०९९ अयोध्या-प्रवेशः यज्ञ-दानादि

रजन्यां तु प्रभातायां समानीय महामुनीन्।
गीयतामविशङ्काभ्यां रामः पुत्रावुवाच ह ॥ 7.99.1 ॥
ततः समुपविष्टेषु ब्रह्मर्षिषु महात्मसु।
भविष्यदुत्तरं काव्यं जगतुस्तौ कुशीलवौ ॥ 7.99.2 ॥
प्रविष्टायां तु सीतायां भूतलं सत्यसम्पदा।
तस्यावसाने यज्ञस्य रामः परमदुर्मनाः ॥ 7.99.3 ॥
अपश्यमानो वैदेहीं मेने शून्यमिदं जगत्।
शोकेन परमायस्तो न शान्तिं मनसाऽगमत् ॥ 7.99.4 ॥
विसृज्य पार्थिवान्सर्वानृक्षवानरराक्षसान्।
जनौघं विप्रमुख्यानां वित्तपूर्वं विसृज्य च ॥ 7.99.5 ॥
एवं समाप्य यज्ञं तु विधिवत्स तु राघवः।
ततो विसृज्य तान्सर्वान्रामो राजीवलोचनः ॥ 7.99.6 ॥
हृदि कृत्वा तदा सीतामयोध्यां प्रविवेश ह।
इष्टयज्ञो नरपतिः पुत्रद्वयसमन्वितः ॥ 7.99.7 ॥
न सीतायाः परां भार्यां वव्रे स रघुनन्दनः।
यज्ञे यज्ञे च पत्न्यर्थं जानकी काञ्चनी भवत् ॥ 7.99.8 ॥
दशवर्षसहस्राणि वाजिमेघानथाकरोत्।
वाजपेयान्दशगुणांस्तथा बहुसुवर्णकान् ॥ 7.99.9 ॥
अग्निष्टोमातिरात्राभ्यां गोसवैश्च महाधनैः।
ईजे क्रतुभिरन्यैश्च स श्रीमानाप्तदक्षिणैः ॥ 7.99.10 ॥
एवं स कालः सुमहान्राज्यस्थस्य महात्मनः।
धर्मे प्रयतमानस्य व्यतीयाद्राघवस्य तु ॥ 7.99.11 ॥
अनुरञ्जन्ति राजानमहन्यहनि राघवम्।
ऋक्षवानररक्षांसि स्थिता रामस्य शासने ॥ 7.99.12 ॥
काले वर्षति पर्जन्यः सुभिक्षं विमला दिशः।
हृष्टपुष्टजनाकीर्णं पुरं जनपदास्तथा ॥ 7.99.13 ॥
नाकाले म्रियते कश्चिन्न व्याधिः प्राणिनां तथा।
नानर्थो विद्यते कश्चिद्रामे राज्यं प्रशासति ॥ 7.99.14 ॥
अथ दीर्घस्य कालस्य राममाता यशस्विनी।
पुत्रपौत्रैः परिवृता कालधर्ममुपागमत् ॥ 7.99.15 ॥
अन्वियाय सुमित्रा च कैकेयी च यशस्विनी।
धर्मं कृत्वा बहुविधं त्रिदिवे पर्यवस्थिता ॥ 7.99.16 ॥
सर्वाः प्रमुदिताः स्वर्गे राज्ञा दशरथेन च।
समागता महाभागाः सर्वधर्मं च लेभिरे ॥ 7.99.17 ॥
तासां रामो महादानं काले काले प्रयच्छति।
मातॄणामविशेषेण ब्राह्मणेषु तपस्विषु ॥ 7.99.18 ॥
पित्र्याणि ब्रह्मरत्नानि यज्ञान्परमदुस्तरान्।
चकार रामो धर्मात्मा पितॄन्देवान्विवर्धयन् ॥ 7.99.19 ॥
एवं वर्षसहस्राणि बहून्यथ ययुः सुखम्।
यज्ञैर्बहुविधं धर्मं वर्धयानस्य सर्वदा ॥ 7.99.20 ॥