०९१ सिद्धता

एतदाख्याय काकुत्स्थो भ्रातृभ्याममितप्रभः।
लक्ष्मणं पुनरेवाह धर्मयुक्तमिदं वचः ॥ 7.91.1 ॥
वसिष्ठं वामदेवं च जाबालिमथ कश्यपम्।
द्विजांश्च सर्वप्रवरानश्वमेधपुरस्कृतान् ॥ 7.91.2 ॥
एतान्सर्वान्समानीय मन्त्रयित्वा च लक्ष्मण।
हयं लक्षणसम्पन्नं विमोक्ष्यामि समाधिना ॥ 7.91.3 ॥
तद्वाक्यं राघवेणोक्तं श्रुत्वा त्वरितविक्रमः।
द्विजान्सर्वान्समाहूय दर्शयामास राघवम् ॥ 7.91.4 ॥
ते दृष्ट्वा देवसङ्काशं कृतपादाभिवन्दनम्।
राघवं सुदुराधर्षमाशीर्भिः समपूजयन् ॥ 7.91.5 ॥
प्राञ्जलिः स तदा भूत्वा राघवो द्विजसत्तमान्।
आचचक्षेऽश्वमेधस्य ह्यभिप्रायं महायशाः ॥ 7.91.6 ॥
ते तु रामस्य तच्छ्रुत्वा नमस्कृत्वा वृषध्वजम्।
अश्वमेधं द्विजाः सर्वे पूजयन्ति स्म सर्वशः ॥ 7.91.7 ॥
स तेषां द्विजमुख्यानां वाक्यमद्भुतदर्शनम्।
अश्वमेधाश्रितं श्रुत्वा भृशं प्रीतोऽभवत्तदा ॥ 7.91.8 ॥
विज्ञाय कर्म तत्तेषां रामो लक्ष्मणमब्रवीत्।
प्रेषयस्व द्रुतं दूतान् सुग्रीवाय महात्मने ॥ 7.91.9 ॥
यथा महद्भिर्हरिभिर्बहुभिश्च वनौकसाम्।
सार्धमागच्छ भद्रं ते ह्यनुभोक्तुं महोत्सवम् ॥ 7.91.10 ॥
बिभीषणश्च रक्षोभिः कामगैर्बहुभिर्वृतः।
अश्वमेधं महायज्ञमायात्वतुलविक्रमः ॥ 7.91.11 ॥
राजानश्च महाभागा ये मे प्रियचिकीर्षवः।
सानुगाः क्षिप्रमायान्तु यज्ञं द्रष्टुमनुत्तमम् ॥ 7.91.12 ॥
देशान्तरगता ये च द्विजा धर्मसमाहिताः।
आमन्त्रयस्व तान्सर्वानश्वमेधाय लक्ष्मण ॥ 7.91.13 ॥
देशान्तरगताः सर्वे सदाराश्च द्विजातयः।
तथैव तालावचरास्तथैव नटनर्तकाः ॥ 7.91.14 ॥
यज्ञवाटश्च सुमहान्गोमत्या नैमिशे वने।
आज्ञाप्यतां महाबाहो तद्धि पुण्यमनुत्तमम् ॥ 7.91.15 ॥
शान्तयश्च महाबाहो प्रवर्त्यन्तां समन्ततः ॥ 7.91.16 ॥
शतशश्चापि धर्मज्ञाः क्रतुमुख्यमनुत्तमम्।
अनुभूय महायज्ञं नैमिशे रघुनन्दन ॥ 7.91.17 ॥
तुष्टः पुष्टश्च सर्वोऽसौ मानितश्च यथाविधि।
प्रीतिं यास्यति धर्मज्ञ शीघ्रमामन्त्र्यतां जनः ॥ 7.91.18 ॥
शतं वाहसहस्राणां तण्डुलानां वपुष्मताम्।
अयुतं तिलमुद्गानां प्रयात्वग्रे महाबल ॥ 7.91.19 ॥
चणकानां कुलित्थानां माषाणां लवणस्य च।
अतोऽनुरूपं स्नेहं च गन्धं सङ्क्षिप्तमेव च ॥ 7.91.20 ॥
सुवर्णकोट्यो बहुला हिरण्यस्य शतोत्तराः।
अग्रतो भरतः कृत्वा गच्छत्वग्रे समाधिना ॥ 7.91.21 ॥
अन्तरा पण्यवीथ्यश्च सर्वे च नटनर्तकाः।
सूदा नार्यश्च बहवो नित्यं यौवनशालिनः ॥ 7.91.22 ॥
भरतेन तु सार्धं ते यान्तु सैन्यानि चाग्रतः।
नैगमा बलवृद्धाश्च द्विजाश्च सुसमाहिताः ॥ 7.91.23 ॥
कर्मान्तिकान्वर्धकिनः कोशाध्यक्षांश्च नैगमान्।
मम मातॄस्तथा सर्वाः कुमारान्तःपुराणि च ॥ 7.91.24 ॥
काञ्चनीं मम पत्नीं च दीक्षायां ज्ञांश्च कर्मणि।
अग्रतो भरतः कृत्वा गच्छत्वग्रे महायशाः ॥ 7.91.25 ॥
उपकार्या महार्हाश्च पार्थिवानां महौजसाम्।
सानुगानां नरश्रेष्ठो व्यादिदेश महाबलः ॥ 7.91.26 ॥