०९४ राम-मेलनम्

तौ रजन्यां प्रभातायां स्नातौ हुतहुताशनौ।
यथोक्तमृषिणा पूर्वं सर्वं तत्रोपगायताम् ॥ 7.94.1 ॥
तां स शुश्राव काकुत्स्थः पूर्वाचार्यविजिर्मिताम्।
अपूर्वां पाठ्यजातिं च गेयेन समलङ्कृताम् ॥ 7.94.2 ॥
प्रमाणैर्बहुभिर्बद्धां तन्त्रीलयसमन्विताम्।
बालाभ्यां राघवः श्रुत्वा कौतूहलपरोऽभवत् ॥ 7.94.3 ॥
अथ कर्मान्तरे राजा समाहूय महामुनीन्।
पार्थिवांश्च नरव्याघ्रः पण्डितान्नैगमांस्तथा ॥ 7.94.4 ॥
पौराणिकाञ्छब्दविदो ये च वृद्धा द्विजातयः।
स्वराणां लक्षणज्ञांश्च उत्सुकान्द्विजसत्तमान् ॥ 7.94.5 ॥
लक्षणज्ञांश्च गान्धर्वान्नैगमांश्च विशेषतः।
पादाक्षरसमासज्ञांश्छन्दःसु परिनिष्ठितान् ॥ 7.94.6 ॥
कलामात्राविशेषज्ञाञ्ज्योतिषे च परं गतान्।
क्रियाकल्पविदश्चैव तथा कार्यविदो जनान् ॥ 7.94.7 ॥
भाषाज्ञानिङ्गितज्ञांश्च नैगमांश्चाप्यशेषतः।
हेतूपचारकुशलान् वचने चापि हैतुकान् ॥ 7.94.8 ॥
छन्दोविदः पुराणज्ञान्वैदिकान्द्विजसत्तमान्।
चित्रज्ञान्वृत्तसूत्रज्ञान्गीतनृत्यविशारदान् ॥ 7.94.9 ॥
शास्त्रज्ञान्नीतिनिपुणान्वेदान्तार्थप्रबोधकान्।
एतान्सर्वान्समानीय गातारौ समवेशयत् ॥ 7.94.10 ॥
दृष्ट्वा मुनिगणाः सर्वे पार्थिवाश्च महौजसः।
पिबन्त इव चक्षुर्भ्यां राजानं गायकौ च तौ ॥ 7.94.11 ॥
ऊचुः परस्परं चेदं सर्व एव समन्ततः।
उभौ रामस्य सदृशौ बिम्बाद्बिम्बमिवोत्थितौ ॥ 7.94.12 ॥
जटिलौ यदि न स्यातां न वल्कलधरौ यदि।
विशेषं नाधिगच्छामो गायतो राघवस्य च ॥ 7.94.13 ॥
तेषां संवदतामेवं श्रोतॄणां हर्षवर्धनम्।
गेयं प्रचक्रतुस्तत्र तावुभौ मुनिदारकौ ॥ 7.94.14 ॥
ततः प्रवृत्तं मधुरं गान्धर्वमतिमानुषम्।
न च तृप्तिं ययुः सर्वे श्रोतारो गानसम्पदा ॥ 7.94.15 ॥
प्रवृत्तमादितः पूर्वसर्गं नारददर्शितम्।
ततः प्रभृति सर्गांश्च यावद्विंशत्यगायताम् ॥ 7.94.16 ॥
ततोऽपराह्णसमये राघवः समभाषत।
श्रुत्वा विंशतिसर्गांस्तान्भ्रातरं भ्रातृवत्सलः ॥ 7.94.17 ॥
प्रयच्छ शीघ्रं काकुत्स्थ यदन्यदभिकाङ्क्षितम्।
ददौ शीघ्रं स काकुत्स्थो बालयोर्वै पृथक्पृथक् ॥ 7.94.18 ॥
दीयमानं सुवर्णं तु नागृह्णीतां कुशीलवौ।
ऊचतुश्च महात्मानौ किमनेनेति विस्मितौ ॥ 7.94.19 ॥
वन्येन फलमूलेन निरतौ वनवासिनौ।
सुवर्णेन हिरण्येन किं करिष्यावहे वने ॥ 7.94.20 ॥
तथा तयोः प्रब्रुवतोः कौतूहलसमन्विताः।
श्रोतारश्चैव रामश्च सर्व एव सुविस्मिताः ॥ 7.94.21 ॥
तस्य चैवागमं रामः काव्यस्य श्रोतुमुत्सुकः।
पप्रच्छ तौ महातेजास्तावुभौ मुनिदारकौ ॥ 7.94.22 ॥
किम्प्रमाणमिदं काव्यं का प्रतिष्ठा महात्मनः।
कर्ता काव्यस्य महतः क्व चासौ मुनिपुङ्गवः ॥ 7.94.23 ॥
पृच्छन्तं राघवं वाक्यमूचतुर्मुनिदारकौ ॥ 7.94.24 ॥
वाल्मीकिर्भगवान्कर्ता सम्प्राप्तो यज्ञसंविधम्।
येनेदं चरितं तुभ्यमशेषं सम्प्रदर्शितम् ॥ 7.94.25 ॥
सन्निबद्धं हि श्लोकानां चतुर्विशत्सहस्रकम्।
उपाख्यानशतं चैव भार्गवेण तपस्विना ॥ 7.94.26 ॥
काण्डानि षट् कृतानीह सोत्तराणि महात्मना।
कृतानि गुरुणास्माकमृषिणा चरितं तव ॥ 7.94.27 ॥
प्रतिष्ठाऽऽजीवितं यावत्तावत्सर्वस्य वर्तते ॥ 7.94.28 ॥
यदि बुद्धिः कृता राजञ्छ्रवणाय महारथ।
कर्मान्तरे क्षणीभूतस्तच्छृणुष्व सहानुजः ॥ 7.94.29 ॥
बाढमित्यब्रवीद्रामस्तौ चानुज्ञाप्य राघवम्।
प्रहृष्टौ जग्मतुः स्थानं यत्रास्ते मुनिपुङ्गवः ॥ 7.94.30 ॥
रामोऽपि मुनिभिः सार्धं पार्थिवैश्च महात्मभिः।
श्रुत्वा तद्गीतिमाधुर्यं कर्मशालामुपागमत् ॥ 7.94.31 ॥
शुश्राव तत्ताललयोपपन्नं सर्गान्वितं स स्वरशब्दयुक्तम्।
तन्त्रीलयव्यञ्जनयोगयुक्तं कुशीलवाभ्यां परिगीयमानम् ॥ 7.94.32 ॥