता वापि बलेन विघृतापि वा ॥ वाद्यैर्वासिता वापि नैवान्यं भजते सती । वीक्षिता वीक्षते नान्यं हसिता न हसत्यपि । भाषिता भाषते नैव सा साध्वी साधुलक्षणा ॥ रूपयौवन- युक्तापि गीतनृत्येऽपि कोविदा । स्वानुरूपं चापि दृष्ट्वा न याति विकृति सती ॥ सुरूपं तरुणं रम्यं कामिनीनां च वल्लभम् । या नेच्छति परं कामं विज्ञेया सा महास- ती । भुक्ते भुङ्गे च या पत्यौ दुःखिते दुःखिता च या । मुदिते मुदितात्यर्थ प्रोषिते मलिनाम्बरा । सुप्ते च स्वे- च्छया शेते पूर्वमेव प्रबुध्यते । नान्यं कामयते चिले सा विज्ञेया पतिव्रता ॥ भक्ति श्वशुरयोः कुर्यात्पत्युवापि
[[१५६]]
धर्माकूते
विशेषतः । धर्मकार्येऽनुकूलत्वमधर्मकार्येऽपि संयमम् ॥ प्राभ्यं कामकार्येषु शुचित्वं निजविग्रहे । मङ्गलं सततं पत्युः सततं प्रियभाषणम् । भाव्यं मङ्गलकारिण्या कृतम- जलशीलया । गृहोपस्करसंस्काररतया प्रतिवासरम् । क्षेत्राद्वनाद्वा प्रामाद्वा भर्तारं गृहमागतम् ॥ अभ्युत्थाना- भिवादाभ्यामासनेनोदकेन वा । प्रसन्नभाण्डा मृष्टान्ना काले भोजनदायिनी । गुरूणां पुत्रमित्राणां बन्धूनां कर्मकारिणाम् ॥ आश्रितानां च भृत्यानां दासीदासज- नस्य च । अतिथ्यभ्यागतानां च भिक्षुकाणां च लिङ्गि- नाम् ॥ भोजनासनदानाद्यैर्वत्रैश्च प्रियभाषणैः । तत्तद्रु- णानुसारेण प्राप्ते काले यथोचितम् ॥ दक्षया सर्वढ़ा भाव्यं भार्यया गृहमुख्यया । दानार्थमपि यद्द्रव्यं लोका- त्किचिच्च साधयेत् ॥ भर्तुराज्ञां विना नैव स्वबन्धुभ्यो दिशेद्धनम् । यच भर्ता न पिबति यच भर्ता न खादति । यच भर्ता न चानाति सर्वे तद्वर्जयेत्सती ॥ मार्जनं चैव दन्तानामलकानां प्रसाधनम् । तैलाभ्यङ्गं तथा स्नानं शरीरोद्वर्तन क्रियाम् ॥ भोजनं वसनं निद्रां परिधानं च
अयोध्याकाण्डः ।
[[१५७]]
वाससाम् । आरम्भं मण्डनानां च न कुर्यात्पश्यति प्रिये ॥ हरिद्रां कज्जलं चैव सिन्दूरं कुङ्कुमं तथा । कूर्पासकं च ताम्बूलं माल्यमाभरणं शुभम् ॥ केशसंस्कारकवरीकर- कर्णविभूषणम् । भर्तुरायुष्यमिच्छन्ती दूषयेन्न पतिव्रता ॥ आर्द्रपादा शयाना स्त्री पतिसङ्गं समाचरेत् । आयुष्यं हरते भर्तुः सा नारी नरकं व्रजेत् । कथ्युकेन समं नारी भर्तुः सङ्गं समाचरेत् । त्रिभिर्वर्षैश्च मध्ये वा विधवा भवति ध्रुवम् ॥ तालपत्त्रलत्कर्णा दयिता मैथुनं व्रजेत् । पञ्चमे सप्तमे वर्षे वैधव्यमिह जायते ॥ पादलग्नतनुश्चैव ह्युच्छिष्टं ताडनं तथा । कोपं क्रोधं च निर्भ संयोगेषु न दोषकृत् ॥ ऋतुस्नाता तु या नारी पर्ति नैवोपवि- न्दति । शुनी वृकी शृगाली स्यात्सूकरी च पुनः पुनः ॥ कुङ्कुमं चाखनं चैव तथा हारिद्रचन्दने । धौत- वस्त्रं च ताम्बूलं संयोगं च शुभावहम् ॥ पादौ भर्तु - नमस्कृत्य पञ्चाच्छय्यां समाविशेत् । प्रीतिमाह्लादसंयुक्तं कृत्वा संयोगमाचरेत्’ इति । स्कान्दे लोपामुद्राप्रशंसा- व्याजेन बृहस्पतिः - ‘पतित्रतेयं कल्याणी लोपामुद्रा सध-
[[१५८]]
धर्माकूते
र्मिणी । तवाङ्गच्छायया तुल्या यत्कथा पुण्यकारिणी ॥ पतिव्रतास्त्ररुन्धत्या सावित्र्या ानसूयया । शाण्डिल्यया च सत्या च लक्ष्म्या च शतरूपया । सेनया च सुनीत्या च संज्ञा स्वाया तथा । यथैषा वर्ण्यते श्रेष्ठा न तथान्येति निश्चितम् ॥ भुक्ते भुङ्क्ते त्वयि सुने तिष्ठति त्वयि तिष्ठति । विनिद्रिते च निद्राति प्रथमं प्रतिबुध्यति ॥ अनलंकृतमा - स्मानं तव नो दर्शयेत्कचित् । कार्यार्थ प्रोषिते कापि सर्वमण्डनवर्जिता ॥ न च ते नाम गृह्णाति तत्रायुष्या- भिवृद्धये । पुरुषान्तरनामापि न गृह्णाति कदाचन ॥ समाक्रुद्रापि नाक्रोशेन ताडितापि प्रसीदति । इदं कुरु कृतं स्वामिन्मन्यतामिति वक्ति च ॥ आहूता गृहकार्याणि त्यक्त्वागच्छति सादरा । किमर्थमाहूता नाथ सुप्रसादो विधीयताम् ॥ न चिरं तिष्ठति द्वारि न द्वारमुपसेवते । अदापितं त्वया किंचित्कस्मैचिन्न ददात्यपि ॥ पूजोपकरणं सर्वमनुक्ता साधयेत्स्वयम् । नियमोदकवहींषि यत्र पुष्पाक्ष- तादिकम् ॥ प्रतीक्षमाणावसरं यथाकालोचितं हि तत् । तदुपस्थापयेत्सर्वमनुमितिवत् ॥ सेवते भर्तुरुच्छिष्ट-अयोध्याकाण्डः ।
[[१५९]]
मन्नपानफलादिकम् । महाप्रसाद इत्युक्ता पतिदत्तं प्रती- च्छति ॥ अविभज्य च नाश्रीयाद्देवपिवतिथिष्वपि । परिचारकवर्गेषु गोषु भिक्षुकुलेषु च ॥ संयतोपस्करा दक्षा हृष्टा व्ययपराङ्मुखी । कुर्यास्त्वयाननुज्ञाता नोपवा- सत्रतादिकम् ॥ दूरतो वर्जयेदेषा समाजोत्सवदर्शनम् । नगच्छेत्तीर्थयात्रा दिविवाहप्रेक्षणादिषु ॥ सुखसुप्तं सुखा- सीनं रममाणं यथेच्छया । आन्तरेष्वपि कार्येषु पर्ति नो- त्थापयेत्कचित् ॥ स्त्रीधर्मिणी विरावं तु स्वमुखं नैव दर्शयेत् । स्ववाक्यं श्रावयेन्नापि यावत्स्नाता न शुध्यति ॥ सुनाता भर्तृवदनमीक्षतेऽन्यस्य नो क्वचित् । अथ वा मनसि ध्यात्वा पति भानुं विलोकयेत् ॥ हरिद्रां कुङ्कुमं चैत्र सिन्दूरं कज्जलं तथा । कूर्पासकं च ताम्बूलं मङ्गल्या- भरणं शुभम् ॥ केशसंस्कारकबरी करकर्णविभूषणम् । भर्तुरायुष्यमिच्छन्ती दूषयेन्न पतिव्रता । न रजक्या न हेतुक्या तथा श्रमणया न च ॥ न च दुर्भगया कापि सखित्वं कुरुते सती । भर्तृविद्वेषिणीं नारीं नैषा संभाषते कचित् । नैकाकिनी कचिद्भूयान्न नग्ना नाति
[[३६०]]
धर्माकूते
वै कचित् । विना व्यवायसमयं प्रागल्भ्यं न कचिश्रेत् ॥ यत्र यत्र रुचिर्भर्तुस्तत्र प्रेमवती सदा । इदमेव व्रतं स्त्रीणामयमेव वृषः परः ॥ इयमेका देवपूज्या भर्तुर्वाक्यं न लङ्घयेत् ॥ क्लीबं वा दुःखसंस्थं वा व्याधितं वृद्धमेव वा ॥ सुस्थितं दुस्थितं वापि पतिमेकं न लङ्घयेत् । हृष्टा हृष्टे विषण्णा स्याद्विषण्णास्त्रे प्रिये सदा ॥ एकरूपा भवेत्पुण्या संपत्सु च विपत्सु च । सर्पिर्लवणतैलादिक्षयेऽपि च पतिव्रता ॥ पतिं नास्तीति नो ब्रूयादायासेषु न योजयेत् । तीर्थखानार्थिनी नारी पतिपादोदकं पिबेत् ॥ शंकरादपि विष्णोर्वा पतिरेको- sfer : स्त्रियाः ॥ व्रतोपवासनियमं पतिमुलक याचरेत् । आयुष्यं हरते भर्तुर्मृता निरयमृच्छति ॥ उक्ता प्रत्युत्तरं दद्याद्या नारी क्रोधमूर्च्छिता । जायते सूकरी ग्रामे सृगाली निर्जने वने ॥ स्त्रीणां हि परमश्चैको नियमः समुदाहृतः । अभ्यर्च्य चरणौ भर्तुर्भोक्तव्यं कृतनिश्चयम् ॥ उच्चासनं न सेवेत न व्रजेत्परवेश्मनि । न पाकरवाक्यानि वक्तव्या- नि कदाचन । अपवादो न वक्तव्यः कलहं दूरतस्त्य-
अयोध्याकाण्डः ।
१६*
जेत् । गुरूणां संनिधौ कापि नोचैर्ब्रयान वा ह सेत् ॥ या भर्तारं परित्यज्य रहश्चरति दुर्मतिः । उलूकी जायते क्रूरा वृक्षकोटरवासिनी ॥ ताडिता ताडितु चेच्छेत्सा नारी वृक्देशिका । कटाक्षयति यान्यं के केकराक्षी तु सा भवेत् ॥ या भर्तारं परित्यज्यः मृष्टम- श्राति केवलम् । ग्रामे सा सूकरी भूयाद्वल्गुली का स्वविड्भुजा ॥ या हुंकृत्य प्रियं ब्रूते सा मूका जायतेः खलु । या सपत्नीः सदेष्येत दुर्भगा सा पुनः पुनः ॥ दृष्टिं विलुप्य भर्तुर्या कंचिदन्यं समीक्षते । काणापिः
।
विमुखी चापि कुरूपा चापि जायते । बाह्यादायान्तमा- लोक्य स्वरिता च जलाशनैः । ताम्बूलैर्व्यजनैश्चैव पाद- संवाहनादिभिः । तथैव वाटुवचनैः खेदसंनोदनैः परैः । या प्रियं प्रीणयेत्प्रीत्या त्रिलोकी प्रीणिता तथा ॥ मितं ददाति हि पिता मितं भ्राता मितं सुतः । श्रमितस्य हि दातारं भर्तारं का न पूजयेत् । भर्ता देवो गुरुर्भर्ता धर्मस्तीर्थव्रतानि च । तस्मात्सर्वं परित्यज्य पतिमेकं समर्थ- येत् ॥ पितृवंश्या मातृवंश्या पतिवंश्यास्त्रयस्त्रयः । पतित्र-
VOL. II. D 13
[[૨]]
धर्माकूते
-तायाः पुण्येन स्वर्गसौख्यानि भुञ्जते ॥ शीलभङ्गेन दुर्वृत्ताः पातयन्ति कुलत्रयम् । पितुर्मातुस्तथा पत्युरिहामुत्र च दुः- खिताः ॥ पतिव्रतायाञ्चरणो यत्र यत्र स्पृशेद्भुवम् । तत्रेति भूमिर्मन्येत नात्र भारोऽस्ति पावनी ॥ बिभ्यतिव्रता- स कुरुते भानुमानपि । सोमो गन्धवश्वापि स्वपावि- न्याय नान्यथा ॥ आपः पतिव्रतास्पर्शमभिलष्यन्ति सर्वदा । अद्य जाड्यविनाशो नो जातास्त्रद्यातिपावनाः ॥ गृहे गृहे न किं नार्यो रूपलावण्नगर्विताः । परं विश्वेशभक्त्यैव लभ्यते स्त्री पतिव्रता ॥ भार्या मूलं गृहस्थस्य भार्या मूलं सुखस्य च । भार्या धर्मफलावाप्त्यै भार्या संतानवृद्धये ॥ परलोकरत्वयं लोको जीयते भार्यया द्वयम् । देवपित्र्या- तिथीज्यादि नाभार्यः कर्म चाईति ॥ गृहस्थः सं हि विज्ञेयो यस्य गेहे पतिव्रता । ग्रस्यतेऽन्यः प्रतिपदं राक्षस्या जरयाथ वा ॥ यथा गङ्गावगाहेन शरीरं पावनं भवेत् । तथा पतिव्रतादृष्टया शुभया पावनं भवेत् । न गङ्गायास्तया भेदो या नारी पतिदेवता । उमा शिवसमा साक्षात्त- स्मात्तां पूजयेद्बुधः । इति । आदिपर्वण्यपि दुष्यन्तं प्रति
[[1]]
अयोध्याकाण्डः ।
[[१६३]]
शकुन्तलावचनम् -’ सा भार्या या गृहे दक्षा सा भार्या या प्रजावती । सा भार्या या पतिप्राणा सा भार्या या पतिव्रता ॥ भार्यावन्तः क्रियावन्तः सभार्या गृह- मेधिनः । भार्यावन्तः प्रमोदन्ते भार्यावन्तः श्रियान्वि- ताः ॥ सखायः प्रविविक्तेषु भवन्त्येताः प्रियंवदाः । पितरो धर्मकार्येषु भवन्त्यार्तस्य मातरः ॥ कान्तारेष्वपि विश्रामो जनस्याध्वनिकस्य वै । यः सदारः स वि- श्वास्यस्तस्माद्दाराः परा गतिः ॥ संसरन्तमपि प्रेतं विषमेष्वेकपातिनम् । भार्यैवान्वेति भर्तारं सततं या पति- व्रता ॥ प्रथमं संस्थिता भार्या पति प्रेत्य प्रतीक्षते । पूर्व मृतं च भर्तारं पश्चात्साध्यनुगच्छति’ इति । भारते आपद्धर्मे कपोतीलुब्धकीये- ‘मितं ददाति हि पिता मितं भ्राता मितं सुतः । अमितस्य हि दातारं भर्तारं का न पूजयेत् ॥ नास्ति भर्तृसमो नाथो नास्ति भर्तृसमं सुखम् । विसृज्य धनसर्वस्वं भर्ता वै शरणं स्त्रियाः ॥ तवैव कपोतवाक्यम् –’ अथ वृक्षस्य शाखायां विहङ्गः ससुहृज्जनः । दीर्घ- कालोषितो राजंस्तत्र चित्रतनूरुहः ॥ तस्य कल्यगता
[[१६४]]
धर्माते
भार्या चरितुं नाभ्यवर्तत। किं तु तत्कारणं येन साद्यापि न निवर्तते ॥ अपि स्वस्ति भवेत्तस्याः प्रियाया मम कानने । तया विरहितं हीदं शून्यमद्य गृहं मम ॥ पुत्रपौत्र वधूभृत्यैराकीर्णमपि सर्वतः । भार्याहीनं गृ- हस्थस्य शून्यमेव गृहं भवेत् ॥ न गृहं गृहमित्याहु- गृहिणी गृहमुच्यते । गृहं तु गृहिणीहीनमरण्यसदृशं मतम् ॥ न भुङ्क्ते मय्यमुक्ते या न स्नाते स्नाति सुव्रता । तिष्ठत्युपतिष्ठते न शेतेऽशयित मयि ॥ हृष्टे भवति सा हृष्टा दुःखिते मयि दुःखिता । प्रोषिते दीनवदना क्रुद्धे च प्रियवादिनी ॥ पतिप्रिया पति- प्राणा पतिप्रियहिते रता । यस्य स्यात्तादृशी भार्या धन्यः स पुरुषो भुवि ॥ सा हि श्रान्तं क्षुधार्त च जानीते मां तपस्विनी । अनुरक्ता स्थिरा चेह भक्ता स्निग्धा यशस्विनी ॥ वृक्षमूलेऽपि दयिता यस्य तिष्ठति गृहम् । प्रासादोऽपि तया हीनः कान्तारमिति नि यः ॥ धर्मार्थका कालेषु भार्या पुंसः सहायिनी । तथा रोगाभिभूतस्य नित्यं कृच्छ्रगतस्य च । नास्ति भा-
अयोध्याकाण्डः ।
[[१२६५]]
।
समं किंचिनस्यार्त्त भेषजम् । नास्ति भार्या - समो बन्धुर्नास्ति भार्यासमा गतिः ॥ नास्ति भार्या- समो लोके सहायो धर्म संग्रहे । यस्य भार्या गृहे नास्ति साध्वी च प्रियवादिनी । अरण्यं तेन गन्तव्यं यथारण्यं तथा गृहम्’ इति । आनुशासनिके महेश्वरं प्रति उमा- वचनम् - ‘स्त्रीधर्मः पूर्व एवायं विवाहे बन्धुभिः कृतः । सहधर्मचरी भर्तुर्भवत्यग्निसमीपतः । सुखभावा सुवचना सुवृत्ता सुखदर्शना । अनन्यचित्ता सुमुखी भर्तुः सा धर्मचारिणी ॥ सा भवेद्धर्मपरमा सा भवेद्धर्मभागिनी । देववत्सततं साध्वी भर्तारं प्रतिपश्यती । शुश्रूषां परिचर्या च देवतुल्यं प्रकुर्वती । नान्यभावा ह्यविमनाः सुव्रता सु- खदर्शना ॥ या साध्वी नियताहारा सा भवेद्धर्मचारिणी । परुषाण्यपि चोक्ता या दृष्टा दुष्टेन चक्षुषा ॥ सुप्रसन्नमुखी भर्तुर्या नारी सा पतिव्रता । न चन्द्रसूर्यौ नतरुं पुन्नान्नो या निरीक्षते ॥ भर्तृपूज्य वरारोहा सा भवेद्धर्मभागिनी । दरिद्रं व्याधितं दीनमध्वना परिकर्शितम् ॥ पतिं पुत्रमि- चोपास्ते सा नारी धर्मभागिनी । न कामेषु न भोगेषु नै-
[[१६६]]
धर्माकूते
श्वर्येन सुखे तथा । स्पृहा यस्या यथा पत्यौ सा नारी धर्म- भागिनी । या नारी प्रयता दक्षा या नारी पुत्रिणां भवेत् ॥ पतिप्रिया पतिप्रीणा सा नारी धर्मभागिनी । अग्नि- कार्यपरा नित्यं सदा पुष्पबलिप्रदा ॥ देवतातिथिभृत्यानां निर्वाप्य पतिना सह । शेषान्नमुपभुञ्जाना यथान्यायं यथाविधि ॥ तुष्टपुष्टजना नित्यं नारी धर्मेण युज्यते । श्रूश्वशुरयोः पादौ तोषयन्ती गुणान्विता ॥ माता- पितृपरा नित्यं या नारी सा तपोधना । ब्राह्मणान्दुर्बला- नान्दीनान्धकृपणांस्तथा ॥ बिभर्त्यनेन या नारी सा पतिव्रतभागिनी । व्रतं चरति या नित्यं दुरं लघु- सत्त्वया ॥ पतिचित्ता पतिहिता सा पतिव्रतभागिनी ॥ पुण्यमेतत्तपश्चैव स्वर्गचैव सनातनः । या नारी भर्तृपरमा भवेद्भर्तृव्रता सती ॥ पतिर्हि देवो नारीणां पतिर्बन्धुः पतिर्गतिः । पत्या समा गतिर्नास्ति दैवतं वा यथा पतिः ॥ पतिः प्रसादः स्वर्गे वा तुल्यो नार्या न वा भवेत् । यद्य- कार्यमधर्मे वा यदि वा प्राणनाशनम् । प्रतिब्रूयाद्दरिद्रो वा व्याधितो वा कथंचन ॥ आपनो रिपुसंस्थो वा
अयोध्याकाण्डः ।
[[१६७]]
ब्रह्मशापादितोऽपि वा । आपद्धर्ममनुप्रेक्ष्य तत्कार्यमविश- या ॥ एष देव मया प्रोक्तः स्त्रीधर्मो वचनात्तव । या त्वेवंभाविनी नारी सा पतिव्रतभागिनी’ इति । तत्रैव स्थलान्तरे युधिष्ठिरः – ‘सत्स्त्रीणां समुदाचारं सर्वे धर्म- विदां वर । श्रोतुमिच्छाम्यहं त्वत्तस्तन्मे ब्रूहि पितामह ’ ॥ भीष्मः - ‘सर्वज्ञा सर्वतत्रज्ञा देवलोके मनस्विनी । कैकेयी सुमना नाम शाण्डिलीं पर्यपृच्छत । केन वृत्तन कल्याणि समाचारेण केन वा ॥ इमं लोकमनुप्राप्ता त्वं हि तत्त्वं वद- स्त्र मे इति । पृष्टा सुमनया मधुरं चारुहासिनी । शाण्डिली निभृतं वाक्यं सुमनामिदमब्रवीत् ॥ नाहं काषायवसना नास्मि वल्कलधारिणी । न च मुण्डा न जटिला भूत्वा देवत्वमागता । अहितानि च वाक्यानि सर्वाणि परु षाणि च । अप्रमत्ता च भर्तारं कदाचिन्नाहमब्रत्रम् ॥ देवतानां पितॄणां च ब्राह्मणानां च पूजने । अप्रमत्ता सदा युक्ता वश्रूश्वशुरवर्तिनी । पैशुन्ये न प्रवर्तामि न ममैतन्मनोगतम् । पुनर्द्वारि न तिष्ठामि चिरं न कथयामि च ॥ असद्वा हसितं किंचिदहितं वापि
[[१६८]]
धर्माकूते
कर्मणा । रहस्यमरहस्यं वा न प्रवर्तासि सर्वथा ॥ कार्यार्थ निर्गतं चापि भर्तारं गृहमागतम् । आसनेनो- पसंयोज्य पूजयामि समाहिता । यदन्नं नाभिजानाति यद्भोज्यं नाभिनन्दति ॥ भक्ष्यं वा यदि वा लेह्यं तत्सर्व वर्जयाम्यहम् । कुटुम्बार्थे समानीवं यत्किंचित्कार्यमेव तु । प्रातरुत्थाय तत्सर्वं कारयामि करोमि च । नोत्थाप- यामि भर्तारं सुखसुप्तमहं सदा । आतरेष्वपि कार्येषु तेन तुष्यति मे मनः । नायास्यामि भर्तारं कुटुम्बार्थे च सर्व- दा । गुप्तगुया सदा चास्मि सुसंमृष्टनिवेशना ॥ इमं धर्मपथं या हि पालयत्यखिलं सदा । अरुन्धतीव नारीणां स्वर्ग- लोके महीयते’ । भीष्मः - ’ एतदाख्याय सादेवी सुमनायै तपस्विनी । पतिधर्म महाभागा जगामादर्शनं तदा ॥ ’ इति । वनपर्वणि सत्यभामां प्रति द्रौपदीवचनम् ‘वर्ता - म्यहं तु यां वृत्ति पाण्डवेषु महात्मसु । तां सर्वो शृणु मे सत्यां सत्यभामे यशस्विनि’ ॥ अहंकारं विद्यायाहं काम- क्रोधौ च सर्वदा । सादरा पाण्डवान्नित्यं प्रयतोपचरा- म्यहम् ॥ प्रणयं प्रतिसंहत्व निधायात्मानमात्मनि । शुश्रूषु–
1अयोध्याकाण्डः ।
K
निरभीमाना पतीनां चित्तरक्षिणी । दुर्व्याहृताच्छङ्कमाना दुश्चिन्ताद्दुरवेक्षितात् ॥ दुरासिताहुर्व्रजितादिङ्गिताध्या- सितादपि । सूर्यवैश्वानरसमान्सोमकल्पान्महारथान् । सेवे चक्षुर्हणः पार्थानुग्रवीर्यप्रतापिनः । देवो मनुष्यो गन्धर्वो युवा चापि स्वलंकृतः । द्रव्यवानभिरूपो वा न -मेऽन्यः पुरुषो मतः ॥ नाभुक्तवति नास्नाते नासंविष्ट च भर्तरि । न संविशामि नानामि सदा कर्मकरेष्वपि क्षेत्राद्वनाद्वा प्रामाद्वा भर्तारं गृहमागतम् । अभ्युत्थाया- भिनन्दामि आसनेनोदकेन च ॥ प्रसृष्टभाण्डा मृष्टान्न- काले भोजनदायिनी । संयता गुप्तधान्या च सुसंमृष्टा निवेशना । अतिरस्कृत संभाषा दुःखियो नानुसेवती । अनु- कूलक्ती नित्यं भवाम्यनलसा सदा । अनर्म चापि हसितं द्वारस्थानमभीक्ष्णशः ॥ अवस्करे चिरं स्थानं निष्कु- टेषु च वर्जयेत् । निरताहं सदा सत्ये भर्तृणामुपसेवने ॥ सर्वथा भर्तृरहितं न ममेष्टं कथंचन । यदा प्रवसते भर्ती कुटुम्बार्थेन केनचित् । सुमनोवर्णकापेता भवामि चारिणी ॥ यच भर्ता न पिबति यच्च भर्ता न खा-
[[1]]
VOL. II. D 14
[[१७०]]
धर्माकूते
दति । यच्च नाभाति मे भर्ता सर्वे तद्वर्जयाम्यहम् ॥ यथोपदेशं नियता वर्तमाना वराङ्गने । स्वलंकृता सुप्र- यता भर्तुः प्रियहिते रता । ये च धर्माः कुटुम्बेषु श्वश्वा मे कथिताः पुरा । भिक्षा बलिः श्राद्धमिति स्थाली– पाकाश्च पर्वसु ॥ मान्यानां मानसत्कारा ये चान्ये विदिता मम । तान्सर्वाननुवर्तामि दिवारात्र मतन्द्रिता ॥ विनयान्नियमाञ्चैव सर्वात्मानं सदाश्रिता । मृदून्सतः सत्यशीलान्सत्यधर्मानुपालिनः । आशीविषानिव क्रुद्धा- न्पतीन्परिचराम्यहम् । पत्याश्रयो हि मे धर्मो मतः स्त्रीणां सनातनः ॥ स देवः सा गतिर्नान्या तस्य का विप्रियं चरेत् । अहं पतिं नातिशये नात्यने नाति- भूषये । नापि परिवदे श्वश्रूं सर्वदा परियन्त्रिता । अव – धानेन सुभगे नित्योत्थिता तथैव च ॥ भर्तारो वशगा मह्यं गुरुशुश्रूषयैव च । नित्यमार्यामहं कुन्तीं वीरसूं. सत्यवादिनीम् । स्वयं परिचराम्येतां पानाच्छादनभो- जनैः । नैतामतिशये जातु वस्त्रभूषण भोजनैः ॥ नाहं परिवदे वादं तां पृथां पृथिवीसमाम् । अष्टावग्रे ब्राह्म-
अयोध्याकाण्डः ।
[[१७१]]
णानां सहस्राणि स्म नित्यदा । भुञ्जते रुक्मपात्रीषु युधि- ष्ठिरनिवेशने ॥ अष्टाशीतिसहस्राणि स्नातका गृह- मेधिनः । त्रिंशद्दासीक एकैको यान्बिभर्ति युधिष्ठिरः ॥ ‘दशान्यानि सहस्राणि येषामन्नं सुसंस्कृतम् । क्रियते रुक्म- पात्रीभिर्यतीनामूर्ध्वरेतसाम् । तान्सर्वानग्रहारेण ब्राह्मणा- वेदवादिनः । यथाई पूजयामि स्म पानाच्छादनभो- जनैः ॥ शतं दासीसहस्राणि कौन्तेयस्य महात्मनः । कम्बुकेयूरधारिण्यो निष्ककण्ठ्यः स्वयंकृताः । महार्हमा- ल्याभरणाः सुवर्णाश्चन्दनोञ्जिताः । मणीन्हेम च बि- भ्रत्यो नृत्तगीतविशारदाः । तासां नाम च रूपं च भोजनाच्छादनानि च । सर्वासामेव वेदाहं कर्म चैव कृताकृतम् । शतं दासीसहस्राणि दश नागायुतानि च । युधिष्ठिरस्यानुयात्रमिन्द्रप्रस्थनिवासिनः । एवमासीत्तदा राज्ञो यन्महीं पर्यपालयन् । येषां संख्याविधि चैव प्रदि- शामि शृणोमि च । अन्तःपुराणां सर्वेषां भृत्यानां चैव सर्वशः ॥ आगोपालाविपालेभ्यः सर्वे वेद कृताकृतम् । सर्व राज्ञः समुदयमायं च व्ययमेव च । एकाहं वेद्मि
[[१७२]]
धर्माकूते
कस्याणि पाण्डवानां यशस्विनी । मयि सर्व समासज्ज्य कुटुम्बं भरतर्षभाः । उपासनरताः सर्वे घटन्ति स्म वरा- नने । तमहं भारमासक्तमनाधृष्यं दुरात्मभिः । सुखं सर्वे परित्यज्य राज्यहानि घटामि वै । अधृष्यं करुणस्येव निधि- पूर्णमिवोदधिम् ॥ एकाहं वेद्मि कोशं वै पतीनां धर्मचारि- णाम् । अनिशायां निशायां च सहाया क्षुत्पिपासयोः ॥ आराधयन्त्याः कौरव्यांस्तुल्या रात्रिरह मे । प्रथमं प्रतिबुध्यामि चरमं संविशामि च ॥ नित्यकालमहं सत्ये एतत्संवननं मम । एतज्जानाम्यहं कर्तुं भर्तृसंवननं महत् ॥ असत्स्त्रीणां समाचारं नाहं कुर्यो न कामये ’ । वैशम्पा- यनः – ’ तच्छ्रुत्वा धर्मसहितं व्याहृतं कृष्णया तदा । उवाच सत्या सत्कृत्य पाञ्चालीं धर्मचारिणीम् । अभि- पन्नास्मि पाञ्चालि याज्ञसेनि क्षमस्व मे । कामकारः सखीनां हि सोपहासं प्रभाषितम् ’ ॥ द्रौपद्यु- वाच – ’ इदं तु ते मार्गमपेतमोहं वक्ष्यामि चित्तग्रहणाय भर्तुः । अस्मिन्यथावत्स खिवर्तमाना भर्तारमाच्छेत्स्यसि कामिनीभ्यः ॥ नैतादृशं दैवतमस्ति सत्ये सर्वेषु लोकेषु
अयोध्याकाण्डः ।
[[१७३]]
सदैवकेषु । यथा पतिस्तुष्यति सर्वकामा लभ्याः प्रमादा- कुपितच हन्यात् । तस्मादपत्यं विविधाश्च भोगाः शय्या- सनान्युत्तमदर्शनानि । वस्त्राणि माल्यानि तथैव गन्धाः स्वर्गश्च लोको विपुला च कीर्त्तिः ॥ सुखं सुखे- नेह न जातु लभ्यं दुःखेन साध्वी लभते सुखानि । सा कृष्णमाराधय सौहदेन प्रेम्णा च नित्यं प्रतिक- र्मणा च ॥ तथासनैश्चारुभिरग्र्यमाल्यैर्दाक्षिण्ययोगैर्वि- विधैश्च गन्धैः । अस्याः प्रियोऽस्मीति यथा विदित्वा त्वामेव संश्लिष्यति तद्विधत्स्व ॥ श्रुत्वा स्वरं द्वारगतस्य भर्तुः प्रत्युत्थिता तिष्ठ गृहस्य मध्ये । दृष्ट्वा प्रविष्टं त्व- रितासनेन पाद्येन चैनं प्रतिपूजयस्व ॥ संप्रेषितायामथ चैव दास्यामुत्थाय सर्वे स्वयमेव कार्यम् । जानातु कृष्णस्तव भावमेतं सर्वात्मना मां भजतीति सत्ये ॥ त्वत्सं- निधौ यत्कथयेत्पतिस्ते यद्यप्यगुह्यं परिरक्षितव्यम् । कच्चि - त्सपत्नी तब बासुदेवं प्रत्यादिशेत्ते न भवेद्विरागः ॥ प्रियांश्च रक्तांश्च हितांश्च भर्तुस्तान्भोजयेथा विविधैरु- पायैः । द्वेष्यैरपक्षैरहितैश्च तस्य भिद्यस्त्र नित्यं कुहको -
[[१७४]]
धर्माकूते
तैश्व ॥ मदं प्रमादं पुरुषेषु हिस्खा संयच्छ भावं प्रति- - मौनम् । प्रद्युम्नसाम्बावपि ते कुमारौ नोपासितव्यौ रहिते कदाचित् ॥ महाकुलीनाभिरपापिकाभिः स्त्रीभिः सतीभिस्तव सख्यमस्तु । चण्डाश्च शौण्डाश्च महाशनाच चौराश्च दुष्टाश्चपलाश्च वर्ज्याः । एतद्यशस्यं भगदैवतं च स्वये तथा शत्रुनिबर्हणं च । महाईमाल्याभरणाङ्गरागा भर्तारमाराध्य पुण्यगन्धा’ इति । पतिशुश्रूषणादिकमेव पर- मो धर्मः । तच भर्त्रा भरणीयाः सत्कार्याश्च इति सिद्धम् ॥
मां च पञ्चत्वमापनं रामं च वनमाश्रितम् । कृपणा बत वैदेही जीवितं परिहास्यति ॥
सा नूनं विधवा राज्यं सपुत्रा कारयिष्यसि । न हि प्रवाजिते रामे देवि जीवितुमुत्सहे ॥ सतीं त्वामहमत्यन्तं व्यवस्याम्यसतीं सतीम् । रूपिणीं विषसंयुक्तां पीत्वेव मदिरां नरः ॥ अमृतैर्बत मां सान्त्वैः सान्त्वयन्ती स्म भाषसे । गीतशब्देन संरुध्य लुब्धो मृगमिवावधीः ॥
अयोध्याकाण्डः ।
चिरं खलु मया पापे त्वं पापेनाभिरक्षिता । अज्ञानादुपसंपन्ना रज्जुरुद्वन्धिनी यथा ॥
[[१७५]]
- रममाणस्त्वया सार्धं मृत्युं त्वां नाभिलक्षये । बालो रहसि हस्तेन कृष्णसर्पमिवास्पृशम् ॥ कौसल्यांच सुमित्रां च मां च पुत्रैस्त्रिभिः सह । प्रक्षिप्य नरके सार्धं कैकेयि सुखिता भव ॥
‘प्रियं चेद्भरतस्यैतद्वामप्रवाजनं भवेत् । -मा स्म मे भरतः कार्षीत्प्रेतकृत्यं गतायुषः ॥
earer ममामित्रे सकामा भव कैकयि । - मृते मयि गते रामे विधवा कारयिष्यसि ॥
धिगस्तु योषितो नाम शठाः स्वार्थपराः सदा । न ब्रवीमि स्त्रियः सर्वा भरतस्यैव मातरम् ॥
अनर्थभावेऽर्थपरे नृशंसे
ममानुतापाय निविष्टभावे ।
[[१७६]]
धर्माकूते
विनाशकामामहिताममित्रा-
मावासयन्मृत्युमिवात्मनस्त्वा ॥
चिरं बताङ्केन धृतासि सर्पों
महाविषा तेन हतोऽस्मि मोहात् । नृशंसवृत्ते व्यसनप्रहारिणि
प्रसह्य वाक्यं यदिहांद्य भाषसे ।
न नाम ते न मुखात्पतत्यधो
विशीर्यमाणा रसना सहस्रधा । स भूमिपालो विलपननाथव-
स्त्रिया गृहीतो हृदयेऽतिमात्रया ॥
पपात देव्याश्चरणौ प्रसारिता-
वुभावसंस्पृश्य यथातुरस्तथा ।
त्रयोदशे – एवं सकरुणं विलप्य पादप्रणामपूर्वक –
मभिहितापि
अनर्थरूपासिद्धार्था ह्यभीता भयदर्शनी । पुनराकारयामास तमेव वरमङ्गना ॥
अयोध्याकाण्डः ।
त्वं कथ्यसे महाराज सत्यवादी दृढव्रतः । मम चेह वरं कस्माद्विद्वारयितुमिच्छसि ॥ एवमुक्तो दशरथः पुनस्तामाह–
साधुवृत्तस्य दीनस्य त्वङ्गतस्य गतायुषः । प्रसादः क्रियतां देवि मम राशो विशेषतः ॥ इति ।
विशुद्धभावस्य सदुष्टभावा
ताम्रक्षणस्याथुकलस्य राज्ञः । श्रुत्वा विचितं करुणं विलापं
भर्तुर्नुशंसा न चकार वाक्यम् ॥
अत्र दशरथोक्तबहुविधसान्त्ववचनमनादृत्य परुषतरं श्रु- त्याः कैकेय्या अतिदुष्टत्वावगमेन स्वभावतः स्त्रियोऽति- दुष्टा दुश्चरित्राच; अतस्तासु विश्वासो न कर्तव्य इति पूचितम् । तथा चात्रैव सीतां प्रति कौसल्यावचनम् -
असत्यः सर्वलोकेऽस्मिन्सततं सत्कृताः प्रियैः । भर्तारं नानुमन्यन्ते विनिपातगतं स्त्रियः ॥
[[१७८]]
धर्माकृते
एष स्वभावो नारीणामनुभूय पुरा सुखम् ।
अल्पामप्यापदं प्राप्य दुष्यन्ति प्रजहत्यपि ॥
असत्यः शीलविकृता दुर्ग्राह्यइदयाः सदा ।
युवत्यः पापसंकल्पाः क्षणमात्राद्विरागिणः ॥
नकुलं न कृतं विद्यां न दत्तं नापि संग्रहम् । स्त्रीणां गृह्णाति हृदयमनित्यहृदया हि ताः ॥
तथैव दशरथवाक्यम्-
धिगस्तु योषितो नाम शठाः स्वार्थपराः सदा । नववीमि स्त्रियः सर्वा भरतस्यैव मातरम् ॥
अत्रैवानसूयावचनम् -
कामवक्तव्यहृदया भर्तृनाथाश्चरन्ति याः । प्राप्नुवन्त्ययशश्चैव धर्मभ्रंशं च मैथिलि ॥ अकार्यवशमापन्नाः स्त्रियो याः खलु तद्विधाः ॥
तथा चारण्यकाण्डेऽगस्त्यवचनम् -अयोध्याकाण्डः ।
एषा हि प्रकृतिः स्त्रीणामा सृष्टे रघुनन्दन । समस्थमनुरञ्जन्ति विषमस्थं त्यजन्ति च ॥
शतह्रदानां लोलत्वं शस्त्राणां तीक्ष्णतां तथा । गरुडानिलयोः शैघ्रयमनुगच्छन्ति योषितः ॥
Ge
इति । तथा च मनुः – ’ पुंश्चल्यश्चलचित्ताश्च निः- स्नेहाच स्वभावतः । रक्षिता यत्रतोऽपीह भर्तृष्वेता विकुर्वते ॥ शय्यासनमलंकारं कामं क्रोधमनार्यताम् । द्रोह भावं कुचर्ची च स्त्रीभ्यो मनुरकल्पयत् ‘। संवर्तोऽपि - ‘प्रतिकूलकलत्रस्य द्विदारस्य विशेषतः । जलूकावत्स्त्रियः सर्वा भूषणाच्छादनासनैः ॥ सुपूजिताः सुखाद्वापि पुरुष पकर्षति । जलूका रक्तमादत्ते केवलं सा तपस्विनः ॥ इतरा तु धनं चित्तं मांसं वीर्य तथा बलम्’ इति । आनुशासनिके अष्टावक्रसंवादे ‘नैता जानन्ति पि- तरं न कुलं न च मातरम् । न भ्रातृन्न च भर्तारं न च पुत्रान देवरान् ॥ लीलावत्यः कुलं घ्नन्ति कूलानीव सरि- ‘द्वरा’ इति । आनुशासनिके नारदं प्रति पञ्चचूडावाक्यम्- ‘कुलीना रूपवत्यश्च नाथवत्यश्च योषितः । मर्यादासु न
[[૧૦]]
धर्माकूते
तिष्ठन्ति स दोषः स्त्रीषु नारद । न स्त्रीभ्यः किंचिद- न्यद्वै पापीयस्तरमस्ति वै ॥ स्त्रियो हि मूलं दोषाणां तथा त्वमपि वेत्थ ह । समाज्ञातानृद्धिमतः पतिरूपा- न्वशे स्थितान् ॥ पतीनन्तरमासाद्य नालं नार्यः प्रती- क्षितुम् । असद्धर्मस्त्वयं स्त्रीणामस्माकं भवति प्रभो ॥ पापीयसो नरान्यद्वै लज्जां त्यक्त्वा भजामहे । स्त्रियं हि यः प्रार्थयते संनिकर्ष च गच्छति । ईषच कुरुते सेवां तमेवेच्छन्ति योषितः ॥ अनर्थित्वान्मनुष्याणां भ- यात्परिजनस्य च । मर्यादायाममर्यादाः स्त्रियस्तिष्ठन्ति भर्तृषु ॥ नासां कश्चिद्गम्योऽस्ति नासां वयसि निश्व- यः । विरूपं रूपवन्तं वा पुमानित्येव भुञ्जते ॥ न भया- नाप्यनुक्रोशान्नार्थहेतोः कथंचन । न ज्ञातिकुलसं- बद्धात्त्रियस्तिष्ठन्ति भर्तृषु ॥ यौवने वर्तमानानां मृष्टाभरणवाससाम् । नारीणां स्वैरवृत्तीनां स्पृहयन्ति कुलस्त्रियः । याश्च शश्वद्बहुमता रक्ष्यन्ते दयिताः- स्त्रियः । अपि ताः संप्रसज्जन्ते कुब्जान्धजडवामनैः ॥
पङ्गुष्वथ च देवर्षे ये चान्ये कुत्सिता नराः । स्त्रीणाम-
अयोध्याकाण्डः ।
गम्यो लोकेऽस्मिन्नास्ति कश्चिन्महामुने । यदि पुंसां गतिर्ब्रह्मन्कथंचिन्नोपपद्यते । अप्यन्योन्यं प्रवर्तन्ते न हि तिष्ठन्ति भर्तृषु ॥ अलाभात्पुरुषाणां हि भयात्परि- जनस्य च । वधबन्धभयाच्चापि स्वयं गुप्ता भवन्ति ताः ॥ चलस्वभावा दुः सेव्या दुर्गा भावतस्तथा । प्राज्ञ- स्य पुरुषस्येह यथा वाचस्तथा स्त्रियः ॥ नाग्निस्तृप्यति काष्ठानां नापगानां महोदधिः । नान्तकः सर्वभूतानां न पुंसा वामलोचनाः । इदमन्यच्च देवर्षे रहस्यं सर्वयोषि- ताम् । दृष्ट्टैव पुरुषं हृद्यं योनिः प्रक्किद्यते स्त्रियाः ॥ कामा- नामपि दातारं कर्तारं मनसां प्रियम् । रक्षितारं न मृष्यन्ति स्वभर्तारमलं स्त्रियः ॥ न कामभोगा- विपुलान्नालंकारान्न संश्रयान् । तथैव बहु मन्यन्ते यथा रत्यामनुग्रहम् ॥ अन्तकः पवनो मृत्युः पाताल बडवामुखम् । क्षुरधारा विषं सर्पो वह्निरित्येकतः स्त्रियः ॥ यतश्च भूतानि महान्ति पथ्व यता लोका विहिता विधाता । यतः पुमांसः प्रमदाव निर्मितास्तदैव दोषाः प्रमदासु नारद’ इति । तत्रैव
[[१८२]]
.
