॥ धर्माकूतम् ॥
सिन्दूरारुण-गण्डमण्डल-मदामोद-भ्रमद्भृङ्गिका-
झंकारेण कलेन कर्ण-मुरज-ध्यानेन मन्द्रेण च ।
तत्-तौर्यत्रिक-रीतिम् एति शिरसः शश्वन्-मदान्दोलनं
यस्य श्री-गणनायकः स दिशतु श्रेयांसि भूयांसि नः ॥
[[१]]
तव कर-कमल-स्थां स्फाटिकीम् अक्षमालां
नखर-किरण-भिन्नां दाडिमी-बीज-बुद्ध्या ।
अनुकलम् अनुकर्षन् येन कीरो निरुद्धः
स भवतु मम भूत्यै वाणि ते मन्द-हासः ॥ २ ॥
प्रह्लादोक्तिं यथार्थां लघु चिकलयिषुर् निर्गतः स्तम्भ-गर्भाद्
वज्राद्-उग्रैर्-नखाग्रैर्-झटिति विदलयन्-दैत्य-राजस्य वक्षः ।
दुर्धर्ष-क्रोध-वेगः कलश-जलनिधेः कन्यकां वीक्ष्य हृष्टस्-
तुष्टूषु ब्रह्म-रुद्र-प्रमुख-सुर-नतः पातु मां श्रीनृसिंहः ॥ ३ ॥
कालिन्द्य्-आकाश-सिन्धु-व्यतिकरम्-अतिकृद्-विग्रह-श्री-तरङ्गं
हाराहीन्द्रादि-तत्-तत्-समुचित-रुचिरालंक्रियालंकृताङ्गम् ।
निर्यत्नालिङ्गनोद्यन्-निरवधि-परमानन्द-भोगैक-सान्द्रं
द्वन्द्वं चन्द्रावतंसं वितरतु शिवयोर् ऊर्जितं मङ्गलं नः ॥ ४ ॥
शाखाभिः प्रथितो ऽपि सन्-विजयते यः पल्लवानाश्रयो
यः सूते पुरुषार्थ-जातम् अचिरात् कालं च नापेक्षते ।
सन्तो यत्र नमन्ति चोच्छ्रित-फलाप्त्यै स विश्वोन्नतो
यज्ञेशाद्-भुत-कल्पकः फलतु मे वाञ्छानुरूपं फलम् ॥ ५ ॥
[[२]]
शश्वत्-पार्श्वे वसन्त्योः सरसि-रुह-दृशोः सादरं देवसेना-
वल्ल्योः संनद्ध-पुष्प-स्तबक-निभ-कुचाभोग-विन्यस्त-हस्तः ।
वक्त्रेष्व् अन्येषु तर्ष-स्फुरद्-अधर-पुटेष्व् आननाभ्याम् उभाभ्याम्-
आजिघ्रन् मुग्ध-हासं मुख-कमल-युगं पातु नः कात्तिकेयः ॥ ६ ॥
वैदेही-सहितं सुर-द्रुम-तले हैमे महा-मण्डपे
मध्ये पुष्पकम् आसने मणिमये वीरासने सुस्थितम् ।
अग्रे वाचयति प्रभञ्जन-सुते तत्त्वं मुनिभ्यः परं
व्याख्यान्तं भरतादिभिः परिवृतं रामं भजे श्यामलम् ॥ ७ ॥
यः प्रौढ-रामाभिरतो ऽप्य्-अरक्तो वाचंयमो ऽप्य्-अद्भुत-वाग्-विलासः ।
वल्मीक-भूर् अप्य्-अभुजंग-सङ्गस् तं भावये सत्-कवि-सार्वभौमम् ॥ ८ ॥
वेदान्ते ये गुरवो विहित-विधानेषु ये च मे गुरवः ।
आद्या प्रणतिस् तेषाम् अक्षर-मात्रे गुरूणां च ॥ ९ ॥
[[३]]
अस्ति स्यन्दन-हस्ति-घोटक-घटा-संकीर्ण-शृङ्गाटका
गुप्ता वीर-भटैर्-गभीर-परिखा चोलेषु तञ्जापुरी ।
यत्-सौधाञ्चल-संचलद्-ध्वज-पटी-संचारितैर्-मारुतैः
शान्त-श्रान्ति निरन्तरं प्रियतमैः क्रीडन्ति सिद्धाङ्गनाः ॥ १० ॥
तत्रासीच्-चतुराम्बुराशि-रशना-संशोभमानां भुवं
