ते दूता रामवाक्येन चोदिता लघुविक्रमाः।
प्रजग्मुर्मधुरां शीघ्रं चक्रुर्वासं न चाध्वनि ॥ 7.108.1 ॥
ते तु त्रिभिरहोरात्रैः सम्प्राप्य मधुरामथ।
शत्रुघ्नाय यथातत्त्वमाचख्युः सर्वमेव तत् ॥ 7.108.2 ॥
लक्ष्मणस्य परित्यागं प्रतिज्ञां राघवस्य च।
पुत्रयोरभिषेकं च पौरानुगमनं तथा ॥ 7.108.3 ॥
कुशावतीति नाम्ना सा कृता रामेण धीमता।
श्रावस्तीति पुरी रम्या श्राविता च लवस्य ह ॥ 7.108.4 ॥
अयोध्यां विजनां कृत्वा राघवो भरतस्तथा।
स्वर्गस्य गमनोद्योगं कृतवन्तौ महारथौ ॥ 7.108.5 ॥
एवं सर्वं निवेद्याशु शत्रुघ्नाय महात्मने।
विरेमुस्ते ततो दूतास्त्वर राजेति चाब्रुवन् ॥ 7.108.6 ॥
तच्छ्रुत्वा घोरसङ्काशं कुलक्षयमुपस्थितम्।
प्रकृतीस्तु समानीय काञ्चनं च पुरोधसम् ॥ 7.108.7 ॥
तेषां सर्वं यथावृत्तमब्रवीद्रघनन्दनः।
आत्मनश्च विपर्यासं भविष्यं भ्रातृभिः सह ॥ 7.108.8 ॥
ततः पुत्रद्वयं वीरः सोऽभ्यषिञ्चन्नराधिपः।
सुबाहुर्मधुरां लेभे शत्रुघाती च वैदिशम् ॥ 7.108.9 ॥
द्विधा कृत्वा तु तां सेनां माधुरीं पुत्रयोर्द्वयोः।
धनं च युक्तं कृत्वा वै स्थापयामास पार्थिवः ॥ 7.108.10 ॥
सुबाहुं मधुरायां च वैदेशे शत्रुघातिनम्।
ययौ स्थाप्य तदाऽयोध्यां रथेनैकेन राघवः ॥ 7.108.11 ॥
स ददर्श महात्मानं ज्वलन्तमिव पावकम्।
सूक्ष्मक्षौमाम्बरधरं मुनिभिः सार्धमक्षयैः ॥ 7.108.12 ॥
सोऽभिवाद्य ततो रामं प्राञ्जलिः प्रयतेन्द्रियः।
उवाच वाक्यं धर्मज्ञं धर्ममेवानुचिन्तयन् ॥ 7.108.13 ॥
कृत्वाभिषेकं सुतयोर्द्वयो राघवनन्दन।
तवानुगमने राजन्विद्धि मां कृतनिश्चयम् ॥ 7.108.14 ॥
न चान्यदपि वक्तव्यमतो वीर न शासनम्।
विलोक्यमानमिच्छामि मद्विधेन विशेषतः ॥ 7.108.15 ॥
तस्य तां बुद्धिमक्लीबां विज्ञाय रघुनन्दनः।
बाढमित्येव शत्रुघ्नं रामो वाक्यमुवाच ह ॥ 7.108.16 ॥
तस्य वाक्यस्य वाक्यान्ते वानराः कामरूपिणः।
ऋक्षराक्षससङ्घाश्च समापेतुरनेकशः ॥ 7.108.17 ॥
सुग्रीवं ते पुरस्कृत्य सर्व एव समागताः।
तं रामं द्रष्टुमनसः स्वर्गायाभिमुखं स्थितम् ॥ 7.108.18 ॥
देवपुत्रा ऋषिसुता गन्धर्वाणां सुतास्तथा।
रामक्षयं विदित्वा ते सर्व एव समागताः ॥ 7.108.19 ॥
ते राममभिवाद्योचुः सर्वे वानरराक्षसाः।
तवानुगमने राजन्सम्प्राप्ताः कृतनिश्चयाः ॥ 7.108.20 ॥
यदि राम विनास्माभिर्गच्छेस्त्वं पुरुषोत्तम।
यमदण्डमिवोद्यम्य त्वया स्म विनिपातिताः ॥ 7.108.21 ॥
तैरेवमुक्तः काकुत्स्थो बाढमित्यब्रवीत् स्मयन् ॥ 7.108.22 ॥
एतस्मिन्नन्तरे रामं सुग्रीवोऽपि महाबलः।
प्रणम्य विधिवद्वीरं विज्ञापयितुमुद्यतः ॥ 7.108.23 ॥
अभिषिच्याङ्गदं वीरमागतोऽस्मि नरेश्वर।
तवानुगमने राजन्विद्धि मां कृतनिश्चयम् ॥ 7.108.24 ॥
तस्य तद्वचनं श्रुत्वा रामो रमयतां वरः।
वानरेन्द्रमथोवाचं मैत्रं तस्यानुचिन्तयन् ॥ 7.108.25 ॥
सखे शृणुष्व सुग्रीव न त्वयाऽहं विनाकृतः।
गच्छेयं देवलोकं वा परमं वा पदं महत् ॥ 7.108.26 ॥
यावत्प्रजा धरिष्यन्ति तावत्त्वं वै बिभीषण।
राक्षसेन्द्र महावीर्य लङ्कास्थस्त्वं धरिष्यसि ॥ 7.108.27 ॥
यावच्चन्द्रश्च सूर्यश्च यावत्तिष्ठति मेदिनी।
यावच्च मत्कथा लोके तावद्राज्यं तवास्त्विह ॥ 7.108.28 ॥
शासितस्त्वं सखित्वेन कार्यं ते मम शासनम्।
प्रजाः संरक्ष धर्मेण नोत्तरं वक्तुमर्हसि ॥ 7.108.29 ॥
किञ्चान्यद्वक्तुमिच्छामि राक्षसेन्द्र महामते ॥ 7.108.30 ॥
आराधय जगन्नाथमिक्ष्वाकुकुलदैवतम्।
आराधनीयमनिशं सर्वैर्दैवैः सवासवैः ॥ 7.108.31 ॥
तथेति प्रतिजग्राह रामवाक्यं विभीषणः।
राजा राक्षसमुख्यानां राघवाज्ञामनुस्मरन् ॥ 7.108.32 ॥
तमेवमुक्त्वा काकुत्स्थो हनूमन्तमथाब्रवीत्।
जीविते कृतबुद्धिस्त्वं मा प्रतिज्ञां विलोपय ॥ 7.108.33 ॥
मत्कथाः प्रचरिष्यन्ति यावल्लोके हरीश्वर।
तावद्रमस्व सुप्रीतो मद्वाक्यमनुपालयन् ॥ 7.108.34 ॥
एवमुक्तस्तु हनुमान्राघवेण महात्मना।
वाक्यं विज्ञापयामास परं हर्षमवाप्य च ॥ 7.108.35 ॥
यावत्तव कथा लोके विचरिष्यति पावनी।
तावत्स्थास्यामि मेदिन्यां तवाज्ञामनुपालयन् ॥ 7.108.36 ॥
मैन्दं च द्विविदं चैव पञ्च जाम्बवता सह।
यावत्कलिश्च सम्प्राप्तस्तावज्जीवत सर्वदा ॥ 7.108.37 ॥
तानेवमुक्त्वा काकुत्स्थः सर्वांस्तानृक्षवानरान्।
उवाच बाढं गच्छध्वं मया सार्धं यथेप्सितम् ॥ 7.108.38 ॥