स्वगुरुं प्रेषयामास राघवाय महात्मने।
गार्ग्यमङ्गिरसः पुत्रं ब्रह्मर्षिममितप्रभम् ॥ 7.100.1 ॥
दश चाश्वसहस्राणि प्रीतिदानमनुत्तमम् ॥ 7.100.2 ॥
कम्बलानि च रत्नानि चित्रवस्त्रमथोत्तमम्।
रामाय प्रददौ राजा शुभान्याभरणानि च ॥ 7.100.3 ॥
श्रुत्वा तु राघवो धीमान्महर्षिं गार्ग्यमागतम्।
मातुलस्याश्वपतिनः प्रहितं तन्महाधनम् ॥ 7.100.4 ॥
प्रत्युद्गम्य च काकुत्स्थः क्रोशमात्रं सहानुजः।
गार्ग्यं सम्पूजयामास यथा शक्रो बृहस्पतिम् ॥ 7.100.5 ॥
पृष्ट्वा प्रतिपदं सर्वं कुशलं मातुलस्य च।
उपविष्टं महाभागं रामः प्रष्टुं प्रचक्रमे ॥ 7.100.6 ॥
किमाह मातुलो वाक्यं यदर्थं भगवानिह।
प्राप्तो वाक्यविदां श्रेष्ठः साक्षादिव बृहस्पतिः ॥ 7.100.7 ॥
रामस्य भाषितं श्रुत्वा महर्षिः कार्यविस्तरम्।
वक्तुमद्भुतसङ्काशं राघवायोपचक्रमे ॥ 7.100.8 ॥
मातुलस्ते महाबाहो वाक्यमाह नरर्षभः।
युधाजित्प्रीतिसंयुक्तं श्रूयतां यदि रोचते ॥ 7.100.9 ॥
अयं गन्धर्वविषयः फलमूलोपशोभितः।
सिन्धोरुभयतः पार्श्वे देशः परमशोभनः ॥ 7.100.10 ॥
तं च रक्षन्ति गन्धर्वाः सायुधा युद्धकोविदाः।
शैलूषस्य सुता वीर त्रिकोट्यो वै महाबलाः ॥ 7.100.11 ॥
तान्विनिर्जित्य काकुत्स्थ गन्धर्वनगरं शुभम्।
निवेशय महाबोहो स्वे पुरे सुसमाहिते ॥ 7.100.12 ॥
अन्यस्य न गतिस्तत्र देशः परमशोभनः।
रोचतां ते महाबाहो नाहं त्वामहितं वदे ॥ 7.100.13 ॥
तच्छ्रुत्वा राघवः प्रीतो महर्षेर्मातुलस्य च।
उवाच बाढमित्येव भरतं चान्ववैक्षत ॥ 7.100.14 ॥
सोऽब्रवीद्राघवः प्रीतः साञ्जलिप्रग्रहो द्विजम्।
इमौ कुमारौ तं देशं ब्रह्मर्षे विचरिष्यतः ॥ 7.100.15 ॥
भरतस्यात्मजौ वीरौ तक्षः पुष्कल एव च।
मातुलेन सुगुप्तौ तु धर्मेण सुसमाहितौ ॥ 7.100.16 ॥
भरतं चाग्रतः कृत्वा कुमारौ सबलानुगौ।
निहत्य गन्धर्वसुतान्द्वे पुरे विभजिष्यतः ॥ 7.100.17 ॥
निवेश्य ते पुरवरे आत्मजौ सन्निवेश्य च।
आगमिष्यति मे भूयः सकाशमतिधार्मिकः ॥ 7.100.18 ॥
ब्रह्मर्षिमेवमुक्त्वा तु भरतं सबलानुगम्।
आज्ञापयामास तदा कुमारौ चाभ्यषेचयत् ॥ 7.100.19 ॥
नक्षत्रेण च सौम्येन पुरस्कृत्याङ्गिरस्सुतम्।
भरतः सह सैन्येन कुमाराभ्यां विनिर्ययौ ॥ 7.100.20 ॥
सा सेना शक्रयुक्तेव नगरान्निर्ययावथ।
राघवानुगता दूरं दुराधर्षा सुरैरपि ॥ 7.100.21 ॥
मांसादानि च सत्त्वानि रक्षांसि सुमहान्ति च।
अनुजग्मुर्हि भरतं रुधिरस्य पिपासया ॥ 7.100.22 ॥
भूतग्रामाश्च बहवो मांसभक्षाः सुदारुणाः।
गन्धर्वपुत्रमांसानि भोक्तुकामाः सहस्रशः ॥ 7.100.23 ॥
सिंहव्याघ्रवराहाणां खेचराणां च पक्षिणाम्।
बहूनि वै सहस्राणि सेनाया ययुरग्रतः ॥ 7.100.24 ॥
अध्यर्धमासमुषिता पथि सेना निरामया।
हृष्टपुष्टजनाकीर्णा केकयं समुपागमत् ॥ 7.100.25 ॥