1 bAla

तपः-स्वाध्याय-निरतं तपस्वी वाग्-विदां वरम् ।
नारदं परिपप्रच्छ वाल्मीकिर् मुनि-पुंगवम् ॥

[[२१]]

** को न्व् अस्मिन् साम्प्रतं लोके गुणवान् कश् च वीर्यवान् ।
धर्मज्ञश् च कृतज्ञश् च सत्य-वाक्यो दृढ-व्रतः ॥

चारित्रेण च को युक्तः सर्व-भूतेषु को हितः ।
विद्वान् कः कः समर्थश् च कश् चैक-प्रिय-दर्शनः ॥

आत्मवान् को जित-क्रोधो द्युतिमान् को ऽनसूयकः ।
कस्य बिभ्यति देवाश् च जात-रोषस्य संयुगे ॥

एतद् इच्छाम्य् अहं श्रोतुं परं कौतूहलं हि मे ।
महर्षे त्वं समर्थो ऽसि ज्ञातुम् एवंविधं नरम् ॥**

**इक्ष्वाकु-वंश-प्रभवो रामो नाम जनैः श्रुतः । **

[[२२]]

नारदस्य तु तद्-वाक्यं श्रुत्वा वाक्य-विशारदः ।
पूजयामास धर्मात्मा सह-शिष्यो महा-मुनिः ॥

**विचचार ह पश्यंस् तत् सर्वतो विपुलं वनम् ।
तस्याभ्याशे तु मिथुनं चरन्तम् अनपायिनम् ॥

ददर्श भगवांस् तत्र क्रौञ्चयोश् चारु-निस्वनम् ।
तस्मात् तु मिथुनाद् एकं पुमांसं पाप-निश्चयः ॥

जघान वैरनिलयो निषादस् तस्य पश्यतः ।
ऋषेर् धर्मात्मनस् तस्य कारुण्यं समपद्यत ॥

ततः करुण-वेदित्वाद् अधर्मो ऽयम् इति द्विजः ।
निशाम्य रुदतीं क्रौञ्चीम् इदं वचनम् अब्रवीत् ॥

[[२३]]

मा निषाद प्रतिष्ठां त्वम् अगमः शाश्वतीः समाः ।
यत्-क्रौञ्च-मिथुनाद् एकम् अवधीः काम-मोहितम् ॥**

**तस्यैवं ब्रुवतश् चिन्ता बभूव हृदि वीक्षतः ।
शोकार्तेनास्य शकुनेः किम् इदं व्याहृतं मया ॥

चिन्तयन् स महा-प्राज्ञश् चकार मतिमान् मतिम् ।
शिष्यं चैवाब्रवीद् वाक्यम् इदं स मुनि-पुंगवः ॥

पाद-बद्धो ऽक्षर-समस् तन्त्री-लय-समन्वितः ।
शोकार्तस्य प्रवृत्तो मे श्लोको भवतु नान्यथा ॥**

[[२४]]

आजगाम ततो ब्रह्मा लोक-कर्ता स्वयं प्रभुः ।
चतुर्-मुखो महा-तेजा द्रष्टुं तं मुनि-पुंगवम् ॥
वाल्मीकिर् अपि तं दृष्ट्वा सहसा उत्थाय वाग्-यतः ।
प्राञ्जलिः प्रणतो भूत्वा तस्थौ परम-विस्मितः ॥

प्रणम्य विधिवच्चैनं पृष्ट्वानामयम् अव्ययम् ।

अथोपविश्य भगवान् आसने परमार्चिते ।
वाल्मीकये महर्षये संदिदेशासनं ततः ॥

ब्रह्मणा समनुज्ञातः सो ऽप्य् उपाविशद् आसने ॥

उपविष्टे तदा तस्मिन् साक्षाल् लोक-पितामहे ।
तद्-गतेनैव मनसा वाल्मीकिर् ध्यानम् आस्थितः ॥

पापात्मना कृतं कष्टं वैर-ग्रहण-बुद्धिना ।
यस् तादृशं चारु-रवं क्रौञ्चं हन्याद् अकारणात् ॥
शोचन्न् एव मुहुः क्रौञ्चीम् उपश्लोकम् इमं पुनः ।
जगाव् अन्तर्गत-मना भूत्वा शोक-परायणः ॥

तम् उवाच ततो ब्रह्मा प्रहसन् मुनि-पुंगवम् ।
श्लोक एव त्वया बद्धो नात्र कार्या विचारणा ॥

मच् छन्दाद् एव ते ब्रह्मन् प्रवृत्तेयं सरस्वती ।
रामस्य चरितं सर्वं कुरु त्वम् ऋषि-सत्तम ॥

धर्मात्मनो गुणवतो लोके रामस्य धीमतः ।
वृत्तं कथय वीरस्य यथा ते नारदाच् छ्रुतम् ॥

रहस्यं च प्रकाशं च यद् वृत्तं तस्य धीमतः ।
रामस्य सह सौमित्रे राक्षसानां च सर्वशः ॥

वैदेह्याश् चैव यद् वृत्तं प्रकाशं यदि वा रहः ।
तच् चाप्य् अविदितं सर्वं विदितं ते भविष्यति ॥

न ते वाग् अनृता काव्ये काचिद् अत्र भविष्यति ।

कुरु राम-कथां पुण्यां श्लोक-बद्धां मनोहराम् ॥

यावत् स्थास्यन्ति गिरयः सरितश् च मही-तले ।
तावद् रामायण-कथा लोकेषु प्रचरिष्यति ॥

यावद् रामायण-कथा त्वत्-कृता प्रचरिष्यति ।
तावद् ऊर्ध्वम् अधश् च त्वं मल्-लोकेषु निवत्स्यसि ॥
इत्य् उक्त्वा भगवान् ब्रह्मा तत्रैवान्तरधीयत ।

उदार-वृत्तार्थ-पदैर् मनोरमैस्-
तदास्य रामस्य चकार कीर्तिमान् ।
समाक्षरैः श्लोक-शतैर् यशस्विनो
यशस्करं काव्यम् उदार-धीर् मुनिः ॥

दशशिरसश् च वधं निशामयध्वम् ।

श्रुत्वा वस्तु समग्रं तद् धर्मात्मा धर्म-संहितम् ।

व्यक्तम् अन्वेषते भूयो यद् वृत्तं तस्य धीमतः ॥

उपस्पृश्योदकं सम्यङ्मुनिः स्थित्वा कृताञ्जलिः ।
प्राचीनाग्रेषु दर्भेषु धर्मेणान्वेषत गतिम् ॥

[[३०]]

राम-लक्ष्मण-सीताभी राज्ञा दशरथेन च ।
स-भार्येण स-राष्ट्रेण यत् प्राप्तं तत्र तत्त्वतः ॥

हसितं भाषितं चैव गतिर् या यच् च चेष्टितम् ।
तत् सर्वं धर्म-वीर्येण यथावत् संप्रपश्यति ॥

स्त्री-तृतीयेन च तदा यत् प्राप्तं चरता वने ।
सत्य-संधेन रामेण तत् सर्वं चान्ववेक्षितम् ॥

ततः पश्यति धर्मात्मा तत् सर्वं योगम् आस्थितः ।
पुरा यत् तत्र निर्वृत्तं पाणाव् आमलकं यथा ॥
तत् सर्वं तत्त्वतो दृष्ट्वा धर्मेण स महा-द्युतिः ।
अभिरामस्य रामस्य चरितं कर्तुम् उद्यतः ॥

कामार्थ-गुण-संयुक्तं धर्मार्थ-गुण-विस्तरम् । समुद्रम् इव रत्नाढ्यं सर्व-श्रुति-मनोहरम् । स यथा कथितं पूर्वं नारदेन महर्षिणा ।
रघु-वंशस्य चरितं चकार भगवान् ऋषिः ॥

प्राप्त-राज्यस्य रामस्य वाल्मीकिर् भगवान् ऋषिः ।
चकार चरितं कृत्स्नं विचित्र-पदम् आत्मवान् ॥

चतुर्विंशत्-सहस्राणि श्लोकानाम् उक्तवान् ऋषिः ।
तथा सर्ग-शतान् पञ्च षट्-काण्डानि तथोत्तरम् ॥

कृत्वापि तन् महा-प्राज्ञः स-भविष्यं सहोत्तरम् । चिन्तयामास को न्व् एतत् प्रयुञ्जीयाद् इति प्रभुः ॥

तस्य चिन्तयमानस्य महर्षेर् भावितात्मनः ॥

अगृह्णीतां ततः पादौ मुनि-वेषौ कुशीलवौ ।
कुशीलवौ तु धर्म-ज्ञौ राज-पुत्रौ यशस्विनौ ॥

भ्रातरौ स्वर-संपन्नौ ददर्शाश्रम-वासिनौ ।
स तु मेधाविनौ दृष्ट्वा वेदेषु परिनिष्ठितौ ॥

वेदोपबृंहणार्थाय ताव् अग्राहयत प्रभुः ॥

तौ तु गान्धर्व-तत्त्वज्ञौ मूर्छना-स्थान-कोविदौ ॥
भ्रातरौ स्वर-संपन्नौ गन्धर्वाव् इव रूपिणौ ॥

रूप-लक्षण-संपन्नौ मधुर-स्वर-भाषिणौ ।
बिम्बाद् इवोद्धृतौ बिम्बौ राम-देहात् तथापरौ ॥

तौ राज-पुत्रौ कार्त्स्न्येन धर्म्यम् आख्यानम् उत्तमम् ।
वाचो-विधेयं तत् सर्वं कृत्वा काव्यम् अनिन्दितौ ॥

ऋषीणां च द्विजातीनां साधूनां च समागमे ।
यथोपदेशं तत्त्व-ज्ञौ जगतुस् तौ कुशीलवौ ॥

महात्मानौ महा-भागौ सर्व-लक्षण-लक्षितौ ।
तौ कदाचित् समेतानाम् ऋषीणां भावितात्मनाम् ॥

आसीनानां समीपस्थाविदं काव्यमगायताम् ।
पाठ्ये गेये च मधुरं प्रमाणैस्त्रिभिरन्वितम् ॥

जातिभिः सप्तभिर् बद्धं तन्त्री-लय-समन्वितम् ।
हास्य-शृङ्गार-कारुण्य-रौद्र-वीर-भयानकैः ॥

बीभत्साद्भुत-संयुक्तं काव्यम् एतद् अगायताम् ॥

इदं पवित्रं पाप-घ्नं पुण्यं वेदैश् च संमितम् ।

तच्छ्रुत्वा मुनयः सर्वे बाष्प-पर्याकुल-ईक्षणाः ।
साधु साध्व् इति चाप्य् ऊचुः परं विस्मयम् आगताः ॥

ते प्रीत-मनसः सर्वे मुनयो धर्म-वत्सलाः ।
प्रशशंसुः प्रशस्तव्यौ गायन्तौ तौ कुशीलवौ ॥

अहो गीतस्य माधुर्यं श्लोकानां च विशेषतः ।
चिर-निर्वृत्तम् अप्य् एतत् प्रत्यक्षम् इव दर्शितम् ॥

प्रविश्य ताव् उभौ सुष्ठु तथा भावम् अगायताम् ।
सहितौ मधुरं रक्तं संपन्नं स्वर-संपदा ॥

एवं प्रशस्यमानौ तैस् तपः-श्लाघ्यैर् महात्मभिः ।
संरक्ततरम् अत्यर्थं मधुरं ताव् अगायताम् ॥

प्रीतः कश्चिन् मुनिस् ताभ्यां संमतः कलशं ददौ ।
प्रसन्नो वल्कलं कश्चिद् ददौ ताभ्यां महा-तपाः ॥ अन्यः कृष्णाजिनं प्रादान् मौञ्जीम् अन्यो महा-मुनिः ।
कश्चित् कमण्डलुं प्रादाद् यज्ञसूत्रम् अथापरः ॥

औदुम्बरीं ब्रसीम् अन्यो जप-मालाम् अथापरः ।
आयुष्यम् अपरे चोचुर् मुदा तत्र महर्षयः ॥

प्रशस्यमानौ सर्वत्र कदाचित् तत्र गायनौ ।
रथ्यासु राज-मार्गेषु ददर्श भरताग्रजः ॥ स्व-वेश्म चानीय ततो भ्रातरौ तौ कुशीलवौ ।
पूजयामास पूजार्हौ रामः शत्रु-निबर्हणः । आसीनः काञ्चने दिव्ये स च सिंहासने प्रभुः ।
उपोपविष्टः सचिवैर् भ्रातृभिश् च परंतपः ॥ दृष्ट्वा तु रूप-संपन्नौ ताव् उभौ नियतस् तदा ।
उवाच लक्ष्मणं रामः शत्रुघ्नं भरतं तथा ॥ श्रूयताम् इदम् आख्यानम् अनयोर् देव-वर्चसोः ।
विचित्रार्थ-पदं सम्यग् गायिनौ समचोदयत् ॥

तौ चापि मधुरं रक्तं स्वञ्चितायत-निस्वनम् ।
तन्त्री-लयवद् अत्यर्थं विश्रुतार्थम् अगायताम् ॥

ह्लादयत् सर्व-गात्राणि मनांसि हृदयानि च ।
श्रोत्राश्रय-सुखं गेयं तद् बभौ जन-संसदि ॥

इमौ मुनी पार्थिव-लक्षणान्वितौ
कुशीलवौ चैव महा-तपस्विनौ ।
ममापि तद् भूति-करं प्रचक्षते
महानुभावं चरितं निबोधत ॥

ततस् तु तौ राम-वचः-प्रचोदिताव्-
अगायतां मार्ग-विधान-संपदा ।
स चापि रामः परिषद्-गतः स्वनैर्-
बुभूषयासक्तमना बभूव ह ॥

सर्वापूर्वमियं येषाम् आसीत् कृत्स्ना वसुंधरा ।
प्रजापतिम् उपादाय नृपाणां जय-शालिनाम् ॥

कोसलो नाम मुदितः स्फीतो जन-पदो महान् ।
निविष्टः सरयू-तीरे प्रभूत-धन-धान्यवान् ॥

अयोध्या नाम नगरी तत्रासील् लोक-विश्रुता ।
मनुना मानवेन्द्रेण या पुरी निर्मिता स्वयम् ॥

पुर्यां तस्याम् अयोध्यायां वेद-वित् सर्व-संग्रहः ।
दीर्घ-दर्शी महा-तेजाः पौर-जानपद-प्रियः ॥

इक्ष्वाकूणाम् अति-रथो यज्वा धर्म-रतो वशी ।
महर्षि-कल्पो राजर्षि-स्त्रिषु लोकेषु विश्रुतः ॥

बलवान् निहतामित्रो मित्रवान् विजितेन्द्रियः ।
धनैश् च संचयैश् चान्यैः शक्र-वैश्रवणोपमः ॥

यथा मनुर् महा-तेजा लोकस्य परि-रक्षिता ।
तथा दशरथो राजा वसञ्जगदपालयत् ॥

तेन सत्य-अभिसंधेन त्रि-वर्गम् अनुतिष्ठता ।
पालिता सा पुरी श्रेष्ठा इन्द्रेणेवामरावती ।

तस्मिन् पुर-वरे हृष्टा धर्मात्मानो बहु-श्रुताः ।
नरास् तुष्टा धनैः स्वैः स्वैर् अलुब्धाः सत्य-वादिनः ॥

नाल्प-संनिचयः कश्चिद् आसीत् तस्मिन् पुरोत्तमे ।
कुटुम्बी यो ह्य् असिद्धार्थो गवाश्व-धन-धान्यवान् ॥

कामी वा न कदर्यो वा नृशंसः पुरुषः क्वचित् ।
द्रष्टुं शक्यम् अयोध्यायां न अविद्वान् न च नास्तिकः ॥

सर्वे नराश् च नार्यश् च धर्म-शीलाः सुसंयताः ।
मुदिताः शील-वृत्ताभ्यां महर्षय इवामलाः ॥

नाकुण्डली नामकुटी नास्रग्वी नाल्प-भोगवान् ।
नामृष्टो नानुलिप्ताङ्गो नासुगन्धश् च विद्यते ॥

नामृष्ट-भोजी नादाता नाप्य् अनङ्गद-निष्क-धृक् ।
नाहस्ताभरणो वापि दृश्यते नाप्य् अनात्मवान् ॥

नानाहिताग्निर् नायज्वा न क्षुद्रो वा न तस्करः ।
कश्चिद् आसीद् अयोध्यायां न च निर्वृत्तसंकरः ॥

स्व-कर्म-निरता नित्यं ब्राह्मणा विजितेन्द्रियाः ।
दानाध्ययन-शीलाश् च संयताश् च प्रतिग्रहे ॥

न नास्तिको नानृतको न कश्चिद् अबहु-श्रुतः ।
नासूयको न चाशक्तो नाविद्वान् विद्यते तदा ॥

नाषडङ्ग-विद् अत्रासीन् नाव्रतो नासहस्रदः ।
न दीनः क्षिप्त-चित्तो वा व्याधितो वापि कश्चन ॥

क्वचिन् नरो वा नारी वा नाश्रीमान् नाप्य् अरूपवान् ।
द्रष्टुं शक्यम् अयोध्यायां नापि राजन्य् अभक्तिमान् ॥

वर्णेष्व् अग्र्य-चतुर्थेषु देवतातिथि-पूजकाः ।
कृतज्ञाश् च वदान्याश् च शूरा विक्रम-संयुताः ॥

दीर्घायुषो नराः सर्वे धर्मं सत्यं च संश्रिताः ।
सहिताः पुत्र-पौत्रैश् च नित्यं स्त्रीभिः पुरोत्तमे ।

क्षत्रं ब्रह्म-मुखं त्व् आसीद् वैश्याः क्षत्रम् अनुव्रताः ।
शूद्राः स्व-धर्म-निरतास् स्त्रीन् वर्णान् उपरिचारिणः ॥

योधानाम् अग्नि-कल्पानां पेशलानां सुवर्चसाम् ।
संपूर्णा कृत-विद्यानां गुहा केसरिणाम् इव ॥

काम्भोजविषये जातैर् बाह्लीकैश् च हयोत्तमैः ।
नित्यमत्तैः सदा पूर्णा नागैर् अचल-संनिभैः ॥

तस्यामात्या गुणैर् आसन्नैक्ष्वाकस्य महात्मनः ।
मन्त्रज्ञाश् चेङ्गितज्ञाश् च नित्यं प्रिय-हिते रताः ॥

अष्टौ बभूवुर् वीरस्य महामात्या यशस्विनः ।
शुचयश् चानुरक्ताश् च राज-कृत्येषु नित्यशः ॥

धृष्टिर् जयन्तो विजयः सिद्धार्थो ह्य् अर्थ-साधकः ।
अशोको मन्त्र-पालश् च सुमन्त्रश् चाष्टमो ऽभवत् ॥

ऋत्विजौ द्वाव् अभिमतौ तस्यास्ताम् ऋषि-सत्तमौ ।
वसिष्ठो वामदेवश् च मन्त्रिणश् च तथापरे ॥

विद्या-विनीता ह्रीमन्तः कुशला नियतेन्द्रियाः ।
परस्परानुरक्ताश् च नीति-मन्तो बहु-श्रुताः ॥

श्रीमन्तश् च महात्मानः शास्त्रज्ञा दृढ-विक्रमाः ।
कीर्ति-मन्तः प्रणिहिता यथा-वचन-कारिणः ॥

तेजः-क्षमा-यशः-प्राप्ताः स्मित-पूर्वाभिभाषिणः ।
क्रोधात् कामार्थ-हेतोर् वा न ब्रूयुर् अनृतं वचः ॥

तेषाम् अविदितं किंचित् स्वेषु नास्ति परेषु वा ।
क्रियमाणं कृतं वापि चारेणापि चिकीर्षितम् ॥

कुशला व्यवहारेषु सौहृदेषु परीक्षिताः ।
प्राप्त-कालं च ते दण्डं धारयेयुः सुतेष्व् अपि ॥

कोश-संग्रहणे युक्ता बलस्य च परिग्रहे ।
अहितं चापि पुरुषं न विहिंस्युर् अदूषकम् ॥

वीराश् च नियतोत्साहा राज-शास्त्रम् अनुव्रताः ।
शुचीनां रक्षितारश् च नित्यं विषय-वासिनाम् ॥

ब्रह्म-क्षत्रम् अहिंसन्तस् ते कोशं समपूरयन् ।
सु-तीक्ष्ण-दण्डाः संप्रेक्ष्य पुरुषस्य बलाबलम् ॥

शुचीनाम् एक-बुद्धीनां सर्वेषां संप्रजानताम् ।
नासीत् पुरे वा राष्ट्रे वा मृषा-वादी नरः क्वचित् ॥

क्वचिन्न दुष्टस् तत्रासीत् परदार-रतिर् नरः ।
प्रशान्तं सर्वम् एवासीद् राष्ट्रं पुर-वरं च तत् ॥

सुवाससः सुवेषाश् च ते च सर्वे सुशीलिनः ।
हितार्थं च नरेन्द्रस्य जाग्रतो नय-चक्षुषा ॥

गुरौ गुण-गृहीताश् च प्रख्याताश् च पराक्रमे ।
विदेशेष्व् अपि विख्याताः सर्वतो बुद्धि-निश्चयात् ॥

संधि-विग्रह-तत्त्वज्ञाः प्रकृत्या संपदान्विताः ।
मन्त्र-संवरणे युक्ताः शक्ताः सूक्ष्मासु बुद्धिषु ॥
नीति-शास्त्र-विशेषज्ञाः सततं प्रिय-वादिनः ॥

ईदृशैस् तैर् अमात्यैस् तु राजा दशरथो ऽनघः ।
उपपन्नो गुणोपेतैर् अन्व् अशासद् वसुंधराम् ॥

अवेक्षमाणश् चारेण प्रजा धर्मेण रञ्जयन् ।
विश्रुत-स्त्रिषु लोकेषु वदान्यः सत्य-संगरः ॥

स तत्र पुरुष-व्याघ्रः शशास पृथिवीम् इमाम् ।
न अध्य् अगच्छद् विशिष्टं वा तुल्यं वा शत्रुम् आत्मनः ॥

मित्रवान् नत-सामन्तः प्रताप-हत-कण्टकः ।
स शशास जगद् राजा दिवं देव-पतिर् यथा ॥

तैर् मन्त्रिभिर् मन्त्र-हिते निविष्टैर्-
वृतो ऽनुरक्तैः कुशलैः समर्थैः ।
स पार्थिवो दीप्तिम् अवाप युक्तस्-
तेजो-मयैर् गोभिर् इवोदितो ऽर्कः ॥

तस्य त्व् एवं-प्रभावस्य धर्मज्ञस्य महात्मनः ।
सुतार्थं तप्यमानस्य नासीद् वंश-करः सुतः ॥

चिन्तयानस्य तस्यैवं बुद्धिर् आसीन् महात्मनः ।
सुतार्थं हयमेधेन किम् अर्थं न यजाम्य् अहम् ॥

ततो ऽब्रवीद् इदं राजा सुमन्त्रं मन्त्रि-सत्तमम् ।
शीघ्रम् आनय मे सर्वान् गुरूंस् तान् स-पुरोहितान् ॥

ततः सुमन्त्रस् त्वरितं गत्वा त्वरित-विक्रमः ।
समानयत् स तान् सर्वान् समस्तान् वेदपारगान् ॥

सुयज्ञं वामदेवं च जाबालिम् अथ काश्यपम् ।
पुरोहितं वसिष्ठं च ये चान्ये द्विज-सत्तमाः ॥

तान् पूजयित्वा धर्मात्मा राजा दशरथस् तदा ।
इदं धर्मार्थ-सहितं श्लक्ष्णं वचनम् अब्रवीत् ॥

मम लालप्यमानस्य पुत्रार्थं नास्ति वै सुखम् ।
तद् अर्थं हयमेधेन यक्ष्यामीति मतिर् मम ॥

तद् अहं यष्टुम् इच्छामि शास्त्र-दृष्टेन कर्मणा ।
कथं प्राप्स्याम्य् अहं कामं बुद्धिर् अत्र विचार्यताम् ॥

ततः साध्व् इति तद् वाक्यं ब्राह्मणाः प्रत्यपूजयन् ।
वसिष्ठ-प्रमुखाः सर्वे पार्थिवस्य मुखेरितम् ॥

ऊचुश् च परम-प्रीताः सर्वे दशरथं वचः ।
संभाराः संभ्रियन्तां ते तुरगश् च विमुच्यताम् ॥

सरय्वाश् चोत्तरे तीरे यज्ञ-भूमिर् विधीयताम् ।
सर्वथा प्राप्स्यसे पुत्रान् अभिप्रेतांश् च पार्थिव ॥

यस्य ते धार्मिकी बुद्धिर् इयं पुत्रार्थम् आगता ।
ततः प्रीतो ऽभवद् राजा श्रुत्वा तद् द्विज-भाषितम् ॥

एतच् छ्रुत्वा रहः सूतो राजानम् इदम् अब्रवीत् ।
ऋत्विग्भिर् उपदिष्टो ऽयं पुरावृत्तो मया श्रुतः ॥

सनत्कुमारो भगवान् पूर्वं कथितवान् कथाम् ।
ऋषीणां संनिधौ राजंस् तव पुत्रागमं प्रति ॥

काश्यपस्य तु पुत्रो ऽस्ति विभण्डक इति श्रुतः ।
ऋश्यशृङ्ग इति ख्यातः तस्य पुत्रो भविष्यति ॥

स वने नित्य-संरुद्धो मुनिर् वन-चरः सदा ।
एतस्मिन्न् एव काले तु रोमपादः प्रतापवान् ॥

अङ्गेषु प्रथितो राजा भविष्यति महा-बलः ।
तस्य व्यतिक्रमाद् राज्ञो भविष्यति सुदारुणा ॥

अनावृष्टिः सुघोरा वै सर्व-भूत-भयावहा ।
अनावृष्ट्यां तु वृत्तायां राजा दुःख-समन्वितः ।

ब्राह्मणाञ् छ्रुतवृद्धांश्च समानीय प्रवक्ष्यति ।
वक्ष्यन्ति ते महीपालं ब्राह्मणा वेद-पारगाः ।

विभण्डक-सुतं राजन् सर्वोपायैर् इहानय ॥
आनीय च महीपाल ऋष्यशृङ्गं सुसत्कृतम् ।

प्रयच्छ कन्यां शान्तां वै विधिना तेन सत्कृतः ॥
आनीतो ऽवर्षयद् देवः शान्ता चास्मै प्रदीयते ।

ऋश्यशृङ्गस् तु जामाता पुत्रांस् तव विधास्यति ॥
सनत्कुमार-कथितम् एतावद् व्याहृतं मया ॥

तं तु राजा दशरथो यशस्-कामः कृताञ्जलिः ।
ऋश्यशृङ्गं द्विज-श्रेष्ठं वरयिष्यति धर्मवित् ॥

यज्ञार्थं प्रसवार्थं च स्वर्गार्थं च नरेश्वरः ।
लभते च स तं कामं द्विज-मुख्याद् विशांपतिः ॥

पुत्राश् चास्य भविष्यन्ति चत्वारो ऽमित-विक्रमाः ।
वंश-प्रतिष्ठान-करास् त्रिषु लोकेषु विश्रुताः ॥

एवं स देव-प्रवरः पूर्वं कथितवान् कथाम् ।
स त्वं पुरुष-शार्दूल तम् आनय सुसत्कृतम् ॥

स्वयम् एव महाराज गत्वा स-बल-वाहनः ।
अनुमान्य वसिष्ठं च सूत-वाक्यं निशम्य च ॥

वसिष्ठेनाभ्यनुज्ञातो राजा संपूर्ण-मानसः ।
सान्तःपुरः सहामात्यः प्रययौ यत्र स द्विजः ॥

आसाद्य तं द्विज-श्रेष्ठं रोमपाद-समीपगम् ।
ऋषि-पुत्रं ददर्शादौ दीप्यमानम् इवानलम् ॥

ततो राजा यथा-न्यायं पूजां चक्रे विशेषतः ।
सखित्वात् तस्य वै राज्ञः प्रहृष्टेनान्तरात्मना ॥

रोमपादेन चाख्यातम् ऋषि-पुत्राय धीमते ।
सख्यं संबन्धिकं चैव तदा तं प्रत्य् अपूजयत् ॥

एवं सु-सत्कृतस् तेन सहोषित्वा नरर्षभः ।
सप्ताष्ट दिवसान् राजा राजानम् इदम् अब्रवीत् ॥

शान्ता तव सुता राजन् सह भर्त्रा विशांपते ।
मदीयं नगरं यातु कार्यं हि महद् उद्यतम् ॥

उवाच वचनं विप्र गच्छ त्वं सह भार्यया ।
ऋषि-पुत्रः प्रतिश्रुत्य तथेत्य् आह नृपं तदा ॥

स नृपेणाभ्यनुज्ञातः प्रययौ सह भार्यया ।
अन्तःपुरं प्रवेश्यैनं पूजां कृत्वाथ शास्त्रतः ॥

कृत-कृत्यं तदात्मानं मेने तस्योपवाहनात् ॥

द्वादशे सर्गे -

ततः काले बहु-तिथे कस्मिंश्चित् सु-मनोहरे ।
वसन्ते समनुप्राप्ते राज्ञो यष्टुं मनो ऽभवत् ॥

ततः प्रसाद्य शिरसा तं विप्रं देव-वर्णिनम् ।
यज्ञाय वरयामास संतानार्थं कुलस्य वै ॥

तथा इति च स राजानम् उवाच च सुसत्कृतः ।
संभाराः संभ्रियन्तां ते तुरगश् च विमुच्यताम् ॥

पुनः प्राप्ते वसन्ते तु पूर्णः संवत्सरो ऽभवत् ।
प्रसवार्थं गतो यष्टुं हय-मेधेन वीर्यवान् ॥

अभिवाद्य वसिष्ठं च न्यायतः प्रतिपूज्य च ।
अब्रवीत् प्रश्रितं वाक्यं प्रसवार्थं द्विजोत्तमः ॥

यत्नो मे क्रियतां ब्रह्मन् यथोक्तं मुनिपुंगव ।
यथा न विघ्नः क्रियते यज्ञाङ्गेषु विधीयताम् ॥

भवान् स्निग्धः सुहृन् मह्यं गुरुश् च परमो भवान् ।
वोढव्यो भवता चेह भारो यज्ञस्य चोद्यतः ॥

तथेति च स राजानम् अब्रवीद् द्विज-सत्तमः ।
करिष्ये सर्वम् एवैतद् भवता यत् समर्थितम् ॥

ततो ऽब्रवीद् द्विजान् वृद्धान् यज्ञ-कर्मसु निष्ठितान् ।
स्थपत्ये निष्ठितांश् चैव वृद्धान् परम-धार्मिकान् ॥

यज्ञकर्म समीहन्तां भवन्तो राज-शासनात् ।
दातव्यम् अन्नं विधि-वत् सत्कृत्य न तु लीलया ॥

सर्वे वर्णा यथा पूजां प्राप्नुवन्ति सुसत्कृताः ।
न चावज्ञा प्रयोक्तव्या काम-क्रोध-वशाद् अपि ॥

अवज्ञया न दातव्यं कस्यचिल् लीलयापि वा ।
अवज्ञया कृतं हन्याद् दातारं नात्र संशयः ॥

ततः कैश्चिद् अहो-रात्रैर् उपयाता महीक्षितः ।
बहूनि रत्नान्य् आदाय राज्ञो दशरथस्य वै ॥

ततो वसिष्ठः सु-प्रीतो राजानम् इदम् अब्रवीत् ।
उपयाता नर-व्याघ्र राजानस् तव शासनात् ॥

मयापि सत्कृताः सर्वे यथार्हं राज-सत्तमाः ।
यज्ञियं च कृतं राजन् पुरुषैः सुसमाहितैः ॥

निर्यातु च भवान् यष्टुं यज्ञायतनम् अन्तिकात् ।
सर्व-कामैर् उपहृतैर् उपेतं वै समन्ततः ॥

द्रष्टुम् अर्हसि राजेन्द्र मनसेव विनिर्मितम् ।
तदा वसिष्ठ-वचनाद् ऋश्यशृङ्गस्य चोभयोः ॥

शुभे दिवस-नक्षत्रे निर्यातो जगतीपतिः ।
ततो वसिष्ठ-प्रमुखाः सर्व एव द्विजोत्तमाः ॥

ऋश्यशृङ्गं पुरस्कृत्य यज्ञ-कर्मारभंस् तदा ।
यज्ञ-वाट-गताः सर्वे यथा-शास्त्रं यथा-विधि ॥

अथ संवत्सरे पूर्णे तस्मिन् प्राप्ते तुरंगमे ।
सरय्वाश् चोत्तरे तीरे राज्ञो यज्ञो ऽभ्यवर्तत ॥

ऋश्यशृङ्गं पुरस्कृत्य कर्म चक्रुर् द्विजर्षभाः ।
न चाद्भुतम् अभूत् तत्र स्खलितं वापि किंचन ।
दृश्यते ब्रह्मवत् सर्वं क्षेम-युक्तं हि चक्रिरे ॥

न तेष्व् अहःसु श्रान्तो वा क्षुधितो वापि दृश्यते ।
अन्न-पानैः सु-विहितास् तस्मिन् यज्ञे महात्मनः ॥

अन्नं हि विधिवत् स्वादु प्रशंसन्ति द्विजर्षभाः ।
अहो तृप्ताः स्म भद्रं त इति शुश्राव राघवः ॥

कर्मान्तरे तदा विप्रा हेतु-वादान् बहूनपि ।
प्राहुः सु-वाग्मिनो धीराः परस्पर-जिगीषया ॥

नाषडङ्गविद् अत्रासीन् नाव्रतो नाबहुश्रुतः ।
सदस्यस् तस्य वै राज्ञो नावाद-कुशलो द्विजः ॥

पतत्रिणस् तस्य वपाम् उद्धृत्य नियतेन्द्रियाः ।
ऋत्विक् परम-संपन्नः श्रपयामास शास्त्रतः ॥

धूम-गन्धं वपायास् तु जिघ्रति स्म नराधिपः ।
यथा-कालं यथा-न्यायं निर्णुदन् पापमात्मनः ॥

क्रतुं समाप्य तु तदा न्यायतः पुरुषर्षभः ।
ऋत्विग्भ्यो ऽपि ददौ राजा धरां तां क्रतु-वर्धनः ॥

ऋत्विजस् त्व् अब्रुवन् सर्वे राजानं गत-कल्मषम् ॥
भवान् एव महीं कृत्स्नाम् एको रक्षितुम् अर्हति ।

न भूम्या कार्यम् अस्माकं न हि शक्ताः स्म पालने ॥
रताः स्वाध्याय-करणे वयं नित्यं हि भूमिप ।

निष्क्रयं किंचिद् एवेह प्रयच्छतु भवान् इति ॥
मणि-रत्नं सुवर्णं वा गावो यद् वा समुद्यतम् ।

तत् प्रयच्छ नर-श्रेष्ठ धरण्या न प्रयोजनम् ॥
एवम् उक्तो नर-पतिर् ब्राह्मणैर् वेद-पारगैः ।

गवां शत-सहस्राणि दश तेभ्यो ददौ नृपः ॥
दश कोटीः सुवर्णस्य रजतस्य चतुर्-गुणम् ।

ततः प्रसर्पकेभ्यस् तु हिरण्यं सु-समाहितः ।
जाम्बूनदं कोटि-संख्यं ब्राह्मणेभ्यो ददौ तदा ॥

दरिद्राय द्विजायाथ हस्ताभरणम् उत्तमम् ।
कस्मैचिद् याचमानाय ददौ राघव-नन्दनः ॥

तस्याशिषो ऽथ विविधा ब्राह्मणैः समुदीरिताः ।
उदारस्य नृ-वीरस्य धरण्यां प्रणतस्य च ॥

ततः प्रीत-मना राजा प्राप्य यज्ञम् अनुत्तमम् ।
पापापहं स्वर्णयनं दुस्तरं पार्थिवर्षभैः ॥

ततो ऽब्रवीद् ऋश्यशृङ्गं राजा दशरथस् तदा ।
कुलस्य वर्धनं तन्तुं कर्तुम् अर्हसि सु-व्रत ॥

तथेति च स राजानम् उवाच द्विज-सत्तमः ।
भविष्यन्ति सुता राजंश् चत्वारस् ते कुलोद्वहाः ॥

मेधावी तु ततो ध्यात्वा स किंचिद् इदम् उत्तरम् ।
लब्ध-संज्ञस् ततस् तं तु वेदज्ञो नृपम् अब्रवीत् ॥

इष्टिं ते ऽहं करिष्यामि पुत्रीयां पुत्र-कारणात् ।
अथर्व-शिरसि प्रोक्तैर् मन्त्रैः सिद्धां विधानतः ॥

ततः प्राक्रमद् इष्टिं तां पुत्रीयां पुत्र-कारणात् ।
जुहाव् अग्नौ च तेजस्वी मन्त्र-दृष्टेन कर्मणा ।

ततो देवाः स-गन्धर्वाः सिद्धाश् च परमर्षयः ।
भाग-प्रतिग्रहार्थं वै समवेता यथा-विधि ॥

ताः समेत्य यथा-न्यायं तस्मिन् सदसि देवताः ।
अब्रुवल् लोक-कर्तारं ब्रह्माणं वचनं महत् ॥

भगवंस् त्वत्-प्रसादेन रावणो नाम राक्षसः ।
सर्वान् नो बाधते वीर्याच् छासितुं तं न शक्नुमः ॥

त्वया तस्मै वरो दत्तः प्रीतेन भगवन् पुरा ।
मानयन्तश् च तं नित्यं सर्वं तस्य क्षमामहे ॥

उद्वेजयति लोकांस् त्रीन् उच्छ्रितान् द्वेष्टि दुर्मतिः ।
शक्रं त्रिदश-राजानं प्रधर्षयितुम् इच्छति ॥

ऋषीन् यक्षान् स-गन्धर्वान् असुरान् ब्राह्मणांस् तथा ।
अतिक्रामति दुर्धर्षो वर-दानेन मोहितः ॥

नैनं सूर्यः प्रतपति पार्श्वे वाति न मारुतः ।
चलोर्मि-माली तं दृष्ट्वा समुद्रो ऽपि न कम्पते ॥

तन् महन् नो भयं तस्माद् राक्षसाद् घोर-दर्शनात् ।
वधार्थं तस्य भगवन्न् उपायं कर्तुम् अर्हसि ॥

एवम् उक्तः सुरैः सर्वैश् चिन्तयित्वा ततो ऽब्रवीत् ।
हन्तायं विहितस् तस्य वधोपायो दुरात्मनः ॥

तेन गन्धर्व-यक्षाणां देव-दानव-रक्षसाम् ।
अवध्यो ऽस्मीति वाग् उक्ता तथेत्य् उक्तं च तन् मया ॥

नाकीर्तयद् अवज्ञानात् तद् रक्षो मानुषं तदा ।
तस्मात् स मानुषाद् वध्यो मृत्युर् नान्यो ऽस्य विद्यते ॥

एतच् छ्रुत्वा प्रियं वाक्यं ब्रह्मणा समुदाहृतम् ।
देवा महर्षयः सर्वे प्रहृष्टास् ते ऽभवंस् तदा ॥

एतस्मिन्न् अन्तरे विष्णुर् उपयातो महा-द्युतिः ।
शङ्ख-चक्र-गदा-पाणिः पीत-वासा जगत्-पतिः ।
ब्रह्मणा च समागम्य तत्र तस्थौ समाहितः ॥

तम् अब्रुवन् सुराः सर्वे समभिष्टुत्य संनताः ।
त्वां नियोक्ष्यामहे विष्णो लोकानां हित-काम्यया ॥

राज्ञो दशरथस्य त्वम् अयोध्याधिपतेः प्रभो ।
धर्मज्ञस्य वदान्यस्य महर्षि-सम-तेजसः ॥

तस्य भार्यासु तिसृषु ह्री-श्री-कीर्त्य्-उपमासु च ।
विष्णो पुत्रत्वम् आगच्छ कृत्वात्मानं चतुर्-विधम् ॥

तत्र त्वं मानुषो भूत्वा प्रवृद्धं लोक-कण्टकम् ।
अवध्यं दैवतैर् विष्णो समरे जहि रावणम् ॥

स हि देवान् स-गन्धर्वान् सिद्धांश् च मुनि-सत्तमान् ।
राक्षसो रावणो मूर्खो वीर्योत्सेकेन बाधते ॥

ऋषयश् च ततस् तेन गन्धर्वाप्सरसस् तथा ।
क्रीडन्तो नन्दन-वने रौद्रेण किल हिंसिताः ॥

वधार्थं वयम् आयातास् तस्य वै मुनिभिः सह ।
सिद्ध-गन्धर्व-यक्षाश् च ततस् त्वां शरणं गताः ॥

त्वं गतिः परमा देव सर्वेषां नः परंतप ।
वधाय देव-शत्रूणां नृणां लोके मनः कुरु ॥

एवम् उक्तस् तु देवेशो विष्णुस् त्रिदश-पुंगवः ।
पितामह-पुरोगांस् तान् सर्व-लोक-नमस्कृतः ॥

अब्रवीत् त्रिदशान् सर्वान् समेतान् धर्म-संहितान् ।
भयं त्यजत भद्रं वो हितार्थं युधि रावणम् ॥

स-पुत्र-पौत्रं सामात्यं स-मित्र-ज्ञाति-बान्धवम् ।
हत्वा क्रूरं दुरात्मानं देवर्षीणां भयावहम् ॥

दश वर्ष-सहस्राणि दश वर्ष-शतानि च ।
वत्स्यामि मानुषे लोके पालयन् पृथिवीम् इमाम् ॥

एवं दत्त्वा वरं देवो देवानां विष्णुर् आत्मवान् ।
मानुषे चिन्तयामास जन्म-भूमिम् अथात्मनः ॥

ततः पद्म-पलाशाक्षः कृत्वात्मानं चतुर्-विधम् ।
पितरं रोचयामास तदा दशरथं नृपम् ॥

ततो देवर्षि-गन्धर्वाः स-रुद्राः साप्सरो-गणाः ।
स्तुतिभिर् दिव्य-रूपाभिस् तुष्टुवुर् मधुसूदनम् ॥

त्वम् उद्धतं रावणम् ऋद्ध-तेजसं
प्रवृद्ध-दर्पं त्रिदशेश्वर-द्विषम् ।
विरावणं साधु-तपस्वि-कण्टकं
तपस्विनाम् उद्धर तं भयावहम् ॥

तम् एव हत्वा स-बलं स-बान्धवं
विरावणं रावणम् अग्र्य-पौरुषम् ।
स्वर्-लोकम् आगच्छ गत-ज्वरश् चिरं
सुरेन्द्र-गुप्तं गत-रोष-कल्मषम् ॥

पितरं रोचयामास तदा दशरथं नृपम् ।
स चाप्य् अपुत्रो नृपतिस् तस्मिन् काले महा-द्युतिः ॥

अयजत् पुत्रियाम् इष्टिं पुत्रेप्सुर् अरि-सूदनः ।
स कृत्वा निश्चयं विष्णुर् आमन्त्र्य च पितामहम् ॥

अन्तर्धानं गतो देवैः पूज्यमानो महर्षिभिः ।
ततो वै यजमानस्य पावकाद् अतुल-प्रभम् ॥

प्रादुर्भूतं महद् भूतं महा-वीर्यं महा-बलम् ।
कृष्णं रक्ताम्बर-धरं रक्तास्यं दुन्दुभि-स्वनम् ॥

स्निग्ध-हर्यक्ष-तनुजं श्मश्रु-प्रवर-मूर्धजम् ।
शुभ-लक्षण-संपन्नं दिव्याभरण-भूषितम् ॥

शैल-शृङ्ग-समुत्सेधं दृप्त-शार्दूल-विक्रमम् ।
दिवाकर-समाकारं दीप्तानल-शिखोपमम् ॥

तप्त-जाम्बूनद-मयीं रजतान्त-परिच्छदाम् ।
दिव्य-पायस-संपूर्णां पात्रीं पत्नीम् इव प्रियाम् ॥

प्रगृह्य विपुलां दोर्भ्यां स्वयं मायामयीम् इव ।
समवेक्ष्याब्रवीद् वाक्यम् इदं दशरथं नृपम् ॥

प्राजापत्यं नरं विद्धि माम् इहाभ्यागतं नृप ।
तम् अद्भुतं तदा राजा प्रत्युवाच कृताञ्जलिः ॥

भगवन् स्वागतं ते ऽस्तु किम् अहं करवाणि ते ।
अथो पुनर् इदं वाक्यं प्राजापत्यो नरो ऽब्रवीत् ॥

राजन्न् अर्चयता देवान् अद्य प्राप्तम् इदं त्वया ।
इदं तु नृप-शार्दूल पायसं देव-निर्मितम् ॥

प्रजा-करं गृहाण त्वं धन्यम् आरोग्य-वर्धनम् ।
भार्याणाम् अनुरूपाणाम् अश्नीतेति प्रयच्छ वै ॥

तासु त्वं प्राप्स्यसे पुत्रान् यद्-अर्थं यजसे नृप ।
तथेति नृपतिः प्रीतः शिरसा प्रतिगृह्य ताम् ॥

पात्रीं दिव्यान्न-संपूर्णां देव-दत्तां हिरण्मयीम् ।
अभिवाद्य च तद् भूतम् अद्भुतं प्रिय-दर्शनम् ॥

मुदा परमया युक्तः चकार अभिप्रदक्षिणम् ।
ततो दशरथः प्राप्य पायसं देव-निर्मितम् ॥

बभूव परम-प्रीतः प्राप्य वित्तम् इवाधनः ।
ततस् तद्-अद्भुत-प्रख्यं भूतं परम-भास्वरम् ॥

निर्वर्तयित्वा तत् कर्म तत्रैवान्तरधीयत ।
हर्ष-रश्मिभिर् उद्द्योतं तस्यान्तःपुरम् आबभौ ॥

शारदस्याभिरामस्य चन्द्रस्येव नभोंशुभिः ।
सो ऽन्तःपुरं प्रविश्यैव कौसल्याम् इदम् अब्रवीत् ॥

पायसं प्रतिगृह्णीष्व पुत्रीयं त्व् इदम् आत्मनः ।
कौसल्यायै नर-पतिः पायसार्धं ददौ तदा ।

अर्धाद् अर्धं ददौ चापि सुमित्रायै नराधिपः ।
कैकेय्यै चावशिष्टार्धं ददौ पुत्रार्थ-कारणात् ॥

प्रददौ चावशिष्टार्धं पायसस्यामृतोपमम् ।
अनुचिन्त्य सुमित्रायै पुनर् एव महीपतिः ॥

एवं तासां ददौ राजा भार्याणां पायसं पृथक् ।
तास् त्व् एतत् पायसं प्राज्यं नरेन्द्रस्योत्तमाः स्त्रियः ॥ संमानं मेनिरे सर्वाः प्रहर्षोदित-चेतसः ॥

ततस् तु ताः प्राश्य तद् उत्तम-स्त्रियो
महीपतेर् उत्तम-पायसं पृथक् ।
हुताशनादित्य-समान-तेजसो
ऽचिरेण गर्भान् प्रतिपेदिरे तदा ॥

ततस् तु राजा प्रसमीक्ष्य ताः स्त्रियः
प्ररूढ-गर्भाः प्रतिलब्ध-मानसः । बभूव हृष्टस् त्रिदिवे यथा हरिः
सुरेन्द्र-सिद्धर्षि-गण-अभिपूजितः ॥

पुत्रत्वं तु गते विष्णौ राज्ञस् तस्य महात्मनः ।
उवाच देवताः सर्वाः स्वयंभूर् भगवान् इदम् ॥

सत्य-संघस्य वीरस्य सर्वेषां नो हितैषिणः ।
विष्णोः सहायान् बलिनः सृजध्वं काम-रूपिणः ॥

माया-विदश् च शूरांश् च वायु-वेग-समाञ्जवे ।
नय-ज्ञान् बुद्धि-संपन्नान् विष्णु-तुल्य-पराक्रमान् ॥

असंहार्यान् उपाय-ज्ञान् दिव्य-संहननान्वितान् ।
सर्वास्त्र-गुण-संपन्नान् अमृत-प्राशान् इव । सृजध्वं हरि-रूपेण पुत्रान् अतुल-विक्रमान् ॥

पूर्वम् एव मया सृष्टो जाम्बवान् ऋक्ष-पुंगवः ।
जृम्भमाणस्य सहसा मम वक्त्राद् अजायत ॥

ते तथोक्ता भगवता तत् प्रतिश्रुत्य शासनम् ।
जनयामासुर् एवं ते पुत्रान् वानर-रूपिणः ॥

ऋषयश् च महात्मानः सिद्ध-विद्याधरोरगाः ।
चारणाश् च सुतान् वीरान् ससृजुर् वन-चारिणः ॥

वानरेन्द्रं महेन्द्राभम् इन्द्रो वालिनम् ऊर्जितम् ।
सुग्रीवं जनयामास तपनस् तपतां वरः ॥

बृहस्पतिस् त्व् अजनयत् तारं नाम महा-हरिम् ।
सर्व-वानर-मुख्यानां बुद्धिमन्तम् अनुत्तमम् ॥

धनदस्य सुतः श्रीमान् वानरो गन्धमादनः ।
विश्वकर्मा त्व् अजनयन् नलं नाम महा-हरिम् ॥

पावकस्य सुतः श्रीमान् नीलो ऽग्नि-सदृश-प्रभः ।
तेजसा यशसा वीर्याद् अत्यरिच्यत वानरान् ॥

रूप-द्रविण-संपन्नाव् अश्विनौ रूप-संमतौ ।
मैन्दं च द्विविदं चैव जनयामासतुः स्वयम् ॥

वरुणो जनयामास सुषेणं नाम वानरम् ।
शरभं जनयामास पर्जन्यः सु-महा-बलम् ॥

मारुतस्यात्मजः श्रीमान् हनूमान् नाम वानरः ।
वज्र-संहननोपेतो वैनतेय-समो जवे ॥

सर्व-वानर-मुख्येषु बुद्धिमान् बलवान् अपि ।
ते सृष्टा बहु-साहस्रा दशग्रीव-वधे रताः ॥

अप्रमेय-बला वीरा विक्रान्ताः काम-रूपिणः ।
ते गजाचल-संकाशा वपुष्मन्तो महा-बलाः ॥

ऋक्ष-वानर-गो-पुच्छाः क्षिप्रम् एवाभिजज्ञिरे ।
यस्य देवस्य यद् रूपं वेषो यश् च पराक्रमः ॥

अजायत समस् तेन तस्य तस्य सुतः पृथक् ।
सिंह-शार्दूल-सदृशा दर्पेण च बलेन च ॥

शिला-प्रहरणाः सर्वे सर्वे पादप-योधिनः ।
नख-दंष्ट्रायुधाः सर्वे सर्वे सर्वास्त्र-कोविदाः ॥

विचालयेयुः शैलेन्द्रान् भेदयेयुः स्थिरान् द्रुमान् । क्षोभयेयुश् च वेगेन समुद्रं सरितां पतिम् ॥

दारयेयुः क्षितिं पद्भ्याम् आप्लवेयुर् महार्णवम् ।
नभः-स्थलं विशेयुश् च गृह्णीयुर् अपि तोयदान् ॥

गृह्णीयुर् अपि मातङ्गान् मत्तान् प्रव्रजितान् वने ।
नर्दमानाश् च नादेन पातयेयुर् विहंगमान् ॥

ईदृशानां प्रसूतानि हरीणां काम-रूपिणाम् ।
शतं शत-सहस्राणि यूथ-पानां महात्मनाम् ॥

ते प्रधानेषु यूथेषु हरीणां हरि-यूथ-पाः ।
सूर्य-पुत्रं च सुग्रीवं शक्र-पुत्रं च वालिनम् ॥

भ्रातराव् उपतस्थुस् ते सर्व एव हरीश्वराः ।
नलं नीलं हनूमन्तम् अन्यांश् च हरि-यूथ-पान् ॥

ते तार्क्ष्य-बल-संपन्नाः सर्वे युद्ध-विशारदाः ।
विचरन्तो ऽर्दयन् दर्पात् सिंह-व्याघ्र-महोरगान् ॥

तांश् च सर्वान् महा-बाहुर् वाली विपुल-विक्रमः ।
जुगोप भुज-वीर्येण ऋक्ष-गो-पुच्छ-वानरान् ॥

तैर् इयं पृथिवी सर्वा स-पर्वत-वनार्णवा ।
कीर्णा विविध-संस्थानैर् नाना-व्यञ्जन-लक्षणैः ॥

तैर् मेघ-वृन्द-अचल-कूट-कल्पैर्-
महा-बलैर् वानर-यूथ-पालैः ।
बभूव भूर् भीम-शरीर-रूपैः
समावृता राम-सहाय-हेतोः ॥

निर्वृत्ते तु ऋतौ तस्मिन् हयमेधे महात्मनः ।
प्रतिगृह्य सुरा भागान् प्रतिजग्मुर् यथागतम् ॥

प्रविवेश पुरीं राजा स-भृत्य-बल-वाहनः ।
उवास सुखितस् तत्र पुत्रोत्पत्तिं विचिन्तयन् ॥

ततो यज्ञे समाप्ते तु ऋतूनां षट् समत्ययुः ।
ततश् च द्वादशे मासे चैत्रे नावमिके तिथौ ॥

नक्षत्रे ऽदिति-दैवत्ये स्वोच्च-संस्थेषु पञ्चसु ।
ग्रहेषु कर्कटे-लग्ने वाक्-पताव् इन्दुना सह ॥

प्रोद्यमाने जगन्नाथं सर्व-लोक-नमस्कृतम् ।
कौसल्याजनयद् रामं दिव्य-लक्षण-संयुतम् ॥

विष्णोर् अर्धं महा-भागं पुत्रमिक्ष्वाकु-नन्दनम् ।
कौसल्या शुशुभे तेन पुत्रेणामित-तेजसा ।

यथा वरेण देवानाम् अदितिर् वज्र-पाणिना ।
भरतो नाम कैकेय्यां जज्ञे सत्य-पराक्रमः ॥

साक्षाद् विष्णोश् चतुर्-भागः सर्वैः समुदितो गुणैः ।
अथ लक्ष्मण-शत्रुघ्नौ सुमित्राजनयत् सुतौ ॥

वीरौ सर्वास्त्र-कुशलौ विष्णोर् अर्ध-समन्वितौ ।
पुष्ये जातस् तु भरतो मीन-लग्ने प्रसन्न-धीः ॥

सार्पे जातौ तु सौमित्री कुलीरे ऽभ्युदिते रवौ ।
राज्ञः पुत्रा महात्मानश् चत्वारो जज्ञिरे पृथक् ॥

गुणवन्तो ऽनुरूपाश् च रुच्या प्रोष्ठपदोपमाः ।
जगुः कलं च गन्धर्वा ननृतुश् चाप्सरो-गणाः ॥

देव-दुन्दुभयो नेदुः पुष्प-वृष्टिस् तु खाच् च्युता ।
उत्सवश् च महानासीद् अयोध्यायां जनाकुलः ॥

अतीत्यैकादशाहं तु नाम-कर्म तथाकरोत् ।
ज्येष्ठं रामं महात्मानं भरतं कैकयी-सुतम् ॥

सौमित्रिं लक्ष्मण इति शत्रुघ्नम् अपरं तथा ।
वसिष्ठः परम-प्रीतो नामानि कृतवांस् तदा ॥

ब्राह्मणान् भोजयामास पौर-जानपदान् अपि ।
अददाद् ब्राह्मणानां च रत्नौघम् अमितं बहु ॥

तेषां जन्म-क्रियादीनि सर्व-कर्माण्य् अकारयत् ।
तेषां केतुर् इव ज्येष्ठो रामो रतिकरः पितुः ।
बभूव भूयो भूतानां स्वयंभूर् इव संमतः ॥

सर्वे वेद-विदः शूराः सर्वे लोक-हिते रताः ।
सर्वे ज्ञानोपसंपन्नाः सर्वे समुदिता गुणैः ॥

तेषाम् अपि महा-तेजा रामः सत्य-पराक्रमः ।
इष्टः सर्वस्य लोकस्य शशाङ्क इव निर्मलः ॥

गज-स्कन्धे ऽश्व-पृष्ठे च रथ-चर्यासु संमतः ।
धनुर्-वेदे च निरतः पितृ-शुश्रूषणे रतः ॥

बाल्यात् प्रभृति सु-स्निग्धो लक्ष्मणो लक्ष्मि-वर्धनः ।
रामस्य लोक-रामस्य भ्रातुर् ज्येष्ठस्य नित्यशः ॥

सर्व-प्रिय-करस् तस्य रामस्यापि शरीरतः ।
लक्ष्मणो लक्ष्मि-संपन्नो बहिः-प्राण इवापरः ॥

न च तेन विना निद्रां लभते पुरुषोत्तमः ।
मृष्टम् अन्नम् उपानीतम् अश्नाति न हि तं विना ॥

यदा हि हयम् आरूढो मृगयां याति राघवः ।
तदैनं पृष्ठतो ऽभ्येति स-धनुः परिपालयन् ॥

भरतस्यापि शत्रुघ्नो लक्ष्मणावरजो हि सः ।
प्राणैः प्रियतरो नित्यं तस्य चासीत् तथा प्रियः ॥

स चतुर्भिर् महा-भागैः पुत्रैर् दशरथः प्रियैः ।
बभूव परम-प्रीतो देवैर् इव पितामहः ॥

ते यथा-ज्ञान-संपन्नाः सर्वे समुदिता गुणैः ।
ह्रीमन्तः कीर्त्ति-मन्तश् च सर्वज्ञा दीर्घ-दर्शिनः ॥

तेषाम् एवं-प्रभावाणां सर्वेषां दीप्त-तेजसाम् ।
पिता दशरथो हृष्टो ब्रह्मा लोकाधिपो यथा ॥
ते चापि मनुज-व्याघ्रा वैदिक-अध्ययने रताः ।
पितृ-शुश्रूषण-रता धनुर्-वेदे च निष्ठिताः ॥

अथ राजा दशरथस् तेषां दार-क्रियां प्रति ।
चिन्तयामास धर्मात्मा सोपाध्यायः स-बान्धवः ॥

तस्य चिन्तयमानस्य मन्त्रि-मध्ये महात्मनः ।
अभ्यागच्छन् महातेजा विश्वामित्रो महामुनिः ॥

प्रत्य् उज्जगाम संहृष्टो ब्रह्माणम् इव वासवः ।
स दृष्ट्वा ज्वलितं दीप्त्या तापसं संशित-व्रतः ॥

प्रहृष्ट-वदनो राजा ततो ऽर्घ्यम् उपहारयत् ।
स राज्ञः प्रतिगृह्यार्घ्यं शास्त्र-दृष्टेन कर्मणा ।
कुशलं चाव्ययं चैव पर्यपृच्छन् नराधिपम् ॥

पुरे कोशे जनपदे बान्धवेषु सुहृत्सु च । वसिष्ठं च समागम्य कुशलं मुनि-पुंगवः ॥

ऋषींश् चान्यान् यथान्यायं महाभागान् उवाच ह ।
ते सर्वे हृष्ट-मनसस् तस्य राज्ञो निवेशनम् ॥

विविशुः पूजितास् तत्र निषेदुश् च यथार्हतः ।
अथ हृष्ट-मना राजा विश्वामित्रं महा-मुनिम् ॥

उवाच परमोदारो हृष्टस् तम् अभिपूजयन् ।
यथा अमृतस्य संप्राप्तिर् यथा वर्षम् अनूदके ॥

यथा सदृश-दारेषु पुत्र-जन्म प्रशस्यते ।
प्रनष्टस्य यथा लाभो यथा हर्षो महोदयः ॥

तथैवागमनं मन्ये स्वागतं ते महा-मुने ।
कं च ते परमं कामं करोमि किम् उ हर्षितः ॥

पात्र-भूतो ऽसि मे ब्रह्मन् दिष्ट्या प्राप्तो ऽसि धार्मिक ।
अद्य मे सफलं जन्म जीवितं च सु-जीवितम् ॥

पूर्वं राजर्षि-शब्देन तपसा द्योतित-प्रभः ।
ब्रह्मर्षित्वम् अनुप्राप्तः पूज्यो ऽसि बहुधा मया ॥

