अध्यर्धयोजनं गत्वा नदीं पश्चान्मुखाश्रिताम्।
सरयूं पुण्यसलिलां ददर्श रघुनन्दनः ॥ 7.110.1 ॥
तां नदीमाकुलावर्तां सर्वत्रानुसरन्नृपः।
आगतः सप्रजो रामस्तं देशं रघुनन्दनः ॥ 7.110.2 ॥
अथ तस्मिन्मुहूर्ते तु ब्रह्मा लोकपितामहः।
सर्वैः परिवृतो देवैर्ऋषिभिश्च महात्मभिः ॥ 7.110.3 ॥
आययौ यत्र काकुत्स्थः स्वर्गाय समुपस्थितः।
विमानशतकोटीभिर्दिव्याभिरभिसंवृतः ॥ 7.110.4 ॥
दिव्यतेजोवृतं व्योम ज्योतिर्भूतमनुत्तमम्।
स्वयम्प्रभैः स्वतेजोभिः स्वर्गिभिः पुण्यकर्मभिः ॥ 7.110.5 ॥
पुण्या वाता ववुश्चैव गन्धवन्तः सुखप्रदाः।
पपात पुष्पवृष्टिश्च देवैर्मुक्ता महौघवत् ॥ 7.110.6 ॥
तस्मिंस्तूर्यशतैः कीर्णे गन्धर्वाप्सरसङ्कुले।
सरयूसलिलं रामः पद्भ्यां समुपचक्रमे ॥ 7.110.7 ॥
ततः पितामहो वाणीमन्तरिक्षादभाषत।
आगच्छ विष्णो भद्रं ते दिष्ट्या प्राप्तोऽसि राघव ॥ 7.110.8 ॥
यामिच्छसि महाबाहो तां तनुं प्रविश स्विकाम्।
वैष्णवीं तां महातेजस्तद्वाकाशं सनातनम् ॥ 7.110.9 ॥
ऋते मायां विशालाक्षीं तव पूर्वपरिग्रहाम्।
त्वामचिन्त्यं महद्भूतमक्षयं सर्वसङ्ग्रहम् ॥ 7.110.10 ॥
यामिच्छसि महातेजस्तां तनुं प्रविश स्वयम् ॥ 7.110.11 ॥
पितामहवचः श्रुत्वा विनिश्चित्य महामतिः।
विवेश वैष्णवं तेजः सशरीरः सहानुजः ॥ 7.110.12 ॥
ततो विष्णुमयं देवं पूजयन्ति स्म देवताः।
साध्या मरुद्गणाश्चैव सेन्द्राः साग्निपुरोगमाः ॥ 7.110.13 ॥
ये च दिव्या ऋषिगणा गन्धर्वाप्सरसश्च याः।
सुपर्णनागयक्षाश्च दैत्यदानवराक्षसाः ॥ 7.110.14 ॥
सर्वं पुष्टं प्रमुदितं सुसम्पूर्णमनोरथम्।
साधु साध्विति तैर्देवैस्त्रिदिवं गतकल्मषम् ॥ 7.110.15 ॥
अथ विष्णुर्महातेजाः पितामहमुवाच ह।
एषां लोकं जनौघानां दातुमर्हसि सुव्रत ॥ 7.110.16 ॥
इमे हि सर्वे स्नेहान्मामनुयाता यशस्विनः।
भक्ता हि भजितव्याश्च त्यक्तात्मानश्च मत्कृते ॥ 7.110.17 ॥
तच्छ्रुत्वा विष्णुवचनं ब्रह्मा लोकगुरुः प्रभुः।
लोकान्सान्तानिकान्नाम यास्यन्तीमे समागताः ॥ 7.110.18 ॥
यच्च तिर्यग्गतं किञ्चित्त्वामेवमनुचिन्तयत्।
प्राणांस्त्यक्ष्यति भक्त्या वै तत्सन्ताने निवत्स्यति ॥ 7.110.19 ॥
सर्वैर्ब्रह्मगुणैर्युक्ते ब्रह्मलोकादनन्तरे ॥ 7.110.20 ॥
वानराश्च स्विकां योनिमृक्षाश्चैव तथा ययुः।
येभ्यो विनिस्सृताः सर्वे सुरेभ्यः सुरसम्भवाः ॥ 7.110.21 ॥
तेषु प्रविविशे चैव सुग्रीवः सूर्यमण्डलम्।
पश्यतां सर्वदेवानां स्वान्पितॄन्प्रतिपेदिरे ॥ 7.110.22 ॥
तथोक्तवति देवेशे गोप्रतारमुपागताः।
भेजिरे सरयूं सर्वे हर्षपूर्णाश्रुविक्लवाः ॥ 7.110.23 ॥
अवगाह्य जलं यो यः प्राणी ह्यासीत् प्रहृष्टवत्।
मानुषं देहमुत्सृज्य विमानं सोऽध्यरोहत ॥ 7.110.24 ॥
सम्प्राप्य त्रिदिवं जग्मुः प्रभासुरवपूंषि च।
दिव्या दिव्येन वपुषा देवा दीप्ता इवाभवन् ॥ 7.110.25 ॥
गत्वा तु सरयूतोयं स्थावराणि चराणि च।
प्राप्य तत्तोयविक्लेदं देवलोकमुपागमन् ॥ 7.110.26 ॥
तस्मिन्नपि समापन्ना ऋक्षवानरराक्षसाः।
तेऽपि स्वर्गं प्रविविशुर्देहान्निक्षिप्य चाम्भसि ॥ 7.110.27 ॥
ततः समागतान्सर्वान्स्थाप्य लोकगुरुर्दिवि।
जगाम त्रिदशैः सार्धं सदा हृष्टैर्दिवं महत् ॥ 7.110.28 ॥