१०२ लक्ष्मण-पुत्र-राज्ये

तच्छ्रुत्वा हर्षमापेदे राघवो भ्रातृभिः सह।
वाक्यं चाद्भुतसङ्काशं तदा प्रोवाच लक्ष्मणम् ॥ 7.102.1 ॥
इमौ कुमारौ सौमित्रे तव धर्मविशारदौ।
अङ्गदश्चन्द्रकेतुश्च राज्यार्थे दृढविक्रमौ ॥ 7.102.2 ॥
इमौ राज्येऽभिषेक्ष्यामि देशः साधु विधीयताम्।
रमणीयो ह्यसम्बाधो रमेतां यत्र धन्विनौ ॥ 7.102.3 ॥
न राज्ञो यत्र पीडा स्यान्नाश्रमाणां विनाशनम्।
स देशो दृश्यतां सौम्य नापराध्यामहे यथा ॥ 7.102.4 ॥
तथोक्तवति रामे तु भरतः प्रत्युवाच ह।
अयं कारुपथो देशो रमणीयो निरामयः ॥ 7.102.5 ॥
निवेश्यतां तत्र पुरमङ्गदस्य महात्मनः।
चन्द्रकेतोः सुरुचिरं चन्द्रकान्तं निरामयम् ॥ 7.102.6 ॥
तद्वाक्यं भरतेनोक्तं प्रतिजग्राह राघवः।
तं च कृत्वा वशे देशमङ्गदस्य न्यवेशयत् ॥ 7.102.7 ॥
अङ्गदीया पुरी रम्याप्यङ्गदस्य निवेशिता।
रमणीया सुगुप्ता च रामेणाक्लिष्टकर्मणा ॥ 7.102.8 ॥
चन्द्रकेतोश्च मल्लस्य मल्लभूम्यां निवेशिता।
चन्द्रकान्तेति विख्याता दिव्या स्वर्गपुरी यथा ॥ 7.102.9 ॥
ततो रामः परां प्रीतिं लक्ष्मणो भरतस्तथा।
ययुर्युद्धे दुराधर्षा अभिषेकं च चक्रिरे ॥ 7.102.10 ॥
अभिषिच्य कुमारौ स प्रस्थापयति राघवः।
अङ्गदं पश्चिमां भूमिं चन्द्रकेतुमुदङ्मुखम् ॥ 7.102.11 ॥
अङ्गदं चापि सौमित्रिर्लक्ष्मणोऽनुजगाम ह।
चन्द्रकेतोस्तु भरतः पार्ष्णिग्राहो बभूव ह ॥ 7.102.12 ॥
लक्ष्मणस्त्वङ्गदीयायां संवत्सरमथोषितः।
पुत्रे स्थिते दुराधर्षे अयोध्यां पुनरागमत् ॥ 7.102.13 ॥
भरतोऽपि तथैवोष्य संवत्सरमतोऽधिकम्।
अयोध्यां पुनरागम्य रामपादावुपास्त सः ॥ 7.102.14 ॥
उभौ सौमित्रिभरतौ रामपादावनुव्रतौ।
कालं गतमपि स्नेहान्न जज्ञातेऽतिधार्मिकौ ॥ 7.102.15 ॥
एवं वर्षसहस्राणि दश तेषां ययुस्तदा।
धर्मे प्रयतमानानां पौरकार्येषु नित्यदा ॥ 7.102.16 ॥
विहृत्य कालं परिपूर्णमानसाः श्रिया वृता धर्मपुरे सुसंस्थिताः।
त्रयः समिद्धा इव दीप्ततेजसो महाध्वरे साधु हुतास्त्रयोऽग्नयः ॥ 7.102.17 ॥