भुञ्जानः स्वयम् एक एव सकल-क्ष्मापाल-चूडामणिः ।
गाम्भीर्यादि-गुणैर् अनन्य-सुलभैः श्री-रामचन्द्रोपमः
श्रीमान् एक-महीपतिः कृत-महाराष्ट्राधिपत्योच्छ्रयः ॥ ११ ॥
प्रतापे चण्डांशुः प्रमद-जनने शीत-किरणः
प्रदाने कल्पद्रुः परिणत-सदुक्तौ सुर-गुरुः ।
प्रभुत्वे देवेन्द्रः प्रबल-रिपु-भञ्जने रघु-पतिः
प्रतीतः कल्याणैः स जयति गुणैर् एक-नृपतिः ॥ १२ ॥
तस्य श्रीर् इव शार्ङ्गिणः पशुपतेर् गौरीव जम्भ-द्विषः
पौलोमीव सुदक्षिणेव जगतां जेतुर् दिलीप-प्रभोः ।
[[४]]
सद्-वंश-प्रभवा च पट्ट-महिषी सौशील्यतो ऽरुन्धती
दीपाम्बेति भुवि श्रुता विजयते सान्द्रानुकम्पा जने ॥ १३ ॥
सीता-राघवयोश् चरित्रम् अखिलं येनाञ्जसा वर्णितं
येनापि प्रथमान-धर्मज-गुणैः श्री-रुक्मिणी-कृष्णयोः ।
येन श्री-गिरि-कन्यका-गिरिशयोर् अन्यैश् च यैरीदृशां
तेषाम् अप्य् अनयोर् गुणा ननु गिरां दूरे ततो मादृशाम् ॥ १४ ॥
तस्यैकोजि-महीपतेः सुचरितो मन्त्री दिगन्त-श्रुतः
शक्रस्येव बृहस्पतिः शुभ-मतिः सर्वज्ञ-चूडामणिः ।
भारद्वाज-कुलाब्धि-शीत-किरणो बाबाजि-यज्वात्मजो
मन्त्र-स्तम्भित-दुष्ट-भूप-भुजगो गङ्गाधराख्यो ऽध्वरी ॥ १५ ॥
वाग्-देवी वदनं दया च नयनं दोः-स्तम्भम् ओजस्विता
क्षान्तिर् मानसम् आश्रिता शम-दम-प्रष्ठैः सहान्यैर् गुणैः ।
इत्यङ्गेषु यथायथं बलवद्-आक्रान्तेषु सौजन्यतः
कीर्तिर् यस्य दिगन्तरे विहरति स्वैरं सुधांशूज्ज्वला ॥ १६ ॥
[[५]]
धर्म-क्रियाणां विषये प्रमाणं यदीयम् आचारम् उदाहरन्ति ।
मनस्विनां यस्य च दर्शनानि निरुत्तरां निष्कृतिम् आहुर् आर्याः ॥ १७ ॥
अजस्रम् एकोजि-मही-वलारेर् अमात्य-धुर्यत्वम् उपाश्रितेन ।
प्रत्याहृतासीत् प्रथितैर् उपायैर् येनैव तज्-ज्ञाति-हृता धरित्री ॥ १८ ॥
यस्यैव बुद्धेर् उचितैर् विलासैर् अमुष्य राज्ञः सुकृतैक-भोग्या ।
कवेर-कन्या-जल-सेक-धन्या चोलवनी सेयम् अकारि हस्ते ॥ १९ ॥
स्थाने कृतो ऽसाव् इह जीवितो ऽसाव् उत्तारितो ऽसाव् अमुनेति वादैः ।
अजात-शत्रुत्वम् अभूद् अमुष्य प्रसिद्धम् आ-सेतु-हिमाचलाभ्याम् ॥ २० ॥
तस्यैकोजि-महीपतेस् त्रिजगती-दोर्-गर्व-सर्वंकषाः
पुत्राः सच्चरितास् त्रयः समभवञ् श्री-शाहराजादयः ।
सौभ्रात्रातिशयेन दाशरथिभिस् तुल्याः प्रजारञ्जनैर्-
हर्षोत्कर्षम् अकार्षुर् आदृत-जनास् ते वृद्ध-सेवा-पराः ॥ २१ ॥
[[६]]
अथ सकल-कलासु प्रौढिम् आढौकमानाः
सपदि समवृधंस् ते सच्चरित्राः कुमाराः । अनुपमम् अनुकूलं वीक्ष्य दाम्पत्य-योगं