धर्माकूते
भीष्मं प्रति धर्मराजप्रश्नः - ’ एता हि रममाणास्तु वञ्चयन्तीह मानवान् । न चासां मुच्यते कश्चित्पुरुषो हस्तमागतः । गावो नवतृणानीव गृह्णन्त्येता नवं नवम् ॥ शम्बरस्य च या माया या माया नमुचेरपि । बलेः कुम्भीनसेश्चैव सर्वास्ता योषितो विदुः ॥ हसन्तं प्रहस- न्त्येता रुदन्तं प्ररुदन्ति च ॥ अप्रियं प्रियवाक्यैश्च गृह्णते कालयोगतः ॥ उशना वेद यच्छास्त्रं यश्च वेद बृहस्पतिः । स्त्रीबुद्धया न विशिष्येते तास्तु रक्ष्याः कथं नरैः ॥ अ- नृतं सत्यमित्याहुः सत्यं चाप्यनृतं तथा । इति यास्ताः कथं वीर संरक्ष्याः पुरुषैरिह ॥ स्त्रीणां बुद्धयर्थनिष्क- दर्थाः शास्त्राणि शत्रुहन् । बृहस्पतिप्रभृतिभिर्मन्ये सद्भिः कृतानि वै ॥ संपूज्यमानाः पुरुषैर्विकुर्वन्ति मनो नृषु । अपास्ताश्च तथा राजन्विकुर्वन्ति मनः स्त्रियः ॥ इमाः प्रजा महाबाहो धार्मिक्य इति नः श्रुतम् । सत्कृ- ता असत्कृताञ्चापि विकुर्वन्ति मनः सदा ॥ यदि जिह्वा- सहस्रं स्याज्जीवेच शरदां शतम् । अनन्यकर्मा स्त्री दोषा- ननुक्त्वा निधनं व्रजेत् ॥ मानवानां प्रमोहार्थं कृत्या
अयोध्याकाण्डः ।
[[૧૮૩]]
नार्योऽसृजत्प्रभुः । ताभ्यः कामान्यथाकामं प्रादाद्धि प्रपि- तामहः ॥ क्रोधं कामस्य देवेश साहाय्यं चासृजत्प्रभुः ।- न च स्त्रीणां क्रिया काचिदिति धर्मों व्यवस्थितः ॥ निरिन्द्रिया ह्यशास्त्राश्च स्त्रियोऽनृतमिति श्रुतिः’ इति । एवमुक्तप्रकारेण स्त्रियः स्वाभावतोऽतिदुष्टाः; तस्मान्न विश्वसनीया इति ।
यस्ते मन्त्रकृतः पाणिरनौ पापे मया धृतः । तं त्यजामि स्वयं वापि तव पुत्रं सह त्वया ॥
अनेन च दुष्टचरिता स्त्री परित्याज्येति सूचितं भवति । तथा च माधवीये पुराणवचनम् – ‘धर्मविनकरीं भार्यामसती चातिकोपनाम् । त्यजेद्धर्मस्य रक्षार्थ सदै-
I
वाप्रियवादिनीम्’ इति । ननु उदाहृतवचनावगतपरित्या
हेतूनां चतुर्णां मध्ये एकस्याप्यभावात्कैकेयीपरित्यागो नोपपद्यते । तथा हि-न तावद्धर्मविघ्नकरीत्वात्परित्यागः संभवति, पूर्व भर्तृदत्तवरद्वयमात्रप्रार्थनेन धर्मविघातस्या- नाचरणात् । नाप्यसतीति च परित्यागः, ‘असती कुल-
[[૨]]
धर्माकूते
‘टेवरी’ इति नैघुटुक व्यवहारात् व्यभिचारिण्या एवा- सतीत्वेन कैकेय्यां तत्प्रसक्त्यभावात् । नापि कोपनेति च, द्रौपद्या अपि भर्तृषु बहुकोपकरणेन तस्या अपि परित्या- गापत्तेः । तथा हि भारते विराटपर्वणि ‘अभ्यभाषत पाञ्चाली भीमसेनमनिन्दिता । उत्तिष्ठोत्तिष्ठ किं शेषे भीमसेन मृतो यथा ॥ नामृतस्य हि पापीयान्भार्यामा- - लभ्य जीवति । भ्रातरं च विगर्हस्व ज्येष्ठं दुद्यूतदेवि- नम् ॥ यस्यास्मि कर्मणा प्राप्ता दुःखमेतदनन्तकम्’ इति । नाप्यप्रियवादित्वात्त्यागः, सीताकौसल्यादीनां भर्तरि अप्रियवचनसत्त्वेऽपि परित्यागादर्शनात् । तथा हि अत्रैव रामं प्रति सीतावाक्यम्—
I
किं त्वामन्यत वैदेहः पिता से मिथिलाधिपः । राम जामातरं प्राप्य स्त्रियं पुरुषविग्रहम् ॥ अनृतं बत लोकोऽयमज्ञानाद्यद्धि वक्ष्यति । तेजो नास्ति परं रामे तपतीव दिवाकरे ॥ स्वयं तु भार्या कौमारी चिरमध्युषितां सतीम् । -शैलूष इव मां राम परेभ्यो दातुमिच्छसि ॥
अयोध्याकाण्डः ।
[[१८५]]
इति । तत्रैव दशरथं प्रति कौसल्यावाक्यम्
हतं त्वया राज्यमिदं सराष्ट्र
हतस्तथात्मा सह मन्त्रिभि । हता सपुत्रास्मि हताच पौराः
सुता भार्या च तव प्रहृष्टौ ॥
इति । तस्मात्परित्यागहेतुभूतदोषचतुष्टयाभावात् ‘अ- दुष्टां विनतां भार्यौ यौवने यः परित्यजेत् । सप्तजन्म भवेत्त्वं वैधव्यं च पुनः पुनः’ इति भार्यापरित्यागे दोषश्रवणाश्च कैकेयी परित्यागो नोपपद्यते न च कैके- या दुष्टत्वादिकमसिद्धमिति वाच्यम्,
न हि किंचिदयुक्तं वा विप्रियं वा पुरा मम । अकरोस्त्वं विशालाक्षि तेन न श्रद्दधाम्यहम् ॥ इत्यादि दशरथवचनेन अदुष्टात्वविनतात्वयोः
स वृद्धस्तरुणीं भार्या प्राणेभ्योऽपि गरीयसीम् । अपापः पापसंकल्पां ददर्श धरणीतले ।
VOL. II.D 15
[[१८६]]
धर्माकूते
इन यौवनस्याप्यवगमात् । न च
यस्ते मन्त्रकृतः पाणिरमौ पापे मया धृतः । तं त्यजामि स्वयं चापि तव पुत्रं सह त्वया ॥
इति वचनं रामप्रत्राजनरूपवरयाचनविरमणार्थविभी- fuकापरमेव न परित्यागपरमिति वाच्यम् । रामप्रत्राजन- प्राकालीनस्य ‘यस्ते मन्त्रकृतः पाणिः’ इति वचनस्य विभीषिकार्थत्वेऽपि रामप्रव्राजन समनन्तरम्
कैकेय मा ममाङ्गानि प्राक्षीस्त्वं दुष्टचारिणी । न हि त्वां द्रष्टुमिच्छामि न भार्या न च बान्धवी ॥
ये च त्वामुपजीवन्ति नाहं तेषां न ते मम । केवलार्थपरां हि त्वां त्यक्त्वाधर्मा त्यजाम्यहम् ॥ अगृह्नां यच ते पाणिमग्निपर्ययणं च यत् । अनुजानामि तत्सर्वमस्मिल्लोके परत्र च ॥
भरतश्चेत्प्रतीतः स्याद्राज्यं प्राप्येदमव्ययम् । यन्मे दद्यात्स तृप्त्यर्थे मा तद्दत्तमन्वगात् ॥
अयोध्याकाण्डः ।
..
इत्यादिदशरथसमुदीरितवचनानां सिद्धे प्रयोजने, विभीषिकायाः प्रयोजनाभावेन तादर्थ्यानुपपतेः । किं च
युद्धकाण्डे रावणवधसमनन्तरम्
कुरु प्रसादं धर्मश कैकेय्या भरतस्य च । सपुत्रां त्वां त्यजामीति यदुक्ता केकयी त्वया । स शापः केकयीं घोरः सपुत्रां न स्पृशेत्प्रभो ॥
इति स्वसंदर्शनार्थमागतं दशरथं प्रति रामकृतप्रार्थ- नानुपपत्तेश्च । तस्मादुत्तरवाक्यपर्यालोचनया पूर्ववाक्य- स्यापि विभीषिकार्थत्वानुपपत्त्या परित्यागपरत्वमेव स्वी- कर्तव्यम् । तच नोपपद्यते, परित्यागनिमित्तहेतुचतुष्ट- याभावस्य पूर्वमेवोक्तत्वात् । अत्रोच्यते- पूर्वोक्तहेतूनां सत्त्वादेव परित्यागः संभवत्येव । तथा हि-
[[1]]
इक्ष्वाकूणां हि सर्वेषां राजा भवति पूर्वजः ।
स राघवाणां कुलधर्ममात्मनः
सनातनं नाद्य विहातुमर्हसि ॥
इति रामं प्रति वसिष्ठवचनावगतकुलपरंपरागतं ज्येष्ठ
[[१८८]]
धर्माकूते
पुत्रं राज्याभिषेकरूपधर्मविधाताचरणेन सगरः असमञ्ज- मिव दशरथो रामभद्रं वने वासयत्विति वदन्तीं कैकेयीं प्रति
अदुष्टस्य हि संत्यागः सत्पथे निरतस्य च । निर्दहेदपि शक्रस्य द्युतिं धर्मनिरोधनात् ॥
इति महामात्रवचनात् अदुष्टस्य धार्मिकस्य रामस्य वनप्रेषणे धर्मनिरोधावगमेन च धर्मविघातकत्वसंभवात् । यदुक्तं वरद्रयाचरणमपि धर्म इति तत्त्रोच्यते - स्वमुख्य- धर्माविरोधेनैव वरद्वयनिर्वाहसंभवे तद्बाधनस्यान्याय्य- त्वात्, पत्यनुकूलाचरणस्यैव मुख्यधर्मत्वात् । तथा च भारते आपद्धर्में लुन्धककपोतीये कपोतीवाक्यम्- ‘न सा स्त्रीत्यभिमन्तव्या यस्यां भर्ता न तुष्यति । तुष्टे भर्तरि नारीणां तुष्टाः स्युः सर्वदेवताः ॥ अग्निसाक्षिकमित्येव भर्ता वै दैवतं परम् । दावाग्मिनेव निर्दग्धा सपुष्पस्तबका लता ॥ भस्मीभवतु सा नारी यस्यां भर्ता न तुष्यति । विसृज्य धनसर्वस्वं भर्ता वै शरणं स्त्रियाः । न कार्यमिह मे नाथ जीवितेन त्वया विना ॥ मितं ददाति हि पिताअयोध्याकाण्डः ।
[[१८९]]
मितं भ्राता मितं सुतः । अमितस्य हि दातारं भर्तारं का न पूजयेत् ॥ नास्ति भर्तृसमो नाथो नास्ति भर्तृसमं सुखम् । विसृज्य धनसर्वस्वं भर्ता वै शरणं स्त्रियाः ॥ तत्रैव ‘परुषाण्यपि चोक्काया दृष्टा दुष्टेन चक्षुषा । सुप्रसन्नमुखी भर्तुर्या नारी सा पतिव्रता । न कामेषु न भोगेषु नैश्वर्ये न सुखे तथा । स्पृहा यस्या यथा पत्यौ सा नारी धर्मभागिनी ॥ पतिचित्ता पतिहिता सा पति- व्रतभागिनी । पतिप्रसादात्स्वर्गो वा तुल्यो नार्या न वा भवेत् ॥ यद्यकार्यमधर्मे वा यदि वा प्राणनाशनम् । प्रति- ज्यादरिद्रो वा व्याधितो वा कथंचन ॥ आपनो रिपु- संस्थो वा ब्रह्मशापादितोऽपि वा । आपद्धर्माननुप्रेक्ष्य तत्कार्यमविशङ्कया’ इति । रागद्वेषादिना पत्यनुकूला करणे दोषः श्रूयते भारते - कामाद्देषान्मत्सराद्वा भर्तारं यावमन्यते । सा सप्तजन्मकं यावन्नारकी स्यान्न संशयः ॥ जीवितेनापि नारी न भर्तारं वञ्चयेत्तथा । क्रिमियोनिशतं गत्वा पुरुकसी जायते ततः ॥ दरिद्रं व्याधितं मूर्ख भर्तारं यावमन्यते । सा मृता जायते स्त्री तु सूकरी च
Ja
धर्माकूते
पुनः पुनः’ इति । बोधायनोऽपि - ‘भर्तृहिते यतमानाः स्वर्गलोकं जयेरन् व्यतिक्रमे कृच्छ्रे’ इति । तस्माद्धर्मवि- नकरीत्वमस्ति । तथा-
[[1]]
सतीं त्वामहमत्यन्तं व्यवस्याम्यसत सतीम् ।
इति दशरथवचनेनैव असतीत्वमपि । न च ‘असती कुलटेत्वरी’ इति नैघण्टुकव्यवहारात् व्यभिचारिणीपर एव असतीशब्द इति वाच्यम्, भर्तुराज्ञया परपुरुषसंग- तानां कुन्त्योघवत्यादीनां असतीत्वं नास्तीति प्रागेवा- भिहितत्वात् । भर्तृत्वं च नोपरोधादिना परपुरुषसं- गता असतीति वक्तव्यम् । एवं च नाद्याभावे तदा- ज्ञया करणे असतीत्वं नास्ति । उपरोधवश्वनादिसत्त्वे अ- सतीत्वमित्यन्वयव्यतिरेकाभ्यां भर्तुरुपरोधवश्वनादिक- मेवासतीत्वे नियामकम् । तथा च वनपर्वणि सत्यभामा- द्रौपदीसंवादे – ‘अथाब्रवीत्सत्यभामा कृष्णस्य महिषी प्रिया । सात्त्राजिती याज्ञसेनीं रहखीदं सुमध्यमा ॥ केन द्रौपदि वृत्तेन पाण्डवानधितिष्ठसि । लोकपालो - पमान्वीरान्यूनः परमसंहतान् ॥ कथं च वशगास्तुभ्यं
अयोध्याकाण्डः ।
[[१९१]]
न कुप्यन्ति च ते शुभे । तव वश्याय सततं पाण्डवाः प्रियदर्शने ॥ सुखप्रेक्षाच ते सर्वे तत्त्वमेतद्रवीहि मे । व्रतचर्या तपो वास्ति स्नानमन्त्रीषधानि वा । विद्या- ate मूवी जपहोमागदास्तथा ॥ ममाद्याचक्ष्व पावालि यशस्यं भगदैवतम् । येन कृष्णे भवेन्नित्यं मम कृष्णो
I
वशानुगः ॥ एवमुक्त्वा सत्यभामा विरराम यशस्विनी । पतिव्रता महाभागा द्रौपदी प्रत्युवाच ताम् ॥ असत्स्त्रीणां समाचारं सत्ये मामनुपृच्छसि । असदाचरिते मार्गे कथं स्यादनुकीर्तनम् ॥ अनुप्रभः संशयो वा नैत- स्वय्युपपद्यते । तथा ह्युपेता बुद्धधा त्वं कृष्णस्य महिषी प्रिया ॥ यदैव भर्ता जानीयान्मन्वमूलपरां स्त्रियम् । उद्विजेत तदैवास्याः सर्पाद्वेश्मगतादिव ॥ उद्विप्रस्य कुतः शान्तिरशान्तस्य कुतः सुखम् । न जातु वशगो भर्ता त्रियाः स्यान्मकर्मणा । अमित्रप्रहितांश्चापि गदान्परम- दारुणान् । मूलप्रचारैर्हि विषं प्रयच्छन्ति जिघांसवः ॥ जिह्वाया यानि पुरुषस्त्वचा वाप्युपसेवते । तत्र चूर्णानि दत्तानि हन्युः क्षिप्रमसंशयम् ॥ जलोदरसमायुक्ताः श्वि-
[[१९२]]
धर्माकृते
त्रिणः परितास्तथा । अपुमांसः कृताः स्त्रीभिर्जडान्धव- धिरास्तथा ॥ पापानुगास्तु पापास्ताः पतीनुपसृजन्त्युत’ इति । तस्माद्भर्तृनिर्बन्धनादिरूपासन्मार्गप्रवृत्त्या असती- त्वमप्यस्ति । अत एव राजर्षिर्दशरथः असतीत्युक्तवान् ।
तथा
क्रोधनामकृतप्रशां तां सुभगमानिनीम् ।
मम तां मातरं विद्धि नृशंसां पापनिश्चयाम् ॥
इति भरद्वाजं प्रति भरतवचनेन कोपनात्वमप्यस्ति । न च द्रौपद्यादिष्वपि कोपो दृश्यते इत्युक्तमेवेति वा- च्यम्, द्रौपदीकृतकोपस्य कुळसंरक्षणाभिप्रायकस्वेन भर्त्र- निष्टपर्यवसायित्वाभावात् । अनिष्टपर्यवसितस्यैव कोपस्य परित्यागे हेतुत्वात्; अन्यथा प्रणयकोपस्य सर्वास्वपि संभवेन सर्वासां परित्यागापतेः । कुलसंरक्षणाभिप्रायकत्वे च विराटपर्वणि भीमं प्रति द्रौपदी - ‘आर्तयैतन्मया भीम कृतं बाष्पप्रमोचनम् । अपारयन्त्या दुःखानि न राजानमुपालभे । तद्धर्मे यतमानानां महान्धर्मो न शि- व्यति । समयं रक्ष्यमाणायाः प्रजा भवति रक्षिता ॥
अयोध्याकाण्डः ।
ET
प्रजायां रक्ष्यमाणायामात्मा भवति रक्षितः । किमुक्तेन व्यतीतेन भीमसेन महाबल । उपस्थितस्य कालस्य का- र्यस्यानन्तरो भव’ इति । तस्मात्परित्यागहेतुभूतकोप- नात्वमप्यस्ति । तथा–
सत्यं धर्मे परित्यज्य रामं राज्येऽभिषिच्य च । सह कौसल्या नित्यं रन्तुमिच्छसि दुर्मते ॥
अहं हि विषमद्यैव पीत्वा बहु तवाग्रतः । पश्यतस्ते मरिष्यामि रामो यद्यभिषिच्यते ॥
।
इत्यादिना अप्रियवादित्वमपि अस्याः स्पष्टम् । सी- ता कौसल्यादीनामप्रियवचनं तु भर्तुरनिष्टपर्यवसनं न भवत्येव । तथा हि- ‘शैलूष इव मां राम ’ इति सीतावचनम् । त्वद्विनाकृतायाः मम अतिदुष्टकैकेयी- समीपे अवस्थानं पातिव्रत्यभङ्गकरमतिक्लेशकरं च । अतः अनन्यगति कामवश्यसंरक्षणीयां मामपि गृहीत्वा सहैव वनं प्रविशेत्येवं धर्मसंरक्षणपरमेव । एवं पुत्रवियोग- -मसहमानायाः कौसल्यायाः शोकपारवश्यादुदीरितं हतं
*
धर्माकूते
त्वया राज्यमित्यादि वचनमपि न भर्तुरनिष्टापादकम् । अत एव च उत्तरव भर्तृनिन्दाजनितानुतापया कौस-
यया भर्तृप्रसादनं कृतम् ॥ तथा हि-
प्रसीद शिरसा याचे भूमौ निपतितास्मि ते । याचितास्मि त्वया देव क्षन्तव्याहं न हि त्वया ॥
नैषा हि सा स्त्री भवति श्लाघनीयेन धीमता । उभयोर्लोकयोवर प्रत्ययात्संप्रसाद्यते ॥
जानामि धर्म धर्म त्वां जाने सत्यवादिनम् । पुत्रशोकार्तया तत्तु मया किमपि भाषितम् ॥
इति । इयं तु कैकेयी सप्रणामं सकरुणं भर्ता प्रसा- दिवापि परुषभाषणपूर्वकमहितमेव कृतवतीति । तस्य वचनं भर्तुः पुत्रस्य कुलस्य धर्मस्य चानिष्टपर्यवसाय्येव
तथा च दशरथवाक्यम् -
एतद्वचो नेच्छसि पापवृत्ते
हितं न जानासि ममात्मनो वा ।
अयोध्याकाण्डः ।
आस्थाय मार्ग कृपणं कुचेष्टा
चेष्टा हि ते साधुपथादपेता ॥
इति । वसिष्ठवाक्यमपि –
अतिप्रवृत्ते दुर्मेधे कैकेयि कुलपांसनि । वञ्चयित्वा तु राजानं न प्रमाणेऽवतिष्ठसे ॥
यद्यपि त्वं क्षितितलाद्गगनं चोत्पतिष्यसि । पितृवंशचरितशः सोऽन्यथा न करिष्यति ॥ तत्त्वया पुत्रगर्द्धिन्या पुत्रस्य कृतमप्रियम् ।
इति । सुमश्रवाक्यम् —
यस्यास्तव पतिस्त्वतो राजा दशरथः स्वयम् । न कार्यतमं किंचित्तव देवीह विद्यते ॥
पतिनीं त्वामहं मन्ये कुलघ्नीमपि चान्ततः । मावमंस्था दशरथं भर्तारं वरदं प्रियम् ॥
भर्तुरिच्छा हि नारीणां पुत्रकोट्या विशिष्यते । यथावयो हि राज्यानि प्रामुवन्ति नृपक्षये ।
१९५.
[[१९६]]
धर्माकूते
इक्ष्वाकुकुलनाथेऽस्मिंस्तल्लोपयितुमिच्छसि ॥
मा त्वं प्रोत्साहिता पापैर्देवराजसमप्रभम् । भर्तारं लोकभर्तारमसद्धर्ममुपारुधः ॥
इति । एवं च पूर्वोदाहृतैकैक निमित्तमात्रेण परित्यागस्या- वश्यकर्तव्यत्वे निमित्तचतुष्टयसत्त्वे परित्यागो युक्त एव । किं च ’ परित्याज्या त्वया भार्या भर्तृवचनलङ्घनी । तत्र दोषो न चास्तीति त्वं हि वेत्थ यथातथम् ॥ सर्व- लक्षणयुक्तापि या तु भर्तृव्यतिक्रमम् । करोति सा परि- त्याज्या एष धर्मः सनातनः । इति ब्राह्मपुराणवचनप- र्यालोचनयापि भर्तृवचनोल्लङ्घनी इयं परित्याज्यैव । मचो- तमदुष्टत्वादिगुणविशिष्टायाः परित्यागे दोषश्रवणादिति तनोपपद्यते । रामप्रत्राजनप्राकालीनचर्यया कैकेय्याः दुष्टत्वाद्यपरिस्फूर्तावपि समनन्तरचर्यया दुष्टत्वौद्धत्या- दीनां स्फुटत्वात्; अत एव पूर्वोदाहृतवचने पुरा ममे- त्युक्तम् । तस्माद्दशरथसमुदीरित कैकेयी परित्यागवचनं युक्तमेव । चतुर्दशप्रभृति आसप्तदशपर्यन्तम्- ततः कैकेयी पुत्रशोकार्दितं रजानमेवमवदत् -
अयोध्याकाण्डः ।
[[१९७०]]
आहुः सत्यं हि परमं धर्मे धर्मविदो जनाः । सत्यमाश्रित्य हि मया त्वं च धर्मे नियोजितः ॥
संश्रुत्य शैब्यः श्येनाय स्वां तनुं जगतीपतिः । प्रदाय पक्षिणे राजञ्जगाम गतिमुत्तमाम् ॥
तथा लर्कस्तेजस्वी ब्राह्मणे वेदपारगे । याचमाने स्वके नेत्रे उद्धृत्य सुमना ददौ ॥ सरितां तु पतिः स्वल्पां मर्यादां सत्यमन्त्रितः । सत्यानुरोधात्समये वेलां स्वां नातिवर्तते ॥
सत्यमेकं परं ब्रह्म सत्ये धर्मः प्रतिष्ठितः । सत्यमेवाक्षया वेदाः सत्येनैवाप्यते परम् ॥ सत्यं समनुवर्तस्व यदि धर्मे धृता मतिः ।
अत्र
॥
आहुः सत्यं हि परमं धर्म धर्मविदो जनाः ॥ इत्यादि कैकेयीवचनेन सर्वधर्मापेक्षया सत्यमेव परमो धर्म इति सूचितम् । तथा च तैत्तरीयश्रुतिः- ‘सत्ये
[[१९८]]
धर्माकूते
सर्व प्रतिष्ठितं तस्मात्सत्यं परमं वदन्ति’ । मनुरपि - ‘नास्ति सत्यात्परो धर्मो नानृतात्पातकं परम् । स्थितिश्व लोकar तस्मात्सत्यं विशिष्यते ॥ सत्यं स्वर्गस्य सोपानं पारावारस्य नौरिव’ इति । आदिपर्वणि शकु- न्तलोपाख्यानेऽपि – ’ वरं कूपशताद्वापी वरं वापीश- तात्क्रतुः । वरं क्रतुशतात्पुत्रः सत्यं पुत्रशताद्वरम् ॥ अश्वमेधसहस्रं च सत्यं च तुलया घृतम् । अश्वमेधसह- स्राद्धि सत्यमेव विशिष्यते ॥ सर्ववेदाधिगमनं सर्वतीर्थाव- गाहनम् । सत्यं च वचनं राजन्समं च स्थान वा समम् ॥ नास्ति सत्यसमो धर्मो न सत्याद्विद्यते परम् । नास्ति तीव्रतरं किंचितादिह विद्यते ॥ राजन्सत्यं परं धर्म सत्यं च समयः परः । मा स्राक्षीः समयं राजन्सत्यं संगतमस्तु ते ’ इति । आपद्धर्मेऽपि – ‘सत्यं सत्सु सदा
। धर्मः सत्यं धर्मः सनातनः । सत्यमेव नमस्येत सत्यं हि परमा गतिः । सत्यं धर्मस्तपो योगः सत्यं ब्रह्म सनात- नम् । सत्यं यज्ञः परः प्रोक्तः सर्वे सत्ये प्रतिष्ठितम् ’ इति । आनुशासनिकेऽपि – ‘सत्येन सूर्यस्तपति सत्ये -अयोध्याकाण्डः ।
[[१९९]]
नाभिः प्रदीप्यते । सत्येन देवाः प्रीयन्ते पितरो ब्राह्म- णास्तथा । सत्यमाहुः परो धर्मस्तस्मात्सत्यं न लङ्घयेत् ॥ मुनयः सत्यनिरता मुनयः सत्यविक्रमाः । मुनयः सत्यश- पथास्तस्मात्सत्यं विशिष्यते ॥ सत्यवन्तः स्वर्गलोके मोदन्ते भरतर्षभ’ इति । अत एवाप्रे चित्रकूटे भरतं प्रति श्रीरामवचनम् -
सत्यमेवानृशंखं च राजवृत्तं सनातनम् । तस्मात्सत्यात्मकं राज्यं सत्ये लोकः प्रतिष्ठितः ॥
ऋषयश्चैव वेदाश्च सत्यमेव हि मेनिरे । सत्यवादी हि लोकेऽस्मिन्परमं गच्छति क्षयम् ॥
उद्विजन्ते यथा सर्पानरादनृतवादिनः । धर्मः सत्यं परो लोके सत्यं पद्मा समाश्रिता ॥ सत्यमूलानि सर्वाणि सत्यान्नास्ति परं पदम् ॥
दत्तमिष्टं हुतं चैव तप्तानि च तपांसि च । वेदाः सत्यप्रतिष्ठानास्तस्मात्सत्यपरो भव ॥
[[२००]]
धर्माकूते
इति । ततः सफलः स वरो मेऽस्तु रामाभिषेकसंभार- भरतं सत्वरमभिषेचय रामं च विपिनं प्रवेशय, अन्यथा तवातो जीवितं परित्यक्ष्यामीत्येवमादिभिः परुषतरैः कैकेयीवचनैरति संतप्तहृदयो राजा,
धर्मबन्धेन बद्धोऽस्मि नष्टा च मम चेतना । ज्येष्ठं पुत्रं प्रियं रामं द्रष्टुमिच्छामि धार्मिकम् ॥
इत्यवादीत् । नन्वत्र वनं गते रामे रामदर्शनं दुर्लभं मत्वा रामं द्रष्टुमिच्छामीति वदतो दशरथस्य कैकेयी- प्रार्थितवरद्वयप्रदानं धर्मत्वेनाभिमतमित्यवगम्यते, तदनु- पपन्नम् । पूर्वदिनप्रतिज्ञातज्येष्ठपुत्ररामाभिषेकरूपधर्मा- न्तरविरोधापत्तेरिति चेत्, न । उभयोर्धर्मत्वाविशेषेऽपि, आपत्संरक्षण संजातसंतोषेण दत्तवरद्वयपरिपालनस्य ‘कृ- तने नास्ति निष्कृतिः’ इति धर्मशास्त्ररीत्या कृतन्नतादोषप- रिहारार्थत्वेन गरीयस्त्वात् एवं च परमप्रेमास्पदज्येष्ठ-
; पुत्रप्रत्राजनमप्यङ्गीकृत्य धर्मपरिपालनात्, इतरैरपि स्त्री- पुत्रस्वप्राणादिपरित्यागेनापि धर्मसंरक्षणं कर्तव्यमिति सूचितम् । तथा च भारते- ‘न जातु कामान्न भयान
अयोध्याकाण्डः ।
[[२०३]]
लोभाद्ध यजेज्जीवितस्यापि हेतोः । नित्यो धर्मः सुख- दुःखे त्वनित्ये जीवो नित्यो हेतुरस्य त्वनित्यः’ इति । मनुरपि - ‘धर्म एव हतो हन्ति धर्मो रक्षति रक्षितः । तस्माद्धर्मो न हन्तव्यो मा नो धर्मो हतो वधीत् ॥’ इति । न च ’ सत्यं समनुवर्तस्व ’ इति कैकेयीवचनस्य ‘सत्यपाशेन बद्धोऽस्मि’ इत्येव प्रतिवचनमुचितम्, न तु ‘धर्मपाशेन बद्धोऽस्मि’ इतीति वाच्यम्; सत्यधर्मयोरमे- दात् । तथा च बृहदारण्यके यो वै स धर्मः सत्यं वै तत्तस्मात्सत्यं वदन्तमा वदतीति धर्मे वा वदन्तमाहुः सत्यं वदतीति’ । एवं च श्रुतिस्मृतीतिहासपुराणादिषु सत्या-
*
यः प्रथशंसनं सामान्यविशेषरूपत्वादुपय- नम् । तथा च मनुः – श्राह्मणो वा मनुष्याणामादित्यस्ते- aarta । शिरो वा सर्वगात्राणां धर्माणां सत्यमुत्तमम इति । अतस्तया कैकेय्या प्रार्थितं सत्यपरिपालनमेव धर्म- त्वेन व्यवहृतवानिति न विरोध इति । ततः प्रभातायां रजन्यां कैकेयी वसिष्टाभ्यनुज्ञया राजानं प्रबोधयितुकानं सुमन्त्रम - ‘निद्रापraशो गजा न प्रवोवतीय, इन
TOL, HD
ર
धर्माते
वरितं राममानय’ इत्यवोचत् । ततः सुमन्त्रोऽपि तदा- या अपरमिव महेन्द्रभवनं राममन्दिरमासाद्य ‘कैकेयी- सहितो राजा त्वां द्रष्टुमिच्छति’ इति रामभद्रमवादीत् । उद्वचनश्रवण संभृतहर्षेण रामेण ‘देव्या कैकेय्या सह संमन्त्र्य मां यौवराज्येऽभिषेचयितुमाकारयति राजा, अतस्तं द्रष्टु- अभिगच्छामि, त्वमपि सहताभिः सखीभिः सुखं विहर’ इत्यभिहिता सीता
{
आंद्वारमनुवत्राज मङ्गलान्यभिदध्युषी । पूर्वी दिशं वज्रधरो दक्षिणां पातु ते यमः । वरुणः पश्चिमामाशां धनेशस्तूत्तरां दिशम् ॥
+
ra भार्यया सीतया श्रीराममुद्दिश्य मङ्गलस्य कृत- त्वात्, महाप्रयोजनं साधयितुं व्रजतः निकटस्थेन येन केनचिदवश्यं मङ्गलं कर्तव्यम्, महतामसंनिधाने भार्य- यापि कर्तव्यमिति सूचितम् । यथा चानुशासनिके सा- वोत्पत्तौ कृष्णं प्रति जाम्बवती मङ्गलं कृतवतीति श्रूयते– ’ यथा ते जनिताः पुत्रा रुक्मिण्यां चारुवि- क्रमाः । तथा ममापि तनयं प्रयक्क मधुसूदन ॥ इत्येवं
[[4]]
अयोध्याकाण्डः ।
[[२०३]]
चोदितो देव्या तामवोचं सुमध्यमाम् । अनुजानीहि मां राशि करिष्ये वचनं तव । सा च मामब्रवीद्वच्छ शिवाय विजयाय च । ब्रह्मा शिवः काश्यपश्च नद्यो देवा मनो- नुगाः । क्षेतौषभ्यो यज्ञभागान्दांस्कृषिगणा वरा । समुद्रा दक्षिणास्तोभौ ऋक्षाणि पितरो ग्रहाः ॥ देवपत्न्यो देवकन्या देवमातर एव च । मन्वन्तराणि गावश्च चन्द्रमाः सविता हरिः ॥ सावित्री ब्रह्मविद्या च ऋतवो वत्सरा- स्तथा । क्षणा लवा मुहूर्ताश्च निमेषा युगपर्ययाः ॥ रक्षन्तु सर्वत्रगतं त्वां यादवसुखाय च । अरिष्टं गच्छ पन्थान- मप्रमत्तो भवानघ । एवं कृतस्वस्त्ययनस्तयाहं ततोऽभ्य- तुज्ञाय नरेन्द्रपुत्रीम्’ इति । आरण्यपर्वण्यपि ‘तौ परिष्वज्य बीभत्सुः कृष्णामामन्त्र्य चाप्युभौ । अभ्यवादयत प्रीतः तपस्विश्वरानपि ॥ मनांस्यादाय सर्वेषां प्रयातः पुरुषर्षभः । तं सिंहमिव गच्छन्तं सिंहस्कन्धोरसं तथा । प्राञ्जलिः पाण्डवं कृष्णा देवानां कुर्वती नमः । वाग्भिः परम- शुकाभिर्मङ्गलाभिरभाषत ॥ नमो धात्रे व संघाने स्वस्ति गच्छ बनाद्वनम् । धर्मस्त्वां जुषतां पार्थ भास्करच
॥
धर्माते
[[1]]
विभावसुः ॥ ब्रह्मा त्वां ब्राह्मणाश्चैव पाचयन्तु धनंजय । ज्येष्ठाय चापि व्येष्ठस्य भ्रातुर्वचनमास्थितः । प्रपद्येथा वसू- न्स्द्रनादित्यान्समरुद्गणान् ॥ विश्वेदेवांस्तथा साध्याशा- न्त्यर्थ भरतर्षभ । स्वस्ति तेऽस्त्वन्तरिक्षेभ्यो दिव्येभ्यो भरतर्षभ ॥ पार्थिवेभ्यश्च सर्वेभ्यो ये केचित्परिपन्थिनः ’ इति । ततः सौमित्रिणा सह दिव्याश्वयुक्तमलंकृतं रथ- वरमास्थाय सकलजनानन्दनो रघुनन्दनोऽम्बरचुम्बिनीः सौमालाः पश्यन्
चतुष्पथान्देवपथाचैत्यान्यायतनानि च । प्रदक्षिणं परिहरक्षगाम नृपतेः सुतः ॥
अत्र देवायतनादीन्प्रदक्षिणं परिगत्य राम्रो गत इत्यनेन इतरैरप्येवं प्रदक्षिणीकृत्यैव गन्तव्यमिति सूचितम् । तथा च गौतमः - ‘प्रशस्तमाङ्गल्यदेवायतन चतुष्पथान्प्रदक्षि- श्रमावर्तयेत’ इति । मनुरपि - ‘मृदं गां देवतं विप्रं घृतं मधु चतुष्पथम् । प्रदक्षिणानि कुर्वीत प्रज्ञातश्च वनस्प- सौन्’ इति । आनुशासनिकेऽपि — ’ प्रदक्षिणं च कुर्वीत
।
।
rafts areपतीन् । चतुष्पथांश्च कुर्वीत सर्वानेव प्रदक्षि-
[[२०५]]
णम्’ इति। अष्टादशे ततो रामो राजभवनमभ्येत्व कैकेय्या सह समासीनं विषण्णवदनं राजानमव ढोक्य चिन्ताकुलहृदयः, ‘किंनिमितोऽयमभूतपूर्वो रातो बि- कारः, किंवा कोपकारणम्, कुतो वा यथापूर्व मां- नाभिनन्दति,
अतोषयन्महाराज मकुर्वन्वा पितुर्वचः । मुहूर्तमपि नेच्छेयं जीवितुं कुपिते नृपे ॥
यतोमूलं नरः पश्येत्प्रादुर्भावमिहात्मनः । कथं तस्मिन्न वर्तेत प्रत्यक्षे सति दैवते ॥
नाहमात्मकृतमपरावं कंचित्पश्यामि तदाख्यातु भवती’ इसि कैकेयीमवदत् । अत्र, अतोषयन्नित्यादिश्लोकद्वयेन स्त्रोत्पत्तिकारणभूतत्वात् प्रत्यक्षदेवते पितरि कथं न वर्तेत, अतस्तत्संतोषणं तद्वचनपरिपालनं चाकृत्वा मुहूर्त- मपि न जीवेयमिति प्रतिपादनेन इतरैरपि स्वोत्पत्तिकार- णभूतानां मातापित्राचार्याणां त्रयाणां शुश्रूषणं तेषां वच- नपरिपालनं संतोषणं च कर्तव्यम् । प्रत्यक्षे सति देवते
धर्माकूते
इत्यनेन च, अतीन्द्रिय देवतोपासनायाः असुकरत्वात् तत्प्रसादस्य च अप्रत्यक्षत्वात् उपासनायामङ्गवैकल्य प्रयु- कोषस्य संभावितत्वाच इतर देवतोपासनापेक्षया प्रत्यक्ष- देवतीभूतानां मातापित्राचार्याणामुपासनमेव श्रेष्ठमिति सूचितम् । ननु मातापित्रोर्जनकत्वे सत्यपि आचार्यस्य जनकत्वं नोपपद्यत इति चेन्न । मातापित्रोः शरीरजनक- त्ववत् आचार्यस्यापि विद्यातः जनकत्वात् । तथा चाप- स्तम्बाचार्याः ‘सहि विद्यातस्तं जनयति तच्छ्रेष्ठं जन्म शरीरमेव मातापितरौ जनयतः’ इति । तस्माज्जनकत्वा- विशेषात् मातापित्राचार्याणां त्रयाणामपि शुश्रूषणादिकं कर्तव्यमिति यदुकं तद्युक्तमेव । तत्र तेषां शुश्रूषायां मनुः— ’ यावत्रयस्ते जीवेयुस्तावन्नान्यं समाचरेत् । तेष्वेव नित्यं शुश्रूषां कुर्यात्प्रियहिते रतः ॥ सर्वे तस्मादृता धर्मा यस्यैते त्रय आदृताः । अनादृतास्तु यस्यैते सर्वास्तस्या- फलाः क्रियाः ’ । उशना अपि — ’ यः सावयति या सूते येन विद्योपदिश्यते । ज्येष्ठभ्राता च भर्ता च पते गुरव - स्तथा ॥ आत्मनः सर्वयत्नेन प्राणत्यागेन वा पुनः । पूज-
अयोध्याकाण्डः ।
[[२०७]]
नीया विशेषेण पञ्चैते भूतिमिच्छता । यावत्पिता च माता च द्वावेतौ जनिकारकौ । तावत्सर्व परित्यज्य पुनः स्यात्तत्परायणः’ । अत्रैवाप्रे–
I
न सत्यं दानमानौ वा न यचाश्वाप्तदक्षिणाः । तथा बलकराः सीते यथा सेवा पितुर्मता ॥
स्वर्गो धनं वा धान्यं वा विद्या पुत्राः सुखानि च । गुरुgregरोधेन न किंचिदपि दुर्लभम् ॥
देवगन्धर्वगोलो कान्ब्रह्मलोकांस्तथा नराः । प्राप्नुवन्ति महात्मानो मातापितृपरायणाः ॥
इति । वनपर्वणि पितरौ पूजनीयावित्यख ब्राह्मणं प्रति ‘वर्मव्याधवचनम् - ‘त्वया विनिकृता माता पिता च द्विजसत्तम । अनिसृष्टोऽखि निष्कान्तो गृहात्ताभ्यामनि- न्दित ॥ तव शोकेन वृद्धौ तावन्धीभूतौ तपस्विनौ । तौ प्रसादयितुं गच्छ मांवां वमोऽतिगादयम् ॥ तपस्वी त्वं महात्मा च धर्मे च निरतः सदा । सर्वमेतदपार्थ ते ि तत्राय ॥ श्रद्धस्व च मम ब्रह्मन्नान्यथा कर्तुमईसि ।
[[1]]
[[२०८]]
धर्माकू
गम्यतामद्य विप्रर्षे श्रेयस्ते कथयाम्यहम् ॥ अतन्द्रितः कुरु क्षिप्रं मातापित्रोहि पूजनम् । अतः परमहं धर्म नान्यं पश्यामि कंचन’ ॥ ब्राह्मणः – ’ पतमानोऽय नरके अवतास्मि समुद्धृतः । राजा ययातिर्दोहित्रैः पतितस्ता- रितो यथा ॥ सद्भिः पुरुषशार्दूल तथाहं भवता त्विह । मातापितृभ्यां शुश्रूषां करिष्ये वचनान्तव ॥ नाकतात्मा वेदयति धर्माधर्मविनिश्चयम्’ । तत्रैव धर्मव्याधवचने शुश्रूषाविषये — ’ एतदर्थे मम प्राणा भार्या पुत्रः सुहृ- अनाः । सपुत्रदारः शुश्रूषां नित्यमेवं करोम्यहम् ॥ स्वयं च स्वापयाम्येतौ तथा पादौ प्रधावये । आहारं संप्रय- काम स्वयं च द्विजसत्तम । एतौ पुष्पैः फलै रतोष- यामि सदा द्विज । अनुकूलं तथा वच्मि विप्रियं परिव- जैबे ॥ अतन्द्रितः सदा विप्र शुश्रूषां वै करोम्यहम् ।
।
चैते गुरवो ब्रह्मन्पुरुषस्य बुभूषतः ॥ पिता माताग्नि- रात्मा च गुरुश्च द्विजसत्तम । एतेषु यस्तु वर्तेत सम्यगेव द्विजोत्तम ॥ भवेयुरग्नयस्तस्य परिचीर्णास्तु नित्यशः । गार्हस्थ्ये वर्तमानस्य एष धर्मः सनातनः । पित्रादिवचन- वरिपालने अत्रैव-अयोध्याकाण्डः ।
ar,
