वाल्मीकिनैवमुक्तस्तु राघवः प्रत्यभाषत।
प्राञ्जलिर्जगतो मध्ये दृष्ट्वा तां वरवर्णिनीम् ॥ 7.97.1 ॥
एवमेतन्महाभाग यथा वदसि धर्मवित्।
प्रत्ययस्तु मम ब्रह्मंस्तव वाक्यैरकल्मषैः ॥ 7.97.2 ॥
शपथस्तु कृतस्तत्र तेन वेश्म प्रवेशिता।
लोकापवादो बलवान्येन त्यक्ता हि मैथिली ॥ 7.97.3 ॥
सेयं लोकभयाद्ब्रह्मन्नपापेत्यभिजानता।
परित्यक्ता मया सीता तद्भावन्क्षन्तुमर्हति ॥ 7.97.4 ॥
जानामि चेमौ पुत्रौ मे यमजातौ कुशीलवौ।
शुद्धायां जगतो मध्ये मैथिल्यां प्रीतिरस्तु मे ॥ 7.97.5 ॥
अभिप्रायं तु विज्ञाय रामस्य सुरसत्तमाः।
सीतायाः शपथे तस्मिन् महेन्द्राद्या महौजसः ॥ 7.97.6 ॥
पितामहं पुरस्कृत्य सर्व एव समागताः ॥ 7.97.7 ॥
आदित्या वसवो रुद्रा ह्यश्विनौ समरुद्गणाः।
गन्धर्वाप्सरसश्चैव सर्व एव समागताः ॥ 7.97.8 ॥
नागाः सुपर्णाः सिद्धाश्च ते सर्वे हृष्टमानसाः।
सीताशपथसम्भ्रान्ताः सर्व एव समागताः ॥ 7.97.9 ॥
दृष्ट्वा देवानृषींश्चैव राघवः पुनरब्रवीत्।
प्रत्ययो मे नरश्रेष्ठा ऋषिवाक्यैरकल्मषैः ॥ 7.97.10 ॥
शुद्धायां जगतो मध्ये वैदेह्यां प्रीतिरस्तु मे ॥ 7.97.11 ॥
ततो वायुः शुभः पुण्यो दिव्यगन्धो मनोरमः।
तज्जनौघं सुरश्रेष्ठो ह्लादयामास सर्वतः ॥ 7.97.12 ॥
तदद्भुतमिवाचिन्त्यं निरैक्षन्त समागताः।
मानवाः सर्वराष्ट्रेभ्यः पूर्वं कृतयुगे यथा ॥ 7.97.13 ॥
सर्वान्समागतान्दृष्ट्वा सीता काषायवासिनी।
अब्रवीत्प्राञ्जलिर्वाक्यमधोदृष्टिरवाङ्मुखी ॥ 7.97.14 ॥
यथाऽहं राघवादन्यं मनसापि न चिन्तये।
तथा मे माधवी देवी विवरं दातुमर्हति ॥ 7.97.15 ॥
मनसा कर्मणा वाचा यथा रामं समर्चये।
तथा मे माधवी देवी विवरं दातुमर्हति ॥ 7.97.16 ॥
यथैतत्सत्यमुक्तं मे वेद्मि रामात्परं न च।
तथा मे माधवी देवी विवरं दातुमर्हति ॥ 7.97.17 ॥
तथा शपन्त्यां वैदेह्यां प्रादुरासीत्तदद्भुतम्।
भूतलादुत्थितं दिव्यं सिंहासनमनुत्तमम् ॥ 7.97.18 ॥
ध्रियमाणं शिरोभिस्तु नागैरमितविक्रमैः।
दिव्यं दिव्येन वपुषा दिव्यरत्नविभूषितैः ॥ 7.97.19 ॥
तस्मिंस्तु धरणी देवी बाहुभ्यां गृह्य मैथिलीम्।
स्वागतेनाभिनन्द्यैनामासने चोपवेशयत् ॥ 7.97.20 ॥
तामासनगतां दृष्ट्वा प्रविशन्तीं रसातलम्।
पुष्पवृष्टिरविच्छिन्ना दिव्या सीतामवाकिरत् ॥ 7.97.21 ॥
साधुकारश्च सुमहान्देवानां सहसोत्थितः।
साधु साध्विति वै सीते यस्यास्ते शीलमीदृशम् ॥ 7.97.22 ॥
एवं बहुविधा वाचो ह्यन्तरिक्षगताः सुराः।
व्याजह्रुर्हृष्टमनसो दृष्ट्वा सीताप्रवेशनम् ॥ 7.97.23 ॥
यज्ञवाटगताश्चापि मुनयः सर्व एव ते।
राजानश्च नरव्याघ्रा विस्मयान्नोपरेमिरे ॥ 7.97.24 ॥
अन्तरिक्षे च भूमौ च सर्वे स्थावरजङ्गमाः।
दानवाश्च महाकायाः पाताले पन्नगाधिपाः ॥ 7.97.25 ॥
केचिद्विनेदुः संहृष्टाः केचिद्ध्यानपरायणाः।
केचिद्रामं निरीक्षन्ते केचित्सीतामचेतनाः ॥ 7.97.26 ॥
सीताप्रवेशनं दृष्ट्वा तेषामासीत्समागमः।
तन्मुहूर्तमिवात्यर्थं समं सम्मोहितं जगत् ॥ 7.97.27 ॥