त्रय इव पुरुषार्थाः संगता मूर्तिमन्तः ॥ २२ ॥
तत्राग्रजः शाहजि-भूमिपालः
सर्वासु विद्यासु विनीत-बुद्धिः ।
आनन्द-कारी जगतो ऽखिलस्य
पितुर् भरं स स्वयम् अग्रहीष्ट ॥ २३ ॥
डिल्लीशोपद्रवेण स्व-पद-विचलितो यः शिवोजेस् तनूजो
राजारामः स येन स्व-पुरम् उपगतो रक्षितस् तत्-क्षणेन ।
भाग्यैर् इन्द्रोपभोग्यैः पुनर् अपि महति स्थापितः स्वाधिराज्ये
भ्रातृ-स्नेहे रघूणां पतिर् अपि न समो यस्य शुद्धाशयस्य ॥ २४ ॥
रक्षित्वा सेतु-नाथं शरणम् उपगतं पाण्ड्य-राजात्त-गन्धं
दीपाम्बा-हस्ततो ऽपि व्यरचयत तुलादीनि दानानि सेतौ ।
यस् तीरे सह्य-जाया निरुपधि-धरणी-भूषणैः सर्वमान्यान्
विद्वद् रत्नैः प्रयत्नाद् दिशि दिशि विदितैर् अग्रहारान् अतानीत् ॥ २५ ॥
[[७]]
धर्मस्थेम्नि युधिष्ठिरो भुज-बले भीमः प्रतापे ऽर्जुनः
शान्तौ शान्तनवः शुचौ गिरि-हरिश्चन्द्रः सु-कीर्त्तौ नलः ।
कारुण्ये रघु-पुंगवो वितरणे कर्णो विवेके मनुर्-
विज्ञाने जनकश् च शाहजि-नृपः सो ऽयं गुणानां निधिः ॥ २६ ॥
श्री-गङ्गाधर-मन्त्रिणो ऽपि तनयौ कृष्णाम्बिका-गर्भजा
वेकक्ष्मापतिना कृताव् अभवतां ताताधिकारे स्थिरे ।
शाहेन्द्रेण च सानुजेन सततं ज्येष्ठानुवृत्त्यादृतौ
श्रुत्युक्ताखिल-नित्य-कर्म-करण-श्रद्धा-विशुद्धान्तरौ ॥ २७ ॥
ज्येष्ठस् तयोर् जन्म-गुणोन्नतिभ्यां
प्रियः प्रकृत्या पितुर् ओजसा च ।
अभूद् असामान्य-चरित्र-योगाद्
अन्वर्थ-नामा नरसिंह-यज्वा ॥ २८ ॥
यत्र स्व-पुत्राद् अपि शाह-भूपाद्
अरज्यत प्रत्यहम् एक-भूपः । यश् च स्व-ताताद् अपि तत्र रक्तो
धुरं तदीयाम् अवहन् नियुक्तः ॥ २९ ॥
[[८]]
प्रसादवानादृत-बन्धु-वर्गः
स्थिर-स्वभावः स्थितिमान् अभिज्ञः ।
अगर्हिताचार-शुभान्तरङ्गो
निबर्हिताभ्यन्तरशत्रुवर्गः ॥ ३० ॥
सत्येन जिह्वां प्रशमेन चेतो
मुखं प्रसादेन दृशौ दयाभिः ।
दानेन हस्तौ च तपोभिर् अङ्गान्य्
अब्जासनो यस्य चिराद् अकार्षीत् ॥ ३१ ॥
तस्यानुजन्मा तरुणाग्निहोत्री
तस्यैव वात्सल्य-वतः प्रभावात् ।
समुल्लसल्-लौकिक-वैदिक-श्रीः
समीरितस् त्र्यम्बक-नामधेयः ॥ ३२ ॥
[[९]]
एकोजि-प्रभुणा गुणान्तर-विदा देव्या च दीपाम्बया
बाल्ये यः परिगृह्य वत्सलतया संवर्धितः सादरम् ।
बुद्धीर् अप्य् उपदिश्य शाहजि-मही-नेतुः स्व-सूनोः स्थिरे
सो ऽयं मन्त्रि-पदे त्रियम्बक-मखी स्वातन्त्र्यम् आसादितः ॥ ३३ ॥
भ्राता शाह-महीपतेः शरभजी राजाथ शास्ति क्षितिं
विश्वानन्द-विधायिभिर् गुण-गणैर् आवर्जयन् विष्टपम् ।