स मां पिता यथा शास्ति सत्यधर्मपथे स्थितः । तथा वर्तितुमिच्छामि स हि धर्मः सनातनः ॥ पितुर्हि वचनं कुर्वन कविनाम हीयते । सुसंश्रित्य पितुर्वाक्यं पितुर्वा ब्राह्मणस्य वा ॥ न कर्तव्यं वृथा वीर धर्ममाश्रित्य तिष्ठताम् । त्वया मया च वैदेशा लक्ष्मणेन सुमित्रया ॥ पितुर्नियोगे स्थातव्यमेष धर्मः सनातनः । पिता हि दैवतं तात दैवतानामपि स्मृतम् ॥ तस्माद्दैवतमित्येव करिष्यामि पितुर्वचः ।
भारते अनुशासनिके— ‘मातुः पितुर्गुरूणां च कार्यमेवानुशासनम् । हितं वाप्यहितं वापि न विचार्य नरर्षभ’ इति । पिलादिसंतोषकरणे मनुः — ’ तयोर्नित्यं प्रियं कुर्यादाचार्या च सर्वदा । तेषु हि विषु तुष्टेषु तपः व समाप्यते । उशना च- ‘पिता माता च सुप्रीतो स्वrai पुत्रगुणैर्यदि । स पुत्रः सकलं कर्म प्राप्नुयात्तेन कर्मणा । तयोर्नित्यं प्रियं कुर्यात्कर्मणा मनसा गिरा’ । तेषां सकलदेवतास्वरूपत्वे मनुः-
‘आचार्यो ब्रह्मणो मूर्तिः
,
[[२१०]]
[[1]]
धर्माकूते
पिता मूर्तिः प्रजापतेः । माता पृथिव्या मूर्तिस्तु भ्राता स्वो मूर्तिरात्मनः । स एव हि त्रयो लोकास्त एव जय आश्रमाः । त एव हि त्रयो वेदास्त एवोक्तास्त्रयोऽनयः ॥ पिसा वे गाईपत्योऽनिर्माता के दक्षिणः स्मृतः । गुरुराहवनीयस्तु सामित्रेता गरीयसी ॥ नास्ति मातृसमं देवे नास्ति पित्रा समो गुरुः’ इति । वनपर्वणि पतिव्रतोपाख्याने कौशिक- धर्मव्याधसंवादे व्याधः – ‘पिता माता च भगवानेतो मे दैवतं परम् । यदैवतेभ्यः कर्तव्यं तदेवाभ्यां करोम्यहम ॥ त्रयस्त्रिंशद्यथा देवाः सर्वे शक्रपुरोगमाः । संपूज्याः सर्व- लोकस्य तथा वृद्धाविमो मम । उपहारानाहरन्तो देव- तानां यथा द्विजाः । कुर्वन्ति तद्वदेताभ्यां करोम्यहमत- न्द्रितः ॥ एतौ मे परमं ब्रह्मन्पिता माता च देवतम् । एतावेवायो मह्यं यान्वदन्ति मनीषिणः ॥ यज्ञा वेदाश्च चत्वारः सर्वमेतौ मम द्विज । यावत्रयस्ते जीवेयुस्ताचन्ना- न्यं समाचरेत् ॥ त्रिष्वप्रमाद्यन्ने तेषु ब्रह्मलोकं समश्नुते । तेषामनुपरोधेन पारक्यं यद्यदाचरेत् ॥ ततन्निवेदये- तेभ्यो मनोवाक्कायकर्मभिः । विष्वेतेष्वितिकृत्यं हि
अयोध्याकाण्डः ।
[[२११]]
पुरुषस्त्र समाप्यते । एवं धर्मः परः साक्षादुपधर्मोऽन्य उच्यते । तयोर्नित्यं प्रियं कुर्यादाचार्यस्य च सर्वदा ॥ न ताभ्यामनुज्ञातो धर्ममन्यं समाचरेत्’ इति । ततश्चायं वित- तश्चायं विकारो न त्वदीयापराधेन नापि शरीरोपद्रवेणा- न्येन वा केनचिज्जनितः, किं तु त्वदनिष्टभूतमत्प्रार्थितवर- द्वयनिर्वाहः कथं भवेत् कथं वा प्रियाह त्वामप्रियं वक्तुं प्रभवामीति चिन्तासमुत्पन्नोऽयं विकारः, तद्भवाञ्छु- भमशुभं वा राज्ञो मनोगतं यदि करिष्यति तदा तदारुया- स्यामीति कैकेय्या निर्लजमभिहितः श्रीरामभद्रस्तामेव- मवोचत्-
अहं हि वचनाद्राज्ञः पतेयमपि पावके । भक्षयेयं विषं तीक्ष्णं मजेयमपि चार्णवे ॥
नियुक्तो गुरुणा पित्रा नृपेण च हितेन च । नहूहि वचनं देवि राशो यदभिकाङ्क्षितम् ॥ करिष्ये प्रतिजाने च रामो द्विर्नाभिभाषते ।
इति । अब पित्राज्ञया पोपद्रवरूपावव्यववादिक क्रियत इत्यनुक्त्वा स्वोपद्रवमात्रपर्यवसनाभिपतनविषभ-
[[२३२]]
धर्माते
क्षणार्णवमज्जनानि क्रियन्त इत्युक्त्वा परोपद्रवः सर्वथा न चिन्तनीय इति सूचितम् । तथा च विष्णुपुराणे- ‘अन्येषां यो न पापानि चिन्तयत्यात्मनो यथा । तस्व पापागमखात हेत्वभावान्न विद्यते’ इति । ‘नियुक्तो गुरुणा पित्रा नृपेण च हितेन च’ इत्यादिद्वितीयश्लोकेन गुरुपितृ- नृपहितकारिणां वचनं कर्तव्यमित्युक्तम् । तब गुरुपित्री- durकरणे प्राप्रमाणं प्रतिपादितम् । नृपवचनकरणे विष्णुपुराणे- ‘ब्रह्मा जनार्दनः शंभुरिन्द्रो वायुर्यमो रविः । हुतभुग्वरुणो धाता पूषा भूमिर्निशाकरः ॥ नृपस्यैते शरीरस्थाः सर्वदेवमयो नृपः । भर्तृशुश्रूषणं धर्मों यथा श्रीणां परो मतः ॥ ममाज्ञापालनं धर्मो भवतां च तथा द्विजाः’ इति वेनस्य राज्ञो वचनेन नृपवचनं कर्तव्यमेव । हितकारिणां वचनकरणे, आदिपर्वणि धृतराष्ट्रं प्रৰि विदुरवचनम् - ‘प्रियं हितं च तद्वाक्यमुक्तवान्कुरुस- समः । भीष्मः शान्तनवो राजन्प्रतिगृह्णीष्व तच वै’ इति । एवं पृथक् चतुर्णामपि वचनानां परिपालनीयत्वेन एक एव दशरथः, गुरुः, पिता, प्रियः, राजा, चेवि,
[[1]]
[[२१३]]
तद्वचनमवश्यं परिपालनीयमेव । ततः एवं ब्रुवाणमति- सरल हृदयं राममवलोक्य - " प्राक्प्रतिश्रुतवरद्वये एकेन त्वद्विवासनमन्येन च भरताय राज्यप्रदानं कुषि- त्यभिहितोऽयं राजा त्वयि स्नेहपारवश्येन वक्तुं न प्रभ- चति, तद्वरद्वयनिर्वहणेन सत्यप्रतिज्ञं राजानं कुरु’ इत्य- दोचत् । एकोनविंशे- ततः कठोरतरं कैकेयीवचनमा- काप्यकलुषितहृदयेन रामभद्रेण ‘प्रतिज्ञामनुपालयन् परिगृहीतमुनिवेषोऽहं वनं यास्यमि, मातुलकुलाद्भरतान- यनायाद्यैव शीव्रजवैर्हयैः प्रेष्यतां दूतवर्गः’ इत्यभिहिता कैकेयी समभाषत–
एवं भवतु यास्यन्ति
दूताः शीघ्रजवैर्हयैः ।
तव त्वहं क्षमं मन्ये नोत्सुकस्य विलम्बनम् ॥
यावत्त्वं न वनं यातः पुरादस्मादभित्वरन् । पिता तावन्न ते राम नास्यते भोश्यतेऽपि वा ॥
इति । ततो हृदयशल्यभूतं कैकेयीवचनमाक मूर्ख- या भूमौ निपतितं राजानं पुनराखन उपवेश्य कशयामि-
"
धर्माकूते
हृतो जात्यश्व इव कैकेयीवचसा वनगमने कृतत्वरो रामभद्रस्तामेवमवादीत् ।
नाहमर्थपरो देवि लोकमानस्तमुत्सहे । विद्धि मामृषिभिस्तुल्यं केवलं धर्ममास्थितम् ॥
अत्र धर्म एव संपादनीयः, अर्थस्त्व प्रयोजक इत्युक्त तदनुपपन्नम् । अर्थस्यापि धर्मसाधनत्वेनापेक्षणीयत्वात् । तथा च श्रुतिः बृहदारण्यके - ‘अथ वित्तं मे स्यादथ कर्म कुर्वीयेति’ इति । युद्धकाण्डे रामं प्रति लक्ष्मणवाक्य- प-ि—
।
धर्ममूलं त्वया च्छिन्नं राज्यमुत्सृजता तदा । अर्थेभ्योऽथ विवृद्धेभ्यः संवृत्तेभ्यस्ततस्ततः ॥ क्रियाः सर्वाः प्रवर्तन्ते पर्वतेभ्य इवापगाः । अर्थेन हि वियुक्तस्य पुरुषस्याल्पतेजसः ॥
व्युच्छिद्यन्ते क्रियाः सर्वा ग्रीष्मे कुसरितो यथा । सोऽयमर्थं परित्यज्य सुखकामः समेधितः ॥
पापमारभते कर्ते ततो दोषः प्रवर्तते ।
risयाकाण्डः ।
[[२१५]]
यस्यार्थास्तस्य मित्राणि यस्यार्थास्तस्य बान्धवाः ॥
यस्यार्थाः स पुमान् लोके
यस्यार्थाः स च पण्डितः । यस्यार्थः स च विक्रान्तो
यस्यार्थः स च बुद्धिमान् ॥
यस्यार्थाः स महाभागो
यस्यार्था. स गुणान्वितः । यदि धर्मो भवेद्धूतः
सत्यधर्मपराक्रमः ॥
अर्थस्यैते परित्यागे दोषाः प्रव्याहृता मया । यस्यार्था धर्मकामार्थास्तस्य सर्वे प्रदक्षिणाः ॥
हर्षः कामश्च दर्पश्च धर्मः क्रोधः शमो दमः । अर्थादेतानि सर्वाणि प्रवर्तन्ते नराधिप ।
येषां नश्यत्ययं लोकश्चरतां धर्मचारिणाम् । asafe नयन्ते दुर्दिनेषु यथा ग्रहाः ॥
इति । विष्णुपुराणे ‘सोमसंस्था हविः संस्थाः पाक-
-२१६
धर्माकृते
संस्था संस्थिताः । धने यतो मनुष्याणां यतेतातो बना- जैने ॥ भारते आरण्यके पर्वणि युधिष्ठिरं प्रति भीष्म- वचनम् – दानं यज्ञः सतां पूजा वेदधारणमार्जवम् । एव धर्मः परो राजन् बलवान् प्रेत्य चेह च । एष नार्थविहीनेन शक्यो राजन्निषेवितुम् ॥ अखिलाः पुरुषव्याघ्र गुणाः स्युर्यद्यपीतरे । धर्ममूलं जगद्राजन् नान्यद्धमों विशिष्यते ॥ धर्मश्चार्थेन महता शक्यो राजनिषेवितुम् । न चार्थो भैक्ष्यचर्येण नापि लैन्येन कर्हिचित् ॥ वेत्तुं शक्यः सदा राजन् केवलं धर्मबुद्धिना’ । तस्माद्धर्मसाधनत्वेन अर्थस्यापेक्षणीयत्वात् अर्थानपेक्षा कुत इति चेन्न । नाह-
पर इति वचनं धर्मविरुद्धार्थनिषेध परम् । तथा च मनुः— ‘परित्यजेदर्थकामौ यौ स्यातां धर्मवर्जितौ’ । विष्णुपुराणेऽपि परित्यजेदर्थकामौ धर्मपीडाकरौ तृष’ । तत्रैव ‘प्रबुद्धश्चिन्तयेद्धर्ममर्थ चाप्यविरोधिनम् । स्वधर्मस्याविरोधेन नरैर्लभ्यं वनं सदा । आपस्तम्बोऽपि धर्मार्थसंनिपाते- ‘अर्थग्राहिण एते देव’ । अत्रैव
धर्मार्थकामाः खलु तात लोके समीहिता धर्मफलोदयेश ।
अयोध्याकाण्डः ।
ते तत्र सर्वे स्युरसंशयं मे
भार्येव वश्याभिमता सपुत्रा ॥ यस्मिंस्तु सर्वे स्युरसंनिविष्टा
धर्मो यतः स्यात्तदुपक्रमेत । द्वेष्यो भवत्यर्थपरो हि लोके
कामात्मना खल्वपि न प्रशस्ता ।
[[૨૦]]
इति । तस्मात् उक्तप्रकारेण धर्मविरुद्धार्थपरित्यागस्य युक्त- त्वात् प्रकृते पितृवाक्यपरिपालनरूपधर्म विरुद्धस्य राज्य. रूपार्थस्य धर्मज्ञेन रामेण कृतः परित्यागो युक्त एव । न नूनं मयि कैकेय कंचिदाशंससे गुणम् । यद्राजानमवोचस्त्वं ममेश्वरतरा सती ॥ तदधैव त्वद्वचनाद्दण्डकान्प्रविशामीत्यभिधाय शोक- वशेन सस्वनं प्ररुदन्तं पितरमभिवाद्य प्रदक्षिणीकृत्याभि- षेक संभारानापृच्छय च लुहज्जनं परित्यज्य राज्य चिह्नानि विसृज्य च पौरजनान् खसुहृज्जनविपत्तिशङ्कया तत्समय- समुदितं सहजधैर्येण संनिगृह्य हर्षोत्कर्षमेव प्रकटीकुर्वन् अश्रुपूर्णनयनेन लक्ष्मणेनानुगम्यमानः मातुरनुज्ञां प्रही- तुमन्तः पुरान्निर्जगाम ।
D Pt, I
विंशे सर्गे
धर्माकूते
तस्मिंस्तु पुरुषव्याघ्रे निष्क्रामति कृताञ्जलौ । आर्तशब्दो महान् जशे स्त्रीणामन्तःपुरे तदा ॥ रामस्तु भृशमायस्तो निःश्वसन्निव कुञ्जरः । जगाम सहितो भ्रात्रा मातुरन्तःपुरं वशी ॥
ततो द्वारपालकावेदितरामागमनवृत्तान्तया व्रताचर- कशितया कौसल्या संतोषातिशयेन प्रत्युद्गम्याशी- भिरभिनन्द्य मणिमयमासनमिदमत्रास्यतामिदं च दिव्य- मन्नमुपभुज्यतामिति समाज्ञप्तो रामभद्रः,
देवि नूनं न जानीषे महद्भयमुपस्थितम् । इदं तव च दुःखाय वैदेह्या लक्ष्मणस्य च ॥ भरताय महाराजो यौवराज्यं प्रयच्छति । मां पुनर्दण्डकारण्ये विवासयति तापसम् ॥ स षट् चाष्टौ च वर्षाणि वत्स्यामि विजने वने । आसेवमानो वन्यानि फलमूलैश्च वर्तयन् ॥ गमिष्ये दण्डकारण्यं किमनेनासनेन मे । विरासनयोग्यो हि कालोऽयं मामुपस्थितः ॥अयोध्याकाण्डः ।
[[२१९]]
इत्यवादीत् । ततश्च तद्वचनश्रवणमात्रेण परशुसंकृत्तां कदलीमिव भूमौ निपतितां पांसुरूषितसर्वाङ्गीं मातरं ससंभ्रमं स्वासने उपवेश्य तगात्र संलग्नं पांसुनिकरं सुख- संस्पर्शन पाणितलेन परिममर्श । तत्करतलस्पर्शमात्रेण लब्धसंज्ञा कौसल्या,
यदि पुत्र न जायेथा मम शोकाय राधव । मास्म दुःखमतो भूयः पश्येयमहमप्रजाः ॥ न दृष्टपूर्व कल्याणं सुखं वा पतिपौरुषे । अपि पुत्रेऽपि पश्येयमिति रामास्थितं मया ॥ सा बहून्यमनोज्ञानि वाक्यानि हृदयच्छिदाम् । अहं श्रोष्ये सपत्नीनामवराणां वरा सती ॥ नित्यक्रोधतया तस्याः कथं नु खरवादि तत् । कैकेय्या वदनं द्रष्टुं पुत्र शश्यामि दुर्गता ॥ दश सप्त च वर्षाणि तव जातस्य राधव । आसितानि प्रकाइक्षन्त्या मया दुःखपरिक्षयम् ॥
इदं तु दुःखं यदनर्थकानि मे
व्रतानि दानानि च संयमाच हि ।
[[२२०]]
धर्माकूते
तपश्च तप्तं यदपत्यकारणा-
चनिष्फलं बीजमिवोतमूषरे ॥
भृशमसुखममर्षिता तदा
बहु विललाप समीक्ष्य राघवम् । व्यसनमुपनिशाम्य सा मह-
त्सुतमिव बद्धमवेक्ष्य किन्नरी ॥
एकविंशे- ततो लक्ष्मणः सकरुणां विलपन्तीं कौसल्यां वनवासाय कृतनिश्चयं गर्म चावेक्ष्य तत्काळ - सदृशमेवमवादीत् । कैकेयीप्रेरणेन कार्याकार्य विवेक- विधुरस्य राज्ञो दशरथस्य वचनं न प्रमाणीकर्तुमईति
भवान् ।
गुरोरप्यवलिप्तस्य कार्याकार्यमजानतः उत्पथं प्रतिपन्नस्य कार्य भवति
शासनम् 11
अतो राजानं निगृह्य मदीयभुजवलनिरस्तारातिमण्डल- मखिलमपि महीमण्डलं पालयतु भवान् । को हि नाम ज्येष्ठातिलङ्घनेन कनिष्ठाय राज्यं प्रदास्यति । तदलं शो-
अयोध्याकाण्डः।
[[२२१]]
कावेगेनेत्यवोचत् । ततः लक्ष्मणवचनश्रवणमात्रेण निर- तमस्तशोका कौसल्या राममेवमेवावोचत् ।
भ्रातुस्ते वदतः पुत्र लक्ष्मणस्य श्रुतं त्वया । यत्रानन्तरं कार्य कुरुष्व यदि रोचते ॥ धर्म यदि धर्मिष्ठ धर्मे चरितुमिच्छसि । शुश्रूष मामिहस्थस्त्वं चर धर्ममनुत्तमम् ॥
शुश्रूषुर्जननीं पुत्र स्वगृहे नियतो वसन् । परेण तपसा युक्तः काश्यपरिस्त्रदिवं गतः ॥ यथैव राजा पूज्यस्ते गौरवेण तथास्म्यहम् । त्वां नाहमनुजानामि न गन्तव्यमितो वनम् ॥
इति । ततो रामभद्रः सकरुणं विलपन्तीं कौसल्यां सान्त्वनशतैः परिसान्ख्य पार्श्वतो वद्धाञ्जलिं लक्ष्मण- मवलोक्य मयि स्नेहवशेन मातुः क्लेशनिरलनाय च धर्म- विरुद्धं वदति भवानपि धर्मस्वरूपाभिज्ञः ।
धर्मो हि परमो लोके धर्मे सत्यं प्रतिष्ठितम् । धर्मसंश्रितमेतच्च पितुर्वचनमुत्तमम् ॥
[[२२२]]
धर्माकूते
संश्रुत्य च पितुर्वाक्यं मातुर्वा ब्राह्मणस्य वा । न कर्तव्यं वृथा वीर धर्ममाश्रित्य तिष्ठता ॥ तथाचानुशासनिके-गुरूणां चैव निर्बन्धो न कर्त- व्यः कदाचन । अनुमान्यः प्रमाद्यश्च गुरुः क्रुद्धो युधिष्ठिरः । सम्यङ् मिध्यावृत्तेऽपि वर्तितव्यं गुरा- विह । गुरुनिन्दा हत्यायुर्मनुष्याणां नराधिप । इति ।
तदेनां विसृजानार्थी क्षत्रधर्माश्रितां मतिम् । धर्ममाश्रय मा तैक्ष्ण्यं मद्बुद्धिरनुमन्यताम् ॥ इति अभिधाय पुनरपि सप्रणामं कौसल्यामेवम-
वदत् ।
अनुमन्यस्व मां देवि गमिष्यन्तमितो वनम् । शापितासि मम प्राणैः कुरु स्वस्त्ययनानि मे ॥ वनवासादिष्यामि पुनः कृत्वा पितुर्वचः । त्वया मया च वैदेह्या लक्ष्मणेन सुमित्रया ॥ पितुर्नियोगे स्थातव्यमेष धर्मः सनातनः । वनचासकृता बुद्धिर्मम धर्म्यानुवर्त्यताम् ॥
अयोध्याकाण्डः ।
स मातरं चैव विसंज्ञकल्पा-
मार्ते च सौमित्रिमभिप्रतप्तम् । धर्मे स्थितो धर्म्यमुवाच वाक्यं
यथा स एवार्हति तत्र वक्तुम् ॥
धर्मार्थकामाः किल तात लोके समीक्षिता धर्मफलोदयेषु । ते तत्र सर्वे स्युरसंशयं मे
भार्येव वश्याभिमता सपुत्रा " यस्मिंस्तु सर्वे स्युरसंनिविष्टा
धर्मो यतः स्यात्तदुपक्रमेत । ghat भवत्यर्थपरो हि लोके
कामात्मता खल्वपि न प्रशस्ता
गुरुश्च राजा च पिता च वृद्धः
atercraft वापि कामात् । यद्व्यादिशेत्कार्यमवेक्ष्य धर्म
कस्तं न कुर्यादनृशंसवृत्तिः ॥ स वै न शक्नोमि पितुः प्रतिज्ञा-
मिमामकर्तुं सकलां यथावत् ।
[[२२३]]
[[२२४]]
धर्माकृते
स ह्यावयोस्तात गुरुर्नियोगे
देव्याच भर्ता स गतिः स धर्मः ॥ तस्मिन्पुनर्जीवति धर्मराजे
विशेषतः स्वे पथि वर्तमाने । देवी मया सार्धमितोऽपगच्छे-
कथं स्विदन्या विधवेव नारी ॥
अनेन स्त्रिया भर्तुर्यावस्थानं तावत्तत्समीपे अव- स्थानं तत ऊर्ध्वं पुत्रस्य समीपे अवस्थानमिति सूचितम् । तथा च मनुः – ‘बाल्ये पितुर्वशे तिष्ठेत्पाणिग्राहस्व यौवने । पुत्राणां भर्तरि प्रेते न भजेत स्वतन्त्रताम् ॥’ इति ।
सा मानुमन्यस्व वनं व्रजन्तं
कुरुष्व च स्वस्त्ययनानि देवि । यथा समाप्ते पुनराव्रजेयं
यथा हि सत्येन पुनर्ययातिः ॥ यशो ह्यहं केवलराज्यकारणा-
न पृष्ठतः कर्तुमलं महोदयम् ।
अयोध्याकाण्डः ।
[[२२५]]
दीर्घकाले न तु देवि जीविते
ausarna महीमधर्मतः ॥
द्वाविंशे-
निगृह्य रोषं शोकं च धैर्यमाश्रित्य केवलम् । अवमानं निरस्येमं गृहीत्वा हर्षमुत्तमम् ॥ उपक्लृप्तं हि यत्किंचिदभिषेकार्थमद्य मे । सर्वे विसर्जय क्षिप्रं कुरु कार्ये निरत्ययम् ॥ सौमित्रे योsभिषेकार्थे मम संभारसंभ्रमः । अभिषेकनिवृत्त्यर्थे सोsस्तु संभारसंभ्रमः ॥ यस्या मदभिषेकार्थे मानसं परितप्यते । माता मे सा यथा न स्यात्सविकार तथा कुरु ॥ तस्याः शङ्कामयं दुःखं मुहूर्तमपि नोत्सहे । मनसि प्रतिसंजातं सौमित्रे मामुपेक्षितुम् ॥ न बुद्धिपूर्व नाबुद्धं स्मरामह कदाचन । मातृणां वा पितुर्वाहं कृतमल्पं च विप्रियम् ॥ सत्यः सत्याभिसंघश्च नित्यं सत्यपराक्रमः । परलोकभयाद्भीतो निर्भयोsस्तु पिता मम ॥
[[२२६]]
धर्माकूते
॥
तस्यापि हि भवेदस्मिन्कर्मण्यप्रतिसंहृते । सत्यं नेति मनस्तापस्तस्य तापस्तपेश्च माम् ॥ अभिषेक विधानं तु तस्मात्संहत्य लक्ष्मण । अन्वगेवाहमिच्छामि वनं गन्तुमितः पुनः ॥
मम प्रवाजनाद्यं कृतकृत्या नृपात्मजा । सुतं भरतमव्यग्रमभिषेचयिता ततः ॥ मयि चीराजिनधरे जटामण्डलधारिणि । गतेऽरण्यं च कैकेय्या भविष्यति मनः सुखम् ॥ बुद्धिः प्रणीता येनेयं मनश्च सुसमाहितम् । तं तु नार्हामि संक्केष्टुं प्रवजिष्यामि मा चिरम् ॥ कृतान्तस्त्वेव सौमित्रे द्रष्टव्यो मत्प्रवासने । राज्यस्य च वितीर्णस्य पुनरेव निवर्तने ॥ कैकेय्याः प्रतिपत्तिर्हि कथं स्यान्मम पीडने । यदि भावो न देवो हि कृतान्तविहितो भवेत् ॥ जानासि हि यथा सौम्य न मातृषु ममान्तरम् ।
अत्र रामः सर्वा अपि मातृः कौसल्यावत्पश्यतीत्यर्थः । अयमर्थोऽप्रे रामगमनसमये
अयोध्याकाण्डः ।
कौसल्यायां महातेजा यथा मातरि वर्तते । तथा यो वर्ततेऽस्मासु स महात्मा क गच्छति । इति राज्ञोऽवरोधजनसमुदीरितवचनेन
[[२२७]]
यथा मे भरतो मान्यस्तथा भूयोऽपि राघवः । कौसल्यातोऽतिरिक्तं च सोऽनुशुश्रूषते हि माम् ॥ इति मन्थरां प्रति कैकेयीवचनेन
यां वृत्तिं वर्तते रामः कौसल्यायां महाबलः । तामेव नृपनारीणामन्यासामपि वर्तते ॥ संकृद्दष्टास्वपि स्त्रीषु नृपेण नृपवत्सलः । मातृर्वद्वर्तते वीरो मानमुत्सृज्य धर्मवित् ॥
इति अनसूयां प्रति सीतावचनेनापि स्पष्टः । तस्मा- देवमितरैरपि नः पितृपत्न्यः जननीव द्रष्टव्या इत्युक्तं भवति । तथा च वनपर्वणि यक्षं प्रति युधिष्ठिरः- ‘यथा कुन्ती तथा माद्री विशेषो नास्ति मे तयोः । मातृभ्यां सममिच्छामि नकुलो यक्ष जीवतु ॥ ’ इति ।
भूतपूर्व विशेषं वा तस्या मयि सुतेऽपि वा ।
[[२२८]]
धर्माकूते
सोऽभिषेक निवृत्त्यथैः प्रवासाथैश्च दुर्वचैः ॥ उग्रैर्वाक्यैरहं तस्या नान्यद्दैवात्समर्थये । कथं प्रकृतिसंपन्ना राजपुत्री तथागुणा ॥ ब्रूयात्सा प्राकृतेव स्त्री मत्पीडां भर्तृसंनिधौ । यदचिन्त्यं तु तद्वैवं भूतेष्वपि न हन्यते । व्यक्तं मयि च तस्यां च पतितो हि विपर्ययः ॥ कश्विदेवेन सौमित्रे योद्धुमुत्सहते पुमान् । यस्य न ग्रहणं किंचित्कर्मणोऽन्यत्र दृश्यते ॥ सुखदुःखे भयक्रोधौ लाभालाभौ भवाभवौ । यश्च किंचित्तथाभूतं न हि दैवस्य कर्म तत् ॥ ऋषयोऽप्युग्रतपसो दैवेनापि प्रपीडिताः । उत्सृज्य नियमांस्तीवान्भ्रंश्यन्ते काममन्युभिः ॥ असंकल्पितमेवेह यदकस्मात्प्रवर्तते । निवर्त्यारम्भमारब्धं ननु दैवस्य कर्म तत् ॥
पतया तत्त्वया बुद्ध्या संस्तभ्यात्मानमात्मना । व्याहतेऽप्यभिषेके मे परितापो न विद्यते ॥ तस्मादपरितापः संस्त्वमप्यनुविधाय माम् । प्रतिसंहारय क्षिप्रमाभिषेचनिकों क्रियाम् ॥अयोध्याकाण्डः।
एभिरेव घटैः सर्वैरभिषेचनसंभृतैः ।
मम लक्ष्मण तापस्य व्रतस्नानं भविष्यति ॥ अथवा किं ममैतेन राजद्रव्यमयेन तु । उद्धृतं मे स्वयं तोयं बतादेशं करिष्यति ॥
मा च लक्ष्मण संतापं कार्षीर्लक्ष्म्या विपर्यये । राज्यं वा वनवासां वा वनवासो महोदयः ॥
न लक्ष्मणास्मिन्खलु कर्मविघ्ने
माता यवीयस्यतिशङ्कनीया । देवाभिपन्ना हि वदत्यनिष्टं
जानासि दैवं च तथाप्रभावम् ॥
[[૨૨૨]]
अत्र ‘न लक्ष्मणास्मिन्खलु कर्मविघ्ने माता यवीय- स्वतिशङ्कनीया’ इति स्वोपद्रवकारिण्यपि यवीयसी माता न शङ्कनीया इति कथनेन निन्दा न कर्तव्या इति सूचितम् । तथा च मनुः- ‘परीवादी खरो भवति वा
। वे भवति निन्दकः । परिभोक्ता क्रिभिर्भवति कीशो भवति मत्सरी’ इति । ‘दैवभिन्न हि वत्यनिष्टम्’ इत्यनेन स्वस्य परैरुपद्रव सहस्त्रे सत्यपि स्वप्राख्धाधीनं मत्वा
श्वा
[[२३०]]
धर्माकूते
परस्मिन्दोषो नारोपणीय इति सूचितम् । चrरण्यके-
विषमां च गतिं प्राप्य देवान्गर्हति वै भृशम् । आत्मनः कर्मदोषाणि न विजानाति पण्डितः ॥ इति । युद्धकाण्डेऽपि,
इमास्तु खलु राक्षस्यो यदि त्वमनुमन्यसे । हन्तुमिच्छाम्यहं सर्वा याभिस्त्वं तर्जिता पुरा इति वदन्तम्,
॥
तथा
उवाच धर्मसहितं हनूमन्तं यशस्विनी । भाग्यवैषम्ययोगेन पुरा दुश्चरितेनच ॥ मयैतत्प्राप्यते सर्व स्वकृतं ह्युपभुञ्जते । प्राप्तव्यं तु दशायोगं मयैतदिति निश्चितम् ॥ न परः पापमादत्ते परेषां पापकर्मणाम् । समयो रक्षितव्यस्तु सन्तश्चारित्रभूषणाः ॥ इति । तथा चाभियुक्तवचनमपि - ‘नेता यस्य बृहस्पतिः प्रहरणं वज्रं सुराः सैनिकाः स्वर्गे दुर्गमनुग्रहः खलु हरेरैरावणो वारणः । इत्थं सर्वत्रलान्वितोऽपि वल- भिनः परैः संगरे तद्युक्तं ननु दैवमेव शरणं धिग्बिग्वृथा-
!
अयोध्याकाण्डः ।
[[२३१]]
पौरुषम् ’ सुखस्य दुःखस्य न कोऽपि दाता परो ददा- तीति कुबुद्धिरेषा । अहं करोमीति वृथाभिमानं स्वकर्म- सूत्रप्रथितो हि लोकः’ । बयोविंशे दैवबलात्स्वाभिषेकप्र- तिबन्धं मन्वानं रामभद्रमतिकोपोग्रेणाक्ष्णा वीक्षमाणो मुहुहस्तायं विधुन्वलक्ष्मणः सरभसमेवमवादीत्-
धर्मदोषप्रसङ्गेन लोकस्यानतिशङ्कया । कथं ह्येतदसंभ्रान्तस्त्वद्विधो वक्तुमर्हति ॥ यथा दैवमशौण्डीरं शौण्डीर क्षत्रियर्षभ । किं नाम कृपणं दैवमशक्तमभिशंससि ॥ विवो वीर्यहीनो यः स दैवमनुवर्तते । वीराः संभावितात्मानो न दैवं पर्युपासते ॥ दैवं पुरुषकारेण यः समर्थः प्रबाधितुम् । न दैवेन विपन्नार्थः पुरुषः सोऽवसीदति ॥ द्रक्ष्यन्ति त्वद्य देवस्य पौरुषं पुरुषस्य च । दैवमानुषयोरथ व्यक्ता व्यक्तिर्भविष्यति ॥
ब्रवीहि कोऽद्यैव मया वियुज्यतां तवासुहृत्प्राणयशः सुहृज्जनैः ।
[[૨૧]]
धर्माकूते
यथा तवेयं वसुधा वशे भवे-
तथैव मां शाधि तवास्मि किंकरः ॥
इति । अनेन च दैवापेक्षया पौरुषमेव प्रबलमिति प्रति- पादितम् । तथा च भारते – “कर्मणः फलनिर्वृत्तिं स्वय- मश्नाति कारकः । प्रत्यक्षं दृश्यते लोके कृतस्याद्याकृतस्य च ॥ शुभेन कर्मणा सौख्यं दुःखं पापेन कर्मणा । कृतं फलति सर्वत्र नाकृतं भुज्यते कचित् ॥ कृती सर्वत्र लभते प्रतिष्ठां भाग्यसंयुताम् । अकृती लभते भ्रष्टः क्षते भारावसेचनम् ॥ तपसा रूपसौभाग्यं रत्नानि विविधानि च । प्राप्यते कर्मणा सर्व न देवादकृतात्मना ॥ तथा स्वर्ग भोगाश्च निष्ठा या च मनीषिता । सबै पुरुषका- रेण कृतेनेहोपलभ्यते ॥ ज्योतींषि त्रिदशा नागाः यक्षा- चन्द्रार्कमारुताः । सर्वे पुरुषकारेण मानुषा देवतां गताः ॥ अर्थो वा मित्रवर्गो वा ऐश्वर्य वा कुलान्वितम् । श्रीश्चापि दुर्लभा भोक्तुं तथैत्र कृतकर्मभिः ॥ स्वं चेत्कर्मफलं न स्यात्सर्वमेव फलं भवेत् । लोको दैवं समालम्ब्य उदा- सीनो भवेन्न तु ॥ अकृत्वा मानुषं कर्म यो दैवमनुव-
[[1]]
अयोध्याकाण्डः ।
[[२३३]]
र्तते । वृथा श्राम्यति संप्राप्य पति कीनमिवाङ्गना ॥ "
इति । ननु
न लक्ष्मणास्मिन्खलु कर्मविघ्ने
माता यवीयस्यतिशङ्कनीया । दैवाभिपन्ना हि वदत्यनिष्टं
जानासि दैवं च तथाप्रभावम् ॥
इत्यादिवचनैः पुरुषकारापेक्षया देवमेव प्रबलमिति प्रतिपादितम् ।
यथा दैवमशौण्डीरं शौण्डीर क्षत्रियर्षभ । किं नाम कृपणं दैवमशक्तमभिशंससि ॥
इत्यादिलक्ष्मणवाक्यैर्देवापेक्षया पुरुषकार एवं प्रबल इति प्रतीयते । एवं च परस्परविरुद्धत्वात् उभयोः प्राबल्यम संगतमिति चेत्, सत्यम् । पुरुषकारेण विना दैवमेव कार्यसाधकम्, दैवेन विना पुरुषकारो वा इत्येवं परस्परानपेक्षत्वरूपं प्राबल्यमिह न विवक्षितम्, येन विरोधो भवेत् । किं तु दैवं पुरुषकारेण विना न कार्य-
। क्षमम् । पुरुषकारोऽपि दैवं विना न कार्यक्षमः । अतः
D. Pt. IV-3
[[२३४]]
धर्माकूते
[[1]]
कार्याय उभयमप्यवश्यापेक्षणीयमिति । एतदभिप्रायक- मुभयप्राबल्यवचनम् । तथा च भारते - ‘नाबीजं जायते किंचिन्न बीजेन विना फलम् । बीजाद्वीजं प्रभवति बीजादेव फलं स्मृतम् ॥ यथा बीजं विना क्षेत्रमुतं भवति froफलम् । तथा पुरुषकारेण विना देवं न सिध्यति ॥ क्षेत्रं पुरुषकारस्तु दैवं बीजमुदाहृतम् । क्षेत्र- बीजसमायेोगात्ततः सस्यं समृध्यते ॥ कृतः पुरुषकारस्तु दैवमेवानुवर्तते । न दैवमकृते किंचित्कस्यचिद्दातुमर्हति ॥ यथाभिः पवनोद्धूतः सूक्ष्मोऽपि सुमहान्भवेत् । तथा कर्मसमायुक्तं देवं साधु विवर्धते ॥’ इति । न चैवमुभयो- रावश्यकत्वे श्रीरामेण लक्ष्मणोक्तपुरुषकारः किमिति परित्यक्तः, तत्रापि देवानुकूल्य संभवादिति वाच्यम् । लक्ष्मणोक्त पुरुषकारस्य पितृवचनपरिपालनरूपधर्मविरु- द्धतया परित्यागसंभवात् । वस्तुतस्तु देवमेव प्रबलम् । तथा च विष्णुपुराणे’ न चिन्तयति को राज्यं को धनं नाभिवाञ्छति । तथापि भाव्यमेवैतद्वितयं प्राप्यते नरैः ॥ सर्व एव महाभाग महत्त्वं प्रति स्रोद्यमः । तथा हि पुंसां
arisयाकाण्डः ।
[[२३५]]
भाग्यानां नोद्यमा भूविहेतवः ॥ जडानामविवेकानामशू- राणामपि प्रभो । भाग्यभोग्यानि राज्यानि सत्यं नीति- मतामपि ॥ तस्माद्यतेत पुण्येषु यदीच्छेन्महतीं श्रियम् ’ इति । भारतेऽपि - ‘न देवस्यातिभारोऽस्ति न चैवास्था
[[1]]
निवर्तनम् । इति चाप्यागमनं भूयो देवस्य प्रतिपालये ॥ देवेन किल यस्यार्थः सुनीतोऽपि विपद्यते । दैवस्य चागमे यत्नः तेन कार्यो विजानता ।’ इति । चतुर्विंशे ततो areपपरिपूर्णनयना कौसल्या वनवासाय कृतोद्योगं राम- भद्रमवलोक्यैवमवादीत्-
मयि जातो दशरथात्कथमुञ्छेन जीवति । क एतच्छ्रद्दच्छ्रुत्वा कस्य वा न भवेद्भयम् ॥ नूनं तु बलवालोंके कृतान्तः सर्वमादिशन् । लोके रामाभिरामस्त्वं वनं यत्र गमिष्यसि ॥ त्वया विहीनामिह मां शोकानिरतुलो महान् । प्रधस्यति यथा कक्षं चित्रं भानुर्हिमात्यये ॥ कथं हि धेनुः स्वं वत्सं गच्छन्तं नानुगच्छति । अहं त्वानुगमिष्यामि यत्र पुत्र गमिष्यसि ॥
इति ।
धर्माकुले
तथा निगदितं मात्रा तद्वाक्यं पुरुषर्षभः । श्रुत्वा रामsaaiद्वाक्यं मातरं भृशदुःखिताम्
कैकेय्या वशितो राजा मयि चारण्यमाश्रिते । भवत्या च परित्यक्तो न नूनं वर्तयिष्यति ॥ भर्तुः पुनः परित्यागो नृशंसः केवलं स्त्रियाः । स भवत्या न कर्तव्यो मनसापि विगर्हितः ॥
यावज्जीवति काकुत्स्थः पिता मे जगतीपतिः । शुश्रूषा क्रियतां तावत्स हि धर्मः सनातनः ॥
मया चैव भवत्या च कर्तव्यं वचनं पितुः । राजा भर्ता गुरुः श्रेष्ठः सर्वेषामीश्वरः प्रभुः ॥
इमानि तु महारण्ये विहृत्य नव पञ्च च । वर्षाणि परमप्रीतः स्थास्यामि वचने तव ॥
जीवन्त्या हि स्त्रिया भर्ता दैवतं प्रभुरेव च । भवत्या मम चैवाद्य राजा प्रभवति प्रभुः ॥
॥
अयोध्याकाण्डः ।
न हानाथा वयं राशा लोकनाथेन धीमता । यथा मयि तु निष्क्रान्ते पुत्रशोकन पार्थिवः ॥
श्रमं नावाप्नुयात्किचिदप्रमत्ता तथा कुरु । दारुणश्चाप्ययं शोको यथैनं न विनाशयेत् ॥
रानो वृद्धस्य सततं हितं चर समाहिता । व्रतोपवासनिरता या नारी परमोत्तमा ।
भर्तारं नानुवर्तेत तस्याः पापा गतिर्भवेत् । भर्तुः शुश्रूषया नारी लभते स्वर्गमुत्तमम् ॥
अपि या निर्नमस्कारा निवृत्ता देवपूजनात् । शुश्रूषामेव कुर्वीत भर्तुः प्रियहिते रता ॥
एष धर्मः पुरा दृष्टो लोके वेदे श्रुतः स्मृतः । अग्निकार्येषु च सदा सुमनोभिश्च देवताः ॥
पूज्यास्ते मत्कृते देवि ब्राह्मणाश्चैव सुव्रताः । एवं कालं प्रतीक्षस्व ममागमनकाङ्क्षिणी ॥
[[२३७]]
[[२३८]]
धर्माकूते
नियता नियताहारा भर्तुः शुश्रूषणे रता । प्राप्स्य से परमं कामं मयि प्रत्यागते सति ॥
तथा हि रामं वनवास निश्चितं
समीक्ष्य देवी परमेण चेतसा । उवाच रामं शुभलक्षणं वचो
बभूव च स्वस्त्ययनाभिकाङ्क्षिणी ॥
धर्म यदि धर्मिष्ठो धर्मे चरितुमिच्छसि । शुश्रूष मामिहस्थस्त्वं चर धर्ममनुत्तमम् ॥
शुश्रूषुर्जननीं पुत्रः स्वगृहे नियतो वसन् । परेण तपसा युक्तः काश्यपस्त्रिदिवं गतः ॥
यथैव राजा पूज्यस्ते गौरवेण तथास्म्यहम् । त्वां नाहमनुजानामि न गन्तव्यमितो वनम् ॥
इति मात्रा कौसल्यया आज्ञप्तोऽपि धर्मज्ञः श्रीराम- भद्रः तद्वचनमकुर्वन् पितृवाक्यानुरोधेन वनगमनकृतनि- व्ययः,अयोध्याकाण्डः ।
शापितासि मम प्राणैः कुरु स्वस्त्ययनानि मे ।
[[7]]
[[1]]
!