तद् अद्भुतम् इदं विप्र पवित्रं परमं मम ।
शुभ-क्षेत्र-गतश् चाहं तव संदर्शनात् प्रभो ॥

ब्रूहि यत् प्रार्थितं तुभ्यं कार्यम् आगमनं प्रति ।
इच्छाम्य् अनुगृहीतो ऽहं त्वद्-अर्थ-परिवृद्धये ॥

कार्यस्य न विमर्शं च गन्तुम् अर्हसि कौशिक ।
कर्ता चाहम् अशेषेण दैवतं हि भवान् मम ॥

मम चायम् अनुप्राप्तो महान् अभ्युदयो द्विज ।
तवागमनजः कृत्स्नो धर्मश् चानुत्तमो मम ॥

इति हृदय-सुखं निशम्य वाक्यं
श्रुति-सुखमात्मवता विनीतम् उक्तम् ।
प्रथित-गुण-यशा गुणैर् विशिष्टः
परम-ऋषिः परमं जगाम हर्षम् ॥

तच् छ्रुत्वा राज-सिंहस्य वाक्यम् अद्भुत-विस्तरम् ।
हृष्ट-रोमा महा-तेजा विश्वामित्रो ऽभ्यभाषत ॥

सदृशं राज-शार्दूल तवैतद् भुवि नान्यतः ।
महा-वंश-प्रसूतस्य वसिष्ठ-व्यपदेशिनः ॥

यत् तु मे हृद्-गतं कार्यं तस्य कार्यस्य निश्चयम् ।
कुरुष्व राज-शार्दूल भव सत्य-प्रतिश्रवः ॥

स्व-पुत्रं राज-शार्दूल रामं सत्य-पराक्रमम् ।
काक-पक्ष-धरं शूरं ज्येष्ठं मे दातुम् अर्हसि ॥

शक्तौ ह्य् एष मया गुप्तो दिव्येन स्वेन तेजसा ।
राक्षसा विघ्नकर्तार एतेषाम् अपि नाशने ॥

श्रेयश् चास्मै प्रदास्यामि बहु-रूपं न संशयः ।
राजंस्त्रिष्व् अपि लोकेषु येन ख्यातिं गमिष्यति ॥

न च तौ रामम् आसाद्य शक्तौ स्थातुं कथञ्चन ।
न च तौ राघवाद् अन्यो हन्तुम् उत्सहते पुमान् ।
न च पुत्र-कृतं स्नेहं कर्तुम् अर्हसि पार्थिव ॥

अहं वेद्मि महात्मानं रामं सत्य-पराक्रमम् ।
वसिष्ठो ऽपि महा-तेजा ये चेमे तपसि स्थिताः ॥

यदि त्वं धर्म-लाभं च यशश् च परमं भुवि ।
स्थिरम् इच्छसि राजेन्द्र रामं मे दातुम् अर्हसि ॥

यद्य् अभ्यनुज्ञां काकुत्स्थ ददते तव मन्त्रिणः ।
वसिष्ठ-प्रमुखाः सर्वे ततो रामं विसर्जय ॥

षष्टिर् वर्ष-सहस्राणि जातस्य मम कौशिक ।
दुःखेनोत्पादितश् चायं न रामं नेतुम् अर्हसि ॥

चतुर्णाम् आत्मजानां हि प्रीतिः परमिका मम ।
ज्येष्ठं धर्म-प्रधानं च न रामं नेतुम् अर्हसि ॥

कथमप्य् अमर-प्रख्यं संग्रामाणाम् अकोविदम् ।
बालं मे तनयं ब्रह्मन् नैव दास्यामि पुत्रकम् ॥

तच् छ्रुत्वा वचनं तस्य स्नेह-पर्याकुलाक्षरम् ।
समन्युः कौशिको वाक्यं प्रत्युवाच महीपतिम् ॥

पूर्वमर्थं प्रतिश्रुत्य प्रतिज्ञां हातुम् इच्छसि ।
राघवाणाम् अयुक्तो ऽयं कुलस्यास्य विपर्ययः ॥

कृत-स्वस्त्ययनं मात्रा पित्रा दशरथेन च ।
पुरोधसा वसिष्ठेन मङ्गलैर् अभिमन्त्रितम् ॥

स्व-पुत्रं मूर्ध्न्य् उपाघ्राय राजा दशरथः प्रियम् ।
ददौ कुशिकपुत्राय सुप्रीतेनान्तरात्मना ॥

विश्वामित्रो ययाव् अग्रे ततो रामो महा-यशाः ।
काक-पक्ष-धरो धन्वी तं च सौमित्रिर् अन्वगात् ॥

अध्यर्ध-योजनं गत्वा सरय्वा दक्षिणे तटे ।
रामेति मधुरां वाणीं विश्वामित्रो ऽभ्यभाषत ॥

गृहाण वत्स सलिलं मा भूत् कालस्य पर्ययः ।
मन्त्र-ग्रामं गृहाण त्वं बलाम् अतिबलां तथा ॥

पितामह-सुते ह्येते विद्ये तेजः-समन्विते ।
ददामि तव काकुत्स्थ सदृशस् त्वं हि धार्मिक ।

ततो रामो जलं स्पृष्ट्वा प्रहृष्ट-वदनः शुचिः ।
प्रतिजग्राह ते विद्ये महर्षेर् भावितात्मनः ॥

गुरु-कार्याणि सर्वाणि नियुज्य कुशिकात्मजे ।
ऊषुस् तां रजनीं तीरे सरय्वा सुसुखं त्रयः ॥

प्रभातायां तु शर्वर्यां विश्वामित्रो महामुनिः ।
अभ्यभाषत काकुत्स्थौ शयानौ पर्ण-संस्तरे ॥

कौसल्या-सुप्रजा राम पूर्वा संध्या प्रवर्तते ।
उत्तिष्ठ नर-शार्दूल कर्तव्यं दैवमाह्निकम् ॥

तस्य ऋषेः परमोदारं वचः श्रुत्वा नरोत्तमौ ।
स्नात्वा कृतोदकौ वीरौ जेपतुः परमं जपम् ॥

कृताह्निकौ महा-वीर्यौ विश्वामित्रं तपोधनम् ।
अभिवाद्याभिसंहृष्टौ गमनायोपतस्थतुः ॥

तस्यायमाश्रमः ।

तत्रत्य ऋषिभिः पूजिताः

न्यवसन् सुसुखं तत्र स्थाण्व्-आश्रम-पदे तदा ।

कथयामास धर्मात्मा तस्य शब्दस्य निश्चयम् । कैलासपर्वते राम मनसा निर्मितं परम् ॥ ८ ॥

ब्रह्मणा नरशार्दूल तेनेदं मानसं सरः । तस्मात् सुस्राव सरसः सायोध्यामुपगूहते ॥ ९ ॥

सरःप्रवृत्ता सरयूः पुण्या ब्रह्मसरश्च्युता । तस्यायमतुलः शब्दो जाह्नवीमभिवर्तते ॥ १० ॥

वारिसङ्क्षोभजो राम प्रणामं नियतः कुरु । ताभ्यां तु तावुभौ कृत्वा प्रणाममतिधार्मिकौ ॥ ११ ॥
तीरं दक्षिणमासाद्य जग्मतुर्लघुविक्रमौ ।

स वनं घोर-संकाशं दृष्ट्वा नर-वर-आत्मजः ।
अविप्रहतम् ऐक्ष्वाकः पप्रच्छ मुनि-पुंगवम् ॥

अहो वनम् इदं दुर्गं झिल्लिका-गण-नादितम् ।
धव-अश्वकर्ण-ककुभैर् बिल्व-तिन्दुक-पाटलैः ॥

संकीर्णं बदरीभिश् च किं न्व् एतद् दारुणं वनम् ।
तम् उवाच महा-तेजा विश्वामित्रो महा-मुनिः ॥

एतौ जनपदौ स्फीतौ पूर्वम् आस्तां नरोत्तम ।
मलदाश् च करूशाश् च देव-निर्माण-निर्मितौ ॥

पुरा वृत्र-वधे राम मलेन समभिप्लुतम् ।
क्षुधा चैव सहस्राक्षं ब्रह्म-हत्या समाविशत् ॥

तम् इन्द्रं स्नापयन् देवा ऋषयश् च तपोधनाः ।
कलशैः स्नापयामासुर् मलं चास्य प्रमोचयन् ॥

सो ऽस्मिन् देशे मलं त्यक्त्वा देवः कारूशम् एव च ।
वृत्राभिद्रोह-संभूतं ततो हर्षम् अवाप्तवान् ।
ददौ देशस्य सुप्रीतो वरं प्रभुर् अनुत्तमम् ॥

इमौ जनपदौ स्फीतौ ख्यातिं लोके गमिष्यतः ।
मलदाश् च करूशाश् च मुदितौ धन-धान्यतः ॥

कस्यचित् त्व् अथ कालस्य यक्षी वै काम-रूपिणी ।
बलं नाग-सहस्रस्य धारयन्ती तदा ह्य् अभूत् ॥

ताडका नाम भद्रं ते भार्या सुन्दस्य धीमतः ।
इमौ जनपदौ नित्यं विनाशयति राघव ॥

सेयं पन्थानम् आवार्य वसत्य् अध्यर्ध-योजने ।
अत एव च गन्तव्यं ताडकाया वनं यतः ॥

स्व-बाहु-बलम् आश्रित्य जहीमां दुष्ट-चारिणीम् ।
मन्-नियोगाद् इमं देशं कुरु निष्कण्टकं पुनः ॥

एनां राघव दुर्वृत्तां यक्षीं परम-दारुणाम् ।
गो-ब्राह्मण-हितार्थाय जहि दुष्ट-पराक्रमाम् ॥

न ह्येनां शाप-संदुष्टां कश्चिद् उत्सहते पुमान् ।
निहन्तुं त्रिषु लोकेषु त्वाम् ऋते रघुनन्दन ॥

न हि ते स्त्री-वध-कृते घृणा कार्या नरोत्तम ।
चातुर्वर्ण्य-हितार्थाय कर्तव्यं राज-सूनुना ॥

नृशंसम् अनृशंसं वा प्रजा-रक्षण-कारणात् ।
पातकं वा स-दोषं वा कर्तव्यं रक्षता सताम् ॥

राज्य-भार-नियुक्तानाम् एष धर्मः सनातनः ।
अधर्म्यां जहि काकुत्स्थ धर्मो ह्य् अस्या न विद्यते ॥

श्रूयते हि पुरा शक्रो विरोचन-सुतां नृप ।
पृथिवीं हन्तुम् इच्छन्तीं मन्थराम् अभ्यसूदयत् ॥

विष्णुना च पुरा राम भृगु-पत्नी दृढ-व्रता ।
अनिन्द्रं लोकम् इच्छन्ती काव्य-माता निषूदिता ॥

एतैर् अन्यैश् च बहुभी राज-पुत्र महात्मभिः ।
अधर्म-निरता नार्यो हताः पुरुष-सत्तमैः ॥

मुनेर् वचनम् अक्लीबं श्रुत्वा नर-वरात्मजः ।
राघवः प्राञ्जलिर् भूत्वा प्रत्युवाच दृढ-व्रतः ॥

पितुर् वचन-निर्देशात् पितुर् वचन-गौरवात् ।
वचनं कौशिकस्येति कर्तव्यम् अविशङ्कया ॥

अनुशिष्टो ऽस्म्य् अयोध्यायां गुरु-मध्ये महात्मना ।
पित्रा दशरथेनाहं नावज्ञेयं च तद्-वचः ॥

सो ऽहं पितृ-वचः श्रुत्वा शासनाद् ब्रह्म-वादिनः ।
करिष्यामि न संदेहस् ताडका-वधम् उत्तमम् ॥

एवम् उक्त्वा धनुर्-मध्ये बद्ध्वा मुष्टिम् अरिंदमः ।
ज्या-घोषम् अकरोत् तीव्रं दिशः शब्देन नादयन् ॥

एनां पश्य दुराधर्षां माया-बल-समन्विताम् ।
विनिवृत्तां करोम्य् अद्य ह्रत-कर्णाग्र-नासिकाम् ॥

न ह्य् एनाम् उत्सहे हन्तुं स्त्री-स्वभावेन लक्षिताम् ।
वीर्यं चास्या गतिं चैव हनिष्यामि इति मे मतिः ॥

शरेणोरसि विव्याध सा पपात ममार च ।

विश्वामित्रं पुरस्कृत्य रामं वचनम् अब्रुवन् ।
मैथिलस्य नर-श्रेष्ठ जनकस्य भविष्यति ।

यज्ञः परम-धर्मिष्ठो यत्र यास्यामहे वयम् ।
त्वं चैव नर-शार्दूल सहास्माभिर् गमिष्यसि ॥

अद्भुतं च धनूरत्नं तत्र तत् द्रष्टुम् अर्हसि ।

द्वात्रिंशे —

ब्रह्म-योनिर् महान् आसीत् कुशो नाम महा-तपाः ।
अक्लिष्ट-व्रत-धर्म-ज्ञः सज्जन-प्रतिपूजकः ॥

वैदर्भ्यां जनयामास चतुरः सदृशान् सुतान् ।
कुशाम्बं कुशनाभं च आधूर्तरजसं वसुम् ॥

तान् उवाच कुशः पुत्रान् धर्मिष्ठान् सत्य-वादिनः ।
क्रियतां पालनं पुत्रा धर्मं प्राप्स्यथ पुष्कलम् ॥

कुशस्य वचनं श्रुत्वा चत्वारो लोक-संमताः ।
निवेशं चक्रिरे सर्वे पुराणां नृ-वरास् तदा ॥

कुशाम्बस् तु महा-तेजाः कौशाम्बीम् अकरोत् पुरीम् ।
कुशनाभस् तु धर्मात्मा पुरं चक्रे महोदयम् ॥

आधूर्तरजसो राम धर्मारण्यं महीपतिः ।
चक्रे पुर-वरं राजा वसुश् चक्रे गिरि-व्रजम् ॥

एषा वसुमती राम वसोस् तस्य महात्मनः ।
एते शैल-वराः पञ्च प्रकाशन्ते समन्ततः ॥

सुमागधी नदी रम्या मगधान् विश्रुता ययौ ।
कुशनाभस् तु राज-र्षिः कन्या-शतम् अनुत्तमम् ॥

जनयामास धर्मात्मा घृताच्यां रघुनन्दन ।
ताः सर्व-गुण-संपन्ना रूप-यौवन-संयुताः ॥

दृष्ट्वा सर्व-गतो वायुर् इदं वचनम् अब्रवीत् ।
अहं वः कामये सर्वाः भार्या मम भविष्यथ ॥

तस्य तद्-वचनं श्रुत्वा कन्या-शतम् अथाब्रवीत् ।
प्रभाव-ज्ञाः स्म ते सर्वाः किम् अस्मान् अवमन्यसे ॥

कुश-नाभ-सुताः सर्वाः समर्थास् त्वां सुरोत्तम ।
स्थानाच् च्यावयितुं देवं रक्षामस् तु तपो वयम् ॥

पिता हि प्रभुर् अस्माकं दैवतं परमं च सः ।
यस्य नो दास्यति पिता स नो भर्ता भविष्यति ॥

तासां तद्-वचनं श्रुत्वा वायुः परम-कोपनः ।
प्रविश्य सर्व-गात्राणि बभञ्ज भगवान् प्रभुः ॥

ताः कन्या वायुना भग्ना विविशुर् नृपतेर् गृहम् ।
स च ता दर्पिताः कन्या दीनाः परम-शोभनाः ॥

दृष्ट्वा भग्नास् तदा राजा संभ्रान्त इदम् अब्रवीत् ।
किम् इदं कथ्यतां पुत्र्यः को धर्मम् अवमन्यते ।
कुब्जाः केन कृताः सर्वा वेष्टन्त्यो न अभिभाषथ ॥

तस्य तद्-वचनं श्रुत्वा कुशनाभस्य धीमतः ।
शिरोभिश् चरणौ स्पृष्ट्वा कन्या-शतम् अभाषत ॥ 33rd sarga

वायुः सर्वात्मको राजन् प्रधर्षयितुम् इच्छति ।
पितृ-मत्यः स्म भद्रं ते स्वच्छन्देन वयं स्थिताः ॥

पितरं नो वृणीष्व त्वं यदि नो दास्यते तव ।
तेन पापानुबन्धेन वचनं न प्रतीच्छता ।
एवं ब्रुवन्त्यः सर्वाः स्म वायुना निहता भृशम् ॥

तासां तद्-वचनं श्रुत्वा राजा परमधार्मिकः ।
प्रत्युवाच महातेजाः कन्या-शतम् अनुत्तमम् ॥

क्षान्तं क्षमा-वतां पुत्र्यः कर्तव्यं सु-महत् कृतम् ।
ऐकमत्यम् उपागम्य कुलं चावेक्षितं मम ॥

अलंकारो हि नारीणां क्षमा तु पुरुषस्य वा ।
दुष्करं तच् च वः क्षान्तं त्रिदशेषु विशेषतः ॥

क्षमा दानं क्षमा यज्ञः क्षमा सत्यं हि पुत्रिकाः ।
क्षमा यशः क्षमा धर्मः क्षमायां हि स्थितं जगत् ॥

इति कुशनाभस्य कन्याः प्रशस्य सदृश-वरे प्रदानाय मन्त्रिभिः संमन्त्र्य सोमदा-नामक-गन्धर्वी-उपरिचर्या-संतुष्ट-चूलि-नामक-महर्षि-दत्तं मानसं पुत्रं ब्रह्मदत्त-नामकं काम्पिली-नामक-नगर-वासिनं राजानम् आहूय तस्मै

समीरण-विगुणीकृतं कन्या-शतकं दत्त्वा तत्-कर-संस्पर्श-समनन्तरम् एव संप्राप्त-पूर्व-रूपाः भर्त्रा ब्रह्मदत्तेन सह संतुष्टः काम्पिल्यां प्रेषयामास । सोमदा अपि स्व-पुत्र-सदृश-स्नुषा-शत-दर्शन-जनित-संतोष-भरिता बभूव । चतुस्त्रिंशे — ततः कुशनाभः पुत्र-लाभाय पुत्रीयाम् इष्टिं कुर्वाणः ब्रह्म-सुत-कुश-नामक-स्व-पितृ-अनुग्रह-लब्धं गाधि-नामानं पुत्रम् अवाप । तेन गाधिना मम पित्रा [[ऋषीके|ऋचीके]] प्रतिपादितां सत्यवतीं स-शरीरं भर्त्रा सह स्वर्गं गताम् अंश-अन्तरेण कौशिकी इति प्रसिद्धां सकल-लोक-हित-चिकीर्षया हिमवत्-पार्श्वे प्रवहन्तीं नदीम् अवेक्ष्य तत्-स्नेह-वश-लब्ध-तत्तीर-निवासः अध्वर-अनुष्ठान-काङ्क्षया प्राप्त-सिद्ध-आश्रमः त्वत्-तेजसा च समाप्त-नियमो ऽहम् इति स्व-वंश-देशस्य उत्पत्तिं राघवाय कथयन् महर्षिभिः संस्तूयमानः स-राघवो विश्वामित्रो निद्राम् अवाप । पञ्चत्रिंशे — ततः प्रातर् उत्थाय कृत-पूर्वाह्निका विश्वामित्र-पुरोगमाः शोणं नदं संतीर्य मध्यं गते सवितरि महर्षि-वृन्दारक-बृन्द-संसेवितां पुण्य-सलिलां जाह्नवीं दृष्ट्वा — [[P144]]

बालकाण्डः । [[P145]]

तस्यास् तीरे ततश् चक्रुस् त आवास-परिग्रहम् ।
ततः स्नात्वा यथा-न्यायं संतर्प्य पितृ-देवताः ॥
हुत्वा च एव अग्निहोत्राणि प्राश्य च हविः ॥
विविशुर् जाह्नवी-तीरे शुचौ मुदित-मानसाः ।

अनेन प्रसङ्गात् पुण्य-तीर्थ-आदि-गमने ऽपि तीर्थे उषित्वा [[पिनादित्यै|पितृ-आदिभ्यः]] दान-श्राद्ध-आदिकम् इतरैर् अपि कर्तव्यम् इति सूचितम् । तथा च शङ्खः — “तीर्थं प्राप्य प्रसङ्गेन स्नानं तीर्थे समाचरन् । स्नानजं फलम् आप्नोति तीर्थ-यात्रा-कृतां न तु” इति । “हुत्वा चैवाग्निहोत्राणि” इत्यादिना आहिताग्नीनां यज्ञ-दर्शन-आदि-धर्म-अर्थं गच्छताम् अग्निभिः सह एव प्रवासः, न अर्थ-अर्थम् । अर्थ-अर्थ-प्रवासे तु यथेच्छम् इति सूचितम् । तथा च त्रिकाण्डमण्डनः — “धनानि आर्जयितुं युक्तः प्रवासो ऽग्निहोत्रिणः । धनैर् हि संभवेद् इज्या तीर्थ-आद्यं तु न व्रजेत् ॥ ब्रह्मा विष्णुः शिवः सूर्यो गो-विप्राः पितृ-देवताः । अग्निहोत्र-गृहे सन्ति व्रत-तीर्थ-तपांसि च ॥” [[P146]] धर्माकूते त्रिस्थलसेतौ ब्रह्म-पुराणे — “यस्य इष्टि-धर्मेषु अधिकारिता अस्ति वरं गृहं गृह-धर्माश् च सर्वे । एवं गृहस्थ-आश्रम-संस्थितस्य तीर्थे गतिः पूर्वतरैर् निषिद्धा ॥ सर्वाणि तीर्थान्य् अपि च अग्निहोत्र-तुल्यानि न एव इति वयं वदामः । यज्ञ-अधिकारे ऽपि अथ वा निवृत्ते विप्रस् तु तीर्थानि परिभ्रमेत् तु । तीर्थेष्व् अलं यज्ञ-फलं हि यस्मात् प्रोक्तं मुनीन्द्रैर् अमल-स्वभावैः ॥ सह-अग्निर् वा स-पत्नीको गच्छंस् तीर्थानि संयतः । सर्व-पाप-विनिर्मुक्तो यथोक्तां गतिम् आप्नुयात्” । तथा च भारते — “तीर्थे गच्छंश् चरेत् संध्यास् तिस्र एकत्र मानवः । न अस्नातो न अशुचिर् गच्छेद् भुक्त्वा वा न च सूतकी” इति । तथा मध्याह्ने उषित्वा पुनः प्रातः कृत-पौर्वाह्निकस्य प्रयाण-प्रतिपादनात् माध्याह्निक-सायं-प्रातर्-अग्निहोत्राणाम् एकत्र कर्तव्यता सूचिता ॥

तां दृष्ट्वा पुण्य-सलिलां हंस-सारस-शोभिताम् ।
संप्रहृष्ट-मना रामो विश्वामित्रम् अथ अब्रवीत् ॥
भगवञ् श्रोतुम् इच्छामि गङ्गां त्रि-पथ-गां नदीम् ।
त्रैलोक्यं कथम् आक्रम्य गता नद-नदी-पतिम् ॥

बालकाण्डः । [[P147]] एवं पृष्टो विश्वामित्रो [[हिमवतो|हिमवतः]] मेनायाम् उत्पन्नं कन्या-द्वयं गङ्गाम् उमां च, लोक-पावन-अर्थं गङ्गां नदीं देवेभ्यः गार्हस्थ्य-अर्थं रुद्राय उमां च हिमवता दत्ता इति उक्तवान् । षट्त्रिंशे —

उक्त-वाक्ये मुनौ तस्मिन्न् उभौ राघव-लक्ष्मणौ ।
प्रतिनन्द्य कथां वीरौ ऊचतुर् मुनि-पुंगवम् ॥
दुहितुः शैल-राजस्य ज्येष्ठाया वक्तुम् अर्हसि ।
विस्तरं [[विस्तरलोऽसि|विस्तर-ज्ञो ऽसि]] दिव्य-मानुष-संभवम् ॥
त्रीन् पथः केन हेतुना प्लावयेल् लोक-पावनी ॥
कथं गङ्गा त्रि-पथ-गा विश्रुता सरिद्-उत्तमा ।
तथा ब्रुवति काकुत्स्थे विश्वामित्रस् तपोधनः ।
निखिलेन कथां सर्वाम् ऋषि-मध्ये न्यवेदयत् ॥
पुरा राम कृतोद्वाहः शिति-कण्ठो महातपाः ।
दृष्ट्वा च स्पृहया देवीं मैथुनाय उपचक्रमे ॥
शिति-कण्ठस्य देवस्य दिव्यं वर्ष-शतं गतम् ।
न च अपि तनयो राम तस्याम् आसीत् परंतप ॥ [[P148]] धर्माकूते ततो देवाः समुद्विग्नाः पितामह-पुरोगमाः ।
यदिह उत्पद्यते भूतं कस् तत् प्रतिसहिष्यते ।
अभिगम्य सुराः सर्वे प्रणिपत्य इदम् अब्रुवन् ॥
न लोका धारयिष्यन्ति तव तेजः सुरोत्तम ।
ब्राह्मेण तपसा युक्तो देव्या सह तपश् चर ॥
त्रैलोक्य-हित-काम-अर्थं तेजस् तेजसि धारय ।
रक्ष सर्वान् इमान् लोकान् न आलोकं कर्तुम् अर्हसि ॥
देवतानां वचः श्रुत्वा सर्व-लोक-महेश्वरः ।
बाढम् इति अब्रवीत् सर्वान् पुनश् च इदम् उवाच ह ॥
धारयिष्यामि अहं तेजस् तेजस्य् एव सह उमया ।
त्रिदशाः पृथिवी सर्वा निर्वाणम् अधिगच्छतु ॥
यद् इदं क्षुभितं स्थानान् मम तेजो हि अनुत्तमम् ।
धारयिष्यति कस् तन् मे ब्रुवन्तु सुर-सत्तमाः ॥
एवम् उक्ताः सुराः सर्वे प्रत्यूचुर् वृषभ-ध्वजम् ।
यत् तेजः क्षुभितं तत् तद् धरा धारयिष्यति ॥

बालकाण्डः

एवम् उक्तः सुर-पतिः प्रमुमोच महीतले ।
तेजसा पृथिवी येन व्याप्ता स-गिरि-कानना ॥
ततो देवाः पुनर् इदम् ऊचुश् च अथ हुताशनम् ॥
आविश त्वं महा-तेजो रौद्रं वायु-समन्वितः ।
तद् अग्निना पुनर् व्याप्तं संजातः श्वेत-पर्वतः ॥
दिव्यं शर-वणं च एव पावकादित्य-संनिभम् ॥
यत्र जातो महातेजाः कार्त्तिकेयो ऽग्नि-संभवः ।
अथ उमां च शिवं च एव देवाः स-ऋषि-गणास् तदा ॥
पूजयामासुर् अत्यर्थं सु-प्रीत-मनसस् तथा ।
अथ शैल-सुता राम त्रिदशान् इदम् अब्रवीत् ॥
समन्युर् अशपत् सर्वान् क्रोध-संरक्त-लोचना ।
यस्मात् निवारिता च अहं संगता पुत्र-काम्यया ॥
अपत्यं स्वेषु दारेषु न उत्पादयितुम् अर्हथ ।
अद्य-प्रभृति [[रष्माकम्|युष्माकम्]] अप्रजाः सन्तु पत्नयः ॥ [[P149]] धर्माकूते [[एषः क्त्वासुरान्|एवम् उक्त्वा सुरान्]] सर्वान् शशाप पृथिवीम् अपि ।
अवने न एक-रूपा त्वं बहु-भार्या भविष्यसि ॥
न च पुत्र-कृतां प्रीतिं मत्-क्रोध-कलुषीकृता ।
प्राप्स्यसि त्वं सु-दुर्मेधे मम पुत्रम् अनिच्छती ॥
[[तान्सर्वान्त्रीडितान्दृष्ट्रा|तान् सर्वान् व्रीडितान् दृष्ट्वा]] सुरान् सुर-पतिस् तदा ।
गमनाय उपचक्राम दिशं वरुण-पालिताम् ॥
स गत्वा तप आतिष्ठत् पार्श्वे तस्य उत्तरे गिरेः ।
हिमवत्-प्रभवे शृङ्गे सह देव्या महेश्वरः ॥
एष ते विस्तरो राम शैल-पुत्र्या निवेदितः ।
गङ्गायाः प्रभवं च एव शृणु मे सह-लक्ष्मणः ॥

सप्तत्रिंशे —

तप्यमाने तपो देवे देवाः स-ऋषि-गणाः पुरा ।
सेनापतिम् [[अप्सन्तः|ईप्सन्तः]] पितामहम् उपागमन् ॥ बालकाण्डः । ततो ऽब्रुवन् सुराः सर्वे भगवन्तं पितामहम् ।
यो नः सेनापतिर् देव दत्तो भगवता पुरा ॥
स तपः परम् आस्थाय तप्यते स्म सह उमया ।
यद् अत्र अनन्तरं कार्यं लोकानां हित-काम्यया ॥
संविधत्स्व विधान-ज्ञ त्वं हि नः परमा गतिः ।
देवतानां वचः श्रुत्वा सर्व-लोक-पितामहः ॥
शैल-पुत्र्या यद् उक्तं तद् अप्रजाः स्थ स्व-पत्नीषु ।
तया वचनम् अक्लीबं सत्यम् एव न संशयः ॥
इयम् आकाश-गा गङ्गा यस्यां पुत्रं हुताशनः ।
जनयिष्यति देवानां सेनापतिम् अरिंदमम् ॥
ज्येष्ठा शैलेन्द्र-दुहिता मानयिष्यति तं सुतम् ।
उमायास् तद् बहुमतं भविष्यति न संशयः ॥
तच् छ्रुत्वा वचनं तस्य कृतार्था रघुनन्दन ।
प्रणिपत्य सुराः सर्वे पितामहम् अपूजयन् ॥

[[१५१]]
પૂર
धर्माकूते
ते गत्वा पर्वतं राम कैलासं धातुमण्डितम् । अग्निं नियोजयामासुः पुत्रार्थं सर्वदेवताः ॥
‘देवकार्यमिदं देव समाधत्स्व हुताशन ।
शैलपुत्र्यां महातेजो गङ्गायां तेज उत्सृज ॥
देवतानां प्रतिज्ञाय गङ्गामभ्येत्य पावकः । गर्भं धारय वै देवि देवतानामिदं प्रियम् ॥
इत्येतद्वचनं श्रुत्वा दिव्यं रूपमधारयत् । स अस्या महिमां दृष्ट्रा समन्तादवकीर्यत ॥
समन्ततस्तु तां देवीमभ्यषिञ्चत पावकः । सर्वस्त्रोतांसि पूर्णानि गङ्गाया रघुनन्दन ॥

तमुवाच ततो गङ्गा सर्वदेवपुरोगमम् । अशक्ता धारणे देव तव तेजः समुद्धतम् ॥
दयमानारिना तेन संप्रव्यथितचेतना । अथाब्रवीदिदं गङ्ग सर्वदेवहुताशनः ॥
काण्डः ।
शुभे हैमवते पार्श्वे गर्भोऽयं संनिवेश्यताम् । श्रुत्वाग्निवचनं गङ्गा तं गर्भमतिभास्वरम् । उत्ससर्ज महातेजाः स्त्रोतोभ्योऽपि तदानघ ॥
यदास्या निर्गतं तस्मात्तप्तजाम्बूनदप्रभम् । काञ्चनं धरणीं प्राप्तं हिरण्यमतुलप्रभम् ॥
तानं काष्र्णायसं चैव तैक्ष्ण्यादेवाभ्यजायत । मलं तस्याभवत्तत्र त्रपुसीसकमेव च ॥
तदेतद्धरणीं प्राप्य नाना धातुरवर्धत । निक्षिप्तमात्रे गर्भे तु तेजोभिरभिरक्षितम् ॥
सर्व पर्वतसंनद्धं सौवर्णमभवद्वनम् । जातरूपमिति ख्यातं तदाप्रभृति राघव ॥
सुवर्ण पुरुषव्याघ्र हुताशनसमप्रभम् । तं कुमारं ततो जातं देवाः सहमरुद्गणाः ॥
[[१५३]]
[[१५४]]
धर्माकूते
श्रीरसंभावनार्थाय कृत्तिकाः समयोजय । ताः क्षीरं जातमात्रस्य कृत्वा समयमुत्तमम् ॥ जातः पुत्रोऽयमस्माकं सर्वासामिति निश्चिताः ततस्तु देवताः सर्वाः कार्त्तिकेय इति ब्रुवन् ॥
पुत्रस्त्रैलोक्यविख्यातो भविष्यति न संशयः । तेषां तद्वचनं श्रुत्वा स्कनं गर्भपरिस्रवे ॥
स्कन्द इत्यनुवन्देवाः स्कनं गर्भपरिस्रवात् । कार्त्तिकेयं महाभागं काकुत्स्थ ज्वलनोपमम् ॥ प्रादुर्भूतं ततः क्षीरं कृत्तिकानामनुत्तमः । षण्णां षडाननो भूत्वा जग्राह स्तनजं पयः ॥ गृहीत्वा क्षीरमेकाहात्सुकुमारवपुस्तदा । अजयत्स्वेन वीर्येण दैत्यसैन्यगणान्विभुः ॥
सुरसेनागणपतिं ततस्तमनलद्युतिम् । अभ्यषिञ्चन्सुरगणाः समेत्यानिपुरोगमाः ॥
बालकाण्डः ।
एष ते राम गङ्गाया विस्तरोऽभिहितो मया । कुमारसंभवस्त्वेष धन्यः पुण्यस्तथैव च ॥
भक्तश्च यः कार्त्तिकेये काकुत्स्थ भुवि मानवः । आयुष्मान्पुत्रपौत्रैश्च स्कन्दसालोक्यमाप्नुयात् ॥
अष्टत्रिंशे-
तां कथां कौशिको रामे निवेद्य मधुराक्षरम् । पुनरेवापरं वाक्यं काकुत्स्थमिदमब्रवीत् ॥
[[1]]
अयोध्याधिपतिः शूरः पूर्वमासीन्नराधिपः । सगरो नाम धर्मात्मा प्रजाकामः स चाप्रजः ॥
विदर्भदुहिता राम केशिनी नाम नामतः । ज्येष्ठा सगरपत्नी सा धर्मिष्ठा सत्यवादिनी ॥
अरिष्टनेमिदुहिता रूपेणाप्रतिमा भुवि ।
द्वितीया सगरस्यासीत्पत्नी सुमतिसंहिता ॥
[[१५५]]
[[१५६]]
धर्माकूते
ताभ्यां सह तदा राजा पत्नीभ्यां तप्तवांस्तपः हिमवन्तं समासाद्य भृगुप्रस्रवणे गिरौ ॥
अथ वर्षशते पूर्णे तपसा तोषितो मुनिः । सगराय वरं प्रादाद्भृगुः सत्यवतां वरः ॥
अपत्यलाभः सुमहान्भविष्यति तवानघ । कीर्ति चाप्रतिमां लोके प्राप्स्यसे पुरुषर्षभ ॥
एका जनयिता तात पुत्रं वंशकरं तव । षष्टिं पुत्रसहस्राणि ह्यपरा जनयिष्यति ॥
अथ काले गते तस्मिञ्ज्येष्ठा पुत्रं व्यजायत । असमञ्ज इति ख्यातं केशिनी सगरात्मजम् ॥
सुमतेस्तु नरव्याघ्र गर्भतुम्बं व्यजायत । षष्टिः पुत्रसहस्राणि तुम्बभेदाद्विनिःसृताः ॥ अथ दीर्घेण कालेन रूपयौवनशालिनः । षष्टिः पुत्रसहस्राणि सगरस्याभवंस्तदा ॥
बालकाण्डः ।
स च ज्येष्ठो नरश्रेष्ठः सगरस्यात्मसंभवः । बालान्गृहीत्वा सलिले सरय्वा रघुनन्दन ॥
[[1]]
प्रक्षिप्य प्रहसन्नित्यं मज्जत सान्समीक्ष्य वै एवं पापसमाचारः सज्जनप्रतिबाधकः ॥ पौराणामहिते युक्तः पिना निर्वासितः पुरात् ।
Ad
अनेन बहुतपः क्लेशलब्धः ज्येष्ठपुत्रोऽपि पापसमाचारः सज्जनबाधकः पौरजनाहितयुक्तः अविचारेण निरस्य इति सूचितम् । ननु ‘ज्येष्ठेन जातमात्रेण पुत्री भवति मानवः । पितॄणामनृणचैव स तस्मात्सर्वमर्हति । यस्मिन्नृणं सन- यति येन चामृतमश्नुते । स एव धर्मजः पुत्रः कामजा- नितरान्विदुः’ इति मनुवचनपर्यालोचनया ज्येष्ठपुत्रस्य ऋणवयनिवर्तकत्वात् उत्तमलोकप्रापकत्वात् वंशाभिवृ- किरत्वात् धर्मजत्वाश्च तत्परित्यागः कथमिति चेन्न, अहितकारिपतितदुष्ट पुत्रपरित्यागस्य युक्तत्वात् । तथा च रामायणे सीतां प्रति रामवचनम् -
[[१५८]]
धर्माकूते
औरसानपि पुत्रान्हि त्यजन्त्यहितकारिणः । समर्थाः संप्रगृह्णन्ति जनानां हितकारिणः ॥
पतितलक्षणमाह गौतम :– ’ द्विजातिकर्मभ्यो हानिः पतनम्’ इति । मनुरपि - ‘अकुर्वन्विहितं कर्म निन्दितं च समाचरन् । प्रसवेन्द्रियार्थेषु नरः पतनमृच्छति’ इति । किं बहुना, दुष्टस्य गुरोरपि परित्यागः कथितो मनुस्मृतौ - ‘गुरोरप्यवलिप्तस्य कार्याकार्यमजानतः । उत्पथं प्रतिपन्नस्य परित्यागो विधीयते’ इति । न चैवं दोषे सति मातुरपि परित्यागः प्रसज्येतेति वाच्यम्, पतिताया अपि तस्याः संग्राह्यत्वात् । तथा च गौतमः — ‘पतितायामपि तस्यां शुश्रूषे’ इति । स्मृतिरपि — ‘पतिता गुरवस्त्याज्या न तु
। - माता कथंचन । गर्भधारणपोषाभ्यां तेन माता गरीयसी’ इति । तथा च पतितानां मातृव्यतिरिक्तगुरुपुत्रभ्रातृसखि- संबन्धिबान्धवशिष्य सेवकानां परित्यागः सिद्धः । एतेषां च पतितानामपरित्यागे अपतितानां च परित्यागे च दोषः स्मर्यते । तथा च गौतमः — ’ निन्दितकर्माभ्यासिपति- तात्याग्यपतितत्यागिनः पतिताः पातसंयोजकाश्च तैश्वान्दं१५९.
समाचरम्’ इति । छान्दोग्ये पश्चाग्निविद्यायाम्- ‘एते पतन्ति चत्वारः पञ्चमश्चाचरंस्तैः’ इति । रामायणेऽपि —:
अदुष्टस्य हि संत्यागः सत्पथे निरतस्य च । निर्दहेदपि शक्रस्य द्युतिं धर्मनिरोधनात् ॥
.
नं चैव मानववचनानां का गतिरिति वाच्यम्, तेषा- मदुष्टज्येष्ठपुत्रविषयत्वात् । राज्ञां तु प्रजापरिपालनस्य मुख्यधर्मतया तत्परिपन्थिनो ज्येष्ठपुत्रस्यापि परित्यागेन तासां हितमवश्यं कर्तव्यमेव । तथा च गौतमः – ’ हितं चासां कुर्वीत ’ इति । याज्ञवल्क्योऽपि – ‘प्रधानं क्षत्रिये कर्म प्रजानां परिपालनम्’ इति । मनुरपि प्रजानां रक्षणं दानमिज्याध्ययनमेव च । विषयेष्वप्रसक्तिश्च क्षत्रि- यस्य समादिशेत्’ इति। आपस्तम्बोsपि ‘अभिषि- तस्य च राज्ञः प्रजापालनं परमो धर्मः’ इति । शान्ति– पर्वण्यपि ‘नृपाणां प्रथमो धर्मः प्रजानामेव पालनम् । निर्दिष्टफलभोक्ता हि राजा धर्मेण युज्यते ॥ पालनेनैव भूतानां कृतकृत्यो महीपतिः । सम्यक् पालयिता भार्ग धर्मस्यानोति पुष्कलम्’ इति । मार्कण्डेयपुराणेऽपि -
[[१६०]]
धर्माकूते
‘पालनेनैव भूतानां कृतकृत्यो महीपतिः । सम्यक्पाल - यिता भागं धर्मस्याप्नोति पुष्कलम्’ इति । ब्रह्माण्डपुराणे- ’ यदहा कुरुते धर्मं प्रजा धर्मेण पालयन्। दश वर्षस- हस्राणि तस्य भुङ्क्ते महाफलम्’ इति । मनुः – ’ रक्षन्ध- र्मेण भूतानि राजा वध्यांश्व घातयन् । यजतेऽहरहर्यज्ञः सहस्रशतदक्षिणैः’ इति । तादृशस्वकर्मपरिभ्रष्टस्य भवत्येव पातित्यम् । अतः निन्दितकर्माभ्यासेन पतितपुत्रसहवास- प्रयुक्तस्वपातित्यनिवृत्तये बहुतपः क्लेशलब्धं ज्येष्ठमपि पुत्रं परित्यक्तवान् ।
तस्य पुत्रशुमान्नाम असमञ्जस्य वीर्यवान् । संमतः सर्वलोकस्य सर्वस्यापि प्रियंवदः । ततः स सगरो राजा यष्टुं समुपचक्रमे ॥
एकोनचत्वारिंशे-
विश्वामित्रवचः श्रुत्वा कथान्ते रघुनन्दनः । उवाच परमप्रीतो मुनिं दीप्तमिवानलम् ॥
बालकाण्डः ।
श्रोतुमिच्छामि भद्रं ते विस्तरेण कथामिमाम् । पूर्वको मे कथं ब्रह्मन्यशं वै समुपाहरत् ॥
[[१६३]]
एवं रामेण पृष्टो विश्वामित्र उवाच- सगरो हिमव- द्विन्ध्यान्तरालप्रदेशे अश्वमेधमारब्धवान् । तत्र यज्ञियो- वो राक्षसीं तनुमास्थाय वासवेनापहृतः । तस्मिन्नप- हृते ऋत्विजो यजमानमब्रुवन्- अश्वः शीघ्रमानीयता- मश्वहर्तारं च जहि ।
यज्ञच्छिद्रं भवत्येतत्सर्वेषामशिवाय नः । तत्तथा क्रियतां राजन्यथाच्छिद्रः ऋतुर्भवेत् ॥
अनेन यज्ञियाश्वहरणमृत्विग्यजमानाशुभकरमित्युक्त- म् । तथा च तैत्तिरीयश्रुतिः - ‘यो बलोऽश्वमेघेन यजते यदमिला अवं विन्देरन हन्येतास्य यज्ञः’ इति । तथा चात्रैवोक्तम्-
विहतस्य च यज्ञस्य सद्यः कर्ता विनश्यति । अरक्षितारं राजानं घ्नन्ति दोषा नरेश्वर ॥
D) 15
धर्माकूते
[[1]]
इति च। सोऽपि राजा पुत्रसहस्राणां षष्टिमवेक्ष्य सर्वतो मेदिनीं विचित्यावो मन्त्रपूत आनेय इत्युक्तवान् ।
ते
पुलाः
सर्वतो मेदिनीमवेक्ष्य न दृश्यतेऽश्व इत्युक्त- वन्तः । पुनरपि राजा समुद्रमालिनी मेदिनी खन्यतां यावदश्वानयनमत्रैव ऋत्विगादिसहितः स्थास्यामीत्याह !
ततः
ते सर्वे हृष्टमनसो राजपुत्रा महाबलाः । जर्महीतलं राम पितुर्वचनयन्त्रिताः ॥
योजनायामविस्तार मेकैको धरणीतलम् ।
बिभिदुः पुरुषव्याघ्र वज्रस्पर्शसमैर्भुजैः ॥
अनेन प्राणानपि तृणीकृत्यात्यन्ताशक्यमपि पितृवच- नात्कर्तव्यमिति सूचितम् । तथा चायोध्याकाण्डे कौस- ल्यां प्रति रामवाक्यमू-
अस्माकं च कुले पूर्व सगरस्याज्ञया पितुः । खनद्भिः सागरैः पूर्वमवाप्तः सुमहानघः ॥
बालकाण्डः ।
[[१६३]]
इति । भिद्यमानां वसुमतीं वध्यमानराक्षसनागादियुक्तां देवादयो दृष्टा संभ्रान्तमनसः पितामहमुपागम्य सगरपु- त्रकृतलोकोपद्रवं शशंसुः । चत्वारिंशे- ततः पितामहोऽपि सगरपुत्रा अप्रमेयप्रभावक पलहुंकारपाट भस्मीकृता भवि - ष्यन्तीति देवानाश्वासयामास । अनेन बहुप्राण्युपद्रवका- रियां देवा अपि वधोपायमभीप्सन्ति, दैवहतानां च तेषामचिरेण नाशो भवत्येवेति सूचितम् । तेऽपि पुत्राः कृत्स्नां महीं प्रादक्षिण्येन च खन्यमानाः पूर्वादिदिक्षु विरूपाक्ष महापद्मसौमनसभद्रनामकान्भूमिं विभ्राणान्नाजा- न्दृष्ट्वा प्रदक्षिणानामयप्रभादिपूर्वकमुत्तरपूर्वस्यां दिशि पुन- रपि खननं कुर्वाणाः अविदूरे चरन्तमश्वं वासुदेवं कपि- लं च दृष्ट्वा अयमश्वहर्तेति क्रोधादभ्यद्रवन् । ततः कोप- संरक्तनयन कपिलहुंकृतिदग्धा भस्मीकृता बभूवुः । अनेना- विचारितकर्मकर्तॄणां महाब्राह्मणावमन्तॄणां च एतादृशी गतिरिति सूचितम् । एकचत्वारिंशे - चिरप्रोषितान्पु- त्राननागवान्विचिन्त्य अंशुमान्नामानमसमञ्जस्य पुत्रं पुत्रा- न्वेषणाय यज्ञियाश्वानयनार्थतया प्रेषयामास । स चाप्यं-
[[१६४]]
धमाकूते
शुमान्पितृव्यमार्गानुसारेण गच्छन्दिशागजान्पृष्ट्वा भस्म- राशी तान्पितृव्यांस्तत्र चरन्तमश्वं च दृष्ट्वापि दुःखितः पितॄणां जलदानाय जलं गवेषमाणं तदलाभेन क्लिश्यमा- नमंशुमन्तं मातुलो वैनतेय आगत्यावादीत्-
पिलेनाप्रमेयेन दग्धा हीमे महाबलाः । सलिलं नार्हसि प्राश दातुमेषां हि लौकिकः ॥
गङ्गा हिमवतो ज्येष्ठा दुहिता पुरुषर्षभ । तस्यां कुरु मांहो पितॄणां तु जलक्रियाः ॥
भस्मराशी तानेतान्पाव येल्लोक पावनां । तया किन्नमिदं भस्म गया लोककान्तया । षष्टिः सहस्राणि स्वर्गलोकं नयिष्यति ।
इति । अनेन महाब्राह्मणापराधजनितपापवतां तच्छापमृ- तानामकृतप्रायश्चित्तानां प्रियायामनधिकारः दुर्मरणात् ।
तथा च वृहदारण्यके
कल्ययाज्ञवल्क्यसंवादे याज्ञ-
वल्क्यः - ‘तं त्वौपनिषदं पुरुषं पृच्छामि तं चेन्मेन
[[१९५]]
विवक्ष्यसि मूर्धा ते विपतिष्यतीति । तं ह न मेने शाक- स्यः तस्य ह मूर्धा विपपातापि हास्य परिमोषिणोऽस्थीन्य. जहुरमन्यमानाः’ इति । अस्य भाष्यम्- तमौपनिषदं पुरुषं शाकल्यो न मेने न विज्ञातवान्किल । तस्य ह मूर्धा विपपात विस्पष्टं पतितः समाप्ताख्यायिका । श्रुतेर्वचनं तं ह न मेने इत्यादि । किं चापि हास्य परिमोषिणस्तस्कराः अस्थीन्यपि संस्कारार्थं शिष्यैनियमानानि गृहान्प्रति अपजहुः अपहृतवन्तः । किंनिमित्तम्, अन्यद्धनं नीयमानं मन्यमानाः इति । यथा याज्ञवल्क्यापराधेन शाकल्यस्य सद्यः शरीरपतनं संस्काराभावश्च तथा प्रह्मिष्ठस्य ब्रह्ममा- र्गप्रवर्तकस्य भगवतो नारायणांशभूतकपिलमहामुनेरपरा- धेन सागराणां सबो भस्मीभावः संस्कारानर्हत्वं च युक्त- मेव । तथा च गौतमः — ‘गोब्राह्मणहतानामन्वक्षम् ’ इति । अन्वक्षम् आशौचाभाव इत्यर्थः । मिताक्षरायाम्- ari प्रायं विषं वह्नि शस्त्रमुद्बन्धनं जलम् । गिरिवृक्ष प्रपातं वा ये कुर्वन्ति नराधमाः ॥ ब्रह्मदण्डहता ये च ये चपि ब्राह्मणैर्हताः । महापातकिनो ये च पतितान्ते
धर्माकूते
प्रकीर्तिताः ॥ पतितानां न दाहः स्यान्नान्तेष्टिर्नास्थिसं- चयः । न चाश्रुपातः पिण्डो वा कार्या श्राद्धक्रिया न च’ इति । याज्ञवल्क्योऽपि - ‘हतानां नृपगोविप्रै- रन्वक्षं चात्मघातिनाम्’ इति ॥
‘सुपर्णवचनं श्रुत्वा सोशुमानतिवीर्यवान् । त्वरितं हयमादाय पुनरायान्महायशाः ॥
ततः सगरोऽपि यज्ञं समाप्य गङ्गावतरणेऽदृष्टोपाय एव कालधर्मे गतवान् । द्विचत्वारिंशे - ततः प्रकृतयः धार्मिकमंशुमन्तं राज्येऽभिषिक्तवन्तः । सोऽपि स्वपुत्रं दिलीप राज्येऽभिषिच्य बहुकालं तपस्तप्त्वा पितृव्याणां महागतिप्रदं स्वर्गङ्गावतारणमलब्ध्वा स्वर्ग गतः । दिलीपो- ऽपि बहुक्रतूननुष्ठाय राज्ये च स्वपुत्रं भगीरथं स्थापयि- त्वा गङ्गावतारणमलब्ध्वा इन्द्रलोकं जगाम । भगीरथो- ऽप्यनपत्यः प्रपितामहवधं श्रुत्वा दुःखितः सन् गोकर्णे पुण्यक्षेत्र नियतेन्द्रियो मासाहारो वर्षसहस्रं तपस्त-
सवान् ॥
बालकाण्डः ।
सुप्रीतो भगवान्ब्रह्मा प्रजानां पतिरीश्वरः । ततः सुरगणैः सार्धमुपागम्य पितामहः ॥
भगीरथं महात्मानं तप्यमानमथाब्रवीत् । भगीरथ महाभाग प्रीतस्तेऽहं जनेश्वर । तपसा च सुतप्तेन वरं वरय सुव्रत ॥
तमुवाच महातेजाः सर्वलोकपितामहम् । भगीरथो महाराजः कृताञ्जलिरुपस्थितः ॥
-यदि मे भगवन्प्रीतो यद्यस्ति तपसः फलम् । सगरस्यात्मजाः सर्वे मत्तः सलिलमाप्नुयुः ॥
गङ्गायाः सलिलक्लिन्ने भस्मन्येषां महात्मनाम् । स्वर्ग गच्छेयुरत्यन्तं सर्वे मे प्रपितामहाः ॥
देया च संततिर्देव नावसीदेत्कुलं च नः । इक्ष्वाकूणां कुले देव एष मेऽस्तु वरः परः ॥
[[१६७]]
[[१६८]]
धर्माते
उक्तवाक्यं तु राजानं सर्वलोकपितामः ।
[[1]]
भर पाच शुभां वाणीं मधुरां मधुराक्षराम् ॥
मनोरथो महानेष भगीरथ महारथ । एवं भवतु भद्रं ते इक्ष्वाकुकुलवर्धन ॥
इयं हैमवती गङ्गा ज्येष्ठा हिमवतः सुता । तां वै धारयितुं शक्तो हरस्तत्र निर्ज्यताम् ॥
गङ्गायाः पतनं राजन्पृथिवी न सहिष्यते । तां वै धारयितुं वीर नान्यं पश्यामि शूलिनः ॥
तमेवमुक्त्वा राजानं गङ्गां खाभाष्य लोककृत् । जगाम त्रिदिवं देवः सह सर्वाणैः ॥
त्रिचत्वारिंशे-
देवदेवे गते तस्मिन्सोऽङ्गुष्ठाग्रनिपीडिता । कृत्वा वसुमतीं राम संवत्सरमुपासत ॥बालकाण्डः ।
अथ संवत्सरे पूर्णे सर्वलोकनमस्कृतः । उमापतिः पशुपती राजानमिदमब्रवीत् ॥ प्रीतस्तेऽहं नरश्रेष्ठ करिष्यामि तव प्रियम् । शिरसा धारयिष्यामि शैलराजसुतामहम् M.
ततो हैमवती ज्येष्ठा सर्वलोकनमस्कृता । तदा सातिमहद्रूपं कृत्वा वेगं च दुःसहम् ॥
आकाशादपतद्राम शिवे शिवशिरस्युत । ‘अचिन्तयच सा देवी गङ्गा परमदुर्धरा ॥
विशाम्यहं हि पातालं स्रोतसागृह्य शंकरम् । त पावलेपनं ज्ञात्वा क्रुद्धस्तु भगवान्हरः ॥
[[१६]]
तिरोभावयितुं बुद्धिं चक्रे त्रिनयनस्तदा । सा तस्मिन्पतिता पुण्या पुण्ये रुद्रस्य मूर्धनि ।’
हिमवत्प्रतिमे राम जटामण्डलगह्वरे ।
सा कथंचिन्महीं गन्तुं नाशक्नोद्यत्नमास्थिता ॥
धर्माकूते
नैव सा निर्गमं लेभे जटामण्डलमोहिता । तत्रैवावभ्रमद्देवी संवत्सरगणान्बहून् ॥