वृत्तीर् ब्रह्म-हिताय शाहजि-महाराजार्पिताः पालयन्-
नाधिक्येन सदादृत-द्विज-वराशीर्-वर्धित-प्राभवः ॥ ३४ ॥
नित्यं वर्षति वासवो जनपदामोदाय वृष्टिं हितां
कावेरी-सलिलैश् च चोल-धरणी स्वच्छन्दम् आप्लाव्यते ।
यस्मिन् राज्यम् इदं प्रशासति निराबाधं जगन् मोदते
सो ऽयं श्री-शरभ-क्षितीन्दुर् अवनी-पालो विजेजीयते ॥ ३५ ॥
[[१०]]
सो ऽयं ज्येष्ठ-पुरस्क्रियोपचरितं यं मन्त्रि-वर्यं दया-
नावा प्राण-महार्णवाद् उदधरद् दाक्षिण्य-शाली नृपः । वृत्तिं च अकृत यस्य सह्य-गिरिजा-कूले ऽनुकूले श्रुति-
स्मृत्युक्ताखिल-नित्य-कर्मसु वसु-त्यागाय भोगाय च ॥ ३६ ॥
यः कौमारिल-तन्त्रतः समतनोत् कर्म-स्थितिं पावनीं
ब्रह्मोपादिशद् आदि-शोक-धुतये यो नारदाय स्फुटम् ।
तं स्कन्दं परिचर्य साधु परया भक्त्या तद् आप्तुं महत्
कर्म-ब्रह्म-फलं सुधीः कलयते यः स्वामि-शैले स्थितिम् ॥ ३७ ॥
स एव श्री-कीर्ति-प्रबल-विलसद्-भोसल-कुल-
क्षमा-पालैः प्रेम्णा विधृत-वचनस् त्र्यम्बक-मखी ।
अभिप्रायं धर्मे विशदयति वाल्मीकि-वचसाम्-
इदं प्रेक्षावन्तः सरसम् अभिनन्दन्तु दयया ॥ ३८ ॥
कृतिर् इयं सकल-श्रुति-संमता
स्मृति-पुराण-वचोभिर् अलंकृता ।
प्रणिहितेन हृदा परिपश्यतां
भवति तत्-परमार्थ-निदर्शनी ॥ ३९ ॥
[[११]]
श्रीमता महर्षिणा वाल्मीकिना श्रीमद्-राम-चरितं काव्य-रूपेण निबद्धम् । तच् च काव्यं व्याख्यातृभिर् अप्रसिद्ध-पदार्थकेन दुरन्वय-व्यवहितान्वययोर् अन्वय-प्रदर्शनेनापरिपूर्ण-स्थले अध्याहार-कल्पनेन विरोध-समाधानेन च शिव-विष्णु-आदि-परत्वेन च व्याख्यातम् । तत्र कैर् अपि धर्मे तात्पर्यं न स्पष्टीकृतम् इति तत् प्रतिपाद्यते । ननु धर्मे तात्पर्य-प्रतिपादनम् अनुपपन्नं रामायणे सर्वत्र राम-चरितस्यैव वर्णिततया धर्म-तात्पर्ये प्रमाणाभावाद् इति चेन् न; “कोन्व् अस्मिन् -” इति प्रश्ने धर्मज्ञत्व-विशिष्टस्यैव महा-पुरुषस्य अवगमेन, उत्तर-वाक्ये “रक्षिता स्वस्य धर्मस्य” इति धर्म-संरक्षकत्व-प्रतिपादनेन, आरण्य-काण्डे “रामो विग्रहवान् धर्मः” इति रामस्य धर्म-स्वरूपत्व-प्रतिपादक-धर्म-द्वेषि-मारीच-वाक्येन, “यस्मिन् न चलते धर्मो यो धर्मं नातिवर्तते” इति युद्ध-काण्डे शुक-वाक्येन, “चातुर्वर्ण्यं च लोके ऽस्मिन् स्वे स्वे धर्मे नियोक्ष्यति” इति नारद-वाक्येन, अयोध्या-काण्डे “विद्धि माम् ऋषिभिस् तुल्यं केवलं धर्मम् आस्थितम्” इति राम-वाक्येन, "