[[२३९]]
इति प्रार्थितवान् तदनुपपन्नम्, पितृवचनवन्मातृवचन- स्यापि परिपालनीयत्वात् । तथाचानुशासनिके’ मातुः पितुर्गुरूणां च कार्यमेवानुशासनम् । हितं वाप्यहितं वापि न विचार्य नरर्षभ ।’ वनपर्वण्यपि ‘माता- पित्रोर्गुरूणां च पूजा बहुमता मम । अत्र मुक्तो नरो लोकान्यशच महदश्नुते ॥ यश्च तेऽभ्यनुजानीयुः कर्म तात सुपूजिताः । धर्म धर्मविरुद्धं वा तत्कर्तव्यं युधिष्ठिर ।’ इति । प्रत्युत पित्रपेक्षया मातुर्गरीयस्त्वेन तद्वचनपरिपालनस्यैवावश्यकर्तव्यत्वाश्च । तथा च मनुः- ’ उपाध्यायादशाचार्या आचार्याणां शतं पिता । सहस्रं तु पितुर्माता गौरवेणातिरिच्यते ॥ द्वौ गुरू पुरुषस्येह पिता माता च सर्वदा । पिता गुरुतरस्तावन्माता गुरुतमा भवेत् ॥ भारतेऽपि - ’ दशैव तु सदाचार्यः श्रोत्रियान- तिरिच्यते । दशाचार्यानुपाध्यायः उपाध्यायान्पिता दश ॥ पितृन्दश तु मातैका सर्वो वा पृथिवीमपि । गुरुत्वेनाभि- भवति नास्ति मातृसमो गुरुः ॥ ’ इति । गौतमोऽपि —
I
[[૨૪]]
धर्माते
‘आचार्यः श्रेष्ठो गुरूणां मातेत्येके’ इति । कि च उत्पथं प्रतिपन्नस्य कार्य भवति शासनम् ।
।
इति अमार्गप्रवृत्तस्य पितुः शासनविधानाभावात्, प्रत्युत शुश्रूषैव विधीयते । तथाचापस्तम्बः – ‘माता पुत्रत्वस्य भूयांखि कर्माण्यारभते तस्यां शुश्रूषा निवा पतितायामपि ’ इति । ‘पतिता गुरवस्त्याज्या न तु माता कथंचन । गर्भधारणपोषाभ्यां तेन माता गरीयसी ॥ " इति । तस्मात् उक्तप्रकारेण मातुर्गरीयस्त्वात् तद्वचना- नादरोऽयुक्त इति चेत्, सत्यम् ।
स द्यावयोस्तात गुरुर्नियोगो
दैव्याच भर्ता स गतिः स धर्मः ॥
इति रामवचनेन पितुरपि सर्वगुर्वपेक्षया गरीयस्त्वाव गमात् । तथा च विष्णुपुराणे’ मान्यः पिता समस्तानां गुरूणां परमो गुरुः ।’ पुराणसमुच्चयेऽपि — ’ तयोरपि पिता श्रेयान्बीजप्राधान्यदर्शनात्।’ भारते मोक्षधर्मे- ‘पिता परं दैवतं मानवानां मातुर्विशिष्टं परमं वदन्ति ’ इति । न चैतावता मातृवचनाकरणे किमागतमिति वाच्य-
अयोध्याकाण्डः ।
[[२४१]]
म् उभयोर्गुरुत्वाविशेषेऽपि ‘पिता रक्षति कौमारे भर्ता रक्षति यौवने । पुत्रस्तु स्थाविरे भावे न स्त्री स्वातन्त्र्य- मर्हति’ इति मनुवचनपर्यालोचनया अस्वतश्राया मातु- राज्ञाकरणे सामर्थ्याभावेन भर्तृविरुद्धाज्ञाकरणं दूरापेतम् । अतस्तद्वचनपरिपालनमप्रसक्तमेव । न चैवं मातृगौरव- प्रतिपादकवचनानां का गतिरिति वाच्यम्, सर्वप्रकारेण माता पोषणीयेत्येतदभिप्रायकत्वात् । अत एव तस्यां शुश्रूषा नित्येति आपस्तम्बवचनेऽपि शुश्रूषैत्र मुख्येति प्रतिपादितम् । भारतेऽपि ‘मातुर्भरणमात्रेण प्रीतिः स्नेहः पितुः प्रजाः । पितुराज्ञा परो धर्मः स्वधर्मो मातृर- क्षणम्’ इति । पिता तु स्वतन्त्रत्वात् आज्ञाकरणे समर्थ एवेति तद्वचनमे परिपालनीयम् । एतदभिप्रायेणैव राम आह-
नास्ति शक्तिः पितुर्वाक्यं समतिक्रमितुं मम । ऋषिणा च पितुर्वाक्यं कुर्वता व्रतचारिणा । गौर्हता जानता धर्म कण्डुना च विपश्चिता ॥ अस्माकं च कुले पूर्वे सगरस्याशया पितुः । खनद्भिः सागरैर्भूमिमवाप्तः सुमहान्वधः ॥
[[२४२]]
धर्माकूते
जामदग्न्येन रामेण रेणुका जननी स्वयम् । कुत्ता परशुनारण्ये पितुर्वचनकारिणा ॥
नाहं धर्ममपूर्व ते प्रतिकूलं प्रवर्तये । पूर्वैरयमभितो गतो मार्गोऽनुगम्यते ॥
तदेतत्तु मया कार्य क्रियते भुवि नान्यथा । पितुर्हि वचनं कुर्वन्न कश्चिन्नाम हीयते ॥
भारतेऽपि - ‘पितुराज्ञा परो धर्मः स्वधर्मो मातृरक्ष- गम् । अनवज्ञा पितुर्युक्ता धारणं मातृरक्षणम् ॥ पिता यदाह धर्मः स वेदेष्वपि सुनिश्चितः । शरीरादीनि देयानि fear त्वेकः प्रयच्छति । तस्मात्पितुर्वचः कार्य न विचार्य कदाचन । पातकान्यपि पूयन्ते पितुः शासन- कारिणः ॥’ इति । तस्मान्मातावश्यं शुश्रूषणीया । मात्रादिवतावपि पितृवचनपरिपालनमवश्यं कर्त- व्यमिति सिद्धम् । अयमर्थो मोक्षधर्मे चिरकारि- कोपाख्याने युधिष्ठिरं प्रति भीष्मः- ‘व्यभिचारे तु कस्मिंश्चिव्यतिक्रम्यापरान्सुतान् । पित्रोक्तः कुपितेनाथ
अयोध्याकाण्डः ।
[[૨૪૨]]
जहीमां जननीमिति । स तथेति चिरेणोक्त्वा स्वभावा- चिरकारिकः । विमृश्य चिरकारित्वाश्चिन्तयामास वे चिरम् ॥ पितुराज्ञां कथं कुर्यो न हन्यां मातरं कथम् । कथं धर्मच्छले नास्मिन्निमन्नेयमसाधुवत् । पितुराज्ञा परो धर्मः स्वधर्मो मातृरक्षणम् ॥ अस्वतन्त्रं च पुत्रत्वं किं नु मां नानुपीडयेत् । अनवज्ञा पितुर्युक्ता धारणं मातृरक्ष- णम् । युक्त क्षमावुभावेतौ नातिवर्तेत मां कथम् ॥ पिता ह्यात्मानमाधन्ते जायायां जज्ञिवानिति । शील- चारित्रगोत्रस्य धारणार्थं कुलस्य च ॥ सोऽहं मात्रा स्वयं पित्रा पुत्रत्वेन कृतः पुनः । विज्ञानं मे कथं नु स्याद्दौ बुध्ये चात्मसंभवम् । जातकर्मणि यत्प्राह पिता यश्चोप- कर्मणि । पर्याप्तः स दृढीकारः पितुर्गौरवनिश्चये । गुरु-
॥
यः परो धर्मः पोषणाध्यापनान्वितः । पिता यदाह धर्मः स वेदेष्वपि सुनिश्चितः । प्रीतिमात्रं पितुः पुत्रः सर्व पुत्रस्य वै पिता । शरीरादीनि देयानि पिता त्वेकः
। प्रयच्छति ॥ तस्मात्पितुर्वचः कार्ये न विचार्यै कदाचन । पातकान्यपि पूयन्ते पितुः शासनकारिणः ॥ भोग्ये
[[२४४]]
धर्माकृते
भोज्ये प्रवचने सर्वलोकनिदर्शने । भर्त्रा चैव समायोगे सीमन्तोन्नयने तथा ॥ पिता धर्मः पिता स्वर्गः पिता हि परमं तपः । पितरि प्रीतिमापन्ने सर्वाः प्रीयन्ति देवताः ॥ आशिषस्ता भजन्त्येनं पुरुषं प्राह यत्पिता । निष्कृतिः सर्वपापानां पिता यचाभिनन्दति ॥ मुच्यते बन्धनात्पुष्पं फलं वृन्तात्प्रमुच्यते । क्लिश्यन्नपि सुतस्नेहैः पिता पुत्रं न मुञ्चति ॥ एतद्विचिन्तितं तावत्पुत्रस्य पितृगौरवम् । पिता नाल्पतरं स्थानं चिन्तयिष्यामि मातरम् ॥’ इति । मातृगौरवं तत्रैव चिरकारिकोपाख्याने ‘अस्य मे जननी हेतुः पावकस्य यथारणिः । मातृदेहोऽरणिः पुंसां सर्वस्यास्य निर्वृतिः ॥ मातृलाभे सनाथत्वमनाथत्वं विपर्यये । न च शोचति नाप्येनं स्थाविर्यमपकर्षति ॥ श्रिया हीनोऽपि यो गेहमम्बेति प्रतिपद्यते । पुत्रपौत्रोप- पन्नोऽपि जननीं यः समाश्रितः । अपि वर्षशतस्यान्ते स द्विहायनवच्चरेत् । समर्थ वासमर्थ वा कृशं वाप्यकृशं तथा । रक्षत्येव सुतं माता नान्यः पोष्टा विधानतः । तदा स वृद्धो भवति तदा भवति दुःखितः ॥ तदा
[[1]]
अयोध्याकाण्डः ।
[[२४५]]
शून्यं जगत्तस्य यदा मात्रा वियुज्यते । नास्ति मातृचमा च्छाया नास्ति मातृसमा गतिः ॥ नास्ति मातृसमं त्राणं नास्ति मातृसमा प्रिया । कुक्षिसंधारणाद्धात्री जनना- ज्जननी स्मृता । अङ्गानां वर्धनादम्बा वीरसूत्वेन वीरसूः । शिशोः शुश्रूषणाच्छुश्रूर्माता देहमनन्तरम् । चेतनावा- नरो हन्याद्यस्य नाशुषिरं शिरः ॥ दम्पत्योः प्राणसंश्लेषे योऽभिसंधिः कृतः किल । तं माता च पिता चेति भूतार्थो मातरि स्थितः ॥ माता जानाति यगोवं माता जानाति यस्य सः । मातुर्भरणमात्रेण प्रीतिः स्नेहः पितुः प्रजाः ॥ पाणिबन्धं स्वयं कृत्वा सहधर्ममुपेत्य च । यदि यास्यन्ति पुरुषाः स्त्रियो नार्हन्ति याच्यताम् ॥ मर णाद्धि स्त्रिया भर्ता पात्याचैव स्त्रियाः पतिः । गुणस्यास्य निवृत्तौ तु न भर्ता न पुनः पतिः ॥ एवं स्त्री नापराप्नोति नर एवापराध्यति । व्युश्वरंश्च महादोषं नर एवापराध्य- ति ॥ स्त्रिया हि परमो भर्ता दैवतं परमं स्मृतम् । तस्या- मना तु सदृशमात्मानं परमं ददौ । नापराधोऽस्ति नारीणां नर एवापराध्यति । सर्वकार्यापराध्यत्वान्नापरा-
[[२४६]]
धर्माकूते
ध्यन्ति चाङ्गनाः ॥ यश्च नोक्तोऽथ निर्देशः स्त्रिया मैथु- नतृप्तये । तस्य स्मारयतो व्यक्तमधर्मो नास्ति संशयः ॥ एवं नारीं मातरं च गौरवे चाधिके स्थिताम् । अवध्यां तु विजानीयुः पशवोऽप्यविचक्षणाः । देवतानां समा- वामेकस्थं पितरं विदुः । मर्त्यानां देवतानां च स्नेहाद- भ्येति मातरम् ॥’ इति । एवं च पूर्वोदाहृतमानवादिवचन- जातेन एतदाख्यायिकया च पित्रोगौरवावगमेऽपि शु- श्रूषाविषये मातुः प्राबल्यम् । आज्ञाविषये तु पितुः प्राब- ल्यमित्यप्यवगम्यते । तस्मान्मातुः कौसल्यायाः वचनम- नादृत्य श्रीरामेण पितुर्दशरथस्य वचनमनतिक्रमणीयमि- त्युक्तं युक्तमेव । एवं पितृवचनमाहात्म्यमितिहासपुराणा- दिषु बहुधा प्रतिपाद्यमानं कृत्स्नशो निरूपयितुमशक्य- मिति विस्तरभियोपरम्यते । तस्मात्पितृवचनपरिपाल- नस्य सर्वोत्कृष्टधर्मत्वेन धर्मज्ञः श्रीरामभद्रो मातृवचन- मकृत्यैव पितुर्वचनपरिपालनमेव कृतवानिति युक्तमेव । पञ्चविंशे-
सापनीय तमायासमुपस्पृश्य जलं शुचिः ।
अयोध्याकाण्डः ।
चकार माता रामस्य मङ्गलानि मनखिनी ॥
न शक्यसे वारयितुं गच्छेदानीं रघूत्तम । शीघ्रं च विनिवर्तस्व वर्तस्व च सतां क्रमे ॥
यं पालयसि धर्म त्वं धृत्या च नियमेन च । स वै राघवशार्दूल धर्मस्त्वामभिरक्षतु ॥ येभ्यः प्रणमसे पुत्र चैत्येष्वायतनेषु च । ते च त्वामभिरक्षन्तु वने सह महर्षिभिः ॥
[[૨૦]]
यानि दत्तानि तेऽत्राणि विश्वामित्रेण धीमता । तानि त्वामभिरक्षन्तु गुणैः समुदितं सदा ॥
पितृशुश्रूषया पुत्र मातृशुश्रूषया तथा । सत्येन च महाबाहो चिरं जीवाभिरक्षितः ॥
समित्कुशपवित्राणि वेद्यश्चायतनानि च । स्थण्डिलानि च चित्राणि शैला वृक्षाः क्षुपा ह्रदाः ॥
।
पतङ्गाः पन्नगाः सिंहास्त्वां रक्षन्तु नरोत्तम । स्वस्ति साध्याश्च विश्वे च मरुतश्च महर्षिभिः ॥
[[૧૮]]
धर्माकृते
स्वस्ति धाता विधाताच स्वस्ति पूषा भगोऽर्यमा । लोकपालाश्च यक्षाश्च मासाः संवत्सराः क्षपाः ॥
दिनानि च मुहूर्ताश्च स्वस्ति कुर्वन्तु ते सदा । स्मृतिधृतिश्च धर्मश्च पान्तु त्वां पुत्र सर्वतः ॥
स्कन्दश्च भगवान्देवः सोमश्च स बृहस्पतिः । सप्तर्षयो नारदश्च ते त्वा रक्षन्तु सर्वतः ॥
ये चापि सर्वतः सिद्धा दिशश्च सदिगीश्वराः । स्तुता मया वने तस्मिन्पान्तु त्वां पुत्र नित्यशः ॥
शैलाः सर्वे समुद्राश्च राजा वरुण एव च । द्यौरन्तरिक्षं पृथिवी नद्यः सर्वास्तथैव च ॥
नक्षत्राणि च सर्वाणि ग्रहाश्च सर्वदेवताः अहोरात्रे तथा संध्ये पान्तु त्वां वनमाश्रितम् ॥
ऋतवश्चैव षट् पुण्या मासाः संवत्सरास्तथा । कलाश्च काष्ठाश्च तथा तव शर्म दिशन्तु ते ॥अयोध्याकाण्डः ।
महावनानि चरतो निवेषस्य धीमतः ।
तवादित्याश्च दैत्याश्च भवन्तु सुखदाः सदा ॥
राक्षसानां पिशाचानां रौद्राणां क्रूरकर्मणाम् ।
ય
क्रव्यादानां च सर्वेषां मा भूत्पुत्रक ते भयम् ॥
पुत्रगा वृचिका देशा मशका चैव कानने । सरीसृपाच कीटाच मा भूवन्गहने तव ॥
महाद्विपाश्च सिंहाश्च व्याघ्रा ऋक्षाश्च दंष्ट्रिणः । महिषाः शृङ्गिणो रौद्रा न ते द्रान्तु पुत्रक ।
नृमांसभोजिनो रौद्रा ये चान्ये सत्त्वजातयः । मा च त्वा हिंसिषुः पुत्र मया संपूजितास्त्विह ॥
आगमास्ते शिवाः सन्तु सिध्यन्तु च पराक्रमाः । सर्वसंपत्तये राम स्वस्तिमान्गच्छ पुत्रक ॥
स्वस्ति तेऽस्त्वन्तरिक्षेभ्यः पार्थिवेभ्यः पुनः पुनः । सर्वेभ्यश्चैव देवेभ्यो ये चैव परिपन्थिनः ॥
D. Pt. IV
[[२५०]]
धर्माकूते
शक्रः सोमश्च सूर्यश्व धनदोऽथ श्रमस्तथा । पान्तु त्वामर्चिता राम दण्डकारण्यमाश्रितम् ॥
अनिर्वायुस्तथा धूमो मन्त्राश्चर्षिमुखाच्च्युताः । उपस्पर्शनकाले तु पान्तु त्वां रघुनन्दन ॥
सर्वलोकप्रभुर्ब्रह्मा भूतभर्ता तथर्षयः ।
ये च शेषाः सुरास्ते त्वां रक्षन्तु वनवासिनम् ॥
इति माल्यैः सुरगणान्गन्धैश्चापि यशस्विनी । स्तुतिभिश्चानुरूपाभिरानर्चायतलोचना ।
ज्वलनं समुपाधाय ब्राह्मणेन महात्मना । हावयामास विधिवद्राममङ्गलकारणात् ॥
घृतं श्वेतानि माल्यानि समिधः श्वेतसर्षपान् । उपसंपादयामास कौसल्या परमाङ्गना ॥
उपाध्यायः स विधिना हुत्वा शान्तिमनामयम् ।
हृतहव्यावशेषेण बाह्यं बलिमकल्पयत् ॥
अयोध्याकाण्डः ।
मधुदध्यक्षतघृतैः स्वस्तिवाच्यद्विजांस्ततः । वाचयामास रामस्य वने स्वस्त्ययनक्रियाम् ॥
ततस्तस्मै द्विजेन्द्राय राममाता यशस्विनी ।
दक्षिणां प्रददौ काम्यां राघवं चेदमब्रवीत् ॥
यन्मङ्गलं सहस्राक्षे सर्वदेवनमस्कृते । वृत्रनाशे समभवत्तत्ते भवतु मङ्गलम् ॥
[[1]]
यन्मङ्गलं सुपर्णस्य विनताकल्पयत्पुरा । अमृतं प्रार्थयानस्य तत्ते भवतु मङ्गलम् ॥
अमृतोत्पादने दैत्यान्नतो वज्रधरस्य यत् । अदितिर्मङ्गलं प्रादात्तत्ते भवतु मङ्गलम् ॥
ऋतवः सागरा द्वीपा वेदा लोका दिशश्च ते । मङ्गलानि महाबाहो दिशन्तु तव कानने ।
इति पुत्रस्याशिषश्च कृत्वा शिरसि भामिनी । गन्धैश्चापि समालम्भ्य राममायतलोचना ।
[[२५४]]
ર
धर्माकूते
ओषधीं चापि सिद्धार्थी विशल्यकरणीं शुभाम् । चकार रक्षां कौसल्या मन्त्रैरपि जजाप च ॥
उवाचातिप्रहृष्ठेव सा दुःखवशवर्तिनी । वाङ्मात्रेण न भावेन वाचा संसज्जमानया ॥
आनम्य मूर्ध्नि चाघ्राय परिष्वज्य यशस्विनी । अवदत्पुत्र सिद्धार्थो गच्छ राम यथासुखम् ॥
"
अरोगं सर्वसिद्धार्थमयोध्यां पुनरागतम् । पश्यामि त्वां सुखं वत्स सुस्थितं राजवर्त्मनि ॥
प्रणदुःखसंकल्पा हर्षविद्योतितानना । द्रस्यामि त्वां वनात्प्राप्तं पूर्णचन्द्रमिवोदितम् ॥
भद्रासनागतं राम वनवासादिहागतम् । द्रस्यामि त्वामहं पुत्र तीर्णवन्तं पितुर्वचः ॥
मङ्गलैरुपसंपन्न वनवासादिहागतः ।
वध्वा मम च नित्यं त्वं कामान्संवर्धयाशु भोः ॥
अयोध्याकाण्डः ।
मयाचिंता देवगणाः शिवादयो महर्षयो भूतमहासुरोरगाः । अभिप्रयातस्य वनं चिराय ते
हितानि कुर्वन्तु दिशश्च राघव ॥
इतीव चाश्रुप्रतिपूर्णलोचना
समाप्य च स्वस्त्ययनं यथाविधि । प्रदक्षिणं चैव चकार राधवं
पुनः पुनश्चापि निपीड्य सस्वजे ॥
तया हि देव्या च कृतप्रदक्षिणो
निपीड्य मातुश्चरणौ पुनः पुनः । जगाम सीतानिलयं महायशाः
स राघवः प्रज्वलितः स्वया श्रिया ॥
પ
घडि मात्रा कृतमङ्गलो रामभद्रो वैदेहीभवनमा- गत्य स्वमुखविकारदर्शनचकितहृदयां सीतामेवमवादीत् ।
चतुर्दश हि वर्षाणि वस्तव्यं दण्डके मया । पित्रा मे भरतश्चापि यौवराज्ये नियोजितः ॥
[[૪]]
धर्माकूते
सोऽहं त्वामागतो द्रष्टुं प्रस्थितो विजनं वनम् । भरतस्य समीपे तु नाहं कथ्यः कदाचन ॥ ऋद्धियुक्ता हि पुरुषा न सहन्ते परस्तवम् ।
इति । अनेन श्रीमतां समीपे परस्तवो न कर्तव्य इति सूचितम् -
याते मयि च कल्याणि वनं मुनिनिषेवितम् । व्रतोपवासरतया भवितव्यं त्वयानघे ।
अनेन प्रोषितभर्तरि व्रतोपवासनिरतया स्थेयमिति सूचितम् । तथा च भारते अनुशासनिके शाण्डलीबच- नम्- ‘प्रवासं यदि मे याति भर्ती कार्येण केनचित् । मङ्गलैर्बहुभिर्युक्ता भवामि नियता तदा ॥ अञ्जनं रोच- नां चैव स्नानमाल्यानुलेपनम् । प्रसाधनं च निष्क्रान्ते नाभिनन्दामि भर्तरि ॥’ इति । तत्रापि द्रौपदीवचनम् - ‘यदा प्रवसते भर्ता कुटुम्बार्थेन केनचित् । सुमनोवर्णका- aar भवामि व्रतचारिणी ॥ ’ इति ।
काल्यमुत्थाय देवानां कृत्वा पूजां यथाविधि ।
अयोध्याकाण्डः ।
ગ
स्त्रीणामपि मनुज्ञया देवतापूजनमस्तीति प्राक् प्रप-
श्वितम् ।
वन्दितव्यो दशरथः पिता मम नरेश्वरः ॥
माता च मम कौसल्या वृद्धा संतापकर्षिता । धर्मसेवाप्रतः कृत्वा त्वत्तः संमानमर्हति ॥
विप्रियं च न कर्तव्यं भरतस्य कदाचन । स हि राजा प्रभुश्चैव देशस्य व कुलस्य च ॥
अनेन राजविप्रियं न कर्तव्यमिति सूचितम् । तथा च मनुः - ‘बालोऽपि नावमन्तव्यो मनुष्य इति भूमिपः । महती देवता ह्येषा नररूपेण तिष्ठति । यस्तु तं द्वेष्टि मोहात्स विनश्यत्यसंशयः । यम्य प्रसादे पद्मा श्रीवि- जयश्च पराक्रमे ॥ मृत्युश्च वसति क्रोधे सर्वतेजोमयो हि सः ।” इति ।
आराधिता हि शीलेन प्रयतैश्वोपसेविताः । राजानः संप्रसीदन्ति कुप्यन्ति च विपर्यये ॥
[[२५६]]
धर्माकूते
अहं गमिष्यामि महावनं प्रिये
त्वया हि वस्तव्यमिहैव भामिनि ।
इति । सप्तविंशे – ततः स्वं विना वनगमने कृतनि- अयं रामभद्रमल सकोपमेवमवादीत्-
आर्यपुत्र पिता माता भ्राता पुत्रस्तथा स्नुषा । स्वानि पुण्यानि भुञ्जानाः स्वं स्वं भाग्यमुपासते ॥
भर्तुर्भाग्यं नायिका तु प्राप्नोति पुरुषर्षभ ।
न पिता नात्मजो नात्मा न माता न सखीजनः ॥
इह प्रेत्य च नारीणां पतिरेको गतिः सदा । प्रासादाग्रैौर्वमानैर्वा वैहायसगतेन वा ॥
सर्वावस्थां गता भर्तुः पादच्छाया विशिष्यते । अनुशिष्टास्मि मात्रा च पित्रा च विविधाश्रयम् ॥
साहं रंस्ये त्वया वीर वनेषु मधुगन्धिषु । एवं वर्षसहस्राणां शतं वाहं त्वया सह ॥
व्यतिक्रमं न वत्स्यामि स्वर्गेऽपि हि न मे मतः ।
अयोध्याकाण्डः ।
[[૩૦]]
इति । अनेन भर्तुरतिक्लेशसमयेऽपि तं विहाय न स्थेयमिति सूचितम् । तथा च वनपर्वणि नलं प्रति दमयन्तीवचनम् -‘हृतराज्यं हृतद्रव्यं विवस्त्रं तृमा- न्वितम् । कथमुत्सृज्य गच्छेयमहं हि विजने वने ॥ श्रान्तस्य ते क्षुधार्तस्य चिन्तयानस्य तत्सुखम् । वने घोरे महाराज नाशयिष्यति मे कुमम् ॥ न च भार्यासमं किंचिद्विद्यते भेषजं महत् । नित्यं हि सर्वदुःखेषु सत्यमे- तद्रवीमि ते ॥’ इति । अष्टाविंशे - एवं ब्रुवाणामतिक्लेशेन बाष्पपरिपूर्णनयनां सीतामवलोक्य तां निवर्तयितुं समा- त्वमेवमवादीत्—
इहावर स्वधर्मे त्वं मा कृथा मनसोऽसुखम् । बहुदोष हि कान्तारं वनमित्यभिधीयते ॥
सुप्यते पर्णशय्यासु स्वयं भग्नासु भूतले । अहोरात्रं च संतोषः कर्तव्यो नियतात्मना ॥
फलैर्वृक्षात्प्रपतितैः सीते दुःखमतो वनम् । उपवासश्च कर्तव्यो यथाप्राणेन मैथिलि ॥
[[1]]
[[२५८]]
धर्माकूते
जटाधारश्च कर्तव्यो वल्कलाम्बरधारिणा । देवतानां पितॄणां च कर्तव्यं विधिपूर्वकम् ॥
प्राप्तानामविधीनां च नित्यशः प्रतिपूजनम् । कार्यस्त्रिरभिषेकश्च काले काले च नित्यशः ॥
उपहारश्च कर्तव्यः कुसुमैः स्वयमाहृतैः । आर्षेण विधिना वेद्यां बाले दुःखमतो वनम् ॥
यथालब्धेन कर्तव्यः संतोषस्तत्र मैथिलि । यताहारैर्वनचरैर्नित्यं दुःखमतो वनम् ॥
stariat विमोक्तव्यौ कर्तव्या तपसे मतिः । न भेतव्यं च भेतव्ये नित्यं दुःखमतो वनम् ॥ तदलं ते वनं गत्वा क्षमं न हि वनं तव ।
aar arastraर्माः कथिताः । तथा च मनुः- ‘वसीत वर्म वीरं वा सायं स्वायात्प्रगे तथा । जटाव विभृयान्नित्यं श्मश्रुलोमनखानि च ॥ यद्भक्षयेत्ततो दद्या- इलिं भिज्ञां च शक्तितः । अम्मूलफलभिक्षाभिरर्चयेदा- श्रमागतम् ॥’ आपस्तम्बोऽपि - ‘तस्यारण्य माच्छादने-
"
अयोध्याकाण्डः ।
[[૧૨]]
विहितं ततो विहितैः फलैः पर्णैस्तृणैरिति वर्तयंश्वरेत् । ’ गौतमोऽपि बखानसो वने मूलफलाशी तपः शीलयेत् ’ इति । कूर्मपुराणे - ‘ब्रह्मचारी भवेन्नित्यं न पत्नीं प्रति- संश्रयेत् । यस्तु पन्या समं गत्वा मैथुनं कामतश्चरेत् ॥ तद्वनं तस्य लुप्येत प्रायश्चित्तीयते द्विजः ॥ ’ मनुरपि- ‘वर्जयेन्मधुमांसानि इति । नतु गृहस्थेत सता रामेण कथं वानप्रस्थ अनुष्ठेया उच्यन्ते ? नायं दोषः । गमस्य प्रस्थापनसमये टाकलादीनां कैकेय्या प्रत्तत्वेन अपरित्यक्तगृहस्थस्यैव रामस्य वानप्रस्थधर्माः केचन अनुष्ठेयाः कथिताः । अन्यथा मधुमांसभक्षणस्त्र्युप- गमन पुनर्जगर प्रवेशराज्यपरिपालनादीनां दर्शनं विरुध्यते इति । एकोनत्रिंशे तचनश्रवण संजातदुःखा खीता, स्वनिवर्तनपरं रामभद्रमेयमवादीत् । त्वद्रूप संदर्शन संजात- संत्रासेन पलायमानेषु भयहेतुभूतेषु हिंस्रमृगेषु त्वया सह निर्भयं वनं प्रविशामि । त्वदुदा हनमखिलमपि दोषजातं गुण इत्येsafe गुरुजनाज्ञया वया सह वनगमनमेव श्रेयः, त्वद्विना चाहं चणमपि जीवितुं न प्रभवामि ।
[[२६०]]
धर्माकूते
श्रुतिर्हि श्रूयते पुण्या ब्राह्मणानां यशखिनाम् । इह लोके च पितृभिर्या स्त्री यस्य महामते ॥ अद्भिर्दत्ता स्वधर्मेण प्रेत्यभावेऽपि तस्यसा । भक्तां पतिव्रतां दीनां मां समां सुखदुःखयोः ॥ नेतुमर्हसि काकुत्स्थ समानसुख दुःखिनीम् । यदि मां दुःखितामेवं वनं नेतुं न चेच्छसि । विषम जलं वाहमास्थास्ये मृत्युकारणात् ॥ इति सकरुणमभिदधानामपि सीतां निवर्तने कमती रामभद्रः पुनरपि बहुप्रकारं सान्त्वयामास । त्रिंशे- ततः
सान्त्यमाना तु रामेण मैथिली जनकात्मजा । प्रणयाचाभिमानाच परिचिक्षेप राघवम् ॥
।
किं त्वामन्यत वैदेहः पिता मे मिथिलाधिपः । राम जामातरं प्राप्य स्त्रियं पुरुषविग्रहम् ॥ अनृतं बत लोकोऽयमज्ञानाद्यद्धि वक्ष्यति । तेजो नास्ति परं रामे तपतीव दिवाकरे । किं हि कृत्वा विषण्णस्त्वं कुतो वा भयमस्ति ते । यत्परित्यक्तुकामस्त्वं मामनन्यपरायणाम् ॥
अयोध्याकाण्डः ।
[[२६१]]
अत्र सीताकृतभविक्षेपः प्रणयमूलत्वान्न दोषावहः । अत एव प्रणयाच भिमानाचेत्युक्तम् । इदं तु प्रागेव प्रति- पादितम् ।
द्युमत्सेनसुतं वीरं सत्यवन्तमनुव्रताम् । afratha Hifafa त्वमात्मवशवर्तिनीम् ॥
अत्र अन्वासु बह्वीषु पतिव्रतासु सतीषु सावित्र्या एव दृष्टान्तत्वेनोपादानं तस्या भत्मपितृमातृश्वश्रूश्वशु- रोद्धारकत्वेन सर्वापेक्षयातिशयितत्वात् । तथा च भारते, मद्रदेशाधिपतिः सुतार्थ सावित्रीं परिचर्य तत्प्रखादादन- sunaarai रूपिणीमिव श्रीदेवी सावित्रीनानीं कन्य- कामवाप्य सदृशवरालाभप्रभेदखिद्यमान मानसस्तामेव दु- हितरमभिलषितवरान्वेषणाय प्रेषयामास । सा तु हेमं स्थवरमास्थाय वृद्धैरमात्यैः सह नगरोपवनानि सर्वाणि च तीर्थानि सर्वानाश्रमानभिगम्य पुनरपि सभायां नारदेन `सह तास्ताः कथाः कथयन्तं स्वपितरमासाद्य सविनय- मिदमभाषत – ‘अस्ति खलु साल्वाधिपतिद्युमत्सेनो नाम नरपतिः । स चारातिपरिगृहीतराज्यो बालपुत्रया साया
મ
धर्माकृते
सह वनं प्रविश्य तपस्तप्यमानः कालेनान्धो बभूव; तत्पुत्रः सत्यवानखिलकलाकुशलः दर्शनमात्रेण हृदयानन्दकरो ममानुरूपो भर्तेति मनसा निश्चयमकरवम्’ इति । ततः कोऽयं किमाचार इति राजा पृष्टो देवर्षिर्नारदः समुद्रा जहार – ‘महेन्द्र इव वीरश्च वसुधेव क्षमान्वितः । सांकृते रन्तिदेवस्य स्वशक्त्या दानतः समः । ब्रह्मण्यः सत्यवादी च शिबिरौशीनरो यथा ॥ ययातिरिव चोदारः सोम- वत्प्रियदर्शनः । रूपेणान्यतमोऽश्विभ्यां द्युमत्सेनसुतो बली । एक एवास्य दोषो हि गुणानाक्रम्य तिष्ठति ॥ संवत्सरेण क्षीणायुर्देहन्यासं करिष्यति’ इति । तद्वच- नादन्यं वृणीष्व नायं तवानुकूलो वर इति वदन्तं स्व- पितरं सावित्र्युवाच सकृदशो निपतति सकृत्कन्या प्रदीयते । सक्कदाह ददामीति त्रीण्येतानि सकृत्सकृत् ॥ दीर्घायुरथ वाल्पायुः सगुणो निर्गुणोऽपि वा । सकृद्वृतो मया भर्ता न द्वितीयं वृणोम्यहम् ॥ मनसा निश्चयं कृत्वा ततो वाचाभिधीयते । क्रियते कर्मणा पश्चाता- माणं मे मनस्ततः ॥ ’ इति । ततः स्थिरबुद्धिं दुहितरम-
अयोध्याकाण्डः ।
[[२६३]]
वलोक्य सत्यवता पाणिं ग्राहयामास । सावित्र्यपि, अप- रवि देवतं भर्तारं परिचरन्ती नारदोक्तपतिमरणदिवसं संनिहितमेवावगत्य त्रिरात्रं व्रतमकरोत् । प्राप्ते च तस्मि दिवसे विधिवदर्भ प्रज्वल्य हुत्वा चाहुतीः श्वशुरौ समीपवर्तिनौ ब्राह्मणांश्च प्रणम्य तेभ्यश्चावैधव्याशिषः परिगृह्य समिदाहरणाय वनमभिगच्छन्तं भर्तारमनुवत्राज। सत्यवानपि काष्ठानयनजनितशिरोवेदनया तस्या उत्पने सुखं सुष्वाप । ततः सा नारदवचो विमृशन्ती तपखिनी । तं मुहूर्त क्षणं वेलां दिवसं च युयोज ह ॥ ततः सत्यवतः पार्श्वे पाशहस्तं यममवलोक्य ‘किमागमनकृत्यं किंनिमि- तं वा न दूतान्प्रेषितवानसि’ इति सावित्र्या पृष्टो यमः, ‘त्वमपि पतिव्रतानामग्रगण्येति ब्रवीमि धर्मसंयुक्तः सत्यवा- नन्येनेतुमशक्य इति स्वयमेवागतोऽस्मि’ इत्यवादीत् । ततः सत्यवतः कायात्पाशबद्धं वशं गतम् । अङ्गुष्ठमात्रं पुरुषं निश्कर्ष यमो बलात् । अथ सत्यवन्तमादाय दक्षिणां दिशमभिगच्छन्तं यममनुसरन्ती सावित्री निवर्त स्वेति तेनोक्ता तमाह - ‘यत्र मे नीयते भर्ता स्वयं वा यव
**
धर्माते
गच्छति । मया च तत्र गन्तव्यमेष धर्मः सनातनः ॥ तपसा गुरुभक्त्या च भर्तुः स्नेहानेन च । तव चैव प्रसादेन न मे प्रतिहता गतिः । प्राहुः साप्तपदं मैत्र धास्तत्त्वार्थदर्शिनः । मित्रतां च पुरस्कृत्य किंचिद्रक्ष्यामि तच्छृणु ॥’ सावित्र्युवाच — ‘नानात्मवन्तस्तु वने चरन्ति धर्मे च वासं च परिश्रमं च । विज्ञानतो धर्ममुदाहरन्ति तस्मात्सन्तो धर्ममाहुः प्रधानम् ॥ एकस्य धर्मेण खतां मतेन सर्वे स्म तं मार्गमनुप्रपन्नाः । मा वै द्वितीयं मा तृतीयं च वाच्छेत्तस्मात्सन्तो धर्ममाहुः प्रधानम् ॥’ यमः- * निवर्त तुष्टोऽस्मि तवानया गिरा स्वराक्षव्यञ्जनहेतु- युक्तया । वरं वृणीष्वेह विनाश्य जीवितं ददानि ते सर्व- मनिन्दिते वरम् ॥’ सावित्र्युवाच ‘च्युतः स्वराष्ट्राद्वन- वामाश्रितो विनष्टचक्षुः श्वशुरो ममाश्रमे । स लब्ध- चक्षुर्ववान्भवेन्नृपस्तव प्रसादाज्ज्वलनार्कसंनिभः ॥ ’ यम उवाच - ’ ददानि तेऽहं तमनिन्दिते वरं यथा त्व- योक्तं भविता च तत्तथा । तवाध्वना ग्लानिमिबोपल- अये निवर्त गच्छस्व न ते श्रमो भवेत्।’ सावित्र्युवाच-
अयोध्याकाण्डः ।
[[२६५]]
‘श्रमः कुतो भर्तृसमीपतो हि मे यतो हि भर्ता मम सा गतिर्भुवा । यतः पतिं नेष्यसि तल मे गतिः -सुरेश भूयश्च वचो निबोध मे । सतां सकृत्संगतमीसितं परं ततः परं मित्रमिति प्रचचते । न चाफलं सत्पुरुषेण संगतं ततः सतां संनिविशेत्समागमे ॥ यम उवाच —- ‘मनोनुकूलं बुधबुद्धिवर्धनं त्वया यदुक्तं वचनं हिताश्रयम् । विना पुनः सत्यवतोऽस्य जीवितं वरं द्वितीयं वरयस्व भामिनि ॥’ सावित्र्युवाच — ‘हृतं
‘हृतं पुरा मे
श्वशुरस्थ श्रीमतः तमेव राज्यं लभते स पार्थिवः । जह्यात्स्वधर्मान्न च मे गुरुर्यथा द्वितीयमेतं वरयामि ते वरम् ॥’ यम उवाच - ‘स्वमेव राज्यं प्रतिपत्स्यतेऽचिरान्न च स्वधर्मा- त्परिहास्यते नृपः । कृतेन कामेन मया नृपात्मजे निवर्त गच्छस्व न ते श्रमो भवेत् ॥ ’ सावित्र्युवाच — ‘प्रजा- स्त्वयैतानि यमेन संयता नियम्य चैता नयसे निकामया ॥
ततो यम त्वं तव देवविश्रुतं निबोध चेमां गिरमीरितां मया । अद्रोहः सर्वभूतेषु कर्मणा मनसा गिरा । अनु प्रहश्च दानं च तां धर्मः सनातनः । एवंप्रायश्च
D. Pt. IV-5
•
।
धर्माकूते
लोकोऽयं मनुष्या भक्तिपेशलाः । सन्तः स्वे वाप्यमित्रेषु दयां प्राप्तेषु कुर्वते ॥ यम उवाच — ‘पिपासितस्येक भवेद्यथा पयस्तथा त्वथा वाक्यमिदं समीरतम् । बिना पुनः सत्यवतोऽस्य जीवितं वरं वृणीष्वेह शुभे यदिच्छसि ॥’ सावित्र्युवाच – ‘ममानपत्यः पृथिवीपतिः पिता भवे- त्पितुः पुत्रशतं तथौरसम् । कुलस्य संतानकरं च यद्भवे- तृतीयमेतद्वरयामि ते वरम् ॥’ यम उवाच — ’ कुलस्य संतानकरं सुवर्चसं शतं सुतानां पितुरस्तु ते शुभे । कृतेन कामेन नराधिपात्मजे निवर्त दूरं हि पथरत्वमागता । ’ सावित्र्युवाच - ‘न दूरमेतन्मम भर्तृसंनिधौ मनो हि में दूरतरं प्रधावति । अथ व्रजन्नेव गिरं समुद्यतां मयोच्य- मानां शृणु भूय एव च ॥ विवस्वतस्त्वं तनयः प्रताप- वांस्ततो हि वैवस्वत उच्यसे बुधैः । शमेन धर्मेण च रञ्जिताः प्रजास्ततस्तवेहेश्वर धर्मराजता । आत्मन्यपि न विश्वासस्तथा भवति सत्सु यः । तस्मात्सत्सु विशेषेण सर्वः प्रणयमिच्छति ॥ सौहृदात्सर्वभूतानां विश्वासो नाम जायते । तस्मात्सत्सु विशेषेण विश्वासं कुरुते जनः ॥ "
अयोध्याकाण्डः ।
[[२६७]]
थम उवाच – ’ उदाहृतं ते वचनं यदने श्रुतं न तादृ- क्वडते श्रुतं मया । अनेन तुष्टोऽस्मि विनास्य जीवितं वरं चतुर्थ वरयस्व गच्छ च ॥ सावित्र्युवाच- ‘ममा- त्मजं सत्यवतस्तथौरखं भवेदुभाभ्यामिह यस्कुलोद्वहम् । शतं सुतानां बलवीर्यशालिनामिदं चतुर्थे वरयामि त वरम् ॥’ यम उवाच - - ’ शतं सुतानां बलवीर्यशालिनां भविष्यति प्रीतिकरं तवाबले । परिश्रमस्ते न भवेन्नृपात्मजे निवर्त दूरं हि पथस्त्वमागता ॥ ’ सावित्र्युवाच- ‘तां सदा शाश्वतधर्मवृत्तिः सन्तो न सीदन्ति न व्यथन्ति । सतां सद्भिर्नाफिल : संगमोऽस्ति सभ्यो भयं नानुवर्तन्ति सन्तः ॥ सन्तो हि सत्येन नयन्ति सूर्य सन्तो भूमिं तपसा धारयन्ति । सन्तो गतिर्भूतभव्यस्य राजन्सतां मध्ये नावसीदन्ति सन्तः ॥ आर्यजुष्टमिदं वृत्तमिति विज्ञाय शाश्वतम् । सन्तः परार्थं कुर्वाणा ना- वेक्षन्ति परस्परम् ॥ न च प्रसादः सत्पुरुषेषु मोघो न चाप्यर्थो नश्यति नापि मानः । यस्मादेवन्नियतं सत्सु नित्यं तस्मात्सन्तो रक्षितारो भवन्ति ॥ यम उवाच –
+
ઢ
धर्माकूते
यथा यथा भाषसि धर्मसंहितं मनोनुकूलं सुपदं महा- वत् । तथा तथा मे त्वयि भक्तिरुत्तमा वरं वृणीष्वाप्र- तिमं पतिव्रते ॥’ सावित्र्युवाच - ‘न तेऽपवर्गः सुकृता- द्विनाकृतस्तथा यथान्येषु वरेषु मानद । वरं वृणे जीवतु सत्यंवानयं यथा मृता ह्येवमहं पति विना ॥ न कामये भर्तृविनाकृता सुखं न कामये भर्तृविनाकृता दिवम् । न कामये भर्तृविनाकृता श्रियं न भर्तृहना व्यवसामि जीवितुम् ॥ वरातिसर्गः शतपुत्रता मम त्वयैव दत्तो हियते च मे पतिः । वरं वृणे जीवतु सत्यवानयं तवैव सत्यं वचनं भविष्यति ॥’ मार्कण्डेय उवाच- ’ तथे- त्युक्त्वा तु तं पाशं मुक्त्वा वैवस्वतो यमः । धर्मराजः प्रहृष्टात्मा सावित्रीमिदमब्रवीत् ॥ यम उवाच- ‘एष भद्रे मया सुतो भर्ता ते कुलनन्दिनि । अरोगस्तव नेयमच सिद्धार्थः स भविष्यति ॥ त्वयि पुत्रशतं चैव सत्यवाञ्जनविष्यति । ते चोप सर्वे राजानः क्षत्रियाः पुत्रपौत्रिणः । ख्यातास्त्वन्नामधेयाश्च भविष्यन्तीह शाश्वताः ॥ मालव्यां मालवा नाम शाश्वताः पुत्रपौ- त्रिणः । भ्रातरस्ते भविष्यन्ति क्षत्रियास्त्रिदशोपमाः ।अयोध्याकाण्डः ।
[[२६९]]
एवं तस्यै वरं दत्त्वा धर्मराजः प्रतापवान् । निवर्तयित्वा सावित्री स्वमेव भवनं ययौ । सावित्र्यपि यमे याते भर्तारं प्रतिलभ्य च । जगाम तत्र भर्नास्य भर्तुः श्यावं कलेबरम् ॥
या भूमौ प्रेक्ष्य भर्तारमुपसृत्योपगृह्य च । उत्सङ्गे शिर आरोप्य भूमावुपविवेश ह ॥ संज्ञां च स पुनर्लब्ध्वा साबि- श्रीमभ्यभाषत । प्रोष्यागत इव प्रेम्णा पुनः पुनरुदीक्ष्य वै॥ सत्यवानुवाच - ‘सुचिरं बत सुप्तोऽस्मि किमर्थं नाव- बोधितः । क चासौ पुरुषः श्यामो योऽसौ ममं संचकर्ष ह ॥’ ततो रजन्यां व्युष्टायामखिलेन यथावृत्तमाख्या- स्यामि त्वद्वियोगजनितखेदकलुषितान्तःकरणौ पितरौ जीवितसंशय मेध्यतः; तदधुनैव गच्छाव इति सावित्र्या- भिहितः सत्यवांस्तया सह स्वमाश्रमं प्रायात् । अवान्तरे लब्धचतुर्द्युमत्सेनः चिरकालगत सुतपदवी मार्गणाय नदी- नदाश्रमोपवनानि इतस्ततः सभार्यः संचरंस्तद संदर्शनेन च परिमुषितमिवात्मानं मन्वानः हा पुत्र हा साध्वि कासि देहि मे प्रतिवचनमिति सकरुणं विलपन्यदृच्छया समागतैराश्रमवासिमुनिजनैः समाश्वस्य सकरुणमेवम-
।
धर्माकूते
भाणि । सुवर्चा उवाच — ‘यथास्य भार्या सावित्री तपसा च दमेन च । आचारेण च संयुक्ता तथा जीवति
सत्यवान् ॥’ भरद्वाजः–’ यथास्य भार्या सावित्री सर्वे- रेव सुलक्षणैः । अवैधव्यकरैर्युक्ता तथा जीवति सत्यवान् ।’ दारभ्य उवाच — ‘यथा दृष्टिः प्रवृत्ता ते सावित्र्याच यथाव्रतम । गताहारमकृत्वा च तथा जीवति सत्यवान ॥ ततो मुहूर्तात्सावित्र्या सह सत्यवान्स्वमाश्रममागम्थ पितरौ सर्वोश्चाश्रमवासिनो मुनीन् अभिवाद्य तैश्च किं- निमित्तं चिरादागमनं को वा प्रतिबन्धस्तवाभूदिति पृष्ठः- काष्ठपाटन संजातशिरोवेदनया चिरमहं सुप्तो न किमपि अवेदिषमित्यब्रवीत् । सावित्री तु तैश्छन्द्यमाना सर्वमपि निजवृत्तान्तमाचचक्षे । तद्वचनश्रवण संजातविस्मयैस्तदा- श्रमवासि मुनिजनैः सादरमेवमभाणि । ‘निमज्जमानं व्यस नैरभिद्रुतं कुलं नरेन्द्रस्य तमोमये हृदे । त्वया सुशीलन- तपुण्यथा कुलं समुद्धृतं साभित्र पुनः कुलीनया ॥’ ततः प्रभातायां रजन्यामुदिते च दिनकरमण्डले कृताहिकक्रि- येषु तपोधनेषु द्युमत्सेनोऽपि स पुत्रकृतनित्यक्रियः सावि-
[[1]]
अयोध्याकाण्डः ।
[[२०१]]
श्रीकथितां कथां पुनः पुनः कथयन्नमन्दानन्दहृदयोऽ भूत् । अत्रान्तरेऽमात्यनिहतारातिवर्ग निराबाधं जनपदं शासितुं प्रयाहि चातका लिर्जलदमिव स्वभिगमनमभि- काङ्क्षति चतुरङ्गबलमध्यास्स्व च चिररात्राय पितृपैतामह- पदमिति साल्वेभ्यः समागतानां प्रकृतीनां श्रवणसुख संज- ननानि वचनानि श्रुत्वा तदैव समीपवर्तिनो मुनीनभिवाद्य रथगजतुरगपदादिचतुरङ्गबलपरिवृतो महता रथेन स्वनगरं जगाम । ततोऽभिषिषिचुः प्रीत्या द्युमत्सेनं पुरोहिताः ॥ पुत्रं चास्य महात्मानं यौवराज्येऽभ्यषेचयन् । ततः कालेन महता साकियाः कीर्त्तिवर्धनम् ॥ तद्वै पुत्रशतं जज्ञे शूरा- णामनिवर्तिनाम् । भ्रातॄणां सोदराणां च तथैवास्याभव- छतम् । मद्राधिपस्याश्वपतेः मालव्यां सुमहद्बलम् । एवमात्मा पिता माता श्वश्रूः श्वशुर एव च ॥ भर्तुः कुलं च सावित्र्या सर्व कृच्छ्रात्समुद्धृतम् । इति ॥
न त्वहं मनलाप्यन्यं द्रष्टास्मि त्वद्यतेऽनघ । त्वया राघव गच्छेयं यथान्या कुलपांसनी ॥ स्वयं तु भार्या कौमारीं चिरमध्युषितां सतीम् । शैलूष इव मां राम परेभ्यो दातुमिच्छसि ॥
[[૨૦૨]]
धर्माकूते
यस्य पथ्यं च रामात्थ यस्य चार्थेऽवरुध्यसे । त्वं तस्य भव वश्यश्च विधेयश्च सदानव ॥ कुशकाशशरेषीका ये च कण्टकिनो द्रुमाः । तूलाजिनसमस्पर्शा मार्गे मम सह त्वया ॥
पत्र मूलं फलं यस्वमल्पं वा यदि वा बहु । दास्यसि स्वयमाहृत्य तन्मेऽमृतरसोपमम् ॥ यस्त्वया सह स स्वर्गो निरयो यस्त्वया विना । इति जानन्परां प्रीतिं गच्छ राम मया सह ॥ अनेन पतिव्रताधर्मा उक्ताः । प्रपश्वितं चैतत्प्रागेव । इति सा शोकसंतप्ता विलप्य करुणं बहु । चुक्रोश भृशमायस्ता पतिमालिङ्ग्य सस्वरम् ॥ तां परिष्वज्य बाहुभ्यां विसंज्ञामिव दुःखिताम् । उवाच वचनं रामः परिविश्वासयंस्तदा ॥ यत्सृष्टासि मया सार्धं वनवासाय मैथिलि । न विहातुं मया शक्या कीर्त्तिरात्मवता यथा ॥ एष धर्मश्च सुश्रोणि पितुर्मातुश्च वश्यता । अतश्चाहं व्यतिक्रम्य नाहं जीवितुमुत्सहे ॥
अयोध्याकाण्डः ।
[[२७३]]
स्वाधीनं समतिक्रम्य पितरं मातरं गुरुम् । अस्वाधीनं कथं दैवं प्रकारैरभिराध्यते ॥ यत्र यत्र यो लोकाः पवित्रं तत्समं भुवि । नान्यदस्ति शुभापाने तेनेदमभिराध्यते ॥ न सत्यं दानमानौ वा न यज्ञाश्चाप्तदक्षिणाः । तथा बलकराः सीते यथा सेवा पितुर्मम ॥ स मां पिता यथा शास्ति सत्यधर्मपथे स्थितः । तथा वर्तितुमिच्छामि स हि धर्मः सनातनः ॥ ममासना मतिः सीते त्वां नेतुं दण्डकावनम् । आरभस्व शुभश्रोणि वनवासक्षमाः क्रियाः ॥ ब्राह्मणेभ्यश्च रत्नानि भिक्षुकेभ्यश्च भोजनम् । देहि स्वभृत्यवर्गेभ्यो ब्राह्मणानामनन्तरम् ॥ एवमुक्ता सीता तद्वचनशीता तद्वचनश्रवण संजात- संतोषेण धनानि दातुमुपचक्रमे । ननु वनगमनकारणं किमिति सीतया पृष्टोऽपि रामः,
स्वाधीनं समतिक्रम्य पितरं मातरं
गुरुम् ।
अस्वाधीनं कथं दैवं प्रकारैरभिराध्यते ॥
[[२७४]]
धर्माकूते
इति किमर्थमुक्तवानिति चेन्न; कैकेयीदशरथखनि- धाने प्रत्यक्ष देवतात्ववचनमुपचारार्थमेवेति शङ्का स्यादिति तन्निवृत्त्यर्थं पित्रोरसंनिधानेऽपि पुनरपि स्वहृदयभूतां सीतां प्रत्युक्तवानिति न दोषः । नन्वेवमपि ’ नावां स्नेहो नरैः कार्यस्तथैवेर्ष्या जनेश्वर । खेदमास्थाय भुञ्जीत धर्ममास्थाय चैव हि ॥ ’ इति, ‘अत्यन्त वल्लभोऽस्मीति विस्रम्भः स्त्रीषु न व्रजेत्’ इत्यादिवचनेन ‘कश्चिन्न श्रवत्यासां कचिद्गुह्यं न भाषते’ इति धर्मपुत्रं प्रति विश्वासगुह्यभाषणनिषेवकनारदवचनेन खीषु विस्रम्भो न कर्तव्यः । एवं सति,
वचनं तन्नयति मां पितुः सत्योपबृंहितम् । एष धर्मश्व सुश्रोणि पितुर्मातुश्च वश्यता ॥ इत्यादिधर्मरहस्यवचनं रामेण विस्रम्भपूर्वकं सीतां प्रति कथमुक्तमिति चेत्; न । स्त्रीणां विस्रम्भनिषेवस्तु अस- स्त्रीविषयः, अत एव रामोऽपि ‘समस्थमनुरज्ज्यन्ति विषमस्थं त्यजन्ति च’ इत्यत्स्त्रीस्वभावः सीतायामपि वर्तते वा न वेति शङ्कयां विषमकाले तहृदयं ज्ञातुं वन-
अयोध्याकाण्डः ।
[[२०५]]
दोषानुदाहृत्य त्वमत्रैव तिष्ठेति अभिहितवान् । ततः
यस्त्वया सह स स्वर्गों निरयो यस्त्वया विना । इति जानन्परां प्रीतिं गच्छ राम मया सह ॥
इत्येवमादिवचनैर्विषमकालेऽपि स्वेन सह वनवास-
दनिश्वयाम्
तव सर्वमभिप्रायमविज्ञाय शुभानने । वासं न रोचयेऽरण्ये शक्तिमानपि रक्षणे ॥ इत्यभिधानपूर्वकं स्वस्मिन्सतानुरागं सौशील्यं च जानन्विसंभपूर्वकं ‘वचनं तन्नयति मां पितुः सत्योप- तिम्’ इत्यादिधर्मरहस्यवचनं स्वहृदयभूतां खर्ती सीतां प्रत्युक्तवानिति न दोषः । अत्र,
किं त्वामन्यत वैदेहः पिता में मिथिलाधिपः । राम जामातरं प्राप्य स्त्रियं पुरुषविग्रहम् ॥ इत्यादिप्रकारेण बहुविधमधिक्षिप्तोऽपि रामः, क्रोधाविष्टां तु वैदेहीं काकुत्स्थों बह्वसान्त्वयत् । इति सान्त्ववचनमेवोक्तवानित्यवगम्यते । तथा
[[૨૦]]
धर्माकूते
स हि धर्मो मम द्वेष्यः प्रसङ्गाद्यका मुह्यसि । गुरोरप्यवलित कार्याकार्यमजानतः । उत्पथं प्रतिपन्नस्य कार्य भवति शासनम् ॥ इत्यादिप्रकारेण पितरं स्वं चाविक्षिप्तवन्तं लक्ष्मणमफि विसृज्य बापं परिलान्व्य चासकृ- त्स लक्ष्मणं राघववंशवर्धनः ।
इत्येवमादिप्रकारेण सान्त्ववचनमेव उक्तवानित्यवग- म्यते । अग्रेऽपि ‘न क्रुध्यत्यभिशप्तोऽपि ’ इत्यादिवचनेन च सर्वविषयेऽपि सहनं प्रतीयते । तत्र ‘न क्रुध्यति ’ इति वचनस्य मातृसमुदीरितत्वात्, तासां च मान्यत्वात् तत्कृताविक्षेपसहनं न्याय्यम् । सीतालक्ष्मणयोस्तु शिक्षणीयत्वेन तत्कृताविक्षेपमहनं युक्तमेव । तथा च
‘ऋत्विक्पुरोहिताचार्यैर्मातुलातिथिसंश्रितः । वृद्धबा लातूर वैयैज्ञति संबन्धिबान्धवैः ॥ मातापितृभ्यां जामीभिर्भ्रात्रा पुत्रेण भार्यया । दुहित्रा दासवर्गेण वि- वादं न समाचरेत् ॥ एतैर्विवादं संत्यज्य सर्वपापैः प्रमुच्यते । एतैर्जितश्च जयति सल्लोकानिमान्गृही ॥ आचार्यो.