  • तामपश्यं ततस्तत्र तपः परममास्थितः ।
    -अनेन तोषितश्चासीदत्यर्थ

    “विससर्ज ततो गङ्गां हरो बिन्दुसरः प्रति । -तस्यां विसृज्यमानायां सप्त स्रोतांसि जज्ञिरे ॥
    हादिनी पावनी चैव नलिनी च तथापरा । तिस्रः प्राचीं दिशं जग्मुर्गङ्गाः शिवजलाः शुभाः ॥
    सुचक्षुश्चैव सीता व सिन्धुश्चैव महानदी । ‘तिस्रस्त्वेता दिशं जग्मुः प्रतीचीं च शुभोदकाः । सप्तमी चान्वगातासां भगीरथमथो नृपम् ॥
    भगीरथोऽपि राजर्षिर्दिव्यं स्यन्दनमास्थितः । . प्रायादग्रे महातेजा गङ्गा तं चाप्यनुव्रजर ॥
    गगनाच्छंकरशिरस्ततो धरणिमागता । व्यसर्पत जलं तत्र तीव्रवेगपुरस्कृतम् ॥
    मत्स्यकच्छपसंधैश्च शिशुमाया तथा । पतद्भिः पतितैश्चान्यैर्व्यरोचत वसुंधरा ॥
    ततो देवर्षिगन्धर्वा यक्षाः सिद्धगणास्तथा । व्यलोकयन्त ते तत्र गगनानां गतां तदा ॥
    तच्छंकरशिरोभ्रष्टं भ्रष्टं भूमितले पुनः । व्यरोचत तदा तोयं निर्मलं गतकल्मषम् ॥
    ‘तत्र देवर्षिगन्धर्वा वसुधातलवासिनः ।
    भवाङ्गपतितं तोयं पवित्रमिति पस्पृशुः ॥
    [[१७१]]
    अनेनानवरतं स्वर्धुनीमवगाहमानानामपि देवादीनां भूमिष्ठभागीरथीस्नानप्रतिपादनेन स्वर्गङ्गापेक्षया ‘पुण्ये रुद्रस्य मूर्धनि ’ ’ शिवे शिवशिरस्युत’ इत्यादिवचनागत- पुण्यभवाङ्गसंबन्धेन ‘भूमिगतास्वप्त्वाचम्य प्रयतो भ-
    [[१७२]]
    धर्माकूते
    वति’ इत्यापस्तम्बवचनात् गतप्रायत्यहेतुना भ्रष्टं भूमि- तले भूसंबन्धेन भागीरथ्या अतिपावनत्वमुक्तं भवति । अमिलोकैरपि पावनत्वमुच्यते—-
    पापात्प्रपतिता ये च गगनाद्र-: धातलम् । कृत्वा तत्राभिषेकं ते बभूतकिल्विषाः ॥
    धूतपापाः पुनस्तेन तोयेनाथ सुभास्वता । पुनराकाशमाविश्य स्वाल्लोकान्प्रतिपेदिरे ॥
    मुमुदे मुदितो लोकस्तेन तोयेन भास्वता । कृताभिषेको गङ्गायां बभूव विगतक्लमः ॥
    भगीरथोऽपि राजर्षिर्दिव्यं स्यन्दनमास्थितः । प्रायादग्रे महातेजास्तं गङ्गा पृष्ठतोऽन्वगात् ॥
    यतो भगीरथो राजा ततो गङ्गा यशस्विनी । जगाम सरितां श्रेष्ठा सर्वपापविनानी ॥
    बालकाण्डः t
    ततो हि यजमानस्य जोरद्भुतकर्मणः । गङ्गा संप्लावयामास यज्ञवाटं महात्मनः ॥ तस्यावलेपनं ज्ञात्वा क्रुद्धो जहुस्तु राघव । अपिबच्च जलं सर्व गङ्गायाः परमाद्भुतम् ॥
    ततो देवाः सगन्धर्वा ऋषयश्च सुविस्मिताः । पूजयन्ति महात्मानं जहुं पुरुषसत्तमम् ॥
    गङ्गां तामानयन्ति स्म दुहितृत्वे महात्मनः । ततस्तुष्टो महातेजाः श्रोत्राभ्यामसृजत्नः ॥
    तस्माज्जह्नुसुता गङ्गा प्रोच्यते जाह्नवीति च । जगाम च पुनर्गका भगीरथरथानुगा ॥
    सागरं चापि संप्राप्ता सा सरित्प्रवरा तदा । रसातलमुपागच्छत्सिद्ध्यर्थं तस्य कर्मणः ॥
    भगीरथोऽपि राजर्षिर्गदामादाय यत्नतः । पितामहान्भस्मकृतानपश्यद्दीनचेतनः ॥
    [[१७४]]
    धर्माकृते
    अथ तं भस्मनां राशि गङ्गासलिलमुत्तमम् । प्लावयद्धतपाप्मानः स्वर्ग प्राप्ता रघूत्तम ॥
    चतुश्चत्वारिंशे-
    स गत्वा सागरं राजा गङ्गयानुगतस्तदा । प्रविवेश तलं भूमेर्यत्र ते भस्मसात्कृताः ॥
    भस्मन्यथाप्लुते राम गङ्गायाः सलिलेन वै । सर्वलोकप्रभुर्ब्रह्मा राजानमिदमब्रवीत् ॥
    [[1]]
    तारिता नरशार्दूल दिवं याता हि देववत् । षष्टिः पुत्रसहस्राणि सगरस्य महात्मनः ॥
    सागरस्य जलं लोके यावत्स्थास्यति पार्थिव । सगरस्यात्मजास्तावत्स्वर्गे स्थास्यन्ति देववत् ॥
    इयं च दुहिता ज्येष्ठा तव गङ्गा भविष्यति । त्वत्कृतेन च नाम्नाथ लोके स्थास्यति विश्रुता ॥
    [[1]]
    गङ्गा त्रिपथगा राजन्दिव्या भागीरथीति च । त्रीन्पयो भावयन्तीति ततस्त्रिपथगा स्मृता ॥
    पितामहानां सर्वेषां त्वमत्र मनुजाधिप । कुरुष्व सलिलं राजन्प्रतिज्ञामपवर्जय ॥
    पूर्वकेणापि ते राजंस्तेनातियशसा तदा । धर्मिणां प्रवरेणाथ नैष प्राप्तो मनोरथः ॥
    तथैवांशुमता बस लोकेऽप्रतिमतेजसा । गङ्गां प्रार्थयता नेतुं प्रतिज्ञा नापवर्जिता ॥
    राजर्षिणा गुणवता महर्षिसमतेजसा । मतुल्यतपसा चैव क्षत्रधर्मस्थितेन च ॥
    दिलीपेन महाभाग तव पित्रातितेजसा । पुनर्न शङ्किता नेतुं गङ्गां प्रार्थयतानघ ॥
    सा त्वया समतिक्रान्ता प्रतिज्ञा पुरुषर्षभ । प्राप्तोऽसि परमं लोके यशः परमसंमतम् ॥
    १७५०.
    [[१७६]]
    धर्माकूते
    यथा गङ्गावतरणं त्वया कृतमरिंदम । अनेन च भवान्प्राप्तो धर्मस्यायतनं महत् ॥
    लावयस्व त्वमात्मानं नरोत्तम सदोचिते । सलिले पुरुषश्रेष्ठ शुचिः पुण्यफलो भव ॥
    पितामहानां सर्वेषां कुरुष्व सलिलक्रियाम् । स्वस्ति तेऽस्तु गमिष्यामि स्वं लोकं गम्यतां नृप ।
    इत्येवमुक्त्वा देवेशः सर्वलोकपितामहः । ‘यथागतं तथागच्छद्देवलोकं महायशाः ॥
    भगीरथोऽपि राजर्षिः कृत्वा सलिलमुत्तमम् । - यथाक्रमं यथान्यायं सागराणां महायशाः ।
    कृतोदकः शुची राजा स्वपुरं प्रविवेश ह । समृद्धार्थी रघुश्रेष्ठ स्वराज्यं प्रशशास च ॥ प्रमोद च लोकस्तं नृपमासाद्य राघव । नष्टशोकः समृद्धार्थो बभूव विगतज्वरः ॥
    बालकाण्डः ।
    [[१७७]]
    अनेन स्ववंश्येन केनापि गङ्गास्नानतर्पणादि कृतं चेत्तद्वंश्यानां सर्वेषामुत्तमलोकप्राप्तिः इति सूचितम् । एत- माहात्म्यं महाभारते विष्णुपुराणे च विस्तरेण श्रूयते । तथा चानुशासनिके युधिष्ठिरवाक्यं भीष्मं प्रति’ के देशाः के जनपदाः केऽश्रमाः के च पर्वताः । प्रकृष्टाः पु- ण्यतः काच ज्ञेया नवस्तदुच्यताम् ॥ भीष्मः – ते देशास्ते जनपदास्तेऽश्रमास्ते च पर्वताः । येषां भागीरथी गङ्गा मध्येनैति सरिद्वरा ॥ स्पृष्टानि येषां गाङ्गेयैस्तोयैर्गा- त्राणि देहिनाम् । न्यस्तानि न पुनस्तेषां त्यागः स्वर्गाद्वि- धीयते ॥ पूर्वे वयसि कर्माणि कृत्वा पापानि ये नराः । पश्चाङ्गां निषेवन्ते तेऽपि यान्त्युत्तमां गतिम् ॥ याव - दस्थि मनुष्यस्य गङ्गातोयेषु तिष्ठति । तावद्वर्षसहस्राणि स्वर्गे लोके महीयते ॥ यस्तु सूर्येण निष्टतं गाङ्गेयं पिबते जलम् । गवां निर्धारनिर्मुक्ताद्यावकादतिरिच्यते ॥ अग्नौ प्रास्तं प्रदूयेत यथा तूलं द्विजोत्तम । तथा गङ्गावगाढस्य सर्व पापं प्रदूयते ॥ प्रकृष्टैशुभैर्ब्रस्ताननेकैः पुरुषाधमान् । पaat नरके गङ्गा संश्रितान्प्रेत्य तारयेत् ॥ विनयाचार-
    D 16
    १७८.
    धर्माकूते
    हीनाश्चाप्यशिवाश्च नराधमाः । ते भवन्ति शिवा विप्रा ये वै गङ्गामुपाश्रिताः ॥ उपासते यथा बाला मातरं क्षुधयार्दिताः । श्रेयस्कामास्तथा गङ्गामुपासन्तीह देहि- नः ॥ जाह्नवी पुलिनोत्थाभिः सिकताभिः समुक्षितम् । आत्मानं मन्यते लोको दिविष्टमिव शोभितम् ॥ जाह्नवी- तीरसंभूतां मृदं मूर्ध्ना बिभर्ति यः । बिभर्ति रूपं सोऽर्क- स्य तमोनाशाय निर्मलम् ॥ गङ्गोर्मिभिरथो दिग्धः पुरुषं पवनो यदा । स्पृशते सोऽस्य पाप्मानं सद्य एवापक- र्षति ॥ वाङ्मनः कर्मजैर्ग्रस्तः पापैरपि पुमानिह । वीक्ष्य गङ्गां भवेत्पूतः अत्र मे नास्ति संशयः । सप्तावरान्सप्त परान्पितॄंस्तेभ्यश्च ये परे । पुमांस्तारयते गङ्गां वीक्ष्य सृष्ट्वावगाह्य च ॥ श्रुताभिलषिता पीता स्पृष्टा दृष्टा- वगाहिता । गङ्गा तारयते नृणामुभौ वंशौ विशे- षतः ॥ दर्शनात्स्पर्शनात्पानात्तथा गङ्गेति कीर्तनात् । पुनात्खपुण्यान्पुरुषाच्शतशोऽथ सहस्रशः ॥ य इच्छेत्स- फलं जन्म जीवितं श्रुतमेव च । स पितॄंस्तर्पयेद्गङ्गामभि- गम्य सुरांस्तथा ॥ न सुतैर्न च वित्तेन कर्मणा न चबालकाण्डः ।
    [[१७९]]
    तत्फलम् । प्राप्नुयात्पुरुषोऽत्यन्तं गङ्गां प्राप्य यदाप्नुयात् ॥ वानप्रस्थैर्गृहस्थैश्व यतिभिर्बह्मचारिभिः । विद्यावद्भिः श्रितां गङ्गां पुमान्को नाम नाश्रयेत् ॥ उत्क्रामद्भिश्व यः प्राणैः प्रयतः शिष्टसंमतः । चिन्तयेन्मनसा गङ्गां स गतिं परमां लभेत् ॥ महापुण्यां च गगनात्पतन्तीं वै महेश्वरः । दधार शिरसा गङ्गां तामेव दिवि सेवते ॥ भूस्थैः स्वस्थैर्दिवि- स्थैव भूतैरुच्चावचैरपि । गङ्गा विगाहा सततमेतत्कार्यतमं सताम् ॥ विश्वलोकेषु पुण्यत्वाद्गङ्गायाः प्रथितं यशः 1. यत्पुत्रान्सगरस्येतो भस्माख्याननयद्दिम् ॥ पयस्विनीं धृतिनीमत्युदारां समृद्धिनीं वेगिनीं दुर्विगाह्याम् । गङ्गां गत्वा यैः शरीरं विसृष्टं गता धीरास्ते विबुधैः समत्वम् ॥ यो वत्स्यति द्रक्ष्यति वापि मर्त्यस्तस्मै प्रयच्छन्ति सुखानि देवाः । तद्भाविताः स्पर्शनदर्शनेन इष्टां गतिं तस्य सुरा दिशन्ति ॥ इयं गङ्गेति नियतं प्रतिश गुहस्य रुक्मस्य च भर्गयोषा । प्रातस्त्रिवर्गा धृतवाहा विपाप्मा गङ्गाव- तीर्णा वियतो विश्वतोया ॥ मधुस्रवा वृतधारा वृतार्चिर्म- होर्मिभिः शोभिता ब्राह्मणैश्व । दिवश्च्युता शिरसाप्ता
    [[१८०]]
    धर्माकूते
    [[1]]
    शिवेन गङ्गावनीधा त्रिदिवस्य माता ॥ ऋषिष्टुतां वि- ष्णुपदीं पुराणां सुपुण्यतोयां मनसापि लोके । सर्वात्मना जाह्नवीं ये प्रपन्नास्ते ब्रह्मणः सदनं संप्रयाताः ॥ प्रसाध देवान्स विभून्समस्तान्भगीरथस्तपसोग्रेण गङ्गाम् । गा- मानयत्तामभिगम्य शश्वत्पुंसां भयं नेह वासूत्र विद्यात् ॥ उदाहृतः सर्वथा ते गुणानां मयैकदेशः प्रसमीक्ष्य बुद्ध्या । शक्तिर्न मे काचिदिहास्ति वक्तुं गुणान्सर्वान्परिमातुं तथैव ॥ मेरोः समुद्रस्य च सर्वयत्नेः संख्योपलानामुदकस्य चापि । शक्यं वक्तुं नेह गङ्गाजलानां गुणाः ख्यातुं परिमातुं तथैव’ इति । विष्णुपुराणेऽपि - ’ एवमेतत्परं विष्णोस्तृतीयममलात्मकम् । आधारभूतं लोकानां बयाणां सृष्टिकारणम् ॥ ततः प्रभवति ब्रह्मन्सर्वपापहरा सरित् । गङ्गा देवाङ्गनाङ्गानामनुलेपनपिवरा ॥ वामपादाम्बुजा- ङ्गुष्ठनखस्रोतोविनिर्गता । विष्णोर्विभर्तियां भक्त्या शि- रसाहर्निशं ध्रुवम् ॥ ततः सप्तर्षयो यस्याः प्राणायामपरा- यणाः । तिष्ठन्ति वीचीमालाभिरुह्यमाना जटाजले ॥ वा- यः सततं यस्यालावितं शशिमण्डलम् । भूयोऽधिकतरां
    बालकाण्डः ।
    [[१८१]]
    कान्ति वहत्येतदहः क्षयम् ॥ मेरुपृष्ठे पतित्वोश्चैर्निष्का- न्ता शशिमण्डलात् । जगतः पावनार्थाय या प्रयाति चतुर्दिशम् ॥ सीता चालकनन्दा च चक्षुर्भद्रा तथैव च । एकैव सा चतुर्भेदा दिग्भेदगतिलक्षणा ॥ भेदं चालक- नन्दाख्यं यस्याः शर्वोऽपि लक्षणम् । दधार शिरसा प्रीत्या वर्षाणामधिकं शतम् ॥ शंभोर्जटाकलापाश्च विनि- कान्तास्थिशर्करात् । प्लावयित्वा दिवं निन्ये या पापा- न्सगरात्मजान् ॥ स्नातस्य सलिले यस्याः सद्यः पापं प्रणश्यति । अपूर्वपुण्यप्राप्तिश्व सद्यो मैत्रेय जायते ॥ दत्ताः पितृभ्यो यत्रापस्तनयैः श्रद्धयान्वितैः । समात्रयं प्रयच्छ- न्ति तृप्तिं मैत्रेय दुर्लभाम् ॥ यस्यामिष्टा महायज्ञैर्यज्ञेशं पुरुषोत्तमम् । द्विजभूताः परामृद्धिमवापुर्दिवि चेह च ॥ स्नाननिर्धूतपापाश्च जायन्ते यतयस्तथा । केशवासक्तम- नसः प्राप्ता निर्वाणमुत्तमम् ॥ श्रुताभिलषिता दृष्टा स्पृष्टा- पीतावगाहिता । सा पावयति भूतानि कीर्तिता च दिने दिने ॥ गङ्गा गङ्गेति यन्नाम योजनानां शतेष्वपि । स्थितैरुच्चारितं हन्ति पापं जन्मत्रयार्जितम् ॥ यतः सा
    [[૧૮૨]]
    धर्माकूते
    पावनी मूलं खयाणां जगतामपि । समुद्भूता परं तत्तु तृ- तीयं भगवत्पदम्’ इति ।
    एष ते राम गङ्गाया विस्तरोऽभिहितो मया । स्वस्ति प्राशुहि भद्रं ते संध्याकालोऽतिवर्तते ॥
    धन्यं यशस्यमायुष्यं स्वर्ग्य पुष्यमथापि च । यः श्रावयति विप्रेषु क्षत्रियेष्वितरेषु च ॥
    प्रीयन्ते पितरस्तस्य प्रीयन्ते दैवतानि च । इदमाख्यानमयो गङ्गावतरणं शुभम् ॥
    यः शृणोति च काकुत्स्थ सर्वान्कामानवाप्नुयात् । सर्वे पापाः प्रपश्यन्ति आयुः कीर्त्तिश्च वर्धते ॥
    पञ्चचत्वारिंशे – ततः श्रुतगङ्गावतरणो रामः प्रभाते तामेव गङ्गां ती उत्तरकूलनिविष्टां विशालां पुरीमवे- क्ष्य कस्येयमिति विश्वामित्रमपृच्छत् । ततः अमरत्व लिप्सुदे- वासुरादिकृतक्षीरोद पथनाद्धन्वन्तर्यप्सरोवारुण्युच्चैश्रवः कौ-
    बालकाण्डः ।
    [[१८३]]
    स्तुभक्रमेण संभूतेऽमृते तदर्थ विवदमानेषु देवासुरेषु देवजयाय गृहीतमोहिनीवेषेण भगवता नारायणेन लब्धा- मृतो वृद्धश्रवा निगृहीतासुरवर्गो राज्यमवाप । षट्च- त्वारिंशे - ततः समन्युशतमन्युनिषूदित पुत्रक्लेशासहि- ष्णुदितिप्रार्थनया सहस्रसंवत्सर नियमलभ्यस्तनय इति स्व- भर्तृकाश्यपानुग्रहेण पाकशासनपरिपाटनपटुपुत्रलाभाय कुशाप्लवने तपश्चरन्तीं गर्भहननायान्तरलिप्सया शाख्येन शको मातरं परिचचार । ततञ्च
  • प्राप्ते मध्यं दिवाकरे ।
    निद्रयापहृता देवी पादौ कृत्वाथ शीर्षतः ॥
    दृष्ट्वा तामशुचिं शक्रः पादतः कृतमूर्धजाम् । शिरःस्थाने कृतौ पादौ जहास च मुमोद च ॥
    अनेन व्रतस्थानां दिवा स्वापः, पादस्थाने शिरः- स्थापनं चाशुचिकरम् इति सूचितम् । ततस्तस्या जठरं प्रविश्य गर्भ सप्तधा च्छित्त्वा प्रबुद्धया मात्रा न हन्तव्य इति प्रार्थितः कुलिशपाणिर्निर्जगाम । दितिरप्याखण्ड-
    [[१८४]]
    धर्माकूते
    लखण्डितखण्डांस्तदीयवरेण मारुताभिधानान्देवान्कारयि- त्वा दिवं प्रविष्टा । तदेतस्मिन्देशे इक्ष्वाकुनन्दनविशाल- निर्मितां तद्वंशोद्भवसुमत्यध्युषितां विशालाभिधानां पुरीम- द्याधिवसाम इति निश्चित्य संप्राप्तः राक्षसक्षयकरणदक्षयो- दशरथकुमारयो रामलक्ष्मणयोर्विदितवृत्तान्तेन सुमतिना प्रत्युद्मनादिना सम्यगभ्यर्चितः सराजपुत्रो विश्वामित्र- स्तत्र निशीथिनीं नीत्वा मिथिला प्रतस्थे । ततः मिथि- लोपकण्ठे जनवर्जितमाश्रमं पश्यन्विश्वामित्रः – ‘अहल्या- भिलाषिणमनार्यवृत्तं वृत्रहणं दृष्ट्वा, गौतमः
    मम रूपं समास्थाय कृतवानसि दुर्मते । अकर्तव्यमिदं यस्माद्विफलस्त्वं भविष्यसि ॥
    इति इन्द्रं शवा,
    इह वर्षसहस्राणि बहूनि त्वं निवत्स्यसि । वायुभक्षा निराहारा तप्यन्ती भस्मशायिनी । अदृश्या सर्वभूतानामाश्रमे त्वं भविष्यसि ॥
    बालकाण्डः ।
    १८५.
    इति भार्यामपि शप्त्वा तपश्चरणाय हिमाद्रि गतः’ इति पूर्वकथावृत्तान्तं रामायाचचक्षे । अनेन परदाराभिमर्शनं कृतवतः प्राणात्ययो महान्क्लेशो वा भवति इति सूचितम् । तथा च युद्धकाण्डे सीतावाक्यम्–
    न हीदृशमनायुष्यं लोके किंचन विद्यते । यादृशं पुरुषस्येह परदाराभिमर्शनम् ॥
    इति । तथा स्वरूपनाशमकृत्वा वायुभक्षेत्यादिवयोनुरूप- शापप्रदानेन चापल्यात्सकृत्परपुरुषप्रवृत्ता स्त्री नियमेन शो- ‘चयित्वा पुनः संग्राह्येति सूचितम् । अभ्यासे तु पातित्य- म् । तथा च गौतमः - ‘निन्दितकर्माभ्यासि पतितात्या- ग्यपतितत्यागिनः पतिताः’ इति । एकोनपञ्चाशे- गौतममहर्षिको पादफलमिन्द्रं पितृप्रार्थनालब्धेन मेषवृषणेन देवाः सफलं चक्रुः । तमिममाश्रमं प्रविश्य
    [[1]]
    तारयैनां महाभागामहल्यां देवरूपिणीम् ।

इति विश्वामित्राज्ञयाश्रमं प्रविश्य रामः स्वपदविन्या-
+
es
धर्माकूते
समसमयमेव दृक्पथमारूढां तपोबलविशुद्धाङ्गीं तत्स- मयसंप्राप्तगौतमसंगतामहल्यां संपूज्य ताभ्यां च प्रतिन- न्दितो विश्वामित्रपुरःसरो मिथिलामुपाजगाम । पञ्चाशे- नानादिगन्तरागतऋषिगणसंपूर्णयज्ञवाटसंदर्शन संजातकुतू- हलेन रामेण कतमो देशोऽस्माकं निवासायेति पृष्टो विश्वामित्रः
निवासमकरोद्देशे विविक्ते सलिलान्विते ।
अनेन द्विजावासः विविक्तसलिलान्वित एव कर्तव्य
• इति सूचितम् । तथा च गौतमः – ’ एधोदकयवसकु- शमाल्योपनिष्क्रमणमार्यजनभूयिष्ठमनलससमृद्धं धार्मिका- धिष्ठितं निकेतमावसितुं यतेत’ इति । आपस्तम्बोऽपि - ‘प्रभूतैवोदके ग्रामे यत्रात्माधीनं प्रयमणं तत्र वासो धम्य - ब्राह्मणस्य’ इति । जनकोऽपि यज्ञवाटसमागतं विश्वा- मित्रमुपश्रुत्य शतानन्दादिऋत्विग्ब्राह्मणपुरस्कृतोऽर्घ्यादिना - तपोवनं संपूज्य परमासनोपविष्टं विश्वामित्रमनु स्वयमपि सर्षिसंघ उपविश्य देवोपमाविमौ कुमारौ कस्येति पृष्ठ-
बाळकाण्डः 1
[[૮૭]]
वान् । विश्वामित्रोऽपि दशरथसकाशात्सिद्धाश्रमे यज्ञर- क्षणाय समानीतौ निगृहीतसुबाहुमारीचौ स्वसंदर्शन - मात्रेण निवृत्तशापामहल्यां गौतममहर्षिणा संयोजितवन्तौ माहेश्वरधनुरारोपणं कर्तुकामो दाशरथी रामलक्ष्मणावि- त्यवादीत् । एकपञ्चाशे – ततः जनककुलपुरोधाः शता– नन्दः श्रुतजननीवृत्तान्तः गाधिनन्दनं दशरथनन्दनौ च प्रशस्य रामाय कौशिकप्रभावमकथयत् – पुरा खलु कुशि- कवंशसंभूतोऽयं बहुवर्षसहस्रं धर्मतो राज्यं परिपालयन्स- कलदेशदिदृक्षया स्वसैन्यपरिवृतो गाविसूनुराश्रमान्बहुत- परिवसंसेवितान्विचरञ्श्रमविषण्णो भगवन्तं वसिष्ठं ददर्श । द्विपञ्चाशत्रिपञ्चाशयोः- वसिष्ठोऽपि स्वाश्रममभ्यागतं प्रणतं विश्वामित्रं स्वागतवचनादिभिरभिपूज्याग्निहोत्रादिषु कुशलं पृष्टवन्तं ससैन्यं राजानमातिथ्येन निमन्त्र्य काम- धेनुकल्पितषड़ सोपेतभक्ष्यभोज्यादिसंतृप्तेन शबलामाहा- त्म्यसंदर्शन संजातलोभेन विश्वामित्रेण
हैरण्यकक्ष्यान्यैवेयान्सुवर्णाङ्कुशभूषितान् ।
ददामि कुञ्जराणां ते सहस्राणि चतुर्दश ॥
ટ્
धर्माकूते
हैरण्यानां रथानां च श्वेतानां च चतुर्युजाम् । ददामि ते शतान्यष्टौ किंकिणीकविभूषितान् ॥
हयानां देशजातानां कुलजानां महौजसाम् । सहस्रमेकं दश च ददामि तव सुव्रत ॥
नानावर्णाभियुक्तानां वयःस्थानां तथैव च । aartaai aai कोटिं शबला दीयतां मम ॥
यावदिच्छसि रतं वा हिरण्यं वा द्विजोत्तम । तावद्ददामि तत्सर्व शबला दीयतां मम ॥
एवं गवाश्वादिसहस्त्र रत्नभूता शत्रला रत्नहारिणे मह्यं देयेति संप्रार्थितो वसिष्ठः
नाहं शतसहस्रेण नापि कोटिशतैर्गवाम् । राजन्दास्यामि शबलां राशिभी रजतस्य वा ॥
अस्यां हव्यं च कव्यं च प्राणयात्रा तथैव च । आयत्तमग्निहोत्रं च बलिर्होमस्तथैव च ॥बालकाण्डः ।
[[१८९]]
स्वाहाकारवषट्कारौ विद्याश्च विविधास्तथा । एतदेव हि मे रत्नमेतदेव हि मे धनम् ॥
एतदेव हि सर्वस्वमेतदेव हि जीवितम् । दर्शश्च पूर्णमासश्च यज्ञाश्चैवाप्तदक्षिणाः ॥
एतदेव हि मे राजन्विविधाश्च क्रियास्तथा । अदोमूलाः क्रियाः सर्वा मम राजन्न संशयः । बहुना किं प्रलापेन न दास्ये कामदोहिनीम् ॥
इति प्रत्याचख्यौ । अनेन सकलवैदिककर्मविद्याजीव- नादिकरत्वेनातिपविलत्वेन च गवामतिमाहात्म्यं गवामवि- ऋयतो पर्याप्तवृत्तिकानामत्याशानिषेधश्चेति त्रितयमपि सू- चितम् । तथा महाभारते अनुशासनिके पर्वणि युधि- ष्ठिरं प्रति भीष्मवचनम् - अचरेभ्यश्च भूतेभ्यश्चरा श्रेष्ठा नराः सदा । ब्राह्मणाश्च ततः श्रेष्ठास्तेषु यज्ञाः प्रति- ष्ठिताः ॥ यज्ञैरवाप्यले सोमः स च गोषु प्रतिष्ठितः । गोषु सोमः प्रतिष्ठित इति च तैत्तिरीय श्रुत्यावगम्यते । श्रुतिश्व - ‘यो वै सोमं भक्षयित्वा संवत्सरं सोमं न वि-
[[१९०]]
‘धर्माकूते
पिबति पुनर्भक्ष्योऽस्य सोमपीथो भवति, सोमः खलु वै सांनाय्यं य एवं विद्वान्सांनाय्यं पिबति अपुनर्भक्ष्योऽस्य सोमपीथो भवति’ इति । एवं सोमात्मकसांनाय्यस्य गोषु प्रतिष्ठितत्वात् ‘सोमो गोषु प्रतिष्ठितः’ इति । ’ हव्यं कव्यं तर्पणं शान्तिकर्म यानं वासो वृद्धबालस्य तुष्टिः । एतान्सर्वान्गोप्रदाने गुणान्वै दाता राजन्नाप्नुयाद्वै सदैव । अन्नं हि परमं गावो देवानां परमं हविः । स्वाहाकारवषट्- कारौ गोषु नित्यं प्रतिष्ठितौ । गावो यज्ञस्य हि फलं गोषु यज्ञाः प्रतिष्ठिताः । नाकीर्तयित्वा गाः सुप्यात्ताः संस्मृ- त्यैव चोत्पतेत् । गवां मूत्रपुरीषस्य नोद्विजेत कथंचन । न चासां मांसमश्रीयाद्भवां पुष्टिं तथाप्नुयात् ॥ समानव- त्सां कपिलां धेनुं दत्त्वा पयस्विनीम् । सुत्रतां वस्त्रसंवीतां ब्रह्मलोके महीयते ॥ यावन्ति रोमाणि भवन्ति धेन्वा - स्तावन्ति वर्षाणि महीयते सः । स्वर्गाच्युतश्चापि ततो नृलोके प्रसूयते वै विपुले गृहे सः ॥ गावो ममाग्रतो नित्यं गावः पृष्ठत एव च । गावो मे सर्वतश्चैव गवां मध्ये वसाम्यहम् ॥ इत्याचम्य जपेत्सायं प्रातश्च पुरुषः सदा ।
बालकाण्डः ।
[[१९१]]
यहा कुरुते पापं तस्मात्स परिमुच्यते । नातः परतरं दानं नातः पुण्यतरं फलम् । नातो विशिष्टं लोकेषु भूर्त भवितुमर्हति ॥ त्वचा लोम्नाथ शृङ्गैर्वा वालैः क्षीरेण मेदसा । यज्ञं वहति संभूय किमस्त्यभ्यधिकं ततः ॥ गावो महार्थाः पुण्याश्च तारयन्ति च मानवान् । धारय- न्ति प्रजाचेमा हविषा पयसा तथा । न हि पुण्यतमं किंचिद्गोभ्यो भरतसत्तम । एताः पुण्याः पवित्राच त्रिषु लोकेषु सत्तमाः ॥ देवानामुपरिष्टाच गावः प्रति– वसन्ति वै । दत्त्वा चैतास्तारयते यान्ति स्वर्गे मनीषिणः ॥ गाव शुश्रूषते यच समन्वेति च सर्वशः । तस्मै तुष्टाः प्र यच्छन्ति वरानपि सुदुर्लभान् ॥ निर्हृतैश्च यवैर्गोभिर्मार्स प्रसृतयावकः । ब्रह्महत्यासमं पापं सर्वमेतेन शुध्यति ॥ श्रीः कृत्वेह वपुः कान्तं गोमध्येषु विवेश ह । अप्येकाने- प्यधो वस्तुमिच्छामि च सुकुत्सिते ॥ न वोऽस्ति कुत्सितं किंचिदङ्गेष्वालक्ष्यतेऽनघाः । पुण्याः पवित्राः सुभगा मम वासं प्रयच्छथ ॥ वसेयं यत्र वो देहे तन्मे वक्तुमिहार्हथ । गावः – ‘अवश्यं मानना कार्या तवास्माभिर्यशखिनि ।.
[[१९२]]
[[1]]
धर्माकूते
शकृन्मूत्रे वस त्वं हि पुण्यमेतद्धि नः शुभे । श्रीः- ‘दिष्ट्या प्रसादो युष्माभिः कृतो मेऽनुपहात्मकः ॥ एवं भवतु भद्रं वः पूजितास्मि सुखप्रदाः । एवं गोशकृतः पुत्र माहात्म्यं तेऽनुवर्णितम् । ये च गां संप्रयच्छन्ति हुतशिष्टाशिनश्च ये । तेषां सवाणि यज्ञाश्च नित्यमेव युधिष्ठर ॥ ऋते दधिघृतेनेह न यज्ञः संप्रवर्तते । तेन यज्ञस्य यज्ञत्वमदोमूलं च कथ्यते ॥ यज्ञाङ्कं कथि- ता गावो यज्ञ एव च वासव । एताभिश्च विना यज्ञो Tada कथंचन । धारयन्ति प्रजाचैव पयसा हविषा तथा । एतासां तनयाश्चापि कृषियोगमुपासते ॥ जन- यन्ति च धान्यानि बीजानि विविधानि च । ततो यज्ञाः प्रवर्तन्ते हव्यं कव्यं च सर्वशः ॥ तथा च बोधायनः - ’ अपि वा द्यूतमोदनं पक्त्वा तस्योपरि- ष्टात्प्रभूतमाज्यं पयो वानीय तस्मादेतत्सर्वं करोति यद्रवा कार्य विज्ञायते च धेन्वै वा एतद्रेतो यदाज्यं पयो वा अनडुहस्तण्डुला’ इति । एतते सर्वमाख्यातं पावनं च महाद्युते । पवित्रं परमं वापि गवां माहा-
बालकाण्डः ।
[[१९३]]
त्म्यमुत्तमम् ॥ कीर्तितं पुरुषव्याघ्र सर्वपापप्रमोचनम् । य इदं कीर्तयेन्नित्यं ब्राह्मणेभ्यः समाहितः । हव्यक- व्येषु यज्ञेषु पितृकार्येषु चैव ह । सार्वकामिकमक्षय्यं पितॄंस्तस्योपतिष्ठते ॥ गोषु भक्तश्च लभते यद्यदिच्छति मानवः । स्त्रियोऽपि भक्ता या गोषु ताश्च काममवा- प्रुयुः । न किंचिद्दुर्लभं चैव गवां भक्तस्य भारत ॥ गुण- वचनसमुच्चयैकदेशो नृवर मयैष गवां प्रकीर्तितस्ते । न च परमिह दानमस्ति गोभ्यो भवति न चापि परायणं तथान्यत् ’ इति । एवं स्थलान्तरेऽपि युधिष्ठिरः- दर्शने कीदृशः स्नेहः संवासे च पितामह । महाभाग्यं गवां चैव तन्मे व्याख्यातुमर्हसि । भीष्मः - ‘पुरा खलु परित्यक्तकामक्रोधं गङ्गायमुनासंगमे जलमध्ये तपश्चरन्तं धीवरैर्जालप्रक्षेपेण यादोभिः सह कूले समानीतं च्यवन- महर्षिमवलोक्य कृतनमस्कारेण नहुषेण किं कुर्याम् इति प्रार्थितो महर्षिर्मम मूल्यं मत्स्यमूल्यैः सह एभ्यो धीवरे- भ्यः प्रयच्छेत्यवोचत् । ततः सहस्रलक्ष कोटिधनेनार्धरा- ज्यकृत्स्नराज्याभ्यां च क्रमेण निष्कये कृतेऽपि अननु-
D 17

[[૧૪]]
धर्माकूते
रूपनिष्क्रयं मन्वानं च्यवनं विचिन्त्य अनुरूपनिष्कयालाभ- चिन्तया विद्यमानो नहुषः गवि जातेन केनचिन्मुनिना प्रदर्शितानुरूपनिष्क्रयगवा निष्क्रयं कृत्वा उत्तिष्ठेत्युक्तवान् । च्यवनः – ’ उत्तिष्ठाम्येष राजेन्द्र सम्यक्क्रीतोऽस्मि ते- ऽनघ ॥ गोभिस्तुल्यं न पश्यामि धनं किंचिदिहाच्युत । कीर्तनं श्रवणं दानं दर्शनं चापि पार्थिव ॥ गवां प्रश- स्यते वीर सर्वपापहरं शिवम् । गावो लक्ष्म्याः सदा मूलं गोषु पाप्मा न विद्यते ॥ अन्नमेव सदा गावो देवानां परमं हविः । स्वाहाकारवषट्कारौ गोषु नित्यं प्रतिष्ठितौ ॥ गावो यज्ञस्य नेत्र्यो वै तथा यज्ञस्य ता मुखम् । अमृतं व्ययं दिव्यं क्षरन्ति च वहन्ति च ॥ अमृतायतनं चैताः सर्वलोकनमस्कृताः । तेजसा वपुषा चैव गावो वह्निसमा भुवि ॥ गावो हि सुमहत्तेजः प्राणिनां च सुखप्रदाः । निविष्टं गोकुलं यत्र वासं मुञ्चति निर्भयम् ॥ विराजयति तं देशं पापं चास्या- पकर्षति । गावः स्वर्गस्य सोपानं गावः स्वर्गे प्रपूजि - ताः । गावः कामदुहो देव्यो नान्यत्किचित्परं स्मृतम् ।
बालकाण्डः ।
[[१९५]]
इत्येतद्गोषु मे प्रोक्तं माहात्म्यं भरतर्षभ ॥ गुणैकदेशवचनं शक्यं पारायणं न तु । ततो निषादा मुनिं प्रति ऊचुः- दर्शनं कथनं चैव सहास्माभिः कृतं मुने ॥ सतां सप्तपदं मैत्रं प्रसादं नः कुरु प्रभो । हवींषि सर्वाणि यथा ग्रुप- भुङ्क्ते हुताशनः ॥ एवं त्वमपि धर्मात्मन्पुरुषोऽग्निः प्रताप- वान् । प्रसादयामहे विद्वन्भवन्तं प्रणता वयम् ॥ अनुप्र- हार्थमस्माकमियं गौः प्रतिगृह्यताम्’ । च्यवनः - ’ कृप - णस्य च यचक्षुर्मुनेराशीविषस्य च । नरं समूलं दहति कक्षमग्निरिव ज्वलन् । प्रतिगृह्णामि वो धेनुं कैवर्ता मुक्तकिल्विषाः । दिवं गच्छत वै क्षिप्रं मत्स्यैः सह जलोद्भवैः’ इति । एवं श्रुतिस्मृतीतिहासपुराणादिषु बहुप्र- कारेण प्रतिपाद्यमानं गोमाहात्म्यं वाचामगोचरम् इति दि- प्रदर्शनमात्रं कृत्वा विरम्यते । एवं सर्वसाधारण्येन गोजा- तिमात्रस्यैतादृशं माहात्म्यं चेत्किमु वक्तव्यं सर्वकामदो- हिन्या वसिष्ठधेनोर्माहात्म्ये ? प्रपञ्चितं च वसिष्ठकामधेनु- माहात्म्यं व्यासवाल्मीकिकालिदासादिभिरित्यलं विस्त- रेण । इति गोमाहात्म्यम् ॥ अथ विक्रेयतायाम्–
[[१९६]]
धर्माकूते
यावदिच्छसि रत्नं वा हिरण्यं वा द्विजोत्तम । तावद्ददामि तत्सर्वे शबला दीयतां मम ॥
I
इत्युक्ते सर्वाभीष्टग्रहणपूर्वकं गोप्रदाने विक्रयो भवेदिति ‘न दास्ये कामदीहिनीम्’ इति परिहृतम् । अनेन गोविक्रयो न कर्तव्य इति व्यङ्गमर्यादया उक्तं भवति । यज्ञे तु दक्षि- णाखेन विहितगोभूम्यादीनां स्वानुपयुक्तानां यजमान- सकाशात् विनिमये न दोष इति दशरथाश्वमेधे रामा- यणं स्फुटम् । विक्रयस्तु निषिद्धः । तथा च भारते आनु- शासनिके- ‘ये दोषा यादृशाश्चैव द्विज यज्ञोपघातके । विक्रये चापहारे च ते दोषा ये श्रिता गवाम् । अपहृत्य
तु
[[1]]
यो गां वै ब्राह्मणाय प्रयच्छति । यावदाने फलं तस्या- त्तावन्नरकमृच्छति’ इति । तत्रैव वनपर्वणि ‘एका एकस्य दातव्या न बहूनां कदाचन । सा चेद्विक्रयमापन्ना हन्ति चासप्तमं कुलम्’ इति गोरविक्रेयता ॥ ‘अस्यां हव्यं च कव्यं च प्राणयाला तथैव च’ इति हव्यकव्य- प्राणयात्रा निर्वाहे सति अधिकाशा न कर्तव्येत्यपि व्य-
बालकाण्डः ।
[[१९७]]
नमर्यादया उक्तं भवति । तथा चापस्तम्बः - ‘वृत्ति प्राप्य विरमेत्’ इति । चतुःपञ्चाशपञ्चपञ्चाशयोः- अथ चलावलेपेन विश्वामित्रो वसिष्ठवाक्यमनादृत्य ब्रह्मणे महादोषं जानन्नपि बलादेव शबलामाचकर्ष । अस्ति च ब्रह्मस्वहरणे दोषः । तथा च बोधायनः– ‘न त्वेव कदाचित्स्वयं राजा ब्राह्मणस्वमाददीत, अथा- प्युदाहरन्ति ‘न विषं विषमित्याहुर्ब्रह्मस्वं विषमुच्यते । ब्रह्मस्त्रं पुत्रपौत्रत्रं विषमेकाकिनं हरेत् । तस्माद्राजा ब्रा- ह्मणस्वं नाददीत परं तद्विषं यद्ब्राह्मणस्त्रम्’ इति लो- कमुदाजहार । तथा चानुशासनिके धर्मपुत्रं प्रति भीष्म- वचनम् - ‘शुभे पात्रे ये गुणा गोप्रदाने तावान्दोषो ब्राह्मणस्वापहारे ॥ सर्वावस्थं ब्राह्मणस्वापहारो दाराचैषां दूरतो वर्जनीयाः । तत्रैव गोप्रदाने भ्रान्त्वा अन्यब्राह्मण- गवीप्रदानेन नृगस्य ब्राह्मणशापेन कृकलासभावमापन्नस्य कृष्णदर्शनेन शापविमोक्षानन्तरं वासुदेव इमं श्लोकमुदा- जहार — ‘ब्राह्मणस्त्रं हृतं हन्ति नृगं ब्राह्मणगौरव’ । महाप्रस्थाने इन्द्रं प्रति युधिष्ठिरवाक्यम्- ‘प्रतिप्रदानं
,
[[14]]
धर्माकूते
शरणागतस्य स्त्रियो वधt ब्राह्मणस्वापहारः । मित्रद्रोहस्ता- नि चत्वारि शक्र भक्तत्यागश्चैव समं मतो मे’ । उद्योगप- वैणि प्रजागरे धृतराष्ट्रं प्रति विदुरवाक्यम्- ‘अष्टौ पूर्वनिमित्तानि नरस्य विनशिष्यतः । ब्राह्मणान्प्रथमं द्वेष्टि ब्राह्मणैव विरुध्यते ॥ ब्राह्मणस्वानि चादन्ते ब्राह्मणांच जिघांसति । रमते निन्दया चैषां प्रशंसां नाभिनन्दति ॥ नैतान्स्मरति कृत्येषु याचतचाभ्यसूयति । एतान्दोषान्नरः प्राज्ञो बुद्ध्या बुद्धा विवर्जयेत्’ इति । सर्वधर्मज्ञस्यापि विश्वामित्रस्य एतादृशी बुद्धिरभूत्। यस्मै देवाः प्रयच्छन्ति पुरुषाय पराभवम् । बुद्धिं तस्यापकर्षन्ति सोऽर्वाचीनानि पश्यति ॥ बुद्धौ कलुषभूतायां विनाशे समुपस्थिते । अनयो नयसंकाशी हृदयानापसर्पति’ इति । भवितव्य- स्यापरिहार्यत्वात्कामक्रोधादिभिर्व्याप्तिः सन्सर्व विस्मृत्य वसिष्ठधेनुमाकर्षयामास । सापि असहमाना कामदोहिनी शान्त्या क्षमया युक्तं वसिष्टमवोचत्-
न बलं क्षत्रियस्याद्दुर्ब्राह्मणा बलवत्तराः । ब्रह्मन्ब्रह्मबलं दिव्यं क्षत्रात्तु बलवत्तरम् ॥बालकाण्डः ।
नियुक्ष्व मां महातेजस्त्वं ब्रह्मबलसंवृतः । तस्य दर्पबलं यत्तन्नाशयामि दुरात्मनः ॥
[[१९९]]
इति । तदनु वसिष्ठाभ्यनुज्ञातशबलानिर्मितपह्नवादिनि- कृष्टजाति निषूदितं स्वं बलं वसिष्ठहुंकारनिर्दग्धं पुत्रशतं चा- वलोक्य व्रीडितो विश्वामित्रः तपश्चरण संतुष्टमहादेवप्रसा- दलब्धसर्वास्त्रगणः वसिष्ठाश्रमं पुनरागत्य नाशयामास । चिरसंवर्धिताश्रमविनाशसंजातकोपो वसिष्ठो भगवान्को- धादिदं वचनमब्रवीत्
क्षत्रबन्धो स्थितोऽस्म्येष यद्वलं तद्विदर्शय । नाशयाम्यद्य ते दर्प क्षत्रस्य तव गाधिज ॥
व च ते क्षत्रियबलं क च ब्रह्मबलं महत् । पश्य ब्रह्मबलं दिव्यं मम क्षत्रियपांसन ॥
}
इत्यभिधाय ब्रह्मदण्डमुद्यम्य तस्थौ । ततो विश्वामित्र- प्रयुक्ताग्नेयादिब्रह्मास्त्रावधिसर्वास्त्रजातं स्वहस्तस्थितब्रह्मद-
ण्डेन समानस्य
[[२००]]
धर्माकूते
त्रैलोक्यमोहनं रौद्रं रूपमासीत्सुदारुणम् ।
रोमकूपेषु सर्वेषु वसिष्ठस्य महात्मनः ॥
मरीच्य इव निष्पेतुरग्नेर्धूमाकुलार्चिषः । प्राज्वलद्ब्रह्मदण्डश्च वसिष्ठस्य करोद्यतः ॥ विधूम इव कालाग्निर्यमदण्ड इवापरः । ततोsस्तुवन्मुनिगणा वसिष्ठं जपतां वरम् ॥ अमेयं ते बलं ब्रह्मंस्तेजो धारय तेजसा । निगृहीतस्त्वया ब्रह्मन्विश्वामित्रो महातपाः ॥ प्रसीद जपतां श्रेष्ठ लोकाः सन्तु गतव्यथाः । एवमुक्तो महातेजाः शमं चक्रे महातपाः ॥
अनेन स्त्रस्य परैरुपद्रव सहस्त्रे सत्यपि लोकानुग्रहाय ari निगृह्य क्षमै कार्या, अयमेव ब्राह्मणस्य मुख्यो धर्म इति द्योत्यते । तथा च गीतायाम् ’ शमो दम-
। स्तपः शौचं क्षान्तिरार्जवमेव च । ज्ञानविज्ञानमास्तिक्यं ब्राह्मं कर्म स्वभावजम्’ इति । आदिपर्वणि शृङ्गिणं प्रति
बालकाण्डः
[[૨૦૧]]
शमीकवाक्यम्— ‘क्रोधो हि धर्मे हरति यतीनां दुःख- संचितम् । ततो धर्मविहीनानां गतिरिष्टा न विद्यते ॥ शम एव यतीनां हि क्षमिणां सिद्धिकारकः । क्षमावता- मयं लोकः परश्चैव क्षमावताम् ॥ तस्माचरेथाः सततं क्षमाशीलो जितेन्द्रियः । क्षमया प्राप्स्यते लोका- ब्राह्मणः समनन्तरान्’ इति । आरण्यके पर्वणि द्रौपदीं प्रति धर्मपुत्रवाक्यम्— ‘तस्माद्बलवता चैत्र दुर्बलेन च नित्यदा । क्षन्तव्यं पुरुषेणाहुरापत्सु च विजा- नता ॥ मन्योर्हि विजयं कृष्णे प्रशंसन्तीह साधवः । क्षमावतो जयो नित्यं साधोरिह सतां मतम् । सत्यं चानृततः श्रेयो नृशंसाच्चानृशंसता । तमेवं बहुदोषं तु क्रोधं साधुविवर्जितम् ॥ यस्तु क्रोधं समुत्पन्नं प्रज्ञया प्रतिबाधते । तेजस्विनं तं विद्वांसो मन्यन्ते तत्त्वद- शिनः ॥ हन्त्यवध्यानपि क्रुद्धो गुरून्क्रुद्धस्तुदत्यपि । तस्मात्तेजसि कर्तव्यः क्रोधो दूरे प्रतिष्ठितः । तस्माच्छ- वजेोधं पुरुषः सम्यगाचरन् । हन्युर्हि पितरः पुत्रान्पुत्राश्चापि तथा पितॄन ॥ हन्युश्च पतयो भार्या
D 18
[[૨૦૨]]
धर्माकूते
भार्याश्चापि तथा पतीन् । तस्मान्मन्युर्विनाशाय प्रजा- नामभवाय च ॥ यस्मात्तु लोके दृश्यन्ते क्षमया पृथिवी- समाः । तस्माज्जन्म च भूतानां भवश्व प्रतिपद्यते ॥ क्षन्त- व्यं पुरुषेणेह सर्वापत्सु सुशोभने । क्षमावतो हि भूतानां जन्म चैव प्रकीर्तितम् । अत्राप्युदाहरन्तीमा गाथा नित्यं क्षमावताम् । गीताः क्षमावतां कृष्णे काश्यपेन महात्मना ॥ क्षमा धर्मः क्षमा यज्ञः क्षमा वेदः क्षमा श्रुतम् । य एतदेवं जानाति स सर्वे क्षन्तुमर्हति ॥ क्षमा ब्रह्म क्षमा सत्यं क्षमा भूतं च भावि च । क्षमा तपः क्षमा शौचं क्षमयेदं धृतं जगत् । अतियज्ञविदां लोकान्क्ष- मिणः प्राप्नुवन्ति च । क्षमा तेजस्विनां तेजः क्षमा ब्रह्म तपस्विनाम् ॥ अतिब्रह्मविदां लोकानति चापि तपस्वि- नाम् । अन्ये वै जपिनां लोकाः कर्मिणामपरे तथा । Marati aarh लोकाः परमपूजिताः । क्षमा तेज- स्विनां तेजः क्षमा ब्रह्म तपस्विनाम् । क्षमा सत्यं सत्य- वतां क्षमा यज्ञः क्षमा यशः ॥ तां क्षमां तादृशीं कृष्णे कथमस्मद्विवस्त्यजेत् । यस्यां ब्रह्म च सत्यं च यज्ञा
बालकाण्डः ।
[[२०३]]
लोकाच धिष्ठिताः ॥ क्षन्तव्यमेव सततं पुरुषेण बिजा- नता । यदा हि क्षमते सर्व ब्रह्म संपद्यते तदा । क्षमा- वतामयं लोकः परश्चैव क्षमावताम् ॥ इह संमानमर्हन्ति परत्र च शुभां गतिम् । येषां मन्युर्मनुष्याणां क्षमया- भिहतः सदा ॥ तेषां परतरे लोकास्तस्मात्क्षान्तिः परा मता । इति गीता काश्यपेन गाथा नित्यं क्षमावताम् ॥ श्रुत्वा गाथाः क्षमायास्त्वं तुष्य द्रौपदि मा क्रुधः । एत- दात्मवतां वृत्तमेष धर्मः सनातनः । क्षमा चैवानृशंस्यं च तत्कर्तास्म्यहमञ्जसा’ इति । विष्णुपुराणेऽपि परा- शरं प्रति वसिष्ठवाक्यम्— ‘संचितस्यापि महता वत्स क्लेशेन मानवैः । यशसस्तपसश्चैव क्रोधो नाशकरः परः ॥ स्वर्गापवर्गव्यासेधकारणं परमर्षयः । अलं निशाचरैर्दग्धै- दनैरनपराधिभिः ॥ सत्रं ते विरमत्वेतत्क्षमा सारा हि साधवः’ इति ।
विश्वामित्रो विनिकृतो विनिश्वस्येदमब्रवीत् । धिग्बलं क्षत्रियबलं ब्रह्मतेजोबलं बलम् । एकेन ब्रह्मदण्डेन सर्वास्त्राणि हतानि में ।
[[२०४]]
धर्माकूते
अत्र क्षत्रियग्रहणं प्रकृताभिप्रायम्, सर्वापेक्षयापि ब्राह्मणानामधिकत्वात् । तथा च मनुः — ’ ऊर्ध्वं नामे-
मनुः- र्मेध्यतरः पुरुषः परिकीर्तितः । तस्मान्मेध्यतरं चास्य मुख- मुक्तं स्वयंभुवा ॥ उत्तमाङ्गोद्भवाज्जैष्ठयाद्रह्मणचैव धार णात् । सर्वस्यैवास्य सर्गस्य धर्मतो ब्राह्मणः प्रभुः ॥ तं हि स्वयंभूः स्वादास्यात्तपस्तप्त्वा दितोऽसृजत् । हव्यकव्या- भिवाह्याय सर्वस्यास्य च गुप्तये ॥ यस्यास्येन सदाश्नन्ति हव्यानि त्रिदिवौकसः । कव्यानि चैव पितरः किं भूत- मधिकं ततः । भूतानां प्राणिनः श्रेष्ठाः प्राणिनां बुद्धिजी- विनः । बुद्धिमत्सु नराः श्रेष्ठा नरेषु ब्राह्मणास्तथा ॥ उत्पत्तिरेव विप्रस्य मूर्तिर्धर्मस्य शाश्वती । स हि धर्मा- र्थमुत्पन्नो ब्रह्मभूयाय कल्पते ॥ ब्राह्मणो जायमानो हि पृथिव्यामधिजायते । ईश्वरः सर्वभूतानां धर्मकोशस्य गुप्तये ॥ सर्व स्वं ब्राह्मणस्येदं यत्किचिज्जगतीगतम् ॥ श्रेष्ठयेनाभिजनेनदं सर्वं वै ब्राह्मणोऽर्हति । स्वमेव ब्राह्मणो भुङ्क्ते स्वं वस्ते स्वं ददाति च । आनृशंस्याद्राह्म- णस्य भुञ्जते हीतरे जनाः ’ । तथा अत्रैव गौतमकृत
बालकाण्डः ।
इन्द्रनिग्रहः अहल्योपाख्याने उक्तः । आरण्यकाण्डेऽपि गृहीतब्राह्मणवेष इल्वलः संस्कृतेन मेषभूतस्यामिषेण श्राद्धं व्यपदिश्य निमन्त्रितान्ब्राह्मणान्भोजयित्वा ’ वातापे नि- क्रमस्व’ इत्यनुजमवदत् ; वातापिरपि मेघवन्नदन्
भित्त्वा भित्त्वा शरीराणि ब्राह्मणानां विनिष्पतत् ।
एवमने कब्राह्मणवधसंजातखेद कलुषितान्तः करणैस्तन्नि- ग्रहासमथैः देवैः प्रार्थितो महर्षिरगस्त्यः तेन च श्राद्धे निमन्त्रितः तदनुजं मेषरूपिणं वातापिं भक्षयित्वा ‘वा- तापे निष्क्रमस्व ’ इति वदन्तमिवलम्,
कुतो निष्क्रमितुं शक्तिर्मया जीणर्य रक्षसः । भ्रातुस्ते मेषरूपस्य गतस्य यमसादनम् ॥
इत्यब्रवीत् । इल्वलोsपि भ्रातृवधजनितामर्षः सक्रोधं मुनिमभिद्रवन्
चक्षुषानलकल्पेन निर्दग्धो निधनं गतः ।
इत्यगस्त्वकृतवातापील्वलनिग्रहो लक्ष्मणं प्रति रामेणोक्तः ।
[[२०६]]
धर्माकूते
एवं सुमेरुमिव मामपि प्रदक्षिणीकुर्विति विन्ध्यमहीधरस- मुदीरितं वचनमाकर्ण्य दिनमणिः
नाहमात्मेच्छया शैलं करोम्येनं प्रदक्षिणम् । एष मार्गः प्रदिष्टो मे यैरिदं निर्मितं जगत् ॥
‘इत्यवादीत् ।
एवमुक्तस्ततः क्रोधात्प्रवृद्धः सहसाचलः । सूर्याचन्द्रमसोर्मार्ग रोबुरमेच्छन्परंतप ।
ततः समाक्रान्ततारापथं विन्ध्यभूधरमशक्यनिरोधम- वलोक्य देवैः संप्रार्थितो महाप्रभावो महर्षिः विन्ध्यम- हीरमभिगम्य
दक्षिणामभिगन्तास्मि दिशं कार्येण केनचित् । यावदागमनं मह्यं तावत्त्वं प्रतिपालय ।
निवृत्ते मयि शैलेन्द्र ततो वर्धस्व कामतः ॥
इति समाज्ञाप्य दक्षिणाशाभूषणमभूत् । इत्यगंस्त्य -
rea
कृतविन्ध्यनिग्रह उक्तः । उत्तरकाण्डे एवं मानवो दण्ड- नृपतिर्मृगयव्याजेन वनं प्रविष्टो भार्गवाश्रमसमीपे संचर- न्तीमनवद्यसर्वावयवां मुनिकन्यकामवलोक्य
कुतस्त्वमसि सुश्रोणि कस्य वासि सुता शुभे ।
इति पृष्टया ऋषिकन्यया
भार्गवस्य सुतां विद्धि देवस्याक्लिष्टकर्मणः । अरजां नाम राजेन्द्र ज्येष्ठामाश्रमवासिनी ॥
इति प्रत्युक्तस्तद्रूप संदर्शन संदीप्तकामानलः कन्यामवा- दीत्—-
प्रसादं कुरु सुश्रोणि न कालं क्षेप्तुमर्हसि । त्वरते हि मम प्राणा विशीर्यन्ते शुभानने ॥
तथा चातिक्रुद्धस्वपितृशापेमाशंसमानया बहुशः निरा- कृतोऽपि मदान्धः बलात्कारेण कन्यकां धर्षयामास । स च महर्षिर्भार्गवः तत्प्रधर्षितां रुदतीं कन्यकामवलोक्य
२०८.
धर्माकूते
सप्तरात्रेण राजासौ सभृत्यबलवाहनः । पापकर्मसमाचारो वधं प्राप्स्यति दुर्मतिः ।
समन्ताद्येोजनशतं विषयं चास्य दुर्मतेः । धक्ष्यते पांसुवर्षेण महता पाकशासनः ।
दण्डस्य विषयो यावत्तावत्सर्वं समुच्छ्रयम् ॥ पांसुवर्षमिवालक्ष्यं सप्तरात्रं भविष्यति ।
इति शशाप ॥
तच राज्यं नरेन्द्रस्य सभृत्यबलवाहनम् । सप्ताहाद्भस्मसंभूतं यथोक्तं ब्रह्मवादिना ।
ततः प्रभृति काकुत्स्थ दण्डकारण्यमुच्यते । तपस्विनः स्थिता यत्र जनस्थानमथोऽभवत् ॥
अत्रैव अथ भार्गवकृतदण्डनिग्रह उक्तो नृगोपा- ख्याने— एवं नृगनामको राजा अजस्रगोदानमाचरन्क- स्यचिद्रिस्य गां स्वगवीभिः संसृष्टमन्यस्मै दत्तवान् ; ततःबालकाण्डः ।
[[२०९]]
क्षुधार्तेन दरिद्रेण स्वां गामन्वेषमाणेन कनखले कस्य - चिद्राह्मणस्य गृहे संचरन्तीं धेनुमवलोक्य मदीयेयं गौ- रिति अभिहितो ब्राह्मणः नृगराजेन मामेव गौरियं प्रत्युक्तवान् ।
विवदन्तौ स्वतोऽन्योन्यं राजानमभिजग्मतुः । तौ राजभवनद्वारि अप्राप्य नृपशासनम् ॥
अहोरात्राण्यनेकानि वसन्तौ क्रोधमीयतुः । ऊचतुश्व महात्मानौ तावुभौ द्विजसत्तमौ ॥
क्रुद्ध परमसंतप्त वाक्यं घोराभिसंहितम् । अर्थिनां कार्यसिद्ध्यर्थं यस्मात्त्वं नैषि दर्शनम् ॥
बहुवर्षसहस्राणि कृकलासो भविष्यसि । एवं तौ शापमुत्सृज्य ब्राह्मणौ विगतज्वरौ ॥
तौ गां हि दुर्बलां वृद्धां ददतुर्ब्राह्मणाय वै । एवं स राजा तं शापमुपभुङ्के सुदारुणम् ॥
3.
धर्माकूते