धर्मात्मा सत्यसन्धश् च रामो दाशरथिर् यदि ।
पौरुषे चाप्रतिद्वन्द्वः शरैनं जहि रावणिम् ।।
[[१२]]
इति धर्म-स्वरूपत्व-प्रतिपादक-शपथ-रूप-लक्ष्मण-वाक्येन, युद्ध-काण्डे “लोकानां त्वं परो धर्मः” इति ब्रह्म-वचनेन,
यदा यदा हि धर्मस्य ग्लानिर् भवति भारत ।
अभ्युत्थानम् अधर्मस्य तदात्मानं सृजाम्य् अहम् ॥
परित्राणाय साधूनां विनाशाय च दुष्कृताम् ।
धर्म-संस्थापनार्थाय संभवामि युगे युगे ॥
इति सर्वेषां विष्ण्व्-अवताराणां दुष्ट-निग्रह-शिष्ट-परिपालन-पूर्वकं धर्म-प्रतिष्ठापकत्व-प्रतिपादक-गीतास्थ-भगवद्-वचनेन च धर्मज्ञत्व-धर्मानुष्ठातृत्व-धर्म-स्वरूपत्व-विशिष्टस्यैव रामस्य चरितं वर्णितम् इत्य् अवगम्यते । तच् च धर्म ऐदंपर्यम् अन्तरा अनुपपन्नम् इति धर्म-तात्पर्य-प्रतिपादनम् उपपन्नम् । अत एव भट्टाचार्यैर् उक्तम्- “रामवद् वर्तितव्यं स धर्मः, रावणवन् न वर्तितव्यं, सो ऽधर्मः” इति । किं च “पुण्यं वेदैश् च संमितम्”, “वेदोपबृंहणार्थाय ताव् अग्राहयत प्रभुः” इति वचनाभ्यां वेदोपबृंहकत्वं वेद-संमितत्वं चावगतम् । वेदश् च “वेदो ऽखिलो धर्म-मूलम्”, “वेदो धर्म-मूलम्” इत्यादि-वचनैर् धर्म-प्रतिपादको ऽवगतः ।
[[१३]]
तादृश-वेदोपबृंहकत्वं तत्-संमितत्वं च धर्म-तात्पर्यम् अन्तरा अनुपपन्नम् एवेति युक्तम् एव धर्म-तात्पर्य-प्रतिपादनम् । धर्मश् च अलौकिकः श्रेयः-साधनम् । “चोदना-लक्षणो ऽर्थो धर्मः” इति तु जैमिनिः । आपस्तम्बाचार्यास् तु- “यस् त्व् आर्याः क्रियमाणं प्रशंसन्ति स धर्मो, यद् गर्हन्ते सो ऽधर्मः” इति । एतादृशे धर्मे प्रमाणं चतुर्विधम् - श्रुतिः, स्मृतिः, सदाचारः, सताम् आत्मनस् तुष्टिर् इति । तथा च मनुः-
वेदः स्मृतिः सदाचारः स्वस्य च प्रियम् आत्मनः ।
एतच् चतुर्विधं प्राहुः साक्षाद् धर्मस्य लक्षणम् ।।
इति । गौतमो ऽपि - “वेदो धर्म-मूलं तद्-विदां च स्मृति-शीले” इति । अत्र शील-पदेन सदाचार-वाचिना सन्-मनस्-तुष्टिर् अपि लक्ष्यते । आपस्तम्बो ऽपि - “धर्मज्ञ-समयः प्रमाणं वेदाश् च” इति । धर्मज्ञ-समय इत्य्-अनेन स्मृतिः सदाचारः आत्मनस् तुष्टिर् इति त्रयम् अपि लक्ष्यते । तथा चोक्त-न्यायेन धर्म-लक्षणानां सर्व-मतेनापि चातुर्विध्यं सिद्धम् । नैतेषां धर्मे तुल्यवत्-प्रामाण्यम्, अपि तर्हि वेद एव स्वतन्त्र-प्रमाणम्, तद् अनु स्मृतिः, तत आचारः, ततः आत्मनस् तुष्टिर् इति । तत्-प्रकारश् च वेदे धर्मो यादृशः प्रतिपादितस् तादृश एव ऋषिभिर् विद्यमानाः शाखाः पर्यालोच्य उच्छिन्न-शाखार्थांश् च स्मृत्वा देश-कालाधिकार्यवस्था-भेदेन वर्णाश्रमादि-भेदेन च व्यवस्थया स्मृतिषूपनिबद्धः ।