मनुः-
अयोध्याकाण्डः ।
ब्रह्मलोकेशः प्राजापत्ये पिता प्रभुः । अतिथिस्त्विन्द्रको- केशो देवलोकस्य चर्त्विजः ॥ जामयोऽप्सरसां लोके वैश्वदेवस्य बान्धवाः । संबन्धिनो द्युलोकस्य पृथिव्यां मातृमातुलौ ! आकाशेशास्तु विज्ञेया बालवृद्धातुराः कृशाः । भ्राता ज्येष्ठः समः पित्रा भार्यापुत्रौ स्वका तनुः ॥ छाया स्वereaftतु दुहिता कृपणं परम् । तस्मादेते- रविक्षितः सहेता संज्वरः सदा । ’ इति । मोक्षधर्मे युधि- ष्ठिरं प्रति व्यासवचनमपि ‘ऋत्विक्पुरोहिताचायैम- तुलातिथिसंश्रितैः । वृद्धबालातुरैव यैज्ञति संबन्धिबान्धवैः॥ मातापितृभ्यां जामीभिर्भ्राता पुत्रेण भार्यया । दुहित्रा दासवर्गेण विवादं न समाचरेत् । एतान्विमुच्य संवादा- सर्वपापैः प्रमुच्यते । एतैर्जितस्तु जयति सर्वलोकान्न संशयः । आचार्यो ब्रह्मलोकेशः प्राजापत्ये पिता प्रभुः । अतिथिस्त्विन्द्रलोकेशो देवलोकस्य ऋत्विजः ॥ जामयो- ऽप्सरसां लोके वैश्वदेवे तु ज्ञातयः । संबन्धिबान्धवा दिक्षु पृथिव्यां मातृमातुलो ॥ वृद्धबालातुरकशास्त्वाकाशे प्रभविष्णवः । भ्राता ज्येष्ठः समः पित्रा भार्या पुत्रः
[[૨૦૮]]
धर्माकूते
स्वका तनुः ॥ छाया वा दासवर्गश्च दुहिता कृपणं परम् । तस्मादेतैरधिक्षिप्तः सहेत्रित्यमसंज्वरः ॥ गृहधर्मपरो वि. द्वान्धर्मशीलो जितकुमः’ इति । एकत्रिंशे- ततः श्री- तया सह वनगमने कृतनिश्वयं रामभद्रमवलोक्य शोका- कुलहृदयो लक्ष्मणः भ्रातुश्चरणौ उपसंगृह्य,
यदि गन्तुं कृता बुद्धिर्वनं मृगगजायुतम् । अहं त्वानुगमिष्यामि वनमग्रे धनुर्धरः ॥ न देवलोकाक्रमणं नामरत्वमहं वृणे । ऐश्वर्य वापि लोकानां कामये न त्वया विना ॥
इत्यवादीत् । अनेन इतरैरपि कनिष्ठैः प्राप्तस्वर्गादि- सुखपरित्यागपूर्वक मतिक्लेशमनुभूयापि पितृलमो ज्येष्ठो भ्रातानुसर्तव्य इति धर्मः सूचितः । तथा च मनुः- ‘पितेव पालयेत्पुत्राञ्ज्येष्ठो भ्राता यवीयसः । पुत्रवचापि वर्तेर- ज्येष्ठे भ्रातरि धर्मतः ॥’ इति । पुराणसारेऽपि ‘कनि ष्टास्तन्नमध्येरन्सर्वे च्छन्दानुवर्तिनः । तमेव चोपजीवेरन्य- थैव पितरं तथा ॥’ इति । भीष्मपर्वण्यपि ‘ततो युधिष्ठिरो दृष्टा युद्धाय सुसमुद्यते । ते सेने सागरप्रख्येअयोध्याकाण्डः ।
[[२७९]]
मुहुः प्रचलिते नृप ॥ विमुच्य कवचं वीरो निक्षिप्य च वरायुधम् । अवरुह्य रथात्तूर्ण पश्यामेव कृताञ्जलिः ॥ पितामहमभिप्रेक्ष्य धर्मपुत्रो युधिष्ठिरः । वाग्यतः प्रययौ येन प्राङ्मुखो रिपुवाहिनीम् । तं प्रयान्तमभिप्रेक्ष्य कुन्तीपुत्रो धनंजयः । अवतीर्य रथात्तूर्ण भ्रातृभिः सहितोऽभ्यगात् ॥ ’ इति । सभापर्वण्यपि युधिष्ठिरः- “श्यामो युवा लोहिताक्षः सिंहस्कन्धो महाभुजः । नकुलो ग्लह एवैको विध्येरन्मम तद्धनम् । अयं धर्मा- सहदेवोऽनुशास्ति लोके ह्यस्मिन्पण्डिताख्यां गतश्च । अनर्हता राजपुत्रेण तेन दीव्याम्यहं चाप्रियवत्त्रियेण ॥ यो नः संख्ये नौरिव पारनेता जेता रिपूणां राजपुत्रस्तरखी । अनर्हता राजपुत्रेण तेन दीव्याम्यहं शकुने फाल्गुनेन ॥ यो नो नेता यो युधानं प्रणेता यथा वज्री दानवशत्रुरेकः । तिर्यक्प्रेक्षी संनतर्महात्मा सिंहस्कन्धो यश्च सदात्य- मर्षी ॥ बलेन तुल्यो यस्य पुमान्न विद्यते गदाभृतामग्रय इहारिमर्दनः । अनर्हता राजपुत्रेण तेन दीव्याम्यहं भीमसेनेन राजन्’ इति । तत्रैव दुर्योधनं प्रति भीमसेनः
[[૨૮૦]]
धर्माकूते
‘ईशानः पुण्यतपसां प्राणानामपि चेश्वरः । मन्यते जितमात्मानं यद्येष विजिता वयम् ।’ इति । एवं महाप्रस्थाने कनिष्ठकृतं ज्येष्ठानुवर्तनम् – ’ ततोऽनुमान्य धर्मात्मा पौरजानपदं जनम् । गमनाय मतिं चक्रे भ्रातरश्चास्य ते तदा । ततः स राजा कौरव्यो धर्मपुत्रो युधिष्ठिरः । विसृज्याभरणान्यङ्गाज्जगृहे वल्कलान्युत ॥ भीमार्जुनयमाश्चैव द्रौपदी च यशस्विनी । तथैव जगृहुः सर्वे वल्कलानि नराधिप । हर्षोऽभवद्धि सर्वेषां भ्रातॄणां गमनं प्रति । युधिष्ठिरमतं ज्ञात्वा वृष्णिक्षयमवेक्ष्य च ॥ युधिष्ठिरो ययावये भीमस्तु तदनन्तरम् । अर्जुनस्तस्य चान्वेव यमौ चापि यथाक्रमम् । पृष्ठतस्तु वरारोहा श्यामा पद्मदलेक्षणा । द्रौपदी योषितां श्रेष्ठा ययौ भरतसत्तम ॥’ इति । ततस्तद्वचनमाकर्ण्य मद्वियोगेन कैकेयीकृत तिरस्कारेण च क्लिश्यमानायाः स्मरणमपि न करिष्यति । अतस्तद्रक्षणायात्रेव स्थेयं तेन चाहमपि पूजितो भवामीति रामसमुदीरितं वचनमाकर्ण्य लक्ष्मण एमवीत् ।
अयोध्याकाण्डः ।
[[२०१]]
कौसल्या विभृयादार्या सहस्रमपि मद्विधान् । यखाः सहस्रं ग्रामाणां संप्राप्तमुपजीवनम् ॥ भरतोऽपि त्वत्तेजसः चकितहृदयः कौसल्यां परि- चरिष्यति ।
कुरुष्व मामनुचरं वैधर्म्यं नेह विद्यते । भवांस्तु सह वैदेह्या गिरिसानुषु रखते । अहं सर्व करिष्यामि जाग्रतः स्वपतश्च ते ॥
इति । ननु, ज्येष्ठभ्राता पितृसमो मृते पितरि भूसुराः । कनिष्ठास्तं नमस्येरन्सर्वे च्छन्दानुवर्तिनः ॥ इत्यादिस्मृति- पर्यालोचनया पितुरनन्तरमेव ज्येष्ठभ्रात्रानुसरणस्य कर्त- व्यत्वावगमेन तद्विरुद्धतया विद्यमान एव पितरि लक्ष्म- जेन ज्येष्ठभ्रात्रनुसरणं कथं कृतम् ’ तस्यां शुश्रूषा निला पतितायामपि’ इत्यापस्तम्बवचनपर्यालोचनया मातृ- शुश्रूषणस्य अवश्यकर्तव्यत्वावगमेन मातृशुश्रूषणं वा कथं वा न कृतम् इति चेन्न । पित्रोः संमतत्वेन ज्येष्ठा- नुसरणस्य युक्तत्वात् । पितृसंमतत्वं च,
रामं शुश्रूषता भक्त्या वैदेह्या सह सीतया ।
D. PL. IY – 6
[[૨]]
धर्माकूते
कृता मम महाप्रीतिः प्राप्तं धर्मफलं च ते ॥ इति युद्धकाण्डस्थदशरथवचनादवगम्यते । तथा मातृ- संमतत्वमपि,
व्यसनी वा समृद्धो वा गतिरेष तवानघ । एष लोके सतां धर्मो यज्ज्येष्ठवशगो भवेत् ॥ इदं हि वृत्तमुचितं कुलस्यास्य सनातनम् । रामं दशरथं विद्धि मां विद्धि जनकात्मजाम् ॥ अयोध्यामटवीं विद्धि गच्छ तात यथासुखम् ।
इत्यत्रैव सुमित्रा चनादवगम्यते । ततः प्रसन्नहृदयेन रामेण वनगमनाय कृताभ्यनुज्ञो लक्ष्मणः तदाज्ञया भा- चार्यसमनि नित्यं पूजिते सखने रौद्रे धनुषी अभेद्यकव- चम्, अक्षय्य सायकौ तूणी चादाय रामाय निवेदयामास -
तमुवाचात्मवान्रामः प्रीत्या लक्ष्मणमागतम् । अहं प्रदातुमिच्छामि यदिदं मामकं धनम् ॥ ब्राह्मणेभ्यस्तपस्विभ्यस्त्वया सह परंतप । वसन्तीह दृढं भक्त्या गुरुषु द्विजसत्तमाः ॥ तेषामपि च मे भूयः सर्वेषां चोपजीविनाम् ।
२८३.
वसिष्ठपुत्रं च सुयशमावे
त्वमानयाशु प्रवरं द्विजानाम् । अभिप्रयास्यामि वनं समस्ता-
नभ्यर्च्य शिष्टानपरान्द्विजातीन् ॥ इति । ननु, अहं प्रदातुमिच्छामीत्यादिवचनैः, अयं स पुरुषव्याघ्रो द्वारि तिष्ठति ते सुतः । ब्राह्मणेभ्यो धनं दत्त्वा सर्वे चैवोपजीविनाम् ॥
इत्यये सुमन्त्रवचनेन च रामेण जीवति पितरि द्रव्य- दानं कृतमित्यवगम्यते । तदेतन्नोपपद्यते । ‘ऊर्ध्वं पितुश्च मातुश्च समेत्य भ्रातरस्तथा । भजेरन्पैतृकं रिक्थमनी- शास्ते हि जीवतोः ॥ भार्या पुत्रश्च दासश्च त्रय एते- ऽधनाः स्मृताः । यत्ते समधिगच्छन्ति यस्यैते तस्य तद्धनम् ॥’ इति मनुवचनेन ऊर्ध्वं पितुः पुत्रा रिक्थं भजेरन् । ‘निवृत्ते रजसि मातुः’ इति गौतमवचनेन ‘जीवतोर्न स्वतन्त्रः स्याज्जरयापि खमन्वितः’ इति याज्ञ- वल्क्यवचनेन च पितुरूर्ध्वमेव द्रव्यस्वामित्वस्वातन्त्र्ययो- खगमेन जीवति पितरि द्रव्यस्वामित्वाभावेन स्वातन्त्र्या-
[[૨૮૪]]
धर्माकूते
भावेन च पुत्रेण दातुमशक्यत्वादिति चेत्, न । रामस्य उत्पत्तिप्रभृति पित्र्यादिधने स्वामित्वमस्त्येव । तथा हि स्वत्वं तावन्न शास्त्रैकत्येक समधिगम्यं किं तर्हि लौकिकप्रमाण- गम्यम् । लौकिकाच पुत्रजन्मप्रभृत्येव पुत्रे द्रव्यस्था- मित्वं व्यवहरन्ति । अतः पित्रार्जितधनेष्वपि उत्पत्ति- प्रभृति स्वामित्वमस्त्येव । अयं चार्थः ’ अधुना वयते दायविभागे योगमूर्तिना’ इत्येतच्छलोकव्याख्यानावसरे विज्ञानेश्वरेण विचारपूर्वकं निर्णीतः । तथा तत्र संदेहः- स्वस्य सतो विभागो विभागात्स्वत्वं वेति । तवापि कि ठौकिकप्रमाणगम्यं स्वत्वम्, अथ वा शास्त्रैकसमधिगम्य- मेव स्वत्वम्, अन्यथा स्वामी रिक्थक्रय संविभागपरिप्रहा- विगमेषु ‘ब्राह्मणस्याधिकं लब्धं क्षत्रियस्य विजितं नि- विष्टं वैश्यशूद्रयोः’ इति गौतमवचनवैयर्थ्यापत्तेः । अस्य चायमर्थः - रिक्थं पित्राद्यानन्तर्यप्राप्तं क्रयो मूल्येन द्रव्या- न्तरस्वीकारः । संविभागो भ्रात्रादीनां साधारणस्य पर- स्परं विभागः । परिग्रहो वन्येषु अस्वामिकेषु वृक्षेषु तृण- जळकाष्ठादिषु प्रथमस्वीकारः । एतेषु निमित्तेषु द्रव्य-
अयोध्याकाण्डः ।
[[२८५]]
स्वामित्वं भवति । एतानि सर्ववर्णसाधारणानि स्वत्व- निमित्तानि । अथ ब्राह्मणस्याधिकं लब्धं याजनाध्यापन- प्रतिप्रहैर्यलुब्धं तदधिकमसाधारणं स्वं ब्राह्मणस्य । क्षत्रि यस्य विजितं विजयेन लब्धमधिकं स्वम् । निर्विष्टं वैश्य- शूद्रयोः निर्विष्टं कर्मोपान्तं वैश्यस्य कृष्यादिना शुश्रूषा- दिना शूद्रस्य च लव्धमधिकम् इति । धारणं स्वं तथा च एतादृशस्त्ववोकशास्त्रवैयर्थ्यापत्तेः । एतच्छाख- मन्तरापि लोकत एकत एव स्वत्वावगमे उदाहृतस्वत्वबो- धकसूत्रवैयर्थ्यापत्तेः । तथा - ‘यो दत्ता दायिनो हस्ता लिप्सेत ब्राह्मणो धनम् । याजनाध्ययनेनापि यथा स्तेनस्तथैव सः’ इति चोरयाजनादिना द्रव्यमार्जयतां तत्समानदण्ड- विधानमनुपपन्नं स्यात् । लोकतश्चोरस्यापि स्वत्वसंभवेन तद्याजनेन धनग्राहिणः चौर्यप्रसक्त्यभावात् । अपि च लौकिक चेत्स्वत्वं मम स्वमनेनापहृतमिदं दापयेति न ब्रूयात् । अपहर्तुरेव स्वत्वात् । अपि च सुवर्णरजतादि- स्वरूप इव अस्य स्वं अस्य वा स्वमिति संदेहो न स्यात् । यस्य हस्ते यद्वर्तते तस्य स्वं तदिति निश्चितत्वात् ।
[[1]]
[[२८६]]
धर्माकूते
तस्माच्छास्यैकसमधिगम्यं स्वत्वमिति । अत्रोच्यते - स्वत्वं लौकिकमेव लौकिकार्थक्रियासाधनत्वाद्रीह्यादिवत् । न च पाकरूपलौकिकार्थक्रियासाधनत्वात् श्रदृष्टाहवनीयादीना- मपि लौकिकत्वं स्यादिति वाच्यम् । विविधसंभारसंभृत- देशविशेषनिधानादि संस्कृताभिरूपाहवनीयस्य परिदृश्य- मानवहित्वेन पाकसाधनत्वेऽपि अदृष्टाहवनीयरूपेण पा- कसाधनत्वाभावात् । नैवं धने धनत्वेन क्रयसाधनत्वं संभ वति, अपि तर्हि स्वकीयघनत्वेन अन्यथा अन्यदीयादपि धनात् आपणीयवस्तूनां क्रयविक्रयादिव्यवहारापत्तेः । अपि च अनाघ्रातशास्त्रगन्धानां भिल्लानां स्वत्वव्यवहारो न स्यात् । न चेष्टापत्तिः, तन्मूलक्रयविक्रयादिव्यवहारो- च्छेदप्रसङ्गात् । किं च स्वत्वस्य लौकिकत्वाभावे ‘अथातः ऋत्वर्थपुरुषार्थयोर्जिज्ञासा’ इति किप्सासूत्र- तृतीयवर्णके ‘याजनाध्यापनप्रतिग्रहैर्ब्राह्मणो घनमार्जयेत्’ इति द्रव्यार्जनोपायनियमः किं क्रत्वर्थः उत पुरुषार्थ इति संदि त्वर्थ इति पूर्वपक्षं प्रापय्य ऋतुप्रकरणान्नाना- भावात् पुरुषार्थतया याजनाध्यापनप्रतिग्रहार्जितैः द्रव्यैः
अयोध्याकाण्डः ।
[[૨૦૦]]
ऋतुनिवृत्तिसिद्धेश्च पुरुषार्थो द्रव्यार्जनोपायनियम इति सिद्धान्तं चाभिधाय पूर्वपक्षे नियमातिक्रमात् क्रतोर्वैगुण्यं न पुरुषः प्रत्यवैति इति योजनम्, सिद्धान्ते तु पुरुषः नियमातिक्रमात्प्रत्यवायं प्राप्नोति न क्रतोर्वैगुण्यमिति च प्रयोजनमभिहितम् ; तदिदं सर्वमनुपपन्नं स्यात् । स्वत्वस्य शास्त्रकसमधिगम्यत्वं वदता याजनादिशास्त्रेणैव स्वत्व - स्यावगम इति वक्तव्यम् । तेन च नियतोपायैरेव आर्जि- तद्रव्येषु स्वत्वावगमेन अन्योपायसाध्ये द्रव्ये स्वत्वाभावेन तादृशद्रव्यार्जन प्रयुक्तप्रत्यवायस्य ऋतुवैगुण्यस्य चाप्रसक्तेः न चैवं चोरापहृतद्रव्येऽपि चोरस्वत्वं स्यादिति वाच्यम् । चौर्यस्य लोकतोऽपि वत्वसाधनत्वे वित्रादात्। न हि चौ- र्येण समानीतं द्रव्यं चोरस्वमिति लौकिका अपि व्यवहर- न्ति । प्रत्युत चौर्यनिश्चये पुनरपि राज्ञा दापनीयत्वावगमात् । तथा च गौतमः - चोरहृतमुपावित्य यथास्थानं गमयेत् कोशाद्वा दद्यादिति । अविहितोपायसाध्ये च द्रव्ये स्वङ्गीकृत्यैव क्रयविक्रयादिना व्यवहरन्ति । निय- मातिक्रमात्पुरुषः परं प्रत्यवायं प्राप्नोतीति अतः स्वत्वस्य
**
धर्माकूते
लौकिकत्वमुपपन्नमेवेति । यदुक्तं लौकिकत्वे स्वत्वस्या स्वत्वप्रतिपादक सूत्रवैयर्थ्यमिति तदपि न मन्दबुद्धीनां व्यामोहनिराकरणार्थं न तु अप्राप्तस्वत्वविधानार्थमिति न सूनवैयर्थ्यशंका । यदपि चोरं याजकस्येत्यादि तदपि न द्रव्यस्यान्यदीयतया चोरस्य स्वतानिष्पत्तौ तेन त्यक्तु- मशक्यतया तद्याजने प्रायश्चित्तं तद्द्रव्यपरिग्रहे चोरत्वं च भवत्येवेति चौर्यार्जितं द्रव्यं चोरस्वं न भवतीत्यनेनैव मदीयस्वमनेनापहृतमिति व्यवहारोऽप्युपपन्न एव । यदपि मदीयमन्यदीयं वेति संदेहो न स्यादिति तदपि न, उपाय- संदेहेन तत्संदेहोपपत्तेः । तस्मात्स्वत्वं लौकिकप्रमाणग- म्यमेव । एतादृशमपि स्वत्वं किमुत्पत्तिप्रभृति उत विभा- गादिनेति संदेहः । तत्तत्पूर्वपक्षः । विभागेनैव स्वत्वम् । अन्यथा जातपुत्रस्य आधानविधानं न स्यात् । उत्पन्न- पुत्रसाधारणत्वात् द्रव्यस्य । न च पुत्रानुमत्या अधिकारः संभवतीति वाच्यम्, तथा सति विभागात् प्राक् सर्वानुम तिपूर्वकं पितृप्रसादलब्धस्याशौर्यभार्याधने चोभयं यश्च वि- द्याधनं लभेत् त्रीण्येतान्यपि भाज्यानि । प्रस्रादो यस्य पैतृ-अयोध्याकाण्डः ।
२८९.
