तस्यां रजन्यां व्युष्टायां यज्ञवाटगतो नृपः।
ऋषीन्सर्वान्महातेजाः शब्दापयति राघवः ॥ 7.96.1 ॥
वसिष्ठो वामदेवश्च जाबालिरथ काश्यपः।
विश्वामित्रो दीर्घतपा दुर्वासाश्च महातपाः ॥ 7.96.2 ॥
पुलस्त्योऽपि तथा शक्तिर्भार्गवश्चैव वामनः।
मार्कण्डेयश्च दीर्घायुर्मौद्गल्यश्च महायशाः ॥ 7.96.3 ॥
गर्गश्च च्यवनश्चैव शतानन्दश्च धर्मवित्।
भरद्वाजश्च तेजस्वी ह्यग्निपुत्रश्च सुप्रभः ॥ 7.96.4 ॥
नारदः पर्वतश्चैव गौतमश्च महायशाः।
कात्यायनः सुयज्ञश्च ह्यगस्त्यस्तपसां निधिः ॥ 7.96.5 ॥
एते चान्ये च बहवो मुनयः संशितव्रताः।
कौतूहलसमाविष्टाः सर्व एव समागताः ॥ 7.96.6 ॥
राक्षसाश्च महावीर्या वानराश्च महाबलाः।
सर्व एव समाजग्मुर्महात्मानः कुतूहलात् ॥ 7.96.7 ॥
क्षत्रिया ये च शूद्राश्च वैश्याश्चैव सहस्रशः।
नानादेशगताश्चैव ब्राह्मणाः संशितव्रताः ॥ 7.96.8 ॥
ज्ञाननिष्ठाः कर्मनिष्ठाः योगनिष्ठास्तथापरे।
सीताशपथवीक्षार्थं सर्व एव समागताः ॥ 7.96.9 ॥
तदा समागतं सर्वमश्मभूतमिवाचलम्।
श्रुत्वा मुनिवरस्तूर्णं ससीतः समुपागमत् ॥ 7.96.10 ॥
तमृषिं पृष्ठतः सीता त्वन्वगच्छदवाङ्मुखी।
कृताञ्जलिर्बाष्पगला कृत्वा रामं मनोगतम् ॥ 7.96.11 ॥
दृष्ट्वा श्रुतिमिवायान्तीं ब्रह्माणमनुगामिनीम्।
वाल्मीकेः पृष्ठतः सीतां साधुवादो महानभूत् ॥ 7.96.12 ॥
ततो हलहलाशब्दः सर्वेषामेवमाबभौ।
दुःखजन्मविशालेन शोकेनाकुलितात्मनाम् ॥ 7.96.13 ॥
साधु रामेति केचित्तु साधु सीतेति चापरे।
उभावेव च तत्रान्ये प्रेक्षकाः सम्प्रचुक्रुशुः ॥ 7.96.14 ॥
ततो मध्ये जनौघस्य प्रविश्य मुनिपुङ्गवः।
सीतासहायो वाल्मीकिरिति होवाच राघवम् ॥ 7.96.15 ॥
इयं दाशरथे सीता सुव्रता धर्मचारिणी।
अपवादैः परित्यक्ता ममाश्रमसमीपतः ॥ 7.96.16 ॥
लोकापवादभीतस्य तव राम महाव्रत।
प्रत्ययं दास्यते सीता तदनुज्ञातुमर्हसि ॥ 7.96.17 ॥
इमौ तु जानकीपुत्रावुभौ च यमजातकौ।
सुतौ तवैव दुर्धर्षौ सत्यमेतद्ब्रवीमि ते ॥ 7.96.18 ॥
प्रचेतसोऽहं दशमः पुत्रो राघवनन्दन।
न स्मराम्यनृतं वाक्यमिमौ तु तव पुत्रकौ ॥ 7.96.19 ॥
बहुवर्षसहस्राणि तपश्चर्या मया कृता।
नोपाश्नीयां फलं तस्या दुष्टेयं यदि मैथिली ॥ 7.96.20 ॥
मनसा कर्मणा वाचा भूतपूर्वं न किल्बिषम्।
तस्याः फलमुपाश्नीयामपापा मैथिली यदि ॥ 7.96.21 ॥
अहं पञ्चसु भूतेषु मनष्षष्ठेषु राघव।
विचिन्त्य सीतां शुद्धेति जग्राह वननिर्झरे ॥ 7.96.22 ॥
इयं शुद्धसमाचारा अपापा पतिदेवता।
लोकापवादभीतस्य प्रत्ययं तव दास्यति ॥ 7.96.23 ॥
तस्मादियं नरवरात्मज शुद्धभावा दिव्येन दृष्टिविषयेण तदा प्रविष्टा।
लोकापवादकलुषीकृतचेतसा या त्यक्ता त्वया प्रियतमा विदिताऽपि शुद्धा ॥ 7.96.24 ॥