१०५ दुर्वास-आतिथ्यम्

तथा तयोः संवदतोर्दुर्वासा भगवानृषिः।
रामस्य दर्शनाकाङ्क्षी राजद्वारमुपागमत् ॥ 7.105.1 ॥
सोऽभिगम्य तु सौमित्रिमुवाच ऋषिसत्तमः।
रामं दर्शय मे शीघ्रं पुरा मेऽर्थोऽतिवर्तते ॥ 7.105.2 ॥
मुनेस्तु भाषितं श्रुत्वा लक्ष्मणः परवीरहा।
अभिवाद्य महात्मानं वाक्यमेतदुवाच ह ॥ 7.105.3 ॥
किं कार्यं ब्रूहि भगवन्को वाऽर्थः किं करोम्यहम्।
व्यग्रो हि राघवो ब्रह्मन्मुहूर्तं प्रतिपाल्यताम् ॥ 7.105.4 ॥
तच्छ्रुत्वा ऋषिशार्दूलः क्रोधेन कलुषीकृतः।
उवाच लक्ष्मणं वाक्यं निर्दहन्निव चक्षुषा ॥ 7.105.5 ॥
अस्मिन्क्षणे मां सौमित्रे रामाय प्रतिवेदय।
अस्मिन्क्षणे मां सौमित्रे न निवेदयसे यदि ॥ 7.105.6 ॥
विषयं त्वां पुरं चैव शपिष्ये राघवं तथा।
भरतं चैव सौमित्रे युष्माकं या च सन्ततिः ॥ 7.105.7 ॥
तच्छ्रुत्वा घोरसङ्काशं वाक्यं तस्य महात्मनः।
चिन्तयामास मनसा तस्य वाक्यस्य निश्चयम् ॥ 7.105.8 ॥
एकस्य मरणं मेऽस्तु मा भूत्सर्वविनाशनम्।
इति बुद्ध्या विनिश्चित्य राघवाय न्यवेदयत् ॥ 7.105.9 ॥
लक्ष्मणस्य वचः श्रुत्वा रामः कालं विसृज्य च।
निस्सृत्य त्वरितं राजा अत्रेः पुत्रं ददर्श ह ॥ 7.105.10 ॥
सोऽभिवाद्य महात्मानं ज्वलन्तमिव तेजसा।
किं कार्यमिति काकुत्स्थः कृताञ्जलिरभाषत ॥ 7.105.11 ॥
तद्वाक्यं राघवेणोक्तं श्रुत्वा मुनिवरः प्रभुम्।
प्रत्याह रामं दुर्वासाः श्रूयतां धर्मवत्सल ॥ 7.105.12 ॥
अद्य वर्षसहस्रस्य समाप्तिस्तपसो मम।
सोऽहं भोजनमिच्छामि यथासिद्धं तवानघ ॥ 7.105.13 ॥
तच्छ्रुत्वा वचनं राजा राघवः प्रीतमानसः।
भोजनं मुनिमुख्याय यथासिद्धमुपाहरत् ॥ 7.105.14 ॥
स तु भुक्त्वा मुनिश्रेष्ठस्तदन्नममृतोपमम्।
साधु रामेति सम्भाष्य स्वमाश्रममुपागमत् ॥ 7.105.15 ॥
तस्मिन् गते मुनिवरे स्वाश्रमं लक्ष्मणाग्रजः।
संस्मृत्य कालवाक्यानि ततो दुःखमुपागमत् ॥ 7.105.16 ॥
दुःखेन च सुसन्तप्तः स्मृत्वा तद्घोरदर्शनम्।
अवाङ्मुखो दीनमना व्याहर्तुं न शशाक ह ॥ 7.105.17 ॥
ततो बुद्ध्या विनिश्चित्य कालवाक्यानि राघवः।
नैतदस्तीति निश्चित्य तूष्णीमासीन्महायशाः ॥ 7.105.18 ॥