०९० इलाश्व-मेधः

तथोक्तवति रामे तु तस्य जन्म तदद्भुतम्।
उवाच लक्ष्मणो भूयो भरतश्च महायशाः ॥ 7.90.1 ॥
इला सा सोमपुत्रस्य संवत्सरमथोषिता।
अकरोत्किं नरश्रेष्ठ तत्त्वं शंसितुमर्हसि ॥ 7.90.2 ॥
तयोस्तद्वाक्यमाधुर्यं निशम्य परिपृच्छतोः।
रामः पुनरुवाचेमां प्रजापतिसुते कथाम् ॥ 7.90.3 ॥
पुरुषत्वं गते शूरे बुधः परमबुद्धिमान्।
संवर्तं परमोदारमाजुहाव महायशाः ॥ 7.90.4 ॥
च्यवनं भृगुपुत्रं च मुनिं चारिष्टनेमिनम्।
प्रमोदनं मोदकरं ततो दुर्वाससं मुनिम् ॥ 7.90.5 ॥
एतान्सर्वान्समानीय वाक्यज्ञस्तत्त्वदर्शनः।
उवाच सर्वान्सुहृदो धैर्येण सुसमाहितान् ॥ 7.90.6 ॥
अयं राजा महाबाहुः कर्दमस्य इलः सुतः।
जानीतैनं यथाभूतं श्रेयो ह्यत्र विधीयताम् ॥ 7.90.7 ॥
तेषां संवदतामेव तमाश्रममुपागमत्।
कर्दमस्तु महातेजा द्विजैः सह महात्मभिः ॥ 7.90.8 ॥
पुलस्त्यश्च क्रतुश्चैव वषट्कारस्तथैव च।
ओङ्कारश्च महातेजास्तमाश्रममुपागमत् ॥ 7.90.9 ॥
ते सर्वे हृष्टमनसः परस्परसमागमे।
हितैषिणो बाल्हिपतेः पृथग्वाक्यान्यथाब्रुवन् ॥ 7.90.10 ॥
कर्दमस्त्वब्रवीद्वाक्यं सुतार्थं परमं हितम्।
द्विजाः शृणुत मद्वाक्यं यच्छ्रेयः पार्थिवस्य हि ॥ 7.90.11 ॥
नाश्वमेधात्परो यज्ञः प्रियश्चैव महात्मनः।
तस्माद्यजामहे सर्वे पार्थिवार्थे दुरासदम् ॥ 7.90.12 ॥
कर्दमेनैवमुक्तास्तु सर्व एव द्विजर्षभाः।
रोचयन्ति स्म तं यज्ञं रुद्रस्याराधनं प्रति ॥ 7.90.13 ॥
संवर्तस्य तु राजर्षेः शिष्यः पुरपुरञ्जयः।
मरुत्त इति विख्यातस्तं यज्ञं समुपाहरत् ॥ 7.90.14 ॥
ततो यज्ञो महानासीद्बुधाश्रमसमीपतः।
रुद्रश्च परमं तोषमाजगाम महायशाः ॥ 7.90.15 ॥
अथ यज्ञे समाप्ते तु प्रीतः परमया मुदा।
उमापतिर्द्विजान्सर्वानुवाच इलसन्निधौ ॥ 7.90.16 ॥
प्रीतोऽस्मि हयमेधेन भक्त्या च द्विजसत्तमाः।
अस्य बाह्लिपतेश्चैव किं करोमि प्रियं शुभम् ॥ 7.90.17 ॥
तथा वदति देवेशे द्विजास्ते सुसमाहिताः।
प्रसादयन्ति देवेशं यथा स्यात्पुरुषस्त्विला ॥ 7.90.18 ॥
ततः प्रीतो महादेवः पुरुषत्वं ददौ पुनः।
इलायै सुमहातेजा दत्त्वा चान्तरधीयत ॥ 7.90.19 ॥
निवृत्ते हयमेधे च गतश्चादर्शनं हरः।
यथागतं द्विजाः सर्वे ह्यगच्छन्दीर्घदर्शिनः ॥ 7.90.20 ॥
राजा तु बाह्लिमुत्सृज्य मध्यदेशे ह्यनुत्तमम्।
निवेशयामास पुरं प्रतिष्ठानं यशस्करम् ॥ 7.90.21 ॥
शशबिन्दुश्च राजर्षिर्बाह्लिं पुरपुरञ्जयः।
प्रतिष्ठाने इलो राजा प्रजापतिसुतो बली ॥ 7.90.22 ॥
स काले प्राप्तवाँल्लोकमिलो ब्राह्ममनुत्तमम्।
ऐलः पुरूरवा राजा प्रतिष्ठानमवाप्तवान् ॥ 7.90.23 ॥
ईदृशो ह्यश्वमेधस्य प्रभावः पुरुषर्षभौ।
स्त्रीभूतः पौरुषं लेभे यच्चान्यदपि दुर्लभम् ॥ 7.90.24 ॥