कस्यचित्त्वथ कालस्य रामे धर्मपरे स्थिते।
कालस्तापसरूपेण राजद्वारमुपागमत् ॥ 7.103.1 ॥
सोऽब्रवील्लक्ष्मणं वाक्यं धृतिमन्तं यशश्विनम्।
मां निवेदय रामाय सम्प्राप्तं कार्यगौरवात् ॥ 7.103.2 ॥
दूतोऽस्म्यतिबलस्याहं महर्षेरमितौजसः।
रामं दिदृक्षुरायातः कार्येण हि महाबल ॥ 7.103.3 ॥
तस्य तद्वचनं श्रुत्वा सौमित्रिस्त्वरयाऽन्वितः।
न्यवेदयत रामाय तापसं तं समागतम् ॥ 7.103.4 ॥
जयस्व राम धर्मेण उभौ लोकौ महाद्युते।
दूतस्त्वां द्रष्टुमायातस्तपसा भास्करप्रभः ॥ 7.103.5 ॥
तद्वाक्यं लक्ष्मणेनोक्तं श्रुत्वा राम उवाच ह।
प्रवेश्यतां मुनिस्तात महौजास्तस्य वाक्यधृत् ॥ 7.103.6 ॥
सौमित्रिस्तु तथेत्युक्त्वा प्रावेशयत तं मुनिम्।
ज्वलन्तमेव तेजोभिः प्रदहन्तमिवांशुभिः ॥ 7.103.7 ॥
सोऽभिगम्य रघुश्रेष्ठं दीप्यपानं स्वतेजसा।
ऋषिर्मधुरया वाचा वर्धस्वेत्याह राघवम् ॥ 7.103.8 ॥
तस्मै रामो महातेजाः पूजामर्घ्यपुरोगमाम्।
ददौ कुशलमव्यग्रं प्रष्टुमेवोपचक्रमे ॥ 7.103.9 ॥
पृष्टश्च कुशलं तेन रामेण वदतां वरः।
आसने काञ्चने दिव्ये निषसाद महायशाः ॥ 7.103.10 ॥
तमुवाच ततो रामः स्वागतं ते महामुने।
प्रापयास्य च वाक्यानि यतो दूतस्त्वमागतः ॥ 7.103.11 ॥
चोदितो राजसिंहेन मुनिर्वाक्यमभाषत।
द्वन्द्वमेतत्प्रवक्तव्यं हितं वै यद्यपेक्षसे ॥ 7.103.12 ॥
यः शृणोति निरीक्षेद्वा स वध्यो भविता तव।
भवेद्वै मुनिमुख्यस्य वचनं यद्यपेक्षसे ॥ 7.103.13 ॥
स तथेति प्रतिज्ञाय रामो लक्ष्मणमब्रवीत्।
द्वारि तिष्ठ महाबाहो प्रतिहारं विसर्जय ॥ 7.103.14 ॥
स मे वध्यः खलु भवेत् कथाद्वन्द्वं समीरितम्।
ऋषेर्मम च सौमित्रे पश्येद्वा शृणुयाच्च यः ॥ 7.103.15 ॥
ततो निक्षिप्य काकुत्स्थो लक्ष्मणं द्वारि सङ्ग्रहम्।
तमुवाच मुने वाक्यं कथयस्वेति राघवः ॥ 7.103.16 ॥
यत्ते मनीषितं वाक्यं येन वाऽसि समाहितः।
कथयस्वाविशङ्कस्त्वं ममापि हृदि वर्तते ॥ 7.103.17 ॥