विसृज्य लक्ष्मणं रामो दुःखशोकसमन्वितः।
पुरोधसं मन्त्रिणश्च नैगमांश्चेदमब्रवीत् ॥ 7.107.1 ॥
अद्य राज्येऽभिषेक्ष्यामि भरतं धर्मवत्सलम्।
अयोध्यायाः पतिं वीरं ततो यास्याम्यहं वनम् ॥ 7.107.2 ॥
प्रवेशयत सम्भारान्माभूत्कालस्य पर्ययः।
अद्यैवाहं गमिष्यामि लक्ष्मणेन गतां गतिम् ॥ 7.107.3 ॥
तच्छ्रुत्वा राघवेणोक्तं सर्वाः प्रकृतयो भृशम्।
मूर्धभिः प्रणता भूमौ गतसत्त्वा इवाभवन् ॥ 7.107.4 ॥
भरतश्च विसञ्ज्ञोऽभूच्छ्रुत्वा रामस्य भाषितम्।
राज्यं विगर्हयामास राघवं चेदमब्रवीत् ॥ 7.107.5 ॥
सत्येनाहं शपे राजन्स्वर्गलोके न चैव हि।
न कामये यथा राज्यं त्वां विना रघुनन्दन ॥ 7.107.6 ॥
इमौ कुशलवौ राजन्नभिषिञ्च नराधिप।
कोसलेषु कुशं वीरमुत्तरेषु तथा लवम् ॥ 7.107.7 ॥
शत्रुघ्नस्य तु गच्छन्तु दूतास्त्वरितविक्रमाः।
इदं गमनमस्माकं स्वर्गायाख्यातु मा चिरम् ॥ 7.107.8 ॥
तच्छ्रुत्वा भरतेनोक्तं दृष्ट्वा चापि ह्यधोमुखान्।
पौरान्दुःखेन सन्तप्तान्वसिष्ठो वाक्यमब्रवीत् ॥ 7.107.9 ॥
वत्स राम इमाः पश्य धरणीं प्रकृतीर्गताः।
ज्ञात्वैषामीप्सितं कार्यं मा चैषां विप्रियं कृथाः ॥ 7.107.10 ॥
वसिष्ठस्य तु वाक्येन उत्थाप्य प्रकृतीजनम्।
किं करोमीति काकुत्स्थः सर्वा वचनमब्रवीत् ॥ 7.107.11 ॥
ततः सर्वाः प्रकृतयो रामं वचनमब्रुवन्।
गच्छन्तमनुगच्छामो यत्र राम गमिष्यसि ॥ 7.107.12 ॥
पौरेषु यदि ते प्रीतिर्यदि स्नेहो ह्यनुत्तमः।
सपुत्रदाराः काकुत्स्थ समागच्छाम सत्पथम् ॥ 7.107.13 ॥
तपोवनं वा दुर्गं वा नदीमम्भोनिधिं तथा।
वयं ते यदि न त्याज्याः सर्वान्नो नय ईश्वर ॥ 7.107.14 ॥
एषा नः परमा प्रीतिरेष नः परमो वरः।
हृद्गता नः सदा प्रीतिस्तवानुगमने नृप ॥ 7.107.15 ॥
स्वकृतान्तं चान्ववेक्ष्य तस्मिन्नहनि राघवः।
[सुतौ प्रस्थापयामास धर्मिष्ठौ धर्मवत्सलौ] ॥ 7.107.16 ॥
कोसलेषु कुशं वीरमुत्तरेषु तथा लवम्।
अभिषिच्य महात्मानावुभौ रामः कुशीलवौ ॥ 7.107.17 ॥
अभिषिक्तौ सुतावङ्के प्रतिष्ठाप्य पुरे ततः।
परिष्वज्य महाबाहुर्मूर्ध्न्युपाघ्राय चासकृत् ॥ 7.107.18 ॥
रथानां तु सहस्राणि नागानामयुतानि च।
दशायुतानि चाश्वानामेकैकस्य धनं ददौ ॥ 7.107.19 ॥
बहुरत्नौ बहुधनौ हृष्टपुष्टजनावृतौ।
स्वे पुरे प्रेषयामास भ्रातरौ तु कुशीलवौ ॥ 7.107.20 ॥
अभिषिच्य सुतौ वीरौ प्रतिष्ठाप्य पुरे तदा।
दूतान्सम्प्रेषयामास शत्रुघ्नाय महात्मने ॥ 7.107.21 ॥