क इति वचनावगत विभागप्रतिषेधोऽनुपपन्नः स्यात् । पित्रा दत्ते धने विभागाप्राप्तेः । अपि च भर्त्रा प्रीतेन यद्दतं स्त्रियै तस्मिन् मृतेऽपि तत् । सा यथाकाममभीयात् दद्याद्वा स्थावरादृते इति वचनागतभर्तृकृतप्रीतिदानमप्यु- पपन्नं स्यात् । पुत्रादिसाधारणस्य द्रव्यस्य दानाखंभ- वात् । तस्मान्न जन्मना स्वत्वं किं तु विभागेनैव । न चैवं विभागात् प्राक् पितुरूर्ध्व चौरादिभिः हियमाणं द्रव्यं केनचिन्निवार्यते पितुर्द्रव्यस्वामिनोऽभावात् । पु- त्राणां च विद्यमानानामपि विभागाभावेन स्वत्वानि - पस्या स्वामित्वाभावात् । किं च एकस्य पुत्रस्य पितु- रू स्वत्वं न स्यात् तत्प्रापक विभागाभावात् । न चेष्टापत्तिः । तन्मूलकक्रय विक्रयादिसकलव्यवहारविलोप- प्रसङ्गात् इति वाच्यम् । विभागवत् पित्रानन्तर्यस्यापि स्वत्वप्रापकत्वात् । तस्मान्न जन्मना स्वत्वम् । किं तु पितुरभावाद्विभागाद्वा स्वत्वम् इति । सिद्धान्तस्तु स्वत्वं लौकिकप्रमाणगम्यं न वैदिकमिति प्रतिपादितम् । तच्च उत्पस्त्यावगम्यते पुत्रजन्मसमनन्तरमेव द्रव्यस्वामी उत्पन्न
धर्माकूते
-इति व्यवहारात् उत्पत्यैवार्थस्वामित्वं लभते इत्याचार्या इति गौतमवचनाच । न च उत्पत्तितः स्वत्वाङ्गीकारे विभागशास्त्रानर्थक्यप्रसङ्ग इति वाच्यम् । तस्य पुत्रादिषु समुदायद्रव्यनिरूपितस्वामित्वानाम् एकदेशे व्यवस्थाप- नार्थत्वेन वैयर्थ्याभावात् । यदुक्तमर्थसाध्याधानादिषु जातपुत्रस्य अधिकारो न स्यादिति, तन्न तत्र वि वानवलादेव साधारणद्रव्य साध्याधानादिषु अधिकार- संभवात् । यथा राजसूये विधानबलादन्यदीयमेव द्रव्यं दक्षिणात्वेन न दीयते । तथा चापस्तम्बः – ‘बाई- -स्पत्यं चरुमिति द्वादशान्वहं रनिनां हवींषि यस्य गृहे निर्वपति तत इष्टिपरिवेषं दक्षिणा च’ । अस्य चायमर्थः - बार्हस्पत्यं चरुं निर्वपति ब्रह्मणो ग्रह इत्यादिवाक्यैः रनिनां हवींषि ब्राह्मणे राजन्यपि गृहेषु कर्तव्यत्वेन विहितानि तेषां च तत इष्टिपरिवेषं दक्षिणा चेति तत्तद्गृह- - स्वामिघनादेव दक्षिणादानं ब्राह्मणसंतर्पणं च कर्तव्यम् इति । तथा च स एवान्यत्र - वैष्णवं विकपालं त्रयोदश तक्षरथकारयोर्गृहे सर्वासानि दक्षिणा तक्ष्णो रथकारस्य
अयोध्याकाण्डः ।
[[१९१]]
वेति । यच पितृप्रसादलब्धानां विभागप्रतिषेधानुपपत्ति- रिति तदपि न । समवेतैस्तु प्रत्यासं सर्वे तत्र समांशिन इति वचनेन अविभक्तानां भ्रातृसंपादितधनान्तरवत्पितृ- प्रसादन्धस्यापि भ्रातृसंपादिततया विभागप्रसक्तौ तत्प्र- तिषेधसंभवात् । यत्तु ‘मत्र प्रीतेन यदत्तं खियै तस्मिन्मृतेऽपि तत्’ इत्यादिवचनावगतप्रीतिदानमनुपपन्नं स्यादिति । तदपि न । उत्पत्तितः स्वत्वेऽपि पुत्रसंमत्या प्रीतिदान संभवात् पुत्रसंमत्यपेक्षणमपि न सर्वत्र ; किंतु स्थावरादिविषय एत्र ‘मणिमुक्ताप्रवालानां सर्वस्यैव पिता प्रभुः । पितृप्रसादाद्भुज्यन्ते वखाण्याभरणानि च ’ दिवचनैः चरेषु स्वातन्त्र्यावगमात् तदपि स्वातन्त्र्यं स्वा- ‘र्जितमणिमुक्ताप्रवालादिविषयं पितामहार्जितमणिमुक्ता- प्रवालादिषु तु स्वातन्त्र्यं पितृपुत्रयोः सममेव । तथा च याज्ञवल्क्यः – ’ भार्यापितामहोपात्ता निबन्धो द्रव्य- मेव च । तत्र स्यात्सदृशं साम्यं पितुः पुत्रस्य चैव हि ॥’ अस्य चायमर्थः – भूः शालिक्षेत्रादिका निबन्धः क्रमुक- पर्णादि भारः द्रव्यं रजतसुवर्णादि एतेषु अनार्जकत्वा-
इत्या -
v
धर्माकूते
विशेषात् स्वामित्वं सममेव । स्थावरे तु पिवार्जिते पितामहार्जिते च पितुः पितामहस्य वा स्वातन्त्र्यं पुत्र-
संमतिसापेक्षमेव । तथा च याज्ञवल्क्यः – ‘स्थावरं
। द्विपदं चैव यद्यपि स्वयमार्जितम् । असंभूय सुतान्स- वन दानं न च विक्रयः ॥ ’ ’ ये जाता येऽप्यजाताश्च ये च गर्भे व्यवस्थिताः । वृत्तिं च तेऽभिकाङ्क्षन्ति न दानं न च विक्रयः ॥’ अस्य चापवादः- एको Sपि स्थावरे कुर्याद्दानाधमनविक्रयम् । आपत्काले कुटु- स्वार्थे धर्मार्थ व विशेषतः ॥’ इति । अस्यार्थः – अप्राप्तव्यवहारेषु पुत्रेषु पौत्रेषु च अनुज्ञादानादावसमर्थेषु भ्रातृषु वा तथाविधेष्वविभक्तेष्वपि सकलकुटुम्ब - व्यापिन्यामापदि तत्पोषणेऽवश्यकर्तव्येषु च पितृश्राद्धा- दिषु स्थावरस्य दानाधमनविक्रयमेकोऽपि कुर्यादिति । तस्मात्स्थावरेषु पित्रा व्यवहारक्षमपुत्रा दिसंमत्यैव क्रय- विक्रयादिव्यवहारः । चरेषु तु न संमत्यपेक्षा । अतो भर्तृकृतप्रीतिदानमुत्पत्तिप्रभृति स्वत्वेऽप्युपपन्नमेवेति सि- द्वमौत्पत्तिकं स्वत्वम् । न चैवं जीवतोः स्वतन्त्रः स्यात् ।
अयोध्याकाण्डः ।
[[२९३]]
भार्या
पुत्रश्च दासव तय एतेऽधनाः स्मृताः’ इत्यादि- वचनविरोधः । तस्य वचनस्य उत्पत्तिप्रभृति स्वामित्वे
[[1]]
पित्राज्ञया विना पुत्रादिना न व्यवहर्तव्यमित्येवं परत्वात् एवं च रामस्य उत्पत्तिप्रभृतिसकलद्रव्यस्वामित्वमस्त्येव तत्र साधारणद्रव्येषु व्यवहारार्थतया पित्राज्ञा अपेक्षिता । पितृप्रसादादिलब्धधनेषु तु स्वातन्त्र्यमप्यस्त्येव अत एव पितृप्रसादादिलब्धधनस्य अविभाज्यत्वमाह याज्ञवल्क्यः -‘पितृभ्यां यस्य यद्दत्तं तत्तस्यैव धनं भवेत्’ इति । मनुरपि– ‘पितृद्रव्याविरोधेन यदन्यत्स्वयमार्जितम् । मैत्रौद्वाहिकं चैव मधुपर्किकमेव च ॥ अनुपन्नन्पितृद्रव्यं श्रमेण यदुपार्जयेत् । स्वयं मे हितलब्धं तं नाकामो दातुमर्हति ॥ ’ इति । भारतेऽपि पितरि धृतराष्ट्रे जीवति दुर्योधनादीनां बहुरत्नधनवस्त्रादिकमसाधारण्येन यत्स्थितं तच धर्मपुत्रराज्याभिषेकानन्तरं भीमादीनामसाधारण्येन युधिष्ठिरेण दत्तमिति प्रतिपादितम् । राजधर्मे ’ ततो दुर्योधनगृहं प्रासादैरुपशोभितम् । बहुरत्नसमाकीर्णे दा- श्रीदाससमाकुलम् ॥ धृतराष्ट्राभ्यनुज्ञातो भ्रातृदतं वृको-
[[२९४]]
धर्माांकृते
I
दरः । प्रतिपेदे महाबाहुर्मन्दरं मघवानिव । यथा दुबों- धनगृहं तथा दुःशासनस्य तु । प्रासादमाला संयुक्तं हेम- वोरणसंयुतम् ॥ दासीदाससुखंपूर्ण प्रभूतधनधान्यवत् । प्रतिपेदे महाबाहुरर्जुनो राजशासनात् ॥ दुर्मर्षणस्य भवनं दुःशासनगृहाद्वरम् । कुबेरभवनप्रख्यं मणिहेमवि- भूषितम् ॥ नकुलाय महार्हाय कर्शिताय महाहवे । ददौ प्रीत्या महाबाहुर्धर्मसूनुर्युधिष्ठिरः । दुर्मुखस्य च वेश्माग्र्यं श्रीमत्कनकभूषितम् । पूर्ण पद्मदलाक्षीणां स्त्रीणां शयनसं- कुलम् ॥ प्रददौ सहदेवाय सततं प्रियकारिणे । मुमुदे तच लब्ध्वा व कैलासं धनदो यथा ॥’ तथा दानार्थतया धृत- राष्ट्रेण द्रव्ययाचनाय प्रेषितं विदुरं प्रति धर्मपुत्रवाक्यम् ’ यन्ममास्ति धनं किंचिदर्जुनस्य च वेश्मनि । तस्य स्वामी महाराजा इति वाच्यः स पार्थिवः ’ इति। अने- नापि अर्जुनस्यासाधारणं द्रव्यमवगम्यते । अतः श्रीरामकृत- दानादिकं युक्तमेव ॥ द्वात्रिंशे – ततो गुरुपुत्रं सुयज्ञमा - नीय विविधभूषणगणैः स्वयमभिपूज्य तत्पत्न्यै सीता- हस्ताद्विविबहा रहे मसूलपर्यङ्कास्तरणादिकं दापयित्वा राजा
॥
अयोध्याकाण्डः ।
[[२९५]]
गजसहस्रपरिवृतं शत्रुंजयनामानं गजराजं तस्मै दत्त- वान् । सुयशोऽपि तत्कृतां पूजामभि रामलक्ष्मण सीतानां प्रयुयोजाशिषः शिवाः । ततो लक्ष्मणोऽपि रामभद्राभ्य- तुझ्या अगस्त्यकौशिकावपि समानीय गोसहस्रेण उत्तम- वस्त्रसुवर्णरजतैश्च पूजयामास ।
[[1]]
स चापि रामः प्रतिपूर्ण पौरुषो महद्धनं धर्मबलैरुपार्जितम् । नियोजयामास सुहृज्जनेऽचिरा-
द्यथार्ह संमानवचः प्रचोदितः ॥
द्विजः सुहनृत्यजनोऽथ वा तदा
दरिद्र भिक्षाचरणश्च योऽभवत् । न तत्र कश्चिन्न बभूव तर्पितो
यथार्हसंमाननदानसंभ्रमैः ॥
अत्र यथाईमिति विशेषणेन उत्कृष्टस्य निकृष्टपूजा निक्कष्टस्य वा उत्कृष्टपूजा न कर्तव्येति सूचितम् । तथा च गौतमः – ‘समासमाभ्यां विषमसमे पूजातः’ इति । अस्यार्थः- कुलशीलविद्यादिभिस्तुल्यः समः आसना-
[[२९६]]
धर्माकृते
शनपरिचरणात्मिकायां पूजायां समेन वैषम्यप्रवक्तौ असमेन वा साम्यप्रसक्तौ तदन्नं न भोक्तव्यमिति । स एवान्यत्र ’ शय्यासनावसथ अनुब्रज्योपासनानि सह- श्रेयसोः समानि अल्पशोऽपि हीनः’ इति । मनुरपि ‘आसनावसथौ शय्यामनुब्रज्यामुपासनम् । उत्तमेषूत्तमं
। कुर्याद्धीने हीनं समे समम् ॥’ इति । ततः समागता- ब्राह्मणांस्तदभीष्टप्रदानेन परिपूर्णमनोरथान्विधाय तैय कृतस्वस्त्ययनः दशरथदर्शनाय स्वभवनान्निर्जगाम । अनेन सर्वैरपि यावासमये ब्राह्मणे गोहिरण्यादि दत्त्वा तदाशिषः परिग्राह्या इति सूचितम् । तथा च उद्योगप वणि पाण्डवैर्यात्रादानं कृतमित्यवगम्यते– ‘स्कन्धावारेण महता प्रययुः पाण्डुनन्दनाः । ददतो गोहिरण्यं च ब्राह्मणैरभिपूजिताः’ इति । तत्रैव परशुरामं प्रति भीष्माभियाने ’ ततः कृतः स्वस्त्ययनो मात्रा यं प्रति नन्दितः । द्विजातीन्वाध्य पुण्याहं स्वस्ति चैव महा- द्युते’ इति ॥ श्रयस्त्रिंशे – ततः पितुर्दर्शनाय स्वभवनानि - गम्य राजमार्गे पादचारेण गच्छन्,
अयोध्याकाण्डः ।
यं यातमनुयाति स्म चतुरङ्गबलं महत् । तमेकं सीतया सार्धमनुवाति स्म लक्ष्मणः ॥ या न शक्या पुरा द्रष्टुं भूतैराकाशगैरपि । तामद्य सीतां पश्यन्ति राजमार्गगता जनाः ॥ गच्छन्तमनुगच्छामो येन गच्छति राघवः । अस्माभिश्च परित्यक्तं पुरं संपद्यतां वनम् ॥ वनं नगरमेवास्तु येन गच्छति राघवः ।
સ
इति पौरजनोदीरितवचनमाकर्ण्यापि अविचलित- हृदय रामभद्रः दशरथभवनमागम्य राज्ञः स्वागमन- वृत्तान्तनिवेदनाय सुमन्त्रं प्रेषयामास । चतुखिशे, ततो वनगमनकृतनिश्चयं स्वसंदर्शनसमुत्सुकं रामभद्रं सुम- न्त्रमुखाद्वगत्य सकलावरोधजनपरिवृत उवाच राजा तं सुमन्त्रम् आनय मे सुतम् इति । ततः सुमन्त्रवचना- ड्राजभवनं प्रविशन् लक्ष्मणेन सीतया चानुगम्यमानो रामभद्रः प्रेमातिशयेन स्वसमीपमभिद्रवन्तं मध्ये भूमौ सूर्च्छया पतितं पितरं पर्यङ्के समुपवेश्य,
अनुजानीहि सर्वान्नः शोकमुत्सृज्य मानद ।
D. Pt. IV - 7
[[૧૮]]
धर्माकूते
लक्ष्मणं मां व सीतां च ’
इत्यनेन त्रयाणामपि अनुज्ञाप्रार्थनमवगम्यते, तदनुपप- न्नम् । रामलक्ष्मणयोरुभयोरेव पित्रधीनत्वेन तदाज्ञापेक्षा- यामपि भीनायाः सीताया दशरथानुज्ञां विनापि वन- गमनसंभवादिति चेत्, न, सीतायाः भर्तृधीनत्वेऽपि स्वस्य पित्रधीनतया स्वकर्तव्यम् अन्यथा प्रत्यवायो भवेदित्यभिप्रायेणैव वनं प्रति सीतां नेतुं विज्ञापनपूर्व- कमनुज्ञाग्रहणसंभवात् । तथा च मनुः ‘तेषामनुपरोधेन पारक्यं यद्यदाचरेत् । तत्तन्निवेदयेत्तेभ्यो मनोवचनक- मभिः ।’ इति । आनुशासनिके विपुलोपाख्यानेऽपि गुर्वनुज्ञया गुरुभार्या रक्षितवतः शिष्यस्य रक्षणप्रकारा- निवेदनमात्रेण दोषमाह गुरुः ’ तथैव हि भवेयुस्ते लोकाः पापकृतो यथा । कृत्वानाचक्षतः कर्म मम तच यथा- कृतम् ॥ ते त्वां हर्षस्मितं दृष्ट्रा गुरोः कर्मानिवेदकम् । स्मारयन्तस्तथा प्राहुस्ते यथा श्रुतवान्भवान् ॥’ इति । संतो राजा रामभद्रमेवमब्रवीत् -
अहं राघव कैकेय्या वरदानेन मोहितः ।अयोध्याकाण्डः ।
[[२९९]]
अयोध्यायास्त्वमेवाद्य भव राजा निगृह्य माम् ॥ इति । अत्र यद्यपि भव राजा निगृह्य मामितिवचनावगतं तनिग्रहपूर्वकं स्वस्थ राज्येऽभिषेचनमपि पिश्राज्ञप्तमिति वनगमनवत्तदपि अवश्यं कर्तव्यमिति प्रतीयते, तथापि वने गच्छतः पुत्रस्य भूयान्क्लेशो भविष्यतीति विचिन्त्य स्नेहवशात्तथोक्तवान् न तात्पर्येण; अत एव समनन्त- रमेव दशरथवचनम् ।
न हि सत्यात्मनस्तात धर्माभिमनसस्तव ! विनिवर्तयितुं बुद्धिः शक्यते रघुनन्दन ॥ श्रेयसे वृद्धये तात पुनरागमनाय च । गच्छस्वारिष्टमव्यग्रः पन्थानमकुतोभयम् ॥ छनया चलितस्त्वस्मि स्त्रिया च्छन्नाग्निकल्पया । वञ्चना या तु लब्धा मे तां त्वं निस्तर्तुमिच्छसि ॥ न चैतदाश्वर्यतमं यस्त्वं ज्येष्ठसुतो मम । अपानृतकथं पुत्र पितरं कर्तुमिच्छसि ॥ अत एव च युद्धकाण्डेऽपि –
तारितोऽहं त्वया पुत्र सुपुत्रेण महात्मना ।
[[३००]]
धर्माकूते
अष्टावक्रेण धर्मात्मा तारितो ब्राह्मणो यथा ॥
इति वनगमनमेवाभ्यनुजानाति । ततः कैकेबीप्रेरि
। तेन राज्ञानुज्ञातो रामभद्रः,
त्वामहं सत्यमिच्छामि नानृतं पुरुषर्षभ । प्रत्यक्षं तव सत्येन सुकृतेन च ते शपे ॥ पिता हि दैवतं तात देवतानामपि स्मृतम् । तस्माद्दैवतमित्येव करिष्यामि पितुर्वचः ॥
पुरं च राष्ट्रं च महीं सकाननां
मया विसृष्टा भरताय दीयताम् । अहं निदेशं भवतोऽनुपालयन्
वनं गमिष्यामि चिराय सेवितुम् ॥ मयातिसृष्टां भरतो महीमिमां
सशैलखण्ड सपुरां सकाननाम् । शिवां सुसीमामनुशास्तु केवलां
त्वया यदुक्तं नृपते तथास्तु तत् ॥
इत्यवदत् । अत्र यद्यपि स्वतन्त्रस्य पितुः पुत्राभ्य- नुज्ञां विनापि राज्यप्रदानेऽधिकारोऽस्तीति मया निसृष्टे-
अयोध्याकाण्डः ।
ति कृतमभ्यनुज्ञानमसंगतम् । तथापि ‘मणिमुक्ताप्रचा- लानां सर्वस्यैव पिता प्रभुः । स्थावरस्य तु सर्वस्य न पित्ता न पितामहः’ इति वचनेन स्थावरे राज्यादौ पुत्रसंमत्यैव स्वातन्त्र्यावगमेन पुत्रासंमतिप्रयुक्तदोषपरिहाराय कुल- परम्पराप्राप्तज्येष्ठपुत्राभिषेचननियतिक्रम दोषपरिहाराय पू- युः कृतराज्यप्रदानप्रतिज्ञाभङ्गदोषपरिहाराय च रामेण कृतं मया निसृष्टेत्यभ्यनुज्ञानं युक्तमेव । पञ्चत्रिंशे— ततः कोपसंरक्तनयनः सुमन्त्रः कैकेयीहृदयभेदनमिद-
मभाषत ।
न कार्यतमं किंचित्तव देवीह विद्यते । पतिनीं त्वामहं मन्ये कुलघ्नीमपि चान्ततः ॥
अत्र सुमन्त्रः अकृतभर्तृवधां कैकेयीं ‘पतिनीं मन्ये’ इति कथमुक्तवानिति चेत् न । गुरुभूतपत्यधिक्षेपादि- लक्षणपतिवधकर्तृत्वेन पतिनीत्ववर्णनोपपत्तेः । पत्युर्गु- रुत्वं च वृद्धमनुना उक्तम् ‘अग्भिर्गुरुर्द्विजातीनां वर्णानां ब्राह्मणो गुरुः । पतिरेको गुरुः स्त्रीणां सर्वस्याभ्यागतो गुरुः’ इति । आश्वमेधिकेऽपि वक्त प्रस्थोपाख्याने श्वशुरं
[[३०२]]
धर्माकूते
प्रति खुषावाक्यम्- ‘गुरोर्मम गुरुस्त्वं वै यतो देवत- देवतः । देवातिदेवस्तस्मात्वं खक्तूनादस्व मे प्रभो ॥ ’ इति । गुर्वधिक्षेपण गुरुवधत्वं कर्णपर्वणि अर्जुनं प्रति भगवतोक्तम् – ’ त्वमित्युक्तस्तु निहतो गुरुर्भवति भारत । गुरुणाnaurat हि वध इत्यभिधीयते ॥ अथर्वाङ्गिरखी षा श्रुतिरेषा सनातनी ।’ इति । तस्मात्कैकेय्याः सुम- न्त्रोक्तं पतिनीत्वमुपपन्नम् ।
मावमंस्था दशरथं भर्तारं वरदं पतिम् । भर्तुरिच्छा हि नारीणां पुत्रकोट्या विशिष्यते ॥ न च ते विषये कश्विद्राह्मणो वस्तुमर्हति । arei त्वमर्यादमद्य कर्म चिकीर्षसि ॥
अनेन यत्र धर्मविgat जायते तत्र वाखो न कर्तव्य इति सूचितम् । तथा च मोक्षधर्मे - ’ चतुर्णा यत्र वर्णानां धर्मव्यतिकरो भवेत् । न तत्र वासं कुर्वीत श्रेयोर्थी वै कथंचन । यत्र संलोलिता लुब्बैः प्रायशो धर्मसेतवः । प्रदीप्तमित्र चेलान्तं कस्तं देशं न संत्यजेत् ॥ कर्मणा यत्र पापेन वर्तन्ते जीवितेप्सवः । व्यवधावेत्ततस्तूर्णं स- सर्पाच्हरणादिव । ’
अयोध्याकाण्डः ।
[[३०३]]
आभिजात्यं हि ते मन्ये यथा मातुस्तथैव च । .
पुरा खलु महर्षिदत्तवर महिना तिर्यक्कूजितादिभाषा- भिज्ञं तव पितरं स्वशयने संचरन्त्याः जृम्भिकायाः शब्दश्रवणेन बहुधा हसन्वं तब मात्रा हालकारणे पृष्ठे एतदाख्याने स्वस्य मरणं भवेदिति प्रतिषेधं कुर्वन्,
शंस मे जीव वा मा वा न मामपहसिष्यसि ।
इति निर्दयमवदत् ।
तथा त्वमपि राजानं दुर्जनाचरिते पथि । अग्राहमिमं मोहात्कुरुषे पापदर्शिनि ॥
सत्यश्चायं प्रवादोऽयं लौकिकः प्रतिभाति मे । पितृम्समनुजायन्ते नरा मातरमङ्गनाः ॥
अत्र मातुः समानगुणा कन्यकेत्ययमर्थः कैकेयी- चारित्रमुदाहरता सुमन्त्रेण स्पष्टीकृतः । ‘पितृन्समनुजा- यन्ते’ इत्ययमर्थस्तु,
नादन्तां महीं पित्रा भरतः शास्तुमर्हति । स्वयि वा पुत्रवद्वस्तुं यदि जातो महीपतेः ॥
[[३०४]]
धर्माते
यद्यपि त्वं क्षितितलागगनं चोत्पतिष्यसि । पितृवंशचरित्रशः सोऽन्यथा न करिष्यति ॥ इति भरतगुणानुदाहरता वसिष्टेन च स्पष्टीकृतः । तदलमसन्मार्गानुसारेण रामाभिषेकानुज्ञया भर्तारं स- त्यप्रतिज्ञं विधाय सर्वानप्यस्मान्विगतज्वरान्विधेहीत्येव- मादिसुमन्त्रकृत विविध निर्भर्त्सनमविगणय्य अविचलित- हृदया बभूव । षटूत्रिंशे – ततः सकोशेन चतुरङ्गबलेनानु- गम्यमानो रामभद्रः,
यजम्पुण्येषु देशेषु विसृजंश्वाप्तदक्षिणाः । ऋषिभिश्च समागम्य प्रवत्स्यति सुखं चने ॥ भरतश्च महाबाहुरयोध्यां पालयिष्यति ।
इति राज्ञा दशरथेन समुदीरितं वचनमाकर्ण्य कोप-
वशेन,
राज्यं गतजनं साधो पीतभाण्डां सुरामिव । निरास्वाद्यतमं शून्यं भरतो नाभिपत्स्यते ॥ तवैव वंशे सगरो ज्येष्ठं पुत्रमुपारुधत् । असमञ्ज इति ख्यातं तथायं गन्तुमईसि ॥
अयोध्याकाण्डः ।
[[३०५]]
इति मुक्तामभिदधानां कैकेयीं सिद्धार्थो महामात्रः समभाषत । क्रीडतो बालकानम्भसि परिक्षिपतोऽसम- “अस्य परित्यागः सकलजनहितकर एव, सकललोकदया- परं निरस्त समस्तदोषं रामभद्रं केन कारणेन वनं प्रेष- यितुमिच्छसि ।
अदुष्टस्य हि संत्यागः सत्पथे निरतस्य च । निर्दहेदपि शक्रस्य द्युतिं धर्मनिरोधनात् ॥
तदलमनेनासदारम्भेण इति । सप्तत्रिंशदारभ्य चत्वा- रिंशत्पर्यन्तम् सिद्धार्थवचनमाकर्ण्य राज्यं परित्यज्य वने वन्येन जीवतो मम किमनेन चतुरङ्गबलेन कोशेन वा समानीयतां खनित्र पिठरचीराणि इति वदन्तं रामभद्रं निरपत्रपा कैकेयी पूर्वमेव संभृतानि चीराण्यानीय परि- वत्स्वेति समभाषत । तद्दत्तानि चीराणि स्वयं परिधाय तत्परिधानप्रकारानभिज्ञायाः सीतायाः तत्प्रदर्शनाय कौशेयोपरि रचितबन्धं तं रामभद्रं प्रतिषिष्य सुकु- मारी राजकुमारी कठिनतरचीरपरिधानानभिज्ञा, नेयं वन-
[[३०६]]
धर्माकूते
वासाय वृत्ता, अतः मृदुतरवसनभूषणगणभूषितैव वनम- भिगन्तुमईतीति वसिष्ठः समभाषत । ततः,
राजा सत्वरमाहूय व्यापृतं वित्तसंचये । उवाच देशकालशो निश्चितं सर्वतः शुचिम् ॥ अनेन कोशाधिकारे शुचिरेव नियोक्तव्य इति सूचितम् । तथा च राजधर्मे- ‘कोशाख्यपटलं यस्य कोशवृद्धिपरैर्नरः । अतैः शुद्धैश्व सततं चीयते स नृपोत्तम ॥ ’ इति ।
वासांसि च महार्हाणि भूषणानि वराणि च । वर्षाण्येतानि संख्याय वैदेह्याः क्षिप्रमानय ॥
ततस्तदानीतैः,
भूषयामास गात्राणि तैर्विचित्रैर्विभूषणैः ।
व्यराजयत वैदेही वेश्म तत्तु विभूषिता ॥
ननु रामेण चीरे धृते कौशेयादिकं सीता कथं धृत- वती, पन्याः पतिसमानव्रतचारित्वस्य धर्म्यत्वात् ।
तस्मिंस्तथा जल्पति विप्रमुख्ये
गुरौ नृपस्याप्रतिमप्रभावे ।
भयोध्याकाण्डः ।
[[३०७]]
t
नैव स्म सीता विनिवृत्तभावा
प्रियस्य भर्तुः प्रतिकारकामा ॥
इति वचनेन,
बबन्ध वै तथा चीरं सीतया तुल्यशलिया ।
इत्यनेन च सीतायाः भर्तृकृतानुकरणस्य संतत्वाव- गमाच समानव्रतचारित्वं च । तथा चारण्यके पर्वणि-
प्राप्य भार्यामस्त्यस्तु लोपामुद्रामुवाच छ । महाहण्यु- त्सृजैतानि वासांस्याभरणानि च । ततः सा दर्शनीयानि महार्हाणि तनूनि च । समुत्सर्ज रम्भोरुर्वसनान्याय- तेक्षणा ॥ ततश्वीराणि जग्राह वल्कलान्यजिनानि च । समानत्रतचर्या च बभूवायतलोचना । इति । महा- प्रस्थानिकेऽपि ततः स राजा कौल्यो धर्मपुत्रो युधिष्ठिरः । उत्सृज्याभरणान्यङ्गाज्जगृहे वल्कलानि च ॥ भीमार्जुनयमाश्चैव द्रौपदी च यशस्विनी । तथैव जगृहुः सर्वे वल्कलानि नराधिप ॥’ इति । साकियुपाख्याने - ‘द सोऽश्वपतिः कन्यां यथार्ह सपरिच्छदम् । ययौ स्वमेव भवनं संयुक्तः परया मुदा ॥ गते पितरि संन्यस्य
[[३०८]]
धर्माकूते
सर्वाण्याभरणानि सा । जगृहे वल्कलान्येव वस्त्रं काषा- यमेव च ॥’ इति । अतः कौशेयादिधारणमयुक्तमिति चेत् सत्यम, भर्त्रभिप्रायानुसारेण कृतम्। भर्त्रभिप्रायश्च,
अथेोत्तमान्याभरणानि देवि
देहि स्नुषायै व्यपनीय चीरम् । एकस्य रामस्य वने निवास-
स्त्वया वृतः केकयराजपुत्रि ॥ विभूषितेयं प्रतिकर्मनित्या
वसत्वरण्ये सह राघवेण । वस्त्रैश्च सर्वैः सहितैर्विधानै- यं वृता ते बरसंप्रदाने ॥
इति वसिष्ठवचनम् ।
चीराण्यपास्याज्जनकस्य कन्या नेयं प्रतिशा मम दत्तपूर्वा
[[1]]
वासांसि च महार्हाणि भूषणानि वराणि च । वर्षाण्येतानि संख्याय वैदेह्याः क्षिप्रमानय ॥
इति दशरथवचनं च परिपालयता रामेण प्रतिषे- वात् । भग्रेअयोध्याकाण्डः ।
*
तथा तु भूषितां सीतां ददर्श ददतां वरः । राघवः प्रीतिदानेन तपस्विन्या जहर्ष च ॥ इति अनसूयादन्तवसनाभरणाङ्गरागादिना समलं- कृतां सीतामवलोक्य हर्षप्रकटनात् युद्धकाण्डे रावण- वध समनन्तरम्,
दिव्याङ्गरागां वैदेहीं दिव्याभरणभूषिताम् । इह सीतां चिरस्नातामुपस्थापय मा चिरम् ॥
इति विभीषणं प्रति श्रीरामवचनाच्चावगम्यते । अतः सीताकृतं कौशेयकादिधारणं युक्तमेव । अथ कौसल्यां विचित्राभरणभूषिताम् उद्यतोंशुमतः प्रभामिव विरा- जमानां वनवासाय कृतनिश्वयां सीतां सादरं परिष्वज्य मूर्ध्नि चोपाघ्रायैवमुपदिदेश ।
असत्यः सर्वलोकेऽस्मिन्सततं सत्कृताः प्रियैः । भर्तारं नानुमन्यन्ते विनिपातगतं स्त्रियः ॥ एष स्वभावो नारीणामनुभूय पुरा सुखम् । अल्पामप्यापदं प्राप्य दुष्यन्ति प्रजहन्त्यपि च ॥
न कुलं न कृतं विद्यां न दत्तं नापि संग्रहम् ।
[[३१०]]
धर्माकूते
स्त्रीणां गृह्णाति हृदयमनित्यहृदया हि ताः ॥ साध्वीनां हि स्थितानां तु सत्ये शीले श्रुते दमे । स्त्रीणां पवित्रं परमं पतिरेको विशिष्यते ॥ सत्वया नावमन्तव्यः पुत्रः प्रत्राजितो मम । तव दैवतमस्त्येष निर्धनः सधनोऽपि वा ॥
इति । ततः,
करिष्ये सर्वमेवाहमार्या यदनुशास्ति माम् । न मामसज्जनेनार्या समानयितुमर्हति ॥ धर्माद्विचलितुं नाहमलं चन्द्रादिव प्रभा । नाती वाद्यते वीणा नाचको वर्तते रथः ॥ नापतिः सुखमेधेत या स्यादपि शतात्मजा । मितं ददाति हि पिता मितं माता मितं सुतः ॥ अमितस्य हि दातारं भर्तारं का न पूजयेत् । इति सीतावचनश्रवण संजातहर्षा कौसल्या सर्वाश्व मातृरभिवाद्य,
संवासात्परुषं किंचिदज्ञानाद्वापि यत्कृतम् । तन्मे समनुजानीत सर्वाश्चामन्त्रयामि वः ॥
अयोध्याकाण्डः ।
[[३११]]
इति रामभद्रः प्रार्थितवान्,
अथ मातुः सुमित्राया जग्राह चरणौ पुनः तं वन्दमानं रुदती माता सौमित्रिमब्रवीत् ॥ सृष्टस्त्वं वनवासाय स्वनुरक्तः सुहृज्जने । रामे प्रमादं मा कार्षीः पुत्र भ्रातरि गच्छति ॥ व्यसनी वा समृद्धो वा गतिरेष तवानघ । एष लोके सतां धर्मों यज्ज्येष्ठवशगो भवेत् ॥ इदं हि वृत्तमुचितं कुलस्यास्य सनातनम् । दानं दीक्षा च यज्ञेषु तनुत्यागो मृधेषु च ॥ रामं दशरथं विद्धि मां विद्धि जनकात्मजाम् । अयोध्यामटवीं विद्धि गच्छ तात यथासुखम् ॥ इति सुमित्राभ्यनुज्ञातेन लक्ष्मणेन सीतया च सह रामभद्रो राजानं प्रदक्षिणपूर्वकमभिवाद्य खनित्रपिठरको- पेतविविधवस्त्राभरणखङ्गखेटकाद्यायुधसमलंकृतं सुमचा- नीतं सज्जं रथवरमास्थाय शोकाकुलपौरजनसमुदीरितानि तानि तानि वचनानि शृण्वन्नराजभवनानिर्ययौ । ततो
रामभद्रमनुव्रजन्तम्,
[[૧૨]]
यमिच्छेत्पुनरायान्तं नैनं दूरमनुब्रजेत् इत्यमात्या महाराजमूचुर्दशरथं वचः ॥
अथ रामगमन संजातशोकवशेन सर्वा एव राजमहिष्यः
करुणमेवं चुक्रुशुः ।
अनाथस्य जनस्यास्य दुर्बलस्य तपखिनः । यो गतिः शरणं चासीत्स नाथः क नु गच्छति
कौसल्यायां महातेजा यथा मातरि वर्तते । तथा यो वर्ततेऽस्मासु स महात्मा क गच्छति ॥ न क्रुत्यभिशप्तोऽपि क्रोधनीयानि वर्जयन् । कुद्धान्प्रसाधयन्सर्वान्समदुःखः क गच्छति ॥ द्विचत्वारिंशत्प्रभृति चतुश्चत्वारिंशत्पर्यन्तम्
ततो
V
राजा दशरथः सकलावरोध जनपरिवृतोऽनुव्रजन्नतिका- न्तलोचनपथं रामभद्रं विचिन्त्य शोकाकुलहृदयः प्रति- निवृत्य वामपार्श्वमवलम्बमानां कैकेयीमेवमवदत् – hha मा ममाङ्गानि स्प्राक्षीस्त्वं दुष्टचारिणि । न हि त्वां द्रष्टुमिच्छामि न भार्या न च बान्धवी ॥
अयोध्याकाण्डः ।
[[३३३]]
ये च त्वामुपजीवन्ति नाहं तेषां न ते मम । केवलार्थपरां हि त्वां त्यक्तधर्मी त्यजाम्यहम् ॥ अगृह्नां यच्च ते पाणिमग्निं पर्यणयं च यत् । अनुजानामि तत्सर्वमस्मिल्लोके परत्र च ॥ भरतश्चेत्प्रतीतः स्याद्राज्यं प्राप्येदमव्ययम् । यन्मे दद्यात्स पित्रर्थ मां मा तद्दत्तमन्वगात् ॥ इति तां परित्यज्य कौसल्यां सुमित्रां चावष्टभ्य कौ- सल्याभवनमाजगाम । तत्र च शयनीये निपत्य विवेष्ट- मानं राजानं पुत्रशोकसमाकुलं कौसल्या समभाषत ।
पातयित्वा तु कैकेय्या रामं स्थानाद्यथेष्टतः । प्रदिष्टो रक्षसां भागः पर्वणीवाहिताग्निना ॥
अत्र पर्वणि पर्वकालकर्तव्यं दर्शपूर्णमासादिषु तुषा- दिकं पुरोडाशीयेभ्यो व्रीह्मादिभ्यः प्रच्याव्य रक्षोभ्यो भागो नित्यं दीयते । तथा विध्यपराधे सति नैमित्तिकोऽपि रक्षसां भागो भवति । तथा चापस्तम्बः - ‘यस्य हविः शायति तं यज्ञं निर्ऋतिगृहाति’ इति । बोधायनोऽपि - ‘अप्रायश्चित्तिको यज्ञो ह्यसुरैः संप्रभुज्यते ’ इति । शाता-
D. Pt. IV-8
I
[[३१४]]
धर्माकूते
तपीयेनापि - ‘पर्वणो यञ्चतुर्थांश आधाः प्रतिपदखयः । यागकालः स विज्ञेयः प्रातरुतो मनीषिभिः ॥ इति यागकालमुक्त्वा अस्मात्कालाच्च्यावितस्य राक्षसत्वमु- कम्। ‘न यष्टव्यं चतुर्थेऽशे यागैः प्रतिपदः कचित् । रक्षांसि तद्विलुम्पन्ति श्रुतिरेषा सनातनी ॥’ इति ।
निःसंशयं मया मन्ये पुरा वीर कदर्यया । पातुकामेषु वत्सेषु मातृणां शातिताः स्तनाः ॥ अनेन दुग्धपानार्थ मात्रासंगतः किमुत स्तनच्छेदन- मिति प्रतिपादनेन वत्सानां स्तन्यपाने विघ्नो न कर्तव्यः इति सूचितम् । तथा च मनुः – ’ न वारयेद्रां धयन्ती
। न चाचक्षीत कस्यचित्’ इति । आपस्तम्बोऽपि — ‘संसृष्टां च वत्सेनानिमित्ते ’ इति ।
न हि मे जीविते किंचित्सामर्थ्यमिह कल्प्यते । अपश्यन्त्याः प्रियं पुत्रं महाबाहुं महाबलम् ॥ एवं सकरुणं विलपन्तीं कौसल्याम्,
इदं धर्मे स्थिता धर्म्य सुमित्रा वाक्यमब्रवीत् । रामो धर्मे स्थितः श्रेष्ठो न स शोच्यः कदाचन ॥
अयोध्याकाण्डः ।
[[३१५]]
वर्तते चोत्तमां वृतिं लक्ष्मणोऽस्मिन्सदानवः । अनुगच्छति वैदेही धर्मात्मानं तवात्मजम् ॥ कीर्तिभूतां पताकां यो लोके भ्रमयति प्रभुः । न हि रामात्परो लोके विद्यते सत्पथे स्थितः ॥ जहि शोकं च मोहं च देवि सत्यं ब्रवीमि ते । पुत्रस्ते वरदः क्षिप्रमयोध्यां पुनरागतः ॥ कराभ्यां मृदुपीनाभ्यां चरणौ पीडयिष्यति ।
अत्र जनन्या अभिवादनं चरणपीडनपूर्वकमेव कर्तव्य- मित्युक्तम् । एतच्चाभिवादनप्रकरणे लिखितम् । पश्चाच- त्वारिंशे - ततो रामभद्रोऽपि स्वमनुसरतः पौरजना - विविधोपायेनापि अशक्यनिवर्तनानवलोक्य,
उवाच रामः स्नेहेन ताः प्रजाः खाः प्रजा इव ।
या प्रीतिर्बहुमानश्च मय्ययोध्यानिवासिनः ॥ मत्प्रियार्थं विशेषेण भरते सा निवेश्यताम् । स हि कल्याणचारित्रः कैकेय्यानन्दवर्धनः । करिष्यति यथावद्वः प्रियाणि च हितानि च ॥
.-३१६
धर्माकूते
ज्ञानवृद्धो वयोबालो मृदुर्वीर्यगुणान्वितः । अनुरूपः स वो भर्ता भविष्यति भयापहः ॥ स हि राजगुणैर्युक्तो युवराजः समीक्षितः । न च तप्येद्यथा चासौ वनवासं गते मयि ॥ महाराजस्तथा कार्यों मम प्रियचिकीर्षया ।
[[1]]
अत्र भरताय राज्यं प्रदातुं कैकेय्या वनं प्रति प्रेषणे- नापकृतोऽपि रामः तत्पुत्रस्य भरतस्य,
या प्रीतिर्बहुमानश्च मय्ययोध्यानिवासिनः । मत्प्रियार्थं विशेषेण भरते सा निवेश्यताम् ॥
इति नियोगपूर्वकं प्रकृतिसंनिधौ तद्गुणकथनात् । तथा चावैव चित्रकूटे भरतं प्रति,
मातरं रक्ष कैकेयीं मा रोषं कुरु तां प्रति । मया च सतिया चैव शप्तोऽसि रघुनन्दन ॥
इत्युक्तत्वात् । तथा युद्धकाण्डेऽपि कैकेय्या दोषनिर- सनपूर्व कमुत्तमलोकप्राप्तिर्भवत्विति दशरथं प्रति प्रार्थनाञ्च महदपकारकारिष्वपि उपकारः कर्तव्य इत्ययं धर्मः सूचि- तः । तथा चापद्धर्में लुब्धकपोतीये- ‘छेत्तुमप्यागते च्छायां
अयोध्याकाण्डः ।
[[३१७]]
नोपसंहरते द्रुमः’ इति । ‘आत्मनो हितमन्विच्छन्बाधते यः परं नरः । कर्तव्या मूढविज्ञाने दया तत्र दयालुभिः ॥ अज्ञानात्तत्र ये दण्डं पातयन्ति बुधा यदि । बुधेभ्यस्तदहं मन्ये वरमज्ञानिनो नराः ॥’ ततः पलितशिरसो वाजपे- यच्छवनिवारितातपान्पदातीन्द्विजवरान्,
अवेक्ष्य सहसा रामो रथादद्वततार ह । पद्भ्यामेव जगामाथ ससीतः सह लक्ष्मणः ॥
अनेन पदातिश्रेय सोऽवलोक्य यानादवतरणीयमिति सूचितम् । तथा च श्रुतिः – ‘तस्माज्ज्यायांसं कनीया-
। प्रत्यवरोहति’ इति । उद्योगपर्वणि भगवद्यानेsपि - ‘अथ पश्यन्महाबाहुऋषीनध्वनि केशवः । ब्राह्मचा श्रिया दीप्यमानान्स्थितानुभयतः पथि ॥ सोऽवतीर्य रथात्तूर्ण- मभिवाद्य जनार्दनः । यथावत्तानृषीन्सर्वानित्यभाषत केशवः’ इति । ततः पञ्यामेव गच्छन् रामभद्रोऽनुगतद्वि- जवरसमुदीरितसरसतरवचनश्रवण संजातसंतोषस्तैः सह तमसातीरमाजगाम । षट्चत्वारिंशत्प्रभृति अष्टचत्वारिं- शत्पर्यन्तम्- ततो रामः,
3.