[[१४]]
देश-भेदे तावद् बोधायनः -
पञ्चधा विप्रतिपत्तिः, दक्षिणतस् तथोत्तरतः; यानि दक्षिणतस् तानि व्याख्यास्यामो- यथैतद् अनुपेतेन सह भोजनं स्त्रिया सह भोजनं पर्युषित-भोजनं मातुल-पितृष्वसृ-दुहितृ-गमनम् इति; अथोत्तरत ऊर्णा-विक्रयः शीधु-पानम् उभयतोदद्भिर् व्यवहारः आयुधीयकं समुद्र-यानम् इति; तद् इतरद् इतरस्मिन् कुर्वन् दुष्यति, इतरद् इतरस्मिन् देशे प्रमाणम् एव स्यात् ।
इति । काल-भेदे विष्णु-पुराणम् -
यत् कृते दशभिर् वर्षैस् त्रेतायां हायनेन तत् ।
द्वापरे तच् च मासेन अहोरात्रेण तत् कलौ ॥
तपसो ब्रह्मचर्यस्य जपादेश् च फलं द्विजः ।
प्राप्नोति पुरुषस् तेन कलिः साध्व् इति भाषितम् ।।
इति । अधिकारि-भेदे -
यस्य त्रैवार्षिकं वित्तं स सोमं पातुम् अर्हति ।
प्राक्-सौमिकीः क्रियाः कुर्याद् यस्य स्याद् वार्षिकं धनम् ।
सर्व-संस्थाधिकारी स्याद् आहिताग्निर् धने सति ।
आदध्यान् निर्धनो ऽप्य् अग्नीन् नित्यं पाप-भयाद् द्विजः ।।
इति मनुः ।
[[१५]]
अवस्था-भेदे ऽपि मनुः-
चतुर्थम् आयुषो भागम् उषित्वाद्यं गुरौ द्विजः ।
द्वितीयम् आयुषो भागं कृत-दारो गृहे वसेत् ॥
गृहस्थस् तु यदा पश्येद् वली-पलितम् आत्मनः ।
अपत्यस्यैव चापत्यं तदारण्यं समाश्रयेत् ।
वनेषु तु विहृत्यैवं तृतीयं भागम् आयुषः ।
चतुर्थम् आयुषो भागं सङ्गं त्यक्त्वा परिव्रजेत् ।।
इति ।
वर्ण-भेदे -
ब्राह्मणस्य तपो ज्ञानं तपः क्षत्रस्य रक्षणम् ।
वैश्यस्य च तपो वार्त्ता तपः शूद्रस्य सेवनम् ।।
इति मनुः ।
आश्रम-भेदे -
तस्याश्रम-विकल्पम् एके ब्रुवते, ब्रह्मचारी गृहस्थो भिक्षुर् वैखानसः; तेषां गृहस्थो योनिर् अप्रजननत्वाद् इतरेषाम्; तत्रोक्तं ब्रह्मचारिण आचार्याधीनत्वम् अनिचयो, भिक्षुर् वैखानसो वने मूल-फलाशी, गृहस्थः सदृशीं भार्यां विन्देत ।
इति गौतमः ।
एते धर्मा मनुनापि संगृहीताः -
वयसः कर्मणो ऽर्थस्य श्रुतस्याभिजनस्य च ।
वेष-वाग्-बुद्धि-सारूप्यम् आचरन् विचरेद् इह ।।
इत्य् एवं-प्रकारेण । स्मृतयो वेदानुसारिण्यः । तथा च कालिदासः- “श्रुतेर् इवार्थं स्मृतिर् अन्वगच्छत्” इति । स्मृत्य्-अनन्तरं महताम् आचारः प्रमाणम्, तत्-संदेहे व्यवस्थापकत्वात् ।
[[१६]]
तद् उक्तम् -