इति ब्राह्मणाभ्यां नृगनिग्रह उक्तः । विष्णुपुराणेऽपि – दुर्वासा : स्वेन दत्तां पुष्पमालां पुरंदरेणानादरेण ऐराव- तस्कन्देशे निक्षिप्तामवलोक्य ’ ऐश्वर्यमत्त दुष्टात्मन्नव- लिप्तोऽसि वासव । श्रियो धाम स्रजं दिव्यां मद्दत्तां नाभिनन्दसि ॥ अतोऽवमानमस्मासु मानिना भवता कृतम् । तस्मात्प्रणष्टलक्ष्मीकं त्रैलोक्यं ते भविष्यति’ इति शशाप ’ ततः प्रभृति निश्रीकं सशक्रं भुवनत्रयम् । मैत्रेयासीदध्वस्तं संक्षीणौषधिवीरुधम् ॥ न यज्ञाः संप्र- वर्तन्ते न तपस्यन्ति तापसाः । न च दानादिधर्मेषु मन- चक्रे तदा जनः ॥ लोभाभिभूता निश्रीका देखाः सत्त्व- विवर्जिताः । श्रिया विहीनैर्निःसत्त्वैर्देवैश्चक्रुस्ततो रणम् ॥ निर्जितास्त्रिदशा दैत्यैरिन्द्राद्याः शरणं ययुः । पितामहं महाभागं हुताशनपुरोगमाः’ इति दुर्वाससा इन्द्र- निग्रह उक्तः । तत्रैव राजा दम्भोद्भवो नाम स्वभुजबला- बलेपेन ‘अस्ति कञ्चिद्विशिष्टो वा मद्विधो वा भवेद्युधि । शूद्रो वैश्यः क्षत्रियो वा ब्राह्मणो वापि शस्त्रभृत्’ इति स्वसंदर्शनाय समागतान्ब्राह्मणक्षत्रियविशः पर्यपृच्छत् ।
[[२११]]
मन्त्रिपुरोहितादिभिरनुचितमिति बहुशः निवारितोऽपि तानविगणय्य सर्वोत्कृष्टमात्मानं मन्यमानः पुनरपि तथैव ब्राह्मणान्पर्यपृच्छतः । ततः ‘उदीर्यमाणं राजानं क्रोधा- दीप्ता द्विजातयः । अनेकनयिनौ संख्ये यौ वै पुरुष- सत्तमौ ॥ तयोस्त्वं न समो राजन्भवितासि कदाचन’ इत्यभिहितो राजा चतुरङ्गबलपरिवृतो युद्धाय नरनारा- यणाश्रमसमीपमागम्य ताभ्यां च अर्घ्यपाद्यादिभिरभ्य- चितोऽभूत् । किमागमनमिति पृष्टो राजा ’ भवद्भ्यां युद्धमाकाङ्क्षनुपयातोऽस्मि पर्वतम् । आतिथ्यं दीयतामेत- त्काङ्क्षितं मे चिरं प्रति’ इति पृष्टवान् । ततः शमप्रधा- ने तपोवने कुतो युद्धकथेति निवारयन् तत्कृतबहुप्रार्थन- याङ्गीकृतसंग्रामः नरः शस्त्रास्त्रवर्षेणानवकाशमाकाशं कु र्वाणं सबलवाहनं राजानं प्रति ऐषीकमत्रं प्रायुङ्क । ततः ’ तेषामक्षीणि कर्णाश्च नासिकाश्चैव मायया । निमि- तवेधी स मुनिः ऐषीकाभिः समार्पयत् । स दृष्ट्वा श्वेत- माकाशमिषीकाभिः समाचितम् । पादयोर्न्यपतद्राजा स्वस्ति मेऽस्त्विति चाब्रवीत्’ इति नरेण दम्भोद्भवनि-
[[२१२]]
धर्माकृते
ग्रह उक्तः । एवमन्यत्रापि महर्षिप्रसादेन प्राप्तसमस्तरा- ज्यो वेनोऽवलेपेन ’ न यष्टव्यं न दातव्यं न होतव्यं कथंचन । भोक्ता यज्ञ कस्त्वन्यो ह्यहं यज्ञपतिः प्रभुः ’ इति जनपदेषु समुद्घोषयन् ‘सकलजनहितकरदीर्घस- श्रेण यज्ञेश्वरं भगवन्तं विष्णुमाराधयामः, तवापि तत्र भागो भविता’ इति महर्षिप्रार्थनामनादृत्य ‘कोऽयं हरिरिति ख्यातो यो वो यज्ञेश्वरो मतः । ब्रह्मा जनार्दनः शंभुरिन्द्रो वायुर्यमो रविः ॥ हुतभुग्वरुणो धाता पूषा भूमिर्निशाकरः । नृपस्य ते शरीरस्थाः सर्वदेवमयो नृपः ॥ भर्तृशुश्रूषणं धर्मो यथा स्त्रीणां परो मतः । ममा- ज्ञापालनं धर्मो भवतां च तथा द्विजाः’ इत्याज्ञापया- मास । तद्वचनश्रवणसंजातकोपा महर्षयः ‘यो यज्ञपुरुषं विष्णुमनादिनिधनं प्रभुम् । विनिन्दत्यधमाचारो न स योग्यो भुवः पतिः । इत्युक्त्वा मन्त्रपूतैस्ते कुशैर्मुनिगणा नृपम् । निर्जघ्नुर्निहतं पूर्व भगवन्निन्दनादिना’ इति ब्राह्मणै- वेननिग्रह उक्तः । आनुशासनिके पवनार्जुनसंवादे ‘सह- स्रभुजभृच्छ्रीमान्कार्तवीर्योऽभवत्प्रभुः । अस्य लोकस्य स -
बालकाण्डः ।
[[२१३]]
स्य माहिष्मत्वां महाबलः । स्ववित्तं तेन दत्तं तु दत्तात्रे- याय कारणे । आराधयामास च तं कृतवीर्यात्मजो मु निम्’ । एवमाराधिताद्दत्तात्रेयात् कार्तवीर्यार्जुनः संग्रामे सहस्रबाहुत्वशत्रुजनाजेयतादिबहुवराल्लब्ध्वा, ‘अब्रवीद्वी- संमोहात्को न्वस्ति सदृशो मम । धैर्यवीर्ययशः शौर्यै - विक्रमेणौजसापि वा’ इति । एवं बलावलेपसमुदीरितां- र्जुनवचनश्रवणसंजातकोपेन मातरिश्वना ’ न त्वं मूढ विजानीषे ब्राह्मणं क्षत्रियाद्वरम् । सहितो ब्राह्मणेनेह क्षत्रियः शास्ति वै प्रजाः । त्यजेमं कलुषं भावं ब्राह्मणे- भ्यो नमस्कुरु । एतेषां कुर्वतः पापं राज्यक्षोभो भवि- ष्यति ॥ अथ वा त्वां महीपाल शमयिष्यन्ति वै द्विजाः इति प्रत्युक्तेनार्जुनेन ’ कुर्सी भूतानि तुष्टोऽहं क्रुद्धो नाशं तथानये । कर्मणा मनसा वाचा न मत्तोऽस्ति वरो द्विजः ॥ ब्राह्मणाः संश्रिताः क्षत्रं न क्षत्रं ब्राह्मणाश्रितम् । अद्य ब्रह्मोत्तरं लोकं करिष्ये क्षत्रियोत्तरम् ॥ यादृशं पृथिवीभूतं तादृशं ब्रूहि मे द्विजम् । वायोर्वा सदृशं किंचिद्रूहि त्वं ब्राह्मणोत्तमम् ॥ अपां वा सदृशं वह्नेहि
RAB
धर्माकूते
त्वं नभसोऽपि वा ’ इत्यधिक्षिप्तो वायुरकथयत् । अङ्ग- नृपतिप्रापितमात्मनो यज्ञदक्षिणाभावमवगत्य सकोपं भू- मिभावं विहाय ब्रह्मणः सदनं प्रविष्टां पृथिवीमवलोक्य परित्यक्तस्वदेहः परिगृहीतभूमिभावः काश्यपः सकल- प्रजाधारणाङ्कुरौदनप्रमुखपृथिवीकृत्यं त्रिंशद्वर्षसहस्रमक - रोत् । ’ ब्रवीम्यन्यं ब्रूहि वा त्वं ब्राह्मणात्क्षत्रियं वरम्’ इति । एवमुतथ्योऽपि भगवान्सोमदत्तां भद्राभियां कन्यां कामपाशबद्धवरुणापहृतामवलोक्य ‘अपिबत्तेजसा वारि सुमहातपाः । पीयमाने तु सर्वस्मिंस्तोये तु सलि- लेश्वरः ॥ अददाच्छरणं गत्वा भार्यामाङ्गिरसाय वै । प्रवीम्यन्यं ब्रूहि वा त्वं ब्राह्मणात्क्षत्रियं वरम्’ इति । एवं दानवकृतादितेयपरिभवमसहमानो भगवानगस्त्यः- ‘प्रजज्वाल च तेजस्वी कालाग्निरिव संक्षये । तेन दीप्तां - शुजालेन निर्दग्धा दानवास्तथा । ब्रवीम्यहं ब्रूहि वा त्वं ब्राह्मणात्क्षत्रियं वरम्’ इति । तथा देवदानवसंग्रामे स्वर्भानुकृतपराभवेन क्षीणतेजसि सचन्द्रमसि सवितरि च गाढान्धकारावृतासु दशसु दिक्षु दैतेयैर्हन्यमानान्देवा-
विष्टभ्य

[[२१५]]
नवलोक्य ‘प्रकाशमकरोदत्रिस्तपसा स्वेन संयुगे । जगद्वि- तिमरं चापि प्रदीप्तमकरोत्तदा । व्यजयच्छत्रुसंघांच देवानां स्वेन तेजसा । ब्रवीम्यन्यं ब्रूहि वा त्वं ब्राह्म- णात्क्षत्रियं वरम्’ इति । तथैव च्यवनो महर्षिरश्विनो- मघवता सह सोमभागकल्पनाय समारब्धयज्ञस्तद्विघट- नायं समुद्यतवज्रहस्तं पाकशासनमभिमन्त्रिताभिरद्भिः संस्तभ्य स्वतेजसा मदनामानं मत्राहुतिमयमसुरमसृजत् । ‘तस्य दन्तसहस्रं तु बभूव शतयोजनम् । द्वियोजनशता- स्तस्य दंष्ट्राः परमदारुणाः ॥ हनुस्तस्याभवद्भूमावास्यं चास्यास्पृशद्दिवम् । जिह्वामूले स्थितास्तस्य सर्वे देवाः सवासवाः ’ । तदनु तद्दर्शन संजातसाध्वसं सुरपति- मश्विभ्यां सहाङ्गीकृतसोमपानं विधायासुरमपि मदना- मानं चतुर्धा विभज्याक्षमृगयापानस्त्रीनिष्ठमकरोत् ‘नवी- म्यन्यं ब्रूहि वा त्वं ब्राह्मणात्क्षत्रियं वरम्’ इति । तथा च्यवननिर्मितम श्राहुतिमयमदनामकासुरमुखं प्रविष्टेषु दे- वेषु कपनामक दैत्यैराक्रान्तां द्यां भूमिं चावलोक्य ‘गच्छ त्वं शरणं विप्रानाशु सैन्द्रा दिवौकसः’ इति ब्रह्मणा
[[२१६]]
धर्माकूते
समादिष्टैर्देवैः सम्यगर्थिता ब्राह्मणाः कपनाशनमाभिचा- रिकं कर्म समारेभिरे । ’ तच्छ्रुत्वा प्रेषितो दूतो ब्राह्म- णेभ्यो धनी कपैः । स च तान्ब्राह्मणानाह धनीकपवचो यथा ॥ भवद्भिः सदृशाः सर्वे कपाः किमिह वर्तते । न जेष्यथ निवर्तध्वं निवृत्तानां सुखं हि वः’ इति । तद्ध- निवचनश्रवण जनितकोपाकान्तहृदयैर्ब्राह्मणैः प्रत्याख्यातेन धनिना श्रावितब्राह्मणवृत्तान्ताः ‘गृहीत्वास्त्राण्यथो विप्रा- न्कपाः सर्वे समाद्रवन् ’ । ततः ’ ब्रह्मसृष्टा हव्यभुजः कपा- न्हत्वा सनातनाः । नभसीव यथाभ्राणि व्यराजन्त नरा- धिप । ब्रवीम्यन्यं ब्रूहि वा त्वं ब्राह्मणात्क्षत्रियं वरम्’ इति । एवं आदित्यान्समारब्धसत्रदीक्षानुकर्शितानवलोक्य खलिनो दानवा हन्तुकामास्तैरेव देवैर्हन्यमाना ब्रह्मदत्तं सरोऽवगाह्य जीवन्तः पर्वतपरिघादिनानाविधायुधैर्देवान्वि- क्षोभयामासुः ; ’ ततस्तैरर्दिता देवाः शरणं वासवं ययुः । स च तैः प्रार्थितः शक्रो वसिष्ठं शरणं ययौ । ततः खलिब- लार्दितानतिदुःखितान्सेन्द्रान्देवानवलोक्य परमकारुणिको वसिष्ठः ‘अयनेनादहत्सर्वान्खलिनः स्वेन तेजसा । कैला-
[[1]]
बालकाण्डः ।
RE
सं प्रस्थितांश्चैव नदीं गङ्गां महातपाः ॥ अनयत्तत्सरो दिव्यं तया भिन्नं च तत्सरः । ब्रवीम्यन्यं ब्रूहि वा त्वं वसिष्ठात्क्षत्रियं वरम्’ इति । एवम् ‘यथा समुद्रो नृपते पूर्णो मृष्टश्च वारिणा । ब्राह्मणैरभिशप्तः सन्त्रभूव लवणोदकः ॥ सुवर्णवर्णी निर्धूमः संगतोर्ध्वशिखः कविः । क्रुद्धेनाङ्गिरसा शप्तो गुणैरेतैर्विवर्जितः ॥ महतश्चूर्णिता- न्पश्य येऽध्यासत महोदधिम् । समो न त्वं द्विजातिभ्यः यो विद्धि नराविप ॥ गर्भस्थान्ब्राह्मणान्सम्यङ्नमस्यति किल प्रभुः । दण्डकानां महद्राज्यं ब्राह्मणेन विनाशितम् ॥ तालजङ्कं महाजङ्घमौर्वेणैकेन नाशितम् । त्वया च विपुलं राज्यं बलं धर्मश्रुतं तथा । दत्तात्रेयप्रसादेन प्राप्तं पर- मदुर्लभम् । अथ वा ब्राह्मणं श्रेष्ठं सर्वभूतानुपालकम् ॥ कर्तारं जीवलोकस्य कस्माज्जीवन्न मुह्यसे । ब्राह्मणान्क्षत्र- धर्मेण पालयस्वेन्द्रियाणि च ॥ भृगुभ्यस्ते भयं वोरं तत्तु कालाद्भविष्यति’ इत्येवमर्जुनं प्रति वायुना ब्राह्मणमाहात्म्यं बहुधा प्रतिपादितम् । एवमादिपर्वणि ‘भृगोः सुदयिता भार्या पुलोमेत्यभिविश्रुता । तस्यां समभवद्गर्भी भृगुवीर्यसमु-
D 19
*
धर्माकूते
द्भवः । अभिषेकाय निष्क्रान्ते मृगौ धर्मभृतां वरे । आश्रमं तस्य रक्षोऽथ पुलोमाभ्यां जगाम ह ॥ इदमन्तरमित्येव ह चक्रे मनस्तदा । अथामिशरणे पश्यञ्ज्वलन्तं जातवेदसम् । तमपृच्छत्ततो रक्षः पावकं ज्वलितं तदा । मत्पूर्वापहृता भार्या भृगुणानृतकारिणा ॥ सेयं यदि तथा मे त्वं सत्य- माख्यातुमर्हसि । तस्य तद्वचनं श्रुत्वा सप्तार्चिर्दुःखितो भृशम् ॥ भीतोऽनृताश्च शापाच भृगोरित्यत्रवीच्छनैः । अमेरथ वचः श्रुत्वा तद्रक्षः प्रजहार ताम् । ततः स गर्भो निवसन्कुक्षौ भृगुकुलोद्वहः ॥ रोषान्मातुश्च्युतः कुक्षेच्यवनस्तेन सोऽभवत् । तं दृष्ट्वा मातुरुदराच्युतमादि- त्यवर्चसम् ॥ तद्रक्षो भस्मसाद्भूतं पपात परिमुच्य ताम् । तं ददर्श पिता त च्यवनं तां च भामिनीम् ॥ स पुठोमां ततो भार्यौ पप्रच्छ कुपितो भृगुः । केनासि रक्षसे तस्मै कथिता त्वं जिहीर्षते । पुलोमा उवाच - ‘अ- भिना भगवंस्तस्मै रक्षसेऽहं निवेदिता । ततो माम- नयद्रक्षः क्रोशन्तीं कुररीमिव ॥ साहं तव सुतस्यास्य तेजसा परिमोक्षिता । भस्मीभूतं च तद्रक्षो मामुत्सृज्य1
बालकाण्डः ।
[[२१९]]
पपात वै’ । सौतिरुवाच - ’ इति श्रुत्वा पुलोमाया भृगुः परममन्युमान् । शशापानिमपि क्रुद्धः सर्वभक्षो भवि - ष्यसि’ इति । एतेन च्यवनकृतपुलोमाख्यराक्षसनिग्रहः भृगुकृतानिशापचोक्तः । एवमुद्योगपर्वणि धर्मराजं प्रति शल्यवचनम् - देवर्षिगणप्रसादसमासादितदेवराज्योऽपि नहुषः प्राज्यं देवराज्यं स्वभुजबलसमार्जितं मन्वानोऽवलेपेन तपः प्रधानानगस्त्यप्रमुखान्सप्तर्षीनपि स्वविमानधुर्यान् संवि- धायात्यल्प प्रमाणतया लब्धान्दोलिकादण्डं स्खलितगमनं दक्षिणाशाभूषणमगस्त्य महर्षि पुरतोऽवलोक्य मूर्ध्नि पदास्पृ- शत् । तत्प्रधर्षणजनितकोपः परमर्षिः ‘अदुष्टं दूषयसि मां यक्ष सूर्यशः पढ़ा । यचापि त्वमृषीन्मूढ ब्रह्मकल्पा- न्दुरासदान् । वाहान्कृत्वा वाह्यसि तेन स्वर्गाद्धतप्रभः ध्वंस पाप परिभ्रष्टः क्षीणपुण्यो महीतलम् । दश वर्षसह - स्राणि सर्परूपवरो महान् । एवं भ्रष्टो दुरात्मा स देवरा- ज्यादरिंदम’ । अनेनागस्त्यकृतो नहुषनिग्रह उक्तः । मुस- लपर्वणि - एवं सारणप्रमुखाः वृष्ण्यन्धका अपि धृतस्त्री- वेषं साम्बं विधाय कल्पानलकल्प कोपान्नारदविश्वामित्रक-
[[4]]
[[૨૨૦]]
धर्माकूते
वान्यदृच्छया समागतान्किमियं जनयिष्यतीति पप्रच्छुः । तद्वचनश्रवणमात्रेण प्राज्याज्यसिक्ता दीप्ताग्नय इव तत्कृत - विप्रलम्भप्रधर्षणामसहमाना महर्षयः ‘वृष्ण्यन्धकविना- शाय मुसलं घोरमायसम् । वासुदेवस्य दायादः साम्बोऽयं जनयिष्यति ॥ येन यूयं सुदुर्वृत्ताः नृशंसा जातमन्यवः । उच्छेत्तारः कुलं कृत्स्नमृते रामजनार्दनौ । समुद्रे यास्यति श्रीमांस्त्यक्त्वा देहं इलायुधः । जरः कृष्णं महात्मानं शयानं भुवि भेत्स्यति’ इत्यब्रुवन् । एतेन नारदादिकृतो वृष्ण्यन्धकनिग्रह उक्तः । वनपर्वणि - एवं वृत्रवधजनि- तामर्षेण त्रिलोकनाशाय त्रिजगन्मूलभूततपस्विजनवधाय समुद्युक्तैर्देवभयेन समुद्रं प्रविष्टे रात्रावागत्याश्रमनिवासि- मुनिजनकदनमाचरद्भिः कालेयैः कृतं निःस्वाध्यायवषट्- कारं नष्टोत्सवं च जगदवलोक्य तत्कृतोपद्रवपरिहाराय त्रिदशैः समभ्यर्थितो विष्णुः ‘समुद्रस्य क्षये बुद्धिर्भवद्भिः संप्रधार्यताम् । अगस्त्येन विना को हि शक्तोऽन्योऽर्ण- वशोषणे’ इत्यवादीत् । ततो देवास्तद्वचनश्रवणसमनन्त- रमगस्त्यमहर्षिसमीपमागत्य ’ एवं त्वयेच्छाम कृतं हि
बालकाण्डः ।
[[२२१]]
कार्य महार्णवं पीयमानं महात्मन् । ततो वधिष्याम सहा- नुबन्धान्कालेयसंज्ञान्हि सुरद्विषस्तान्’ इति प्रार्थयामा- सुः । सोऽपि महर्षिः ’ उवाच सहितान्देवानृषींश्चैव समा- गतान् । एष लोकहितार्थे वै पिबामि वरुणालयम् । भवद्भिर्यदनुष्ठेयं तच्छीघ्रं संविधीयताम्’ इत्यभिधाय ‘समुद्रमपिबत्क्रुद्धः सर्वलोकस्य पश्यतः ’ । ततस्त्रिदशाः संदर्शनपथमवतीर्णान्कालेयानिषूदयामासुः इति । एतेन अगस्त्यकृतका लेयावकाशदातृसमुद्रनिग्रह उक्तः आनुशा- सनिके । एवं रौक्मिणेयेन ब्राह्मणपूजायां किं फलं कुतो वा तेषामीश्वरत्वम् इति पृष्टो जगन्नायकः श्री- कृष्णः, मामकोपयित्वा को वा गृहे वासयेदिति वदन्तमकालापेक्षितविविधान्नपानरसम् अतिकोपनं दुरा- राध्यतरं दुर्वाससं गृहमानीय अपेक्षितपायसाद्यन्नकल्प- नेन संतर्प्य तदाज्ञया रुक्मिण्या सह तदुच्छिष्टो पलि- सर्वाङ्गोऽभवम् तदनु ‘मुनिः पायसदिग्धाङ्गीं रथे तूर्ण- मयोजयत् । तमारुह्य रथं चैव निर्ययौ च गृहान्मम । प्रतोदेनातुदद्वालां रुक्मिणीं मम पश्यतः । न च मे
[[२२२]]
धर्माकृते
स्तोकमप्यासीदुःखमीयकृतं तदा’ । एवं ब्राह्मणकृतपरि- भवमङ्गीकृत्य सह व्रजन्तं मां रथधुर्यभूतां प्रतोदेनासक- तुद्यमानामबलां मत्प्रियां रथस्थं तपस्विनं ब्राह्मणं चाव- लोक्य ’ ब्राह्मणा एव जायेरन्नान्यो वर्णः कथंचन । को ह्येनं रथमास्थाप्य जीवेदन्यः पुमानिह । आशीविषविषं तीक्ष्णं ततस्तीक्ष्णतरो द्विजः । ब्रह्माशीविषदिग्धस्य नास्ति कश्विश्चिकित्सकः’ इति पौरजानपदाः परस्पर- मकथयन् । ’ ततः परमसंक्रुद्धो रथादास्कन्द्य स द्विजः । पदातिरपथेनैव प्राधावद्दक्षिणामुखः । एवमनल्पकल्पा- नलकल्पकोपः अकारणादेव रथादवप्लुत्य धावन् प्रणिपा- तपुरःसरमभ्यर्थितो महर्षिः सर्वलोकोत्कृष्टत्व सकलजन- मान्यत्वसर्वशत्रुजनाजेयतादिवरप्रदानपूर्वकं स्वोच्छिष्टानु- पलिप्तपादतलस्थमृत्युं मामकथयत् । एवमननुकरणीयच- रिता द्विजाः । ’ एते हि सोमं राजान ईश्वराः सुखदुः- खयोः । लोकलोकेश्वराश्चैव सर्वब्राह्मणपूर्वकाः । भस्म कुर्युर्जगदिदं क्रुद्धाः प्रत्यक्षदर्शिनः । अन्यानपि सृजेयुस्ते लोकालोकेश्वरांस्तथा ॥ कथं तेषु न वर्तेरन्सम्यग्जनाः
बालकाण्डः ।
[[२२३]]
सुतेजसः’ इति । एतेन दुर्वाससो माहात्म्यपूर्वकं ब्राह्मण- सामान्यमाहात्म्यं कृष्णेन प्रतिपादितम् । वनपर्वणि- हैहयानां कुलकरो राजकुमारो मृगयामटन्कृष्णाजिनोत्त- रासङ्गं मुनिपुत्रमविदूरे दृष्ट्वा मृगबुद्धया शरेणाविध्यावगत- मुनिपुत्रभावः स्वभवनमागम्य हैहयान्स्वकृत्यमकथयत् । तद्वचनश्रवणसं जातखेद कलुषितस्वान्ता हैहयाः ‘कस्यायं मुनिकुमारकः’ इति इतस्ततो मार्गमाणास्ताश्रममा- साद्य, आसनपाद्याद्यर्थ्यादिभिरप्यभिपूजयितुमुद्युक्तं मुनि- Haलोक्य ब्राह्मणहिंसका वयं न त्वया पूजितुमह इत्व- वदन् । तदनु स्वतपोमहिम्ना समुज्जीविततनयो महर्षिः कासौ युष्माभिर्घातितो मुनिकुमारकः गवेष्यतामित्या- दिदेश । तदाज्ञया तं मुनिकुमारकं गवेषयमाणैस्तमदृष्ट्वा सत्रीलैः नासाद्यते मुनिकुमारक इत्यभिहितो मुनिः म- दीय एव पुत्रः घातितो युष्माभिः संजीवितच मयेत्य- वदत् । ततो विस्मयाष्टिहृदयैः केनोपायेन संजीवितो- ऽयं बालक इत्यभिहितो मुनिः ‘सत्यमेवाभिजानीत ना- नृते कुर्महे मनः । स्वधर्ममनुतिष्ठामः तस्मान्मृत्युभयं न
[[२२४]]
धर्माकूते
नः । अतिथीनन्नपानेन भृत्यानप्यशनेन च ॥ संभोज्य :
शेषमश्री मस्तस्मान्मृत्युभयं न नः । एतेन स्वधर्मनिरतानां ब्राह्मणानां मृत्युभयमपि नास्तीत्युक्तं भवति । आनुशास निके युधिष्ठिरः - ‘के
’ के पूज्याः के नमस्कार्याः कथं वर्तेत केषु च । किमाचारः कीदृशेषु पितामह न रिष्यते ॥ भीष्म उवाच — ब्राह्मणानां परिभवः सादयेदपि देवताः । ब्राह्मणांस्तु नमस्कृत्य युधिष्ठिर न रिष्यते । ते पूज्यास्ते नमस्कार्या वर्तेथास्तेषु पुत्रवत् । ते हि लोकानिमान्स- dfस्तारयन्ति मनीषिणः । ब्राह्मणाः सर्वलोकानां महान्तो धर्मसेतवः ॥ धनत्यागाभिरामाश्च वाक्संयमरताश्च ये । रमणीयाश्च भूतानां निधानं च धृतव्रताः ॥ प्रणे arta लोकानां शास्त्राणां च यशस्विनः । तपो येषां धनं नित्यं वाक्चैव विपुलं बलम् ॥ प्रभवश्चैव धर्माणां धर्मज्ञाः सूक्ष्मदर्शिनः । धर्मकामाः स्थिता धर्मे सुकृतैर्धर्म- सेतवः ॥ यान्समाश्रित्य जीवन्ति प्रजाः सर्वाश्चतुर्विधाः । । पन्थानः सर्वनेतारो यज्ञवाहाः सनातनाः । पितृपैतामहीं गुर्वीमुद्रहन्ति धुरं सदा ॥ धुरि ये नावसीदन्ति विषमे सवा
बालकाण्डः ।
[[२२५]]
इव । पितृदेवातिथिमुखा हव्यकव्याप्रभोजिनः । भोज- नादेव लोकांखींखायन्ते महतो भयात् । दीपाः सर्वस्य लोकस्य चक्षुश्चक्षुष्मतामपि । सर्वशिल्पादिनिधयो नि- पुणाः सूक्ष्मदर्शिनः । गतिज्ञाः सर्वभूतानामध्यात्मगति- चिन्तकाः ॥ आदिमध्यावसानानां ज्ञातार छिन्नसंशयाः । परावरविशेषज्ञा गन्तारः परमां गतिम् ॥ विमुक्ता धूतपा- मानो निर्द्वन्द्वा निष्परिग्रहाः । मानार्हा मानिता नित्यं ज्ञानवद्भिर्महात्मभिः ॥ चन्दने मलपङ्के च भोजनेऽभोजने समाः । समं येषां दुकूलं च तथा क्षौमाजिनानि च ॥ तिष्ठेयुरप्यभुञ्जाना बहूनि दिवसान्यपि । शोषयेयुश्च गा- त्राणि स्वाध्यायैः संयतेन्द्रियाः ॥ अदैवं दैवतं कुर्युर्देवतं वाप्यदैवतम् । लोकानन्यान्सृजेयुस्ते लोकपालांश्च कोपि- ताः ॥ अपेयः सागरो येषामासीच्छापान्महात्मनाम् । येषां कोपाभिरद्यापि दण्डकेनोपशाम्यति ॥ देवानामपि ये देवाः कारणं कारणस्य च । प्रमाणस्य प्रमाणं च कस्तानभिभ- बेदुधः ॥ येषां वृद्ध बाला सर्वः संमानमर्हति । तपो विद्याविशेषान्तु मानयन्ति परस्परम् । अविद्वान्ब्राह्मणो
[[२२६]]
धर्माकूते
देवः पात्रं वै पावनं महत् ॥ विद्वान्भूयस्तरां देवः पूर्णसा- गरसंनिभः । अविद्वांश्चैव विद्वां ब्राह्मणो दैवतं महत् । प्रणीतञ्चाप्रणीतश्च यथाग्निर्देवतं महत् । श्मशाने ह्यपि तेजस्वी पावको नैव दुष्यति ॥ हविर्यज्ञे च विधिवद्गृह एवाभिशोभते । एवं यद्यप्यनिष्टेषु वर्तते सर्वकामसु ॥ सर्वथा ब्राह्मणो मान्यो दैवतं विद्धि तत्परम्’ इति । आनुशासनिके पर्वणि युधिष्ठिरः – ’ के पूज्याः के नम- ear: कान्नमस्यसि भारत । एतन्मे सर्वमाचक्ष्व येभ्यः स्पृहयसे नृप । उत्तमापगतस्यापि यत्र ते वर्तते मनः । मनुष्यलोके सर्वस्मिन्यदमुह चाप्युत ॥ भीष्म उवाच- स्पृहयामि द्विजातिभ्यो येषां ब्रह्म परं धनम् । येषां स्वप्रत्ययः स्वर्गस्तपः स्वाध्यायसाधनम् । येषां बालाश्च वृ- द्धा पितृपैतामह धुरम् । उद्वहन्ति न सीदन्ति तेभ्यो वै स्पृहयाम्यहम् । विद्यास्वभिविनीतानां दान्तानां मृदु- भाषिणाम् ॥ श्रुतवृत्तोपपन्नानां सर्ववेदविदां सताम् । संसत्सु वदतां तात हंसानामिव संघशः ॥ मङ्गल्यरूपा रुचिरा दिव्या जीमूतनिस्वनाः । सम्यगुञ्चारिता वाचः श्रूय-
बाळकाण्डः ।
[[२२७]]
न्ते हि युधिष्ठिर । शुश्रूषमाणे नृपतौ प्रेत्य चेह सुखा - वहाः । ये चापि तेषां श्रोतारः सदा सदसि संमताः । विज्ञानगुणसंपन्नास्तेभ्यश्च स्पृहयाम्यहम् ॥ सुसंस्कृतानि प्रयताः शुचीनि गुणवन्ति च । ददत्यन्नानि तृप्त्यर्थं ब्राह्म- णेभ्यो युधिष्ठिर । ये चापि सततं राजंस्तेभ्यश्च स्पृहया- म्यहम् । शक्यं ह्येवाहवे योद्धुं न दातुमनसूयितुम् । शूरा वीराश्च शतशः सन्ति लोके युधिष्ठिर । तेषां संख्यायमाना- नां दानशूरो विशिष्यते ॥ धन्यः स्यां यद्यहं भूयः सौम्य ब्राह्मणकोऽपि वा । कुले जातो धर्मगतिस्तपोविद्यापरा- यणः ॥ न मे त्वत्तः प्रियतरो लोकेऽस्मिन्पाण्डुनन्दन ।
चापि प्रियतरा ब्राह्मणा भरतर्षभ ॥ यथा मम प्रिय- तमास्त्वत्तो विप्राः कुरूत्तम । तेन सत्येन गच्छेयं लोका- न्यत्र स शंतनुः ॥ न मे पिता प्रियतरो ब्राह्मणेभ्यस्तथा भवेत् । न मे पितुः पिता वापि ये चान्येऽपि सुह- ज्जनाः ॥ न हि मे वृजिनं किंचिद्विद्यते ब्राह्मणेष्विह । अणु वा यदि वा स्थूलं विद्यते साधु कर्मसु ॥ कर्मणा मनसा वापि वाचा वापि परंतप । यन्मे कृतं ब्राह्मणेभ्य-
[[૧૮]]
धर्माकूते
स्तेनाद्य न तपाम्यहम् ॥ ब्रह्मण्य इति मामाहुस्तया वाचा- स्मि तोषितः । एतदेव पवित्रेभ्यः सर्वेभ्यः परमं स्मृतम् ॥ पश्यामि लोकानमलाञ्शुचीन्ब्राह्मणयायिनः । तेषु मे तात गन्तव्यमह्नाय च चिराय च ॥ यथा भयो धर्मः atri लोके युधिष्ठिर । स देवः सा गतिर्नान्या क्षत्रि- यस्य तथा द्विजाः ॥ क्षत्रियः शतवर्षी च दशवर्षी द्विजो- त्तमः । पितापुत्रौ च विज्ञेयौ तयोर्हि ब्राह्मणो गुरुः ॥ नारी तु पत्यभावे वै देवरं कुरुते पतिम् । पृथिवी ब्राह्म- णाला क्षत्रियं कुरुते पतिम् । पुत्रवच्च ततो रक्ष्या उपास्या गुरुवच्च ते । अग्निवचोपचर्या वै ब्राह्मणाः कुरुसत्तम ॥ ऋजून्सतः सत्यशीलान्सर्वभूतहिते रतान् । आशीविषा- निव क्रुद्धाद्विजान्परिचरेत्सदा ॥ तेजसस्तपसश्चैव नित्यं बिभ्ये युधिष्ठिर । उसे चैते परित्याज्ये तेजश्चैव तपस्तथा ॥ व्यवसायस्तयोः शीघ्रमुभयोरेव विद्यते । हन्युः क्रुद्धा महाराज ब्राह्मणा ये तपस्विनः ॥ भूयः स्यादुभयं दत्तं ब्राह्मणाद्यदकोपनात् । कुर्यादुभयतः शेषं दत्तशेषं न शेषयेत् ॥ दण्डपाणिर्यथा गोषु पालो नित्यं हि रक्षयेत् ।बालकाण्डः ।
[[२१६]]
ब्राह्मणान्ब्रह्म च तथा क्षत्रियः परिपालयेत् ॥ पितेव पुत्रान्रक्षेथा ब्राह्मणान्धर्मचेतसः । गृहे चैषामवेक्षेथाः किं- स्त्रिदस्तीति जीवनम्’ इति दानधर्मे भीष्मनिश्वयः ॥
तदेतत्प्रसमीक्ष्याहं प्रसन्नेन्द्रियमानसः । तपो महत्समास्थास्ये यद्वै ब्रह्मत्वकारकम् ॥
इति षट्पञ्चाशः सर्गः । ननु कामक्रोधादिकलुषितान्तः करणस्य ब्रह्मस्वापहरणप्रवृत्तस्य गोब्राह्मणद्रोहिणः विश्वा- मित्रस्य क्षत्रियस्य चित्तशुद्धिः तत्पूर्वकं ब्रह्मत्वकार- कतपश्चरणे प्रवृत्तिः तया च वक्ष्यमाणत्राह्मण्यावाप्ति- श्वानुपपन्ना, ब्राह्मक्षेत्रे उत्पन्नेन मतङ्गेन चित्तशुद्धिपू- र्वकं केवलतपश्चर्यायां बहुशः कृतायामपि ब्राह्मण्या- नाप्तेः । तथा हि भारते अनुशासनिके मतङ्गो नाम तपस्त्रितनयः स्वपितृसमारब्धयज्ञोपकरणसंपादनाय रथमारुह्य गच्छन्द्रुततरगमनविधुरं गर्दभीतनयं प्रतोद- तोदनेन संजातत्रणमकरोत् । सा च तद्रूणसंजातदुः- खजातमसहमानं निजतनयमवलोक्य ‘उवाच मा शुचः पुत्र चण्डालस्त्वधितिष्ठति । ब्राह्मणे दारुणं नास्ति मैत्रो ब्राह्मण
[[२३०]]
धर्माकूते
उच्यते । स्वयोनिं मानयत्येष भावो भावं नियच्छति’ इति । तद्वाक्यश्रवणसंजातवेदा विष्टहृदयेन तूर्ण रथादव- तीर्णेन मतङ्गेन ‘ब्रूहि रासभि कल्याणि माता मे येन दूषिता’ इति पृष्टा रासभी ‘ब्राह्मण्यां वृषलेन त्वं मत्तायां नापितेन है । जातस्त्वमसि चण्डालो ब्राह्मण्यं तेन तेऽनश- नू’ इत्येवमवादीत् । तद्वचनश्रवणसमनन्तरमेव संजातसं- भ्रमं दुखापब्राह्मण्यसंपादने कृतनिश्चयमुळे तपसि वर्तमानं मघवानेवमवादीत्— ‘मतङ्ग दुर्लभमिदं विप्रत्वं प्रायेते . स्वया । यस्मात्तु संवसन्योनीर्जायमानः पुनः पुनः । पर्याये ara कस्मिंश्चिद्वाह्मण्यमिह विन्दति । तिर्यग्योनिगतः सर्वो मानुष्यं यदि गच्छति ॥ स जायते पुल्कसो वा चण्डाल वाप्यसंशयः । स तस्यामेव तु चिरं मतङ्ग परि- वर्तते ॥ ततो दशशते काले लभते शूद्रतामपि । शूद्रयो- नावपि ततो बहुशः परिवर्तते । ततस्त्रिंशद्गुणे काले लभते वैश्यतामपि । वैश्यतायां चिरं कालं तत्रैव परिवर्तते ॥ ततः षष्टिगुणे काले राजन्यो नाम जायते । राजन्यत्वे चिरं कालं तत्रैव परिवर्तते । ततः षष्टिगुणे काले
बालकाण्डः
[[२३१]]
लभते ब्रह्मबन्धुताम् ॥ ब्रह्मबन्धुचिरं कालं ततस्तु परि- वर्तते । ततस्तु द्विशते काले लभते काण्डपृष्ठताम् ॥ काण्डपृष्टश्चिरं कालं तत्रैव परिवर्तते । ततस्तु त्रिशते काले लभते जपतामपि । तं च प्राप्य चिरं कालं तत्रैव परिवर्तते । ततञ्चतुःशते काले श्रोत्रियो नाम जायते ॥ श्रोत्रियत्वे चिरं कालं तत्रैव परिवर्तते । तदैनं शोकहर्षौ तु कामद्वेषौ च पुत्रक ॥ अतिमा- नातिवादौ च प्रविशेते द्विजाधमम् । तांश्रेज्जयति शत्रून्स तढ़ा प्राप्नोति सद्गतिम् ॥ अथ ते वैजयन्त्येनं तालाप्रादिव पात्यते । मतङ्ग संप्रधार्येवं यदहं त्वामचू- चुदम् ॥ वृणीष्व काममन्यं त्वं ब्राह्मण्यं हि सुदुर्लभम् । एवमुक्तो मतङ्गस्तु भृशं शोकपरायणः ॥ अध्यतिष्ठद्रयां गत्वा सोऽङ्गुष्ठेन शतं समाः । सुदुर्वहं वहन्योगं कृशो धमनिसंततः ॥ त्वगस्थिभूतो धर्मात्मा स पपातेति नः श्रुतम् । तं पतन्तमभिद्रुत्य प्रतिजग्राह वासवः ॥ वराणामीश्वरो दाता सर्वभूतहिते रतः । शक्रः मतङ्ग ब्राह्मणत्वं ते विरुद्धमिह दृश्यते ॥ ब्राह्मण्यं दुर्लभतरं संवृतं
[[२३२]]
धर्माकूते
परिपन्थिभिः । ब्राह्मणः सर्वभूतानां मतङ्ग पर उच्यते ॥ ब्राह्मणः कुरुते यद्धि यथा यद्यच वाञ्छति । बह्वीच संवसन्योनीर्जायमानः पुनः पुनः । पर्याये तात कस्मि- श्राह्मण्यमिह विन्दति । तदुत्सृज्येह दुष्प्रापं ब्राह्मण्य- मकृतात्मभिः ॥ अन्यं वरं वृणीष्व त्वं दुर्लभोऽयं हि ते बरः । चोदितस्तु महेन्द्रेण मतङ्गः प्राब्रवीदिदम् ॥ यथा- कामविहारी स्यां कामरूपी विहंगमः । ब्रह्मक्षत्राविरोधेन पूजां च प्राप्नुयामहम् ॥ यथा ममाक्षया कीर्त्तिर्भवेच्चापि पुरंदर । कर्तुमर्हसि तदेव शिरसा त्वां प्रसादये ॥ शक्रः — छन्दोदेव इति ख्यातः स्त्रीणां पूज्यो भविष्यसि । कीर्त्तिश्च तेऽतुला वत्स त्रिषु लोकेषु यास्यति ॥ एवं तस्मै वरं दत्त्वा वासवोऽन्तरधीयत । प्राणांस्त्यक्त्वा मत- नोऽपि संप्राप्तः स्थानमुत्तमम् ॥ एवमेतत्परं स्थानं ब्राह्म- यं नाम भारत । तच्च दुष्प्रापमिह वै महेन्द्रवचनं यथा ’ 1 एवं ब्राह्मण्यस्य दुखापतया तदुद्देशेन जातिक्षत्रियस्य वसिष्ठद्रोहिणो विश्वामित्रस्य कथं चित्तशुद्धयादिना व- क्ष्यमाणब्राह्मण्यप्राप्तिरिति चेन्न ; ब्राह्मणप्रसादादेव ।
बालकाण्डः ।