धर्माकृते
अद्भिरेव तु सौमित्रे वत्स्याम्यद्य निशामिमाम् । एतद्धि रोचते मह्यं वन्येsपि विविधे सति ॥ इति लक्ष्मणमवदत् । अनेन वासाय प्रस्थितेन प्रथम- दिवसे जलाहारेणैव स्थेयमिति सूचितम् । तथा च भारते वनपर्वणि वनवासाय प्रस्थिताः पाण्डवाः– ’ ऊषुस्तां रजनीं वीराः संस्पृश्य सलिलं शुचि । उदकेनैव तामूषुस्ते रात्रि दुःखकर्शिताः ॥ इति । ततो रामः लक्ष्मणोपक्ट- प्रायां पर्णशय्यायां प्रीतया सह स्वपत्किञ्चिदवशिष्टाया- मेव रजन्यां प्रबुध्य स्वपदवीमनुसरतः पुत्र कलवादिष्वपि निरपेक्षांस्तरुमूलेषु सुखसुप्तान्पौरजनानवलोक्य लक्ष्मण- मेवमवादीत्,
यावदेव तु संसुप्तास्तावदेव वयं
लघु । रथमारुह्य गच्छामः पन्थानमकुतोभयम् ॥ पौरा ह्यात्मकृताद्दुःखाद्विप्रमोच्या नृपात्मजैः । न तु खल्वात्मना योज्या दुःखेन पुरवासिनः ॥ इति । अनेन राज्ञा स्वयं क्लेशमनुभूयापि पौरजनहि- तमाचरणीयमिति सूचितम् । तथा च भारते शान्तौ-अयोध्याकाण्डः ।
[[1]]
[[३१९]]
‘यथा हि गर्भिणी fear स्वप्रियं मनसोऽनुगम् । गर्भस्य हितमादत्ते तथा राज्ञाप्यसंशयम् ॥ वर्तितव्यं कुरुश्रेष्ठ नित्यं धर्मानुवर्तिना । स्वं प्रियं समभित्यज्य यद्यलोक- हितं भवेत् ॥’ इति । कामन्दकेऽपि ‘आविष्ट इव दुःखेन तद्रतेन गरीयसा । समन्वितः करुणया परया दीनमुद्धरेत् ॥ न तेभ्योऽभ्यधिकाः सन्ति सन्तः सत्पुरुष- व्रताः । दुःखङ्कार्णवे ममं दीनमभ्युद्धरन्ति ये ॥ ’ इति । ततस्तद्वचनोचारिते सति रोचते मह्यमपीमिति लक्ष्मणेन गदिते सुमन्त्रः स्यन्दनोत्तमे हयोत्तमान्संयोज्य,
त्वमारोहस्व भद्रं ते लसीतः सहलक्ष्मणः ।
इत्यवादीत् ।
ततः समास्थाय रथं महारथः
ससारथिर्दाशरथिर्वनं ययौ ।
उदङ्मुखं तं तु रथं चकार है
प्रयाणमाङ्गल्यनिमित्तदर्शनात् ॥
अनेन उत्तरदिशः प्रशस्तत्वात् तदभिमुखगमनं श्रेय- स्करमिति सूचितम् । तथा च तैत्तरीयश्रुतिः- ‘तस्मा-
[[३२०]]
धर्माकूते
दुत्तरतोऽभिप्रयायी जयति’ इति । तथा च वनपर्वणि- वनवासाय प्रस्थिताः पाण्डवाः ‘वर्धमानपुरद्वारेणाभिनि- कम्यते तदा । उदङ्मुखाः शस्त्रभृतः प्रययुः सह कृष्णया । ’ इति । उत्तरदिशः प्राशस्त्यं च उद्योगपर्वणि गालवं प्रति नारदेनोक्तम्- ‘यस्मादुत्तीर्यते पापाद्यस्मान्निःश्रेयसं चरेत् । तस्मादुत्तारण फलादुत्तरेत्युच्यते बुधैः ॥ ’ इति । ततः स्वपदवीमनुसरतः पौरजनान्वञ्चयितुममार्गेणैव किं- चिरं गच्छन्यथापूर्व मार्गेणैव संप्रायात् । ततः प्रबुद्धाः: पौरजानपदा रामलक्ष्मणौ जनकनन्दिनीं चानालोक्य शोकाकुलहृदयाः तैर्विना परिमुषितमिवात्मानं मन्वानाः मोहाच मुहुर्मुहुरितस्ततः परिभ्रमन्तः पुनस्तद्दर्शन नैराश्येन दूयमानमानसाः कृच्छ्रेण स्वं स्वं भवनमाजग्मुः । अथ रामभद्रविनाकृतान्स्वजनानवलोक्य कलुषितहृदयानां पौ-
रस्त्रीणाम्,
कैकेय्या यदि चेद्राज्यं स्यादधर्म्यमनाथवत् । न हि नो जीवितेनार्थः कुतः पुत्रैः कुतो धनैः ॥ यया पुत्रश्च भर्ता च त्यक्तावैश्वर्यकारणात् । कं सा परिहरेदन्यं कैकेयी कुलपांसनी ॥
अयोध्याकाण्डः ।
[[૩૨૩]]
कैकेय्या न वयं राज्ये भृतका निवसेम हि । जीवन्त्या जातु जीवन्त्यः पुत्रैरपि शयामहे ॥ या पुत्रं पार्थिवेन्द्रस्य प्रवासयति निर्घृणा । कस्तां प्राप्य सुखं जीवेदधयों दुष्टचारिणीम् ॥ उपद्रुतमिदं सर्वमनाकुलमनामयम् । कैकेय्या हि कृते कृत्स्नं विनाशमुपयास्यति ॥
इत्येवमादि सकरुणं विलपन्तीनाम्, जगामास्तं दिनकरो रजनी चाभ्यवर्तत ।
इति । एकोनपञ्चाशत्पञ्चाशयोः-
[[1]]
रामोऽपि रात्रिशेषेण तेनैव महदन्तरम् । जगाम पुरुषव्याघ्रः पितुराज्ञामनुस्मरन् ॥
ततः क्रमेण गोमत्यादिनदीः सकलसंपद्भरसंभृतान् कोसलानप्यतीत्य प्रभातायां शर्वर्याम् ।
अयोध्याभिमुखो धीमान्प्राञ्जलिर्वाक्यमब्रवीत् ॥ आपृच्छे त्वां पुरि श्रेष्ठे काकुत्स्थपरिपालिते । दैवतानि च यानि त्वां पालयन्त्यावसन्ति च ॥
[[३२२]]
धर्माकूते
अनेन देशान्तरं गच्छतां निवासदेशमामन्त्रयैव गन्तव्यमिति सूचितम् । एवं वनपर्वणि गन्धमादनात्र- arrant धर्मराजकृतप्रार्थना — ‘आमन्त्र्य वेश्मानि सरांसि नद्यः सर्वाणि रक्षांसि च धर्मराजः । यथागतं मार्गमवेक्षमाणः पुनर्गिरिं तं च निरीक्ष्यमाणः ॥ समाप्त- कर्मा सहितः सुहृद्भिर्जित्वा सपत्नानतिलभ्य राज्यम् । शैले च भूयस्तपसे यतात्मा द्रष्टा भवामीति मति चकार ॥ ’ इति ।
ततस्त्रिपथगां गङ्गां शिवतोयामशैवलाम् । विष्णुपादच्युतां दिव्यामपापां पापनाशिनीम् ॥ तां शंकरजटाजूटभ्रष्टां सागरतेजसाम् । आससाद महाबाहुः शृङ्गिबेरपुरं प्रति ॥ ततस्तत्तीरनिवासिनां गुहेन अर्घ्यपाद्यादिभिरभिपूज्य समाहृतं विविधभक्ष्यभोज्यादिकमुपभुज्यतामिति बहुशः प्रार्थितोऽपि रामः सलिलेनैव कृताहारः इङ्गुदीपादपमूले पर्णशय्यायामेव तां रात्रिमत्यवाहयत् । एकपञ्चाशे - ततस्त्वदर्थमुपकल्पितायां सुखशय्यायां प्रत्याश्वसिद्दीति
अयोध्याकाण्डः ।
[[३२३]]
गुहेन प्रार्थितो लक्ष्मणः ससीतं वसुधातलसंसुप्तं लोक- नाथं रामभद्रमवलोकयतो मम कथं निद्रा भवेदित्यभि- घाय रामगुणानेव कथयन् तेन सहैव रात्रिं निनाय । द्विपञ्चाशे-
(– ततः प्रभाते सुमन्त्रः गुहानीतया नावा गङ्गां तरितुं पादचारेणैव,
दृष्ट्वा दूरगतं रामं दुःखात रुरुदे चिरम् । ततस्तु विगते बाप्पे सुतं स्पृष्टोदकं शुचिम् ॥
अनेनाश्रुपाते आचमनं कर्तव्यमिति सूचितम् । तथा चापस्तम्बः – ‘शृङ्खाणिका पालम्भ’ इति । कूर्मपुरा- णेऽपि– ‘उच्क्रिष्टं पुरुषं दृष्ट्वा भोज्यं चापि तथा विधम्। आचामेश्रुपाते च लोहितस्य तथैव च ॥’ इति ।
यथा दशरथ राजा मां नाशोचेत तथा कुरु । Rai atra fifचत्स महात्मा महीपतिः ॥ sher: प्रियकामार्थे तत्कार्यमविशङ्कया । एतदर्थं हि राज्यानि प्रशासति नरेश्वराः ॥ यदेषां सर्वकृत्येषु मनो न प्रतिहन्यते ।
[[३२४]]
धर्माकूते
अनेन राजाज्ञा न प्रतिहन्तव्येति सूचितम् । तथा च राजधर्मे- ‘तस्योपदेशे स्थातव्यं दक्षेणाक्लिष्टकर्मणा । न हि राज्ञः प्रतीपानि कुर्वन्सुखमवाप्नुयात् ॥ पुत्रो भ्राता वयस्यो वा यद्वाप्यात्मसमो भवेत् ।’ इति । कामन्दकेऽपि — ’ आज्ञा यस्य प्रतीच्छन्तो भृत्याः कुर्यु- रूपास्वनम् । भर्तृचित्तानुवृत्तित्वं सद्वृत्तमनुजीविनाम् ॥’ इति । मत्कृतां प्रणति सूत मातृभ्यश्च निवेदय । स्वमा- वरमिव कौसल्यां पूजयस्वेति मद्वचनाद्भरतस्त्वया वाच्य इति सुमन्त्रमवदत् । ततो रामस्त्वद्रहितेन कथमयोध्यां प्रविशामि,
भक्तवत्सल तिष्ठन्तं भर्तृपुत्रगते पथि । भक्तं भूत्यं स्थितं स्थित्यां न मां त्वं हातुमर्हसि ॥ इति बहुविधं क्लिश्यमानं सुमन्त्रम्,
जानामि परमां भक्ति मयि ते भक्तवत्सल । शृणु चापि यदर्थं त्वां प्रेषयामि पुरीमितः ॥ heat प्रत्ययं गच्छेदिति रामो वनं गतः । इत्यवदत् । भक्तं भृत्यमित्यनेन भक्तो भृत्यः स्वामिना
अयोध्याकाण्डः ।
[[३१५]]
न परित्याज्य इति सूचितम् । तथा चानुशासनिके छो- त्यत्तौ सूर्य प्रति जमदद्भिवचनम् - ‘भक्तं च भजमानं च तवास्मीति च वादिनम् । श्रीनेतान्विषमप्राप्तान्विषमे- ध्वपि न त्यजेत् ॥’ इति । मार्कण्डेयोऽपि ‘ब्रह्महत्या गुरोaar गोवधः स्त्रीवधस्तथा । तुल्यमेभिर्महापापं भक्तत्यागाद्युदाहृतम् ॥ भजन्तं भक्तम त्याज्यमदुष्टं त्यजतः सुखम् । नेह नामुल पश्यामि तस्माच्छक दिवं व्रज ॥’ एवं सति दशरथमन्त्रित्वात् तदाज्ञां विना स्वेन नेतुमश- क्यत्वात् संदेशस्य तन्मुखेन प्रेषणीयत्वाच्च त्यक्त इति न कश्विद्विरोधः । ततः स्वाज्ञया गुहानीतेन न्यप्रोधक्षीरेण रामलक्ष्मणौ जटां विधाय सीतया लक्ष्मणेन च नावमा- रूढो रामः,
ब्रह्मवत्क्षत्रवञ्चैव जनापहितमात्मनः ।
आचम्य च यथा शास्त्रं नदीं तां सीतया सह ॥ प्राणमत्प्रीतिसंहृष्टो लक्ष्मणश्चामितप्रभः ।
अनेन नावारोहणे ब्रह्मक्षवयोर्हितो मन्त्रजपः कर्तव्यः । महानदीसंतरणे आचमननमस्कारादिकं च कर्तव्यमिति
[[३२६]]
धर्माकूते
सूचितम् । तथा चाश्वलायनः– ‘सुवामाणं पृथिवीं पृथिवीयामनेहसं सुशर्माणमर्दितुं सुप्रणीतं देवीं नावं स्वरित्रामनागसमश्रवन्तीमा रहेमा स्वस्तये ’ इति । आ- चमने यमः – ‘उत्तीर्योदकमाचामेदवतीर्य तथैव च । एवं स्यात्तेजसा युक्तो वरुणोऽपि सुपूजितः ॥’ इति । हारीतोऽपि – ‘नोत्तरेदनुपस्पृश्य जलं विप्रः सदा शुचिः । ’ इति । ततः,
मध्यं तु समनुप्राप्य भागीरथ्यास्त्वनिन्दिता । वैदेही प्राञ्जलिर्भूत्वा तां नदीमिदमब्रवीत् ॥ पुत्रो दशरथस्यायं महाराजस्य धीमतः । निदेशं पारयत्वेनं गङ्गे त्वदभिरक्षितः ॥ चतुर्दश हि वर्षाणि समग्राण्युष्य कानने । भ्रात्रा सह मया चैव पुनः प्रत्यागमिष्यति ॥ ततस्त्वां देवि सुभगे क्षेमेण पुनरागता ! यक्ष्ये प्रमुदिता गने सर्वकामप्रसाधिनि ॥ त्वं हि त्रिपथगा देवि ब्रह्मलोकं समीक्षसे । भार्या चोदधिराज लोकेऽस्मिन्संप्रदृश्यते ॥
अयोध्याकाण्डः ।
सा त्वां देवि नमस्यामि प्रशंसामि च शोभने । प्राप्तराज्ये नरव्याघ्रे शिवेन पुनरागते ।
[[३२७]]
गवां शतसहस्रं च वस्त्राण्यनं च पेशलम् । ब्राह्मणेभ्यः प्रदास्यामि तव प्रियचिकीर्षया ॥ सुराघटसहस्रेण मांसभूतोदनेन च । यक्ष्ये त्वां प्रयतां देवि पुरीं पुनरिहागता । यानि त्वत्रवासीनि दैवतानि भवन्ति च । तानि सर्वाणि यक्ष्यामि तीर्थान्यायतनानि च ॥ पुनरेव महाबाहुर्मया भ्रात्रा च संगतः । अयोध्यां वनवासाचु प्रविशतु त्वयानधे ॥
इति । एवं विविधं प्रार्थयमानया सीतया सह क्षिप्र– मेव दक्षिणं तीरमागमत् । ननु अत्र गङ्गे त्वदभिरक्षित इत्यनेन गङ्गायाः संबोध्यत्वं संरक्षणकर्तृत्वं चावगम्यते । एवम् ’ भार्या चोदधिराजस्य लोकेऽस्मिन्संप्रदृश्यते । ’ इत्यनेन गङ्गोदधिराज योदम्पत्यमवगम्यते । एवम् ‘यक्ष्ये प्रमुदिता गङ्गे सर्वकामप्रसाधिनि । सा त्वां देवि नम- स्यामि प्रशंसामि च शोभने ॥’ इत्यनेन फलोद्देशेन नति-
[[३२८]]
[[1]]
धर्माकूते
स्तुति पूर्वजा कर्मत्वमवगम्यते । एवम् ’ प्राप्तराज्ये नर- व्याघ्रे शिवेन पुनरागते । गवां शतसहस्रं च वस्त्राण्यन्नं च पेशलम् ॥ ब्राह्मणेभ्यः प्रदास्यामि तव प्रियचिकी- र्षया । ’ इत्यनेन राज्यप्राप्त्यनन्तरं गङ्गाप्रीत्यै शतसह- गवादिकं ब्राह्मणेभ्यो दीयते इति प्रतिपादनेन गङ्गायाः प्रीतिरवगम्यते । ’ यानि त्वत्तीरवासीनि ’ इत्यादिना गङ्गातीरवर्ति तीर्थायतनादीनामपि प्रीत्यै पूजा चावग- म्यते । इदं च चैतन्यविप्रहादिनियतं संबोध्यत्वरक्षणकर्तृ- त्वदाम्पत्यफलार्थिपूजनीयत्वतज्जनितप्रीतिमत्वादिकं न ज- लात्मिकाया गङ्गायाः संभवति जलस्य चैतन्यवित्रहाद्य- भावात् इति चेन्न । इन्द्रादीनां देवानां मन्त्रार्थवादादिप्र- सिद्धविग्रहादिवत् गङ्गाया अपि मन्त्रवर्णेतिहासपुरा- णप्रसिद्धविग्रहादिसंभवेन संबोध्यत्व संरक्षणकर्तृत्व प्रीति- मत्वादीनां संभवात् । तथा हि- इन्द्रादीनां हविर्ग्रहणे मन्त्रः – ’ इदं वम्रो सुतमन्धः पिवासुपूर्णमुदरम् अनाभ- चिन्नरिमा ते पिब सोममिन्द्रमन्द तु त्वायं ते सुषाव हर्य- श्रादिः सोतुर्बाहुभ्यां सुयतो नाव आयुर्दा अग्ने हविषोअयोध्याकाण्डः ।
[[३२९]]
जुषाणो घृतप्रतीको घृतयोनिरेधि । घृतं पीत्वा मधु चारु गव्यं पितेव पुत्रमभि रक्षतादिमम्।’ ‘अग्निरिद र हविरजु- पत’ इत्यादि । तथा अर्थवादोऽपि - ‘स यज्ञवेशसं कृत्वा प्रासहा सोममपिबत् । ’ इति । तथा इतिहाम्रोऽपि - ‘ततः पीत्वा बलभित्सोममग्र्यं ये वाप्यन्ये सोमपा देव- सङ्काः सर्वेऽनुज्ञाताः प्रययुः । पार्थिवेन यथाजोषं तर्पिताः प्रीतिमन्तः । ’ इति । तथा प्रीतौ ‘वाजे वाजेऽवत वाजिनो नो धनेषु विप्रा अमृता ऋतज्ञाः । अस्य मध्वः पिवत मादय- भवं तृप्ता यात पथिभिर्देवयानैः’ ‘सुप्रीतोऽग्निः सुधितो दम आस विशेदाति वार्यमियत्यै मनोऽग्ने अध्वरं जुषस्व मरु- विन्द्रे यशसं कुवी नः । तथार्थवादोऽपि — ‘आहुति भागा वा अन्या देवता अन्याः स्तोमभागाः छन्दोभागा- सा या अमावाहुतयो हूयन्ते ताभिराहुतिभागाः प्रीणाति अथ यत्सुवन्ति शंसन्ति च तेन स्तोमभागा छन्दो- भागां उभयो हास्यैता देवताः प्रीता अभीष्टा भवन्ति य एवं वेद” इति । तथा इतिहासेऽपि – ’ ततस्तु स प्राह राजानमिन्द्रः प्रीतो राजन्प्रीयमाणो मरुतः सर्वाचान्या देवता : प्रीयमाणाः हविस्तुभ्यं प्रतिगृह्णन्तु राजन्फलम् ।’
D. Pt. IV-
-9
[[३३०]]
धर्माकृते
दाने मन्त्रः – ’ अर्यमायाति वृषभस्तुविष्मान् दाता वसूनां पुरुहूतो अन् । सहस्राक्षो गोत्रभिद्वबाहुरस्मासु देवो द्रविणं दधातु ।’ ‘उभा वामिन्द्राशी आहुवध्या उभा राधसः सह माययै । उभा दातारा विषा रयीणामुभा वाजस्य सातये हुवे वां ।’ ‘द्रविणोदा द्रविणसस्तुरस्य द्रवि- गोदाः सनरस्य प्रयंसत् । द्रवीणोदा वीरवतीमिषं नो द्रवि- जोदा रासते दीर्घमायुः । ’ ‘हस्तौ पृणस्व बहुभिर्वसन्यैरान- यच्छ दक्षिणादोत सव्यात्’ इति । तथा अर्थवादोऽपि- ‘नृप एवैनमिन्द्रः प्रजया पशुभिस्तर्पयति’ इति । इतिहासोऽपि - ‘इष्टान्भोगान्हि वो देवा दास्यन्ते यज्ञ- भाविताः’ इति । ईश्वरत्वेऽपि मन्त्रवर्णः ‘अभिवा शूर नोनुमोदुग्धा इव धेनवः । ईशानम् । अस्य जगतः सुवर्हशमीशानमिन्द्र तस्थुषः ’ ’ इन्द्रो दिव इन्द्र ईशे पृथि- व्या इन्द्रो अपामिन्द्र इत्यर्वतानाम् । इन्द्रो वृथामिन्द्र इन्मे- विराणामिन्द्रः क्षेमे योगे हव्य इन्द्रः’ इति । तथा अर्थवादोऽपि – ’ तस्माद्रुद्रः पशूनामधिपतिः’ इति । तथा इतिहासोऽपि ‘तपन्तं तमभिद्रुत्य परिजग्राह वासवः वराणामीश्वरो दाता सर्वभूतहिते रतः’ इति । चेतनाव-
अयोध्याकाण्डः ।
૩૨-
खेऽपि मन्त्रः– ’ अग्ने नय सुपथा राधे अस्मान् विश्वानि देव वयुनानि विद्वान् । युयोध्यस्मज्जुहुराण- मेनो भूयिष्ठां ते नम उक्ति विधेम ’ इति । तथा अर्थ- वादोsपि ‘ततो वै ते सुवर्ग लोकं प्रजानन् तद्धो- भये देवा असुरा अनुबुबुधिरे’ इति । तथा इतिहासो- ऽपि - ‘त्वं चैवैतद्वेत्थ पुरंदरश्च विश्वेदेवा वसवश्चा- श्विनौ च ।’ विग्रहे मन्त्रः — ’ त सुप्रतीक सुदृश स्वचम विद्वासौ विदुष्टरं सपेम ।’ तथा अर्थवादोऽपि - ‘तिस्रो मइमारतनुवो वीर्यावतीस्ता : श्रीणीता’ इति ‘एता बाव द्वादश प्रजापतेस्तत्व’ इति । तथा इतिहासोऽपि - ’ तस्यां देवेश्वरः पार्थ सभायां परमासने । आस्ते शच्या महेन्द्रेण श्रिया लक्ष्म्या च भारत । विभ्रद्वपु- रनिर्देश्यं किरीटी लोहिताङ्गदः । विरजोम्बरश्चितमाल्यो हि कीर्तिद्युतिभिः सह । एवमादिभिर्मन्त्रार्थवादादिभिः इन्द्रादीनां विग्रहादिसिद्धिवत् गङ्गाया अपि ’ तस्मा- दा नथो नाम स्थ ता वो नामानि सिन्धवः’ इति च मन्त्र- वर्णेन ‘शिवेन मा चक्षुषा पश्चतापः शिवया तनुवो- पतव मे सर्वा अग्नी सुषदो हुवे वो मचि
[[૨૨]]
धर्माकृते
वर्षो बलमोजो नित्त’ इति मन्त्रवर्णेन । आदिपर्वणि स राजा शन्तनुर्धीमान्देवराजसमद्युतिः । बभूत्र मृगया- शीलः सततं वनगोचरः । गङ्गामनुचचारैकः सिद्ध- चारणसेविताम् । स कदाचिन्महाराज ददर्श परमां खि- यम् ॥ दिव्यरूपा हि सा देवी गङ्गा त्रिपथगा नदी । मानुषं विग्रहं श्रीमद्विभ्रती सुमनोहरम् ॥ भाग्योपनत- कामस्य भार्येवोपस्थिताभवत् । शन्तनो राजसिंहस्य देवराजसमद्युतेः ॥ संभोगस्नेहचातुर्वैर्भाव हास्यै मनोरमैः । राजानं रमयामास यथा रेमे तथैव सः ॥ रममाणस्तया सार्धं यथाकामं नरेश्वरः । अष्टावजनयत्पुत्रस्तस्याममरव- णिनः’ इति । ’ तस्य रूपगुणोपेता गङ्गा श्रीरिव रूपिणी । उत्तीर्य सलिलात्तस्माल्लोभनीयतमाकृतिः ॥ दक्षिणं सालबं- काशमूरुं भेजे शुभानना’ इति । एवमादीतिहासेन च गङ्गादिनदीनामपि विग्रहादिसिद्धौ संबोध्यत्वरक्षणकर्तृ- त्वप्रार्थनीयत्वादिकं संभवत्येव । नन्वेतत्सर्वं तदा शोभते यद्दीन्द्रादीनां मन्त्रार्थवादादिवशेन विग्रहादिकं सिद्धयेत्, तदेव न संभवति, तथा हि– मन्त्रस्तावत् मन्त्राधिकरण- न्यायेनानुष्ठेयनिपाद्यर्थ प्रकाशनपराः नतु देवताविशेष-
अयोध्याकाण्डः ।
[[३३३]]
श्रीभूतविग्रहादिपराः । एवमर्थवादा अपि विधि- Treaser reaात्स्तुत्यर्थेन विधीनां स्युः’ इति अर्थवा- दाधिकरणन्यायेन विधयपेक्षितस्तुतिपराः न तु विग्रहा- दिपराः । अतोऽन्यपरैर्मन्त्रार्थवादादिभिर्विग्रहादिकं न सिध्यति यत्परः शब्दः स शब्दार्थ इति न्यायात्; अन्य-
या भोजनप्रकरणे लवणानयनतात्पर्येण प्रयुक्तस्य सन्धत्र- मानयेति वाक्यस्य तात्पर्याविषयीभूते अश्वानयनरूपार्था- न्तरेऽपि प्रामाण्यप्रसङ्गात् । एवं श्वेतो धावतीति श्वित्रि- कर्तृकवस्त्रनिर्णेजन परवाक्यस्य इतः सारमेयो गच्छतील- र्थान्तरेऽपि प्रामाण्यप्रसङ्गात् । न चेष्टापत्तिः शब्दस्य ता- स्पर्यविषयव्यतिरिक्तार्थे प्रामाण्यव्यवहाराभावस्य सर्वसं- प्रतिपन्नत्वात् । न च यथा समिधो यजतीत्यादिवाक्यानां परमतात्पर्यविषयी भूत तूप कारव्यतिरिक्तविग्रहादितास-
त्वमध्यस्त्विति वाच्यम् । ‘समिधा यजति तनूनपातं यजति’ इत्यादिवाक्यानां ऋतूपकार तात्पर्यकाणां समिधा- दियागस्वरूपेऽपि तात्पर्यस्य वक्तव्यत्वात् । अन्यथा समि- बादियागानामप्रामाणिकत्वापस्या तैः ऋतूपकारासिद्धि- प्रसङ्गात् । न चार्थवादादीनां विग्रहादितात्पयभावे किं-
[[३३४]]
धर्माकूते
चिंद्वाधकमस्ति । न च निरालम्बनस्तुत्यनुपपत्तिलक्षणबा- धकमत्राप्यस्तीति वाच्यम्- ‘शिखा ते वर्धिष्यते औ- पवं पिब’ इत्यादी अविद्यमानशिखावृद्धिप्रकाशनमुखेन प्राशस्त्यबुद्धिवत् अर्थवादेष्वपि अम्रदर्थमालम्ब्य स्तुत्यादि- बुद्धिसंभवात् । एवं ‘बीड़ीणां मेघ सुमनस्यमानः’ ‘अग्नि- स्ते तनुवं मातिधाकू’, ‘देवस्य त्वा सवितुः प्रसवेऽश्विनों- afgभ्यां पूष्णो हस्ताभ्याममये जुष्टं निर्वपाम’ ‘द्यां ते धूमो गच्छतु अन्तरिक्षमर्चिः पृथिवी भस्मनापूणस्त्र’ ‘दिवमग्रेण मा लेखीरन्तरिक्षं मध्येन सा हिस्सीः पृथिव्या संभव इत्यादिमन्त्राणामर्थाभिधानसंयोगान्मन्त्रेषु शेषभावः स्या- दिति नावमिकाधिकरणन्यायेन अनुष्ठेयनिर्वापादिप्रशंसा- र्थमविद्यमानसौमनस्यशरीरवत्त्वाश्विबाहुत्वादि प्रकाशय- तां विद्यमाननिर्वापादिप्रकाशनेत ऋतूपकारकत्वं संभवति । तस्मादन्यपरे मन्त्रार्थवादादिभिर्विग्रहादिकं न सिध्यति । प्रमाणान्तरविरुद्धत्वादपि न मन्त्रार्थवादादिकं विप्रहादि- साधकम्। तथा हि- ‘असौ योऽवसर्पति नीलपीवो विलो- हितः उत्तैनं गोपा अदृशन्नदृशन्नुदहार्यः उत्तैनं विश्वा भूता- निस दृष्टो मृडयाति नः’ इति आदित्यस्य नीलग्रीवत्वादि-
अयोध्याकाण्डः ।
[[३३५]]
विशिष्टं विग्रहं गोपालसलिलाहारिणीप्रभृति सकलदृश्यं प्रतिपादयतो मन्त्रस्य अचेतनें ज्योतिर्मण्डले आदित्यादि- शब्दानां शक्तिग्राहकप्रत्यक्षविरोधः । तथा नीलभीव- त्वविशिष्टमादित्यविग्रहं प्रतिपादयतोऽस्य मन्त्रस्य तथा- विधस्य नमः सूर्यायादित्याय नमो नीलमीचाय शिति- कण्ठायेति कृच्छ्राङ्गादित्योपस्थान मन्त्रस्थं च शिवा- साधारणं नीलग्रीवत्वादिविशिष्टं विग्रहं प्रतिपादया- मन्त्रार्थवादादिभिर्विरोधेन, तथा ‘अर्थम्णे चरुं निर्वपेत्सु- कामोऽसौ वा आदित्योऽर्यमा’ इति श्रुतिविहितकाम्बे- ष्टिविशेषक्रम प्रमाणविनियुक्तस्य ‘अर्यमायातिवृषभस्तुवि- धमान दाता वसूनां पुरुहूतो अईन् सहस्राक्षो गोत्र- द्विबाहुः’ इत्यादिमन्त्रस्य महेन्द्रासाधारणं वज्रहस्त- त्वादिविशिष्टविग्रहं प्रतिपादयद्भिर्मन्त्रार्थवादादिभिर्वि- रोवः । तथा, एतेन वै सर्पा अपमृत्युमजयन् अपमृत्युं जयति य एतदुपयन्ति तस्मात्ते हिला जीर्णो त्वचमिति स्वर्पन्ति अपहिते मृत्युमजयन् सर्पा वा आदित्या आदित्या- नामेवैषां प्रकाशो भवति य एतदुपयन्ति’ इति आदित्यानां कतुसुतत्वं प्रतिपादयतोरसर्पसत्रार्थवादस्य शिरः पाण्या
।
धर्माकूते
प
युक्तान् अतिप्रभावान् पौरुषेयान्त्रिप्रहान्प्रतिपादयद्भिर्म- न्त्रार्थवादिभिर्विरोधः । तथा-’ सायं यावानश्च वै देवाः प्रातर्यावाणश्चामिहोत्रिणो गृहमागच्छन्ति’ । ‘अध्वर्योद्रा- क्या त्वं सोममिन्द्रः पिपासति । उप नूनं युयुजे वृषणा हरी आचजगाम वृत्रहा’ इत्यादीनां देवानां यागदेशागमनं प्रतिपादयतां मन्त्राणां प्रत्यक्षविरोधः । युगपत्प्रवृत्ताने क- यागदेशागमनं प्रतिपादयतां मन्त्राणां प्रत्यक्षविरोधः युगपत्प्रवृत्ताने कागदेशागमन विशेषच । न च कायव्यूह- कल्पनेन सर्वत्रागमननिर्वाह इतेि वाच्यम् । मातृपितृभ वत्वनियतानां करचरणादिमत कायानामिच्छाम लेण कल्पनानुपपत्तेः । ’ कस्य वा ह देवा यज़मागच्छन्ति कस्य वा न बहूनां यजमानानाम्’ इति ब्राह्मणश्रुनप्रश्ना- नुपपत्तेश्व का न्यूह परिप्रहेण सर्वेषां यज्ञदेशागमनासंभ- वात् । ‘यो वै देवताः पूर्वः परिगृह्णाति स एना श्वो भूते यजते ’ इति उत्तरवाक्यमपि विरुध्येत । पञ्चादे तापरिग्रहं कृतां यज्ञं प्रति देवतागमनेन कर्मक- स्यप्रसङ्गात् । तथा देवतानां यागीयहविर्भोक्तृत्वं प्रतिपा- दयतां मन्त्रार्थवादादीनां प्रत्यक्षाविरोधः । अनौ हुतानां
।
अयोध्याकाण्डः ।
[[३३७]]
द्रव्याणां भस्मीभावस्य प्रत्यक्षसिद्धत्वात्सहोमादिद्रव्या- नामपि पांसुष्वेव निलीयमानत्वस्य प्रत्यक्षसिद्धत्वाच । तथा पश्चशारदीयानामुक्ष्णां हयमेधीय परस्वदादीनां च यांगीयानां पशूनां पर्यनिकरणान्ते देवतोद्देशेन त्यक्तानां यथापूर्व दृश्यमानत्वाच्च, अपि च हविर्भुजाना देवता किं स्वस्थान एव स्थित्वा भुङ्गे उस यागदेशमागत्य आये ‘अग्निम आवह’ इत्यावाहनं व्यर्थ स्यात् । अध्यय द्रावया त्वं सोममिन्द्रः पिपासति’ इति ‘आ च जगाम वृहा’ इत्यादि श्रुतिविरोधच खात् । द्वितीये हविरग्निना देवानां सकाशं न नेतव्यमिति ‘असन्द्रां हव्या वहसि आविष्कृन आदिदेवेषु राजवि अग्नेस्त्रयो ज्याया सो खातर आसन ते देवेभ्यो हव्यं वहन्तः प्रामीयन्त’ इत्या- दिश्रुतिविरोधः । एवं श्राद्धेषु तर्पणीयाः पितरः स्वस्थान एव स्थित्वा भुञ्ज इत्यङ्गीकारे तेषां श्राद्धदेशागमनवि- रोधः । उक्तं हि मनुना ‘निमन्त्रितान् हि पितरः उपति- इति तान्दिजान्। वायुभूतास्तु गच्छन्ति तथासीनानुपा- ते’ इति । पाद्मपुराणेऽपि रामभद्रेण योगवाध्यां श्राद्धे क्रियमाणे दशरथतत्पितृपितामहास्तं देशमागत्य निमन्त्रि-
[[३३८]]
तथा
धर्माकूते
ब्राह्मणानां देहेषु स्थितान्दृष्ट्रा लज्जया श्राद्धदेशादपत्रा- न्वां सीतां दृष्ट्टा ‘किमर्थमपक्रान्तासि’ इति पृष्टवन्तं रामभद्रं प्रति सीताबचनम्, ‘शृणु त्वं नाथ यद्दृष्टमा- वर्ये हि मयेदृशम् । पिता तव मया दृष्टो ब्राह्मणाङ्गेषु राघव ॥ सर्वाभरणसंयुक्तो द्वौ चान्यौ च तथाविधौ । दृष्ट्वा वपान्विता चाहमपक्रान्ता तदन्तिकात् ॥’ इति । श्राद्धदेशमागत्य निमन्त्रितत्राह्मणमुखेनाविष्टा भुञ्जते इत्यङ्गीकारे अभू नो दूतो हविषो ‘जातवे- दो अवाढव्यानि सुरभीणि कृत्वा प्रादाः पितृभ्यः स्वधया से अक्षन् इति अग्निर्यजमानदत्तं सुहविः सुरभी कृत्य पितॄन्प्रापयतीति प्रतिपादकश्रुतिविरोधः । स्थावरतिर्यय- नुष्यादिशरीरं प्राप्तानां श्राद्धदेशागमन संभवयुक्तिविरो- व । पूर्वजन्मपुत्रादिकृताः कदापि कस्यापि प्रद- नेन प्रत्यक्षच । किं च देवानां वक्तृत्वा ङ्गीकारे—‘न वै देवा अनन्ति न पिवन्त्येतद्देवा अमृतं दृष्ट्रा तृप्यन्ति’ इति श्रुत्यन्तरविरोधच । प्रस्तरयागस्वहो. मादीनां मन्त्रेषु कुशकाशदारुत्राकलादिषु मनुष्यानदनी- येषु तृप्तिकारकत्वस्य युक्तिविरोधश्व । तथा स्रुवादि-अयोध्याकाण्डः ।
[[३३९]]
परिमितै राज्यद्रव्ये यंत्रदानादिपरिमितैः पुरोडाशादिद्रव्यैश्च महाविग्रहवत्त्वेन मन्त्रार्थवादादिप्रतिपादितानां देवानां तृप्तिं प्रतिपादयतां तेषां युक्तिविरोधः । ‘यस्मै वा अल्पे- नाहरन्ति नात्मना तृप्यति नान्यस्मै ददाति यस्मै महता तृप्यत्यात्मना ददात्यन्यस्मै महता पूर्ण होतव्यं तृप्त एवै- नमिन्द्रः प्रजया पशुभिस्तर्पयति’ इति श्रुतिरपि स्रुवादिप- शिमिवाज्यादिद्रव्य देवता नृत्य संभवयुक्तिमनुमोदते तथा दे बतानां फलदातृत्वं प्रतिपादयन्ती श्रुतीनां कल्पान्तराणां नवस्थितदेवैः कल्पान्तरोपभोग्य फलदानत्वसंभवस्य युक्ति विरोधः । तथाहि देवतानां फलदातृत्वे फलमत उपपन्ते- रिति अविरोधः । तथाहि । तत्र हि किं कर्मण एव फलं उव परमेश्वरादिति संदेहः । तत्र पूर्वपक्षः कर्मण एव फलम् ‘ज्योतिष्टोमेन स्वर्गकामों यजेन’ इति श्रुत्या कर्मणः स्वर्गसाधनत्वेन विधानात् । न चाशुतरविनाशिनः कथं कालान्तरमाविफलसाधनत्वमिति वाच्यम् श्रुत्यवगतकर- त्वनिर्वाहाय कर्मैन स्वावस्थायां फलं स्वर्गादिकमुत्पाद्य विनश्यति, तच फलं कर्त्रा स्वसंपादितधनादिवत्तु का- लान्तरे उपभुज्यते इति वा कल्प्यते । अन्यथा श्रुत्यवगत-
[[૨૦]]
धर्माकूते
स्वर्गसाधनता यागस्य भज्येत। अतः कर्मण एव फलम् । अन्यथा ईश्वरात्फलमित्यङ्गीकारे सर्वसाधारणादीश्व- रात विचित्रफलं कथं भवेत्, विचित्रफलदाने च ईश्वर- स्य वैषम्यनैर्घृण्ये स्याताम् । यद्धि च तत्परिहाराय कर्मानुरोधेन ईश्वरः फलं ददातीति कल्प्यते, तह्य- वश्यकात्कर्मण एव फलमित्यस्तु किमीश्वरेण इति । सिद्धान्तस्तु - ईश्वर एव
ईश्वर एवं फलप्रदाता अन्नादो वसुदान इत्यादि श्रुत्या ईश्वरस्य फलदातृत्वावगमात् सर्वज्ञस्य सर्वशक्तेः परमेश्वरस्यवं तत्तत्कर्मानुरूपफलदाने समर्थवाच । न च वैषम्यनैघृण्ययोः प्रसङ्गः । ‘एष ह्येव साधु कर्म कारयति’ इत्यादि श्रुत्या कर्मस्त्ररूपमपेक्ष्यैव फलप्रदातृत्वावगमेन वैषम्यनैघृण्य योरप्रसक्तेः तस्मा- दीश्वर एव फलदाता ईश्वरस्य फलदातृत्वानङ्गीकारे कुलालानधिष्ठितदण्डादेरिव चेतनाधिष्ठितस्य कर्मणः कारणानुपपत्तेः । किं च कर्मणः फलदातृत्वं चिरप्रध्वस्त- त्वात् अनुपपन्नम्। न च स्वावस्थानवेलायां कर्मणः फलं जन्यत इति वाच्यम् तत्कि भोका संवद्धम असंबद्ध
,
[[1]]
वा । न तावदाद्यः तदानीमेवानुभवप्रसङ्गात् न द्वितीयः
raterrorus: ।
[[३४१]]
भोक्तृसंबन्धाभावे फलत्वव्याघातात्, अज्ञात सुखदुःखयोः प्रमाणाभावाच्च । न चापूर्वादिकं द्वारमासाद्य कर्म फलजनकं भवितुमर्हति प्रमाणाभावात् । न च श्रुतिप्रतिपन्न स्वर्गसा- धनत्वानुपपत्तिरेव मानमिति वाच्यम् । अन्नादो वसुदान इति श्रुत्या ‘सर्वकर्माण्यपि सदा कुर्वाणो मव्यपाश्रयः ।
।
,
सादादवाप्नोति शाश्वतं पदमव्ययम् । मचिन्तः सर्व- दुर्गाणि मत्प्रसादात्तरिष्यति’ इत्यादिभगवद्वचनात् प्रस- नादीश्वरात्फलमित्यवगमेन ईश्वरप्रसादद्वारा कर्मणः फल- जनकत्व संभवेनानुपपत्तेरभावात् । तस्मादीश्वर एव फल- दाता । तथा च गीतायाम् ‘यो यो यां यां तनुं भक्तः श्रद्धयाचितुमिच्छति । तस्य तस्याचलां श्रद्धां तामेव विदधाम्यहम् ॥ स तया श्रद्धया युक्तस्तस्याराधनमीहते । लभते च ततः कामान्मयैव विहितान् हि तान्’ इति । ‘विद्या मां सोमपा धूतपापा यरिष्ट्वा स्वर्गति प्रार्थयन्तेः इति च । एवं परमेश्वरस्यैव फलदातृत्वे सिद्धे तद्विरोषात् इन्द्रादीनां न फलदातृत्वम् । तथा एकैव अग्निहोत्रदेवता दना प्रीता इन्द्रियं प्रयच्छति पयसा पशून् इत्यादि व्य- स्थापनायां लोके द्रव्यदानेन प्रीणनीयराजादीनां
[[३४२]]
धर्माकृते
प्रदेयद्रव्यभेदेन व्यवस्थित फलप्रदानुवादर्शनेन लोकदृष्टि- विरोधात् उक्तन्यायेन देवतानां फलदातृत्वान्यथानुपप- न्तिकल्पनीयं फलैश्वर्यमपि निरस्तम् । तस्मादुक्तन्यायेन देवताविग्रहादीनां सकलप्रमाणविरुद्धत्वात् मन्त्रार्थवादे इतिहासादिकं विग्रहादिपञ्चकसाधकं न भवत्येवेति इन्द्रादिदेवतानां विग्रहादिकं न सिद्ध्यत्येव इति । एत्रमुक्त- न्यायेन गङ्गाया अपि उदाहृतमन्त्रेतिहासादेः विग्रहाथ- सिद्धौ संबोध्यत्वरक्षणकर्तृत्वादिकमनुपपन्नमेव इति चेत्, सन्तीति वदन्कर्ममीमांसकः प्रष्टव्यः किं विमवन्तः कर्मदेवा न सन्ति । अथ वा आजानदेवा नसन्ति इति । तत्र न तावदाद्यः, स्वर्गाद्यर्थतया ज्योतिष्टोमादिविधान- वैयर्थ्यापन्तः । ज्योतिष्टोमादयो हि यन्न दुःखेन संभिन्नं न च प्रस्तमनन्तरम् । अभिलाषोपनीतं यत्तत्सुखं स्वःपदा- स्पदम् इत्याद्यर्थवादावगतसुखलक्षणस्वर्गाद्यर्थाः स च स्वर्गादिः स्वर्गलोके ’ यजमानं हि देहि मां नाकस्य पृष्ठे परमे व्योमन् ’ इति मन्त्रावगत लोकविशेषं गतेन अन्य- अवतरं कल्याणतरं रूपं कुरुते पित्र्यं वा गान्धर्व वा दैव वेत्यादिश्रुतिप्रतिपन्नं दिव्यशरीरं प्राप्तेनोपभोक्तयः ।
अयोध्याकाण्डः ।
[[३४३]]
‘अशरीरं वाव सन्तं न प्रियाप्रिये स्पृशतः’ इति श्रवणात् अशरीरस्य सुखोपभोगासंभवात् इहस्थितस्थ पुण्यपापा- भ्यामारव्यशरीरादियुक्तस्य विधिनिषेधवद्धस्य दुःखाभि- नसुखोपभोगासंभवाच । अतश्व ज्योतिष्टोमादिविधिवै- ययै परिहाराय ज्योतिष्टोमादिफल भूतस्वर्गाद्युपभोगार्थ देवाः दिव्यविग्रहादिमन्तोऽवश्यमभ्युपगन्तव्याः । अत एव स्वर्गोपभोगाय शरीरमुत्पादयितुमाज्यपयः प्रभृतिभि राहुतिद्रव्यः सूक्ष्मरूपतामापत्रैष्ट्र
}
गच्छतीति ।
उक्त हत्यधिकरणे तथा हि-तदन्तरप्रतिपत्तौ रहति संप रिष्वक्तः प्रश्ननिरूपणाभ्याम् । जीवो भूतसूक्ष्मैरसंपरिव- तो देहं गच्छति, उत संपरिष्वक्तः इति विशये ’ स एवा- स्तेजोमावाः समभ्यादान इत्यादिवाक्येषु करणोपादान- वद्भूतोपादानाश्रवणात् असं परिष्वक्तो गच्छति इति पूर्व प्रापय्य तदन्तरप्रतिपत्तौ देहान्तरप्रतिपत्तौ देहबीजभूत- भूतसूक्ष्मैः संपरिष्वक्तो रंहति गच्छति कुतः प्रश्ननिरूपणा- भ्यां वेत्थ यथा पचभ्यामाहुताचापः पुरुषवचस्रो भव- न्तीति प्रश्नः इति तु पञ्चम्यामाहुतावापः पुरुषवचसो भवन्तीति निरूपणं प्रतिवचनं ताभ्यां भूतसूक्ष्मैः परि-
[[૪૪]]
धर्माकूते
वेष्टितो गच्छतीति । ननु पञ्चम्यामाहुताबापः पुरुषव- चसो भवन्तीत्ययं मात्रावेष्टितत्वं श्रुतमत आध्यात्म- कत्वात्तु भूयस्त्वात् त्रिवृत्करण श्रुतेः । इतरभूत द्वय सहिता- नामेव अपां शरीरारम्भकत्वं न केवलानाम् । कार्यस्थ शरीरस्य व्यात्मकत्वदर्शनात् च । बाहुल्यापेक्षया तु अपां पुरुषवचनत्वं न भूतान्तर निरासार्थम् । दृश्यते हि सर्वदेहेषु. रसलोहितादिद्रवभूयस्त्वं कर्म च निमित्तकारणं देहारम्भे कर्माणि चाग्निहोत्रादीनि खोमाज्यपयः प्रभृतिद्रवद्रव्य- व्यपाश्रयाणि कर्मसमवायिन्यश्चापः श्रद्धाशब्दोदिताः सह कर्मभिः द्युलोका रूमौ हूयन्त’ इति । वक्ष्यति तस्माद- यां बाहुल्यसिद्धम् । प्राणगते ‘तमुत्क्रामन्तं प्राणेनो- त्क्रामति’ इति । प्राणगतिश्रुता सा नतिराश्रया उपपन्ना जीव तथा दर्शनात् तथा च यदाश्रयः प्राणो गच्छति तैर्भूतसूक्ष्मष्टितो जीवो रहतीति गम्यते । इन्द्रियाणां च तदाश्रयत्वानुपलब्धेरन्यादिगतश्रुतेरिति चेन्न, भाक्त- स्वात् । मृतस्य ‘अग्नि बागप्येति वातं प्राण’ इति श्रुतेः न प्राणो जीवेन सह गच्छतीति चेन्न, वागादीनामग्न्या- दिगतिश्रुतेः । ओषधीमानि वनस्पतीन्केशा इत्यादि-
अयोध्याकाण्डः ।
[[३४५]]
वत् भाक्ततया तत्कृतोपकारनिवृतिमात्रपरत्वात् । प्रथमे-
श्रवणादिति चेन वा एव ह्युपपत्तेः । सुरर्जन्यपृथिवी पुरुष- योषिलक्षणेषु पञ्चान्निषु प्रथमे ‘असौ बाव कोको गौतमा- ग्निः’ इत्युक्तः ‘तस्मिन्नेव देवाः श्रद्धां जुद्धसि ’ aft श्रद्धा एव हत्। अपां चाश्रव- वात् पश्वत्थामाहुतौ अव पुरुषभावो न युक्त इति चेन्न । यतः ‘आपो हास्मै श्रद्धां नान्ते’ इति श्रुतेः श्रद्धा हेतवः आपः श्रद्धाराब्देनाभिपन्नो । सं सति प्रभत्रतिवचनयो- रुपपत्तिःः इजरथा कथं वे यथा पञ्चम्यानाह नावापः पुरुषसो भवन्तीवि, पञ्चन्यानाहूतादाषः पुरुषत्र- चम्रो भवन्तीति श्रप्रतिवचनयोः प्रथमाहुतेरसंभवादुप- पतिः । अश्रुतत्वादिति बेन्नेटादिकारिणां प्रतीतेः । श्रद्धाश- दोदितानामपां पुरुषवचस्येपि न तत्परिवष्टितत्वं जी- वस्य उच्यते श्रह्रावज्जोवस्याला श्रुतत्वादिति चेन्न । कुतः ? अथ य इमे पूर्वेत्ता ते धूमनभि संभव- न्तीति वाक्यशेषात् अग्निहोत्रानुशतॄणां प्रतीतेः तेषां चाग्निहोत्रादर्शपूर्णमासादि कर्म लाचन भूतविपयः प्रभृतयो द्रवद्रव्यभूयस्त्त्रात् प्रत्यक्ष आपः सन्ति । ता आहव-
D. Pt. IV-10
[[2]]
[[1]]
३४६.
