एतावदेतदाख्यानं सोत्तरं ब्रह्मपूजितम्।
रामायणमिति ख्यातं मुख्यं वाल्मीकीना कृतम् ॥ 7.111.1 ॥
ततः प्रतिष्ठितो विष्णुः स्वर्गलोके यथा पुरम्।
येन व्याप्तमिदं सर्वं त्रैलोक्यं सचराचरम् ॥ 7.111.2 ॥
ततो देवाः सगन्धर्वाः सिद्धाश्च परमर्षयः।
नित्यं शृण्वन्ति सन्तुष्टाः दिव्यं रामायणं दिवि ॥ 7.111.3 ॥
इदमाख्यानमायुष्यं सौभाग्यं पापनाशनम्।
रामायणं वेदसमं श्राद्धेषु श्रावयेद्बुधः ॥ 7.111.4 ॥
अपुत्रो लभते पुत्रमधनो लभते धनम्।
सर्वपापैः प्रमुच्येत पदमप्यस्य यः पठेत् ॥ 7.111.5 ॥
पापान्यपि च यः कुर्यादहन्यहनि मानवः।
पठत्येकमपि श्लोकं पापात्स परिमुच्यते ॥ 7.111.6 ॥
वाचकाय च दातव्यं वस्त्रं धेनुं हिरण्यकम्।
वाचके परितुष्टे तु तुष्टाः स्युः सर्वदेवताः ॥ 7.111.7 ॥
एतदाख्यानमायुष्यं पठन्रामायणं नरः।
सपुत्रपौत्रो लोकेऽस्मिन्प्रेत्य चेह महीयते ॥ 7.111.8 ॥
अयोध्याऽपि पुरी रम्या शून्या वर्षगणान्बहून्।
ऋषभं प्राप्य राजानं निवासमुपयास्यति ॥ 7.111.9 ॥
एतदाख्यानमायुष्यं सभविष्यं सहोत्तरम्।
कृतवान्प्रचेतसः पुत्रस्तद्ब्रह्माप्यन्वमन्यत ॥ 7.111.10 ॥
अश्वमेधसहस्रस्य वाजपेयायुतस्य च।
लभते श्रावणादेव सर्गस्यैकस्य मानवः ॥ 7.111.11 ॥
नैमिशादीन्यरण्यानि कुरुक्षेत्रादिकान्यपि।
गतानि तेन लोकेऽस्मिन्येन रामायणं श्रुतम् ॥ 7.111.12 ॥
हेमभारं कुरुक्षेत्रे ग्रस्ते भानौ प्रयच्छति।
यश्च रामायणं लोके शृणोति सदृशावुभौ ॥ 7.111.13 ॥
सम्यक्छ्रद्धासमायुक्तः शृणुते राघवीं कथाम्।
सर्वपापात्प्रमुच्येत विष्णुलोकं स गच्छति ॥ 7.111.14 ॥
आदिकाव्यमिदं त्वार्षं पुरा वाल्मीकिना कृतम्।
यः शृणोति सदा भक्त्या स गच्छेद्वैष्णवीं तनुम् ॥ 7.111.15 ॥
पुत्रदाराश्च वर्धन्ते सम्पदः सन्ततिस्तथा।
सत्यमेतद्विदित्वा तु श्रोतव्यं नियतात्मभिः ॥ 7.111.16 ॥
गायत्र्याश्च स्वरूपं तद्रामायणमनुत्तमम् ॥ 7.111.17 ॥
अपुत्रो लभते पुत्रमधनो लभते धनम्।
सर्वपापैः प्रमुच्येत पदमप्यस्य यः पठेत् ॥ 7.111.18 ॥
यः पठेच्छृणुयान्नित्यं चरितं राघवस्य ह।
भक्त्या निष्कल्मषो भूत्वा दीर्घमायुरवाप्नुयात् ॥ 7.111.19 ॥
चिन्तयेद्राघवं नित्यं श्रेयः प्राप्तुं य इच्छति।
श्रावयेदिदमाख्यानं ब्राह्मणेभ्यो दिने दिने ॥ 7.111.20 ॥
यस्त्विदं रघुनाथस्य चरितं सकलं पठेत्।
सोऽसुक्षये विष्णुलोकं गच्छत्येव न संशयः ॥ 7.111.21 ॥
पिता पितामहस्तस्य तथैव प्रपितामहः।
तत्पिता तत्पिता चैव विष्णुं यान्ति न संशयः ॥ 7.111.22 ॥
चतुर्वर्गप्रदं नित्यं चरितं राघवस्य तु।
तस्माद्यत्नवता नित्यं श्रोतव्यं परमं सदा ॥ 7.111.23 ॥
शृण्वन्रामायणं भक्त्या यः पादं पदमेव वा।
स याति ब्रह्मणः स्थानं ब्रह्मणा पूज्यते सदा ॥ 7.111.24 ॥
एवमेतत्पुरावृत्तमाख्यानं भद्रमस्तु वः।
प्रव्याहरत विस्रब्धं बलं विष्णोः प्रवर्धताम् ॥ 7.111.25 ॥