[[२३३]]
तथा हि आनुशासनिके पर्वणि कुशिककुले भागा- मिनं वर्णसंकरदोषं विनिश्चित्य तन्निरसनाय निरपरा- धिनमपि कुशिकमपराधेन संयोज्य तदीयं कुलं निःशेष- यितुकामश्च्यवनमुनिः समासादितकुशिकभवनः अभ्यु- त्थानासनार्घ्यपाद्यादिभिरभ्यर्चितः ‘यदि राज्यं यदि धनं यदि गाः संशितव्रत । यज्ञदानानि च तथा ब्रूहि सर्व ददामि ते’ इति राज्ञानुनाथितः ‘न राज्यं कामये राजन्न धनं न च योषितः । परिचर्योऽस्मि यत्ताभ्यां युवाभ्यामविशङ्कया’ इति समाज्ञप्तवान् । स राजापि तद्- चनश्रवण संजातसंतोषः सभार्यः सादरं परिचरन्निद्रामुद्रि- तलोचनं तमृषिमवलोक्य सुखसंस्पर्शसोपधानपर्यङ्कास्त- रणाद्युपेतशयनं गृहं प्रवेश्य ’ इयं शय्या भगवतो यथा काममिहोष्यताम्’ इति संप्रार्थितो भार्गवः अप्रबोधनेन पादसंवाहनपरिशीलनाभ्यां युवाभ्यामाप्रबोधं भवितव्यमि- त्यादिश्यैकेनैव पार्श्वेनैकविंशति दिनानि सुखं सुप्तः अक- स्मादुत्थायान्तर्हितोऽभूत् । ततस्तदन्तर्धानजनितवेदना- कलुषितस्वान्तस्तेन विना सकलमपि जीवलोकं निरालोकं
D 20
[[२३४]]
धर्माकूते
मन्वानः कुशिकः स्वभवनमागत्य तथैव शयनगृहे सुखसुप्तं तमृषिमवलोक्यामन्दानन्दहृदयोऽभूत् । सोऽपि महर्षिः पुनरपि तावन्तमनेहसं पार्श्वान्तरेण तथैव सुखसुप्तस्तेन च राज्ञा सभार्येण कृतपादसंवाहनः सहसैवोत्थाय कुशिकेन कृततैलाभ्यङ्गस्नानस्तदानीतं भक्ष्यभोज्यलेह्यचोष्याभ्यव- हारजातमासनं शयनीयं च वस्त्रेणोपवेष्टयादीपयामास । तदवलोक्य, ‘न च तौ चक्रतुः क्रोधं दंपती सुमहामती । तयोः संप्रेक्षतोरेव पुनरन्तर्हितोऽभवत्’ । अथ तेन महर्षिणा पुरसंदर्शनाय सज्जीकृतसांग्रामिकरथेन सभार्यो मां वहस्वेत्याज्ञप्तो नरपतिः तत्कृत प्रतोदतोदनाजनितवेद- नामविगणय्य मुनिकृतसर्वस्वदानमप्यनाकलय्य निर्विकारं सादरः परिचरन्ननुग्रहबुद्धया सुखसंस्पर्शपरमर्षिपाणितलप- रिमर्शनेन निरस्तसमस्तश्रमः ’ गम्यतां पुरं विश्रान्तः श्वो मां द्रष्टासि’ इति परमर्षिणा समादिष्टः स्वपुरमाजगाम । भार्गवोऽपि कैचित्कालं रमणीये गङ्गातीरे नियममाचर- स्वसंदर्शनजनितकौतूहलेन स्वसमीपमागताय सभार्याय कुशिकनृपतये चम्पकाशोकपुन्नागवकुलादिनानाविधवृक्ष-
बालकाण्डः
[[२३५]]
वीरुत्परिवृतं मणिस्तम्भोपेतकाश्चनमयप्रासादमध्यमध्या- सीनं समनन्तरमेव विविक्ते कौश्यां बृस्यां समासीनमा - त्मानं दर्शयामास । स च राजा विस्मयोत्फुलहृदयः ‘अहो प्रभावो ब्रह्मर्षे च्यवनस्य महात्मनः । इच्छयैष तपोवीर्यादन्याल्लोकान्सृजेदपि ॥ ब्राह्मणा एव जायेर- पुण्यवाग्बुद्धिकर्मिणः । ब्राह्मण्यं दुर्लभं लोके राज्यं हि सुलभं नरैः’ इति मनसि चिन्तयन्नेव सभार्यस्तं प्रणम्य तेन च प्रसन्नेन परमर्षिणा वरैश्छन्द्यमानः ‘एष एव वरो मुख्यः प्राप्तो मे भृगुनन्दन । यत्प्रीतोऽस्मि मया ब्रह्मन्कुलं त्रातं च मेऽनघ ॥ अग्निमध्यगतेनैव भगवन्संनिधौ मया । वर्तितं भृगुशार्दूल यन्न दग्धोऽस्मि तद्बहु’ इत्युक्तवान् । पुनरपि वरैश्छन्द्यमानेन राज्ञानुनाथि- तब्राह्मण्यो भार्गवः ‘एवमेतद्यथात्थ त्वं ब्राह्मण्यं तात दुर्ल- भम् । ब्राह्मण्ये सति चर्षित्वमृषित्वे च तपस्विता ॥ भविष्यत्येष ते कामः कुशिकात्कौशिको द्विजः । तृतीयं पुरुषं तुभ्यं ब्राह्मणत्वं गमिष्यति ॥ वंशस्ते पार्थिवश्रेष्ठ भृगूणामेव तेजसा । पौलस्ते भविता विप्र तपस्वी पाव-
[[२३६]]
धर्माकूते
कद्युतिः’ इत्यभिहितवान् । वनपर्वणि तीर्थयात्रा- याम्, ’ कान्यकुब्जे महानासीत्पार्थिवः सुमहाबलः । गाधीति विश्रुतो लोके वनवासं जगाम ह ॥ वने तु तस्य वसतः कन्या जज्ञेऽप्सरःसमा । ऋचीको भार्गवस्तां च वरयामास भारत ॥ गाधिना स्वकुलधर्मेणैकतः श्या- मकर्णानां हयानां शुल्कं याचित ऋचीको वरुणसंप्रा- र्थनालब्धाश्वः कन्यां वरयामास । ‘गङ्गायां कान्यकुब्जे
ददौ सत्यवतीं तदा ॥ धर्मेण लब्धां तां भार्यामृचीको द्विजसत्तमः । यथाकामं यथाजोषं तया रेमे सुमध्यया । तं विवाहे कृते राजन्सभार्यमवलोकतः । आजगाम भृगुः श्रेष्ठं पुत्रं दृष्ट्वा ननन्द ह ॥ ततः स्नुषां स भग- वान्प्रहृष्टो भृगुरब्रवीत् । वरं वृणीष्व सुभगे दाता यस्मि तवेप्सितम् ॥ सा वै प्रसादयामास तं गुरुं पुत्रकार- णात्। आत्मनश्चैव मातुश्च प्रसादं च चकार सः ॥ भृगुः – ‘ऋतौ त्वं चैव माता च स्नाते पुंसवनाय वै । आलिङ्गेयां पृथग्वृक्षौ साश्वत्थं त्वमुदुम्बरम् ॥ चरुद्वय- मिदं भद्रे जनन्याश्च तवैव च । विश्वमावर्तयित्वा तु मया
बाळकाण्डः ।
[[२३७]]
यत्नेन साधितम् ॥ प्राशितव्यं प्रयत्नेन चेत्युक्त्वादर्शनं गतः । आलिङ्गने चरौ चैव चक्रतुस्ते विपर्ययम् ॥ ततः पुनः स भगवान्काले बहुतिथे गते । दिव्यज्ञानाद्विदित्वा तु भगवानागतः पुनः ॥ अथोवाच महातेजा भृगुः सत्यवतीं नुषाम् । उपयुक्तश्चरुर्भद्रे वृक्षे चालिङ्गनं कृतम् ॥ विपरीतेन ते सुश्रु मात्रा चैवासि वविता । ब्राह्मणः क्षत्रवृत्तिर्वै तव पुत्रो भविष्यति ॥ क्षत्रियो ब्राह्मणाचारो मातुस्तव सुतो महान् । भविष्यति महा- वीर्यः साधूनां मार्गमास्थितः ’ इति । ननु -
ब्रह्मर्षे स्वागतं तेऽस्तु तपसा स्म सुतोषिताः । ब्राह्मण्यं तपसोग्रेण प्राप्तवानसि कौशिक ॥
इति चतुर्मुखमुखोदीरितवचनपर्यालोचनया तपसैव ब्राह्म- ण्यावाप्तिदर्शनात् केवलतपसा ब्राह्मण्यप्राप्तिर्नास्तीति क- थमुक्तमिति चेन्न । तथा सति ‘तृतीयं पुरुषं तुभ्यं ब्राह्मणत्वं गमिष्यति’ इति च्यवनकृतकुशिकवर प्रदानस्य भृग्वाज्ञप्तचरुभक्षणवृक्षालिङ्गनव्यत्यासस्य ब्रह्मकृतवरप्रदा-
-२३८
धर्माकूते
नवसिष्ठवचनयोरपि वैय्यर्थ्यापत्तेः ‘विश्वामित्रं त्वजन- यद्वाधेर्भार्या यशस्विनी । ऋषेः प्रसादाद्राजेन्द्र ब्रह्मर्षे- ब्रह्मवादिनः । ततो ब्राह्मणतां यातो विश्वामित्रो महा- तपाः’ इत्यानुशासनिके पर्वणि ऋचीकवचनादेव ब्राह्म- ण्यावाप्तिप्रतिपादनविरोधाच, मतङ्गेन केवलतपश्चर्यायां कृतायामपि ब्राह्मणानुग्रहाभावात् ब्राह्मण्यानवाप्तेश्च तप- चर्याभावेऽपि ब्राह्मणोत्तमभृगुवचनमात्रेणैव जात्या क्षात्र- यस्य वीतहव्यस्य ब्राह्मण्यावाप्तिदर्शनाच्च । तथा चानुशास- निके- वीतहव्यपराभूतो दिवोदासः भरद्वाजमुन्यनुसं- प्राप्तस्तदनुग्रहा वाप्तप्रतर्दनाख्यजैत्रतनयस्तेन वीतहव्यं परा- भाव्य भृग्वाश्रमशरणमकरोत् । तत्रापि वीतहव्यनिवासम- सहमानः प्रतर्दनः भृगुनिकटमागम्य अस्मत्कुलोत्सादको वीतहव्य विसर्ज्यतामिति प्रार्थितवान् । महर्षिरपि शर- णागतविचक्षणः ’ नेहास्ति क्षत्रियः कश्चित् सर्वे हीमे द्वि- जातयः’ इत्यभिहितवान् । महर्षिणा भृगुणा परित्याजित - क्षत्रभाव वीतहव्यमवगम्य प्रतिनिवृत्ते प्रतर्दने वीतह- व्योऽपि करुणोदीरितमह वैवचनसमनन्तरमेव दुरवापं ब्रा-बालकाण्डः 1
[[२३९]]
ह्मण्यमवापेत्युक्तम् । तस्मात्केवलतपसा ब्राह्मण्यं दुर्लभत- रम् । न चैवम् ‘ब्राह्मण्यं तपसोप्रेण प्राप्तवानसि कौधिक इति पूर्वोक्तवचनविरोधः, तस्य वचनस्य ब्रह्मस्त्रापहरण- महाब्राह्मणवसिष्ठद्रोहादिजनितप्रत्यवायपरिहारपूर्वकं देव- ताप्रसादं संपाद्य तत्प्रार्थितब्राह्मणवचनसंपादनेनैव ब्राह्म- ण्यावाप्तिरित्येवं तपसः परम्परासाधनत्वप्रतिपादकत्वा- न विरोधः कर्मणां चित्तशुद्विारा आत्मज्ञानसं- पादनेनैव मोक्षोपयोगित्ववत् । न चैतत्सर्वं तदा शोभते, यदि कर्मणां चित्तशुद्धिद्वारा हेतुत्वं स्यात् । तदेवासि - द्धम्, साक्षादेव हेतुत्वसंभवात् । तथा हि श्रुतिः - ‘अपाम सोमममृता अभूम ’ ’ तदाहुः संवत्सरं पयसा जुहृदप पुन- मृत्युं जयन्तीति न तथा विद्यात् यदहरेव जुहोति तदहः पुनर्मृत्युमपजयत्येवं विद्वान् एह्येहीति तमाहुतयः सुवर्चसः सूर्यस्य रश्मिभिर्यजमानं वहन्ति प्रियां वाचमभिवदन्त्यो- ऽर्पयन्त्यः एष वः पुण्यः सुकृतो ब्रह्मलोकः’ इति । ततो मया नचिकेतचितोऽग्निरनित्यैर्द्रव्यैः प्राप्तवानस्मि नित्यम् ’ ‘अक्षय्यं ह वै चातुर्मास्ययाजिनः सुकृतं भवति’ ‘उद्यन्त-
२४०.
धर्माकूते
मस्त यन्तमादित्वमभिध्यायन्कुर्वन्ब्राह्मणो विद्वान्सकलं भ- द्रमतेऽसावदित्यो ब्रह्मेति ब्रह्मैव सन्ब्रह्माप्येति य एवं वे’ ‘कर्मणैव हि संसिद्धिमास्थिता जनकादयः । वेदोदितं स्वकं कर्म नित्यं कुर्यादतन्द्रितः । तद्धि कुर्वन्यथाशक्ति प्राप्नोति परमां गतिम् ॥ योऽधीते- ऽहन्यहन्येतां त्रीणि वर्षाण्यतन्द्रितः । स ब्रह्म पर- मानोति वायुभूतः खमाप्लुतः ॥ ब्रह्मचारी गृहस्थश्च वानप्रस्थोऽथ भिक्षुकः । यथोक्तचारिणः सर्वे गच्छन्ति परमां गतिम् ॥ एको वाप्याश्रमानेतान्योऽनुतिष्ठे- द्यथाविधि । अकामद्वेषसंयुक्तः स परत्र महीयते ॥ चतुष्पदीह निश्रेणिर्ब्रह्मण्येषा प्रतिष्ठिता । एतामारुह्य निश्रेणि ब्रह्मलोके महीयते ॥ संध्यामुपासते ये तु सततं संशितव्रताः । विधूतपापास्ते यान्ति त्र- झलोकं सनातनम् ’ । ‘अग्निहोत्रादिति तु तत्कार्यायैव तदर्शनात्’ इति श्रुतिस्मृतिसूत्रः कर्मणां मोक्षहेतुत्वाव- गमात् । न च, ‘ब्रह्मविदाप्नोति परम् ’ ’ तरति शोकमा - मवित् ’ ’ ब्रह्म वेद ब्रह्मैव भवति ’ ’ तमेव विदित्वातिमृत्यु-
बालकाण्डः ।
[[२४१]]
मेति’ ’ तमेवं विद्वानमृत इह भवति’ ‘तद्यो यो देवानां प्रत्यबुध्यत स एव तदभवत्’ ’ स यो ह वै तत्परं ब्रह्म वेद ब्रह्मैव भवति’ ’ तदिदमप्येतर्हि य एवं वेद अहं ब्रह्मा- स्मीति स इदं सर्वं भवति’ ‘आचार्यवान्पुरुषो वेद’ ‘तस्य तावदेव चिरं यावन्न विमोक्ष्ये अथ संपत्स्ये इति ’ ’ इहैव सन्तोऽथ विद्मस्तद्वयम् ’ ’ न चेदवेदीर्महती विनष्टिः य एतद्विदुरमृतास्ते भवन्ति’ ‘ब्रह्मसंस्थोऽमृतत्वमेति’ । ‘स हि सर्वेषु भूतेषु जङ्गमेषु ध्रुवेषु च । वसत्येको महानात्मा येन सर्वमिदं ततम् ॥ सर्वभूतेषु चात्मानं सर्वभूतानि चात्मनि । यदा पश्यति भूतात्मा ब्रह्म संप - द्यते तदा ॥ यावानात्मनि वेदात्मा तावानात्मा परात्मनि । य एवं सततं वेद सोऽमृतत्वाय कल्पते’ ‘पुरुषार्थोऽतः शब्दादिति बादरायणः’ इति श्रुतिस्मृतिसूत्राणां ज्ञा- नस्य मोक्ष हेतुत्वप्रतिपादकानां का गतिरिति वाच्यम् । तेषां वचनानां मोक्षहेतुकर्मापेक्षितकर्त्वात्मज्ञानपरत्वात् । तथा हि, ‘शेषत्वात्पुरुषार्थवादो यथान्येष्विति जैमिनिः’ इति सूत्रेण कर्मशेषभूते कर्तृद्वारा आत्मज्ञानकर्मोपाययो–
[[२४२]]
धर्माकूते
गियागसाधनीभूतव्रीहिद्वारा प्रोक्षणादिवत् ज्ञानफलश्रव- णमपि पापलोकश्रवणवदर्थवाद इति प्रतिपाद्य ‘आचार- दर्शनात्’ इति सूत्रेण ‘जनको ह वैदेहो बहुदक्षिणेन यज्ञे- नेज इति यक्ष्यमाणो ह वै भगवन्तोऽहमस्मि’ इत्येवमादि- भिर्ब्रह्मविदामपि कर्मसंबन्धावगमात्, ‘उद्दालको हारुणिः श्वेतकेतुं पुत्रमुवाच’ इति ब्रह्मविदोऽप्युद्दालकस्य पुत्रानु- शासनदर्शनात्, ज्ञानादेव फलसिद्धौ ‘अत्के चेन्मधु वि- न्देत किमर्थं पर्वतं व्रजेत्’ इति न्यायेन दुःखात्मके क- र्मणि प्रवृत्तिर्न स्यात्, अतो न स्वतन्त्रा विद्येति प्रतिपाद्य, तच्छ्रुतेः ‘यदेव विद्यया करोति श्रद्धयोपनिषदा तदेव वीर्यवत्तरं भवति’ इति विद्यायाः कर्मशेषत्वश्रवणादिति प्रतिपाद्य ‘समन्वारम्भणात्’ ‘तं विद्याकर्मिणी समन्वार- भेते’ इति विद्यायाः कर्मफलारम्भे उपयोगदर्शनात् इति प्रतिपाद्य, ‘तद्वतो विधानात् ’ आचार्यकुलाद्वेदम- ater यथाविधानं गुरोः कर्मातिशेषेणाभिसमावृत्य कु टुम्बे शुचौ देशे स्वाध्यायमधीयानः धार्मिकान्विदधदा- त्मनि सर्वेन्द्रियाणि प्रतिष्ठाप्य अहिंसन्सर्वभूतान्यन्यत्र
बालकाण्डः ।
[[२४३]]
तीर्थेभ्यः स खल्वेवं वर्तयन्यावदायुषं ब्रह्मलोकमभिसं- पद्यते ’ न च पुनरावर्तते न च पुनरावर्तते’ इति श्रुत्वा समस्तवेदार्थज्ञानवतः कर्मण्यधिकारदर्शनात्, ‘नियमाच ‘कुर्वन्नेवेह कर्माणि जिजीविषेच्छतं समाः । एवं त्वयि नान्यतोऽस्ति न कर्म लिप्यते नरे’ इति । ’ एतद्वै जराम सत्रं यदग्निहोत्रं जरया वा ह्येतस्मान्मुच्यते मृत्युना वा’ इत्येवंजातीयकात् आमरणमग्रिष्टाननि- यमनादपि, कर्मशेषत्वमेव विद्याया इति चेन्न । ‘अधिको- पदेशात्तु बादरायणस्यैवं तदर्शनात् ’ ’ यः सर्वज्ञः सर्ववित्’ ’ यस्य ज्ञानमयं तपः ’ ’ भीषास्माद्वातः पवते’ ‘महद्भयं वज्र- मुद्यतम् ’ ’ एतस्य वा अक्षरस्य प्रशासने गार्गि’ ’ तदैक्षत बहु स्यां प्रजायेय ’ ’ तत्तेजोऽसृजत’ इत्यादिश्रुतिभिः कर्तृ- वक्तृत्वशारीरत्वादिविरुद्धा कर्तृत्वाभोक्तृत्वापहतपाप्म- त्वादिविशिष्टस्याधिकस्योपदेशात् तद्विज्ञानस्य तद्विरुद्ध- स्य कर्मशेषत्वासंभवात् । ‘तुल्यं नु दर्शनम्’ यदुक्तम् आचा- रदर्शनात्कर्मशेषो विद्या इति अत्रोच्यते— तुल्यमाचारद- र्शनमकर्मशेषत्वेऽपि विद्यायाः, तथा हि– ’ एतद्ध स्म वै
[[२४४]]
धर्माकूते
तद्विद्वांस आहुऋषयः कावषेयाः किमर्था वयमध्येष्यामहे किमर्था वयं यक्ष्यामहे एतावदरे खल्वसृतत्वम् इति चोक्त्वा याज्ञवल्क्यः प्रवत्राज’ इत्यादिश्रुतिभिः याज्ञवल्क्यादीना- मकर्मनिष्ठत्वप्रतिपादनात् । ‘यक्ष्यमाणो वै भगवन्तोऽहम- स्मि’ इत्येतलिङ्गदर्शनस्य वैश्वानरविद्याविषयत्वात्प्रकरणा- भवाच । यदुक्तम् ‘यदेव विद्यया करोति’ इति श्रुतिबला- द्विद्यायाः कर्माङ्गत्वमिति, तन्न संभवति । उद्गीथविद्यायाः प्रकृतित्वेन तस्याश्च श्रुतेः प्रकृतोद्गीथविद्यासंबन्धप्रति- पादकत्वेन सर्वविद्याविषयत्वात् । यदुक्तम् ‘तं विद्याक- र्मणी समन्वारमेते’ इति, तत्रोच्यते–’ विभागः शतवत्’ ‘विद्यान्यं समारभते’ ‘कर्मान्यं समारभते’ इति विभा- गेनोपपत्तेः । यदुक्तम् ’ तद्वतोविधानात्’ इति तत्रोच्य ते- - अध्ययनमात्रवतः ‘आचार्यकुलाद्वेदमधीत्य ’ इत्यस्य कर्मोपयुक्तज्ञानपरत्वेन औपनिषदात्मज्ञानपरत्वाभावात् ; यदुक्तं यावज्जीवं विदुषः कर्मनियमः इति तदपि न, अविशेषात् ‘कुर्वन्नेवेह कर्माणि ’ इत्यस्याः श्रुतेः अविद्वद्विषयत्वेनोपपत्तौ विद्वद्विषयत्वाभावात् । ‘स्तुतये-
बालकाण्डः 1
२४.
ऽनुमतिर्वा’ भवतु वा विद्वद्विषयं प्रकरणात्, तथापि वि- द्यास्तुत्यर्थत्वोपपत्तेः । तस्माद्विद्यायाः कर्मशेषत्वं नोपप- द्यते इति स्वातन्त्र्येणैव हेतुत्वम् । तथा च पारमर्षे सूत्रम ‘पुरुषार्थोऽतः शब्दादिति बादरायणः’ इति । नन्वेवमु- भयोरपि समुच्चित्यैव हेतुत्वमस्तु । तथा हि ‘एष पन्था एतत्कर्मैतद्वौ तत्सत्यम्, तस्मान्न प्रमाद्येत्’ ‘सत्येन लभ्यस्तपसा ह्येष आत्मा सम्यग्ज्ञानेन ब्रह्मचर्येण नित्यम्’ ‘विद्यां चाविद्यां च यस्तद्वेदोभयं सह । अविद्यया मृत्युं तीर्त्वा विद्ययामृतमश्रुते ’ ’ उभाभ्यामेव पक्षाभ्यां यथा खे पक्षिणां गतिः । तथैव ज्ञानकर्मभ्यां प्राप्यते ब्रह्म शाश्व- तम् ॥ तत्प्राप्तिहेतुर्ज्ञानं च कर्म चोक्तं महामते ’ ’ सर्वापे- क्षा च यज्ञादिश्रुतेरववत्’ इति श्रुतिस्मृतिस्वैः ज्ञानक- र्मणोरुभयोरपि मोक्षहेतुत्वावगमात् इति चेन्न । ज्ञानकर्म- णोः समुच्चितस्य मोक्षं प्रति साधनत्वं न संभवति, परस्पर- विरोधात् । कर्मणां हेतुत्वस्य श्रुतिनिषिद्धत्वाच्च भिन्नमार्ग- त्वाच भिन्नफलत्वाच्च । तथा हि- ‘दूरमेते विपरीते विषूची अविद्या या च विद्येति ज्ञाता । अविद्यायामन्तरे
I
[[२४६]]
धर्माकूते
वर्तमानाः स्वयं धीराः पण्डितंमन्यमानाः । दन्द्रम्यमाणाः परियन्ति मूढा अन्धेनेव नीयमाना यथान्धाः ॥ न सां- परायः प्रतिभाति बालं प्रमाद्यन्तं वित्तमोहेन मूढम् । अयं लोको नास्ति पर इति मानी पुनः पुनर्वशमापद्यते मे ॥ वा ह्येते अदृढा यज्ञरूपा अष्टादशोत्तमवरं येषु कर्म ॥ एतच्छ्रेयो येऽभिनन्दन्ति मूढा जरामृत्युं ते पुनरेवापि यन्ति । अविद्यायां बहुधा वर्तमाना वयं कृतार्था इत्यभिमन्यन्ति बालाः । यत्कर्मणो न प्रवेदयन्ति रागात्तेनातुराः क्षीणलोकाच्यवन्ते ॥ इष्टापूर्ते मन्य- माना वरिष्टं नान्यच्छ्रेयो वेदयन्ते प्रमूढाः । नाकस्य पृष्ठे ते सुकृतेऽनुभूत्वेमं लोकं हीनतरं वा विशन्ति । परी- क्ष्य लोकान्कर्मचितान्त्राह्मणो निर्वेदमायान्नास्त्यकृतः कृ- तेन ॥ अमृतस्य तु नाशास्ति वित्तेन’ इति । वित्तसाध्येन कर्मणा इत्यर्थः । ‘अथ वयो वा व लोका मनुष्यलोकः पितृलोको देवलोक इति सोऽयं मनुष्यलोकः पुत्रेणैव जय्यो नान्येन कर्मणा, कर्मणा पितृलोकः’ इति पितृ- लोकपर्यवसानाच्च । ‘अथ य आत्मा स सेतुर्विधृति-
बालकाण्डः ।
[[૨૪૭]]
रेषां लोकानामसंभेदाय नैनं सेतुमहोरात्रे तरतः । न जरा न मृत्युर्न शोको न सुकृतं न दुष्कृतं सर्वे पाप्मानोऽतो निवर्तन्तेऽपहतपाप्मा ह्येष ब्रह्मलोकः’ इति ब्रह्मलोकप्राप्तेः पूर्व कर्मणां विनाशप्रतिपादनात् । ’ स एष नेति नेत्यात्मा अगृह्यो न हि गृह्यते अशीयों न हि शीर्यते असङ्गो न हि सज्जते अशितो न व्यथते न रिष्यति एतमु है वै तेन
है तरतः इत्यतः पापमकरवम् इत्यतः कल्याणमकरवम्’ इति ‘उभौ ह्येवैष एते तरति नैनं कृताकृते तपतः तदेतदृ- चाभ्युक्तम् - एष नित्यो महिमा ब्राह्मणस्य न कर्मणा वर्धते नो कनीयान् । तस्यैवास्मात्पदवित्तं विदित्वा न क- र्मणा लिप्यते पापकेनेति । तस्मादेवंविच्छान्तो दान्त उपरतस्तितिक्षुः समाहितो भूत्वात्मन्येवात्मानं पश्यति सर्वमात्मानं पश्यति नैनं पाप्मा तपति सर्व पा- प्मानं तपति नैनं पाप्मा तरति सर्व पाप्मानं तर- ति विपापो विरजो विचिकित्सो ब्राह्मणो भवति, एष ब्रह्मलोकः सम्राडिति होवाच याज्ञवल्क्यः । तस्य प्रिया ज्ञातयः सुकृतमुपयन्त्यप्रिया दुष्कृतम् ।
[[1]]
-२४८
धर्माकूते
तथा रथेन धावन् रथचक्रे पर्यवेक्षेत । एवमहोरात्रे पर्यवेक्षते । एवं सुकृतदुष्कृते सर्वाणि च द्वन्द्वानि । स एष विसुकृतो विदुष्कृतो ब्रह्म विद्वान्ब्रह्मैवाभिप्रैति । तद्यथेह कर्मचितो लोकः क्षीयते एवंमेवामुल पुण्यचितो लोकः क्षीयते’ इति । मार्गभेदविषये च्छान्दोग्ये- ’ तद्य इत्थं विदुर्ये चेमेऽरण्ये श्रद्धा तप इत्युपासते तेऽचि - षमभिसंभवन्ति । अर्चिषोऽहरन्ह आपूर्यमाणपक्षमापूर्यमा - णपक्षाद्यान्षडुदुड्डेति मासान्मासेभ्यः संवत्सरं संवत्सरा- –दादित्वमादित्याचन्द्रमसं चन्द्रमसो विद्युतं तत्पुरुषोऽमानवः स एनान्ब्रह्म गमयति एष देवयानः पन्थाः’ इति । तथा कौषीतकिब्राह्मणे- ‘एतं देवयानं पन्थानमापद्यामि- लोकमागच्छति, स वायुलोकं स वरुणलोकं स आदित्य- लोकं स इन्द्रलोकं स प्रजापतिलोकं स ब्रह्मलोकं ह तस्य वा एतस्य ब्रह्मलोकस्यारोहदो मुहूर्तावेष्टिहा विरजा न- दल्यो वृक्षः सालज्यं संस्थानमपराजितमायंतनमिन्द्रप्रजा- पती द्वारगोपौ विभुप्रमितं विचक्षणाः संभ्यमितौजाः पर्यङ्कः प्रिया च मानसी प्रतिरूपा च चाक्षुषी पुष्पाण्या-बालकाण्डः ।
[[२४९]]
दायावयतौ वै च जगत्यम्बाश्चाम्बायवाश्चाप्सरसोऽम्बया नद्यस्तमित्थंविदागच्छति तं ब्रह्माहाभिधावत मम यश- सा विरजां वार्य नदीं प्रापन्न वायं जिगीष्यतीति तं पञ्चशतान्यप्सरसां प्रतिधावन्ति शतं मालाहस्ताः शतमा- अनहस्ताः शतं चूर्णहस्ताः शतं वासोहस्ताः शतं कणा - हस्तास्तं ब्रह्मालंकारेणालंकुर्वन्ति स ब्रह्मालंकारेणालंकृतो
विद्वान्वाभिप्रैति स आगच्छत्यारं हृदं तं मनसा- त्येति तमित्वा संप्रतिविदो मज्जन्ति स आगच्छति मुहूर्ता- न्येष्टिहांस्तेऽस्मादपद्रवन्ति स आगच्छति विरजां नदीं तां मनसैवात्येति तत्सुकृतदुष्कृते धूनुते तस्य प्रिया ज्ञातयः सुकृतमुपयन्त्यप्रिया दुष्कृतं तद्यथा रथेन धावयन्रथ - चक्रे पर्यवेक्षेत एवमहोरात्रे पर्यवेक्षेत एवं सुकृतदु- कृते सर्वाणि च द्वन्द्वानि स एष विसुकृतो विदुष्कृतो ब्रह्म विद्वान्वाभिप्रैति स आगच्छतील्यं वृक्षं तं ब्रह्म- गन्धः प्रविशति स आगच्छति सालज्यं संस्थानं तं ब्रह्म- रसः प्रविशति स आगच्छत्यपराजितमायतनं तं ब्रह्मते- जः प्रविशति स आगच्छतीन्द्र प्रजापती द्वारगोपौ ताव-
D 21
[[२५०]]
धर्माकूते
स्मादपद्रवतः स आगच्छति विभुप्रमितं तं ब्रह्मयशः प्रवि- शति स आगच्छति विचक्षणामासन्दीं बृहद्रथन्तरे साम- नी पूर्वौ पादौ श्यैतनौधसे चापरौ पादौ वैरूपवैराजे अनू- च्ये शाकररैवते तिरची सा प्रज्ञा प्रज्ञया हि विपश्यति स आगच्छत्यामितौजसं पर्यङ्कं स प्राणस्तस्य भूतं च भविष्यव पूर्वौ पादौ श्रीश्राचापरौ बृहद्रथन्तरे अनूच्ये भद्रयज्ञाय- ज्ञीये शीर्षण्यमृचश्च सामानि च प्राचीनातानं यजूंषि तिरवीनानि सोमांशव उपस्तरणमुद्गीथ उपश्रीः श्रीरुपब- हणं तस्मिन्ब्रह्मास्ते तमित्थंवित्पादेनैवाय आरोहति तं ब्रह्मा कोऽसीति तं प्रति ब्रूयादृतुरस्म्यार्तवोऽस्म्याका- शायोनेः संभूतो भार्यायै रेतः संवत्सरस्य तेजोभूतख भूतस्यात्मा भूतस्य त्वमात्मासि यस्त्वमसि सोऽहमस्मीति तमाह कोऽहमस्मीति सत्यमिति ब्रूयात्किं तद्यत्सत्यमिति । यदन्यद्देवेभ्यश्च प्राणेभ्यश्च तत्सद्य यद्देवाश्च प्राणाश्च तद्य- तदेतया वाचाभिव्याहियते सत्यमित्येतावदिदं सर्वमिदं सर्वमसीत्येवैनं तदाह तदेतच्छ्रोकेनाभ्युक्तम् — यजूदरः सामशिरा आसावृपूर्तिव्ययः । स ब्रह्मेति हि विज्ञेय
बालकाण्डः ।
[[२५१]]
ऋब्रह्ममयो महानिति । तमाह केन पौनानि नामा- न्यानोतीति प्राणेनेति ब्रूयात्केन स्त्रीनामानीति वाचेति केन नपुंसकनामानीति मनसेति केन गन्धानिति घ्राणे- नेति ब्रूयात्केन रूपाणीति चक्षुषेति केन शब्दानिति श्रोत्रेणेति केनान्नरसानिति जिह्वयेति केन कर्माणीति हस्ताभ्यामिति न सुखदुःखे इति शरीरेणेति केनानन्दं रति प्रजातीरित्युपस्थेनेति केनेत्या इति पादाभ्यामिति केन धियो विज्ञातव्यं कामानिति प्रज्ञयेति प्रब्रूयात्तमा- हापो वै खलु मे सावयं ते लोक इति सा या ब्रह्मणि चितिर्या व्यष्टिस्तां चितिं जयति तां व्यष्टिं व्यश्नुते य एवं वेद य एवं वेद’ इति । छान्दोग्येऽपि ‘ब्रह्मलोके तृती- यस्यामितो दिवि तदैरंमदीयं सरस्तदश्वत्थः सोमसवनस्त- दपराजिता पूर्बह्मणः प्रभुविमित हिरण्मयम् । तथ एवै- तावरं च ण्यं चार्णवौ ब्रह्मलोके ब्रह्मचर्येणानुविन्दन्ति तेषामेवैष ब्रह्मलोकस्तेषाँ सर्वेषु लोकेषु कामचारो भवति ’ इति । गीतायामपि ‘अग्निज्योतिरहः शुक्लः षण्मासा उत्तरायणम् । तत्र प्रयाता गच्छन्ति ब्रह्म ब्रह्मविदो
[[२५२]]
धर्माकूते
जनाः’ इति । भगवान्बादरायणोऽपि ‘अर्चिरादिना तत्प्रथितेः’ इति चतुर्थाध्यायतृतीयपादाद्यसूत्रेण वि- द्याकरणभेदादिभिः प्रसक्तमार्गभेदे निराकरणपूर्वकं ब्र- ह्मप्राप्तिरचिरादिनैव ‘ये चेमेऽरण्ये श्रद्धासत्वमुपासते’ इत्युपसानान्तरशीलानां अर्चिरादिमार्गावगमान्नानाविशेष- विशिष्ट एक एव अर्चिरादिमार्ग इति प्रतिपाद्य, ‘वायु- मब्दादविशेषविशेषाभ्याम्’ इत्यनन्तरसूत्रेण ’ स एतं दे- वयानं पन्थानमापाद्याग्मिलोकमागच्छति स वायुलोकम्’ इत्यविशेषेण श्रुतस्य वायोः ‘स वायुमागच्छति तस्मै स तत्र विजिहीते यथा रथचक्रस्य खं तेन स ऊर्ध्वमा- क्रमते स आदित्यमागच्छति’ इत्यादित्यात्पूर्वत्वदर्शनाद्वि- शेषात् संवत्सरादित्ययोरन्तराले वायोर्निवेशः । तत्रापि ‘मासेभ्यो देवलोकं देवलोकादादित्यम्’ इति वाजसनेयके मासानन्तरं समाम्नातस्य देवलोकस्य माससंबन्ध्यब्दानन्तरं निवेशः देवलोकाच वायोर्निवेशः तत आदित्यस्य । सूत्रं तु च्छान्दोग्याभिप्रायमिति प्रतिपाद्य ’ तदितोऽधिवरुणः संबन्धात्’ इत्यनन्तरसूत्रेण ‘चन्द्रमसो विद्युतम्’ इति
बावकाण्डः ।
[[२५३]]
श्रुताया विद्युत उपरिष्टात्स वरुणलोकमित्युपदिष्टो वरुणः संनिवेश्यः विद्युद्वर्षाधिपतित्वाद्वरुणस्य, तदनन्तरमवशि- ष्टेन्द्रप्रजापत्योर्निवेशः, ‘अन्ते तु बादरायणः’ इति न्या- यादित्यवधार्य तदनन्तरेण ‘आतिवाहिकास्तलिङ्गात्’ इति सूत्रेण अर्चिरादिपर्वणां मार्गचिह्नत्वं भोगभूमित्वं वा इत्याशङ्कय ‘तत्पुरुषोऽमानवः’ इति अर्चिरादिप्रापकमा- नवपुरुषव्यावर्त कामानवत्वविशेषणात् संपिण्डितकरणस्य लोकान्तरगमनं चेतनान्तराधीनमिति आतिवाहिकत्व- मेव, अतः अर्चिरभिमानिनीं देवतां प्राप्य तथा अहर- भिमानिनीं तया च पूर्वपक्षाभिमानिनीमित्येवंप्रका- रेण संवत्सर देवलोकवायुलोकादित्यलोकचन्द्र विद्युलोकप- र्यन्तं पूर्वपूर्व लोकाभिमानिन्या देवतया उत्तरोत्तरलोकाभि- मानिदेवतां प्रापितः क्रमेण तडिल्लोकं प्राप्त इति प्रति- पाद्य, ‘वैद्युतेन तु तच्छ्रुतेः’ इत्यनन्तरसूत्रेण ब्रह्मलो - काद्विद्युलोकमागतेन अमानवपुरुषेण तडिदभिमानिदे- वतासहितेन वरुणलोकं नीतः तद्वरुणसहितेनेन्द्रलोकम, इन्द्रसहितेन प्रजापतिलोकं प्रजापतिसहितेन ब्रह्मलोक-
[[२५४]]
धर्माकूते
मित्येवंक्रमेण ब्रह्मलोकं प्राप्नोति इति प्रतिपाद्यं कार्यम् ‘बादरिरस्य गत्युपपत्तेः ’ ‘विशेषितत्वाच्च’ इति सूखा- स्यामकार्यव्यापकब्रह्मणो गन्तव्यत्वासंभवात् ब्रह्मलोकं गमयति, ‘पराः परावतो वसन्ति’ इति श्रुत्यन्तरे विशे- षितत्वाच्च सगुणमेव ब्रह्म प्राप्यत इति प्रतिपाद्य ‘संक- रुपादेव तु तच्छ्रुतेः’ इति सूत्रेण एवं कार्यब्रह्मलोकं गतस्य ’ यं यं मतमभिकामो भवति यं कामं कामयते सोऽस्य संकल्पादेव समुत्तिष्ठति तेन संपन्नो महीयते’ इति यननिरपेक्षतया पित्राद्युत्पत्तिरिति प्रतिपाद्य, ‘अत एव चानन्याधिपतिः’ इति सूत्रेण अवन्ध्यसंकल्पादेवा- यमनन्याधिपतिरिति प्रतिपाद्य, ‘अभावं बादरिराह ह्येवम्’ इति सूत्रेण विदुषो देह एव नास्तीति च प्रति- पाद्य ‘भावं जैमिनिर्विकल्पामननात्’ इति सूत्रेण ‘स एकधा भवति त्रिधा भवति’ इत्यादिश्रुत्या प्रतिपाद्यमा- नाकप्रकारत्वस्यैकप्रकारे आत्मनि शरीरमादायैव वक्त- व्यत्वात्सेन्द्रियशरीरयुक्तस्यैवात्मनो भोग इति प्रतिपाद्य " द्वादशाहवदुभयविधं बादरायणोऽतः’ इति सूत्रेण सखा-
बालकाण्डः
[[२५५]]
हीनोभयात्मकत्वं द्वादशाहस्य यथा तद्वदुभयविधश्रु- तिबलाच्छरीरित्वं चोपपन्नमिति प्रतिपाद्य, ‘तन्वभावे सं- ध्यवदुपपत्तेः ’ ’ भावे जाग्रद्वत्’ इति सूत्राभ्यां शरीरित्वा- शरीरित्वयोः अविरोधं प्रतिपाद्य ‘प्रदीपवदावेशस्तथा हि दर्शयति’ इति सूत्रेण मुक्तः पुष्कलभोगाय स्वसंकल्पसृ टानेकशरीरेषु प्रदीपवदाविश्य विद्याबलाद्विहरति सौभ- रिवत् ’ स एकधा भवति’ इति श्रुतेरिति प्रतिपाद्य, ‘जग- व्यापारवर्ज प्रकरणात्’ इति सूत्रेण ‘आप्नोति स्वाराज्यं सर्वस्मै देवा बलिमावहन्ति’ इत्यादिश्रुत्यावाप्तनिरशै- श्वर्यस्य वियदादिस्रष्टृत्वमपि तद्वदेवास्त्वित्यशाङ्कय ‘आत्मन आकाशः संभूतः ’ ’ तत्तेजोऽसृजत’ इत्यादेः परमात्म- प्रकरणस्थत्वात्तन्मात्रविषयत्वमिति प्रतिपाद्य, ‘प्रत्यक्षो- पदेशादिति चेन्नाधिकारिकमण्डलस्थोक्तेः’ इत्यनेन ‘आ- प्रोति स्वाराज्यम्’ इति श्रुतिः आधिकारिकसवितृमण्ड- लमध्यस्थपरमेश्वरानुग्रहायत्ताणिमाद्यैश्वर्यमावविषया न तु जगत्स्रष्टृत्वपरा ’ वाक्पतिश्चक्षुष्पतिः’ इत्यादिविशेष- ग्रहणाञ्च जगद्वयापारवर्जमिति प्रतिपाद्य, ‘भोगमाल-
[[२५६]]
धर्माकूते
साम्यलिङ्गाच’ ’ यथैव देवतां सर्वाणि भूतान्यवन्ति एवं हैवंविदं सर्वाणि भूतान्यवन्ति’ इति श्रुत्या भो- गमात्रसाम्यावगमादपि जगद्व्यापारवर्जत्वम् न ह्येवं जगत्स्रष्टृत्वमसक्तस्य कचिद्व्यपदिश्यते, तेन ‘एतस्यै देव- तायै सायुज्यं सलोकतां जयति’ इत्यादिभेदव्यपदेशलि- तेभ्यश्च जगद्यापारवर्जत्वमेवेति प्रतिपाद्य, ‘अनावृत्तिः शब्दादनावृत्तिः शब्दात्’ इत्यन्तिमसूत्रेण अर्चिरादिमा- र्गेण ब्रह्मलोकं गतानां न पुनरावृत्तिरिति ‘न स पुनराव- र्तते’ इत्यादिशब्दाद्ब्रह्मलोकं गतस्य अपुनरावृत्ति प्रतिपा- दितवान् । एवं श्रुतिस्मृतिसूत्रैः अहंमहोपासकानां पश्चा- निविद्यावतां च अर्चिरादिमार्गेण पुनरावृत्तिरहितं ब्रह्म- लोकं गतानां ब्रह्मणा सह जगद्वयापारवर्ज ब्राह्मणान्स- वन्भोगाननुभूय तत्रोत्पन्नात्मज्ञानेन ‘ते ब्रह्मलोके तु परान्तकाले परामृतात्परिमुच्यन्ति सर्वे’ इति ‘ब्रह्मणा सह मुच्यन्ते कल्पान्ते प्रतिसंचरे । परस्यान्ते कृतात्मानः प्रविशन्ति परं पदम्’ इति श्रुतिस्मृतिसूत्रोक्तप्रकारेण मुक्तिर्भवति । ‘अथ य इमे ग्राम इष्टापूर्ते दत्तमित्युपासते
बाळकाण्डः ।
[[२५७]]
ते धूममभि संभवन्ति धूमाद्रात्रिं रात्रेरपरपक्षमपरपक्षा- द्यान्षड्दक्षिणैति मासांस्तान्नैते संवत्सरमभि प्राप्नुवन्ति मासेभ्यः पितृलोकं पितृलोकादाकाशमाकाशाचन्द्रमसम्, एष सोमो राजा तद्देवानामन्नं तं देवा भक्षयन्ति तस्मिन्या- वत्संपातमुषित्वाथैतमेवाध्वानं पुनर्निवर्तन्ते यथेतमाकाश- माकाशाद्वायुं वायुर्भूत्वा धूमो भवति धूमो भूत्वाभ्रं भवति अभ्रं भूत्वा मेघो भवति मेघो भूत्वा प्रवर्षति त इह व्रीहियवा ओषधिवनस्पतयस्तिलमाषा इति जायन्ते, अतो
खलु दुर्निष्प्रपतरं यो यो ह्यन्नमत्ति यो रेतः सिध्यति तद्भूय एव भवति तद्य इह रमणीयचरणा अभ्याशो ह यत्ते रमणीयां योनिमापद्येरन् ब्राह्मणयोनिं वा क्षत्रिययोनिं वा वैश्ययोनिं वा, अथ य इह कपूचचरणा अभ्याशी ह यत्ते कपूयां योनिमापद्येरन् श्वयोनिं वा सूकरयोनिं वा चण्डालयोनिं वा’ इति । तथा कौषीतकिब्राह्मणेऽपि ‘ये
के चास्माल्लोकात्प्रयन्ति चन्द्रमसमेव ते सर्वे गच्छन्ति तेषां प्राणैः पूर्वपक्ष आप्यायतेऽथापरपक्षे न प्रजनयत्येतद्वै स्वर्गलोकस्य द्वारं यश्चन्द्रमास्तं यत्प्रत्याहतमिति सृजते
#२५८
धर्माकूते
य एनं प्रत्याहतमिह वृष्टिर्भूत्वा वर्षति स इह कीटो वा पतङ्गो वा शकुनिर्वा शार्दूलो वा सिंहो वा मत्स्यो वा परवा वा पुरुषो वान्यो वैतेषु स्थानेषु प्रत्याजायते यथाकर्म यथाविद्यम्’ इति ; यथाविद्यमङ्गावबद्धविद्या- नुरूपमित्यर्थः । गीतायामपि – ‘धूमो रात्रिस्तथा कृष्णः षण्मासा दक्षिणायनम् । तत्र चान्द्रमसं ज्योतिर्योगी प्राप्य निवर्तते ॥ त्रैविद्या मां सोमपाः पूतपापा यज्ञैरिष्ट्वा स्व- गतिं प्रार्थयन्ते । ते पुण्यमासाद्य सुरेन्द्रलोकमनन्ति दि- व्यान्दिवि देवभोगान् । ते तं भुक्त्वा स्वर्गलोकं विशालं क्षीणे पुण्ये मर्त्यलोकं विशन्ति । एवं त्रयीधर्ममनुप्रपन्ना गतागतं कामकामा लभन्ते’ इति । एवं कर्मिणां धूमादिमार्गेण स्वर्गलोकं गतानां यथाकर्मफलभोगानन्तरं पुनर्वृष्ट्यादिद्वारा भुवं प्राप्य मनुष्यादिजन्मप्राप्तिर्भवति । निर्विशेषज्ञानवतां तु ‘न तस्य प्राणा उत्क्रामन्ति, अत्रैव समवलीयन्ते, अत्र ब्रह्म समश्रुते । ब्रह्मैव सन्ब्रह्माप्येति, परं ज्योतिरुपसंपद्य स्वेन रूपेणाभिनिष्पद्यते’ इति श्रुत्या सर्वभूतात्मभूतस्य सर्वभूतहितैषिणः देवापि मार्गे मुह्य-बालकाण्डः ।
[[२५९]]
न्ति अपदस्य पदैषिणः । शकुन्तानामिवाकाशे मत्स्याना- मिव चोदके । यथा गतिर्न दृश्येत तथा ज्ञानविदां गतिः’ इति स्मृत्या च ‘संपद्याविर्भावः स्वेन शब्दात्’ इति सूत्रेण च. ‘स्वेन रूपेणाभिनिष्पद्यते ’ इति निष्पद्यप्रतिपादनान्मो- क्षस्य फलप्रसिद्धेश्च रूपान्तरापत्तिमाशङ्कय, स्वेन रूपेणेति शब्देन स्वरूपाविर्भाव एवावगम्यते, अन्यथा स्वशब्दवैय- र्थ्यात् अतो न रूपान्तरापत्तिरिति प्रतिपाद्य, ‘मुक्तः प्रतिज्ञानात्’ इति सूत्रेण आवृतस्वरूपस्य अवस्थात्रयरा- हित्यरूपो विशेषो मुक्त्यवस्थायामस्ति, ‘य आत्मापहत- पाप्मा’ इत्युपक्रान्तस्यात्मनः ’ एतं त्वेव ते भूयोऽनुव्या- ख्यास्यामः’ इत्यनुकुष्य ‘अशरीरं वा व सन्तं न प्रियाप्रिये स्पृशतः’ इति अवस्थात्रयराहित्यप्रतिपादनात् ’ रोगनि- वृत्तोऽरोगो निष्पद्यते’ इतिवन्निष्पत्तिव्यपदेशोपपत्तेश्च इति प्रतिपाद्य, ‘आत्मा प्रकरणात्’ इति सूत्रेण पर- मात्मप्रकरणात् ‘तं देवा ज्योतिषां ज्योतिः’ इत्यत्र ज्योतिः शब्दस्यात्मनि प्रयुक्तत्वात् य आत्मापहतपा मा’ इति परमात्मप्रकरणस्थत्वाच ’ परं ज्योतिरुपसं-
[[१६०]]
धर्माकूते
पद्य’ इति परमात्मप्राप्तिरेवेति प्रतिपाद्य, ‘अविभागेन दृष्टत्वात्’ इति सूत्रेण ’ स तत्र पर्येति’ इत्याधाराधेय- भावावगमात् ‘ज्योतिरुपसंपद्य’ इति गन्तृगन्तव्यव्यप- देशाच मुक्तस्य भेदेनैवावस्थानमाशय ‘तत्त्वमसि’ इति वाक्येन अविभागावगमात् भेदव्यपदेशस्य ‘स्वे महि - म्नि’ इतिवदुपपत्तेः परस्मिन्ब्रह्मणि अविभागेनैव मु- क्तोऽवतिष्ठत इति सूत्रैश्च गमनेन विना स्वस्वरूपाव- स्थानरूपैव मुक्तिरचैव प्रतिपादिता । एवं कर्मिणामुपा- सकानां निर्विशेषज्ञानवतां च गतितदभाववैलक्षण्येन गन्तव्यस्वस्वरूपावस्थानरूपफलभेदाश्च न समुच्चयः । ‘कर्मणा बध्यते जन्तुर्विद्यया प्रतिमुच्यते । तस्मात्कर्म न कुर्वन्ति यतयः पारदर्शिनः ॥ कर्म त्वेके प्रशंसन्ति स्वल्पबुद्धिरता नराः । तेन ते देहजालानि रमयन्त उपा- सते’ ‘यथैधांसि समिद्धोऽग्निर्भस्मसात्कुरुतेऽर्जुन । ज्ञाना- निः सर्वकर्माणि भस्मसात्कुरुते तथा’, सूत्रमपि ‘तद- विगम उत्तरपूर्वाधयोरश्लेषविनाशौ तव्यपदेशात् ’ ; तस्य ब्रह्मणोऽधिगमे उत्तरेषां कर्मणामश्लेषः पूर्वेषां विनाशः ।
बालकाण्डः ।
[[२६१]]
तथा च श्रुतिः ‘तद्यथा पुष्करपलाश आपो न लिप्यन्ते एवमेवंविदि पापं कर्म न लिप्यते, तद्यथैषीकातूळमप्रौ प्रोतं प्रदूयत एवं हास्य सर्वे पाप्मानः प्रदूयन्ते’ इति । ‘इत- रस्याप्येवमसंश्लेषः पाते तु’ इतरस्य पुण्यस्याप्यसंश्लेषः ‘उभे ह्येवैष एते तरति ’ इति सुकृतदुष्कृतयोरविशेष - वणात्, ‘उपमर्दे च ’ ’ यत्र त्वस्य सर्वमात्मैवाभूत्तत्केन कं पश्येत्’ इति कर्तृकर्मप्रतिषेधात् । एवं श्रुतिस्मृतिसूत्र- ज्ञानविरोधित्वेन अनित्यफलत्वेन नश्वरत्वेन गतिमत्त्वेन च प्रतिपादितानां कर्मणां ज्ञानेन सह मोक्षे समुच्चयासंभवः । अत एव सर्वज्ञैर्वेदप्रामाण्यं समर्थयद्भिः कर्मकाण्डप्रवर्तकैः कर्मणां मोक्षहेतुत्वमनाशङ्कितमेव । ननु कर्मणां मोक्ष- हेतुत्वप्रतिपादकवचनानां का गतिरिति चेत्, तेषां चित्तशुद्धिद्वारा हेतुत्वाभिप्रायत्वात् । अत एव च श्रुतिः चित्तशुद्धिद्वारा विविदिषाहेतुत्वं कर्मणामाह - ’ तमेवं वे- दानुवचनेन ब्राह्मणा विविदिषन्ति यज्ञेन दानेन तपसा- नाशकेन’ इति । यज्ञादिसहपाठात् यज्ञादीनि कर्माण्येवा- नुक्रमिष्यन्वेदानुवचनशब्द प्रयुङ्क्ते । तस्मात्कर्मैव वेदानुवच-
[[२६२]]
धर्माकूते
नशब्देनोच्यत इति गम्यते । कर्म हि नित्यस्वाध्यायः कथं पुनर्नित्यं स्वाध्यायादिभिः कर्मभिरात्मानं विविदिषन्ति; नैव हि तान्यात्मानं प्रकाशयन्ति यथोपनिषदः । नैष दोषः, कर्मणां विशुद्धिहेतुत्वात् कर्मभिः संस्कृता हि विशु- द्धात्मानः शुक्नुवन्त्यात्मानमुपनिषत्प्रकाशितमप्रतिबन्धेन वेदितुम् । तथा ह्याथर्वणे ‘विशुद्धसत्त्वस्ततस्तु तं पश्यते निष्कलं ध्यायमानः’ इति । स्मृतिश्च – ‘ज्ञानमुत्पद्यते पुंसां क्षयात्पापस्य कर्मणः’ इत्यादि । कथं पुनर्नित्यानि कर्माणि संस्कारार्थानीत्यवगम्यते ? ‘सह वा आत्मयाजी यो वेदेदं मेऽनेनाङ्गं संस्क्रियते इदमनेनाङ्गमुपधीयते’ इत्यादि - श्रुतेः सर्वेषु च स्मृतिशास्त्रेषु कर्माणि संस्कारार्थान्ये- वाचक्षते ‘अष्टाचत्वारिंशत्संस्काराः’ इत्यादिषु । गीतासु
‘यज्ञो दानं तपश्चैव पावनानि मनीषिणाम्’ इति ‘सर्वेऽप्येते यज्ञविदो यज्ञक्षपितकल्मषाः’ इति च । यज्ञेनेति द्रव्ययज्ञा ज्ञानयज्ञाश्च संस्कारार्थाः, संस्कृतस्य च विशुद्धस- त्त्वस्य ज्ञानोत्पत्तिप्रतिबन्धो न भविष्यति । अतो यज्ञन विविदिषन्ति दानेन, दानमपि पापक्षयहेतुत्वात् धर्महेतु-
बालकाण्डः ।
[[२६३]]
त्वाच । तपसा, तप इति विशेषेण कृच्छ्रचान्द्रायणादिप्रा- प्रौ विशेषणम् । अनाशकेन इति कामानशनमनाशकं न तु भोजननिवृत्तिः, भोजननिवृत्तौ म्रियत एव, नात्म- वेदनं भवति । वेदानुवचनयज्ञदानतपः शब्देन सर्वमेव नित्यं कर्म लक्ष्यते । एवं काम्यवर्जितं नित्यं कर्मजातं सर्वमात्मज्ञानोत्पत्तिद्वारेण मोक्षसाधनत्वं प्रतिपाद्यते । ज्ञानकर्मसमुच्चयवादिनाप्ययमर्थोऽङ्गीकृत एव । तेन नि- त्यनैमित्तिककर्मणां प्रत्यवायपरिहारार्थत्वस्याप्यङ्गीकारा- त्प्रत्यवायपरिहारस्य चित्तशुद्धिरूपत्वादेवं प्रनाड्या मोक्ष- हेतुत्वं संभवति । पृथक्साक्षाद्धेतुत्वकल्पने प्रमाणाभावात् ’ नान्यः पन्था विद्यतेऽयनाय’ इति ज्ञानव्यतिरेकेण मोक्षे साधनान्तरप्रतिषेधाच । स्मृतिरपि ‘कषायपक्तिः कर्माणि ज्ञानं तु परमा गतिः । कषाये कर्मभिः पक्के ततो ज्ञानं प्रवर्तते ॥ ज्ञानेन हि सदा जन्तुरज्ञानप्रभवं तमः । व्यपोहति तदा ब्रह्म प्रकाशति सनातनम् ’ ‘योगिनः कर्म कुर्वन्ति सङ्गं त्यक्त्वात्मशुद्धये’ ‘ध्यानमध्ययनं दानं सत्यं हीरार्जवं क्षमा । शौचमाचारसंशुद्धिरिन्द्रियाणां
[[२६४]]
}
धर्माकूते
च निग्रहः ॥ एतैर्विवर्धते तेजः पाप्मानं चापकर्षति । सिध्यन्ति चास्य सर्वार्था विज्ञानं च प्रवर्धते ’ ’ श्रेया- न्द्रव्यमयाद्यज्ञाज्ज्ञानयज्ञः परंतप ॥ सर्व कर्माखिलं पार्थ ज्ञाने परिसमाप्यते । तपो विद्या च विप्रस्य नैश्रेयसकरं परम् ॥ तपसा कल्मषं हन्ति विद्ययामृतमश्नुते’ इति । तस्मात्कर्मणां मोक्षं प्रति चित्तशुद्धिद्वारैव हेतुत्वं सिद्धम् । एवं तपसोऽपि देवताप्रसादद्वारा ब्राह्मणवचनेनैव ब्राह्म- प्रापकत्वमिति सर्वे सुस्थम् । एषां ब्राह्मणानां लीलो- दीरितवचनमात्रमपि सकललोकनिग्रहानुग्रहसमर्थम्, दु- र्लभब्राह्मण्यप्रापकं च । तेषां ब्राह्मणानां माहात्म्यं श्रुति- स्मृतीतिहासपुराणधर्मप्रधानकाव्यादिषु बहुधा प्रतिपाद्य- मानं कृत्स्नश उपवर्णयितुमशक्यमिति प्रकरणानुरोधेन दिप्रदर्शनमाana कृतम् । एवमतिप्रशस्ततरं ब्राह्मण्यं ब्राह्मणानुग्रहेण विना न प्राप्यमिति तत्संपादकतपश्चरणाय दक्षिणां दिशं प्रतस्थे । षट्वाशमारभ्य षष्ठिपर्यन्तम्- ततो दक्षिणां दिशमभिगम्य सहस्रवर्षपर्यन्तमुझे तपसि “वर्तमानं विश्वामित्रम् -
[[1]]
[[२६५]]
जिता राजर्विलोकास्ते तपसा कुशिकात्मज । अनेन तपसा त्वां त राजर्षिरिति विद्महे ॥
तु
इति पितामहः समभाषत । तद्वचनश्रवणसंजातमन्यु- विश्वामित्रः पुनरपि त्रैलोक्यभयं करमत्युग्रं तपश्चरितुं समा- रभत । अल्लान्तरे सशरीरं स्वर्गगमनमभिलषंस्त्रिशङ्कुः स्वपुरोहितं वसिष्ठमभिगम्य, कथितनिजमनोरथस्तेन चा- तिदुर्घटमिदमिति सन्यक्कारमुक्तोऽपि वसिष्ठपुत्राञ्शतसं- ख्यान्समासाद्य कृताञ्जलिस्तानभिवाद्य
शिरसा प्रणतो. याचे ब्राह्मणांस्तपसि स्थितान् । ते मां भवन्तः सिद्ध्यर्थे याजयन्तु समाहिताः ॥
सशरीरो यथाहं हि देवलोकमवाप्नुयाम् । प्रत्याख्यातो वसिष्ठेन गतिमन्यां तपोधनाः । गुरुपुत्राहते सर्वानाहं पश्यामि कंचन ॥
इत्यभ्यर्थितवान् । तं गुरुपुत्राः
अशक्यमिति होवाच वसिष्ठो भगवानृषिः ।
D 22
[[२६६]]
धर्माकृते
तं वयं वै समाहर्तुं क्रतुं शक्ताः कथं तव । बालिशस्त्वं नरश्रेष्ठ गम्यतां स्वपुरं पुनः ॥
इति प्रत्याचख्युः । अनेन पित्रा गुरुणा च यत्कृतं तदनुसृत्यैव गन्तव्यं तयोर्निषेधो न कर्तव्य इत्ययं धर्मः सूचितः । ’ गुरोरलीकनिर्बन्धो न कर्तव्यः कदाचन । अनुमान्यः प्रसाद्यश्च गुरुः क्रुद्धो युधिष्ठिर ॥ शिष्यो गुरौ नरश्रेष्ठ प्रतिकूलं न संचरेत्’ इति विष्णुपुराणे ॥ ततः स राजा सक्रोधः क्रोधपर्याकुलाक्षरम्,

प्रत्याख्यातोऽस्मि गुरुणा गुरुपुत्रैस्तथैव च । अन्यां गतिं गमिष्यामि स्वस्ति वोऽस्तु तपोधनाः ।
इत्युक्तवान् ।
ऋषिपुत्रास्तु तच्छ्रुत्वा वाक्यं क्रोधाभिसंहितम् । शेपुः परमसंक्रुद्धाश्चण्डालत्वं गमिष्यसि ॥
इति ।
$
बालकाण्डः ।
[[२६७]]
अथ रात्र्यां व्यतीतायां राजा चण्डालतां गतः । नीलवस्त्रधरो नीलः परुषो ध्वस्तमूर्धजः ॥
अनेन गुरोरतिनिर्बन्धोऽशास्त्रीयः, दुर्लभकामनया च प्रवृत्तस्य एतादृशी गतिर्भवतीति च सूचितम् । अतो गुरुनिर्बन्धो न कर्तव्यो यतोऽयं महापातकसदृशः । तथा च मनुः - ‘महान्ति पातकान्याहुः संसर्गश्वापि तैः सह ॥ अनृतं च समुत्कर्षे राजगामि च पैशुनम् ॥ गुरोश्चालीकनिर्बन्धः समानि ब्रह्महत्यया’ इति । ततः स राजा धृतचण्डालवेषः, मन्त्रिपुरोहितजानपदैव रा. ज्यात्परिभ्रंशितः, इतस्ततः संचरन्नुमे तपसि वर्तमानं विश्वामित्रमासाद्य, किमागमनकृत्यं केन वा निमित्तेन चण्डालरूपधारणम्’ इति स पृष्टः, सर्वमस्मै निजवृ- तान्तमाचख्यौ । ततस्तद्वचनमाकर्ण्य करुणया स्पर्धया च त्रिशङ्कोः स्वशरीरेणैव स्वर्गगमन संपादकयज्ञनिर्वाहाय नानादिगन्तवास्तव्यऋषिगणान्समानीय यज्ञसंभाराय शि- ध्यानाज्ञापयामास । विदितवृत्तान्ता वासिष्ठाः


धर्माते
क्षत्रियो याजको यस्य चण्डाल च विशेषतः । कथं सदसि भोक्तारो हविस्तस्य सुरर्षयः ॥
ब्राह्मणा वा महात्मानो भुक्त्वा चण्डालभोजनम् । कथं स्वर्ग गमिष्यन्ति विश्वामित्रेण पालिताः ॥
[[1]]
इत्यवदन् । अनया क्षत्रिययाजकत्वनिन्दया ब्राह्मणाना- मेवात्विज्यमिति सूचितम् । तथा च आपस्तम्बः - ‘ब्रा- झणानात्र्त्विज्यं सोमेन यक्ष्यमाणो ब्राह्मणार्षेयानृत्विजो वृणीते । ब्राह्मणस्याधिकाः प्रवचनयाजनप्रतिग्रहाः’ इति । बोधायनोऽपि ‘ब्राह्मणा ऋत्विजः’ इति । जैमिनिरपि ‘प्रभुत्वादाविज्यं सर्ववर्णानां स्यात्’ इति द्वादशा- त्याधिकरणे विद्यावत्त्वाविशेषात्सर्वेषामार्त्विज्यं पूर्व- पक्षं प्रापय्य, ‘स्वकर्म ब्राह्मणस्य यजनं याजनमध्ययनम- ध्यापनं दानं प्रतिग्रहणम्’ इति । गौतमोऽपि ‘क्रत्वर्थ- तया ब्राह्मणानामेवार्त्विज्यम्’ इति नियमनात् ‘ब्रा- ह्मणानामिद हविः नेहाब्राह्मणस्यास्ति’ ‘एते वै देवाः प्रत्यक्षं यद्राह्मणाः’ इति मन्त्रलिङ्गाश्च ब्राह्मणानामेवा -बालकाण्डः ।
[[१६९]]
त्विज्यमिति सिद्धान्तितवान् । ’ चण्डालस्य विशेषतः ’ इति विशिष्य चण्डालयाजननिन्दाश्रवणात्सामान्यतोऽया- ज्ययाजनं न कर्तव्यमिति गम्यते । तथा च्छन्दोग- ब्राह्मणमयाज्ययाजने ‘दक्षिणास्त्यक्तमासचतुर्थे काले भुञ्जानः कानीत्येतद्द्वायेत्’ इति । सुमन्तुरपि - ‘शूद्र- याजकः सर्वद्रव्यपरित्यागात्पूतो भवति’ । वसिष्ठोऽपि — ‘दक्षिणात्यागात्पूतो भवतीति च विज्ञायते ’ । मनुरपि- ‘अयाज्ययाजनैश्चैव नास्तिक्येन च कर्मणाम् । कुलान्या- शु विनश्यन्ति यानि हीनानि मन्त्रतः’ इति । बोधायनो- ऽपि - ‘बहु प्रतिग्राह्यस्य प्रतिगृह्याप्रतिमाह्यस्य वा याज्यं वा याजयित्वानाभ्यान्नस्य वान्नमशित्वा तरत्समन्दीयं जपेत् ’ इति । आश्वलायनोऽपि - ‘अगमनीयां गत्वा अप्रति- ग्राह्यं प्रतिगृह्य अयाज्यं याजयित्वा पुनर्मामित्यृचं जपे - त्’ इति । सुमन्तुः – ’ अभिशस्तपतितपौनर्भव भ्रूणहपुं- वल्याशुचिशस्त्रकरतैलिकचा क्रिकध्वजिस्वर्णकारालेख्यक- पकवार्धुषिकाच गणिकसौमिकव्याधनिषादरजकबुरुड- चर्मकरा अभोज्यान्ना अप्रतिमाह्या अयाज्याच’ इति । अत्र
}
[[૨૦૦]]
धर्माकूते
सकलधर्मशास्त्रकार चण्डालस्य अयाज्येषु परिगणनम्, चण्डालपतितावेक्षणे दुष्टमिति चण्डालदृष्टहविषो यज्ञा- नईतया तद्याजनमत्यन्तमप्रसक्तमिति । अत एव च मूले
क्षत्रियो याजको यस्य चण्डालस्य विशेषतः । कथं सदसि भोकारो हविस्तस्य सुरर्षयः ॥
इति । एवमधिकारिणो यजमानस्य शुद्धैः ऋत्विग्भिः शुद्धद्रव्योपकरणैश्च कृत एव यागो देवताप्रीतिकर इति सूचितम् । तथा च श्रुतिः - ‘शुचिमध्वरं देवा जुष- न्ति । शुचिकामा हि देवाः शुचयश्च । तदेषाभिवदति । शुची वो हव्या मरुतः शुचीनाम् । शुचि‍ हिनोम्य- ध्वरं शुचिभ्यः । ऋतेन सत्यमृतसाप आयन् शुचिज - न्मानः शुचयः पावकाः’ इति । महाभारते आनुशा- सनिकेऽपि — ‘सुशुद्धैर्यजमानैश्च ऋत्विग्भिश्च तथाविधः । शुद्धैर्द्रव्योपकरणैर्यष्टव्यमिति निश्वयः ॥ तथाविधेषु यज्ञेषु देवानां तोषणं भवेत् । तुष्टेषु देवसंघेषु यज्ञी यज्ञफलं लभेत् ॥ तस्माद्यज्ञाद्दिवं यान्ति अमरैः सह मोदते
[[1]]
बाळकाण्डः ।
[[२७१]]
इति । वनपर्वणि तार्क्ष्यसरस्वतीसंवादे - न चाशुचिर्ना - प्यनिर्णिक्तपाणिर्नाब्रह्मविज्जुहुयान्नाविपश्चित् । बुभुक्षवः शुचिकामा हि देवा नाश्रद्दधानाद्धि हविर्जुषन्ति ॥ ना- श्रोत्रियं देवहव्ये नियुञ्जान्मोघं पुरा सिध्वति तादृशो हि । अपूर्वमवियमाह तार्क्ष्य न वै तादृग्जुहुया - दमिहोलम्’ इति ॥
ब्राह्मणा वा महात्मानो भुक्त्वा चण्डालभोजनम् । कथं स्वर्ग गमिष्यन्ति विश्वामित्रेण पालिताः ॥
शरः-

इन चण्डालान्नमभोज्यमित्युक्तम् । तथा च परा- मुक्तेऽज्ञानाद्दिजश्रेष्ठचण्डालान्नं कथंचन । गो- मूत्रयावकाहारो दशरात्रेण शुद्धयति । अन्त्यावसायिना- मन्नमश्नीयाद्यश्च कामतः । स तु चान्द्रायणं कुर्यात्तत- कृच्छ्रमथापि वा ॥ चण्डाखातवापीषु पीत्वा सलिल- मग्रजः । अज्ञानाश्चैव भक्तेन अहोरात्रेण शुध्यति ’
[[1]]
इति । आपस्तम्बोऽपि – ’ तत्तोयं यः पिबेद्विप्रः काम- तोऽकामतोऽपि वा । अकामान्नक्तभोजी खादहोरात्रेण
[[૨૦૨]]
धर्माकूते
कामतः’ इति । ’ चण्डालभाण्डसंसृष्टं पीत्वा कूपगतं जलम् । गोमूत्रयवकाहारस्त्रिरात्राच्छुद्धिमाप्नुयात् ॥ च ण्डालघटसंस्थं तु यस्तोयं पिबति द्विजः । तत्क्षणारिश- प्यते यस्तु प्राजापत्यं समाचरेत् ॥ यदि न क्षिप्यते तोयं शरीरे यथ जीर्यते । प्राजापत्यं न दातव्यं कृच्छ्रं सांतपनं चरेत्’ इति । ततस्तद्वचनश्रवणसंजातकोपो विश्वामित्रः,
भस्मीभूता दुरात्मानो भविष्यन्ति न संशयः । श्वमांसनियताहारा मुष्टिका नाम निर्घृणाः ॥ विकृताश्च विरूपाश्च लोकाननुचरन्त्विमान् ।
इति शशाप । तेऽपि वासिष्ठाः समहोदयास्तच्छापो- क्तदशामवापुः । अनेन महतां दूषणं न कर्तव्यम् इति सूचितम् । ततस्तच्छापभयान्महर्षिभिः प्रवर्तिते यज्ञे स्वस्वभागग्रहणायानागतान्देवानवलोक्य
ततः क्रोधसमाविष्टो विश्वामित्रो महामुनिः । स्रुवमुद्यम्य सक्रोधस्त्रिशंकुमिदमब्रवीत् ॥
बालकाण्डः ।
पश्य मे तपसो वीर्य स्वार्जितस्य नरेश्वर । एष त्वां स्वशरीरेण नयामि स्वर्गमोजसा ॥
[[૨૦૧]]
स्वार्जितं किंचिदप्यस्ति मया हि तपसः फलम् । राजंस्त्वं तेजसा तस्य सशरीरो दिवं व्रज ॥
इत्युक्तवान् । तद्वचनसमनन्तरमेव देवलोकगतं त्रिशङ्कु- मवलोक्य जातमन्युः शतमन्युः
त्रिशङ्को गच्छ भूयस्त्वं नासि स्वर्गकृतालयः । गुरुशापहतों मूढ पत भूमिमवाक्शिराः ॥
इति समाज्ञप्तवान् । अत्र गुरुशापदग्धानां प्रतिकारो नास्तीति पूर्वमेव निरूपितम् । तदाज्ञया पुनरपि स्वर्गा- त्पतन्तं तं वायस्वेति ब्रुवाणं विशङ्कुमवलोक्य, क्रोधा- कुलहृदयः दक्षिणमार्गस्थान्सप्तषन्नक्षत्रमालां चासृजत् ।
अन्यमिन्द्रं करिष्यामि लोको वा स्यादनिन्द्रकः ।
इति वदन् दैवतानपि स्रष्टुमुपचक्रमे । ततः संभ्रान्त-
[[૨૦૨]]
धर्माकूते
देवर्षिगण प्रार्थनया वैश्वानरपथाद्वहिखिशङ्करवाक्शिरोरु- पेणावस्थानमङ्गीकुर्वन् स्वप्रतिज्ञानिर्वाहणजनितानन्दः, यज्ञसमाप्तिमकरोत् ॥
ततो देवा महात्मानो मुनयश्च तपोधनाः । जग्मुर्यथागतं सर्वे यज्ञस्यान्ते नरोत्तम ॥
अत्र विश्वामित्रस्य वसिष्ठस्पर्धया कर्मणि प्रवृत्तस्य चिरकालसमार्जितत पोव्ययेन, त्रिशङ्कोरप्युत्तमस्वर्गलोका- नावाप्तिरिति प्रतिपादनात्, महता सह स्पर्धा न कर्तव्येति सूचितम् । एकषष्टितमसर्गे - दक्षिणदिगवस्थानमात्रेणैव स्वतपोविन्नं मन्वानो विश्वामित्रः, पश्चिमां दिशमभि- गम्य कन्दमूलफलैः कृतनियताहारः उयं तपस्तेपे । अत्रा- न्तरे समारब्धयज्ञमम्बरीषमिन्द्रापहृतयज्ञियपशुमवलोक्य
पशुरद्य हृतो राजन्प्रनष्टस्तव दुर्नयात् । अरक्षितारं राजानं घ्नन्ति दोषा नरेश्वर ॥ प्रायश्चित्तमहं मन्ये नरं वा पुरुषर्षभम् ।
बालकाण्डः ।
[[२७५]]
इति ऋत्विगत्रवीत् । अनेन यज्ञमरक्षितुः राज्ञो
दोषोऽस्तीति सूचितम् ॥
आनयस्व पशुं शीघ्रं यावत्कर्म प्रवर्तते ।
इति तदुपाध्यायः समाप्तवान् । अम्बरीषोऽपि तदा-
। ज्ञया नरपशुसंपादनाय सर्वतः पर्यटन् मृगुतुङ्गे समा- सीनं सभार्यसूचीकमवलोक्य कथितनिजवृत्तान्तः
गवां शतसहस्रेण विक्रीणीषे सुतं यदि । पशोरर्थे महाभाग कृतकृत्योऽस्मि भार्गव ॥
इति पर्यपृच्छत् । तद्वचनश्रवणसमनन्तरं गोधनाशया
नाहं ज्येष्ठं नरश्रेष्ठ विक्रीणीयां कथंचन ।
इति स्वपित्रा ऋचीकेन कथिते, मात्रा
ममापि दयितं विद्धि कनिष्ठं शुनकं नृप । तस्मात्कनीयसं पुत्रं न दास्ये तव पार्थिव ॥
[[२७६]]
धर्माते
इत्यभिहिते, तत्पुत्रो मध्यमः शुनःशेपः
पिता ज्येष्ठमविक्रेयं माता चाह कनीयसम् ।- विक्रीतं मध्यमं मन्ये राजन्पुत्रं नयस्व माम् ॥
इति राजानमब्रवीत् । स च राजा मुदितमनाः,
मवां शतसहस्रेण शुनःशेपं नरेश्वरः । गृहीत्वा परमप्रीतो जगाम रघुनन्दन ॥
इति द्विषष्टितमसर्गे । ननु दानं क्रयधर्मश्चापत्यस्य न विद्यते । ‘आपदि व्यवहरेत पण्यानामपण्यानि व्युदस्या- न्मनुष्यान्’ इत्यापस्तम्बेन । तस्यापण्यमित्युपक्रम्य पुरु- पवशा कुमारी बेहतश्चेति गौतमेन । ‘अत गाथां यमे गीतां कीर्तयन्ति पुराविदः । यथान्योऽपि न विक्रेयः किं पुनः पुरुषः प्रजाः ॥ यो मनुष्यो मनुष्यस्य विक्रया- द्धनमिच्छति । तस्य मूत्रं पुरीषं च स परत्रोपजीवति’ इति मनुना चापत्यविक्रयस्य प्रतिषेधात् कथमत्र स कृत इति चेन्न तेषां वचनानां ज्येष्ठपुत्रैकपुत्रनिषे-
;
बालकाण्डः
[[૨૦૦]]
धपरत्वात् । तथा च मिताक्षरायां वसिष्ठः - ‘न ज्येष्ठपुत्रं दद्यागृह्णीयाद्वा स हि संतानाय पूर्वेषाम् ’ । बो- धायनोऽपि – ‘न त्वेकपुत्रं दद्यात्स हि संतानाय पूर्वेषाम्’ इति । दाननिषेधो विक्रयपरित्यागयोरप्युपलक्षकः । तथा च ज्येष्ठस्यैव कुलकरत्वेन तत्र तत्र प्रशंसा । श्रुतिस्तावत्- ‘ऋणमस्मिन्स अपत्यमृतत्वं च गच्छति पिता पुत्रस्य जातस्य पश्येचेज्जीवतो मुखम्’ इति । स्मृतिरपि - ‘ज्येष्ठेन जातमात्रेण पुत्री भवति मानवः । पितॄणामनृणश्चैव स तस्मात्सर्वमर्हति । यस्मिन्नृणं संनयति येन चामृतमश्रुते । स एव धर्मजः पुत्रः कामजानितरान्विदुः’ इति मनुः । तस्माज्ज्येष्ठपुत्रैकपुत्रयोः अविक्रेयता ; द्वितीयादीनां तु विक्रयः संभावितः । न च तत्र प्रमाणाभावः, ‘शोणित- शुक्लसंभवो मातृपितृनिमित्तकः, तस्य प्रदानपरित्याग- विक्रयेषु मातापितरौ भवतः’ इति बोधायनवचनस्य सामान्यतो विक्रयप्रापकस्य प्रमाणान्तरेण ज्येष्ठैकपुत्र- निषेधपरेण, तदितरविशेषपर्यवसन्नचैव प्रमाणत्वात् । यद्यपि सर्वकनिष्टस्य विक्रयः संभावितः, तथापि
[[२७८]]
धर्माकूते
मातुर्निरवधिकप्रीतिविषयत्वात्, मात्रा न विक्रीतः । सर्व- कनिष्ठत्वं च प्रीतिविषयत्वम् । तथा च महाभारते सभाप- र्वणि सहदेवं प्रति कुन्तीवचनम् — ‘सहदेव निवर्तस्व ननु त्वमसि मे प्रियः । शरीरादपि माद्रेय मामत्याक्षीः कुपुववत् ॥ व्रजन्तु भ्रातरस्तेऽपि यदि सत्याभिसंधिनः । मत्परित्राणजं धर्ममिहैव स्वमवाप्नुहि ’ । आश्रमवासे धर्मपुत्रं प्रति कुन्तीवाक्यम्- ‘सहदेवे महाराज मा प्रमादं कृथाः कचित् । एष मामनुरक्तो हि राजंस्त्वां चैव सर्वदा’ । तत्रैव - ‘सहदेवस्तु वेगेन प्राधावद्यत्र सा पृथा । सा च बाष्पाकुलमुखी ददर्श दयितं सुतम् ’ इति । ततः शुनःशेपस्तु चिन्ताकुलहृदयस्तेन राज्ञा सह गच्छन्, मध्येमार्ग पुष्करक्षेत्रे उप्रे तपसि वर्तमानं स्वमातुलं विश्वामित्रमभिगम्य
विषण्णवदनो दीनस्तृष्णया च श्रमेण च । पपाता मुनेराशु वाक्यं चेदमुवाच ह ॥ राजा च कृतकार्यः स्यादहं दीर्घायुरव्ययः । पितेव पुत्रं धर्मात्मखातुमईसि किल्बिषात्।बालकाण्डः ।
[[२७९]]
इति । तद्वचनश्रवणमात्रादेव संजातकरुणो विश्वा- मित्रः मधुष्यन्दादीन्खपुत्रानाहूय
यत्कृते पितरः पुत्राञ्जनयन्ति शुभार्थिनः । परलोकहितार्थाय तस्य कालोऽयमागतः ॥
अयं मुनिसुतो बालो मत्तः शरणमिच्छति । पशुभूता नरेन्द्रस्य तृप्तिमग्नेः प्रयच्छथ ॥ अस्य जीवितमात्रेण प्रियं कुरुत पुत्रकाः ।
इत्यवादीत् । अनेनात्मपुत्रपरित्यागेनापि शरणा- रक्षणमवश्यं कर्तव्यम् इति सूचितम् । तथा च श्रुतिः- ’ तस्मादपि वध्यं प्रपन्नं न प्रतिप्रयच्छति’ इति । तथा वनपर्वणि घोषयात्रायां भीमं प्रति युधिष्ठिरः- ‘अस्मा- नभिगतांस्तात भयार्ताशरणैषिणः । कौरवान्विषमं प्रा- प्रान्कथं ब्रूयास्त्वमीदृशम् ॥ य एव कश्चिद्राजन्यः शर- धार्थमिहागतम् । परं शक्त्याभिरक्षेत किं पुनस्त्वं वृको- दर ॥ क इहार्यो भवेत्राणमभिधावेति चोदितः । प्राञ्जलिं
२८०.
धर्माकूते
शरणापन्नं दृष्ट्वा शत्रुमपि ध्रुवम् । वरप्रदानं राज्यं च पुत्रं जन्म च पाण्डवाः । शत्रोश्च मोक्षणं कुशात्रीणि चैकं च तत्समम्’ इति । महाप्रस्थानिके इन्द्रं प्रति युधिष्ठिरः – ‘प्रतिप्रदानं शरणागतस्य स्त्रियो वधो ब्राह्मणस्वापहारः । मित्रद्रोहस्तानि चत्वारि शक भक्तत्वागश्चैव समं मतो मे’ इति । ततः
कथमात्मसुतान्हित्वा त्रायसेऽन्यसुतं विभो । अकार्यमिव पश्यामः श्वमांसमिव भोजने ॥
इति प्रतिवदतो मधुच्छन्दादीन्स्वपुत्रान्सहस्रवर्षपर्यन्तम् श्वमांसभोजिनः सर्वे पृथिव्यामनुवत्स्यथ ।
इति शशाप । अनेनौद्धत्येन पितुराज्ञाप्रतिकूलवचन- रूपाद्यवज्ञया महादोषो भवति । तथा च मनुः - ‘पितृ- मातृगुरूणां च येऽवज्ञां चक्रुरुद्धताः । त इमे पूयविण्मूत्रगर्ते मज्जन्त्यधोमुखाः ॥ गर्दभो जायते जन्तुः पित्रोश्चाप्यवमा- नकृत् ॥ आक्रुश्य मातापितरौ शारिका संप्रजायते । तावेव पीडयित्वा तु कच्छपः संप्रजायते ॥ परिवादीखगे भवति वा वै भवति निन्दकः । परिभोक्ता क्रिमिर्भ-
श्वा
बालकाण्डः ।
[[२८१]]
वति कीटो भवति मत्सरी ॥ आचार्यश्व पिता चैव माता भ्राता च पूर्वजः । नार्तेनाप्यवमन्तव्या ब्राह्मणेन विशेषतः ’ इति । आनुशासनिकेऽपि – ‘सम्यमिध्याप्रवृ- तेऽपि वर्तितव्यं गुराविह । गुरुनिन्दा दहत्वायुर्मनुष्याणां न संशयः’ इति । ततो मुनिकुमारकाय अम्बरीषयज्ञसा- गुण्यकरं सकृज्जपादेव इन्द्रतदनुजप्रीतिकरं गाथाद्वय- मुपदिदेश । ततः समारब्धयज्ञेन राज्ञा पशुतया यूपे नियोजितमुनिकुमारकगीयमानगाथाद्वयश्रवणमात्रादेव त-
र्पितः सहस्राक्षः
दीर्घायुस्तु तदा प्रादाच्छुनःशेपाय राघव । स च राजा नरश्रेष्ठ यज्ञस्य च समाप्तवान् ॥
फलं बहुगुणं राम सहस्राक्षप्रसादजम् । विश्वामित्रोऽपि धर्मात्मा भूयस्तेपे महत्तपः । पुष्करेषु नरश्रेष्ठ दशवर्षशतानि च ॥
त्रिषष्टितमसर्गे - भूयोऽपि तपञ्चरन्विश्वामित्रः
D 23
.२८२
धर्माकूते
ऋषिस्त्वमसि भद्रं ते स्वाजितैः कर्मभिः शुभैः ।
इति ब्रह्मणा समादिष्टोऽप्यपरिपूर्णमनोरथ एव पुनरपि तपश्चरन्रूपयौवनशालिनीं संदर्शनमात्रेण सकलजनमो- हिनी मेनकां संप्रेक्ष्य कंदर्पवशगः तया सह दश वर्षाणि सुखमन्वभवत् । ततस्तपोविधातमवेक्ष्य परित्यज्य मेनकां पुनरपि तपश्चरणायोत्तरस्यां दिशि कौशिकीतीरमासाद्य, तत्रोत्रं तपः समाचरन् ब्रह्मणा महर्षित्वप्रदानपूर्वकं सबहु- मानमाहूतोऽपि ब्रह्मर्षित्वमभिलवन्
ऊर्ध्वबाहुर्निरालम्बो वायुभक्षोऽचरन्तपः । धर्मे पञ्चता भूत्वा वर्षास्वाकाशसंश्रयः । शिशिरे सलिलस्थायी राज्यहानि तपोधनः ।
चतुःषष्टितमपञ्चषष्टितमयोः – ततः स्वसमाधिभीरु- भिर्देवैस्तपोविघाताय प्रहितां रम्भाम्
दश वर्षसहस्राणि शैली स्थास्यसि दुर्भगे ।
बालकाण्डः ।
[[२८३]]
इति विश्वामित्रः शशाप । अनेन धर्मविघातो न
कर्तव्यः इति सूचितम् ।
तस्य शापेन महता रम्भा शैली तदाभवत् । कोपेन स महातेजास्तपोपहरणे कृते ॥ इन्द्रियैरजितै राम न लेभे शान्तिमात्मनः ॥
अनेन जितेन्द्रियाणामेव तपः सिद्धिरिति इन्द्रियज- योऽवश्यं कर्तव्य इति च सूचितम् । तथा च मनुः— ‘इन्द्रियाणां जये योगं समातिष्ठेद्दिवानिशम् । जिते- न्द्रियो हि शक्नोति वशे स्थापयितुं प्रजाः । अकुर्वन्वि- हितं कर्म निन्दितं च समाचरन् ॥ प्रसजंश्चेन्द्रियार्थेषु नरः पतनमृच्छति’ इति । गीतायामपि — ’ यततो ह्यपि कौन्तेय पुरुषस्य विपश्चितः । इन्द्रियाणि प्रमाथीनि हरन्ति प्रसभं मनः ॥ तानि सर्वाणि संयम्य युक्त आसीत मत्परः । वशे हि यस्येन्द्रियाणि तस्य प्रज्ञा प्रतिष्ठिता । इन्द्रिया- णां हि चरतां यन्मनोऽनुविधीयते । तदस्य हरति प्रज्ञां

