अवाङ्मुखमथो दीनं दृष्ट्वा सोममिवाप्लुतम्।
राघवं लक्ष्मणो वाक्यं हृष्टो मधुरमब्रवीत् ॥ 7.106.1 ॥
न सन्तापं महाबाहो मदर्थं कर्तुमर्हसि।
पूर्वनिर्माणबद्धा हि कालस्य गतिरीदृशी ॥ 7.106.2 ॥
जहि मां सौम्य विस्रब्धं प्रतिज्ञां परिपालय।
हीनप्रतिज्ञाः काकुत्स्थ प्रयान्ति नरकं नराः ॥ 7.106.3 ॥
यदि प्रीतिर्महाराज यद्यनुग्राह्यता मयि।
जहि मां निर्विशङ्कस्त्वं धर्मं वर्धय राघव ॥ 7.106.4 ॥
लक्ष्मणेन तथोक्तस्तु रामः प्रचलितेन्द्रियः।
मन्त्रिणः समुपानीय तथैव च पुरोधसम् ॥ 7.106.5 ॥
अब्रवीच्च तदा वृत्तं तेषां मध्ये स राघवः।
दुर्वासोभिगमं चैव प्रतिज्ञां तापसस्य च ॥ 7.106.6 ॥
तच्छ्रुत्वा मन्त्रिणः सर्वे सोपाध्यायाः समासत।
वसिष्ठस्तु महातेजा वाक्यमेतदुवाच ह ॥ 7.106.7 ॥
दृष्टमेतन्महाबाहो क्षयं ते रोमहर्षणम्।
लक्ष्मणेन वियोगश्च तव राम महायशः ॥ 7.106.8 ॥
त्यजैनं बलवान्कालो मा प्रतिज्ञां वृथा कृताः।
विनष्टायां प्रतिज्ञायां धर्मोऽपि च लयं व्रजेत् ॥ 7.106.9 ॥
ततो धर्मे विनष्टे तु त्रैलोक्यं सचराचरम्।
सदेवर्षिगणं सर्वं विनश्येत्तु न संशयः ॥ 7.106.10 ॥
स त्वं पुरुषशार्दूल त्रैलोक्यस्याभिपालनात्।
लक्ष्मणेन विना चाद्य जगत्स्वस्थं कुरुष्व ह ॥ 7.106.11 ॥
तेषां तत्समवेतानां वाक्यं धर्मार्थसंहितम्।
श्रुत्वा परिषदो मध्ये रामो लक्ष्मणमब्रवीत् ॥ 7.106.12 ॥
विसर्जये त्वां सौमित्रे मा भूद्धर्मविपर्ययः।
त्यागो वधो वा विहितः साधूनां तूभयं समम् ॥ 7.106.13 ॥
रामेण भाषिते वाक्ये बाष्पव्याकुलितेन्द्रियः।
लक्ष्मणस्त्वरितं प्रायात्स्वगृहं न विवेश ह ॥ 7.106.14 ॥
स गत्वा सरयूतीरमुपस्पृश्य कृताञ्जलिः।
निगृह्य सर्वस्रोतांसि निःश्वासं न मुमोच ह ॥ 7.106.15 ॥
अनिःश्वसन्तं युक्तं तं सशक्राः साप्सरोगणाः।
देवाः सर्षिगणाः सर्वे पुष्पैरभ्यकिरंस्तदा ॥ 7.106.16 ॥
अदृश्यं सर्वमनुजैः सशरीरं महाबलम्।
प्रगृह्य लक्ष्मणं शक्रस्त्रिदिवं संविवेश ह ॥ 7.106.17 ॥
ततो विष्णोश्चतुर्भागमागतं सुरसत्तमाः।
दृष्ट्वा प्रमुदिताः सर्वेऽपूजयन् समहर्षयः ॥ 7.106.18 ॥