रामो बहून्यहान्येवं तद्गीतं परमं शुभम्।
शुश्राव मुनिभिः सार्धं पार्थिवैः सह वानरैः ॥ 7.95.1 ॥
तस्याः परिषदो मध्ये रामो वचनमब्रवीत्।
दूताञ्छुद्धसमाचारानाहूयात्ममनीषया ॥ 7.95.2 ॥
मद्वचो ब्रूत गच्छध्वमितो भगवतोऽन्तिकम् ॥ 7.95.3 ॥
यदि शुद्धसमाचारा यदि वा वीतकल्मषा।
करोत्विहात्मनः शुद्धिमनुमान्य महामुनिम् ॥ 7.95.4 ॥
छन्दं मुनेश्च विज्ञाय सीतायाश्च मनोगतम्।
प्रत्ययं दातुकामायास्ततः शंसत मे लघु ॥ 7.95.5 ॥
श्वः प्रभाते तु शपथं मैथिली जनकात्मजा।
करोतु परिषन्मध्ये शोधनार्थं ममैव च ॥ 7.95.6 ॥
श्रुत्वा तु ऱागवस्यैतद्वचः परममद्भुतम्।
दूताः सम्प्रययुर्बाटं यत्रास्ते मुनिपुङ्गवः ॥ 7.95.7 ॥
ते प्रणम्य महात्मानं ज्वलन्तममितप्रभम्।
ऊचुस्ते रामवाक्यानि मृदूनि मधुराणि च ॥ 7.95.8 ॥
तेषां तद्व्याहृतं श्रुत्वा रामस्य च मनोगतम्।
विज्ञाय सुमहातेजा मुनिर्वाक्यमथाब्रवीत् ॥ 7.95.9 ॥
एवं भवतु भद्रं वो यथा वदति राघवः।
तथा करिष्यते सीता दैवतं हि पतिः स्त्रियाः ॥ 7.95.10 ॥
तथोक्ता मुनिना सर्वे राजदूता महौजसम्।
प्रत्येत्य राघवं क्षिप्रं मुनिवाक्यं बभाषिरे ॥ 7.95.11 ॥
ततः प्रहृष्टः काकुत्स्थः श्रुत्वा वाक्यं महात्मनः।
ऋषींस्तत्र समेतांश्च राज्ञश्चैवाभ्यभाषत ॥ 7.95.12 ॥
भगवन्तः सशिष्या वै सानुगाश्च नराधिपाः।
पश्यन्तु सीताशपथं यश्चैवान्योऽपि काङ्क्षते ॥ 7.95.13 ॥
तस्य तद्वचनं श्रुत्वा राघवस्य महात्मनः।
सर्वेषामृषिमुख्यानां साधुवादो महानभूत् ॥ 7.95.14 ॥
राजानश्च महात्मानः प्रशंसन्ति स्म राघवम्।
उपपन्नं नरश्रेष्ठ त्वय्येव भुवि नान्यतः ॥ 7.95.15 ॥
एवं विनिश्चयं कृत्वा श्वोभूत इति राघवः।
विसर्जयामास तदा सर्वांस्ताञ्छत्रुसूदनः ॥ 7.95.16 ॥
इति सम्प्रविचार्य राजसिंहः श्वोभूते शपथस्य निश्चयं वै।
विससर्ज मुनीन्नृपांश्च सर्वान्स महात्मा महतो महानुभावः ॥ 7.95.17 ॥