[[२८४]]
धर्माांकूते
वायुर्नावमिवाम्भसि ॥ तस्माद्यस्य महाबाहो निगृहीतानि सर्वशः। इन्द्रियाणीन्द्रियार्थेभ्यस्तस्य प्रज्ञा प्रतिष्ठिता’ इति । मनुरपि– ’ वेदास्त्यागश्च यज्ञाश्च तपांसि नियमास्तथा । न विप्रदुष्टभावस्य सिद्धिं गच्छन्ति कर्हिचित् ॥ श्रुत्वा स्ष्टष्ट्वा च दृष्ट्वा च भुक्का घ्रात्वा च यो नरः । न हृष्यति ग्लायति वा स विज्ञेयो जितेन्द्रियः ॥ इन्द्रियाणां प्रसङ्गेन दोषमृच्छत्यसंशयः । संनियम्य तु तान्येव ततः सिद्धिं स गच्छति ॥ इन्द्रियाणां तु सर्वेषां यद्येकं क्षरतीन्द्रियम् । तदस्य हरति प्रज्ञां दृतेः पादादिवोदकम् ॥ वशे कृत्वेन्द्रि- यग्रामं संनियम्य मनस्तथा । सर्वान्संसाधयेदर्थानक्षिण्व- न्योगतस्तनुम्’ इति । महाभारते राजधमें— ‘प्रसृतै- रिन्द्रियैर्दुःखितैरेव नियतैः सुखी । तस्मादिन्द्रियरूपेभ्यो यच्छेदात्मानमात्मनि ’ इति ।
बभूवास्य पुनश्चिन्ता तपोपहरणे कृते । नैवं क्रोधं गमिष्यामि न च वक्ष्ये कथंचन ॥
अनेन जितक्रोधानामेव तपआदिधर्मसिद्धेः क्रोधो
बालकाण्डः ।

[[૨૫]]
न कर्तव्य इति सूचितम् । तथा च मनुः— ‘क्रोधो हि धर्म हरति यतीनां दुःखसंचितम् । ततो धर्म- विहीनानां गतिरिष्टा न विद्यते ’ । वनपर्वणि द्रौपदीं प्रति युधिष्ठिरवचनम् - ‘क्रोधो हन्ता मनुष्याणां क्रोधो भा- afयता पुनः । इति विद्धि महाप्राज्ञ क्रोधमूलौ भवाभवौ । क्रुद्धः पापं न कुर्यात्कः क्रुद्धो हन्याङ्कुरूनपि । क्रुद्धः परुषा वाचा श्रेयसोऽप्यवमन्यते । एवमिन्द्रियनि- ग्रहको जयपूर्वकम्,
पूर्वी दिशमनुप्राप्य तपस्तेपे सुदारुणम् । तस्य वर्षसहस्रस्य व्रते पूर्णे महाव्रतम् । भोक्तुमारब्धवानचं तस्मिन्काले रघुत्तम ॥
इन्द्रो द्विजातिर्भूत्वा तं सिद्धमन्नमयाचत । तस्मै दत्त्वा तदा सिद्धं सर्वे विप्राय निश्चितः ॥
अनेन वैश्वदेवान्ते समागतोऽतिथिः स्वयमुपोष्यापि स्वीयान्नप्रदानेन संभोज्य इति सूचितम् । तथा च कठवल्ल्यां नाचिकेताः स्वपितृसमारब्धयज्ञदक्षिणात्वेन
[[૨૬]]
धर्माकूते
पीतोदकजग्धतृणदुग्धदोहनिरिन्द्रियगोप्रदानेन पितुरा- नन्द लोकगमने कत्वसंपत्तिनिमित्तमनिष्टं भवतीति त- निरसनाय कस्मै मां दास्यसीति पुनः पुनः पप्रच्छ । पिता क्रोधेन मृत्यवे त्वा दास्यामीत्युवाच । स च पितु- वचनपरिपालनमेव गरीयान्धर्म इति तद्वचनगौरवेण यम- भवनं गत्वा, प्रोषिते यमे तिस्रो रात्रीरपूजित एव उवास । प्रोष्यागतं यमममात्या ऊचुः – ‘वैश्वानरः प्रवि- शत्यतिथिर्ब्राह्मणो गृहान् । तस्यैताँ शान्ति कुर्वन्ति हर वैवस्त्रतोदकम् । आशाप्रतीक्षे संगत सूनृतां चेष्टापूर्ते पुत्रपशूंश्च सर्वान् ॥ एतद्दृते पुरुषस्याल्पमेधसो यस्या- नश्नन्वसति ब्राह्मणो गृहे’ इति । ततो मृत्युः ‘तिस्रो रात्री-
वात्सर्गृहे मेननब्रह्मन्नतिथिर्नमस्यः । नमस्तेऽस्तु ब्रह्मन्स्वस्ति मेsस्तु तस्मात्प्रति त्रीन्वरान्वृणीष्व’ इत्येवं प्रसाद्य दिनत्रयमनशनेन स्वगृहनिवासदोषपरिहाराय वर- वयं प्रादात् इति । तैत्तिरीयश्रुतावपि — ‘यो मा ददाति स इदेव मा वा अहमन्नमन्नमदन्तमधि पूर्वममेरपि दह- त्यन्नम्’ इति । बोधायनोऽपि - ‘यो मामदत्त्वा पितृदेव-
1 ।
बाळकाण्डः ।
[[२८७]]
ताभ्यो भृत्यातिथीनां च सुहृज्जनस्य । संपन्नमश्नन्विष-
· मत्ति मोहात्तमद्मि हन्तस्य च मृत्युरस्मि ॥ कृताग्निहोत्रः कृतचैश्वदेवो भृत्यातिथीन्वन्धुजनावशिष्टम् । तुष्टः शुचिः श्रवत्ति यो मां तस्यामृतं स्यां स च मां भुनक्ति’ इति । आपस्तम्बोsपि - ‘काले स्वामिनावन्नार्थिनौ न प्रत्याचक्षीयाताम् । अभावे भूमिरुदकं तृणानि कल्याणी वागित्येतानि वै सतोsगारे न क्षीयन्ते कदाचन । इत्येवं वृत्तौ अनन्तलोकौ भवतः ’ इति । आपस्तम्बोदाहृतब्राह्म- णमपि - ‘स एष प्राजापत्यः कुटुम्बिनो यज्ञो नित्यः प्रततः । योऽतिथीनामग्निः स आहवनीयः यः कुटुम्बे स गार्हपत्यो यस्मिन्पच्यते सोऽन्वाहार्यपचनः ऊर्ज पुष्टि प्रजां पशूनिष्टापूर्तमिति गृहाणामश्नाति । यः पूर्वोऽति- थेरवाति पय उपसेचनमन्नमग्निष्टोमसमितं सर्पिषोक्थ्य- संमितं मधुनातिरात्रसंमितं मांसेन द्वादशाहसंमितमुदके प्रजावृद्विरायुषञ्च प्रियाप्रियायातिथयः स्वर्गे लोकं गमय- न्तीति विज्ञायते स यत्प्रातर्मध्यंदिने सायमिति ददाति सवनान्येव तानि भवन्ति यदनुतिष्ठत्युदवस्यत्येव तत् ।
[[૨૦૨]]
धर्माकूते
यत्सान्त्वयति सा दक्षिणा प्रशंसा यत्संसाधयति ते विष्णुक्रमाः । यदुपावर्तते सोऽवभृथ इति हि ब्राह्मणम्’ । मनुरपि - ’ कृत्वैतद्बलिकर्मैवमतिथिं पूर्वमाशयेत् । सं- प्राप्ताय त्वतिथये प्रदद्यादासनोदके ॥ अनं चैव यथाशक्ति सत्कृत्य विधिपूर्वकम् । अग्नौ हुत्वा विधानेन यत्पुण्यफ- लमश्नुते । तेन तुल्यं समं वापि ब्राह्मणे तर्पिते फलम् । अतिथिर्यस्य भग्नाशो गृहात्प्रतिनिवर्तते ॥ स दत्त्वा दुष्कृतं तस्मै पुण्यमादाय गच्छति । सिलेनाप्युक्तो नित्यं प- श्वानीनपि
नीनपि जुह्वतः ॥ सर्व सुकृतमादत्ते ब्राह्मणो नार्चि- तो वसन्’ इति । आश्वमेधिकेऽपि – ‘साङ्गोपाङ्गांस्तथा वेदान्तीह दिने दिने । न चातिथिं पूजयति वृथा स पठति द्विजः । पाकयज्ञैर्महायज्ञैः सोमसंस्थाभिरेव च । ये यजन्ति न चार्चाभिर्गृहेष्वतिथिमागतम् ॥ तेषां यशो- र्थकामानां दत्तमिष्टं च यद्भवेत् । वृथा भवति तत्सर्व- माशया हतया हतम् ॥ वैश्वदेवान्तिके प्राप्तमतिथि यो न पूजयेत् । स चण्डालत्वमाप्नोति सद्य एव न संशयः ॥ नैव स्वयं तदश्नीयादतिथिं यन्न पूजयेत् । धन्यं यशस्य-
।*
पाखकाण्डः
[[२८९]]
मायुष्यं स्वर्ग्य चातिथिपूजनम्’ । तथा शातातपोऽपि 4 स्वाध्यायेनाग्निहोत्रेण यज्ञेन तपसा तथा । नावाप्नोति गृही लोकान्यथा त्वतिथिपूजनात्’ इति । आनुशास- “निके— ‘अतिथिः पूजितो यद्धि ध्यायते मनसा शुभम् । न तत्क्रतुशतेनापि तुल्यमाहुर्मनीषिणः’ । आरण्यके पर्वणि तार्क्ष्यसरस्वतीसंवादे - ‘यो दत्त्वातिथिभूतेभ्यः पितृ- भ्यश्च द्विजोत्तमः । शिष्टान्यन्नानि यद्भुङ्गे किं वै सुखतरं ततः ॥ अतो मृष्टतरं नान्यन्न्यूनं किंचिच्छतक्रतौ दत्त्वा यस्त्वतिथिभ्योऽन्नं भुङ्क्ते तेनैव नित्यशः ॥ यावतो धन्वसः पिण्डानश्नाति सततं द्विजः । तावता गोसह- स्राणां फलमाप्नोति दायकः ॥ कपिलायां तु दत्तायां यत्फलं ज्येष्ठपुष्करे । तत्फलं भरतश्रेष्ठ विप्राणां पादधा- वने ॥ द्विजपादोदकक्लिन्ना यावत्तिष्ठति मेदिनी । ताव- पुष्करपर्णेन पिबन्ति पितरो जलम् ॥ स्वागतेनाग्नयस्तृ- सा आसनेन शतक्रतुः । पितरः पादशौचेन अन्नाद्येन प्रजापतिः’ इति ।
निःशेषितेऽ भगवानभुक्त्वैव महातपाः ।
D 24
[[૨૦]]
धर्माकूते
तथैवासीत्पुनर्मौनमनुच्छ्रासं चकार ह । तस्यानुच्छ्रसमानस्य मूर्ध्नि धूमो व्यजायत ॥
त्रैलोक्यं येन संभ्रान्तमादीपितमिवाभवत् । व्याकुलाश्च दिशः सर्वा न च किंचित्प्रकाशते ।
सागराः क्षुभिताः सर्वे विशीर्यन्ते च पर्वताः । प्रकम्पते च पृथिवी वायुर्वाति भृशाकुलः ॥
एवं त्रैलोक्यसंक्षोभकरं तपस्तपस्यन्तं तमृषिमवलोक्य
ब्रह्मर्षे स्वागतं तेऽस्तु तपसा स्म सुतोषिताः । ब्राह्मण्यं तपसोप्रेण प्राप्तवानसि कौशिक ॥
इति वदन्तं ब्रह्माणम्
कृत्वा प्रणाममुदितो व्याजहार महामुनिः । ब्राह्मण्यं यदि मे प्राप्तं दीर्घमायुस्तथैव च । ओंकारा वषट्कारो वेदाश्व वरयन्तु माम् ॥
बालकाण्डः ।
क्षत्रवेदविदां श्रेष्ठो ब्रह्मवेदविदामपि । ब्रह्मपुत्रो वसिष्ठो मामेवं वदतु देवताः ॥
इति प्रार्थयामास ।
[[3]]
ततः प्रसादितो देवैर्वसिष्ठो जपतां वरः । सख्यं चकार ब्रह्मर्षिरेवमस्त्विति चाब्रवीत् ॥ ब्रह्मर्षिस्त्वं न संदेहः सर्वे संपत्स्यते तव ।
[[२११]]
इति वसिष्ठवाक्येन ब्राह्मण्यं प्राप्तम्, ब्राह्मणसा- धारणधर्माच सर्वेऽपि प्राप्ता इत्युक्तं भवति । इति पश्च- षष्टितमः सर्गः ।
तदनु वसिष्ठवचनसमनन्तरं प्राप्तब्रह्मर्षिभावः महाप्रभा- वोऽयं कौशिक इति शतानन्दवचनश्रवणेन जनितानन्दो ‘जनकमहाराजः तं तपोनिधिं बहुधा प्रशस्य,
कर्मकालो मुनिश्रेष्ठ लम्बते रविमण्डलम् । स्वागतं तपतां श्रेष्ठ मामनुज्ञातुमईसि ॥
इति प्रार्थनापूर्वक रामलक्ष्मणाभ्यां सह विश्वामित्रं
[[२९२]]
धर्माकूते
विससर्ज । षट्षष्टितमे ततः प्रभाते कृतपूर्वाहिक-
। क्रियो विश्वामित्रः रामलक्ष्मणाभ्यां सह जनकसमीप - मागत्य तत्कृतासनपाद्याद्यर्थ्यपूजां प्रतिगृह्ण, किं करो- म्याज्ञापयतु भवानिति सादरं पृष्टः त्वद्गृहे न्यासभूतं नूरनं द्रष्टुकामाविमौ रामलक्ष्मणौ, तद्दर्शयतु भवा- नित्यब्रवीत् । स च राजा ‘दक्षयज्ञे स्वभागपरिक- रूपनजनितरोषेण सकलदेवनिषूदनाय धनुरायम्य प्रवृ- वेन महादेवेन सकलदेवप्रार्थनया निवृत्तकोपेन प्रत्तं धनू- रत्नं देवाः निमेः षष्ठे देवराते न्यासं चकुः । अथ क्षेत्रं कृपतो मम भूतलादुत्थितां सीतां तद्धनुरारोपपण्यां कृत- चते देयेति वीर्यशुल्कतया स्थापितामुपत्य, समागतैर्ध– सुषस्वोलनेऽप्यसमर्थानवगत्य प्रत्याख्यातैः तेन च कोपेन संवत्सरं मिथिलामुपरुन्वद्भिः प्रक्षीणवलः, देवप्रार्थनया पुनर्लब्धचतुरङ्गबलेन सर्वाजितवानस्मि । तदाप्रभृति तद्वारोपणसमर्थ पुरुषं कामतो मम इदं धनूरनं रामो यारोपयिष्यति,
सुतामयोनिजां सीतां दद्यां दाशरथे रहम् ।
जष्ट्रः ।
[[२९३]]
इत्वकथयत् ॥
सप्तषष्टितमे - ततो धनूरनमानीयतामिति विश्वा- मित्रसंचोदितो जनकः, अब्रुचक्रमञ्जूषागतं महाबलयुक्तप- श्वशतमनुष्यैर्यत्नेन समानीतं धनूरनं विश्वामित्राय निवे- दयामास । ततो विश्वामित्रेण सचोदितो रामः मञ्जूषा- मपावृत्य सलीलं धनूरनं मध्ये गृहीत्वा ज्यामारोप्य पूरयन्
बभञ्ज-
[[1]]
तस्य शब्दो महानासीन्निर्घातसमनिस्वनः । भूमिकम्पश्च सुमहान्पर्वतस्येव दीर्यतः ॥
निपेतुश्च नराः सर्वे तेन शब्देन मोहिताः । वर्जयित्वा मुनिवरं राजानं तौ च राघवौ ॥
ततस्तीर्ण प्रतिज्ञो जनको देवदानवादिभिरप्यशक्या- रोपणधनुरनभञ्जनेन विस्मयाविष्टहृदयो विश्वामित्रेण सह रामाय सीताप्रदानं विनिश्चित्य, तदनुज्ञया दशरथा- नयनाय शीघ्रगान्तान्प्रेषयामास ।
[[२९४]]
अष्टषष्टितमसर्ग-
धर्माकूते
जनकेन समादिष्टा दूतास्ते क्लान्तवाहनाः । त्रिरात्रमुषिता मार्गे तेऽयोध्यां प्राविशन्पुरीम् । ते राजवचनाहूता राजवेश्म प्रवेशिताः ॥
राजानं प्रयता वाक्यमब्रुवन्मधुराक्षरम् । पृष्ट्रा कुशलमव्यनं वैदेहो मिथिलाधिपः ॥
कौशिकानुमते वाक्यं भवन्तमिदमब्रवीत् । पूर्व प्रतिशा विदिता वीर्यशुल्का ममात्मजा ॥
यदृच्छयागतैर्वीरैर्निर्जिता तव पुत्रकैः । तच्च राजन्धनुर्दिव्यं भग्नं रामेण धीमता ॥
अस्मै देया मया सीता वीर्यशुल्का ममात्मजा । शीब्रमागच्छ भद्रं ते द्रष्टुमर्हसि राधवौ ॥
इत्युक्त्वा विरता दूता राजगौरवशंसिनः । सुप्रीतश्चाब्रवीद्राजा श्वो यात्रेति स मन्त्रिणः ॥
बालकाण्डः ।
[[२९५]]
एकोनसप्ततितमे - ततः प्रभाते चतुरङ्गबलपरिवृतो राजा वसिष्ठामदेवादिद्विजान्पुरस्कृत्य,
गत्वा चतुरहं मार्ग मिथिलामभ्युपेयिवान् ।
ततस्तदागमनजनितानन्देन जनकेन शतानन्दं पुर- स्कृत्य स्वागतादिकुशलप्रश्नपूर्वकं पूजां कुर्वता
श्वः प्रभाते नरेन्द्रेदं निर्वर्तयितुमर्हसि । यशस्यान्ते नरश्रेष्ठ विवाहमृषिसंमतम् ॥
-इति पृष्टो दशरथः-
प्रतिग्रहो दातृवशः श्रुतमेतन्मया पुरा । aar aere धर्म तत्करिष्यामहे वयम् ॥

  • इति प्रत्यवादीत् ।
    सप्ततितमस- जनकोऽपि तद्वचनश्रवणसमनन्तरं शतानन्दाभ्यनुज्ञया भ्रातरं कुशध्वजं समानीय कथित- निजवृत्तान्तः तेन सह संमन्त्र्य सुदामानं मन्त्रिश्रेष्ठं
    [[२९६]]
    धर्माकूते
    स्वगृहं प्रति दशरथानयनाय प्रेषयामास । दशरथोऽपि मन्त्रिपुरोहितबान्धवसमेतो जनकसमीपमागम्य —
    विश्वामित्राभ्यनुज्ञातः सह सर्वैर्महर्षिभिः । एष वक्ष्यति धर्मात्मा वसिष्ठो मे यथाक्रमम् ॥
    इत्यब्रवीत् । वसिष्ठोऽपि -
    अव्यक्तप्रभवो ब्रह्मा शाश्वतो नित्य अव्ययः । तस्मान्मरीचिः संजज्ञे मरीचेः कश्यपः सुतः ॥
    fararrareपाज्जज्ञे मनुर्वैवस्वतः स्मृतः । मनुः प्रजापतिः पूर्वमिक्ष्वाकुस्तु मनोः सुतः ॥
    तमिक्ष्वाकुमयोध्यायां राजानं विद्धि पूर्वकम् । इक्ष्वाकोस्तु सुतः श्रीमान्कुक्षिरित्येव विश्रुतः ॥
    कुक्षेरथात्मजः श्रीमान्विकुक्षिरुदपद्यत । विकुक्षेस्तु महातेजा बाणः पुत्रः प्रतापवान् ॥
    बालकाण्डः ।
    बाणस्य तु महातेजा अनरण्यः प्रतापवान् ।
    अनरण्यात्युर्जने त्रिशङ्कस्तु पृथोः सुतः ॥
    त्रिशङ्कारभवत्पुत्रो धुन्धुमारो महायशाः ।
    धुन्धुमारान्महातेजा युवनाश्वो महाबलः ॥
    युवनाश्वसुतः श्रीमान्मान्धाता पृथिवीपतिः ।
    [[२९]]
    मान्धातुस्तु सुतः श्रीमान्सुसंधिरुदपद्यत ॥
    सुसंधेरपि पुत्रौ द्वौ ध्रुवसंधिः प्रसेनजित् । यशस्वी ध्रुवसंस्तु भरतो नाम नामतः ॥
    भरतात्सुमहातेजा असितो नाम जातवान् । यस्यैते प्रतिराजान उदपद्यन्त शत्रवः ॥
    हैहयास्तालजङ्घाश्च शूराश्च शशिबिन्दवः । तान्स तु प्रतियुद्धयन्वै युद्धे राजा प्रवासितः ॥
    हिमवन्तमुपागम्य भार्याभ्यां सहितस्ततः । असितोऽप्यबलो राजा मन्त्रिभिः सहितस्तथा ॥ः
    [[૨૨૮]]
    धर्माकूते
    द्वे चास्य भार्ये गर्भिण्यौ बभूवतुरिति श्रुतिः । एका गर्भविनाशाय सपत्न्यै सा गरं ददौ ॥
    ततः शैलवनं रम्यं बभूवाभिरतो मुनिः । भार्गवश्च्यवनो नाम हिमवन्तमुपाश्रितः ॥ तत्रैका तु महाभागा भार्गवं देववर्चसम्। ववन्दे पद्मपत्राक्षी कान्ती सुतमात्मनः ॥
    तमृषिं साभ्युपागम्य कालिन्दी चाभ्यवादयत् । सतामभ्यवदद्विप्रः पुत्रेप्सुं पुत्रजन्मनि ॥
    तव कुक्षौ महाभागे सुपुत्रः सुमहाबलः । महावीर्यो महातेजा अचिरात्संजनिष्यति ॥
    गरेण सहितः श्रीमान्मा शुचः कमलेक्षणे । पवमुक्ता महाभागा असिते स्वर्गते सति ॥ विधाय चेतो नृपतौ विद्युल्लेसेच सुप्रभा । च्यवनं तु नमस्कृत्य राजपुत्री पतिव्रता ॥बालकाण्डः ।
    पतिशोकातुरा तस्मात्पुत्रं देवी व्यजायत । सपत्न्या तु गरस्तस्यै दत्तो गर्भजिघांसया ॥
    सह तेन गरेणैव जातः स सगरोऽभवत् । सगरस्यासमञ्जस्तु असमञ्जयांशुमान् ॥
    दिलीपशुमतः पुत्रो दिलीपस्य भगीरथः । भगीरथात्ककुत्स्था ककुत्स्थस्य रघुः सुतः ॥
    रोस्तु पुत्रस्तेजस्वी प्रवृद्धः पुरुषादकः ।
    कल्माषपादो ह्यभवन्तस्माज्जातस्तु शङ्खणः ॥
    सुदर्शनः शङ्खणस्य अग्निवर्णः सुदर्शनात् । शीघ्रगस्त्वग्निवर्णख शीघ्रगस्य मरुः सुतः ॥
    मरोः प्रशुशुकस्त्वासीदम्बरीषः प्रशुश्रुकात् । अम्बरीषस्य पुत्रोऽभून्नहुषः पृथिवीपतिः ॥
    नहुषस्य ययातिस्तु नाभागश्च ययातिजः । -नाभागस्य बभूवाजे : अजाद्दशरथोऽभवत् ॥
    [[२९९]]
    [[३००]]
    धर्माकूते
    तस्मादशरथाज्जातौ भ्रातरौ रामलक्ष्मणौ ।
    आदिवंशविशुद्धानां राज्ञां परमधर्मिणाम् ॥
    इक्ष्वाकुकुलजातानां वीराणां सत्यवादिनाम् । रामलक्ष्मणयोरर्थे त्वत्सुते वरये नृप ॥
    सदृशाभ्यां नरश्रेष्ठ सदृभ्यो दातुमर्हसि । एवं ब्रुवाणं जनकः प्रत्युवाच कृताञ्जलिः ।
    श्रोतुमर्हसि भद्रं ते कुलं नः कीर्तितं परम् । प्रदाने हि मुनिश्रेष्ठ कुलं निरवशेषतः ॥ वक्तव्यं कुलजातेन तं निबोध महामुने । राजाभूत्रिषु लोकेषु विश्रुतः स्वेन कर्मणा ॥
    निमिः परमधर्मात्मा सर्वसत्त्ववतां वरः । तस्य पुत्रो मिथिर्नाम जनितो मिथिपुत्रकः ॥
    प्रथमो जनको नाम जनकादप्युदावसुः । उदावसोस्तु धर्मात्मा जातो वै नन्दिवर्धनः ॥
    बालकाण्डः ।
    नन्दिवर्धनपुत्त्रस्तु सुकेतुर्नाम नामतः । सुकेतोरपि धर्मात्मा देवरातो महाबलः ॥
    देवरातस्य राजर्षेर्वृहद्रथ इति स्मृतः । बृहद्रथस्य शूरोऽभून्महावीरः प्रतापवा ॥
    महावीरस्य धृतिमान्सुधृतिः सत्यविक्रमः । सुधृतेरपि धर्मात्मा धृष्टकेतुः सुधार्मिकः ॥
    धृष्टकेतोस्तु राजर्षेर्हर्यश्व इति विश्रुतः । हर्यश्वस्य मरुः पुत्रो मरोः पुत्रः प्रतीन्धकः ॥
    [[३०१]]
    प्रतीकस्य धर्मात्मा राज कीर्त्तिरथः सुतः । पुनः कीर्त्तिरथस्यापि देवमीढ इति स्मृतः ॥ देवमस्य विबुधो विबुधस्य महीभ्रकः । महीकसुतो राजा कीर्त्तिरातो महाबलः ॥
    कीर्तिपताच राजर्षेर्महारोमा व्यजायत । महारोम्णः सुधर्मात्मा स्वर्णरोमा व्यजायत ।
    [[३०२]]
    धर्माकूते
    स्वर्णरोम्णस्तु राजर्षेर्द्वस्वरोमा व्यजायत ।
    तस्य पुत्रद्वयं जज्ञे धर्मशस्य महात्मनः ।
    ज्येष्ठोऽहमनुजो भ्राता मम वीरः कुशध्वजः ॥ मां तु ज्येष्ठं पिता राज्ये सोऽभिषिच्य नराधिपः ॥
    कुशध्वजं समावेश्य भारं मयि वनं गतः । कनीयानेष मे भ्राता अहं ज्येष्ठो महामुने ॥
    ददामि परमप्रीतो वध्वौ ते मुनिपुंगव । सीतां रामाय भद्रं ते ऊर्मिलां लक्ष्मणाय च ॥
    वीर्यशुल्कां मम सुतां सीतां सुरसुतोपमाम् । द्वितीयामूर्मिलां चैव त्रिर्ददामि न संशयः ॥
    द्विसप्ततितमसर्गे – ततो अनकवचनश्रवणसमनन्तरं विश्वामित्रः कुलद्रयमपि प्रशस्य
    सदृशो धर्मसंबन्धः सदृशी रूपसंपदा ।
    इति विश्वामित्रवचनेन च कुललक्षणादिपरीक्षा पूर्व क्रं.
    वारुकाण्डः ।
    [[३०३]]
    वधूवरयोः सदृशवयोरूपसंपन्नयोरेव विवाहः कर्तव्य इति सूचितम् । तथा चाश्वलायनाचार्या :- ‘कुलम परी– क्ष्यो मातृतः पितृतच’ इति । ‘यथोक्तं पुरस्तात् - ’ इति दशपेयोक्तम् । ‘कुलपरीक्षणम्’ इति दिष्टवान दशपेये च - ‘ये मातृतः पितृतव दशपूरुषं समनु- fgarः । विद्यातपोभ्यां gota कर्मभिरेषामुभयतः ॥ नाब्राह्मण्यं निनयेयुः पितृत एक इत्येति’ इति विवाह- ऽप्यतिदिष्टवान् । मनुरपि - ‘महान्त्यपि समृद्धानि गोजा- विधनधान्यतः । स्त्रीसंबन्धे दशैतानि कुलानि परिवर्ज- चेत ॥ हीनक्रियं निष्पुरुषं निश्छन्दो रोमशार्शसम् । क्षय्यामया व्यपस्मारिश्विनिकुष्ठकुलानि च ’ इति ॥ यमः- ‘चतुर्दशकुलानीमान्यविवाद्यानि निर्दिशेत् । अनार्षेयं ब्राह्मणानामृत्विजां चैव वर्जयेत् ॥ अत्युचमप्यतिहस्वम- तिवर्णे च वर्जयेत् । हीनाङ्ग मतिरिक्ताङ्गमामया विकुलानि
    ॥ श्रत्रिकुष्ठिकुलादीनां कुर्याद्विपरिवर्जनम् । सदा कामकुलं वज्र्ज्य रोमशानां च यत्कुलम् ॥ अपस्मारिकुलं यक्ष यथ पाण्डुकुलं भवेत् । ये स्तेनाः पिशुनाः
    [[३०४]]
    धर्माकूते
    लीना ये च नास्तिकवृत्तयः । विकर्मणा च जीवन्तो विकृताकृतयस्तथा ॥ प्रवृद्धवैराः शूरैर्ये राजकिल्विपि- ‘णस्तथा । ब्रह्मखादाननित्याश्च कदर्याश्च विगर्हिताः ॥ न प्रजा येषु वंशेषु स्त्रीप्रजाप्रसवस्तथा । पतिन्नय- व स्ववासिन्यस्ताश्च यत्नेन वर्जयेत्’ इति । भारतेऽपि -
    यन्मूलं सर्वधर्माणां प्रजनस्य गृहस्य च । पितृदेवात्ति- थीनां च तन्मे ब्रूहि पितामह’ इति युधिष्ठिरप्रश्रस्य भीष्मोत्तरम् - ‘शीलं वृत्तिं च विज्ञाय विद्यां योनिं च कर्म च । सद्भिरेवं प्रदातव्या कन्या गुणवते वरे’ इति । उपादेयकुलान्युच्यन्ते । तत्र याज्ञवल्क्यः – ‘दशपुरुषवि- ख्याताच्छ्रोत्रियाणां महाकुलात्’ उपादेयेत्यर्थः ॥ मनुः- ‘उत्तमैरुत्तमैर्नित्यं संबन्धानाचरेत्सह । निनीषुः कुलमु- त्कर्षमधमानधमांस्त्यजेत् ॥ विशुद्धाः कर्मभिश्चैव श्रुतिस्मृ- विनिदर्शितैः । अविश्रुतब्रह्मचर्या महाकुलसमन्विताः ॥ महाकुलेन संबद्धा महत्त्वे च व्यवस्थिताः । संतुष्टाः सज्जन हिताः साधवः समदर्शिनः ॥ लोभरागद्वेषमर्षणामो- हादिविवर्जिताः । अक्रोधनाः सुप्रसादाः कार्याः संबन्धिनः

    बालकाण्डः ।
    [[३०५]]
    सदा’ इति । वरलक्षणमाह गौतमः – ‘विद्याचारित्रब- न्धुलक्षणशीललक्षणसंपन्नाय दद्यात् ’ । आपस्तम्वोऽपि - ‘बन्धुशीललक्षन संपन्नः श्रुतवानरोग इति वर संपत्’ इति । आश्वलायनोऽपि - ‘बुद्धिमते कन्यां प्रयच्छेत्’ । इति । यमः - ‘कुलं च शीलं च वपुर्वयश्च विद्यां च दित्तं च सनाथतां च । एतान्गुणान्सप्त परीक्ष्य देया कन्या बुधैः शेषमचिन्तनीयम्’ इति । कन्यालक्षणमाहाश्वलाय- नाचार्य :- ‘बुद्धिरूपशीललक्षणसंपन्नामरोगानुपयच्छेत’ । याज्ञवल्क्यश्व— ‘अरोगिणीं भ्रातृमतीमसमानार्षगोल- जाम् । उद्वहेत द्विजः कन्यामसपिण्डां यवीयसीम्’ । मनु- रपि- ‘असपिण्डा च या मातुरसगोवा च या पितुः । सा प्रशस्ता द्विजातीनां दारकर्मणि मैथुने ॥ नोहे- cafai कन्यां नाधिकाङ्क्षीं न रोगिणीम् । नालोमिकां नातिलोमा न वाचाटां न पिङ्गलाम् ॥ नर्क्षवृक्षनदी- नाम्नीं नान्त्यपर्वतनामिकाम् । न पक्ष्यहि प्रेष्यनाम्नीं न विभीषणनामिकाम् ॥ अव्यङ्गाङ्गीं सौम्यनाम्नीं हंसवा- रणगामिनीम् । तनुरोमकेशदशनां मृद्वङ्गीमुद्वहेत्त्रियम् ॥
    D 25
    [[३०६]]
    धर्माकूते
    -यस्यास्तु न भवेद्राता न विज्ञायेत वा पिता । नोपयच्छेत तां प्राज्ञः पुत्रिकाधर्मशङ्कया’ । आपस्तम्बोऽपि - ‘दत्तां गुप्तां द्योतामृषभां शरभां विनतां विकटां मुण्डां मण्डूषिकां सांकारिकां रातां पाली मित्रां स्वनुजां वर्षकारी च वर्ज- येत् । नक्षत्रनामा नदीनामा वृक्षनामा च गर्हिताः । सर्वाश्च रेफलकारोपान्ता वरणे परिवर्जयेत्’ । गौतमः- ‘गृहस्थः सदृशीं भार्या विन्देत अनन्यपूर्वी यवीयसीम्’ इति । विष्णुः — ‘न श्रमश्रुव्यञ्जनवतीं न चैव पुरुषाकृतिम् । न घर्घरस्वरां क्षामा तथा काकस्वरां न च ॥ नातिवृत्ते- क्षणां तद्वद्वृत्ताक्षीं नोद्वहेदुधः । यस्याश्च रोमशे ज गुल्फौ यत्रास्तथोन्नतौ ॥ गण्डयोः कूपरे यथा हसन्त्या- स्तां च नोद्वहेत् । नातिरुक्षच्छविं पाण्डु करजामरुणे- क्षणाम् । आपीनहस्तपादां च न कन्यामुद्वहेदुधः ॥ न वामनां नातिदीर्घा नोहेत्संहतश्रुत्रम् । न चातिच्छिद्रद- शनां न करालमुखीं नरः’ इति ।
    इत्युक्त्वा भरतशत्रुत्राभ्यामपि कुशध्वजसुते प्रतिरूपे प्रदातव्ये इति जनकमवदत् –
    बालकाण्डः ।
    [[३०७]]
    जनकव
    एकाहा राजपुत्रीणां चतसृणां महामुने । पाणीन्गृह्णन्तु चत्वारो राजपुत्रा महाबलाः ॥
    उत्तरे दिवसे ब्रह्मन्फल्गुनीभ्यां मनीषिणः । वैवाहिकं प्रशंसन्ति भगो यत्र प्रजापतिः ॥
    यनः-

इति विश्वामित्रं सादरमब्रवीत् । अनेन उत्तरफ - ल्गुन्या विवाहः प्रशस्त इति सूचितम् । तथा च बोधा-
‘रोहिणी मृगशीर्षण्युत्तरफल्गुनी स्वातीति विवा- हस्य नक्षत्राणि ’ । ’ मघा मृगशिरो हस्तस्वाती मूलानुरा- धयोः । रेवती रोहिणी चैव उत्तराणि वयस्तथा ॥ आवाहे च विवाहे च विद्यासंग्रहणेषु च । वापयेत्सर्वबीजानि गृह आमं प्रवेशनम्’ । ततः जनकवचनश्रवण संजातसंतोषो दशरथः परमनुगृहीतोऽस्मि युवाभ्यामसंख्येयगुणाभ्यां भ्रातृस्यामिति जनककुशध्वजावापृच्छ्य वसिष्ठविश्वामित्र- पुरस्कृतः स्वमालयं जगाम ।
[[३०८]]
धर्माकूते
स गत्वा निलयं राजा श्राद्धं कृत्वा विधानतः ।
प्रभाते काल्यमुत्थाय चक्रे गोदानमुत्तमम् ॥

अनेन मङ्गलकर्मसु आदौ श्राद्धं कर्तव्यमिति सूचि- तम् । तथा च विष्णुपुराणे - ’ सचेलस्य पितुः स्नानं जाते पुत्रे विधीयते । जातकर्म तदा कुर्याच्छ्राद्धमाभ्युदयं चरेत् ॥ कन्यापुत्रविवाहेषु प्रवेशेषु च वेश्मनः । सीमन्तो- नयने चैव पित्रादिमुखदर्शने’ इति । ततः पुत्रवत्सलो राजा एकैकपुत्रोद्देशेन स्वर्णशृङ्गा लंकृतानेकशतसहस्रग- agarभरणं च दत्तवान् । गोदाने आश्वलायनः- ‘एतेन गोदानं षोडशे वर्षे ’ इति । खादिरगृह्ये ‘गोदाने चौलवत्कल्प्यः सलोमं वापयेत् गोअश्वाविमिथुनानि दक्षिणा’ । त्रिसप्ततितमे – अथ स्वस्त्रीय संदर्शनाय समा- गतं युधाजितं परमसत्कारैः संपूज्य अपरेद्युः कृतनित्य- क्रियो वासिष्ठादिपरमर्षिसहितः कृतकौतुकमङ्गलैः सर्वाभ- रणभूषितैः पुत्रैः सहितो दशरथः, ’ दातारं त्वामभिका- हृते इत्यभिहितो जनकोऽपि तान्सर्वान्विवाहमण्डपं प्रवेश्यबालकाण्डः ।
कारयस्वषे सर्वमृषिभिः सह धार्मिक । रामस्य लोकरामस्य क्रियां वैवाहिक विभो ॥
[[३०९]]
इति वसिष्ठमब्रवीत् । वसिष्ठोऽपि गन्धपुष्पलाजपूर्ण- पात्रसाङ्करजलकुम्भादिभिः विवाहमण्डपमलंकृत्य मन्त्रपू- र्वकं विवाहानिमुपसमाधाय यथाविधि होमं कृतवान् । ततो जनकः सर्वाभरणभूषितां सीतामग्नेः समक्षं संस्थाप्य raarat भूत्वा सादरमिदमब्रवीत्-
इयं सीता मम सुता सहधर्मचरी तव । प्रतीच्छ चैनां भद्रं ते पार्णि गृह्णीष्व पाणिना ।
पतिव्रता महाभागा च्छायेवानुगता सदा । इत्युक्त्वा प्राक्षिपद्राजा मन्त्रपूतं जलं तदा ॥
नन्वनेनात्र श्रीरामभद्रस्य विवाह उक्तः । विवाहाचा- ष्टविधाः स्मृतिषु प्रसिद्धाः । तथा च मनुः – ’ ब्राह्मो दैवस्तथैवार्षः प्राजापत्यस्तथासुरः । गान्धर्वो राक्षसचैव पैशाचचाष्टमोऽधमः ॥ आच्छाद्य चार्चयित्वा च श्रुति-
[[३१०]]
धर्माकूते
शीलवते स्वयम् । आहूय दानं कन्याया ब्राह्मो धर्मः प्रकीर्तितः ॥ यज्ञे च वितते सम्यगृत्विजे कर्म कुर्वते । अलंकृत्य सुतादानं देवं धर्मे प्रचक्षते ॥ एकं गोमिथुनं द्वे वा वरादादाय धर्मतः । कन्याप्रदानं विधिवदार्थो धर्मः स उच्यते ॥ सहोभौ चरतां धर्ममिति वाचानुभा- ष्य च । कन्याप्रदानमभ्यर्च्य प्राजापत्यो विधिः स्मृतः ॥ ज्ञातिभ्यो द्रविणं दत्त्वा कन्याये चैव शक्तितः । कन्याप्र- दानं स्वाच्छन्द्यादासुरो धर्म उच्यते ॥ इच्छयान्योन्य- संसर्गः कन्यायाश्च वरस्य च । गांधर्वः स च विज्ञेयो मैथुन्यः कामसंभवः ॥ हत्वा च्छित्त्वा च भित्त्वा च को- शन्तीं रुदतीं गृहात् । प्रसह्य कन्याहरणं राक्षसो विधिरु- च्यते ॥ सुप्तां मत्तां प्रमत्तां वा रहो वा यत्र गच्छति । स पापिष्ठो विवाहानां पैशाचचाष्टमोऽधमः । एतेष्वष्टसु विवाहेषु अयं विवाहो न कोऽपि भवितुमर्हति तदुक्तल- क्षणाभावात् । तथा हि- न तावद्राह्नाः, आहूय दानाभा- वात् नापि दैवः, क्षत्रियस्यात्र्त्विज्यासंभवात् ; नाप्यार्षः, कन्यापिले गोमिथुनगोदानाभावात् नापि प्राजापत्यः,
[[1]]
[[३१७]]
वीर्यशुल्केति कथनात्; नाप्यासुरः, कन्यापितुर्ब्रव्यदाना- भावात् नापि गांधर्वः, परस्परानुरागेण संसर्गाभावात्; नापि राक्षसः, छेदनहननादिना प्रसा कन्याहरणाभा- वात् नापि पैशाचः स्वापप्रमादान्यतमावस्थायुक्तायाः रहसि घर्षणाभावात्; तस्मात्कतमोऽयं विवाह इति चेत्, सहधर्मचरी तवेत्युक्त्या प्राजापत्य एव विवाहः । तथा चाश्वलायनः – ’ सह धर्मे चरत इति प्राजापत्यः’ इति । गौतमोऽपि –’ संयोगमन्त्रः प्राजापत्ये सह धर्म चर्यताम्’ इति । मनुरपि – ‘सहोभौ चरतां धर्ममिति वाचानुभा- ध्य च । कन्याप्रदानमभ्यर्च्य प्राजापत्यो विधिः स्मृतः ’ इति । बोधायनोऽपि - ‘आच्छाद्यालंकृत्यैषा सहधर्मे चर्य- तामिति प्राजापत्यः’ इति । ननु क्षत्रियाणां प्राजापत्य- विवाहो न संभवति, वर्णविभागेन ब्राह्मादीनां विवाहानां धर्म्यत्वप्रशस्तत्वादिव्यवस्थां कुर्वद्भिः कैश्चिद्धर्मशास्त्रकृद्भिः प्राजापत्यव्यतिरिक्तविवाहानामेव क्षत्रियस्योक्तत्वात् । तथा हि एष्वष्टसु विवाहेषु ’ षडानुपूर्व्या विप्रस्य क्षत्रस्य चतुरो- Saरान् । विट्शूद्रयोस्तु तानेव विद्याद्धर्म्यान राक्षसान् ।
[[३१२]]
धर्माकूते
चतुरो ब्राह्मणस्याद्यान् प्रशस्तान्कवयो विदुः । राक्षसं क्षत्रियस्यैकमासुरं वैश्यशूद्रयोः’ इति वचनाभ्यां ब्राह्म- rer ब्रह्मदेवाप्राजापत्यासुरगान्धर्वाः धर्म्याः, क्षत्रि- यस्य आसुरगान्धर्वराक्षसपैशाचा धर्म्याः, विट्शूद्रयोः आसुरगान्धर्वपैशाचा धर्म्याः, ब्राह्मणस्य ब्रह्मदेवर्षि- प्राजापत्याः प्रशस्ताः, राक्षसः क्षत्रियस्य, वैश्यशू- यो आसुरः प्रशस्त इति मनुना प्रतिपादितत्वात्; बो- ‘धायनेनापि - ’ तेषां चत्वारः पूर्वे ब्राह्मणस्य तेष्वपि पूर्वः पूर्वः श्रेयान’ ‘उत्तरेषामुत्तरोत्तरः पापीयान् ’ ’ अत्रापि षष्ठ- सप्तमौ क्षत्रर्मानुगतौ तत्प्रत्ययत्वात्क्षत्रियस्य’ ‘पञ्चमा- मौ वैश्यशूद्राणाम्’ ‘अयन्त्रितकलत्रा हि वैश्यशूद्रा भवन्ति’ ‘गान्धर्वमप्येके प्रशंसन्ति सर्वेषां स्नेहानुग- तत्वात्’ इति सूत्रेण ब्राह्मणस्य ब्राह्मप्राजापत्यार्थदेवाश्च- वारी विवाहाः । तेषां पूर्वः पूर्वः श्रेयान् । क्षत्रियस्या- सुरराक्षसौ द्वौ । विट्शूद्रयो गान्धर्वपैशाचौ । सर्वेषां वा arraat faare इति प्रतिपादितत्वात्; तथा चैवं स्मृति- पर्यालोचनया प्राजापत्यविवाहव्यतिरिक्तानामेव प्रशस्त-
ण्डः
[[३१३]]
‘द्वाव-
I
स्वधर्म्यत्वाभ्यां क्षत्रियविषयतया नियमितत्वात् कथं क्षत्रियस्य दाशरथेः प्राजापत्यो विवाह उक्त इति चेन्न मनुना ‘पञ्चानां तु त्रयो धर्म्या द्वावधयौं स्मृताविह । पैशाचासुरचैव न कर्तव्यौ कथंचन’ इति । अस्यार्थः- ‘पञ्चानां प्राजापत्यादीनां मध्ये प्राजापत्यगान्धर्वराक्षसा धर्म्याः धर्मादनपेताः । यथोक्तालाभे चतुर्णां वर्णानां धयें । पैशाचासुरौ न कर्तव्यौ । तत्र क्षत्रियवृत्तिस्थस्य विप्रस्य राक्षसः । अयं तु आसुरपैशाचौ शूद्रविशोः विकल्पितौ । ब्राह्मादि ब्राह्मणस्यैव’ इति राघवानन्दीये पूर्वोक्तवर्णविभागेन व्यवस्थितविवाहालामे प्राजापत्यगां- धर्वराक्षसाः सर्ववर्णसाधारण्येन धर्म्या इति प्रतिपाद- नात् क्षत्रियस्य प्राजापत्यो विवाहः सिद्ध एवेत्युक्तम् । एवमष्टावेव विवाहान्प्रतिपाद्य, ’ चत्वारो धर्म्याः प्रथमाः षडित्येके ’ इति सूत्रेण वर्णविभागानादरेण ब्राह्मादीनां चतुर्णी षण्णां वा विवाहानां धर्म्यत्वं प्रतिपादयद्भिर्गौत- माचार्यैः प्राजापत्यस्यापि क्षत्रियविषयेऽभ्यनुज्ञातत्वात् । तथा च मिताक्षरायां व्याख्यातम् । एवमष्टौ विवाहा
[[३१४]]
धर्माकूते
उक्ताः । तेषु चत्वारो धर्म्याः प्रथमाः आदितवत्वारो धर्म्याः धर्मादनपेताः प्रशस्ताः । अविशेषात्सर्वेषामेव वर्णानां षडित्येके एक आचार्या षट् धर्म्या इत्याहुः प्रथमा इत्येव । आपस्तम्बीयेऽपि — ‘तेषां लय आद्याः प्रशस्ताः पूर्वः पूर्व : श्रेयान्’ इति वर्णविभागं विना विशेषेणैव सर्वविषयत्वं प्रतिपादितम् । नन्वेवमपि क्षत्रियस्य राक्ष- सविवाहस्यैव प्रशस्ततया कथं प्राजापत्यः कृत इति चेन्न, युद्धकाण्डे मेघनादशर प्रहारवेदनया
ब्राह्ममत्रं प्रयोक्ष्यामि वधार्थं सर्वरक्षसाम् ।
इति वदन्तं लक्ष्मणं प्रति
नैकस्य हेतो रक्षांसि पृथिव्यां हन्तुमर्हसि ।
इति, उत्तरकाण्डे राजसूयाचरणे
पृथिव्यां राजवंश्यानां विनाशो यत्र दृश्यते । सर्वेषां भविता तत्र क्षयः सर्वान्तकोपमः ॥
इति वदन्तं भरतं प्रति
बालकाण्डः ।
[[३१५]]
ध्याहृतं पुरुषव्याघ्र पृथिव्याः परिपालनम् इति तस्मादभिप्रायाद्राजसूयात्क्रतूत्तमात् ॥ निवृत्तो हि महाबाहो तव सुव्याहृतेन च ।
इत्यादिवचनैः श्रीरामभद्रस्य सकललोकदयापरत्वावग- मात् । ’ हत्वा च्छित्वा च भित्त्वा च क्रोशन्तीं रुदतीं गृहात् । प्रसह्य कन्याहरणं राक्षसो विधिरुच्यते ’ इति प्रसह्यादानरूपराक्षसस्य विवाहस्य अतिक्रूरकृत्यतया सक- ललोकदयापरेण रामेण तं परित्यज्य प्राजापत्यो विवाहः कृत इति न दोषः । ननु
वीर्यशुल्कां मम सुतां सीतां सुरसुतोपमाम् । द्वितीयामूर्मिलां चैव त्रिर्ददामि न संशयः ॥
इत्यत्र शुल्कशब्दस्य क्रयसाधनवचनत्वात् वीर्यमेव शुल्कं क्रयसाधनीभूतं यस्या इति व्युत्पत्त्या शौर्येण सीतायाः क्रयः प्रतीयते तदनुचितम्, त्रयस्य निषि- द्धत्वात् । तथा च मनुः ‘न कन्यायाः पिता विद्वान्गृ-

stroyeकमपि । गृह्णन्हि शुल्कं लोमेन स्यान्नरो-
[[३१६]]

धर्माकूते
ऽपत्यविक्रयी’ इति । बोधायनोऽपि - ‘शुल्केन ये प्रयच्छन्ति स्वसुतां लोभमोहिताः । आत्मविक्रयिणः पापाः महाकिल्बिषकारकाः । पतन्ति नरके बोरे नन्ति चासप्तमं कुलम्’ इति । काश्यपोऽपि — ’ क्रयक्रीता तु या नारी न सा पल्यभिधीयते । न सा दैवेन सावित्र्ये दासतां काम्यपोऽब्रवीत् । न च क्रयश्रवणेऽपि आ- वदनिषिद्धत्वं किं न स्यादिति वाच्यम्, आर्षविवा- हस्यापि क्रयरूपतया बहुधा निषिद्धत्वात् । तथा च मनुः – ’ आर्षे गोमिथुनं शुल्कं केचिदाषैव तत् । अल्पोऽप्ययं महान्वापि विक्रयस्तावदेव सः’ इति । त- -स्माद्वीर्यशुल्केति प्रतिपादनमसंगतमिति चेत्, नायमार्षः येनार्षे गोमिथुनं दद्यादित्यादि निषेधो भवेत् । नाप्या- सुरः कन्यापितुर्द्रव्यदानाभावात् । नाप्ययमतिरिक्तः, सर्वधर्मशास्त्रकारैर्वीर्यशुल्केन विवाहान्तरस्याकथनात् । तस्मात् ‘विद्यया ब्राह्मणः श्रेष्ठो वीयर्णे क्षत्रियः स्मृतः । वैश्यस्तु धान्यधनतः शूद्रश्चैव तु जन्मतः ’ इति वचनेन क्षत्रियेषु वीर्यवर एव श्रेष्ठत्वात् तादृशाय कन्यां प्रदातुं वी-