अर्थो ऽपि नैकः स्मृतयो विभिन्ना नैको मुनिर् यस्य मतं प्रमाणम् ।
धर्मस्य तत्त्वं निहितं गुहायां महाजनो येन गतः स पन्थाः ॥
इति । महताम् अप्य् आचार-संशये आत्मनस् तुष्टिः प्रमाणत्वेन प्रतिपादिता - “सतां हि संदेह-पदेषु वस्तुषु प्रमाणम् अन्तःकरण-प्रवृत्तयः” इति । एवं वेदोक्त एव धर्मः त्रिभिः प्रमाणैः प्रपञ्च्यते इति सिद्धम् । तद् आहुर् बौधायनाचार्याः-
उपदिष्टो धर्मः प्रतिवेदम्, तस्यानुव्याख्यास्यामः, स्मार्तो द्वितीयः, तृतीयः शिष्टागमः ।
इति । अत्र वेदः प्रथमं प्रमाणम्, स्मृतिर् द्वितीयं प्रमाणं, शिष्टाचारस् तृतीयं प्रमाणम् इत्यर्थः । प्रथमत्व-द्वितीयत्व-वर्णनं श्रुति-स्मृत्योर् विरोधे श्रुतिर् बलीयसीत्य् एतदर्थम् । तथा च श्रुति-स्मृत्योर् विरोधे स्मृत्य्-अर्थं परित्यज्य श्रुत्य्-अर्थ एव ग्राह्यः । तथा चापस्तम्बाचार्याः- “विप्रतिषेधे श्रुति-लक्षणं बलीयः” इति । एवं स्मृत्य्-आचारयोर् विरोधे आचारापेक्षया स्मृतिर् बलीयसी । तथा च कात्यायनः -
स्मृतेर् वेद-विरोधे तु परित्यागो यथा भवेत् ।
तथैव लौकिकाचारं स्मृति-बाधात् परित्यजेत् ।।
[[१७]]
इति । एतदर्थम् एव “तृतीयः शिष्टागमः” इत्य् उक्तम् । एतेषु चतुर्षु प्रमाणेषु धर्मे वेद एव श्रेष्ठं प्रमाणम् इति स्थितम् । स वेदः सम्यग् येन अभ्यस्यते स तु सत्-पुरुषो मन्व्-आदिः ऋषिश् च । तेन वेदार्थं संगृह्य यद् उच्यते सा स्मृतिः । तथा च बोधायनाचार्याः -
धर्म-शास्त्र-रथारूढा वेद-खङ्ग-धरा द्विजाः ।
क्रीडार्थम् अपि यद् ब्रूयुः स धर्मः परमः स्मृतः ।।
इति । तस्य धर्म-बुद्ध्या यद् अनुष्ठानं स सदाचारः । तस्य धर्म-विकल्पे एकत्र मनसो या प्रीतिः सा सन्-मनस्-तुष्टिः । एवं स्थिते भगवान् वाल्मीकिर् अपि धर्म-निरूपणार्थे प्रवृत्तः । नियोग-रूपेण धर्म-प्रतिपादनं स्मृतिर् एव भविष्यति । स्मृतयस् तु बहुभिः प्रणीताः । आचार-लक्षणो धर्मः एक-पुरुष-धौरेय-चरितम् अधिकृत्य एकस्मिन् ग्रन्थे कृत्स्नशः केनापि न प्रतिपादितः । सदाचारस्य तु श्रुति-स्मृतिषु संशये संशयितार्थ-निर्णायकत्वेन प्राबल्यम् । तथा च श्रुतिः - वेदम् अनूच्य इत्य्-आदिना “संविदा देयम्” इत्य् अन्तेन शिष्यं विशिष्यानुशिष्य,
अथ यदि ते कर्म-विचिकित्सा वा वृत्त-विचिकित्सा वा स्यात्, ये तत्र ब्राह्मणाः संमर्शिनः, युक्ता आयुक्ताः, अलूक्षा धर्म-कामाः स्युः, यथा ते तत्र वर्तेरन्, तथा तत्र वर्तेथाः ।
इति ।
[[१८]]
आपस्तम्बो ऽपि-