[[1]]
धमांकृते
नये हुताः सूक्ष्मा आहुत्यपूर्वरूपाः सत्यः तानिष्टादिकारिण आश्रयन्ति । तेषां व नैधनेन विधिना शरीरे संस्कृते श्रद्धापूर्व कर्म समवायिन्य आहुतिमय्य आपोऽपूर्वरूपाः स्र- त्यस्तानिष्टादिकारिणो जीवान्परिवेष्ट्यामुं लोकं फलदा- नाय नयन्ति । तदिदं नयनं जुहोतिनाभिधीयते श्रद्धां जुह्वति इति । तथा चाग्निहोत्रषट्प्रनप्रतिवचनरूपेण वा- क्यशेषेण ‘ते वा एते आहुती हुते उत्क्रामतः’ इति । एष- मादिनाग्निहोत्राहुत्योः फलारम्भाय ढोकान्तरप्राप्तिः प्रदर्शिता । तस्मादाहुतिमयीभिरद्भिः संपरिष्वक्तो जीबो रहति स्वकर्मफलभोगाय इति सिद्धम् । नाप्याजान देश न सन्तीति द्वितीयः, इन्द्रत्वादिप्रापकशताश्वमेधादिविधि- वैयर्थ्यापत्तेः । किंव, ब्रह्मणः सायुज्यं सढोकतां यन्ति एतासामेव देवतानां सायुज्यं साष्र्ष्टितां समान लोकतां यन्ति य एतदुपयन्तीत्यादिश्रुत्या ब्रह्मादिदेवतासायुज्यसा- हिंसाको क्यादिफलोद्देशेन विश्वसृजामयने विधाननैय-
प्रात्। तव सालोक्यं तलोकप्राप्तिस्तत्सार्ष्टिस्तत्समा- नभोगत्वं तत्सायुज्यं च गान्धर्वादिशाखं आनानस्य ब्रह्मा- देगीतादिभियों भोगतादृशभोगवत्त्वमिति विवेकः ।
अयोध्याकाण्डः ।
BA
तथा च्छन्दोगानां सामविधानब्राह्मणे ‘सुतासो मधुमन्तमा इति वर्ग’ इत्यारभ्य ‘मासेनेन्द्रं चतुर्भिः प्रजापति संवत्सरेण यत्किंच जगत्सर्व हास्य गुणीभवति’ इत्यन्तेन इन्द्राविदे- बतावशीकरणफलोद्देशेन सुतासो मधुमत्तमा इत्यस्यामृचि उत्पन्नस्यामजपविधानवैयर्थ्यप्रसङ्गात् । न हि तत्तल्लोकाधि- पानां दिव्यदेहोपभोगभाजामभावे तत्खायुज्यवशीकरणा- युद्देशेन कर्मविधानं संभवति । किं च, आजानदेवकर्म-
। देवानां विप्रवत्त्वानङ्गीकारे तं ब्रह्माद अभिधावत मम यशसा तमागतं पृच्छति कोऽसीति ब्रह्मालंकारेणालंकृतः इत्यादिश्रुतिविरोधश्च । एवं च आजानजानां कर्मदेवानां च विग्रहादिसिद्धौ सुकृतां वा एतानि ज्योतींषि यन्त्र- क्षत्राणीति श्रुत्या कर्मजानां देवानां देहप्रभामण्डलान्येत्र नक्षत्राणीति यथा स्वीक्रियते, तेनैव प्रकारेण आजान- जानामादित्यादिदेवानामपि मण्डलानि देहप्रभामण्डला- न्येव तस्मिन्नेत्र मण्डले आदित्यादिशब्दाः प्रयुज्यन्ते गोलकेष्विव चक्षुरादिशब्दाः ; एवं च तदीयदेह प्रभाम- ण्डलदर्शनमेव मादित्यादिदर्शनमिति कृत्वा ‘तैनं गोपा अहम्’ इत्यादिश्रुत्या आदित्यादेः सर्वजनदृश्यत्वप्रति-
*
[[३८]]
तिविशेषप्रतिपादनम्
i
धर्मात
यादनं न विरुध्यते । एवमस्मिन्मन्त्रे कृच्छ्राङ्गादित्योपस्था- नमन्त्रे च आदित्यस्य नीलप्रीवत्वादिशिवासाधारणाकृ. य एषोऽन्तरादित्ये हिरण्मयः पुरुषो दृश्यते’ ‘नमो हिरण्यबाहवे’ हत्यादिश्रुतिप्रतिपन्ना- न्तर्याम्यभिप्रायेणेति न तु प्रयुक्तोऽपि विरोधः शङ्कनीयः । ‘अर्थमा यासि’ इति मन्त्रेऽपि आदित्यच महेन्द्रासाधार- वज्रहस्तत्वादिप्रतिपादनं द्वादशादित्यान्तर्गसेन्द्रपरत्वान विरुभ्यते । तथा च भारते आदिपर्वणि– ‘धाता मित्रोऽर्यमा शst area एव च । भगो विवस्वा न्यूषा च वविता दशमस्तथा ॥ एकादशसाष्टा विष्णुर्द्वादश उच्यते इसि । हरिवंशेऽपि ‘अदित्यां काश्यपाजाता आदित्या द्वादशैव हि । इन्द्रो विष्णुर्भग- स्त्वष्टा वरुणशोऽर्यमा रविः । पूषा मित्रश्च वरदो धाता पर्जन्य एव व’ इति । ‘खर्पा वा आदित्याः’ इत्याद्युक्ति- रपि यूपादित्योक्तिवत्प्रशंखापरा । एवं निरस्तमन्तविरो- न फलविधिसामर्थ्येन सिद्धे विप्रवति देवतागणे युग- earray ऋतुषु युगपदाहूतेन्द्रादिदेवानां युगपत्संनि- धानमपि नानुपपन्नम् । योगबळेनानेकशरीरपरिग्रहशंभ-अयोध्याकाण्डः ।
[[३४९]]
वातू, शरीराणां मातापितृप्रभवत्वनियमस्तु भणिमाय- हैश्वर्यादिफलक योगविविविरोधात् सुखानां दुःखसंभिन्न- त्वनियमवदनादरणीयः । अत एव मातापितृसंयोगं विनैव संकल्पमात्रेणैवानेकशरीरपरिग्रहं दर्शयति श्रुतिः- ‘यदि पितृलोककामो भवति संकल्पादेवास्य पितरः समुत्तिष्ठन्ति तेन पितृलोकेन संनो महीयते ’ इत्यादि । तथा—‘स एकथा भवति त्रिधा भवति पचधा सप्तवा taur’ इत्यादि । विष्णुपुराणेऽपि तान्यान्मानद्या- न्पुत्रान्सदृशानात्मनोऽसृजत् । भृगुं पुरस्यं पुलहं ऋतुः सङ्गिरचं तथा । मरीचि दक्षत्रिय वसिष्ठं चैव मान- सान् । नथ ब्रह्माण इत्येते पुराणे निवयं गताः’ इति । आदिपर्वण्यपि – ’ एवमुक्त्वा तु यजने हुते इविवि संस्कृते । उत्तस्थौ पावकात्तस्मात्कुमारो देव संनिभः । कुमारी चापि पाचाली वेदीमध्यात्वमुत्थिता’ इति । एवं च यज्ञवाटमागदानां देवानामदृश्यत्वमपि मणिमा- यष्टैश्वर्यवादुपपन्नं न प्रत्यक्षेण विरुध्यते । ‘कस्य वा ह मागच्छन्ति यो व देवाः पूर्व प्रतिगृह्णाति स एनाम् श्वोभूते यजते ’ इत्याद्यर्थवादानां प्रावरन्याधानता-
देवा
[[३५०]]
धर्माते
बकत्वेन स्वार्थतात्पर्यकत्वाभावात् । एवं भोक्तृत्वमषि देवानामुपपन्नमेव । अग्नौ प्रक्षिप्तस्य हविषो भस्मीभावे- sपि रसांशभोजन संभवात् । न च तत्र प्रमाणाभावः, ‘अबाहुव्याणि सुरभीणि कृत्वा ’ इति हविषोऽवस्थान्त- रकरणपूर्वकं नयनप्रतिपादकमन्त्रस्यैव प्रमाणत्वात् । एवं पर्यनिकरणान्ये उत्सृष्टेषु पशुषु काशकुशस्वर्यादिष्वपि रसांशभोगः संभवत्येव । न चैवमुत्सृष्टानां पशूनां पूर्वावस्था- तो वैलक्षण्यमनुभूयेतेति वाच्यम् । मधुकरोपमुक्तपुष्पाणा- मिव वैलक्षण्योपपत्तेः । न चैवम् अग्नौ प्रास्ताहुतिरित्यादि- स्मृत्या हविषः आदित्यादिमण्डलं प्राप्य पुनर्वृष्ट्यनपुरुषादि- भावेन प्रत्यावृत्तिप्रतिपादनं विरुध्येत इति वाच्यम् । ‘यद्वे देवा हविर्जुषतेऽल्पमप्येकमाहुतमपि तंद्विरिमात्रं वर्धयन्ते ? इति त्यक्तस्य हविषो वृद्धिश्रवणेन कश्चिदशस्तृप्तिपर्याप्तो देवैर्भुज्यते । कश्चिदशो दृष्ट्यन्नादिरूपेणावर्तत इति न विरोधः । पित्रादिश्राद्धेषु दत्तमन्नमपि पिलादिभिर्यच्छ- hi परिगृहीतं तत्तज्जात्युचिताहाग्रूपेण परिणमते पित्रा - दिश्राद्धेषु दत्तमन्नमपि तत्तत्तृप्तिकरं भवति । तथा च विष्णुपुराणे- श्यमन्तकमण्याहरणाय जाम्बवता सह
अयोध्याकाण्डः ।
મં
युभ्यमानस्य कृष्णस्य ज्ञातिकृतश्राद्धविशिष्टपात्रोपयु- कान्नतोयादिना कृष्णस्य बलप्राणपुष्टिरभूत् इति । नैव ‘श्रद्धासमन्वितैर्दत्तं पितृभ्यो नाम गोत्रतः । यदा- हारास्तु ते जातास्तदाहारत्वमेति तत्’ इति । मात्स्येऽपि - ‘देवो यदि पिता जातः शुभकर्मणि योगतः । तस्यान्न- ममृतं भूत्वा देवत्वेऽप्यनुतिष्ठति ॥ गान्वर्षभोग्यरूपेण पशुत्वे च तृणं भवेत् । श्राद्धान्नं वायुरूपेण नागत्वेप्युप- तिष्ठति ॥ पानं भवति यक्षत्वं राक्षसत्वे तथामिषम् । दानवत्वे तथा मां प्रेतत्वं रुधिरोदकम् ॥ मनुष्यत्वंऽन्न- पानादि नानाभोगरत्रो भवेत्’ इति । एवं च पिवाद्युद्दे- शेन दत्तं हविस्तत्तज्जात्युचिनाररूपेण परिणतं सत्तत्तृ- प्तिकरं भवति । देवानां वागदेशानागनने आवाहनश्रुतेः, आगमने अग्नेव्यवाहनर्विरोध इत्यपि न, अग्निमत्र आवहेत्यादिमन्त्रेण आहाने आगत्य हांवेर्गृह्णन्ति अनाह्नाने च अग्निनानीतं हविर्भुखते इति व्यवस्थया आवेरोब- संभवात् । अत एव मन्त्रेणाह्वाने देवतागमनं भारते दृष्टम् । जनमेजयः - यथा चेदं कर्म समाप्यते मे यथा व बे तक्षक
बैं एति शीघ्रम् । तथा भवन्तः प्रयतन्तु सर्वे परं शक्त्या सह मे
[[३५२]]
॥
श्रर्माते
विद्विषाणः । ऋत्विजः - यथा शाखाणि नः प्राहुर्यथा शंख- ति पावकः । इन्द्रस्य भवने राजंस्तचको भयपीडितः । यथ सूतो लोहिताक्षो महात्मा पौराणिकचोदितवान्पुरस्तात् । एतच्छ्रुत्वा दीक्षितस्तप्यमान आस्ते होतारं चोदवन कर्मकाळे ॥ होवाच यत्तोऽस्य जुहाव मन्त्रैर्यथामरेन्द्रः स्वयमाजगाम । विमानमारुह्य तदेव देवैः सर्वे देवैः परिस- स्तूयमानः ॥ तस्योत्तरीये निहितः स नागो भयोद्विग्नः शर्म नैवाभ्यगच्छत् । जनमेजयः - इन्द्रस्य भवने विप्रा यदि नागः सतक्षकः । तमिन्द्रेणैव सहितं पातयध्वं विभावसौ ॥ हूयमानस्तथा चैव तक्षकः सपुरंदरः । आकाशे ददृशे चैव दानेन व्यथितस्तथा ॥ पुरंदरस्य से यहां दृवोरु भयमाविशत् । हित्वा तु तक्षकं वस्तः स्वमेव भवनं ययौ । इन्द्रे गते तु नागेन्द्रस्तक्षको भयमोहितः ॥ मन्त्र- शक्त्या पावकार्चिः हमीपमवशो गतः । बौतिः – जन- मेजयेन राज्ञा तु नोदितस्टक्षकं प्रति । होता जुहाव तत्रस्थं सशकं पन्नगं तथा ॥ आदिपर्वणि—‘ला तथोक्ता तथेत्युक्त्वा तेन भर्ना वराङ्गना । अभिवाद्याभ्यनुज्ञाता प्रदक्षिणमवर्तत ॥ आहूयामास वै कुन्ती गर्भार्थं धर्मम-
जोध्याकाण्डः ।
[[३५३]]
युतम् ॥ जजाप मन्त्रं विधिवद्दत्तं दुर्वाससा पुरा । आजगाम ततो देवी धर्मो मन्त्रबलोन्तपः । विमाने सूर्य- संकाशे कुन्ती यस व्यवस्थिता’ इति । यद्यप्यतीतानां पित्रादीनां परिगृहीतजन्मान्तराणां श्राद्धदेशागमनं युक्ति. विरुद्धं तथापि तेषामधिष्ठात्राजानपितृरूपाः वसुरुद्रादि- त्यादयः स्मृतिषु प्रसिद्धाः स्वयं हविर्भिस्तृप्ताः सन्तः स्वा विष्टितान्यजमान पितृनपि तर्पयित्वा श्राद्धकर्तुरपि उचि तफलं प्रयच्छन्ति । यथा सदरदेन स्वयं तृप्ता गर्भिण्यो गर्भाव्य पोषयन्धि शुन्य प्रत्युपकुर्वन्ति । हरिवंशे भीष्मं प्रति शन्तनुम्वनम् — ‘आदिदेवनास्तात पितरो देवदेवताः । तान्यन्ति स्म लोका वै देवनर- exatorगन्धर्वाः रुकिंनरमहोरगाः ॥
दानवाः । आप्यायिताश्च ये भाई पुनराप्याययन्ति वै । जगत्सदे- वगन्धर्वमिति ब्रह्मानुशासनम् ॥ तान्यजस्त्र महाभागा- श्राद्धी श्राद्धैरतन्द्रितः । ते ते श्रेयो विधास्यन्ति सर्व- कामफलप्रदाः । त्वयैवाराध्यमानास्ते नामगोत्रादिकी- तनैः ॥ अस्मानाप्याययिष्यन्ति स्वर्गस्थानपि भारत’ इति । तदुक्तं पुराणे— सुरुद्रा दिविसुताः पितरः
[[૧૪]]
धर्माकृते
श्राद्धदेवताः । प्रीणयन्ति मनुष्याणां पितृश्राद्धेषु वर्षि-
वाः ॥ एवमेते महात्मानः भाडे सर्वान्कामान्प्रयच्छन्ति शतशोऽथ
सत्कृत्य पूजिताः । सहस्रशः ।’ इति ।
विष्णुपुराणे—’ श्राप्यायिता दद्युः सर्वान्कामान्पिता - महाः’ इति । यदपि - ‘न वै देवा अवन्ति न पिबन्ति एतदेवामृतं दृष्ट्टा तृप्यन्ति’ इत्यादि श्रुतिविरोध इति, तन्न संभवति । तत्र ‘असौ वा श्रादित्यो देवमधु’ इत्यादि खण्डपच्चकप्रतिपादित रोहिजा दिरूपात्मकान्यमृ- तानि स्वतोऽनदनीयद्रव्यत्वेन कुशादिवददनीयरूपतया परिणामासंभवाच्च अनुपभोग्यत्वशङ्कायां दर्शनमात्रेण तृप्तिप्रदानि इति परिहारार्थत्वेन तदवहारात्, यत्राद- नीयं वस्तु तदुपभोगे तु न किंचिद्वाषकमांस्त । न च प्रीतिमतामपि देवानां कल्पान्तरभाविफलदातृत्वं न संभवति । तेषामिन्द्रादीनां कल्पान्तरावस्थानासंभवा- दिति वाच्यम्, तत्रापि देवताप्रीतिजनितेश्वरश्रीति- द्वारा फलोपपत्तेः । न चैव सर्वत्र आवश्यकेश्वरप्रीत्येव तत्फलसंभवे किं देवताप्रीतिकल्पनयेति वाच्यम् । मन्त्रा- थवादादिभिरवगतदेवताप्रीतिपरित्यागे प्रमाणाभावात् ।
अयोध्याकाण्डः ।
પ
न चैवमीश्वरप्रीतैः साधारणतया फळतारतम्यं न स्यात् । वारतम्ये च श्रीवस्य परमेश्वरस्थ वैषम्यनैर्घृण्यप्रसङ्गः इति वाच्यम् । ‘एष ह्येव साधु कर्म कारयति तं यमथो निनीषते’ इति श्रुत्या कर्मापेक्षयैव फलदानेन वैषम्याद्य- भावात् । अत एव फलमत उपपत्तेरित्यधिकरण विरोधोऽपि नास्ति, कर्मणा प्रीतस्य परमेश्वरश्चैव ‘अन्नादो वसुदानः’ इति श्रुत्वा फलदातृत्वाभ्युपगमात् । अन एव गुणक्रियावय- ahaareering कृष्णाय स्वाहा श्वेताय स्वाहेत्यादिषु देव ताया अभावेsपि परमेश्वरप्रीत्यैव फळसंभवान्न विरोधः । किं च इन्द्रादयो देवा नात्यन्तं परमेश्वराद्भिन्नाः, किं
किं तु ‘एतदिदमाहुरभुं यजामुं यजेत्येकैकं देवमेतस्यैव सा वि सृष्टिरेष उ एव सर्वे देवाः’ इति ‘इन्द्रं मित्रं वरुणमग्नि- माहुरथो दिव्यः स सुपर्णो गरुत्मान् एकं सद्विप्रा बहुधा वदन्त्यग्निं यमं मातरिश्वानमाहुः’ इति ‘एष ब्रह्मेष इन्द्र एक प्रजापतिरेते सर्वे देवाः’ इत्यादि श्रुतेः ‘एतमेके वदन्त्यमिं मनुमन्ये प्रजापतिम् । योऽसावतीन्द्रियोऽग्राह्यः सूक्ष्मो- ऽव्यक्तः सनातनः । सर्वभूतमयोऽचिन्त्यः स एव स्वयम्- इभ’ इति स्मृतेश्व इन्द्रादयो देवास्तस्यैव रूपभेदाः
[[३५६]]
धर्माकूते
इति न तेन तेषामन्यथासिद्धिः । वस्तुतस्तु मन्त्रार्थ- वादादीनां फलविध्यपेक्षित देवतास्वरूपप्रतिपादकतथा वि- क्षितार्थकत्वेन मीमांसकैरपि अङ्गीकर्तव्यतया देवता- विग्रहादिपश्वक निराकरणस्य फलप्रदाने कर्मण एव प्रा- धान्यमिति प्रतिपादनार्थत्वेन विग्रहादिनिराकरणेऽपि तेषां तात्पर्याभावात् तैरपि मन्त्रार्थवादादीनामवान्तरता स्पर्येण विग्रहादिकमङ्गीकर्तव्यमेव । यदुक्तं तात्पर्याविष- यत्वाद्विमहादिकं न विद्धयति, अन्यथा ‘सैन्धवमानय’ इति वाक्यस्य लक्ष्णानयनात्पर्येण प्रयुक्त वात्सर्यादि- षयेऽस्थानयनरूपार्थान्विरेऽपि श्रामाण्यं स्यादिति तत्र अश्वानयनरूपार्थान्तरप्रतीतेरननुभवपराहतत्वात् । न घाई-
। वादस्यले स्तुतिव्यतिरिक्तार्थो न प्रतीयत इति वकुं श- क्यम् । तथा सति शक्वार्थप्रतीत्य भावेन शक्यबन्धरू पलक्षणया स्तुतिप्रतिपत्तेरभावप्रसङ्गात् अनुभवविरोवा- च। एवं व मानान्तराविरुद्धः अपाप्तश्चार्थः शब्दगम्य इति अर्थवादादिवाद्विग्रहादिकं सिद्धयत्येव । अत एवान- धिगतार्थगन्तृ प्रमाणमिति मीमांसका अपि वर्णयन्ति । अन्यथा तात्पर्याविषयीभूतात्रा रेवत्या धारवारवन्तीयरू-
भयाकाण्डः ।
પૂર્ણ
पोऽपूर्वोऽर्थस्तात्पर्यविषयोऽपि सिद्धयति । तदा पार्थ- वादिकदेवता विप्रहादिष्वपि दीयतां दृष्टिः । एवं च देवा- नामाद्दाने आगत्य सुखते अनाहाने च स्वस्थाने स्थित्वा- निना नीतं हविर्भुञ्जते । भुक्त्वा च प्रीता भवन्ति प्री- ताश्च फलं प्रयच्छन्ति फलप्रदानानुपपत्त्या ईश्वरा अपि देवता अपि च दिग्वस्तंभवादनविकारं जैमिनिरिति सूत्रे मधुविद्यायां वस्त्रादिदेवानामधिकारो नाति, ‘तस्यां विद्यायां वसूपजीव्यत्वादेः ध्यातव्यत्वस्य वसूनामेकै को भूत्वेने नावगतदसुभावलक्षणफलस्य चासंभवादनविकार इति जैमिनिराचार्यो मन्यते’ इति भवता बादरायणेन प्रतिपादनात् असंभवस्थळे अनधिकारेऽपि संभवद्विद्या- न्तरे अधिकारोऽस्तीति जैमिनेरपि देवताविग्रहादिकं संमतमेवेत्यवगम्यते । इदं सर्वमपि विग्रहं चैतन्यं चान्तरा अनुपपन्नमिति सिद्धं विग्रहादिपष्व कमिन्द्रादिदेवता- नाम् । एवमेव इतिहासपुराणादिभिर्विग्रहादिमत्त्वेन प्रसि- द्धायाः गङ्गायाः प्रार्थनीयत्व फलदातृत्वादिकं सर्वमप्युपप- नमेव । न च तदुपस्थापकपदाभावात् न तद्वोनः संभव- तीति वाच्यम् । चक्षुरादिशन्दानामिन्द्रियवाचकत्ववत्
[[३५८]]
गङ्गादिशब्दानामपि
धर्माते
तदभिमानिदेवतावाचकत्व संभवेन
तेषामेव तदुपस्थापकत्वात् । न च प्रवाह सर्वैः प्रयुक्तानां गङ्गादिपदानां तदभिमानिदेवतावाचकत्वं न संभवतीति वाच्यम् । आदित्यादिशब्दानां ज्योतिर्मण्डड इव गङ्गा- दिपदानामपि प्रवाहे लक्षणयैव प्रयोगसंभवेन तद्वाचकत्व- संभवात् इति । एवमेबास्मिन्मन्थे तत्र तत्र श्रूयमाणानां नदी समुद्रपुरी पर्वत वनस्पतिविमानादीनां श्रुतिस्मृतीतिहा- सपुराणादिभिर्विग्रहादिमत्त्वेनावगमात्वं बोध्यत्वादिकमुपप- नम् । तथा हि– एवमेव यमुनां प्रति सीतावचनम् -
स्वस्ति देवि तरामि त्वां पारयेन्मे पतिव्रतम् । यक्ष्ये त्वां गोसहस्रेण सुराघदशतेन च ॥
स्वस्ति प्रत्यागते रामे पुरीमिक्ष्वाकुपाळिताम् । इति ।
ततो मध्यात्समुद्रस्य सागरः स्वयमुत्थितः । उदयन्हि महाशैकान्मेरोरिव दिवाकरः ॥ पन्नगैः सह दीप्तास्यैः समुद्रः प्रत्यदृश्यत । निग्धवैदूर्यसंकाशी जाम्बूनदविभूषितः ॥अयोध्याकाण्डः ।
रक्तमाल्याम्बरधरः पद्मपत्रनिभेक्षणः । सर्वपुण्यमयीं दिव्यां शिरसा धारयन्त्रजम् ॥ धातुभिर्मण्डितः शैलो विविधैर्हिमवानिव । इति । एवं पुरीं प्रति रामवचनम् ।
[[३५९]]
आपृच्छे त्वां पुरश्रेष्ठे काकुत्स्यपरिपालिते । दैवतानि च यानि त्वां पालयन्त्यावसन्ति च ॥ इति । सुन्दरकाण्डे ला हनुमत्संवादे तथा सा हरिशार्दूलं प्रविशन्तं महाबलम् । नगरी स्वेन रूपेण ददर्श पवनात्मजम् ॥ ला तं हरिवरं दृष्टा लङ्का रावणपालिता । ranatear as विकृताननदर्शना ॥ पुरस्तात्तस्य वीरस्य वायुसूनोरतिष्ठत । ततः कृत्वा महानादं सा वै लङ्का भयानकम् ॥ तलेन वानरश्रेष्ठं ताडयामास वेगिता । ततः संवर्तयामास वामहस्तस्य सोऽङ्गुलीः। सुष्टिनाभिजघानैनां हनुमान्क्रोधमूर्छितः ॥ बालकाण्डे -
शैलेन्द्रो हिमवन्नाम धातूनामाकरो महान् ।
•
धर्माते
तस्य कन्याद्वयं राम रूपेणाप्रतिमं भुवि ॥ या मेरुदुहिता राम तयोर्माता सुमध्यमा । नाम्ना मेना मनोक्षा वै पनी हिमवतः प्रिया ॥
तस्यां गमभवज्ज्येष्ठा हिमवतः सुता । उमा नाम द्वितीया तु कन्या तस्यैव राघव ॥ इति । सुन्दरकाण्डे —-
हिरण्यनाभी मैनाको निशस्य लवणाम्भसः । उत्पपात जला चूर्ण महाद्रुमलतायुतः ॥
प्रीतो हृष्टमना वाक्यमब्रवीत्पर्वतः कपिम् । मानुषं धारयन्रूपमात्मनः शिखरे स्थितः ॥ दुष्करं कृतवान्कर्म त्वमिदं वानरोतम । निपत्य मयि शुङ्गेषु विश्रमस्व यथासुखम् ॥ इति ।
न्यग्रोधं समुपागम्य वैदेही वाक्यमब्रवीत् । नमस्तेऽस्तु महावृक्ष पारयेन्मे पतिव्रतम् ॥ कौसल्यां चैव पश्येयं सुमित्रां च यशस्विनीम् । इति सीताञ्जलिं कृत्वा प्रत्यगच्छतस्पतिम् ॥
मोकान्तः ।
[[३६१]]
गुद्धकाणे-
भवी तथा रामस्तद्विमानमनुत्तमम् । वह वैभवणं देवमनुजानामि गताम् ॥ ततो रामाभ्यनुज्ञातं तद्विमानमनुत्तमम् । उत्तरां विशमागम्य जगाम
उत्तरकाण्डे-
वाचनम् ॥ इति ।
मथापरासमये भ्रातृभिः सह राम्रत्रः । शुभाव मधुरां वाणीमन्तरिक्षात्प्रभाषिताम् ॥ सौम्य राम निरीक्षस्व सौम्येव वदनेन माम् । कैलासशिवरात्प्राप्तं विद्धि मां पुष्पकं प्रभो ॥
तव शासनमाज्ञाय गतोऽस्मि धनदं प्रति । उपनातुं नरभे स च मां प्रत्यभाषत ॥
निर्जितस्त्वं महेन्द्रेण राघवेण महात्मना । निहत्य युधि दुर्धर्षं रावणं राक्षसाधिपम् ॥ ममासिपुरमा प्रीतिईते तस्मिन्दुरात्मनि । रावणे जगणे सौम्य लघुत्रे सहबान्धवे ॥
D. P. IV-11
ર
धर्माकूते
स त्वं रामेण लङ्कायां निर्जितः परमात्मना । वह सौम्य तमेव त्वमहमाज्ञापयामि ते ॥
एष मे परमः कामो यत्त्वं राघवनन्दनम् । वर्लोकस्य संयानं गच्छ त्वं विगतज्वरः ॥
तच्छासनमहं ज्ञात्वा धनदस्य महात्मनः । त्वत्सकाशं पुनः प्राप्तः स्वयं प्रतिगृहाण माम् ॥ बाढमित्येव काकुत्स्थः पुष्पकं समपूजयत् । लाजाक्षतैश्च पुष्पैश्च गन्धैश्चैव सुगन्धिभिः ॥ गम्यतां च यथाकाममागच्छेस्त्वं यदा स्मरे । सिद्धानां च यथा सौम्य मा विषादेन योजय - एवमस्त्विति रामेण विसृष्टः पुष्पकः पुनः । अभिप्रेतां दिशं प्रायात्पुष्पकः पुष्पमोदितः ॥
उत्तरकाण्डे-
मनसा पुष्पकं दध्यावागच्छेति महायशाः । इङ्गितं स तु विज्ञाय पुष्पको हेमभूषितः । आजगाम मुहूर्तेन समीपं राघवस्य वै #1
अयोध्याकाण्डः ।
[[३६३]]
सोऽब्रवीत्प्रणतो भूत्वा आगतोऽस्मि नराधिप । atrस्तव महाबाहो किंकरः समुपस्थितः ॥
भाषितं रुचिरं श्रुत्वा पुष्पकस्य नराधिपः । अभिवाद्य महर्षींस्तान्विमानमधिरोहत ॥ इति ॥
बालकाण्डे श्रीरामं प्रति विश्वामित्रः-
भृशाश्वतनयान्यम भास्करान्कामरूपिणः । प्रतीच्छ मम भद्रं ते पात्रभूतोऽसि राघव ॥
बाढमित्येव काकुत्स्थः प्रहृष्टेनान्तरात्मना । दिव्यभास्करदेहाश्च मूर्तिमन्तः सुखप्रदाः ॥ केचिदङ्गारसदृशाः केचिद्धूमोपमास्तथा । चन्द्रार्कसदृशाः केचित्प्राञ्जलिपुटास्तथा ॥
रामं प्राञ्जलयो भूत्वाब्रुवन्मधुरभाषिणः । इमे स्म नरशार्दूल शाधि किं करवाम ते ॥
मानसाः कार्यकालेषु साहाय्यं मे करिष्यथ । गम्यतामिति तानाह यथेष्टं रघुनन्दनः ॥
अथ ते राममामच्य कृत्वा चापि प्रदक्षिणम् । पवमस्त्विति काकुत्स्थं जग्मुरुवस्था यथागतम् ॥
डान्दोग्ये ‘अस्य यबैकां शाखां जीवो जहात्यभ स्वा शुष्यति द्वितीयां जहाति भथ सा. शुष्यति तृतीयां जहात्यथ सा शुष्यति सर्वे अहाति सर्वः शुष्यति । जीवा- पेतं वा व किलेदं म्रियते न जीवो म्रियते’ इति । तथा तैत्तिरीयके ‘स वनस्पतीनुपासीददस्यै ब्रह्महत्याये तृ- तीयं प्रतिगृह्णीतेति तेऽब्रुवन् वरं वृणामहै वृक्णान् परा- भविष्यन्तो मन्यामहे ततो मा पराभूमेत्यात्रश्चनाङ्को भूयांस उतिष्ठानित्यब्रवीत् । तस्मादावश्वनावृक्षाणां भू- यांस उत्तिष्ठन्ति वारे वृतं स्वेदां तृतीयं ब्रह्महत्याये प्रत्य- गृहुन्’ इति । तत्रैव ’ स पृथिवीमुपासीददस्यै ब्रह्महत्यायै तृतीयं प्रतिगृहाण’ इति । ‘साब्रवीद्वरं वृणे खातात्पराम- विध्यन्तीति मन्ये ततो मा पराभूवमिति पुरा ते संपत्स- रादपि रोहादित्यब्रवीत्तस्मात्पुरा संवत्सरात्पृथिव्यै खात- मपि रोहति बारे वृतं ह्यस्य इति प्रजापतिरनिमचिनुत तं पृथिव्यत्रवीत् न मध्यमिं चेष्यसेति मा भक्ष्यति सात्वाति-
[[३६५]]
दह्यमाना विवमिध्ये स पापीयान् भविष्यसि’ इति । मतु- रपि– ‘ओषध्यः फळपाकान्ता बहुपुष्पफलोपगाः । अपुष्पाः फलवन्तो ये ते वनस्पतयः स्मृताः ॥ पुष्पिणः फलिनश्चैव वृक्षास्तूभयथा स्मृताः । गुच्छ गुरुमे नवविश्व तथैव तृणजातयः ॥ ‘बीजकाण्डरुहाण्येव पृतनाबल्ल्य एव च । तमसा बहुरूपेण वेष्टिताः कर्महेतुना ॥ अन्तः- संज्ञा भवन्त्येते सुखदुःखसमन्विताः’ इति । भारते- लाङ्गलेन स्वप्रवाहमाकर्षन्तं बलरामं प्रति तदा स्त्रीरूपिणी भूत्वा यमुना राममब्रवीत् । प्रसीद नाथ भीतास्मि प्रति- लोमेन कर्मणा ॥’ मोक्षधर्मे नारदादिसंवादे वृक्षौषधि- तृणानि प्रति ब्रह्मणो वाक्यम ‘वतो वृक्षोपधितृणं समाहूय पितामहः । देवेनाभिहितानस्मान पुनईन्तुमईसि।, वय- afi तथा शी वर्षे च पवनेरितम् । सहामः सततं देव तथा च्छेदनमेदने ॥ अबध्यामिमामद्य भवतः शास- नादयम् । प्रहीष्यामात्रलोकेश मोक्षं चिन्तयतां भवाम् । ब्रह्मोवाच ‘पर्तकाखे तु संप्राप्ते यो वै कछेदनमेवने । करि- ध्यति नरो मोहातमेवानुगमिष्यति ॥ भीष्म उवाच -
॥ ततो वचौणिमेवमुक्तं महात्मना । ब्रह्माणमभिसं-
[[३६६]]
धर्माकूते
पूज्य जगामाशु यथागतम् ॥’ इति । विष्णुपुराणेऽपि —- ’ ततो मही महीपाल भारात भयपीडिता । जगाम शरणं देवं सर्वभूतपितामहम् ॥ वन्द्यमानं मुदोपेतैर्ववन्दे चैनमेत्य सा’ । कालिदासः — ’ अथार्धरात्र स्तिमितप्रदीपे शय्यागृहे सुप्तजने प्रबुद्धः । कुशः प्रवासस्थकलश्र्वेषामदृष्ट- पूर्वी वनितामपश्यत् ॥ सा साधु साधारणपार्थिवद्धेः स्थित्वा पुरस्तात्पुरुहूतभासः । जेतुः परेषां जयशब्दपूर्व
बिन्धुमतो बबन्ध ॥ तां सोऽनपोढार्गलमध्य- गारे छायामिवादर्शतलं प्रविष्टाम् । सविस्मयो दाशरथे- स्तनूजः प्रोवाच पूर्वार्धविसृष्टतरूपः ॥ लब्धान्तरा सावर- शेऽपि गेहे योगप्रभावो न च लक्ष्यते ते । विभर्षि चा- कारमनिर्वृतानां मृणालिनी हैममिवोपरागम् ॥ कावं शुभे कस्य परिग्रहो वा किं वा मदस्यागमकारणं से । आचक्ष्व मत्वा वशिनां रचूनां मनः परस्त्रीविमुखप्रवृति ॥ तमब्रवीत्सा गुरुणानवधा या नौतपौरा स्वपदोन्मुखेन । तस्याः पुरः सम्प्रति चीतनाथां जानीहि राजन्नविदेवतां माम् ॥’ इति । हरिवंशे - ‘सोऽनुमान्य सुरान्सवी- कृष्णवाक्यं निवेद्य च । सभां सुधर्मामादाय पुनराया-
raisererण्डः ।
[[३६७]]
न्महीतलम् ॥ साह्यक्षय्या सभा रम्या कामगा कामरू- पिणी । विष्णुपुराणे - ‘सभा सुधर्मा कृष्णेन मर्त्यलोके समुज्झिते । स्वर्गे जगाम मैत्रेयः पारिजातश्च पादपः’ । भारते अश्वपतिनामा मद्राधिपतिरपत्योत्पादनायाष्टादश- वर्षपर्यन्तम् ’ हुत्वा शतसहस्रं स सावित्र्या राजसत्तमः । षष्ठे षष्ठे तथा काले बभूव मितभोजनः ॥ पूर्णे स्वष्टादशे वर्षे सावित्री तुष्टिमभ्यगात्। रूपिणी तु तदा राजन्दर्श- यामास तं नृपम् ॥ अग्निहोत्रात्समुत्थाय हर्षेण महता- न्विता । उवाच चैनं वरदा वचनं पार्थिवं तदा ॥’ सभा- पर्वणि - ’ शक्रस्य तु सभा दिव्या भास्वरा कर्मभिर्जि- ar । स्वयं शक्रेण कौरव्य निर्मितार्कसमप्रभा । विस्ती- र्णा योजनशतं शतमध्यर्धमायता । वैहायसी कामगमा पश्वयोजनमुच्छ्रिता । जराशोककुमापेता निरातङ्का शिवा शुभा ॥ वेश्मासनवती रम्या दिव्यपादपशोभिता ।’ हरिवंशेऽपि – ’ चकार वायोराद्दानं भूयश्च पुरुषोत्तमः । सप्राणः प्राणभूतानामुपतस्थे गदावरम् ॥ तमुवाच ततः कृष्णो रहस्यं पुरुषो हरिः । मारुतं जगतः प्राणं रूपिणं समुपस्थितम् ॥’ अत्यल्पमिदमुच्यते । बृहदारण्यके -
[[३१०]]
‘यः पृथिव्यां तिष्टम्पूथिव्या अन्तरो यं पृथिवी न वेद. यस्य पृथिवी शरीरं यः पृथिवीमन्तरो यमयति । एष त आत्मान्तर्याम्यितः एवमप्सु भनौ अन्तरिक्षे वायौ दिवि आदित्यै दिनु चन्द्रतारके भाकाशे तमसि तेजसि इत्य- विर्देवतम् । यः सर्वेषु भूतेषु इत्यधिभूर्त प्राणे वाचि दुषि श्रोत्रे मनस्त्विचि ज्ञाने रेतसि इत्यभ्या- त्मम्’ इत्येवं पृथिव्यादीनां ‘यं पृथिवी न वेद’ इत्यादिना ब्राह्मणः पृथिवीकर्तृकदर्शनविषयत्वाभावप्रतिपादनान्यथा- नुपपत्या पृथिव्यादीनां सर्वेषामपि चैतन्यावगमात् यस्य पृथिवी शरीरमित्यनेन परमेश्वर सर्वत्राविविबनान परमेश्वरेणैव वेतनेन सर्वेषामपि भूतानां चैतन्यं सिद्धयति ! अत एव ’ पुरुषमेधे ब्रह्मणे ब्राह्मणना मत’ इत्यादिश्रुतौ देवतात्वेन अवगतानां ब्राह्मणत्वादिजातीनां लोके अचे- तनत्वेन प्रविद्धानामपि परमेश्वराविशविप्रयुक्तचतन्यव- त्वादेवमुपपद्यते। अत एव विभूत्यध्याये शुकानुपलने च परमेश्वराविर्भावाधीनमेष चैतन्यं विग्रहयत्वादिकं सर्वस्येति प्रतिपादितम् । तथा हि गीतायाम् ’ हन्त ते कविष्यामि दिव्या ग्रात्मभिभूतयः । प्राधान्यतः कुरु-कः ।
[[३९]]
श्रेष्ठ नास्त्वन्तो बिस्तरस्य मे ॥ महमात्मा गुडाकेश सर्वभूताशये स्थितः । महमादित्र मध्यं च भूतानामन्त एव च ॥’ इत्यादिना स्वस्य सर्वात्मकताप्रतिज्ञापूर्वकम् आदित्यानामहं विष्णुज्योतिषां रविरंशुमान्’ इत्यारभ्य ‘मौनं चैवास्मि गुयानां ज्ञानं ज्ञानवतामहम्’ इत्यन्तेन आदित्यादिव्यष्टिरूपतां प्रतिपाद्य संग्रहेण समष्टिरूपत्वमुप- संहरति ‘यश्वापि सर्वभूतानां बीजं तदहमर्जुन । न तदति विना यत्स्यान्मया भूतं चराचरम् ॥ नान्तोऽसि मम दिव्यानां विभूतीनां परंतप । एष तूद्देशतः प्रोक्तो विभू- विस्तरो मया । यद्यद्विभूतिमत्वं श्रीमदूर्जितमेव वा ॥ तत्तदेवावगच्छ त्वं मम तेजशसंभवम् । अथवा बहुनैतेन किं ज्ञातेन तवार्जुन । विष्टभ्यामिदं कृमेकांशेन खितो जगत् ॥’ इति । मोक्षधर्मे हुकानुपतने- ‘ततो द्वैपायन- सुतं बहुमानात्समन्ततः । कृarraपुटाः सर्वा निरीक्ष न्ते स्म देवताः ॥ भवतालदा वाक्यं शुकः परमधर्म- वितं । पिता यद्यनुगच्छेन्मां क्रोशमानः शुकेति ॥ ततः प्रतिवचो देयं सर्वैरेव समाहितः । शुकस्य ani roar दिशः सर्वा सकाननाः ॥ समुद्राः
[[३७०]]
धर्माकृते
सरितः शैलाः प्रत्यूचुस्तं समाहिताः । यथा ज्ञपा- at far बाढमेवं भविष्यति ॥ ऋषेर्व्याहरतो वा- क्यं प्रतिवक्ष्यामहे वयम् ।’ इति । मोक्ष में भृगुभर- द्वाजसंवादे भरद्वाज : - ‘पश्चभिर्यदि भूतैस्तु युक्ताः स्थावरजङ्गमाः । स्थावराणां न दृश्यन्ते शरीरे पक्ष था- तवः ॥ अनुष्मणामचेष्टानां घनानां चैव सत्त्वतः । वृ- क्षाणां वै न लक्ष्यन्ते शरीरे पथा धातवः ॥ न पश्यन्ति न रस्यन्ति न गन्धरसवेदिनः । न च स्पर्श विजानन्ति ते कथं पाञ्चनौतिकाः । अद्रवत्वादनमित्यादभूमित्रा- वायुतः ॥ आकाशस्याप्रमेयत्वादृशाणां नास्ति भौति- कम् ।’ भृगुरुवाच - ‘घनानामपि वृक्षाणामाकाशोऽस्ति न संशयः । तेषां पुण्यफलव्य क्तिर्नित्यं समुपपद्यते ॥ ऊष्मतो म्लायते पर्ण cares gsपमेव च । म्लायते शीर्यते चापि स्पर्शस्तेनात्र विद्यते । वाय्वग्न्यशनिनि- घोषैः फलपुष्पं विशीर्यते । श्रोत्रेण गृह्यते शब्दः तस्मा- छृण्वन्ति पादपाः । पुण्यापुण्यैस्तथा गन्धैर्धूपैव विवि- वैरपि । अरोगाः पुष्पिताः सन्ति तस्माज्जन्ति पाद- पाः । पादैः सलिलपानैश्च व्याधीनां चापि दर्शनात् ।
भयोध्याकाण्डः ।
व्याधिप्रतिक्रियत्वाच्च विद्यते रखनं द्रुमे ॥ वक्रेणोत्प- लनालेन यथोर्श्व जलमाददत् । तथा पवनसंयुक्तः पादैः पिबति पादपः । सुखदुःखयोश्च ग्रहणाच्छिन्नस्य च विरोहणात् । जीवं पश्यामि वृक्षाणामचैतन्यं न विद्यते ॥ तने तज्जलमादत्तं जरयत्यग्निमारुते । आहारपरिणामाच तेषां वृद्धिश्च जायते । एवं च जगन्मात्रस्य ईश्वरानुप्रवे- शप्रयुक्त चैतन्यमादाय संबोध्यत्वसंभवेन नदीसमुद्रपुरी- पर्वत वनस्पतिविमानादीनां संबोध्यत्वादिकमुपपन्नमेव । ततो बहुदूरं गतौ रामलक्ष्मणौ,
तौ तत्र हत्वा चतुरौ महामृगा-
न्वराहसृश्यं पृषतं महारुरुम् । आदाय मेध्यांस्त्वरितं बुभुक्षितौ
वासाय काले ययतुर्वनस्पतिम् ॥
त्रिपञ्चाशे, ततः कृतखायं सन्ध्यो रामभद्रः लक्ष्मणमे- वमवोचत् अद्य प्रभृति जागरणेनैवाप्रमत्ताभ्यां सीता संर- अणीया, मत्प्रवासनेनातिदुःखितं राजानं कृतकामा
[[३०२]]
bhar सपुत्रस्यैकवा किं करिष्यति बेसतिदुः- तिं मे मनः ।
इदं व्यसनमालोक्य राजा मतिविभ्रमम् । काम पवार्थभ्यां गरीयानिति मे मतिः ॥
को विज्ञानपि पुमान्प्रमदायाः कृते त्यजेत् । छन्दानुवर्तिनं पुत्रं ततो मामिव लक्ष्मण ॥ ree परित्यज्य यः काममनुवर्तते । एवमापद्यते क्षिप्रं राजा दशरथो यथा ॥
इति । अर्थ परित्यज्य काममुपसेवमानस्त्य अवस्था- कथनेन केवलकामाक्षक्तित कर्तव्येति सूचितम् । तथा चमनपर्वणि युधिष्ठिरं प्रति भीष्मबचन - ‘पत्र धर्म
कामार्थेति । मित्राणि तस्य नश्यन्त्रि वर्मा व हीयते ॥ a wartate कामार्थो निचनं ध्रुवम्। कामतों रममाणस्य मीनस्येषाम्भस्वः क्षये । सम्माद्धर्मार्थयोर्नित्यं न प्रमाद्यन्ति पण्डिताः । ननु अत्र व्याक्यो राजा धर्मवनवेक्ष्य काम-
अयोध्याकाण्डः ।
[[३७३]]
नशादेव पुत्रं परित्यक्तवानिति रामेणोक्तमित्यवगम्बरे । तदनुपपन्नम्, ‘धर्मपाशेन बद्धोऽस्मि’ इति दशरथवचनप- नया ‘पितरं सत्यमिच्छामि’ इति रामवचनपर्या- कोचनया च पूर्वप्रदत्त र निर्वहणरूपधर्मार्थमेव रामनिवा- अनेन कामप्रयुक्तत्वाभावादिति चेत्, सत्यम् । युद्धार्थ गम- नसमये कैकेयी विश्लेषासहिष्णुना राज्ञा युद्धभूम्यां कैकेयी- नयनं कामप्रयुक्तमेवेति तन्मूकवर प्रदानतत्परिपालना- विकं सर्वमपि पारम्पर्येण काममूलक मेवेत्येतदभिप्रायेणैव रामेणोकमिति न विरोधः । ‘नूनं आत्यन्तरे कस्मि- न्खियः पुत्रैर्वियोजिताः । जनन्या मम सौमित्रे वामध्ये- तदुपस्थितम् ॥ अनेन जन्मान्तरेऽस्मिन्या जन्मनि येन
शं कर्म कृतं तस्य तादृशं फलं भवतीति सूचिवम् । तथा व कर्मविपाके ‘वर्तमानशरीरेण संपन्न कर्म देहिनः । इह चामुत्र वा तस्य तद्ददाति फलं शुक’ इति ।
अल्पभाग्या हि मे माता कौसल्या रहिता मया । शेते परमदुःस्वार्ता पतिता शोकसागरे ॥
को ग्रहमयोध्यां च पृथिवीं चापि लक्ष्मण ।
धर्माफूले
तपेयमिषुभिः क्रुद्धो ननु वीर्यमकारणम् ॥.
referभीतश्च परलोकस्य चानघ । तेन लक्ष्मण नाद्याहमात्मानमभिषेचये ॥
इति । अनेन शकेनापि बलात्कारेण धर्मविरुद्धं न कर्तव्यमिति सूचितम् । तथा च वनपर्वणि युधिष्ठिरं प्रति मार्कण्डेयवचनम्- ‘नृपाश्च नाभागभगीरथादयो महीमिमां सागरान्तां विजित्य । सत्येन तेऽप्यजयंस्तात लोकाशे बलस्येति चरेदधर्मम ॥ अलर्कमा हुर्नरवर्य सन्तं सत्यत्रतं काशिकरूशराजम् । विहाय राज्यानि वसूनि aa नेशे बलस्येति चरेदधर्मम् ॥’ इति ।
एतचान्यच करुणं विलप्य विजने बहु । अश्रुपूर्णमुखो रामो निशि तूष्णीमुपाविशत् ॥ ततस्तत्र सुखासीनों नातिदूरे निरीक्ष्य ताम् । न्यग्रोधे सुकृतां शय्यां भेजाते धर्मवत्सलौ ॥
इति अयोध्याकाण्डे प्रथमो भागः ॥