बालकाण्डः ।
[[३१७]]
र्यपरिशोधनं कृतमिति शुल्केति कथनाच्छुरकशब्द औप- चारिकः । शुल्कनिषेधवचनानि तु स्वोपजीवनाय द्रव्य- परिग्रहविषयाणि । तथा च मनुः – ‘स्त्रीधनानि तु ये मोहादुपजीवन्ति बान्धवाः । नारी यानानि वस्त्रं वा ते पापा यान्त्यधोगतिम्’ । ‘अत्र गाधा यमोङ्गीताः कीर्त यन्ति पुराविदः । यथान्योऽपि न विक्रेयः पूरुषः किं पुनः प्रजाः ॥ यो मनुष्यो मनुष्यस्य विक्रयानमिच्छति । तस्य मूत्रं पुरीषं च स परत्रोपजीवति । भारतेऽपि - ‘यो मनुष्यः स्वकं पुत्रं विक्रयानमिच्छति । यः कन्यां वा जीवितार्थाय शुल्केन प्रयच्छति ॥ सप्तावरे महा- घोरे निरये कालसाद्भये । स्वेदं मूत्रं पुरीषं च तस्मिन्मूढः समश्नुते’ इति कन्यार्थतया वरबान्धवदत्तवस्त्राभरणा- दिभिः कन्यालंकारेण विना स्वार्थतया द्रव्यग्रहणात्स्वेना- नुपभुक्तत्वाच्च दोषः । तथा च मनुः – ’ यासां नाददते शुल्कं ज्ञातयो न स विक्रयः । अर्हणं तत्कुमारीणामा- नृशंस्यं प्रचक्षते’ इति । एवं च स्वानुपजीवने दोषाभाव इत्युक्तं भवति । तस्मादयं प्राजापत्य एव । अयं च
[[३१८]]
धर्माकृते
विवाहः महाफलः । तथा चाश्वलायनः - ‘सह धर्म चरत इति प्राजापत्यस्तस्यां जातोऽष्टावरानष्ट परान्पुनात्यु- भयतः’ इति । गौतमोऽपि - ‘दशैव प्राजापत्यात्’ इति । मन्त्रभूतं जलमित्यनेनोदकपूर्वतयैव कन्यादानं कर्तव्यमिति सूचितम् । तथा चापस्तम्बः - ‘सर्वा- ‘युकपूर्वाणि दानानि’ इति । देवलश्च - ’ पूर्वे विवा हावा धयस्तोयप्रदानिकाः’ इति ।
प्रतीच्छ चैनां भद्रं ते पाणि गृह्णीष्व पाणिना ।
इति । अत्र चैवं व्यवस्था, सवर्णासु पाणिग्रह- णमेव नियतम् । असवर्णासु तु शम्प्रतोदवस्त्रदशादि- ग्रहणम् । तथा च मनुः - ‘पाणिग्रहणसंस्कारः सवर्णा- सूपदिश्यते । असवर्णास्वयं ज्ञेयो विविरुद्वाहकर्मणि ॥ शरः क्षत्रियया ग्राह्यः प्रतोदो वैश्यकन्यया । वासो - दिशा शूद्रया तु वर्णोत्कृष्टस्य वेदने’ । क्षत्रियया गृहीतः शरः उत्कृष्टेन वरेण ग्राह्यः, न तु वरेण गृहीतः शरः कन्यया ; एवं प्रतोदादिषु ॥लकाण्डः ।
[[३१९]]
साधु साध्विति देवानामृषीणां वदतां तदा । देवदुन्दुभिनिर्घोषः पुष्पवर्षो महानभूत् ॥
एवं दत्त्वा तदा सीतां मन्त्रोदकपुरस्कृताम् । अब्रवीज्जनको राजा हर्षेणाभिपरिप्लुतः ॥
-लक्ष्मणागच्छ भद्रं ते ऊर्मिलामुद्यतामिमाम् । प्रतीच्छ पाणि गृह्णीष्व मा भूत्कालख पर्ययः ॥
तमेवमुक्त्वा जनको भरतं चाभ्यभाषत । गृहाण पाणि माण्डव्याः पाणिना रघुनन्दन ॥
शत्रुघ्नं चापि धर्मात्मा अनचीजनकेश्वरः । श्रुतकीय महाबाहो पाणिं गृह्णीष्व पाणिना ।
सर्वे भवन्तः सौम्याच सर्वे सुचरितव्रताः । पत्नीभिः सन्तु काकुत्स्था मा भूत्कालस्य पर्ययः ॥
जनकस्य वचः श्रुत्वा पाणीन्पाणिभिरस्पृशन् । चत्वारस्ते चतसृणां वसिष्ठस्य मते स्थिताः ॥
[[३२०]]
धर्माकूते
काकुत्स्थैश्व गृहीतेषु सलिलेनैव पाणिषु ।
पुष्पवृष्टिर्महत्यासीदन्तरिक्षात्सुभास्वरा ॥
दिव्यदुन्दुभिनिर्घोषैर्गीतवादित्रनिस्वनैः ।
ननृतुश्चाप्सरःसङ्घा गन्धर्वाश्व जगुः कलम् ॥ अथोपकार्या जग्मुस्ते सभार्या रघुनन्दनाः । राजाप्यनुययौ पश्यन्सर्षिसङ्घः सबान्धवः ॥
चतुःसप्ततितमे - ततो दशरथजनकावामन्त्र्य कुमा- रांश्च रामलक्ष्मणादीनाशीर्भिः संयोज्य प्रतियाते विश्वा- मित्रे दशरथोऽपि जनकमामन्त्र्य पुरीं प्रतस्थे ॥
अथ राजा विदेहानां ददौ कन्याधनं बहु । गवां शतसहस्राणि बहूनि मिथिलेश्वरः ॥ कम्बलानां च मुख्यानां क्षौमान्कोट्यम्बराणि च । हस्त्यश्वरथपादातं दिव्यरूपं स्वलंकृतम् ॥
ददौ कन्यापिता तासां दासीदासमनुत्तमम् । हिरण्यस्य सुवर्णस्य मुक्तानां विद्रुमस्य च ॥
बालकाण्डः ।
ददौ परमसंहृष्टः कन्याधनमनुत्तमम् ॥

[[३२१]]
अनेन विवाहानन्तरं कन्यापित्रा कन्यायै गवाश्वादि बहुधनं देयमित्युक्तम् । तथा चादिपर्वणि द्रौपदीबि- वाहे यौतकम् - ’ कृते विवाहे द्रुपदो धनं ददौ महा- रथेभ्यो बहुरूपमुत्तमम् । शतं रथानां वरहेममालिनां चतु- युजां हेमखलीनशालिनाम् ॥ शतं गजानामपि पद्मिनां तथा शतं गिरीणामिव हेमशृङ्गिणाम् । तथैव दासीश- तमग्र्ययौवनं महाहवेषाभरणाम्बरस्रजम् ॥ पृथक्पृथक्चैव दशान्वितायुतं धनं ददौ सौमकिरग्निसाक्षिकम् । तथैव वस्त्राणि विभूषणानि प्रभावयुक्तानि महानुभावः ॥ कृते विवाहे तु ततस्तु पाण्डवाः प्रभूतरत्नामुपलभ्य तां श्रि- यम् । विजहुरिन्द्रप्रतिमा महाबलाः पुरे तु पाञ्चाल- नृपस्य तस्य’ इति । सुभद्राविवाहे तेषां ददौ हृषीकेशः कन्यार्थे धनमुत्तमम् । हरणं वै
सुभद्राया ज्ञातिदेयं महायशाः । रथानां काञ्चनाङ्गानां किङ्कि- णीजालमालिनाम् । चतुर्युजामुपेतानां सूतैः कुशलशि- क्षितैः ॥ सहस्रं प्रददौ कृष्णो गवामयुतमेव च । श्रीमा-
D 26
[[३२२]]
धर्माकूते
न्माधुरदेश्यानां दोग्ध्रीणां पुण्यवर्चसाम् ॥ बडबानां च शुद्धानां चन्द्रांशुसमवर्चसाम्। ददौ जनार्दनः प्रीत्य. सहस्रं हेमभूषणम् ॥ तथैवाश्वतरीणां च दान्तानां वात- रंहसाम् । शतान्यनकेशीनां श्वेतानां पञ्च पञ्च च ॥ नानपानोत्सवे चैव प्रयुक्तं वयसान्वितम् । स्त्रीणां सहस्रं गौरीणां सुवेषाणां सुवर्चसाम् ॥ सुवर्णशतकण्ठीनामरो- गाणां स्वलंकृताम् । परिचर्यासु दक्षाणां प्रददौ पुष्करे- क्षणः ॥ पृष्ठयानामपि चाश्वानां बाह्रीकानां जनार्दनः । ददौ शतसहस्राख्यं कन्याधनमनुत्तमम् ॥ कृताकृतस्य मुख्यस्य कनकस्यानिवर्चसः । मनुष्यभारां दाशार्हो ददौ दश जनार्दनः ॥ गजानां तु प्रभिन्नानां विधा प्रस्रवतां मदम् । गिरिकूटनिकाशानां समरेष्वनिवर्तिनाम् ॥ क्ल- तानां पटुघण्टानां चारूणां हेममालिनाम् । हत्यारो - रुपेतानां सहस्रं साहसप्रियः ॥ रामः पाणिग्रहणिकं aat पार्थाय लाङ्गली । प्रीयमाणो हलधरः संबन्धं प्रतिमा- नयन् ॥ स महाधनरत्नौघो वस्त्रकम्बलफेनवान् । महा- गजमहामाहः पताकाशैवलाकुलः । पाण्डुसीरसमाविद्धः
बालकाण्डैः ।
ફેફ
प्रविवेश महाधनः । पूर्णमापूरयंस्तेषां द्विषच्छोकावहो- ऽभवत् ॥ प्रतिजग्राह तत्सर्व धर्मराजो युधिष्ठिरः’ इति । अत्रान्तरे हरधनुर्भङ्गश्रवणकुपितजामदग्न्यागमनसंसूचका- न्यशिवानि निमित्तानि संप्रेक्ष्य भयचकितान्तःकरणेन दशरथेन
किमिदं हृदयोत्कम्प मनो मम विषीदति ।
इति पृष्टो वसिष्ठः
उवाच मधुरां वाणीं श्रूयतामस्य यत्फलम् । उपस्थितं भयं घोरं दिव्यं पक्षिमुखाच्युतम् ॥
मृगाः प्रशमयन्त्येते संतापस्त्यज्यतामयम् । तेषां संवदतां तत्र वायुः प्रादुर्बभूव ह ॥ कम्पयन्मेदिनीं सर्व पातयंश्च द्रुमाञ्शुभान् । तमसा संवृतः सूर्यः सर्वा न प्रबभुर्दिशः ॥ भस्मना चावृतं सर्व संमूढमिव तद्वलम् । वसिष्ठो मुनयश्चान्ये राजा व ससुतस्तदा ॥
[[३२४]]
धर्माकूते
ससंज्ञा इव तत्रासन्सर्वमन्यद्विचेतनम् । तस्मिस्तमसि घोरे तु भस्मच्छन्नेव सा चमूः ॥ ददर्श भीमसंकाशं जटामण्डलधारिणम् । भार्गवं जामदग्न्यं तं राजराजविमर्दनम् ॥
कैलासमिव दुर्धर्षं कालाग्निमिव दुःसहम् । ज्वलन्तमिव तेजोभिर्दुर्निरीक्ष्यं पृथग्जनैः ॥ स्कन्धे चासज्ज्य परशुं धनुर्विद्युद्रणोपमम् । प्रगृह्य शरमुख्यं च त्रिपुरनं यथा हरम् ॥
ततो वसिष्ठप्रमुखाः सर्वे च परमर्षयः क्षत्रस्योत्सा- दनं भूयः किं चिकीर्षितमिति सभयं तमर्घ्यपाद्यादिभि- रभ्यर्चयामासुः ।
प्रतिगृह्य तु तां पूजामृषिदत्तां प्रतापवान् । रामं दाशरथि रामो जामदग्न्योऽभ्यभाषत ॥
पश्वसप्ततितमे — ततस्त्वत्कृत धनुर्भङ्गश्रवणजनितवि- स्मयः वैष्णवधनुषः पूरणे ज्ञानबलोऽहं द्वन्द्वयुद्धं ते दा
बालकाण्डः ।
[[३२५]]
स्यामीति जानकीनायकं प्रति जल्पन्तं जामदग्न्यं क्षत्र- रोषात्प्रशान्तः सन् इतः परं शस्त्रं न गृहिष्यामीति सह- स्त्रावसंनिधौ प्रतिज्ञापूर्वक शस्त्रं निक्षिप्य काश्यपाय च दत्त्वा वसुधाम् उग्रे तपसि वर्तमानः कथं पुनर्मत्कुल- विनाशाय संप्राप्तवानिति दशरथः समभाषत । जाम- दग्न्योऽपि अनादृत्य दशरथमुदीरितवचनं राममेवा- भ्यभाषत; पुरा खलु विष्णुशितिकण्ठयोर्बलाबलं जि- ज्ञासमानैर्देवैः प्रार्थितेन ब्रह्मणा दक्षयज्ञवधे समुत्पादित- परस्परविरोधयोर्विश्वकर्मनिर्मितधनुषी आदाय परस्पर- जयैषिणोः प्रवृत्ते युद्धे शितिकण्ठो विष्णुहुंकारेण भग्न- शरासनोऽभूत् ॥
जृम्भितं तद्धनुर्दृष्ट्रा शैवं विष्णुपराक्रमैः । अधिकं मेनिरे विष्णुं देवाः सर्षिगणास्तदा ॥
अनेन शिवाद्विष्णोरुत्कर्षः प्रतिपादितः । अयमेवार्थः विष्णुपुराणे कृष्णवाणासुरयुद्धे प्रतिपादितः । तथा हि- ’ ततः समस्तसैन्येन दैतेयानां बलेः सुतः । युयुधे शंक-
[[३२६]]
धर्माते
चैव कार्त्तिकेयश्च शौरिणा । हरिशंकरयोर्युद्धमतीवा- सीत्सुदारुणम् । जृम्भणास्त्रेण गोविन्दो जृम्भयामास शंकरम् ॥ जृम्भाभिभूतस्तु हरो रथोपस्थ उपाविशत् । न शशाक तदा योद्धुं कृष्णेनाक्लिष्टकर्मणा । जृम्भिते शंकरे नष्टदैत्यसैन्ये गते गुहे । नष्टप्रमथसैन्ये च संक्षयं शार्डधन्वना ॥ नन्दीशसंगृहीताश्वमधिरूढो महारथम् । बाणस्तत्र ययौ योद्धुं कृष्ण काबिलैः सह ॥ ततोऽर्क- शतसंघात तेजसा सदृशद्युतिः । जग्राह दैत्यचक्रारिर्हरि- चक्रं सुदर्शनम् ॥ मुभ्वतो बाणनाशाय तच्चक्रं मधुवि- द्विषः ॥ मुमोच बाणमुद्दिश्य च्छेतुं बाहुवनं रिपोः । क्रमेण तत्तु बाहूनां बाणस्याच्युतचोदितम् ॥ भेदं चक्रे सुरेशास्त्रं शस्त्रौघक्षपणादृतम् । भिन्ने बाहुवने तत्तु करस्थं मधुसूदनः ॥ मुमुक्षुर्बाणनाशाय विज्ञातत्रिपुरद्विषा । सहोपेत्याह गोविन्दं सान्त्वपूर्वमुमापतिः ॥ विलोक्य बाणं दोर्दण्डभेदासृक्स्राववर्षिणम् । शंकर उवाच– कृष्ण कृष्ण जगन्नाथ जाने त्वां पुरुषोत्तमम् । परेशं परमात्मा- नमनादिनिधनं परम् ॥ देवतिर्यमनुष्येषु शरीरग्रहणा-
बालकाण्डः ।
[[३२७]]
त्मिका । लीलेयं सर्वभूतस्य तव चेष्टोपलक्षणा ॥ तत्प्रसी- दाभयं दत्तं बाणस्यास्य मया प्रभो । तत्त्वया नानृतं कार्य यन्मया व्याहृतं वचः ॥ अस्मत्संश्रयदृप्तोऽयमपराधी तवाच्युत । मया दत्तवरो दैत्यस्ततस्त्वां क्षमयाम्यहम् ॥ पराशरः - इत्युक्तः प्राह गोविन्दः शूलपाणिमुमाप- तिम् । प्रसन्नवदनो भूत्वा गतामर्षोऽसुरं प्रति ॥ युष्मद्द- aad बाणो जीवतामेष शंकर । त्वद्वाक्यगौरवादेतन्मया चक्रं निवर्तितम् ॥ त्वया यदभयं दत्तं तद्दत्तमखिलं मया’ इति विष्णुपराक्रमेण शिवस्य जृम्भणप्रतिपादनात् । तथा हरिवंशेऽपि — ’ त्रिपुरान्तकरं बाणं जग्राह स चतुर्मुखम् । संदधत्कार्मुके चैव क्षेतुकामस्त्रिलोचनः ॥ विज्ञातो वासु- देवेन चित्तज्ञेन महात्मना । जृम्भणं नाम सोऽप्यस्त्रं जग्राह मधुसूदनः ॥ हरं स जम्भयामास क्षिप्रकारी महाबलः । सशरः सधनुश्चैव हरस्तेनाशु जृम्भितः ॥ संज्ञां न लेभे भगवान्विजेता सुररक्षसाम् । सशरं सध- नुष्कं च दृष्ट्वात्मानं विजृम्भितम् ॥ ततो ननाद भूतात्मा स्निग्धगम्भीरनिखनः । दृष्ट्वा तु भगवान्ब्रह्मा रुद्रं वचन–
[[३२८]]
धर्माकूते
मब्रवीत् । सृष्टो महासुरविधः किं भूयः परिरक्षसे । न च युद्धं महाबाहो तव कृष्णेन रोचते’ इति विष्णुप्रहितः जृम्भणास्त्रेण शिवस्य जृम्भितत्वप्रतिपादनाद्विष्णुरेवाधिक- पूज्यश्च शिवस्तद्भक्ताप्रेसरः पूजकश्चेति केचिदाहुः । अयमर्थः सर्वपुराणेषु प्रसिद्धः विस्तरभयान्न लिखितः । अन्ये तु
श्रीमतो नीलकण्ठस्य कृत्यं हि दुरतिक्रमम् ॥
इत्युत्तर रामायणे रामवचनेन
अत्र पूर्व महादेवः प्रसादमकरोत्प्रभुः ॥
इति युद्धकाण्डे प्रतिप्रयाणे रामवचनेन च शिव एव विष्णोरधिकः । अयं चार्थः द्रोणपर्वणि शतरुद्रीये- अश्वत्थामा सेनासहितकृष्णार्जुनवधाय प्रयुक्तं नारायणाखं मोघं दृष्ट्वा रथादाप्लुत्य धिग्धिगित्युक्त्वा गच्छन्मध्ये - मार्ग यदृच्छया यान्तं व्यासं दृष्ट्वा कथमेतादृशमत्रं मोघमभवदिति पप्रच्छ । व्यासः - ‘महान्तमिममर्थ मां यत्त्वं पृच्छसि विस्मयात् । तं प्रवक्ष्यामि ते सर्वबालकाण्डः ।
[[३२९]]
समाधाय मनः शृणु’ । पुरा किल केनचित्कारणेन नारायणः धर्मस्य पुत्रो भूत्वा तुहिनगिरौ बहुवर्षसह- स्राणि तपञ्चरन् तपसा प्राप्तब्रह्मभावोऽभूत् । ’ ततो विश्वेश्वरं योनिं विश्वस्य जगतः पतिम् । ददर्श भृशदुर्दर्श सर्वदेवेशमीश्वरम् । अणीयांसमणुभ्यश्च बृह-
व महत्तरम् । रुद्रमीशानं वृषभं हरं शंभुं कपर्दि- नम् । चेकितानं परां योनिं तिष्ठतो गच्छतश्च ह । दुर्वारणं दुर्दर्श तिग्ममन्युं महात्मानं सर्वहरं प्रचेतसम् । दिव्यं चापमिषुधी चाददानं हिरण्यवर्माणमनन्तवीर्यम् ॥ पिनाकिनं वज्रिणं दीप्तशूलं परश्वधिनं गदिनं स्वायता- सिम् । यं पश्यन्ति ब्राह्मणाः साधुवृत्ताः क्षीणे पापे मनसा यं विशोकाः ॥ तं निष्टपन्तं तपसा धर्ममीड्यं तद्भक्त्या वै विश्वरूपं ददर्श । दृष्ट्वा चैनं वामनोबुद्धि- देहः संहृष्टात्मा मुमुदे वासुदेवः ॥ ततो नारायणो देव ववन्दे विश्वतोभवम् । मुमुदे पृथुचाङ्गथा पार्वत्या सहितं प्रभुम् ॥ अजमीशानमव्ययं कारणात्मानमच्युतम् । अभिवाद्याथ रुद्राय सद्योऽन्धकनिपातिने । पद्माक्षस्तं
D 27
[[३३०]]
धमाकूते
विरूपाक्षमभितुष्टात्र भक्तिमान् । नारायणः - ’ त्वत्सं- भूता भूतकृतो वरेण्य गोप्तारोऽस्य भुवनस्यादिदेव । आविश्येमां धरणीं येऽभ्यरक्षन्पुरा पुराणीं तव देव दृष्टिम् । ऐन्द्रं याम्यं वारुणं वैत्तपाल्यं पैत्रं त्वाष्ट्रं कर्म सौम्यं च तुभ्यम् । रूपं ज्योतिः शब्दमाकाशो वायुः स्पर्शः स्वाद्यः सलिलं गन्ध उवीं ॥ कालो ब्रह्मा ब्रह्म च ब्राह्मणाश्च त्वत्संभूतस्थास्तु सरिन्मुचेदम् । भूतं भव्यं भविता चात्रधृष्यं त्वत्संभूता भुवनानीह विश्वा । भक्तं च मां भजमानं भजस्व मा रीरिषो मामहिताहितेन । अ- स्वौषं त्वां तव संमानमिच्छन्विचिन्वन्वै सदृशं देव- वर्यम् ॥ सुदुर्लभान्देहि वरान्ममेष्टानभिष्टुतः प्रविकार्यश्व मायाम् ॥ व्यासः - ’ तस्मै वरानचिन्त्वाय नीलकण्ठः पिनाकवृक् । अर्हते वासुदेवाय प्रायच्छदृषिसंसुतः ॥ श्रीभगवानुवाच — मत्प्रसादान्मनुष्येषु देवगन्धर्वयोनिषु । अप्रमेयबलात्मा च नारायण भविष्यसि ॥ न च त्वां प्रस- हिष्यन्ति देवासुरमहोरगाः । न सुपर्णास्तथा नागा न च विश्वे वियोनिजाः ॥ न कश्चित्रां तु देवोऽपि समरेषु
बार
[[३३१]]
विजेष्यति । न शस्त्रेण न वज्रेण नाभिना न च वायुना ॥ न चार्द्रेण न शुष्केण चरेण स्थावरेण च । कश्चित्तव रुजां कर्ता मत्प्रसादात्कथंचन । अपि चेत् समरं गत्वा भविष्यसि समाधिकः । एवमेते पुरा लब्धा वरास्ते विद्धि शौरिणा ॥ स एष देवश्चरति मायया मोहय- जगत् । तस्यैव तपसो जातं नरं नाम महामुनिम् ॥ तुल्यमेतेन देवेन त्वं जानीह्यर्जुनं सदा । तावेतौ पूर्व- देवानां परमोपचितावृषी ॥ लोकयात्राविधानार्थ संजा- येते युगे युगे । तथैव कर्मणा तूर्ण महतसपसोऽपि वा ॥ तेजो मन्युं च विभ्रंस्त्वं जातो रौद्रो महामुने । स भवा- देववत्प्राज्ञो ज्ञात्वा भवमयं जगत् ॥ अनाकर्षस्त्वमा- स्मानं नियमैस्तत्प्रियेच्या ॥ शुद्धमन्त्रं हविः कृत्वा महापुरुषविग्रहम् ॥ इंजिवांस्त्वं जपैर्होमैरुपहारैश्व मानद । स तथा पूज्यमानस्ते पूर्वदेहेऽप्यतूतुषत् । पुष्कलांच वरा- प्रादात्तव विद्वान्हृदि स्थितान् ॥ जन्मकर्मतपोयोगास्तयो- स्तत्र च पुष्कलाः । ताभ्यां लिङ्गेऽर्चितो देवस्त्वयार्यायां युगे युगे ॥ स एष रुद्रभक्त केशवो रुद्रसंभवः । सर्व-
[[३३२]]
धर्माांकूते
रूपं भवं ज्ञात्वा लिङ्गमर्चयति प्रभुम् ॥ आत्मयोगाच तस्मिन्वै शास्त्रयोगाच शाश्वताः । एतमेवाजयन्देवाः सि- द्धा परमर्षयः । प्रार्थयन्ति परं लोके स्थाणुमेकं सं सर्वकृत् । कृष्ण एव हि यष्टव्यो यज्ञेश्चैव सनातनः ॥ सर्वभूतभवं ज्ञात्वा लिङ्गमर्चति यः प्रभुम् । तस्मिन्न- भ्यधिकां प्रीतिं करोति वृषभध्वजः ॥ तस्य तद्वचनं श्रुत्वा द्रोणपुत्रो महारथः । नमश्कार रुद्राय बहुमेने न केशवम् ॥ हृष्टरोमा च वश्यात्मा नमस्कृत्य महर्षये । संग्रामेऽन्यहनच्छत्रूञ्शरौघैर्विमलैरहम् । अप्रतो लक्षये यान्तं पुरुषं पावकप्रभम् ॥ ज्वलन्तं शूलमुद्यम्य यां दिशं प्रतिपद्यते । तस्यां दिशि विशीर्यन्ते शत्रवो मे महामुने । तेन भग्नानरीन्सर्वान्मद्धमान्मन्यते जनः । तेन भग्नानि सैन्यानि पृष्ठतो ननु हन्म्यहम् ॥ भग- वंस्तं ममाचक्ष्व को वै स पुरुषोत्तमः । शूलपाणिर्मया दृष्टस्तेजसा सूर्यसंनिभः ॥ न पद्भयां स्पृशते भूमिं शूलं न च विमुश्वति । शुलाच्छूल सहस्राणि निपेतुस्तस्य तेजसा ॥ व्यासः- प्रजापतीनां प्रथमं तेजसां प्रथमं प्रभुम् ।
,
बाद
[[३३३]]
भुवनं भूर्भुवं देवं सर्वलोकेश्वरं प्रभुम् ॥ ईशानं वरदं पार्थ दृष्टवानसि शंकरम् । तं गच्छ शरणं देवं वरदं भुवनेश्वरम् ॥ महादेवं महात्मानमीशानं जटिलं शिवम् । त्र्यक्षं महाभुजं रुद्रं शिखिनं चीरवाससम् ॥ महादेवं वरं स्थाणुं वरदं भुवनेश्वरम् । जगत्प्रधानमधिकं जगत्प्री- तिमधीश्वरम् ॥ जगद्योनिं जगद्वीजं जयिनं जगतो गतिम् । विश्वात्मानं विश्वसृजं विश्वमूर्ति यशस्विनम् ॥ विश्वेश्वरं विश्ववरं कर्मणामीश्वरं प्रभुम् । शंभुं स्व- यंभुं भूतेशं भूतभव्यभवोद्भवम् ॥ योगं योगेश्वरं श सर्वलोकेश्वरेश्वरम् । सर्वश्रेष्ठं जगच्छ्रेष्ठं वरिष्ठं परमे - ष्ठिनम् ॥ लोकत्रयविधातारमेकं लोकत्रयाश्रयम् । सुदु- र्जयं जगन्नाथं जन्ममृत्युजरातिगम् ॥ ज्ञानात्मानं ज्ञान- गम्यं ज्ञानिश्रेष्ठं सुदुर्विदम् । दातारं चैव भक्तानां प्रसा- दविहितान्वरान् । तस्य पारिषदा दिव्या रूपैर्नानाविधै- विभोः । वामना जटिला मुण्डा ह्रस्वग्रीवा महोरगाः ॥ महाकाया महोत्साहा महाकर्णास्तथापरे । आननैर्वि- कृतैः पादैः पार्थ वेवैश्व बैकृतैः ॥ ईदृशः स महादेवः
धर्माकूते
पूज्यमानो महेश्वरः । स शिवस्तात तेजस्वी प्रसादाद्याति तेऽग्रतः ॥ तस्मिन्धोरे सदा पार्थ संग्रामे रोमहर्षणे । द्रो- णकर्णकृपैर्गुप्तां महेष्वासैः प्रहारिभिः ॥ कस्तां सेनां तदा पार्थ मनसापि प्रधर्षयेत् । ऋते देवान्महेष्वासाद्बहुरूपा- महेश्वरात् ॥ स्थातुमुत्सहते कश्चिन्न तस्मिन्नग्रतः स्थिते । न हि भूतं समं तेन त्रिषु लोकेषु विद्यते ॥ गन्धेनापि हि संग्रामे यस्य क्रुद्धस्य शत्रवः । विसंज्ञा हतभूयिष्ठा वेपन्ति च पतन्ति च ॥ तस्मै नमस्तु कुर्वन्तो देवास्ति- टन्ति वै दिवि । ये चान्ये मानवा लोके ये च स्वर्गजितो नराः ॥ ये भक्ता वरदं देवं शिवं रुद्रमुमापतिम् । इह लोके सुखं प्राप्य ते यान्ति परमां गतिम् ॥ नमस्कुरुष्व कौन्तेय तस्मै शान्ताय सदा । रुद्राय शितिकण्ठाय कनिष्ठाय सुवर्चसे ॥ कपर्दिने करालाय हर्यक्षवरदाय च । याम्यायाव्यक्तकेशाय सहते शंकराय च ॥ काम्याय हरिनेत्राय स्थाणवे पुरुषाय च । भास्कराय सुतीर्थाय देव- देवाय रंहसे ॥ बहुरूपाय सर्वाय प्रियाय प्रियवा दिने । सोष्णीषाय सुचक्राय सहस्राक्षाय मीढुषे ॥ हिरण्य-
I
बालकाण्डः ।
[[३३५]]
बाणचीराय उग्राय पतये दिशाम् । पर्जन्यपतये चैव भूतानां पतये नमः ॥ वृषाणां पतये चैव गवां च पतये तथा । वृक्षैरावृतकामाय सेनान्ये मध्यमाय च ॥ स्रुव- हस्ताय देवाय धन्विने भार्गवाय च । बहुरूपाय विश्वय पतये मुवाससे । सहस्रशिरसे चैव सहस्रनयनाय च ॥ सहस्रबाहवे चैव सहस्रचरणाय च । शरणं गच्छ कौन्तेय वरदं भुवनेश्वरम् । उमापतिं विरूपाक्षं दक्षयज्ञ- निबर्हणम् ॥ प्रजानां पतिमत्युग्रं भूतानां पतिमव्ययम् ॥ कपर्दिनं वृषावर्त वृषनाभं वृषध्वजम् ॥ वृषदर्प वृषपति वृषशृङ्गं वृषर्षभम् । वृषाङ्कं वृषभोदारं वृषभं वृषभेक्षणम् ॥ वृषायुधं वृषशरं वृषभूतं महेश्वरम् । महोदरं महाकार्य द्वीपिचर्मनिवासिनम् ॥ लोकेशं वरदं मुण्डं ब्रह्मण्यं ब्राह्म- णप्रियम् । त्रिशूलपाणि वरदं खङ्गचर्मधरं शुभम् ॥ पिनाकिनं खडवरं लोकानां पतिमीश्वरम् । प्रपद्ये देवमीशानं शरण्यं चीरवाससम् । नमस्तस्मै सुरेशाय यस्य वैश्रवणः सखा । सुवाससे नमो नित्यं सुव्रताय सुधन्विने ॥ धनुर्धराय देवाय प्रियधन्वाय धन्विने । धन्वन्तराय
[[३३६]]
धर्माकूते
धनुषे धन्वाचार्याय ते नमः ॥ उप्रायुधाय देवाय नमः सुखकराय च । नमोऽस्तु बहुरूपाय नमस्ते बहुधन्त्रिने । नमोsस्तु त्रिपुरनाय भगन्नाय च वै नमः । वनस्पतीनां पतये नराणां पतये नमः ॥ अपां च पतये नित्यं यज्ञानां पतये नमः । पूषदन्तविनाशाय त्र्यक्षाय वरदाय च ॥ हराय नीलकण्ठाय स्वर्णकेशाय वै नमः । कर्माणि यानि दिव्यानि महादेवस्य धीमतः । तानि ते कीर्तयिष्यामि यथाप्रज्ञं यथाश्रुतम् । न सुरा नासुरा लोके न गन्धर्वा न राक्षसाः ॥ सुखमेधन्ति कुपिते तस्मिन्नपि गुहागताः । दक्षस्य यजमानस्य विधिवत्संभृतं पुरा । विव्याध कुपितो यज्ञं निर्दयस्त्वभवत्तदा । धनुषा बाणमुत्सृज्य सघोषं वि- ननाद च । तेन शर्म कुतः शान्ति लेभिरे स्म सुरास्तदा ॥
[[1]]
विद्वते सहसा यज्ञे कुपिते च महेश्वरे ॥ तेन ज्यात- लघोषेण सर्वे देवाः समाकुलाः । बभवुर्वशगाः पार्थ नि- पेतुश्च सुरासुराः ॥ आप क्षुभिरे सर्वाश्चकम्पे च वसुंधरा । पर्वताश्च व्यशीर्यन्त दिशो नागाश्च मोहिताः ॥ अन्धेन तमसा लोका न प्राकाशन्त संवृताः । जनि-
बालकाण्डः ।
[[३३७]]
चान्सह सूर्येण सर्वेषां ज्योतिषां प्रभाम् ॥ चुक्षुभुर्भय- भीताश्व शान्ति चक्रुस्तथैव च । ऋषयः सर्वभूतानामा- मन सुखैषिणः ॥ पूषाणमभ्यद्रवत शंकरः प्रहसन्निव । पुरोडाशं भक्षयतो दशनान्वै व्यशातयत् । ततो निश्च- क्रमुर्देवा वेपमाना नताः स्म तम् । पुनश्च संदधे दीप्ता- न्देवानां निशिताञ्शरान् ॥ सधूमान्सस्फुलिङ्गांश्व वि सुतोयदसंनिभान् । तं दृष्ट्वा तु सुराः सर्वे प्रणिपत्य महेश्वरम् ॥ रुद्रस्य यज्ञभागं च विशिष्टं ते स्वकल्पयन् । भयेन त्रिदशा राजन् शरणं च प्रपेदिरे । तेन चैवा- तिकोपेन स यज्ञः संधितस्तदा । भग्नाश्चापि सुरा आस- न्भीताश्रापातितं प्रति ॥ असुराणां पुराण्या संस्त्रीणि वीर्यवतां दिवि । आयसं राजतं चैव सौवर्ण परमं महत् ॥ सौवर्ण कमलाक्षस्य तारकाक्षस्य राजतम् । तृतीयं तु परं तेषां विद्युन्मालिन आयसम् । न शक्तस्तानि मघवा भेत्तुं सर्वायुधैरपि ॥ अथ सर्वे सुरा रुद्रं जग्मुः शरणमर्दिताः । ते तमूचुर्महात्मानं सर्वे देवाः सवासवाः ॥ ब्रह्मदत्तवरा होते घोराखिपुरवासिनः ।

धर्माकूते
पीडयन्ति वरं लोकं यस्मात्ते वरदर्पिताः । त्वदृते देव देवेश नान्यः शक्तः कथंचन । हन्तुं दैत्यान्महादेव जहि तांस्त्वं सुरद्विषः ॥ रुद्र रौद्रा भविष्यन्ति पशवः सर्वकर्मसु । न पातयिष्यसे चैत्रानसुरान्भुवनेश्वर ॥ स तथोक्तस्तथेत्युक्त्वा देवानां हितकाम्यया । गन्धमादन- विन्थ्यौ च कृत्वा वंशध्वजौ हरः ॥ पृथ्वीं स सागवनां रथं कृत्वा च शंकरः । अक्षं कृत्वा तु नागेन्द्रं शेषं कृत्वा त्रिलोचनः ॥ चक्रे कृत्वा तु चन्द्रार्कौ देवदेवः पिनाकधृक् । तूणीकृत्वैलपत्रं च पुष्पदन्तं च त्र्यम्बकः ॥ यूपं कृत्वा तु मलयमवनाहं च तक्षकम् । योकाङ्गानि च सत्त्वानि कृत्वा शर्वः प्रतापवान् ॥ वेदान्कृत्वाथ चतुर- चतुरोऽश्वान्महेश्वरः । उपवेदान्खलीनांश्च कृत्वा लोक- वयेश्वरः ॥ गायत्रीं प्रग्रहं कृत्वा सावित्रीं च महेश्वरः । कृत्वोंकारं प्रतोद च ब्रह्माणं चैव सारथिम् ॥ गाण्डीवं मन्दरं कृत्वा गुणं कृत्वा च वासुकिम् । विष्णुं सर्वोत्तमं कृत्वा शल्यमग्निं तथैव च । वायुं कृत्वाथ वाजाभ्यां पु वैवस्वतं यमम् ॥ विद्युत्कृत्वाथ निस्राणं मेरुं कृत्वाथ वैबालकाण्डः ।
३३९.
ध्वजम् । आरुह्य स रथं दिव्यं सर्वदेवमयं शिवः ॥ त्रिपुरस्य वधार्थाय स्थाणुः प्रहरतां वरः । असुराणाम– न्तकरः श्रीमानतुलविक्रमः । स्तूयमानः सुरैः पार्थ ऋषिभिश्च तपोधनैः । स्थानं माहेश्वरं कृत्वा दिव्याखप्र- तिमं विभुः ॥ अतिष्ठत्स्थाणुभूतः स सहस्रं परिवत्सरान् । यदा त्रीणि समेतानि अन्तरिक्षे पुराणि च ॥ त्रिपर्वणा त्रिशल्येन तथा तानि बिभेद सः । पुराणि न च तं शेकुर्दानवाः प्रतिवीक्षितुम् ॥ शरं कालाग्निसंयुक्तं विष्णुसोमशिवायुतम् । पुराणि दग्धवन्तं तं देवी याता प्रवीक्षितुम् ॥ बालमङ्कगतं कृत्वा स्वयं पञ्चशिखं पुनः । उमा जिज्ञासमाना वै कोऽयमित्यब्रवीत्सुरान् ॥ असूय- तश्च शक्रस्य वज्रेण प्रहरिष्यतः । बाहुं स वज्रं तं तस्य क्रुद्धस्यास्तम्भयत्प्रभुः ॥ प्रहस्य भगवांस्तूर्ण सर्वलोकेश्वरो विभुः । ततः संस्तम्भितभुजः शक्रो देवगणैर्वृतः ॥ जगाम ससुरस्तूर्ण ब्रह्माणं प्रभुमव्ययम् । ते तं प्रणम्य शिरसा प्रोचुः प्राञ्जलयस्तदा ॥ किमप्यङ्कगतं ब्रह्म पार्वत्या भूतमद्भुतम् । बालरूपधरं दृष्ट्रा नास्माभिरभिवा-

" ३४०
धर्माकूते
दितः । तस्मात्त्वां प्रष्टुमिच्छामो निर्जिता येन वै वयम् ॥ अयुध्यता हि बालेन लीलया स पुरंदरः । तेषां तद्वचनं श्रुत्वा ब्रह्मा ब्रह्मविदां वरः । ध्यात्वा स शंभुं भगवान्बालं चा- मिततेजसम् । उवाच भगवान्ब्रह्मा शक्रादींश्च सुरोत्तमान् । चराचरस्य जगतः प्रभुः स भगवान्हरः । तस्मात्पर- तरं नान्यत्किचिदस्ति महेश्वरात् । यो दृष्टो घुमया साध युष्माभिरमितद्युतिः । स पार्वत्याः कृते देवाः कृतवा - बालरूपताम् ॥ ते मया सहिता यूयं प्रपद्यध्वं तमेव हि । स एष भगवान्देवः सर्वलोकेश्वरः प्रभुः ॥ न संबु- बुधिरे चैनं देवास्तं भुवनेश्वरम् । स प्रजापतयः सर्वे वा - लार्कसदृशप्रभम् ॥ अथाभ्येत्य ततो ब्रह्मा दृष्ट्वा च स महे- श्वरम् । अयं श्रेष्ठ इति ज्ञात्वा ववन्दे स पितामहः ॥ ब्रह्मोवाच- त्वं यज्ञो भुवनस्यास्य त्वं गतिस्त्वं परा- यणम् । त्वं भवस्त्वं महादेवस्त्वं धाम परमं पदम् ॥ त्वया सर्वमिदं व्याप्तं जगत्स्थावरजङ्गमम् । भगवन्भू- तभव्येश लोकनाथ जगत्पते । प्रसादं कुरु शक्रस्य - त्वया क्रोधादितस्य वै । व्यासः - पद्मयोनेर्वचः श्रुत्वा

बालकाण्डः ।
[[३४१]]
ततः प्रीतो महेश्वरः ॥ प्रसादाभिमुखो भूत्वा अट्टहा– समथाकरोत् । ततः प्रसादयामासुरुमां चन्द्रं च ते सुराः ॥ अभवञ्च पुनर्बाहुः प्रकृतिस्थो हि वज्रिणः ॥ तेषां प्रसन्नो भगवान्सपत्नीको वृषध्वजः । देवानां त्रि- दशश्रेष्ठो दक्षयज्ञविनाशनः ॥ स वै रुद्रः स च शिवः सोऽग्निः सर्वः स सर्ववित् । स चेन्द्रश्चैव वायुश्च सो- ऽश्विनौ च सविद्युतः ॥ स भवः स च पर्जन्यो महा- देवः स चानघः । स चन्द्रमाः स चेशानः स सूर्यो वरुणश्च सः ॥ स कालः सोऽन्तको मृत्युः स यमो राज्यहानि च । मासार्धमासा ऋतवः संध्ये संव- त्सराणि च ॥ धाता च स विधाता च विश्वात्मा वि. श्वकर्मकृत् । सर्वासां देवतानां च धारयत्यवपुर्वसुः ॥ सर्वदेवैः स्तुतो देवः सैकधा बहुधा च सः । सहस्रबा शता चैव तथा शतसहस्रधा ॥ द्वे तनू तस्य देवस्य वेदज्ञा ब्राह्मणा विदुः । घोरा चान्या शिवा चान्या ते तनू बहुधा पुनः ॥ घोरा तु या तनुस्तस्य सोऽग्निर्विष्णुः स भास्करः । सौम्या तु पुनरेवास्य आपो ज्योतीपि
[[३४२]]
धर्माकूते
चन्द्रमाः ॥ वेदाङ्गाः स्रोपनिषदः पुराणाध्यात्मनि- चयाः । यदव परमं गुह्यं स वै देवो महेश्वरः ॥ free महादेवो भूयांश्च भगवानतः । न हि सर्वे मया शक्या वक्तुं भगवतो गुणाः ॥ अपि वर्षसहस्रेण सततं पाण्डुनन्दन । सर्वैर्गृहीतान्वै सर्वपापसमन्वितान् ॥ स मोचयति सुप्रीतः शरण्यः शरणातिगान् । आयुरा- -रोग्यमैश्वर्य वित्तं कामांश्च पुष्कलान् ॥ स ददाति मनुष्येभ्यः स चैवाक्षिपते पुनः । सेन्द्रादिषु च देवेषु तस्यैवैश्वर्यमुच्यते । स चैव व्यापृतो लोके मनुष्याणां शुभाशुभे । ऐश्वर्याश्चैव कामानामीश्वरश्च स उच्यते ॥ महेश्वरश्व भूतानां महतामीश्वरश्व सः । बहुभिर्बहुधा रूपैर्विश्वं व्याप्नोति वै जगत् ॥ तस्य देवस्य यद्वक्रं समुद्रे तदधिष्ठितम् । बडवामुखेति विख्यातं पिबत्तीय- मयं हविः । एष चैव श्मशानेषु रुद्रो वसति नित्यशः । यजत्येनं जनास्तत्र वीरस्थान इतीश्वरम् ॥ अभ्य दीप्तानि रूपाणि घोराणि च बहूनि च । लोके यान्यय -पूज्यन्ते मनुष्याः प्रवदन्ति च । नामधेयानि लोकषु
बालकाण्डः ।
[[३४३]]
बहून्यस्य यथार्थवत् । निरुच्यन्ते महत्त्वाच्च विभुत्वा- स्कर्मणस्तथा ॥ वेदे चान्यसमाख्यातं शतरुद्रीयमुत्तमम् । नाम्ना चानन्तरुद्रेति ह्युपस्थानं महात्मनः । सकामानां प्रभुर्दिव्यो ये दिव्या ये च मानुषाः ॥ स विभुः स प्रभु- देवो विश्वं व्याप्नोति वै महत् । ज्येष्ठं भूतं वदन्त्येनं ब्रा- ह्मणा मुनयस्तथा ॥ प्रथमो ह्येव देवानां मुखादस्यानलो- ऽभवत् । सर्वथा यत्पशून्पाति तैश्च यद्रमते पुनः । तेषा- मधिपतिर्यश्व तस्मात्पशुपतिः स्मृतः । दिव्यं च ब्रह्मचर्येण लिङ्गमस्य यथा स्थितम् ॥ महयत्येष लोकांच महेश्वर इति स्थितः । ऋषयश्चैव देवाव गन्धर्वाप्सरसस्तथा ॥ लिङ्गमस्यार्चयन्ति स्म तच्चाप्यूर्ध्व समास्थितम् । पूज्य - माने ततस्तस्मिन्मोदते च महेश्वरः ॥ स्वयं प्रीतच भवति प्रहृष्टश्चैव शंकरः । यदस्य बहुधा रूपं भूतं भव्यमवस्थितम् । स्थावरं जङ्गमं चैव बहुरूपस्ततः स्मृतः । एकाक्षो जाज्वलनास्ते सर्वतोऽक्षिमयोऽपि वा ॥ क्रोधा- विशेल्लोकात्तस्मात्सर्व इति स्मृतः । धूम्ररूपं च यत्तस्य धूर्जटिस्तेन चोच्यते ॥ विश्वे देवाश्व यस्तस्मिन्विश्वरू-
[[३४४]]
धर्माकूते
पस्ततः स्मृतः । समेधयति यन्नित्यं सर्वार्थान्सर्वक- मेसु ॥ शिवमिच्छन्मनुष्याणां तस्मादेष शिवः स्मृतः । सहस्राक्षोऽयुताक्षो वा सर्वतोऽक्षिमयोऽपि वा ॥ यच विश्वं महत्पाति महादेवस्ततः स्मृतः । तिस्रो देवी- यंदा चैव भजते भुवनेश्वरः ॥ द्यामपः पृथिवीं चैव त्र्यम्बकश्च ततः स्मृतः । महत्पूर्वस्थितो यश्च प्राणो- त्पत्तेः स्थितश्च यत् ॥ स्थितलिङ्गश्च यन्नित्यं तस्मात्स्था- गुरिति स्मृतः । सूर्याचन्द्रमसोलोंके प्रकाशन्ते रुच- च याः । ताः केशसंज्ञितात्र्यक्षे व्योमकेशस्ततः स्मृतः । कपिश्रेष्ठ इति प्रोक्तो धर्मश्व वृष उच्यते ॥ स देवदेवो भगवान्कीर्त्यतेऽस्माद्वृषाकपिः । ब्रह्माणमिन्द्रं वरुणं यमं धनदमेव च ॥ निगृह्य हरते यस्मात्तस्मा- द्धर इति स्मृतः । निमीलिताभ्यां नेत्राभ्यां बलाद्देवो महेश्वरः ॥ ललाटे नेत्रमसृजत्तेन त्र्यक्षः स उच्यते । विषमस्थः शरीरेषु समश्च प्राणिनामिह ॥ स वायुवि- क्षमस्तेषु प्राणापानः शरीरिषु । पूजयेद्विग्रहं यस्तु लिङ्गं चापि समर्चयेत् ॥ लिङ्गं पूजयिता नित्यं महतीं श्रियम–
बालकाण्डः ।
३४५.
श्नुते । ऊरुभ्यामर्धमाग्नेयं सोमा च शिवा तनुः ॥ आत्मनोऽर्थं तथा चाग्निः सोमार्ध पुनरुच्यते । तैजसी महती दीप्ता देवी यास्य शिवा तनुः ॥ भास्वती मानुषे- स्वस्य तुनुर्घोराग्निरुच्यते । ब्रह्मचर्य चरत्येष शिवा- यास्य तनुस्तथा ॥ यास्य घोरतरा मूर्तिः सर्वानतिमहे- वरः । यान्निर्दहति यतीक्ष्णो यदुप्रो यत्प्रतापवान् ॥ मांसशोणितमज्जादो यत्ततो रुद्र उच्यते । एष देवो महादेवो योऽसौ पार्थ तवाग्रतः ॥ सततं शात्रवा- निन्नस्त्वया दृष्टः पिनाकधृक् । सिन्धुराजवधार्थाय प्रतिज्ञाय त्वयानघ ॥ कृष्णेन दर्शितः स्वमे यस्तु शैलेन्द्रमूर्धनि । एष वै भगवान्देवः संग्रामे याति ते- ऽग्रतः ॥ तेन दत्तानि चास्त्राणि यैस्तया दानवा हताः । धन्यं यशस्यमायुष्यं पुण्यं वेदैश्व संमितम् ॥ देवदेवस्य ते पार्थ व्याख्यातं शतरुद्रियम् । सर्वार्थसाधकं पुण्यं सर्व विषनाशनम् ॥ सर्वपापप्रशमनं सर्वदुःखविना- शनम् ॥ चतुर्विधमिदं स्तोत्रं यः शृणोति नरः सदा ॥ विजित्य सर्वाञ्शत्रून्स रुद्रलोके महीयते । चरितं महा-
D 28
[[३४६]]
धर्माकूते
त्मनो दिव्यं सांग्रामिकमिदं शुभम् ॥ पठन्वै शतरुद्रीय शृण्वंश्च सततोत्थितः । भक्तो विश्वेश्वरं देवं मानुषेषु व यः सदा ॥ वरान्स कामाल्लभते प्रसन्ने व्यम्बके नरः । गच्छ युध्यस्व कौन्तेय न तवास्ति पराजयः । यस्य मन्त्री च गोप्ता च पार्श्वस्थो हि जनार्दनः । संजयः – एवमु क्त्वार्जुनं संख्ये पराशरसुतस्तदा ॥ जगाम भरतश्रेष्ठ यथागतमरिंदम’ इति शतरुद्रीये कृष्णस्य तपःप्रसादि- तपरमेश्वरवरलब्धमेव माहात्म्यमिति प्रतिपादनेन, अर्जुनं प्रति सकलधार्तराष्ट्रानीकवधः त्वदप्रयायित्रिशूलधारि- परमेश्वरकृत एवेति व्यासवचनेन, दक्षयज्ञविध्वंसनत्रि- पुरदहननरेन्द्रहस्तस्तम्भप्रतिपादनेन च, शिव एव उत्कृष्ट इति प्रतिपादितम् । तथा द्रोणपर्वणि जयद्रथवधे- अर्जुनस्तु अभिमन्युवधजनितामर्षेण श्वोभूतेऽनस्तमित एव भगवति सहस्ररश्मौ जयद्रथं वधिष्यामि न चेदमि प्रवेक्ष्यामीति प्रतिज्ञां कृत्वा नैत्यकनैशशिवपूजार्थमुपा- विशत् । ’ ततः स्पृष्टोदके पार्थे विनीताः परिचारिकाः । दर्शयन्तोऽन्तिके चक्रुर्नैशं त्रैयम्बकं बलिम् ॥ ततः
बालकाण्डः ।
[[३४७]]
प्रीतमनाः पार्थो गन्धमाल्यैव माधवम् । अलंकृत्योप- हारं तं नैशं तस्मै न्यवेदयत्’ । ततस्तेनाने कबलपरिवृतं जयद्रथमशक्यवधमवलोक्य पृष्टः श्रीकृष्णः उदकमुप- स्पृश्य ध्यानावगततद्वधोपायः परमेश्वरप्रसादलब्धपाशुप- तास्त्रस्त्वं वोभूते जयद्रथं हन्तासीत्यवादीत् । ततः कृष्णेनोपदिष्टोपायोऽर्जुन उपस्पृश्योदकमुपविश्यासने ध्या- कैलासपर्वते कृष्णेन नीयमानमात्मानं ददर्श । ’ समा- साद्य तु तं शैलं शैलात्रे समवस्थितम् । तपोनित्यं महा- स्मानमपश्यद्वृषभध्वजम् ॥ सहस्रमिव सूर्याणां दीप्यमानं स्वतेजसा । शूलिनं जटिलं गौरं वल्कलाजिनवाससम् ॥ नयनानां सहस्रैश्च विचित्राङ्गं महौजसम् । पार्वत्या स- हितं देवं भूतसंधैव भास्वरैः ॥ स्तूयमानं स्तवैर्दिव्यै- ऋषिभिर्ब्रह्मवादिभिः । गोप्तारं सर्वभूतानामिष्वास- धरमच्युतम् । वासुदेवस्तुतं दृष्ट्रा जगाम शिरसा क्षि- तिम् । पार्थेन सह धर्मात्मा गृहन्त्रह्म सनातनम् ॥ लोकादि विश्वकर्माणमजमीशानमव्ययम् । मनसः परमं योनि खं वायुं ज्योतिषां निधिम् ॥ स्रष्टारं वारिधा-
[[३४८]]
धर्माकूते
राणां भुवश्व प्रकृतिं पराम् । देवदानवयक्षाणां मान- वानां च साधनम् ॥ योगानां च परं ब्रह्म तृप्तब्रह्मविदां निधिम् । चराचरस्य स्रष्टारं प्रतिहर्तारमेव च ॥ काल- कोपं महात्मानं शक्रसूर्यगुणोदयम् । ववन्दे तं सदा कृष्णो वामनोबुद्धिकर्मभिः ॥ यं प्रपद्यन्ति विद्वांसः सूक्ष्माध्यात्मपदेषिणः । तमजं कारणात्मानं जग्मतुः शरणं भवम् ॥ अर्जुनश्चापि तं देवं भूयो भूयोऽप्य- वन्दत । ज्ञात्वा तं सर्वभूतादि भूतभव्यभवोद्भवम् ॥ ततस्तावागतौ दृष्ट्वा नरनारयणावुभौ । सुप्रसन्नमनाः शर्वः प्रोवाच प्रहसन्निव ॥ स्वागतं वां नरश्रेष्ठावृत्ति- ष्ठेतां गतकुमौ । किं च वामीप्सितं वीरौ मनसः क्षिप्र- मुच्यताम् ॥ येन कार्येण संप्राप्तौ युवां तत्साधयामि किम् । त्रियतामात्मनः श्रेयस्तत्सर्व प्रददामि वाम् ॥ ततस्तद्वचनं श्रुत्वा प्रत्युत्थाय कृताञ्जली । वासुदेवा- र्जुन शर्व तुष्टवाते महामती ॥ भक्त्या स्तवेन दिव्येन महात्मानाव निन्दितौ । कृष्णार्जुनावूचतुः – नमो भवाय शर्वाय रुद्राय वरदाय च । पशूनां पतये नित्यमुप्राय चबालकाण्डः ।
[[३४९]]
कपर्दिने ॥ महादेवाय भीमाय त्र्यम्बकाय च शान्त- ये । ईशानाय मखन्नाय नमोऽस्त्वन्तकघातिने ॥
कुमारगुरवे नित्यं नीलग्रीवाय वेधसे । पिनाकिने हविष्याय सत्याय विभवे सदा ॥ विलोहिताय धूम्राय व्याधायानपराजिते । नित्यं नीलशिखण्डाय शूलिने दिव्यचक्षुषे । होत्रे पोत्रे त्रिनवाये व्यासाय वसुरेतसे ॥ अचिन्त्यायाम्बिकाभ सर्वदेवस्तुताय च । वृषध्वजाय मुण्डाय जटिने ब्रह्मचारिणे ॥ तप्यमानाय सलिले ब्रह्म- ण्यायाजिताय च । विश्वात्मने विश्वसृजे विश्वमावृत्य तिष्ठते । नमो नमस्ते सेव्याय भूतानां प्रभवे सदा ॥ arrrrrr शर्वाय शंकराय शिवाय च । नमोsस्तु वाचां पतये प्रजानां पतये नमः ॥ नमो विश्वस्य पतये महतां पतये नमः । नमः सहस्रशिरसे सहस्रभुजमन्यवे ॥ सहस्रनेत्रपादाय नमोऽसंख्येयकर्मणे । नमो हिरण्यव- र्णाय हिरण्यकवचाय च । भक्तानुकम्पिने नित्यं सि. व्यतां नौ वरः प्रभो । संजयः- एवं स्तुत्वा महा- देवं वासुदेवः सहार्जुनः । प्रसादयामास भवं तदा
[[३५०]]
धर्माकूते
matपलब्धये । संजय उवाच — ततः पार्थः प्रस- नात्मा प्राञ्जलिर्वृषभध्वजम् ॥ ददर्शोत्फुल्लनयनः स- मस्तं तेजसां निधिम् । तं चोपहारं स्वकृतं नैशं नैत्यक- मात्मनः । ददर्श त्र्यम्बकाभ्याशे वासुदेवनिवेदितम् । ततोऽभिपूज्य मनसा कृष्णं शर्वे च पाण्डवः ॥ इच्छा- म्यहं दिव्यमस्त्रमित्यभाषत शंकरम् । ततः प्रसन्नेन परमे- वरेणामृतमयसरसि सर्वासुरनिबर्हणं सशरं धनुर्मया नि- हितम्, तदानीयताम्, प्रदास्यामि दिव्यमस्त्रमित्यभिहितौ कृष्णार्जुनौ तत्सरः समीपमागत्य सहस्रशिरोनागरूपधा- रिणं बाणं धनु केवलनागरूपमवलोक्य, कृतशतरुद्र - स्तोत्रलब्धनिजरूपं सशरं धनुरादाय देवाय निवेद्य महा- देवपार्श्वे स्थितब्रह्मचारिप्रदर्शितज्यारोपमुष्टिबन्धशरमोक्ष- प्रकार : भवमुखावगतपाशुपतमन्त्रः तदुपदिष्टप्रकारेण स्व- यमपि तथैव शरमारोप्य तस्मिन्नेव सरसि शरमोक्षण- पूर्वकं धनुर्निक्षिप्य, संहृष्टरोमा दुर्धर्षः कृतं कार्यमम- न्यत । ववन्दतुश्च संहृष्टौ शिरोभ्यां तं महेश्वरम् । अनु- ज्ञातौ क्षणे तस्मिन्भवेनार्जुनकेशवौ ॥ प्राप्तौ स्वशिबिरं
बा
[[३५३]]
वीरौ मुदा परमया युतौ । तथा भवेनानुमतौ महासुर- निघातिना’ इति कृष्णार्जुनयोर्नतिस्तुत्यादिना प्रसन्नात्प- रमेश्वरात्पाशुपतास्त्रपाप्तिकथनेन च शिव एव उत्कृष्टः इति प्रतिपादितम् । तथा च हरिवंशे - पुत्रार्थं तप्यमानया रु- क्मिण्या संप्रार्थितः श्रीकृष्णः पतगराजमारुह्य कैलासम- गमत् । तत्र जपोपवासहोमादिनियमानाचरन्स्वाभिल- षितप्रदानाय संप्राप्तमासहायं महेन्द्रादिसकलदेवगणसं- स्तूयमानं भगवन्तमुमापतिमवलोक्य संजातसंतोषः प्रण- म्यास्तौषीत ‘नमस्ते शितिकण्ठाय नीलग्रीवाय वेधसे । नमस्ते शोचिषे अस्तु नमस्त उपवासिने ॥ नमस्ते अस्तु विदुषे नमस्ते गदिने हर । नमस्ते विश्वकर्त्रे ते वृषाय वृषरूपिणे ।
[[1]]
अमूर्ताय च मूर्ताय नमस्तेऽस्तु पिनाकिने । नमः कुब्जाय कक्ष्याय शिवाय शिवरूपिणे । नमो हिताय विप्राय नमो हरिहराय च । नम आद्याय बीजाय शुचये भस्मरू- पिणे । हराय हरिरूपाय नमस्ते तिग्मतेजसे । भक्तप्रियाय भक्ताय भक्तानां वरदायिने । नमो दक्षमखन्नाय मृगु- नेत्रापहारिणे । उमापते नमस्तुभ्यं कैलासनिलयाय च ॥
[[1]]
[[३५२]]
धर्माकूते
आदिदेवाय देवाय भवाय भवरूपिणे । नमः कपालह- स्ताय मनोजमथनाय च । त्र्यम्बकाय नमस्तुभ्यं त्र्य- क्षाय च शिवाय च । वरदाय वरेण्याय नमस्ते चन्द्र- शेखर ॥ नम इष्माय हविषे स्रुवाय च कुशाय च । नमस्ते शतद्युम्नाय नागपाशप्रियाय च ॥ विरूपाय सुरू- पाय भद्रयानप्रियाय च । श्मशानरतये नित्यं जपशब्द- प्रियाय च । स्वरप्रियाय शर्वाय स्वराय स्वररूपिणे । भद्रप्रियाय भद्राय भद्ररूपधराय च ॥ रक्ष देव जगन्नाथ लोकान्सर्वान्महाहर । त्राहि भक्तान्महादेव भक्तप्रिय सदा हर ॥ ततो वृषध्वजो देवः शूली साक्षादुमापतिः । करं करेण संस्पृश्य विष्णोश्चक्रधरस्य ह । प्रोवाच भग- वान्रुद्रः केशवं गरुडध्वजम्’ । पुरा केनचित्कारणेन तपः कुर्वाणस्य मम शुश्रूषया समीपे संचरन्त्यां च पार्वत्यां मत्समाधिभीरुणा महेन्द्रेण वसन्तकोकिलमलयानिला- दिपरिवारेण मत्समीपं प्रेषितं मन्मथं तपोविघातार्थ- मुद्धृतप्रसूनायुधं मदीयनिटिलानलज्वालयानङ्गतामापन्न- मवलोक्य चतुर्मुखमुखमखभुजः प्रसादयामासुः । ततः
बाळकाण्डः ।
[[३५३]]
संजात करुणेन मया मन्मथः प्रद्युम्ननामा तव पुत्रो भवितेति अनुगृहीत इति अभिहितवानिति कृष्णस्य स्वतपश्चर्या प्रसादितपरमेश्वरेण प्रद्युम्नाख्यपुत्रलाभप्रति- पादनेन शिव एव उत्कृष्टः विष्णुस्तद्भक्काग्रेसरः पूजकच इति मन्यन्ते । एवमन्यतरोत्कर्ष वदतामन्यतरग्रन्थाप्रा- माण्यं प्रसज्यते । तत्तु श्रुतिस्मृतीतिहासपुराणप्रामाण्या- भ्युपगन्तृभिः आस्तिकैरङ्गीकर्तुं न शक्यते । अतः कृत्स्नप्रामाण्यमुपपादयतां परस्पराविरोधाय शिवविष्ण्वोः अभेदाभ्युपगममन्तरा नान्या गतिः । स चाभेदः शिव विष्णू कर्षप्रतिपादकत्वेन भवदुदाहृततत्तदाख्यायिका- स्वेव प्रतिपादितः । तथा हि तत्रैव विष्णुपुराणे बा- णासुरयुद्धे - ’ कृत्तो विभिन्नमात्मानं द्रष्टुमर्हसि शंकर । योऽहं स त्वं जगचेदं सदेवासुरमानुषम् । अविद्यामोहि- तात्मानः पुरुषा भिन्नदर्शिनः ’ इति । तथा हि हरिवंशे- ‘न च युद्धं महाबाहो तव कृष्णेन रोचते । नावबुध्यसि कृष्णं त्वमात्मानं च द्विधाकृतम्’ इति पितामहे- नोक्तः शंकरः, ’ ततः शरीरयोगेन भगवानव्ययः
[[३५४]]
धर्माकूते
प्रभुः । प्रविश्य पश्यते कृत्स्नांस्त्रील्लोकान्सचराचरान् ॥ आत्मानं कृष्णदेहस्थं पश्यते ह्येकयोनिजम् । ततोऽभि- सृत्व कृष्णस्तु न्यस्तवादोऽभवन्मृधे ॥ ब्रह्माणं चात्रवी- द्रुद्रो न योत्स्ये भगवन्निति । ततः कृष्णोऽथ रुद्रव परि- ध्वज्य परस्परम् ॥ परां प्रीतिमुपागम्य संग्रामादथ ज- ग्मतुः ’ इति । एवं द्रोणपर्वणि शतरुद्रीये व्यासं प्रति अर्जुनवचनम् - ’ संग्रामे न्यहनच्छत्रञ्शरौधैर्विमलैर- हम् । अग्रतो लक्षये यान्तं पुरुषं पावकप्रभम् ॥ ज्वलन्तं शूलमुद्यम्य यां दिशं प्रतिपद्यते । तस्यां दिशि विशी- र्यन्ते शत्रवो मे महामुने । तेन भग्नानरीन्सर्वान्म- नान्मन्यते जनः । तेन भग्नानि सैन्यानि पृष्ठतो ननु हन्म्यहम् । भगवंस्तन्ममाचक्ष्व को वै स पुरुषो- त्तमः । व्यासः- • ’ ईशानं वरदं पार्थं पृष्टवानसि शंकरम् । तं गच्छ शरणं देवं वरदं भुवनेश्वरम् ॥ एष देवो महादेवो योऽसौ पार्थं तवामतः । सततं शात्रवा- निम्नंस्त्वया दृष्टः पिनाकधृक ॥ सिन्धुराजवद्यार्थाय प्रति- ज्ञा यत्त्वयानघ । कृष्णेन दर्शितः स्वप्ने यस्तु शैलेन्द्र-
बालकाण्डः ।
[[३५५]]
मूर्धनि । एष वै भगवान्देवः संग्रामे याति तेऽयतः । तेनः दत्तानि चास्त्राणि यैस्त्वया दानवा हताः ॥ गच्छ युध्यस्व कौन्तेय न तवास्ति पराजयः । यस्य मन्त्री च गोप्ता च पार्श्वस्थो हि जनार्दनः’ इति । अनेन भगवता शिवेन भारतीयानां हननं कृतम् । सव्यसाची तु नि- मित्तमात्रमिति व्यासेन प्रतिपादितम् । एवं गीतायां भगवद्वाक्यम् - श्री भगवानुवाच - ‘कालोऽस्मि लोक- क्षयकृत्प्रवृद्धो लोकान्समाहर्तुमिह प्रवृत्तः । ऋतेऽपि त्वा न भविष्यन्ति सर्वे येऽवस्थिताः प्रत्यनीकेषु योधाः ॥ तस्मात्त्वमुत्तिष्ठ यशो लभस्व जिला शत्रून्भुङ्क्ष्व राज्यं समृद्धम् । मयैवैते निहताः पूर्वमेव निमिमात्रं भव सव्यसाचिन् ॥ द्रोणं च भीष्मं च जयद्रथं च कर्ण तथान्यानपि योधवीरान् । मया हतांस्त्वं जहि मा व्यथिष्ठा युध्यस्व जेतासि रणे सपत्नान् । अनेन भार- तीयं सर्वसैन्यं श्रीकृष्णेन संहतमिति भगवतैवोक्तम् । एवं शतरुद्रीयगीतास्थवचनाभ्यामितर निवृत्तिपूर्वकं स्वे- नैत्र हतमित्यवगमाद्रिवविण्वोश्च भेदे वचनविरोधपरि-
[[३५६]]
हारोऽतिदुर्घटः ।
धर्माकूते
तस्मात्सकलश्रुतिशिरः संमताभेदः
सिद्धः । तथा द्रोणपर्वणि अर्जुनस्वप्रदर्शने ’ ततः प्रीत- मनाः पार्थो गन्धमाल्यैव माधवम् । अलंकृत्योपहारं तं नैशं तस्मै न्यवेदयत् ॥ तं चोपहारं स्वकृतं नैशं नैत्यक- मात्मनः । ददर्श त्र्यम्बकाभ्याशे वासुदेवनिवेदितम्’ इति वचनाभ्यां अर्जुनकृतविष्णुपूजायाः शिवशिरसि दर्शन- प्रतिपादनेन तयोरभेदः सिद्धः । तत्रैव हरिवंशे रुक्मि- णीपुत्रप्राप्तौ मार्कण्डेयनारदौ प्रति ब्रह्मवचनम् — हरि- हरस्तोत्रम् - पितामहः — मन्दरस्य गिरेः पार्श्वे नलि- न्यां भवकेशaौ । रात्रौ स्वप्नान्तरे ब्रह्मचर्यधरं हरिम् ॥ गरुडध्वजं चैव हरं हरिं च वृषभध्वजम् । विस्मयो मे महान्त्रान्दृष्ट्वा तत्परमाद्भुतम् ॥ एतदाचक्ष्व भगवन्याथा- तथ्येन सुव्रत । मार्कण्डेयः – शिवाय विष्णुरूपाय शिव- रूपाय विष्णवे ॥ अथान्तरं न पश्यामि तेन तौ दिशतः शिवम् । अनादिमध्यनिधनमेतदक्षरमव्ययम् ॥ तदेव ने प्रवक्ष्यामि रूपं हरिहरात्मकम् । यो वै विष्णुः स वै रुद्रो यो रुद्रः स पितामहः ॥ एकमूर्तिस्त्रयो देवा रुद्र-
बालकाण्डः ।
विष्णुपितामहाः । वरदा लोककर्तारो लोकनाथाः स्वयं- भुवः ॥ अर्धनारीश्वरास्ते तु व्रतं तीव्रं समास्थिताः । यथा जले जलं क्षिप्तं जलमेव तु तद्भवेत् ॥ रुद्रं विष्णुं प्रविष्टं तु तथा रुद्रमयोऽभवत् । अग्निरमिं प्रविष्टस्तु अग्निरेव यथा भवेत् । तथा विष्णुं प्रविष्टस्तु रुद्रो विष्णुमयोऽभवत् ॥ रुद्रमग्निमयं विद्याद्विष्णुः सोमा- त्मकः स्मृतः । अग्नीषोमात्मकं चैव जगत्स्थावरजङ्ग- मम् ॥ कर्तारौ चापहर्तारौ स्थावरस्य चरस्य च । जगतः शुभकर्तारौ प्रभू विष्णुमहेश्वरौ ॥ कर्तृकारणकर्तारौ कर्तृकारणकारकौ । भूतभव्यभवौ देवौ नारायणमहे- श्वरौ ॥ एते चैव प्रवर्षन्ति भान्ति पान्ति सृजन्ति च ।
एतत्परतरं गुह्यं कथितं ते पितामह ।
यश्चैनं पठते नित्यं
यचैनं शृणुयान्नरः । प्राप्नोति परमं स्थानं विष्णुरुद्रप्र- सादजम् ॥ देवौ हरिहरौ स्तोष्ये ब्रह्मणा सह संगतौ ।
[[1]]
एतौ च परमौ देवौ जगतः प्रभवाप्ययौ ॥ रुद्रस्य प्रभवो विष्णुर्विष्णोश्च प्रभवः शिवः । एक एव द्विधा भूत्वा लोके चरति नित्यशः ॥ न विना शंकरं विष्णुर्न
રૂઢ

