०९२ आरम्भः

तत्सर्वमखिलेनाशु प्रस्थाप्य भरताग्रजः।
हयं लक्षणसम्पन्नं कृष्णसारं मुमोच ह ॥ 7.92.1 ॥
ऋत्विग्भिर्लक्ष्मणं सार्धमश्वतन्त्रे नियोज्य च।
ततोऽभ्यगच्छत्काकुत्स्थः सह सैन्येन नैमिशम् ॥ 7.92.2 ॥
यज्ञवाटं महाबाहुर्दृष्ट्वा परममद्भुतम्।
प्रबर्षमतुलं लेभे श्रीमानिति वचोऽब्रवीत् ॥ 7.92.3 ॥
नैमिषे वसतस्तस्य सर्व एव नराधिपाः।
आनिन्युरुपहारांश्च तान्रामः प्रत्यपूजयत् ॥ 7.92.4 ॥
उपकार्या महार्हाश्च पार्थिवानां महात्मनाम्।
सानुगानां नरश्रेष्ठो व्यादिदेश महामतिः ॥ 7.92.5 ॥
अन्नपानानि वस्त्राणि सानुगानां महात्मनाम्।
भरतः सन्ददावाशु शत्रुघ्नसहितस्तदा ॥ 7.92.6 ॥
वानराश्च महात्मानः सुग्रीवसहितास्तदा।
विप्राणां प्रणताः सर्वे चक्रिरे परिवेषणम् ॥ 7.92.7 ॥
बिभीषणश्च रक्षोभिर्बहुभिः स्रग्विभिर्वृतः।
ऋषीणामुग्रतपसां पूजां चक्रे महात्मनाम् ॥ 7.92.8 ॥
लक्ष्मणेनागुप्ता च हयचर्या प्रवर्तत।
ईदृशं राजसिंहस्य यज्ञप्रवरमुत्तमम् ॥ 7.92.9 ॥
नान्यः शब्दोऽभवत्तत्र हयमेधे महात्मनः।
छन्दतो देहि विस्रब्धो यावत्तुष्यन्ति याचकाः ॥ 7.92.10 ॥
तावत्सर्वाणि दत्तानि क्रतुमध्ये महात्मनः।
विविधानि च गौडानि खाण्डवानि तथैव च ॥ 7.92.11 ॥
न निस्सृतं भतत्योष्ठाद्वचनं यावदर्थिनाम्।
तावद्वानररक्षोभिर्दत्तमेवाभ्यदृश्यत ॥ 7.92.12 ॥
न कश्चिन्मलिनस्तत्र दीनो वाऽप्यथ कृर्शतः।
तस्मिन्यज्ञवरे राज्ञो हृष्टपुष्टजनावृते ॥ 7.92.13 ॥
ये च तत्र महात्मानो मुनयश्चिरजीविनः।
नास्मरंस्तादृशं यज्ञं नाप्यासीत् स कदाचन ॥ 7.92.14 ॥
यः कृत्यवान्सुवर्णेन सुवर्णं लभते स्म सः।
वित्तार्थी लभते वित्तं रत्नार्थी रत्नमेव च ॥ 7.92.15 ॥
रजतानां सुवर्णानामश्मनामथ वाससाम्।
अनिशं दीयमानानां राशिः समुपदृश्यते ॥ 7.92.16 ॥
न शक्रस्य धनेशस्य यमस्य वरुणस्य वा।
ईदृशो दृष्टपूर्वो न एवमूचुस्तपोधनाः ॥ 7.92.17 ॥
सर्वत्र वानरास्तस्थुः सर्वत्रैव च राक्षसाः।
वासोधनान्नमर्थिभ्यः पूर्णहस्ता ददुर्भृशम् ॥ 7.92.18 ॥
ईदृशो राजसिंहस्य यज्ञः सर्वगुणान्वितः।
संवत्सरमथो साग्रं वर्तते न च हीयते ॥ 7.92.19 ॥