०९३ वाल्मीकि-लव-कुश-प्राप्तिः

वर्तमाने तथाभूते यज्ञे च परमाद्भुते।
सशिष्य आजगामाशु वाल्मीकिर्मुनिपुङ्गवः ॥ 7.93.1 ॥
स दृष्ट्वा दिव्यसङ्काशं यज्ञमद्भुतदर्शनम्।
एकान्ते ऋषिवाटानां चकार उटजाञ्छुभान् ॥ 7.93.2 ॥
शकटांश्च बहून्पूर्णान्फलमूलैश्च शोभनान्।
वाल्मीकिवाटे रुचिरे स्थापयन्नविदूरतः ॥ 7.93.3 ॥
आसीत्सुपूजितो राज्ञा मुनिभिश्च महात्मभिः।
वाल्मीकिः सुमहातेजा न्यवसत्परमात्मवान् ॥ 7.93.4 ॥
स शिष्यावब्रवीद्धृष्टौ युवां गत्वा समाहितौ।
कृत्स्नं रामायणं काव्यं गायेथां परया मुदा ॥ 7.93.5 ॥
ऋषिवाटेषु पुण्येषु ब्राह्मणावसथेषु च।
रथ्यासु राजमार्गेषु पार्थिवानां गृहेषु च ॥ 7.93.6 ॥
रामस्य भवनद्वारि यत्र कर्म च कुर्वते।
ऋत्विजामग्रतश्चैव तत्र गेयं विशेषतः ॥ 7.93.7 ॥
इमानि च फलान्यत्र स्वादूनि विविधानि च।
जातानि पर्वताग्रेषु चास्वाद्यास्वाद्य गायताम् ॥ 7.93.8 ॥
न यास्यथः श्रमं वत्सौ भक्षयित्वा फलानि वै।
मूलानि च सुमृष्टानि नगराद्बहिरास्यथः ॥ 7.93.9 ॥
यदि शब्दापयेद्रामः श्रवणाय महीपतिः।
ऋषीणामुपविष्टानां ततो गेयं प्रवर्तताम् ॥ 7.93.10 ॥
दिवसे विंशतिः सर्गा गेया मधुरया गिरा।
प्रमाणैर्बहुभिस्तत्र यथोद्दिष्टा मया पुरा ॥ 7.93.11 ॥
लोभश्चापि न कर्तव्यः स्वल्पोऽपि धनकाङ्क्षया।
किं धनेनाश्रमस्थानां फलमूलोपजीविना ॥ 7.93.12 ॥
यदि पृच्छेत्स काकुत्स्थो युवां कस्येति दारकौ।
आवां वाल्मीकिशिष्यौ स्वो ब्रूतमेवं नराधिपम् ॥ 7.93.13 ॥
इमास्तन्त्रीः सुमधुराः स्थानं वाऽपूर्वदर्शनम्।
मूर्च्छयित्वा सुमधुरं गायतां विगतज्वरौ ॥ 7.93.14 ॥
आदिप्रभृति गेयं स्यान्न चावज्ञाय पार्थिवम्।
पिता हि सर्वभूतानां राजा भविति धर्मतः ॥ 7.93.15 ॥
तद्युवां हृष्टमनसौ श्वः प्रभाते समास्थितौ।
गायेथां मधुरं गेयं तन्त्रीलयसमन्वितम् ॥ 7.93.16 ॥
इति सन्दिश्य बहुशो मुनिः प्राचेतसस्तदा।
वाल्मीकिः परमोदारस्तूष्णीमासीन्महायशाः ॥ 7.93.17 ॥
सन्दिष्टौ मुनिना तेन तावुभौ मैथिलीसुतौ।
तथैव करवावेति निर्जग्मतुररिन्दमौ ॥ 7.93.18 ॥
तामद्भुतां तौ हृदये कुमारौ निवेश्य वाणीमृषिभाषितां तदा।
समुत्सुकौ तौ सममूषतुर्निशां यथाऽश्विनौ भार्गवनीतिसंहिताम् ॥ 7.93.19 ॥