धर्माकृते
विना केशवं शिवः । तस्मादेकत्वमापन्नो रुद्रोपेन्द्रौ स्तुतौ पुरा ॥ नमो रुद्राय कृष्णाय नमः संहतचारिणे । नमः षडर्धनेत्राय सद्विनेवाय वै नमः । नमः पिङ्गलनेत्राय पद्मनेत्राय वै नमः । नमः कुमारगुरवे प्रद्युन्नगुरवे नमः ॥ नमो धरणिधाराय गङ्गाधराय वै नमः । नमो मयूरपिच्छाय नमः केयूरधारिणे । नमः कपालमालाय वनमालाय वै नमः । नमस्त्रिशूलहस्ताय चक्रहस्ताय वै नमः । नमः कनकदण्डाय नमस्ते व्रतदण्डिने । नम- चर्मवसनाय नमस्ते पीतवाससे । नमोऽस्तु लक्ष्मीपतये पार्वतीपतये नमः । नमः खट्टाङ्गधाराय नमो मुसल- वारिणे ॥ नमो भस्माङ्गरागाय नमः कृष्णाङ्गधारिणे । नमः श्मशानवासाय नमस्त्वाश्रमवासिने । नमो वृषभवा- हाय नमो गरुडवाहिने । नमोऽस्त्वनेकरूपाय बहुरू- वै नमः ॥ नमः प्रलयकर्त्रे च नमः सागरशायि- ने । नमोऽस्तु सौम्यरूपाय नमो भैरवरूपिणे । विरु- पाक्षाय देवाय नमः सौम्येक्षणाय च । दक्षयज्ञविनाशाय बलेर्नियमनाय च । नमः पर्वतवासाय नमः सागरशायि-
रूपायबालकाण्डः ।
[[३५९]]
ने । नमः सुररिपुन्नाय त्रिपुरन्नाय वै नमः । नमोऽस्तु नरकन्नाय नमः कामाङ्गशायिने । नमस्त्वन्धकनाशाय नमः कैटभनाशिने । नमः सहस्रहस्ताय नमोऽसंख्येयबाहवे । नमः सहस्रशीर्षाय बहुशीर्षाय वै नमः ॥ दामोदराय दे- वाय मुखमेखलिने नमः । नमस्ते भगवन्विष्णो नमस्ते भगवश ॥ नमस्ते भगवन्देव नमस्ते देवपूजित । नमस्ते सामभिर्गीत नमस्ते यजुभिः स्तुत ॥ नमस्ते सुरशत्रुघ्न नमस्ते सुरपूजित । नमस्ते कर्मिणां कर्म नमोऽस्त्वमितविक्रम ॥ हृषीकेश नमस्तेऽस्तु स्वर्णकेश नमोऽस्तु ते । इमं स्तवं तु रुद्रस्य विष्णोश्चैव महात्मनः ॥ समेत्य ऋषिभिः सर्वैः स्तुतौ तौ सुमहात्मभिः । व्या- सेन वेदविदुषा नारदेन च धीमता ॥ भारद्वाजेन गा- येण विश्वामित्रेण वै तदा । अगस्त्येन पुलस्त्येन धौम्येन च महात्मना । यश्चेदं पठते नित्यं स्तोत्रं हरिहरात्म- कम् ॥ अरोगी बलवांचैव जायते नात्र संशयः । श्रियश्च लभते नित्यं न च सर्गाभिवर्तते ॥ अपुत्रो लभते पुत्रं कन्या विन्दति सत्पतिम् । गुर्विणी शृणुते
[[३६०]]
धर्माकृते
या तु वरं पुत्रं प्रसूयते ॥ राक्षसाश्च पिशाचाश्च भूतानि च विनाशकाः । भयं तत्र न कुर्वन्ति यत्रायं पठ्यते स्तवः’ इति । तस्माद्भवदुदाहृतस्थले एवाभेदप्रतिपा- दनादभेदः सिद्ध एव । नन्वेवमुभयोरुत्कर्षापकर्ष प्रतिपादक- वचनानां का गतिरिति चेन्न, औपाधिकभेदमादाय तत्त- त्कार्योपाधिकोत्कर्षापकर्षप्रतिपादकत्वे विरोधाभावात् । अन्यथा दाशरथिपरशुरामयोः परमार्थतः विष्णुस्वरूपे- णाभिन्नयोरुत्कर्षापकर्षप्रतिपादनमनुपपन्नं स्यात्, स्व- स्यैव स्वापेक्षयोत्कर्षापकर्षासंभवात् । यदि च दाशरथि- परशुरामयोः समयभेदेन तत्तत्कार्यवशात्प्रकर्षापकर्षो पर - मार्थतस्त्वैक्यमेव, तदा वैकुण्ठशितिकण्ठयोरपि कार्य- वशादेवोत्कर्षापकर्षौ परमार्थतस्त्वैक्यमेवेति स्वीकर्तव्यम् । अत एव शिवविष्ण्वोः भेदस्यापारमार्थिकत्वप्रतिपादन- पूर्वकपरतया प्रवृत्तानि अभेदवचनानि । तथा च विष्णुपु- राणे ‘सृष्टिस्थित्यन्तकारिणीं ब्रह्मविष्णुशिवात्मिकाम् । स संज्ञां याति भगवानेक एव जनार्दनः ॥ योऽहं सत्यं जगच्चेदं सदेवासुरमानुषम् । अविद्यामोहितात्मानः पुरुषा
तु
[[३६१]]
भिन्नदर्शिनः’ इति । कालिदासोऽपि ‘एकैव मूर्तिर्बि- भिदे त्रिवासौ सामान्यमेषां प्रथमावरत्वम् । विष्णोर्ह- रस्तस्य हरिः कदाचिद्वेधास्तयोस्तावपि धातुरायौ’ इति । विष्णुपुराणे - यथाह वसुधा सर्व सत्यमेतद्दिवौकसः । अहं भवो भवन्तच सर्वे नारायणात्मकम् ॥ विष्णोरन्यं पश्यन्ति ये मां ब्रह्मण एव च । कुतर्कमतयो मुढाः पच्यन्ते नरकेष्वधः ॥ ये च मूढा दुरात्मानो भिन्नं पश्यन्ति मां हरेः । ब्रह्माणं च तथा तेषां भ्रूणहत्यासमं ‘म्’ किंबहुना, प्रपध्वजीवपरब्रह्मणां परस्परभेदनि- बेधमभेदं च प्रतिपादयन्ति श्रुतिस्मृतिसूत्राणि । भेदनि- ‘धे श्रुतिरपि ‘नान्यदतोऽस्ति द्रष्टा’ ‘उदरमन्तरं कुरुते अथ तस्य भयं भवति’ ‘नान्यदतोऽस्ति श्रोता’ ‘द्विती- याद्वै भयं भवति’ ‘मृत्योः स मृत्युमाप्नोति य इह नानेव पश्यति’ ’ ब्रह्म तं परादाद्योऽन्यत्रात्मनो ब्रह्म ‘वेद’ ‘अथ योऽन्यां देवतामुपास्ते अन्योऽसावन्योऽह- मस्मीति न स वेद यथा पशुः ’ । भेदनिषेधे स्मृतिरपि- अहं हरिः सर्वमिदं जनार्दनो नान्यत्ततः कारणका-
D 29

धर्माकूते
र्यजातम् । ईदुकानो यस्य न तख भूयो भवोद्भवा द्वन्द्व गता भवन्ति ॥ न तदस्ति विना देव यत्ते विरहित जगत् । यदासीद्वर्तते यच यच भावि जगत्पते ॥ सर्वे त्व- मेव देवेश विना किचित्त्वया न हि । सितनीलादिभेदेन यथैकं दृश्यते नभः ॥ भ्रान्तदृष्टिभिरात्मापि तथैकः सन्पृथक्पृथक् ॥ ज्ञानं विशुद्धं विमलं विशोकमशेष- लोभादिनिरस्तसङ्गम् । एकः स देवः परमः परेशः स वासुदेवो न तदन्यदस्ति ॥ एकः समस्तं यदिहास्ति किंचित्तदच्युतो नास्ति परं ततोऽन्यत् । सोऽहं समस्तं स च सर्वमेतदात्मस्वरूपं त्यज भेदमोहम् ॥ अभेदे श्रुतिः – ’ एक एव रुद्रो न द्वितीयाय तस्थे’ ‘एको देवः सर्वभूतेषु गूढ एको वशी सर्वभूतान्तरात्मा’ ‘सदेव सोम्येदमग्र आसीत् ’ ‘एकमेवाद्वितीयम्’ ‘ब्रह्मैवे- दममृतं पुरस्तात् ’ ’ सर्वे खल्विदं ब्रह्म’ ’ सर्वो वै रुद्र- स्तस्मै रुद्राय नमोऽस्तु’ ’ ब्रह्म वा इदमग्र आसीत् ’ ’ एकमेव आत्मा वा इदमेक एवाय आसीनान्यत्किंचन मिषत् । स एवेदं सर्व ब्रह्मैवेदं सर्वम् ’ ’ हिरण्यगर्भः
K
समवर्तताग्रे त्वमेकोऽसि बहूननुप्रविष्टः ऐतदात्म्यमिदं सर्वम् ’ ’ अन्तर्बहिश्च तत्सर्व व्याप्य नारायणः स्थितः ’ ’ एको देवो बहुधा निविष्टः एकः सन्बहुधा विचारः ’ ’ एक एव महानात्मा’ ‘अभियैयैको भुवनं प्रविष्टो रूपं रूपं प्रतिरूपो बभूव । वायुर्यथैको भुवनं प्रविष्टो रूपं रूपं प्रतिरूपो बभूव । सूर्यो यथा सर्वलोकस्य चक्षुर्न लिप्यते चाक्षुषैर्बाह्यदोषैः । एकस्तथा सर्वभूतान्तरात्मा न लिप्यते लोकदुःखेन बाह्यः’ ‘एको वशी सर्वभूतान्तरात्मा एकं रूपं बहुधा यः करोति । तमात्मस्थं येऽनुपश्यन्ति धीरास्तेषां शान्तिः शाश्वती नेतरेषाम्’ ‘नित्यो नित्यानां चेतनश्चेतनानामेको बहूनां यो विदधाति कामान् । तमा- स्मस्थं येऽनुपश्यन्ति धीरास्तेषां शान्तिः शाश्वती नेतरे- बाम्’ ’ तत्र को मोहः कः शोक एकत्वमनुपश्यतः । सर्वेषां
भूतानामन्तरतमः स आत्मेति विद्यात् ’ ’ एकं स- द्विप्रा बहुधा वदन्ति एकं सन्तं बहुधा कल्पयन्ति । एको विममे त्रिभिरित्यादिभिः एको दधार भुवनानि विश्वा’ इत्यादिभिः । भूतेषु स्मृतिरपि ‘यदा सर्वेषु पुमानेको
[[३६४]]
धर्माकूते
व्यवस्थितः । तदा ह्येको भवान्सोऽहमित्येतद्विफलं वचः ॥ एकः समस्तं यदिहास्ति किंचित्तदच्युतो नास्ति परं ततो- ऽन्यत् ॥ सकलमिदमहं च वासुदेवपरः पुमान्परमेश्वरः स एकः । इति मतिरचला भवत्यनन्ते हृदयगते ब्रज तान्त्रि- हाय दूरात्’ इति । सूत्राणि ‘आत्मेति तूपगच्छन्ति ग्रा. हयन्ति च’ इत्यादीनि । एवं श्रुतिस्मृतिसूत्रादिभिर्भेदमा- निषेधपूर्वकमभेदस्यैव प्रतिपादनात् कैमुतिकन्यायेन वच- नैश्व शिवविष्ण्वोरभेदः सिद्धः । उत्कर्षादिप्रतिपादनं तु कार्येणाधिकमिति सर्वमवदातम् । प्रकृते ’ अधिकं मेनिरे विष्णुम्’ इति रामायणवचनं तु अमे कर्तव्यसकल- राक्षसव हेतुभूत वैष्णवधनुषः प्राशस्त्यप्रतिपादनपरं ज्ञे- यम् । अयमर्थोऽग्रे स्फुटः । ततः विष्णुकृतपराभवजनि- तकोपेन पुनरपि समारब्धयुद्धं शितिकण्ठमवलोक्य देवाः प्रसादयामासुः । प्रसन्नेन च शितिकण्ठेन तद्धनू- रत्नं निमेः षष्ठे देवराते न्यासीकृतम् । तदिदमसारं त्वया भग्नम् युद्धात्प्रतिनिवृत्तेन विष्णुना च स्वीयं धनुः ऋचीके न्यासीकृतम् । तेन चास्मत्पितरि न्यासी-
बालकाण्डः ।
३६५.
कृतम् । न्यस्तशस्त्रं चास्मत्पितरं सहस्रभुजनिषूदितमव- लोक्य, अकारणपितृवधामर्षेण त्रिः सप्तकृत्वः पृथिवीं निःक्षत्रियामकरवम् । ततः स्वभुजबलार्जितामखिलां महीं काश्यपाय महर्षये यज्ञे दक्षिणात्वेन प्रदाय महेन्द्रकृतनि- केतनोऽहं नभस्तलसंचारिदेवर्षिगणश्लाघ्यमानशितिक- ण्ठधनुर्भङ्गश्रवण संजातविस्मयः असारधनुर्भङ्गमात्रेणानि - faपराक्रमः सारतर वैष्णवधनुरारोपणेन विज्ञातभुजवी- यस्त्वया सह द्वन्द्वयुद्धं कर्तुमागतोऽस्मि इति अकथयत् । षट्सप्ततितमे - जामदग्न्यवचनश्रवण संजातसंरम्भः समी- पवर्तिपितृगौरवेणापरिकीर्तितस्वपराक्रमो दाशरथिर्ब्रा- ह्मणगौरवेण विश्वामित्रकृते च त्वामुपेक्ष्यावस्थितं वीर्य - हीनं प्राकृतं क्षत्रियमिव मां नावमन्तुमर्हसि पश्य मे पराक्रमम् इत्यभिवाय तत्करात्सशरं धनुरादाय सज्ये धनुषि शरमारोप्यामोघोऽयं शरः क वा मोक्तव्य इत्य- वादीत् । ननु
ब्राह्मणोऽसीति पूज्यो मे विश्वामित्रकृतेन च । तस्माच्छतो न ते राम मोक्तुं प्राणहरं शरम् ॥
[[३६६]]
धर्माकूते
इति वचनेन ‘ब्राह्मणो न हन्तव्यः’ इति जानता रामेण परशुरामवधोद्यमः कथं कृतः इति चेत्, न केवलब्राह्म- णस्यावध्यत्वेऽपि
तदहं ते बलं दृष्ट्वा धनुषोऽस्य प्रपूरणे । द्वन्द्वयुद्धं प्रदास्यामि वीराध्यमिदं तव ॥
इति युद्धार्थ प्रवृत्तो गुरुरपि ब्राह्मणः क्षत्रधर्मे पुरस्कृत्य क्षत्रियेण हन्तव्य एव । तथा च राजधर्मे कृष्णं प्रति भीष्मः - ‘पितृपितामहान्पित्र्यान्गुरून्संबन्धिबान्धवान् । मिथ्याप्रवृत्तान्यः संख्ये निहन्याद्धर्म एव सः ॥ सम- यत्यागिनो लुब्धान्गुरूनपि च केशव । निहन्ति यस्ता- न्समरे क्षत्रियो यः स धर्मवित्’ इति । तथा उद्योग- पर्वणि परशुरामं प्रति भीष्मः - ‘उद्यतेषुमथो दृष्ट्वा ब्राह्मणं क्षत्रबन्धुवत् । यो हन्यात्समरे क्रुद्धो युध्यन्तमपलायि- नम् ॥ ब्रह्महत्या न तस्य स्यादिति धर्मेषु निश्चयः । क्षत्रियाणां स्थितो धर्मे क्षत्रियोऽस्मि तपोधन । यो यथा वर्तते यस्मिंस्तथा तस्मिन्प्रवर्तयन् ॥ नाधर्मे सम- वाप्नोति न चाश्रेयश्च विन्दति । एते देवाः शरीरस्था
बालकाण्डः ।
[[३६७]]
ब्रह्मण्यं यच ते महत् ॥ तपश्च सुमहत्तप्तं न तेभ्यः प्रह- राम्यहम् । प्रहरे क्षत्रधर्मस्य यत्त्वं राम समास्थितः ॥ ब्राह्मणः क्षत्रियत्वं हि याति शस्त्रसमुद्यमात्’ इति । अत एव गुरुभिर्भीष्मद्रोणकृपादिभिः सह पाण्डवैर्युद्धं कृतमिति भारते प्रतिपादितम् । विस्तरभिया न लिखि- तम् । तस्माद्युद्धार्थमागतपरशुरामजयो न दोषायेति । ततः
तेजोऽभिहतवीर्यत्वाज्जामदग्न्यो जडीकृतः । रामं कमलपत्राक्षं मन्दं मन्दमुवाच ह ॥
राम, काश्यपाज्ञया भूमिभागं परित्यज्य महेन्द्रभूषरं गच्छामि त्वं च मे तपोबलार्जिताल्लोका हीत्यभिहिते, रामेण च तथा कृते, सकलदेवगणसंस्तूयमानमहिमानं -रामभद्रं सादरं प्रदक्षिणीकुर्वन्
अक्षय्यं मधुहन्तारं जानामि त्वां सुरोत्तमम् । धनुषोऽस्य परामर्शात्स्वस्ति तेऽस्तु परंतप ॥
पते सुरगणाः सर्वे निरीक्षन्ते समागताः । त्वामप्रतिमकर्माणमप्रतिद्वन्द्वमाहवे ॥
ક્
धर्माकूते
न चेयं मम काकुत्स्थ व्रीडा भवितुमर्हति ।
त्वया त्रैलोक्यनाथेन यदहं विमुखीकृतः ॥

सप्तसप्ततितमे गतो जामदग्न्यः, चातकालिर्जऴभिव त्वच्छासनमभिकाङ्क्षति चतुरङ्गिणी सेना, तदाज्ञापयतु भवात्यवदत् । अथ दशरथोऽपि तद्वचनामृतधारया संजीवितमिव ससुतमात्मानं मन्यमानस्तं परिष्वज्य मूर्ध्निः चोपाघ्राय पताकाध्वजमालिनीं सिक्तराजपथप्रकीर्णकु- सुमोत्करां स्वागमनश्रवणसंजातहर्षप्रत्युद्वतपौरजानपदस- माकीर्णराजपथामयोध्यां विवेश ॥ ततः
पुत्रैरनुगतश्रीमाञ्श्रीमद्भिश्च महायशाः । प्रविवेश गृहं राजा हिमवत्सदृशं पुनः ॥
ननन्द जनो राजा गृहे कामैः सुपूजितः । कौसल्या च सुमित्रा च कैकेयी च सुमध्यमा ।
वधूप्रतिग्रहे युक्ता याश्चान्या राजयोषितः । ततः सीतां महाभागामूर्मिलां च यशस्विनीम् ॥*
बाकाण्डः ।
कुशध्वजसुते चोभे जगृहुर्नृपपत्नयः ।
मङ्गलालम्भनैश्चैव शोभिताः क्षौमवाससः ॥
देवतायतनान्याशु सर्वास्ताः प्रत्यपूजयन् । अभिवाद्याभिवाद्यांश्च सर्वा राजसुतास्तदा ॥ स्वं स्वं गृहमथासाद्य कुबेरभवनोपमम् । गोभिर्धनैश्व धान्यैश्च तर्पयित्वा द्विजोत्तमान् ॥
रेमिरे मुदिताः सर्वा भर्तृभिः सहिता रहः । कुमाराश्च महात्मानो वीर्येणाप्रतिमा भुवि ॥
कृतदाराः कृतास्त्राश्च सघनाः ससुहृज्जनाः । शुश्रूषमाणाः पितरं वर्तयन्ति नरर्षभाः ॥
३६९.
अत्र ’ प्रविवेश गृहं राजा’ इति वचनेन पाणिग्रहणान- न्तरं क्रियमाणो गृहप्रवेशः, ‘मङ्गलालम्भनैश्चैव शोभिता’ इति वचनेन स्त्रीकर्तृकमङ्गलानि, ‘देवतायतनान्याशु सर्वास्ताः प्रत्यपूजयन् ’ इत्येतेन च देशकुलधर्माः, ‘गोभि- धनैश्च धान्यैश्च तर्पयित्वा द्विजोत्तमान’ इति वचनेन
[[३७०]]
धर्माकूते
वैवाहिक ब्रह्मचर्यादित समाध्यमं ब्राह्मणसंतर्पणपूर्वकं स्व- स्त्वयनवाचनम्, ’ रेमिरे मुदिताः सर्वा भर्तृभिः सहिता रहः’ इति वचनेन क्रमप्राप्तं संवेशनारूपं कर्म चोक्त भवति । तथा च आश्वलयनः- “प्रयाण उपपद्यमाने ‘पूषा त्वेतो नयतु हस्त गृह्य’ इति यानमारोहयेत् ‘अश्मन्वती- यते संरभवम्’ इत्यर्धर्चेन नावमारोहयेत् । उत्तरेणो- त्क्रमयेत् ‘जीवं रुदन्ती’ इति रुदत्यां विवाहाभिमप्रतो- ऽजस्रं नयन्ति । कल्याणेषु देशवृक्षचतुष्पथेषु ’ मा विदन्प- रिपन्थिन’ इति जपेत् ‘वासे वासे सुमङ्गलीरियं वधू- रिति’ ईक्षकानीक्षेत । ‘इह प्रियं प्रजया ते समृध्यताम इति गृहं प्रवेशयेद्विवाहामिमुपसमाधाय पश्चादस्यानडुहं चर्मास्तीर्य प्रारग्रीवमुत्तरलोम तस्मिन्नुपविष्टायां समन्वार- व्यायाम् ‘आ नः प्रजां जनयतु प्रजापतिः’ इति चतसृभिः प्रत्यृचं हुत्वा, ‘समखन्तु विश्वेदेवाः’ इति दनः प्राश्य प्रतिप्रयच्छेदाज्यशेषेण वानक्ति हृदये । अक्षारलवणा- शिनौ ब्रह्मचारिणावधः शायिनौ स्यातामत ऊर्ध्वं त्रिरात्रं द्वादशरात्रं संवत्सरं वैक ऋषिजयत इति चरितव्रतः
बालकाण्डः ।
[[३७१]]
सूर्याविदे वधूवत्रं दद्यादनं ब्राह्मणेभ्योऽथ स्वस्त्वयनं वाच- यीत " अत्र ब्रह्मचारिणावधः शायिनौ स्यातामिति व्रत- समाप्तिपर्यन्तं ब्रह्मचर्यकथनात् । ’ यत्तु समानं तद्वक्ष्यामः ’ इति सूत्रव्याख्यानावसरे विवाहे विदेहेषु सद्य एव व्यवायो दृष्टः । त्रिरात्रमिति गृह्ये ब्रह्मचर्य विहितम् । अत्र गृह्यो- क्तमेव कार्यम् । न सद्यो व्यवाय इति वृत्तिकृद्वाक्याच त्रिरात्रानन्तरमेव संवेशनाख्यं कर्म कर्तव्यमित्युक्तं भवती- ति । अथ खलु ’ उच्चावचजनपदधर्मा ग्रामधर्माश्च तान्वि - वाहे प्रतीयात्’ इति । बोधायनोऽपि - " अनुनयन्त्येतम- मिम्, अर्थनां पितुरङ्गादुद्वति गुरोर्वा ‘ये वध्वः’ इति । अर्थनां दक्षिणे हस्ते गृहीत्वा स्वरथमारोप्य स्वान्गृहानानय- ति ‘पूषा त्वेतो नयतु’ इति । पन्थानमनुमन्त्रयते ‘सुगं पन्था- नम्’ इति । अथ ओषधिवनस्पतयो नद्यो वनान्यनुमन्त्र- यते ’ या ओषधयः’ इति । अथ जायामानीय स्वान्गृहान्प्र- पादयति ‘भद्रान्गृहान ’ इति । अथैनामानडुहे चर्मण्यु- पवेशयति ‘इह गावः’ इति । अत्राभ्याममात्या बीजान्या- रोपयन्ते । अथ वाचं यच्छत आ नक्षत्राणामुदद्यात् ।
[[1]]
[[३७२]]
धर्माकूते
अथाहोरात्रयोः संधिमनुमन्त्रयते ‘नीललोहिते भवतः " इति । अथोदितेषु नक्षत्रेषूपनिष्क्रम्य ध्रुवमरुन्धतीं च दर्श- यति ‘ध्रुवोऽसि’ इति ध्रुवम् ‘सप्तर्षयः’ इत्यरुन्धतीमिति । अथ स्थालीपाकं श्रपयत्या धेनुवरप्रदानात् । अथाज्यशे- षेण हिरण्यमन्तर्धाय मूर्ध्नि संखावं जुहोति व्यस्तसमस्त- व्याहृतिभिः । अथैनां प्रदक्षिणमग्निं पर्याणयति ‘अर्यम्णो
I
अग्निम्’ इति । अथ संवेशनम्, ‘अथ श्रीमन्तमागारं सं– मृष्टोपलिप्तं गन्धवन्तं पुष्पवन्तं धूपवन्तं दीपवन्तं तत्पवन्तं साधिवासं दिक्षु सर्पिः सूत्रेन्धनप्रद्योतितम् उदकुम्भाद- शौच्छिरसं प्रपाद्य तस्मिन्नेनां संवेश्य तस्या अन्तिके जपति ‘उदीर्ष्वतः’ इति । अथैनामुपसंवेशयति ‘प्रजाप- तिः स्त्रियाम्’ इति । अथास्याः स्तोकोतिं विवृणोति ‘प्रजायै त्वा’ इति । सा यद्यश्रु कुर्यात् तामनुमन्त्रयते ‘जीवां रुदन्ती’ इति । ब्राह्मणेन ब्राह्मण्यामुत्पन्न प्रागुपनयनाज्जात इत्यभिधीयते उपनीतमात्रो व्रतचारी वेदानां किंचिदधीत्य ब्राह्मण एकां शाखामधीत्य श्रोत्रियो भवति अङ्गाध्याय्य- नूचानः कल्पाध्यायी ऋषिकल्पः सूत्रप्रवचनाध्यायी भ्रूणः
बालकाण्डः ।
[[३७३]]
चतुर्वेदादृषिः अत ऊर्ध्व देवः । यदि कामयेत श्रोत्रियं जनये- यमित्यरुन्धत्युपस्थानान्तं कृत्वा त्रिरात्रमक्षारलवणाशिना- वधः शायिनौ ब्रह्मचारिणावासाते अहतानां च वाससां परिधानं सायंप्रातश्वालङ्करणम् । इषुप्रतोदयोश्च धार- ‘णम् । अग्निपरिचर्या च । चतुर्थ्यां पकहोम उपसंवेशनं च । अथ यदि कामयेतानूचानं जनयेयमिति द्वादश- रात्रमेतद्व्रतं चरेत् । व्रतान्ते पक्कहोम उपसंवेशनं च । अथ यदि कामयेत ऋषिकल्पं जनयेयमिति मासमेत- तद्रतं चरेत् । व्रतान्ते पक्कहोम उपसंवेशनं च । अथ यदि कामयेत भ्रूणं जनयेयमिति चतुरो मासानेतद्व्रतं चरेद्रतान्ते पकहोम उपसंवेशनं च । अथ यदि कामयेत ऋषि जनयेयमिति षण्मासानेतद्रतं चरेत् । व्रतान्ते पकहोम उपसंवेशनं च । अथ यदि कामयेत देवं जनये- यमिति संवत्सरमेतद्व्रतं चरेद्रतान्तें पकहोम उपसं- वेशनं च । अथ यदा मलवद्वासाः स्यात् इत्यादिना ‘सर्वाण्युपगमनानि मन्त्रवन्ति भवन्तीति बोधायनः । ‘यथादौ यथाविति शालीकिः’ इत्यन्तेन गृहप्रवेशान-
[[૨૦૪]]
धर्माकूते
न्तरकर्तव्य संवेशनप्रसङ्गादृतुसंवेशनमुक्त्वा, गृहप्रवेशात्प- मेऽहनि मत्स्यबलिं वदति - ‘अथाभ्यां पञ्चमेऽहनि नापितकर्म कुर्वन्ति । नापिताय पयोदनं दत्वा प्रामात्प्रा- चीं वोदीचीं वा दिशमुपनिष्क्रम्य यत्रैकमुदुम्बुरमूलं पश्य- न्ति, तं प्रदक्षिणं परिसमूह प्रदक्षिणं गन्धैरनुलिम्पन् ज- पति ‘यथा त्वं वनस्पते’ इति । सुमनोभिः प्रच्छादयति ‘यथा त्वं वनस्पते’ इति । अत्रैव त्रिवृतान्नेन बलि- मुपहरति मन्त्रं चोदाहरन्ति - ‘ऊर्जस्वान्पयस्वान्’ इति । अन्नं संस्कृत्य ब्राह्मणान्संपूज्याशिषो वाचयित्वा, जानुदन्नमुदकमवतीर्य प्राचीनदशेनाहतेन वाससा म- त्स्यान्गृहीतो ब्रह्मचारिणं पृच्छतः, ‘ब्रह्मचारिकि प- यसि’ इति । स पृष्टः प्रतिब्रूयात् ‘पुत्रांश्च पशूंश्च’ इति । अथैनान्मत्स्यानुदुम्बुरमूले बकानां बलिमुपाहरति ‘दी- र्घायुत्वा वर्चसे’ इति । अत्रैव निर्माल्यानि परिभुक्तानि वासांसि प्रतिसरांश्च प्रतिमुच्य उदुम्बरशाखायां संसृ- जति । अथावगाह्यान्योन्यस्य पृष्ठे धावयित्वा उदकान्तं प्रति यौति ‘प्रतियुतो वरुणस्य पाशः’ इति । अन्योन्य-
बालकाण्डः ।
३७५.
मलंकृत्य रक्तानि वासांसि परिधायाहतेन वाससा वेति । यानेन पद्भ्यां वा गृहं गत्वा प्रक्षालितपाणिपादौ अप आचम्य वाग्यतौ शयनमारभेते । श्वोभूते वैश्वदेवेन प्रतिपद्यते । मासिश्राद्धे न चापरपक्षे” इति । आप- स्तम्बोऽपि ‘तां ततः प्रवाहयेत् प्रवाहारयेत्’ इत्यादि ‘गृहानुत्तरया संकाशयति’ ‘गृहान्प्रपादयन्नुत्तरां वाचयति दक्षिणेन पदा’ ‘न च देहलीमधितिष्ठति’ ‘उत्तरपूर्वदेशे- ऽगारस्याग्नेरुपसमाधानाद्याज्यभागान्तेऽन्वारख्धायामुत्तरा आहुतीर्हुत्वा जयादि प्रतिपद्यते परिषेचनान्तं च कृ- त्वा, उत्तरया चर्मण्युपविशतः उत्तरो वरः ’ ‘अथास्याः पुंस्वोर्जीव पुत्रायाः पुत्रमङ्क उत्तरयोपवेश्य तस्मै फलान्यु- तरेण यजुषा प्रदाय उत्तरे जपित्वा वाचं यच्छत आ नक्षत्रेभ्यः’ ‘उदितेषु नक्षत्रेषु प्राचीमुदीचीं वा दिशमु- पनिष्क्रम्य उत्तराभ्यां यथालिङ्गं ध्रुवमरुन्धतीं च दर्श- यति’ इत्यादि । ‘तं चतुर्थ्यापररात्र इत्युपक्रम्य जयादि प्रतिपद्यते । परिषेचनान्तं कृत्वा उत्तरास्तिस्रो जपित्वा शेषं समावेशने जपेत्’ इति । शेषम् अनुवाकशेषम् - आरो-
[[३७६]]
धर्माकूते
होरुमित्येवमादि । समावेशने समावेशनकाले जपेत् । समावेशनं च तस्मिन्नेवापररात्रे नियमेन भवति । इदमेव समावेशनं मन्त्रवन्नान्यानि । परिषेचनान्तवचनमानन्त- यर्थम् । परिषेचनान्ते एतदेव कर्म यथा स्यात् तेन भोजनं प्रागेव भवतीत्यनाकुलायाम् । अथात्र श्रीमन्तमि- त्यादिना स्तोकोति विवृणोतीत्यन्तेन, चतुर्थ्यां पक्कहोम उपसंवेशनं चेत्यनेन व्रतान्ते पक्कहोम उपसंवेशनं चेत्येवं- रूपैर्वचनैश्च, अथाभ्यां पञ्चमेऽहनीत्यारभ्य वाग्यतौ शयन- मारभेते इत्यन्तेन प्रसिद्धमुपसंवेशनमिति । सूत्रेण प्रवेशहो- मानन्तरसंवेशनमनूद्य श्वोभूत इत्यारभ्य अथास्तमितादि- त्येऽन्योन्यमलंकृत्य उपरि शय्यायां शयाते । वधूमभिम- न्त्रयते सुमङ्गलीरियं वधूरिति । अथैनां सर्वसुरभिगन्ध- माल्यानतीति परिभाषासूत्रेण सर्वाण्युपगमनानि मन्त्र- वन्ति भवन्तीति बोधायनो यश्चादौ यश्चर्ताविति शाली- किरित्यनेन च, त्रिरात्तमुभयोरधःशय्या ब्रह्मचर्ये क्षार-
वणवर्जनं चेत्यापस्तम्बसूत्रे, यदि कामयेत श्रोत्रियं ‘जनयेयमित्युपक्रम्य ब्रह्मचारिणावधःशायिनौ स्थाता-
[[१७०]]
मिति बोधायनसूत्रे, ‘अत ऊर्ध्वमक्षाळवणाशिनौ - चारिणावधः शायिनौ स्यातां त्रिरात्रं द्वादशगवं संवत्सर वैकऋषिर्जायते ’ इत्माश्वलायनसूत्रे व विरात्रादिकाल- विशेष एव त्र्युपगमनाभावरूप ब्रह्मचर्यप्रतिपादनेन मा- क्षात्संवेशनप्रतिपादक : चतुर्थ्यां पकड़ोमसंवेशनं चेन्यादि- वचनैश्च ऋतुकाळात्प्राक संवेशनानि सिद्धानि । तथा ऋतौ च संनिपातोदारेणानुव्रतमिति । अस्यार्थः जो- दर्शनादारम्य षोडशाहोरात्रा ऋतुस्तत्र संनिपातः संप्रयो गोऽक्षरेण सह कर्तव्यः । छान्दसमेकवचनम् । शास्त्रीयो नियमः । स च आद्याश्चतस्रो वयोः एकादशी त्रयोदशी च शेषा दश ग्राह्या इत्येवमादिरूपः । अनुव्रतं तदनुगे धेन, आपस्तम्बोक्तिस्तु ‘नियमः चतुर्थीप्रभृति पोडशी- मुत्तरामुत्तरां युग्मां प्रजा निश्रेयसमृतुगमन इत्युपदिशन्ति’ इति । तत्र च उत्तरामुत्तरामिति वचनान पोडश्यां गौ मद्यादियोगाभावे गच्छतः उत्कृष्टः पुत्रो भवति चतुभ्य- मत्रमः । एवं पचदश्यामुत्कृष्टा कन्या । पचम्यामवमा । एवं मध्ये करूप्यम् । षोडशस्वेव रात्रिषु गमनं गर्भहेतुः ।
D 30
.
धर्माकूते
तवापि प्रथमं तथान्तरालेऽपि दार एव अन्तराळं मध्यम् ऋतोरन्तराले मध्येऽपि संनिपातः शाहार एव कामे सति ब्राह्मणवचनाच संवेशनम् । यदिदमनन्तरोक्तं संवेशनं तत्र ब्राह्मणवचनं प्रमाणम् ‘काममा विजनितोः संभवाम’ इति । आविजनितोः पुत्रोत्पत्तिपर्यन्तं यथेच्छं संगच्छे महि इत्यर्थः । एवमुक्तानि सर्वाण्यपि संवेशनानि दिवा न कर्तव्यानि । तथा चाथर्वणी श्रुतिः – ‘प्राणं वा एते अस्कन्दन्ति ये दिवा रत्या संयुज्यन्ते ब्रह्मचर्यमेव तद्यद्रात्रौ रत्या संयुज्यन्ते ’ इति । आपस्तम्बोऽपि - ‘अन्यसंवेश- नम्’ इति । एवं चोदाहृतवचनैर्विवाहप्रभृति आर्तवात्पु- रस्ता तावन्तराले गर्भकाले च संवेशनानि रात्रौ कर्त- व्यानीति स्थितम् । तत्र विशेषमाह आपस्तम्बः — ‘सदा निशायां दारं प्रत्यलंकुर्वीत ’ इति । तथा श्रीवास- सैव संनिपातः स्याद्यावत्संनिपातं च सहशय्या ततो नानो- दकस्पर्शनमपि वा लेपान्प्रक्षाल्याचम्य प्रोक्षणमङ्गानभिम्’ इति । नन्विदमसंगतम् । ‘प्राग्रजोदर्शनात्प मोहाद्रत्वा पतस्वभः । व्यर्थीकारेण शुलस्य ब्रह्महत्यामवाप्नुयात्’ इति1
[[२७९]]
रजोदर्शनप्राग्भाविसंभोगस्य शुल्वैयर्थ्य प्रयुक्तब्रह्महत्या- क्षणपातित्यापादकत्वप्रतिपादकवचनविरोधादिति चेन्न ।

  • काममा विजानतोः संभवाम’ इति । तस्मादृत्वियाः स्त्रियः प्रजां विन्दन्ते काममाविजनतोः संभवन्तीति गर्भधारणप्रभृत्याप्रसवं संभोगप्रतिपादकश्रुत्या विरो- धात् । विरोधे त्वनपेक्षं स्यात् । विप्रतिषेधे श्रुतिलक्षणं बलीय इति जैमिन्यापस्तम्बसूत्राभ्यां सापेक्षश्रुतेर्निरपेक्ष- श्रुत्या बाधात् । आपस्तम्बसूत्रे यदा मलवद्वासाः स्यादित्या- दिना सप्रकारम् ऋतुसमावेशनमभिधाय एतदेव ऋतुगम- नम्, ऋतौ च संनिपात इत्यनेनानूद्य अन्तरालेऽपि दार एवेत्यनेन ऋत्वोरन्तरालेऽपि गमनमभिधाय तत्र गर्भधार- प्रभृत्यप्रसवं संवेशनस्य प्रतिपादितत्वात् । तस्मादृत्वि- यास्त्रियः प्रजां विन्दते काममाविजनितोः संभवन्तीति श्रुति ब्राह्मणवचनाच्च संवेशनमित्यनेन सूत्रेण अनृतुकाल- गमनत्वाविशेषेण हेतुना प्रमाणत्वेनोदाहरता आचार्येण तेनैव हेतुना आर्तवात्पूर्वमभिसंवेशने इयमेव श्रुतिः प्रमाण- मित्युक्तं भवति । अत एव उक्तं गृहप्रवेशनप्रभृति त्रिरालन-
    [[૩૮૦]]
    धर्माकृते
    ह्मचर्यप्रतिपादनपूर्वकं चतुर्थदिने संवेशनम् । तथा ‘ऋता- वुपेयात्सर्वत्र वा प्रतिषिद्धवर्जम्’ इति गौतमवचनेन ऋतुकालाभिगामी स्यात्स्वदारनिरतः सदा । पर्ववर्जे teri aed रतिकाम्यया’ इति । भार्याप्रार्थनया अनू- तावपि गमनप्रतिपादकमनुवचनेन, ‘यथाकामी भवेद्वापि स्त्रीणां चरमनुस्मरन्’ इति काममाविजनितोरिति श्रुति- सिद्धयथेष्टगमनप्रतिपादकयाज्ञवल्क्यवचनेन, ऋतुकाला- भिगमनं पुंसा कार्ये प्रयत्नतः । ‘सदेवापर्ववजस्त्रीणां मतं हि तत्’ इति बृहस्पतिवचनेन, अथ ऊर्ध्वं ब्रह्मचर्यमित्युप- क्रम्य स्वदार इत्येकं मत्रवत्प्रयोग इत्येकमृतावित्यपरमथा- ब्रह्मचर्ये विवाहे विरात्रमृतौ त्रिरात्रममावास्यायां पौ- र्णमास्यां श्राद्धं दत्त्वा च भुक्त्वा चैकरावं परस्त्रीषु याव- जीवमग्न्याधेये द्वादशरात्रमाप्रयणेष्टिपशुबन्धानामुपवस- थेवे करालमेवमेव सर्वेषु वेदकर्मसु चातुर्मास्येषु संवत्सरं यथाप्रयोगमन्येषु यज्ञक्रतुषु अन्यत्वतर्दीर्घसत्रेषु धर्मत्रतेषु च तदेतद्धन्यमिति उक्तकालवर्जमितरकाले बीगमनस्य ब्रह्मचर्यत्वप्रतिपादकबोधायनपरिभाषासूत्रेण च अनृतु-
    [[1]]
    बालकाण्डः ।
    R
    कालेऽपि स्युपगमनाङ्गीकारेण सुखार्थे शुकुविमोकस्या- दोषत्वावगमनेन एकस्य वचनस्य बहुस्मृतिविरोधे विप्रति- षिद्धधर्म समवाये भूयसां स्यात् स्वधर्मत्वमिति न्यायेन बहुभिरेका बाधोऽभ्युपगन्तव्य इत्यप्रमाणमेव निषेधव- चनम् । ननु विरोधे सति अप्रामाण्यं स्यात् । स एव -नास्ति । आर्तवानन्तरं विवाहाङ्गीकारेण उभयोरविरो- धेन प्रामाण्यसंभवात् । कुन्तीसत्यवत्योः पुत्रोत्पत्त्यनन्त- रमपि विवाहदर्शनेन आर्तवानन्तरविवाहस्य कैमुतिक- न्यायसिद्धत्वात् इति चेत्तदुच्यते । रजोदर्शनात्पूर्वमेव स्मृतिषु विवाहस्य विहिततया रजोदर्शनानन्तरं विवाहस्य कन्यादानस्य च निन्दिततया च ऋत्वनन्तरं कन्यादान - विवाहयोग्यत्वं वक्तुमशक्यत्वात् । तथा च बृहस्पतिः - ‘गौरीं ददन्नाकपृष्टं वैकुण्ठं रोहिणीं ददत् । कन्यां दद- झलोकं ग़ैरवं तु रजस्वलाम् ’ । संवर्तोऽपि - अष्टवर्षा भवेत्कन्या नववर्षा तु रोहिणी । दशवर्षा भवेद्रौरी अत ऊर्ध्वं रजस्वला’ विवाहस्त्वष्टवर्षायाः कन्यायास्तु प्रश- स्यते ’ प्राप्ते तु द्वादशे वर्षे यः कन्यां न प्रयच्छति ।

    धर्माकूते
    मासि मासि रजस्तस्याः पिता पिबति शोणितम् ॥ माता चैव पिता चैव ज्येष्ठभ्राता तथैव च । त्रयस्ते नरकं यान्ति दृष्ट्वा कन्यां रजस्वलाम् ॥ तस्माद्विवाहयेत्कन्या यावर्तुमती भवेत् । यस्तां समुदहेत्कन्यां ब्राह्मणो मद- मोहितः ॥ असंभाष्यस्त्वपाङ्क्तेयः स विप्रो वृषलीपतिः’ इति । इत्येवमादिभिर्बहुभिः स्मृतिभिः रजोदर्शनानन्वरं विवाहकन्याप्रदानयोर्निन्दितत्वेन रजोदर्शनानन्तरकाली- नविवाहस्यात्यन्तनिन्दितत्वात् । कुन्तीसत्यवत्योस्तु अध- म्योsपि पुत्रोत्पत्त्यनन्तरो विवाहः दोषाभावस्य कन्य- कात्वस्य चानुग्रहेण तेजोविशेषेण च प्रत्यवायाधायको न भवति । इतरेषां तु प्रत्यवायकर एव । तथा चापस्तम्बः- ‘दृष्टो धर्मव्यतिक्रमः साहसं च पूर्वेषां तेषां तेजोविशेषेण प्रत्यवायो न विद्यते, तदन्वीक्ष्य प्रयुञ्जानः सीदत्यवरः ’ इति । तस्मात्प्राप्रजोदर्शनादिति वचनमादरणीयमेव यद्वा चातुर्मास्यान्तरालकाले - ‘न मांसमभाति न त्रि- यमुपैति ऋत्वेवाजायां नोपरियास्ते’ इत्यापस्तम्बसूत्रेण चातुर्मास्यत्रतान्युपेयान्मधुमांस लवणस्त्र्यव लेखनानि च व-
    पाइकाण्ड
    **
    र्जयेत् । ऋतौ भार्यामुपेयादित्याश्वलायनसूत्रेण, ऋतु- काल एव गमनस्याभ्युपगतत्वात् । अनृतुकाले गमनस्य प्रतिषिद्धत्वाथ, चातुर्मास्ययाजिनः अन्तरालकाले अनृतौ गमनप्रतिषेधकतया प्रामाण्यं समर्थनीयम् । युक्तं चैतत् । मोहादिति विशेषणेन निषेधपरामर्शनप्रतिपाद- नातू, पत्नीशब्देन यज्ञसंयोगस्य विशेषणत्वावगमाचेति । ननु ‘प्रोत्’ इति वचनेन प्रथमरजोदर्शनात्पूर्व समावेशनं प्रतिषिध्यते । आधानं तु जातपुत्रः कृष्णकेशो- ऽनीनादधीतेति वचनेन, पुत्रोत्पत्त्यनन्तरं विहितम् । एवं सति कः प्रसङ्गः प्रामजोदर्शनाचातुर्मास्यान्तराळवताना- मिति चेन्न । विवाहसमाप्तौ अत्राग्न्याधेयस्य कालः जा- यामवाप्य दशमेऽहन्यग्निमादधीत इति बोधायनवचनेन, विवाहानन्तरं दशमदिन एव अग्न्याधेयस्य विहितत्वात् । अग्न्याधेयप्रभृत्यथेमान्यजस्राणि भवन्ति । यथैतदग्न्या- धेयमग्निहोत्रं दर्शपूर्णमासावाप्रयणमुद्गय नदक्षिणायनयोः पशुचातुर्मास्यानि ऋतुमुखे षढोता वसन्ते ज्योतिष्टोम इत्येवं क्षेमप्रापणमिति वचनेन च चातुर्मास्यानामपि
    [[३८४]]
    धर्माकूते
    विहितत्वात् आर्तवात्पूर्वं चातुर्मास्यानामस्त्येव प्रसङ्गः । एवमन्यानप्येवंजातीयकानि - आर्तवात्पूर्व गमनप्रतिषेध- कानि वचनानि नियमयुक्त गृहस्थपरतया यथायोग्यं यो- जनीयानि । तस्मात् ’ रेमिरे मुदिताः सर्वाः भर्तृभिः सहिता रहः’ इति वचनेन विवाहसमनन्तरमेव यत्संत्रे - शनं भगवता वाल्मीकिना उक्त तत्सर्व शास्त्रसंमतमेव इति सिद्धम् । यदुक्तं स्त्रीकर्तृकमङ्गलानीति तत्रापस्तम्बः- तथा ‘मङ्गलान्यवृतश्च आ स्त्रीभ्यः प्रतीयेरन्’ इति ‘स्त्री- भ्यः सर्ववर्णेभ्यो धर्मशेषान्प्रतीयात्’ इति च ‘एतेन देश- कुलधर्मा व्याख्याताः’ इति च । आश्वलायनोऽपि - ‘ब्रा- ह्मण्यश्च वृथाजीवपत्न्यो जीवप्रजा यद्यदुपदिशेयुस्तत्तत्कुर्युः ’ इति । कालिदासोऽपि ‘प्रायेणैवंविधे कार्ये पुरन्ध्रीणां प्रगल्भता’ इति । कुल धर्मस्यावश्यकतामाह भगवान्गी- तायाम् ‘उचिन्नकुलधर्माणां मनुष्याणां जनार्दन । नरके नियतं वासो भवतीत्यनुशुश्रुमः’ इति । आदिपर्वण्यपि भीष्मं प्रति शल्यवचनम् – ’ पूर्व प्रवर्तितं किंचिटकुले- sस्मिनृपसत्तमैः । साधु वा यदि वासाधु तनातिक्रान्तमु-
    बाइकाण्डः 1
    [[૫]]
    त्सहे ॥ व्यक्तं तद्भवतश्वापि विदितं नात्र संशयः । न च युक्तं तथा वक्तुं भवान्देहीति सत्तम ॥ कुलधर्मः स नो वीर प्रमाणं परमं च तत् । तं भीष्मः प्रत्युवाचेदं मद्रवा- राजं महामतिः । धर्म एष परो राजन् स्वयमुक्तः स्वयं- भुवा । नात्र कश्चन दोषोऽस्ति पूर्वैर्विविग्यं कृतः ॥ विदितेऽयं च ते शल्य मर्यादा साधुसंमता’ । ततः शल्यः भीष्मप्रदत्तं बहुविधं धनं प्रगृह्य स्वसारं दत्तवानिति । रत्न- मालायां विवाहप्रकरणेऽपि - ‘न शास्त्रदृष्ट्या विदुषा कथंचिद्विलानीयाः कुलदेशेषु धर्माः । मूलं हि तेपू- च्यते वेदशाखाभूयानवस्थितिभङ्गदोषात् । एवं च पाणिग्रहणगृह प्रवेशस्त्रीकृत मङ्गलदेशकुलधर्म संवेशनाद्यायु- क्तो विवाह : प्रतिपादितः । ततो दशरथभग्ताहानाय समागतं चिरकालोपितं युधाजितमवलोक्य चतुरङ्गबल- परिहतं सशत्रुघ्नं भरतं मातुलकुलं प्रापयामास ।
    गतेषु भरते रामो लक्ष्मणच महाबलः । पितरं देवसंकाशं तोपयामासतुस्तदा ॥
    [[348]]
    धर्माकूते
    एवं दशरथः प्रीतो ब्राह्मणा नैगमास्तथा । रामख शीलवृत्तेन सर्वे विषयवासिनः ॥
    प्रिया तु सीता रामस्य दाराः पितृकृता इति । गुणाद्रूपगुणाश्चापि प्रीतिर्भूयो व्यवर्धत ॥
    ’ ततः उत्तमैरुत्तमैर्नित्यं संबन्धानाचरेत्सह । निनीषुः कालमुत्कर्षमत्रमानव मांस्त्यजेत् ’ इति मनुना उत्तमकुल- विवाहेन कुलोत्कर्षकथनात् सर्वैरपि स्वस्वकुलोत्कर्षाय उत्तमकुले विवाहः कर्तव्य इति सूचयन्, प्रकृते राजर्षि- सुतः उत्तमराजकन्ययेति च विशेषणद्वयेन वधूवरयोः उत्तमकुलोसनयोर्विवाहं निगमयति ।
    तया स राजर्षिसुतोऽभिरामया समेयिवाद त्तमराजकन्यया । अतीव रामः शुशुभेऽतिकामया
    विभुश्रिया विष्णुरिवामरेश्वरः ॥
    ये धर्मैकनिसर्गसिद्धरुचयो ये वेदवेचे परे
    पुंसि ब्रह्मणि मैथिलीसहचरे भक्ता रघूणां बरे । ये वा कौतुकिनो रघूद्वह कथाशैलीसमाकर्णने
    ये वा मर्मविदस्त एतदुररीकुर्वन्तु तैस्तैर्गुणैः ॥
    प्रतिदिनमपि श्रीयशेशप्रसादमुपे पा
    गुरुपरकृपाधाना श्रीमत्रियम्बकयज्वना । प्रथमरचिते काण्डे रामायणस्य महर्षिणा
    प्रकटितमिदं धर्माकूतं यथामति गृह्यताम् ॥
    इत्यार्षे श्रीमद्रामायणे वाल्मीकीये चतुर्विंशत्साह त्रिकायां संहितायां बालकाण्डः समाप्तः ॥
    ३८७