रसातलं प्रविष्टायां वैदेह्यां सर्ववानराः।
चुक्रुशुः साधु साध्वीति मुनयो रामसन्निधौ ॥ 7.98.1 ॥
दण्डकाष्ठमवष्टभ्य बाष्पव्याकुलितेक्षणः।
अवाक्छिरा दीनमना रामो ह्यासीत्सुदुःखितः ॥ 7.98.2 ॥
स रुदित्वा चिरं कालं बहुशो बाष्पमुत्सृजन्।
क्रोधशोकसमाविष्टो रामो वचनमब्रवीत् ॥ 7.98.3 ॥
अभूतपूर्वं शोकं मे मनः स्प्रष्टुमिवेच्छति।
पश्यतो मे यथा नष्टा सीता श्रीरिव रूपिणी ॥ 7.98.4 ॥
साऽदर्शनं पुरा सीता लङ्कापारे महोदधेः।
ततश्चापि मयानीता किं पुनर्वसुधातलात् ॥ 7.98.5 ॥
वसुधे देवि भवति सीता निर्यात्यतां मम।
दर्शयिष्यामि वा रोषं यथा मामवगच्छसि ॥ 7.98.6 ॥
कामं श्वश्रूर्ममैव त्वं त्वत्सकाशाद्धि मैथिली।
कर्षता हलहस्तेन जनकेनोद्धृता पुरा ॥ 7.98.7 ॥
तस्मान्निर्यात्यतां सीता विवरं वा प्रयच्छ मे।
पाताले नाकपृष्ठे वा वसेयं सहितस्तया ॥ 7.98.8 ॥
आनय त्वं हि तां सीतां मत्तोऽहं मैथिलीकृते।
न मे दास्यसि चेत्सीतां यथारूपां महीतले ॥ 7.98.9 ॥
सपर्वतवनां कृत्स्नां विधमिष्यामि ते स्थितम्।
नाशयिष्याम्यहं भूमिं सर्वमापो भवत्विह ॥ 7.98.10 ॥
एवं ब्रुवाणे काकुत्स्थे क्रोधशोकसमन्विते।
ब्रह्मा सुरगणैः सार्धमुवाच रघुनन्दनम् ॥ 7.98.11 ॥
राम राम न सन्तापं कर्तुमर्हसि सुव्रत।
स्मर त्वं पूर्वकं भावं मन्त्रं चामित्रकर्शन ॥ 7.98.12 ॥
न खलु त्वां महाबाहो स्मारयेयमनुत्तमम्।
इमं मुहूर्तं दुर्धर्ष स्मर त्वं जन्म वैष्णवम् ॥ 7.98.13 ॥
सीता हि विमला साध्वी तव पूर्वपरायणा।
नागलोकं सुखं प्रायात्त्वदाश्रयतपोबलात् ॥ 7.98.14 ॥
स्वर्गे ते सङ्गमो भूयो भविष्यति न संशयः।
अस्यास्तु परिषन्मध्ये यद्ब्रवीमि निबोध तत् ॥ 7.98.15 ॥
एतदेव हि काव्यं ते काव्यानामुत्तमं श्रुतम्।
सर्वं विस्तरतो राम व्याख्यास्यति न संशयः ॥ 7.98.16 ॥
जन्मप्रभृति ते वीर सुखदुःखोपसेवनम्।
भविष्यदुत्तरं चेह सर्वं वाल्मीकिना कृतम् ॥ 7.98.17 ॥
आदिकाव्यमिदं राम त्वयि सर्वं प्रतिष्ठितम्।
नह्यन्योऽर्हति काव्यानां यशोभाग्राघवादृते ॥ 7.98.18 ॥
श्रुतं ते पूर्वमेतद्धि मया सर्वं सुरैः सह।
दिव्यमद्भुतरूपं च सत्यवाक्यमनावृतम् ॥ 7.98.19 ॥
स त्वं पुरुषशार्दूल धर्मेण सुसमाहितः।
शेषं भविष्यं काकुत्स्थ काव्यं रामायणं शृणु ॥ 7.98.20 ॥
उत्तरं नाम काव्यस्य शेषमत्र महायशः।
तच्छृणुष्व महातेज ऋषिभिः सार्धमुत्तमम् ॥ 7.98.21 ॥
न खल्वन्येन काकुत्स्थ श्रोतव्यमिदमुत्तमम्।
परमम् ऋषिणा वीर त्वयैव रघुनन्दन ॥ 7.98.22 ॥
एतावदुक्त्वा वचनं ब्रह्मा त्रिभुवनेश्वरः।
जगाम त्रिदिवं देवो देवैः सह सबान्धवैः ॥ 7.98.23 ॥
ब्रह्मणा समनुज्ञाता न्यवर्तन्त महौजसः।
उत्तरं श्रोतुमनसो भविष्यं यच्च राघवे ॥ 7.98.24 ॥
ततो रामः शुभां वाणीं देवदेवस्य भाषिताम्।
श्रुत्वा परमतेजस्वी वाल्मीकिमिदमब्रवीत् ॥ 7.98.25 ॥
भगवन् श्रोतुमनस ऋषयो ब्राह्मलौकिकाः।
भविष्यदुत्तरं यन्मे श्वोभूते सम्प्रवर्तताम् ॥ 7.98.26 ॥
तं जनौघं विसृज्याथ पर्णशालामुपागमत्।
तामेव शोचतः सीतां सा व्यतीयाय शर्वरी ॥ 7.98.27 ॥