न धर्माधर्मौ चरत आवं स्व इति, न देव-गन्धर्वा न पितर इत्य् आचक्षते ऽयं धर्मो ऽयम् अधर्म इति; यत् त्व् आर्याः क्रियमाणं प्रशंसन्ति स धर्मः, यद् गर्हन्ते सो ऽधर्मः; सर्व-जनपदेष्व् एकान्त-समाहितम् आर्याणां वृत्तं सम्यग् विनीतानां वृद्धानाम् आत्मवताम् अलोलुपानाम् अदाम्भिकानां वृत्त-सादृश्यं भजेत ।
इति । स तु सदाचारः श्रुति-स्मृतीतिहास-पुराणादिष्व् एकैको विशकलिततया तेन तेनाचरितः तेन तेन तत्-तत्-फलं प्राप्तम् इति प्रतिपादितः । एकस्य पुरुषस्य कृत्स्नं चरित्रम् आख्यायिका-रूपेण क्रमेण क्वापि न प्रतिपादितम् । तत् तु कस्यचित् पुरुष-धौरेयस्य समग्र-धर्मानुष्ठान-कर्तुश् चरित्रम् एकेन निबन्धेन कर्तव्यम्, तेन सर्वो ऽपि सदाचारः प्रदर्शनीय इत्य् अभिसंधाय लोकोपकाराय रघुवर-चरितं काव्य-रूपेण कृतवान् । तत्र श्री-राम-चरित्र-वर्णनेन सदाचार-लक्षणो धर्मः तात्पर्येण प्रतिपादितः । ननु काव्ये असत्-वस्तु-निरूपणं समीचीन-वस्तुनो ऽसत्त्व-प्रतिपादनम् असत्-वस्तुनः सत्-वस्तुत्वेन प्रतिपादनम् अर्थवाद-बाहुल्यम् “काव्यालापांश् च वर्जयेत्” इति निषेधश् चेत्य् एवमादि दोषे स्थिते धर्माधर्म-विवेचनं कथं काव्य-रूपेण क्रियत इति चेत्; निषेधस्य असत्-कृतासन्-नायक-प्रतिपादकाधर्म-प्रतिपादक-प्राकृत-काव्य-विषयत्वात्, महा-कविभिः काव्यानि सन्-नायक-प्रतिपादकानि धर्म-प्रधानानि पुरुषार्थ-साधकानि कृतानि सद्भिः परिगृहीतानि च ।
[[१९]]
अत एव च कालिदास-कृत-काव्यानाम् अपि स्मृतित्वेन महताम् अङ्गीकारः । तथा च भट्टाचार्यैः
सतां हि संदेह-पदेषु वस्तुषु प्रमाणम् अन्तःकरण-प्रवृत्तयः, इति कालिदास-स्मृतेः ।
इत्य् उक्तम् । तस्मान् महद्भिः कृतानां काव्यानां धर्म-प्राधान्येन स्मृति-तुल्यता सिद्धा । श्रुति-स्मृत्य्-अर्थ एव काव्येन प्रतिपादितो हृदय-रञ्जकः । तद् उक्तं प्राचीनैः -
वेदे यद् उच्यते सा राजाज्ञा, स्मृतिषु ऋषिभिर् यद् उच्यते स मित्रोपदेशः, काव्ये यद् उच्यते स कान्ता-संमितोपदेशः ।
इति ।
उक्तं च -
यद् वेदात् प्रभु-संमिताद् अधिगतं शब्द-प्रधानाच् चिरं
यच् चार्थ-प्रवणात् पुराण-कथनाद् इष्टं सुहृत्-संमितात् ।
कान्ता-संमितया यया सरसताम् आपाद्य काव्य-श्रिया
कर्तव्ये कुतुकी बुधो विरचितस् तस्यै स्पृहां कुर्महे ॥
काव्यं यशसे ऽर्थ-कृते व्यवहार-विदे शिवेतर-क्षतये ।
सद्यः पर-निर्वृतये कान्ता-संमिततयोपदेश-युजे ।।
इति ।
[[२०]]