श्रुत्वा सेनापतिं प्राप्तं भरतं केकयाधिपः।
युधाजिद्गार्ग्यसहितं परां प्रीतिमुपागमत् ॥ 7.101.1 ॥
स निर्ययौ जनौघेन महता केकयाधिपः।
त्वरमाणोऽभिचक्राम गन्धर्वान्कामरूपिणः ॥ 7.101.2 ॥
भरतश्च युधाजिच्च समेतौ लघुविक्रमैः।
गन्धर्वनगरं प्राप्तौ सबलौ सपदानुगौ ॥ 7.101.3 ॥
श्रुत्वा तु भरतं प्राप्तं गन्धर्वास्ते समागताः।
योद्धुकामा महावीर्या व्यनदन् वै समन्ततः ॥ 7.101.4 ॥
ततः समभवद्युद्धं तुमुलं रोमहर्षणम्।
सप्तरात्रं महाभीमं न चान्यतरयोर्जयः ॥ 7.101.5 ॥
खड्गशक्तिधनुर्ग्राहा नद्यः शोणितसंस्रवाः।
नृकलेवरवाहिन्यः प्रवृत्ताः सर्वतोदिशम् ॥ 7.101.6 ॥
ततो रामानुजः क्रुद्धः कालस्यास्त्रं सुदारुणम्।
संवर्तं नाम भरतो गन्धर्वेष्वभ्यचोदयत् ॥ 7.101.7 ॥
ते बद्धाः कालपाशेन संवर्तेन विदारिताः।
क्षणेनाभिहतास्तेन तिस्रः कोट्यो महात्मनाम् ॥ 7.101.8 ॥
तं घातं घोरसङ्काशं न स्मरन्ति दिवौकसः।
निमेषान्तरमात्रेण तादृशानां महात्मनाम् ॥ 7.101.9 ॥
हतेषु तेषु सर्वेषु भरतः केकयीसुतः।
निवेशयामास तदा समृद्धे द्वे पुरोत्तमे ॥ 7.101.10 ॥
तक्षं तक्षशिलायां तु पुष्कलं पुष्कलावते।
गन्धर्वदेशे रुचिरे गान्धारविषये च सः ॥ 7.101.11 ॥
धनरत्नौघसङ्कीर्णे काननैरुपशोभिते।
अन्योन्यसङ्घर्षकृते स्पर्धया गुणविस्तरैः ॥ 7.101.12 ॥
उभे सुरुचिरप्रख्ये व्यवहारैरकिल्बिषैः।
उद्यानयानसम्पूर्णे सुविभक्तान्तरापणे ॥ 7.101.13 ॥
उभे पुरवरे रम्ये विस्तरैरुपशोभिते।
गृहमुख्यैः सुरुचिरैर्विमानसमवर्णिभिः ॥ 7.101.14 ॥
शोभिते शोभनीयैश्च देवायतनविस्तरैः।
तालैस्तमालैस्तिलकैर्वकुलैरुपशोभिते ॥ 7.101.15 ॥
निवेश्य पञ्चभिर्वर्षैर्भरतो राघवानुजः।
पुनरायान्महाबाहुरयोध्यां केकयीसुतः ॥ 7.101.16 ॥
सोऽभिवाद्य महात्मानं साक्षाद्धर्ममिवापरम्।
राघवं भरतः श्रीमान्ब्रह्माणमिव वासवः ॥ 7.101.17 ॥
शशंस च यथावृत्तं गन्धर्ववधमुत्तमम्।
निवेशनं च देशस्य श्रुत्वा प्रीतोऽस्य राघवः ॥ 7.101.18 ॥