१०९ सानुचरं निर्गमनम्

प्रभातायां तु शर्वर्यां पृथुवक्षा महायशाः।
रामः कमलपत्राक्षः पुरोधसमथाब्रवीत् ॥ 7.109.1 ॥
अग्निहोत्रं व्रजत्वग्रे दीप्यमानं सह द्विजैः।
वाजपेयातपत्रं च शोभमानं महापथे ॥ 7.109.2 ॥
ततो वसिष्ठस्तेजस्वी सर्वं निरवशेषतः।
चकार विधिवद्धर्मं महाप्रास्थानिकं विधिम् ॥ 7.109.3 ॥
ततः सूक्ष्माम्बरधरो ब्रह्ममावर्तयन्परम्।
कुशान्गृहीत्वा पाणिभ्यां प्रसज्य प्रययावथ ॥ 7.109.4 ॥
अव्याहरन्क्वचित्किञ्चिन्निश्चेष्टो निःसुखः पथि।
निर्जगाम गृहात्तस्माद्दीप्यमान इवांशुमान् ॥ 7.109.5 ॥
रामस्य दक्षिणे पार्श्वे सपद्मा श्रीरपाश्रिता।
सव्ये तु ह्रीर्महादेवी व्यवसायस्तथाग्रतः ॥ 7.109.6 ॥
शरा नानाविधाश्चापि धनुरायतमुत्तमम्।
तथाऽऽयुधानि ते सर्वे ययुः पुरुषविग्रहाः ॥ 7.109.7 ॥
वेदा ब्राह्मणरूपेण गायत्री सर्वरक्षिणी।
ओङ्कारोऽथ वषट्कारः सर्वे राममनुव्रताः ॥ 7.109.8 ॥
ऋषयश्च महात्मानः सर्व एव महीसुराः।
अन्वगच्छन्महात्मानं स्वर्गद्वारमपावृतम् ॥ 7.109.9 ॥
तं यान्तमनुगच्छन्ति ह्यन्तःपुरचराः स्त्रियः।
सवृद्धबालदासीकाः सवर्षवरकिङ्कराः ॥ 7.109.10 ॥
सान्तःपुरश्च भरतः शत्रुघ्नसहितो ययौ।
रामं गतिमुपागम्य साग्निहोत्रमनुव्रतः ॥ 7.109.11 ॥
ते च सर्वे महात्मानः साग्निहोत्राः समागताः।
सपुत्रदाराः काकुत्स्थमनुजग्मुर्महामतिम् ॥ 7.109.12 ॥
मन्त्रिणो भृत्यवर्गाश्च सपुत्रपशुबान्धवाः।
सर्वे सहानुगा राममन्वगच्छन्प्रहृष्टवत् ॥ 7.109.13 ॥
ततः सर्वाः प्रकृतयो हृष्टपुष्टजनावृताः।
गच्छन्तमन्वगछंस्तं राघवं गुणरञ्जिताः ॥ 7.109.14 ॥
ततः सस्त्रीपुमांसस्ते सपक्षिपशुवाहनाः।
राघवस्यानुगाः सर्वे हृष्टा विगतकल्मषाः ॥ 7.109.15 ॥
स्नाताः प्रमुदिताः सर्वे हृष्टाः पुष्टाश्च वानराः।
दृढं किलकिलाशब्दैः सर्वं राममनुव्रतम् ॥ 7.109.16 ॥
न तत्र कश्चिद्दीनो वा व्रीडितो वाऽपि दुःखितः।
हृष्टं समुदितं सर्वं बभूव परमाद्भुतम् ॥ 7.109.17 ॥
द्रष्टुकामोऽथ निर्यान्तं रामं जानपदो जनः।
यः प्राप्तः सोऽपि दृष्ट्वैव स्वर्गायानुगतो मुदा ॥ 7.109.18 ॥
ऋक्षवानररक्षांसि जनाश्च पुरवासिनः।
आगच्छन्परया भक्त्या पृष्ठतः सुसमाहिताः ॥ 7.109.19 ॥
यानि भूतानि नगरेऽप्यन्तर्धानगतानि च।
राघवं तान्यनुययुः स्वर्गाय समुपस्थितम् ॥ 7.109.20 ॥
यानि पश्यन्ति काकुत्स्थं स्थावराणि चराणि च।
सर्वाणि रामगमने ह्यनुजग्मुर्हि तान्यपि ॥ 7.109.21 ॥
नोच्छ्वसत्तदयोध्यायां सुसूक्ष्ममपि दृश्यते।
तिर्यग्योनिगताश्चापि सर्वे राममनुव्रताः ॥ 7.109.22 ॥