१०४ अवतार-समाप्ति-प्रर्थना

शृणु राजन्महासत्व यदर्थमहमागतः।
पितामहेन देवेन प्रेषितोऽस्मि महाबल ॥ 7.104.1 ॥
तवाहं पूर्वसद्भावे पुत्रः परपुरञ्जय।
मायासम्भावितो वीर कालः सर्वसमाहरः ॥ 7.104.2 ॥
पितामहश्च भगवानाह लोकपतिः प्रभुः।
समयस्ते कृतः सौम्य लोकान्सम्परिरक्षितुम् ॥ 7.104.3 ॥
सङ्क्षिप्य हि पुरा लोकान्मायया स्वयमेव हि।
महार्णवे शयानोऽप्सु मां त्वं पूर्वमजीजनः ॥ 7.104.4 ॥
भोगवन्तं ततो नागमनन्तमुदकेशयम्।
मायया जनयित्वा त्वं द्वौ च सत्त्वौ महाबलौ ॥ 7.104.5 ॥
मधुं च कैटभं चैव ययोरस्थिचयैर्वृता।
इयं पर्वतसम्बाधा मेदिनी चाभवन्मही ॥ 7.104.6 ॥
पद्मे दिव्येऽर्कसङ्काशे नाभ्यामुत्पाद्य मामपि।
प्राजापत्यं त्वया कर्म मयि सर्वं निवेशितम् ॥ 7.104.7 ॥
सोऽहं सन्न्यस्तभारो हि त्वामुपासे जगत्पतिम्।
रक्षां विधत्स्व भूतेषु मम तेजस्करो भवान् ॥ 7.104.8 ॥
ततस्त्वमपि दुर्धर्षात्तस्माद्भावात्सनातनात्।
रक्षार्थं सर्वभूतानां विष्णुत्वमुपजग्मिवान् ॥ 7.104.9 ॥
अदित्यां वीर्यवान्पुत्रो भ्रातॄणां वीर्यवर्धनः।
समुत्पन्नेषु कृत्येषु तेषां साह्याय कल्पसे ॥ 7.104.10 ॥
स त्वं वित्रास्यमानासु प्रजासु जगतां वर।
रावणस्य वधाकाङ्क्षी मानुषेषु मनोऽदधाः ॥ 7.104.11 ॥
दश वर्षसहस्राणि दश वर्षशतानि च।
कृत्वा वासस्य नियतिं स्वयमेवात्मना पुरा ॥ 7.104.12 ॥
स त्वं मनोमयः पुत्रः पूर्णायुर्मानुषेष्विह।
कालोऽयं ते नरश्रेष्ठ समीपमुपवर्तितुम् ॥ 7.104.13 ॥
यदि भूयो महाराज प्रजा इच्छस्युपासितुम्।
वस वा वीर भद्रं त एवमाह पितामहः ॥ 7.104.14 ॥
अथ वा विजिगीषा ते सुरलोकाय राघव।
सनाथा विष्णुना देवा भवन्तु विगतज्वराः ॥ 7.104.15 ॥
श्रुत्वा पितामहेनोक्तं वाक्यं कालसमीरितम्।
राघवः प्रहसन्वाक्यं सर्वसंहारमब्रवीत् ॥ 7.104.16 ॥
श्रुत्वा मे देवदेवस्य वाक्यं परममद्भुतम्।
प्रीतिर्हि महती जाता तवागमनसम्भवा ॥ 7.104.17 ॥
त्रयाणामपि लोकानां कार्यार्थं मम सम्भवः।
भद्रं तेऽस्तु गमिष्यामि यत एवाहमागतः ॥ 7.104.18 ॥
मया हि सर्वकृत्येषु देवानां वशवर्तिनाम्।
स्थातव्यं सर्वसंहार यथा ह्याह पितामहः ॥ 7.104.19 ॥